Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

हेतुबिन्दुटीका

Tác giả
अर्चट
Thông tin
GRETIL — Pandit S. Sanghavi and Muni Shri Jinavijayaji. Hetubinduṭīkā of Bhaṭṭa Arcaṭa, with the sub-commentary entitled Āloka of Durveka Miśra. Baroda 1949.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

तुल्यत्वात्, अहेतोश्च विषयत्वायोगात् । अस्माकं त्वभावबुद्ध्यः स्ववासनापरिपाकान्वया निर्विषया एव । अभावस्य च भवितृत्वे कथं प्रर्युदासात् प्रसज्यप्रतिषेधो भिद्येत । असद्रूपस्य विधानेन पर्युदासात् स भिद्यत इति चेत् । न । असद्रूप्स्य भवनविरोधात् । भवतीति हि भूत्या सत्तयाभिसम्बध्यते । तत्र कथं सद्रूपस्य विधानम्? । पर्युदास एवैको नञर्थश्च स्यात्, सर्वत्र विधेः प्राधान्यात् । सो ऽपि वा न भवेत् । यदि हि किञ्चित् कुतश्चित् निवर्त्येत तदा तव्द्यतिरेकि संस्पृश्येत तत्पर्युदासेन । तच्च नास्ति । सर्वत्र निवृत्तिर्भवति इत्युक्ते वस्त्वन्तरस्यैव कस्यचित् विधानात् । तथानेन वस्त्वन्तरमेवोक्तं स्यात्, न तयोर्विवेकः । अविवेके च न पर्युदासः । अप्रस्तुताभिधानं च स्यात् । भावनिवृत्तौ प्रस्तुतायां असदात्मनो वस्त्वन्तरस्यैव विधानात् । न चास्य स्वरूपेणासदात्मकत्वम्, स्वरूपेणाप्यसतः कार्यत्वविरोधात् । पररूपेण तु सर्वमेव वस्त्वसदात्मकमिति नास्य घटादेः कश्चिद् विशेषः । भवतु वायमभावो ऽग्न्यादिभ्यस्तद्भावे किमिति नोपलभ्यन्ते काष्ठादयः? । तथा हि- अग्न्यादीनामन्यक्रियायां चरितार्थत्वादनिवृत्ता एव तेभ्यः (ह्ब्ट् 82) इन्धनादयः प्राग्वदुपलभ्येरन् । तदुपमर्द्देन ध्वंसस्योत्पत्तेः इति चेत्, कथं तदुपमर्द्दः? । न तावत् प्रध्वंसाभावेन, इन्धनसत्ताकाले तस्याभावात् । नाग्न्यादिभिः, ध्वंसाविर्भाव एव तेषां व्यापारोपगमात् । न चोत्पन्नः प्रध्वंसाभाव इन्धनादीन् विहन्ति, यौगपद्यप्रसङ्गात् । ध्वंसेन विनाशने च विकल्पत्रयस्य तदवस्थत्वात् । ततश्चानवस्था । स एव ध्वंस इन्धनादेरग्न्यादिजन्मा निवृत्तिः, अतो

ऽस्यानुपलब्धिरिति चेत् । कथमन्यो ऽन्यस्य निवृत्तिः?, अतिप्रसङ्गात् । यदि चायं हेतुमांस्तद्भेदादात्मभेदं किं नानुभवति? । शालियवाङ्कुरादयो ऽपि कारणभेदादेवात्मभेदमत्यन्तविलक्षणमनुभवन्तो ऽध्यक्षत एवावसीयन्ते । न त्वेवमनपेक्षितभावान्तरसंसर्गः च्युतिमात्रलक्षणो ध्वंसः । तस्याभिघाताग्निसंयोगादिकारणभेदे ऽपि तुच्छरूपतयैकरूपस्य स्वज्ञानात्मन्यवभासनात् । नहि भावशून्यतां विहायापरं तत्र किञ्चिद् रूपमीक्षामहे । विस्तरतश्चैतत् क्षणभङ्गसिद्धौ विचारितमित्यास्तां तावदिह । तस्मादग्न्यादिसंयोगकाले "न तस्य किञ्चिद् भवति न भवत्येव केवल" मित्येवोपगन्तु युक्तम् । यतो नायं कस्यचिद् भावेन नष्टो नाम किन्तु यतः स्वयमस्थिररूपतया भूतस्ततो नष्टो नाम । तेन नास्याभवनम् अन्यद्वा किञ्चिद् भवति । तथा च भवनधर्मणः कस्यचिदभावाद् भावं भवन्तं कुतश्चिन्न करोतीति क्रियाप्रतिषेध एवाग्निसंयोगादेः स्यात् । "एवं च" सति "कर्ता" अग्निसंयोगादिः "न भवति इत्यकर्तुरहेतुत्वमिति" तस्मा "न्न विनाशहेतुः कश्चित् ।"

[14. वैयर्थ्यादपि विनाशे हेत्वयोगः ।]

न केवलमसामर्थ्याद्धिनाशहेत्वयोगः, किन्तु "वैयर्थ्याच्च" तदेवाह- "यदि स्वभावतो नश्वरो" नशनशीलः स्वात्म"न्यनवस्थायी" स्थातुमशक्तो यथा सूच्यग्रे सर्षपः "तस्य न किञ्चिन्नाशकारणैः" । किं कारणम्? । "स्वयं नाशात्" । "तत्स्वभावतयैव" अस्थिरस्वभावतयैव । नहि प्रकृत्यैव स्थातुमशक्ते सूच्यग्रे सर्षपे तदस्थितये प्रयासः फलवान् भवेत् ।

अत्रैव व्याप्तिमादर्शयति- "यो हि" इत्यादि । "न पुनः तद्भावे" तत्स्वभावत्वे जनकात् हेतो "र्हेत्वन्तरमपेक्षते ।" "न हि प्रकाशादयः" इत्यादिना दृष्टान्तविवरणम् । तदात्मताया हेत्वन्तरानपेक्षणेन व्याप्तिं तादात्म्यसाधकेन प्रमाणेन दर्शयति- "तदात्मनो" यो यस्य स्वभावः तत्स्वभावस्य "तादात्म्याभावे" हेत्वन्तरमपेक्षमाणस्य स्वहेतोर्निष्पन्नस्यापि तत्स्वभावत्वाभावे "नैरात्म्यस्य" निःस्वभावतायाः प्रसङ्गात् । "तद्वत्" प्रकाशादिवत् "न पुनः" पश्चात् "तदात्मतायां" अस्थितिधर्मात्मतायां "हेत्वन्तरमपेक्षत" इति प्रमाणफलम् । "अस्थितिधर्मा चेत्" नश्वरस्वभावश्चेत् । "स्वभावतः" स्वहेतुभ्यो "निष्पन्नो" भाव इति पक्षधर्मोपसंहारः । विरुद्ध्व्याप्तोपलब्धिश्चेयम्, हेत्वन्तरापेक्षानपेक्षयोः परस्परपरिहारस्थितलक्षणतया विरोधात्, हेत्वन्तरानपेक्षया च तत्स्वाभावताया व्याप्तत्वात् ।

[15. स्वतो विनश्वरत्वसाधकहेतावनेकान्तदोषोद्धारः ।]

अत्र च परस्प वचनावकाशमशङ्कयाह- "बीजादिवत्" इत्यादि । "स्यादेतत्" इत्यादिना एतदेव विभजते "केवला न जनयन्ति" इति । कुतः? इति चेत्, सलिलक्षित्यादेः स्वहेतुव्यतिरिक्तस्याङ्कुरादिजननस्वभावानामपि बीजादीनां तदात्मतायामपेक्षणात् । ततश्च न पुनस्तद्भावे हेत्वन्तरमपेक्षन्त इत्यनेकान्तः । "तद्वद् भावो ऽपी"न्धनादिः स्वहेतोर्नश्वरात्मा निष्पन्नो ऽपि "विनाशे" विनश्वरात्मतायां स्यादिति दार्ष्टान्तिकम् । "न" बीजादिवदनेकान्तः । कुतः? "तत्स्वभावस्य" अङ्कुरादिजननस्वभावस्य बीजादेरङ्कुरादिजननात्, तदात्मतायां हेत्वन्तरानपेक्षणात् । यश्च क्षित्यादीकमपेक्षमाणो न जनयति कुशूलाद्यवस्थः तस्य "अजनकस्य च अतत्स्वभावत्वात्" अङ्कुरादिजननस्वभावत्वाभावात् । तत्र तदात्मतालक्षणो हेतुः न वर्तत एवेति न तेनानेकान्तः ।

[16. प्रत्यक्षेण बाधात् न प्रत्यभिज्ञया स्थिरैकभावसिद्धिः ।]

ननु प्रत्यभिज्ञाप्रत्यक्षत एव बिजादीरेकस्वभावो लक्ष्यते । तत्र कुतो ऽयं जनस्वभावत्वाजननस्वभावत्वलक्षणो भेदः? यतो (ह्ब्ट् 84) ऽनेकान्तो न स्यात् । न चाप्रमाणं प्रत्यभिज्ञा, "तत्रापूर्वार्थविज्ञानम्" इत्यादिप्रमाणलक्षणयोगात्, सत्सम्प्रयोगेणेन्द्रियाणां भावतश्च प्रत्यक्षमेव प्रत्यभिज्ञानम् । न च प्रत्यक्षाद् गरिष्ठं प्रमाणमस्ति, यतस्तद्विषयस्य भेदसिद्ध्या बाधामनुभवदप्रमाणमेतत् स्यात् इत्याशङ्कयाह- 'अत एवऽ; जनकत्वाजनकत्वादेव विरुद्धधर्माध्यासात् 'तयोरवस्थयोःऽ; जनकाजनकावस्थयोः बीजादेः "वस्तुभेदः" स्वभावभेदो "निश्चेयः"अध्यवसातव्यः । यथा हि शालिबीजं तदङ्कुरजननस्वभावं तद्भावे शाल्यङ्कुरभावदर्शनात् प्रत्यक्षतो ऽवगम्यते, यवबीजं चातज्जननस्वभावम् तद्भावे शाल्यङ्कुरानुपलब्ध्या तद्विविक्तयवबीजग्राहिप्रत्यक्षरूपया प्रतीयते तथात्राप्यवस्थाद्वये शालिबीजस्य तदङ्कुरविविक्ताविविक्तावस्थाग्राहिप्रत्यक्षबलादेव स्वाङ्कुरजनकाजनकस्वभावता किन्न निश्चीयते? । इष्यत एवावस्थयोर्भेदो ऽवस्थावतस्त्वभेद इति चेत् । न । तस्यावस्थारूपविवेकिना रूपान्तरेण प्रत्यक्षे प्रतिभासनप्रसङ्गात् । न हि यदनात्मरूपविवेकेन स्वज्ञाने न प्रतिभासने तस्य प्रत्यक्षता युक्ता । अवस्था तद्वतोः स्वभावभेदाभावात् कथं रूपान्तरेण प्रतिभासनम्? इति चेत् । नन्ववस्थाभ्यो ऽनवाप्तरूपभेदस्यावस्थानामिवात्मनस्तद्भेदे सत्यभेदो न सङ्गच्छते । ततश्चास्यावस्थानामिवात्मभेदमनुभवतः कथमवस्थातृत्वम्? । अवस्थाभेदे ऽप्यभिन्नरूपस्य तथा व्यवस्थानात् कथञ्चिद्भेदस्यापि भावाददोष इति चेत् । यदि यमात्मानं

पुरोधाय 'अयमवस्थाता, अवस्थाश्चेमाःऽ; इति भण्यते तेनावस्थातद्वतोर्भेदस्तदा भेद एवेति 'कथञ्चित्ऽ; इत्यन्धपदमेतत् । ततो ऽस्य प्रत्यक्षतायां अनात्मरूपविवेकिना रूपान्तरेणावभासनप्रसङ्गो न निवर्तते । अथ तेनात्मनाभेदः । अवस्थावद्भेदप्रसङ्गो ऽवस्थातुः, तद्वदवस्थानामभेदस्य वा । तयोरपि कथञ्चिद् भेदाभेदाविति चेत् । तयोस्तर्ह्यवस्थातद्वदात्मनोर्भेदवतोः कथञ्चिदनिमित्तं रूपान्तरमिष्टं स्यात् । (ह्ब्ट् 85) तथा च तस्यापि ताभ्यां कथञ्चिद्भेदः, अन्यथा तदेकस्वभावादत्यन्तमभेदादवस्थातद्वतोः परस्परमत्यन्तं भेदाभेदौ प्रसज्येयाताम् । रूपान्तरस्य कथञ्चिद्भेदे तन्निबन्धनमपरं रूपम्, तथास्यापि तदन्यद् इत्यपरिमितरूपतैवैकैकस्य वस्तुनः समासज्येत । न चापरिमितरूपप्रतिभासि प्रत्यक्षमनुभवामः । अननुभवन्तश्च कथं तत्कल्पनयात्मनैवात्मानं विप्रलभेमहि? । तस्मादवस्थारूपविवेकेनोपलब्धिलक्षणप्राप्तस्यानुपलम्भाद् अपरिमितरूपताप्रसङ्गाच्च कथञ्चिद्भेदाभेदवतो ऽवस्थातुरसत्त्वमेव । ताश्चावस्था जनकाजनकस्वभावभेदवत्यः प्रत्यक्षत एवावगम्यन्त इति तदेकत्वाध्यवसायि प्रत्यभिज्ञानं तब्दाधामनुभवत् कथं प्रमाणं स्यात्?, यतो बीजादिनामङ्कुरादिजननस्वभावानामपि तदात्मतायां हेत्वन्तरापेक्षणात् प्राक्तनस्य हेतोरनैकान्तिकता भवेत् ।

भवतु वावस्थाता कश्चित्, तस्याप्येतदेव भेदं साधयति । तथा हि- "तयोः" जनकाजनकावस्थयोरिति सप्तमीद्विवचनमेतत् तदा भवति । तदयमर्थो- जनकावस्थायामजनकावस्थायां च "वस्तुनः" धर्मिलक्षणस्य "भेदः" स्वभावनानात्वम् "अत एव" जनकाजनकस्वभावत्वादेव प्रत्यक्षावसितात् "निश्चेयः" निश्चयलक्षणस्तत्र व्यवहारः कर्तव्यः, विषयस्य विरुद्धधर्माध्यालसक्षणस्य दर्शनादिति ।

न च शाक्यते वक्तुम्- अवस्था एवाङ्कुरादिजननस्वभावा नावस्थाता इति । तस्य सर्वसामर्थ्यविरहलक्षणस्यासत्त्वप्रसङ्गात् । ततो यद् एकरूपतया प्रत्यभिज्ञानं भावेषु तत् पूर्वोत्तरकालयोर्जनकाजनकस्वभावभेदव्यवस्थापकप्रत्यक्षनिबन्धनामनुभवद्वाधां कथमिव प्रमाणं स्यात्? । तत्प्रतिभासिनश्चाभिन्नरूपस्यालीकत्वे ऽक्षसमुद्भवामपि वृत्तिमनुभवतो ऽस्य सत्सम्प्रयोगजत्वाभावात् तैमिरिकादिधियामिव कुतः प्रत्यक्षता? । न चार्थक्रियानिबन्धनं (ह्ब्ट् 86) रूपमपास्य बीजादेरपरः परमार्थतः स्वभावो ऽस्ति, यस्याधिगमात् प्रत्यभिज्ञानं प्रमाणं भवेत्, अर्थक्रियासामर्थ्यलक्षणत्वात् परमार्थसतः । तस्मात् सदृशापरभावनिबन्धन एवायं केशकदलीस्तम्बादिष्विवाकारसाम्यतामात्रापहृतहृदयानां भ्रान्त एव तत्त्वाध्यवसायो मन्तव्यः । ततः सतो ऽपि प्रतिक्षणं भेदस्यानुपलक्षणं बालानाम् । यदा तु विधुरप्रत्ययोपनिपाताद् विसदृशापरभावप्रसवः तदास्य तत्त्वाध्यवसायी प्रत्यभिज्ञाप्रत्ययो न भूतिमवलम्बते । न च तदेकाकारपरामर्शप्रत्ययजनकत्वादपरं सादृश्यम् । भेदाविशेषे ऽपि च स्वहेतुबलायातप्रकृतिवशात् केचिदेवैकाकारपरामर्शप्रत्ययलक्षणामर्थज्ञानादिलक्षणां वार्थक्रियां कुर्वन्ति नापर इति विपञ्चितं प्रमाणवार्तिक एव शास्त्रकृतेति नेह प्रपञ्च्यते ।

[17. अनुमानेनापि प्रत्यभिज्ञाया बाधात् न ततः स्थिरभावसिद्धिः ।]

अवश्यं च बीजादेर्जनकाजनकावस्थयोर्वस्तुभेदो यथोक्तो ऽवगन्तव्य इति दर्शयितुमनमानमभेदस्य बाधकमाह- "भावानां" बीजादीनां स्वकार्यजनको यः "स्वभावः" तस्य तेषु सत्सु "अन्यथात्वाभावात्" कदाचिदजनकत्वासम्भवात् "तत्स्वभावस्य" अङ्कुरादिजनकस्वभावस्य "पश्चादिव" सलिलादिकारणसन्निधान इव "प्रागपि" कुशूलाद्यवस्थितिकाले ऽपि स्वकार्य "जननप्रसङ्गात्" । तथा हि- सलिलादिसन्निधाने ऽपि बीजादिः स्वरूपेणैव कार्यं करोति, न पररूपेण । यश्चास्य तदाकार्यजनकः स्वभावः, स चेत् प्रागप्यस्ति, 'स एवायम्ऽ; इति प्रत्यभिज्ञायां पुरो ऽवस्थायिनो जनकस्वभावस्य प्राच्यरूपाभेदाध्यवसायात्, ततः किमिति प्रागपि तत्कार्यं न कुर्यादिति? । प्रयोगः- यद् यदा यज्जननस्वभावं तत् तदा तज्जनयत्येव । अजनकस्य जनकत्वस्वभावविरोधात् । अन्यस्यापि वा तत्स्वभावतापत्तेः । यथा- तदेव बीजादिकं सलिलादिसन्निधिकाले । कुशूलाद्यवस्थास्वपि चेदं बीजादिकं स्वकार्यजननस्वभावमेव (ह्ब्ट् 87) प्रत्यभिज्ञया व्यवस्थाप्यत इति स्वभावहेतुप्रसङ्गः । न च जनयति । तस्मान्न तज्जननस्वभावमिति । विपर्ययप्रयोगः- यद् यदा यज्जननस्वभावं निर्वर्त्यं कार्यं न जनयति न तत् तदा तज्जननस्वभावम्, तद्यथा- शाल्यङ्कुरजननस्वभावनिर्वर्त्यं कार्यमजनयत् कोद्रवबीजम् । न जनयति च सलिलादिकारणसन्निधेः प्राक् तत्कार्यजननस्वभावनिर्वर्त्यं स्वकार्यं बीजादिकमिति व्यापकानुपलब्धिः । ततो ऽनुमानतो ऽपि बाधामनुभवत् प्रत्यभिज्ञानं कथं प्रमाणं स्यात्? ।

ननु चानेन बाध्यमानस्यानुमानस्याप्रामाण्यात् कथं बाधकत्वम्? । अनिश्चितप्रमाणभावेन कुतो बाधा? । नापि इतरेतराश्रयत्वम् । नहि प्रत्यभिज्ञानस्याप्रामाण्यादेतदनुमानं प्रमाणम्, किन्तु स्वसाध्यप्रतिबन्धात् । स च विपर्यये बाधकप्रमाणबलान्निश्चित इति ।

[18. प्रत्यक्षस्यानुमानात् गरीयस्त्वनिरासः ।]

न प्रत्यक्षादन्यद् गरिष्ठं प्रमाणमिति चेत् । न । प्रत्यभिज्ञायाः प्रत्यक्षत्वासिद्धेः । न हीयमनुमानेन प्रत्यक्षात्मिका सती बाध्यत इति ब्रूमहे । किं कृतं च प्रत्यक्षस्य गरीयस्त्वम्? । तद्वयर्थस्यासम्भवे ऽभावात् प्रमाणमुच्यते तच्चानुमानस्याप्यर्थप्रतिबद्धलिङ्गजन्यतया समानमिति नास्य कश्चिद्विशेषः । यदि चानुमानविरोधमश्नुवानापि प्रत्यभिज्ञा प्रमाणं तदाकारस्य साम्यात् तदेकतां प्रतियती नीलेतरकुसुमादेः [प्रतीतिः] किं न प्रमाणम्? । नहि कुसुमफलादिकार्यदर्शनोन्नीयमानो भेदः प्रत्यक्षतस्तथाभावमनुभवति । विस्तरतश्च प्रत्यभिज्ञाप्रामाण्यनिरासः क्षणभङ्गसिद्धावेव विहित इत्यास्तां तावदिह ।

"यतः एवम्" उक्तेन प्रकारेण जनकाजनकावस्थयोः बीजादेर्वस्तुभेदः "तस्माद् यो ऽन्त्यो ऽवस्थाविशेषो" यदनन्तरं अङ्कुरादिकार्यप्रसवः (ह्ब्ट् 88) "स एवाङ्कुरजननस्वभावः", कार्यदर्शनोन्नीयमानरूपत्वात् तज्जननस्वभावतायाः ।

यदि तर्हि स एवाङ्कुरजननस्वभावः, पूर्वभाविनामवस्थाभेदानामतज्जननस्वभावत्वात् कथं तेषु तत्कारणव्यपदेशः? अङ्कुरार्थिभिर्वा तदुपादानम्? इत्यत आह- 'पूर्वभाविनस्तुऽ; कुशूलाद्यवस्थितिकालभाविनस्तु "अवस्थाविशेषा अङ्कुकारणस्या"न्त्यस्यावस्थाविशेषस्य "कारणानि" प्रत्ययान्तरोपधीयमानविशेषेभ्यः परम्परया "तेभ्यस्तदुत्पत्तेः" । अतस्तेषूपचारतः कारणव्यपदेशो ऽङ्कुरार्थिभिश्चोपादानम् । यतस्तत्स्वभावस्य बीजादेर्जननं न हेत्वन्तरापेक्षम्, यज्जानकमपेक्षते न तस्य तज्जनस्वभावत्वम् इति । "तस्मान्नानेकान्तो" बीजादिवत् 'तत्स्वभावत्वात्ऽ; इत्यस्य हेतोः इत्युपसंहारः ।

तदेवं यदा तावत् प्रत्यभिज्ञानं प्रत्यक्षप्रमाणतया स्थैर्यसिद्धये परैरूच्यते बीजादिवदनेकान्तं प्रतिपादयितुम्, तदा तस्योक्तेन प्रकारेण प्रत्यक्षानुमानाभ्यां बाध्यमानत्वात् तदात्मता नास्तीति कुतस्तत एकता भावानाम्?, यतो ऽनेकान्तः स्यादिति प्रतिपादितम् । यदा तु प्रत्यभिज्ञायमानत्वात् पूर्वापरकालयोरेकस्वभावा बीजादय इति हेतुतयोच्यते परैः, तदायमसिद्धो हेतुः । न च स पक्षे क्वचिद् वर्तत इत्याह- "क्षणिकेषु भावेषु" अस्माभिरिष्यमाणेषु "ऐक्याभावा"दिति सम्बन्धः ।

[19. तत्स्वभावत्वात् इत्यत्र पुनरपि अनेकान्तदोषोद्वारः ।]

अथ यस्यापि क्षणिका भावास्तस्यापि बीजादीनां प्रतिक्षणमैक्याभावे ऽपि विशेषानुपलक्षणादन्त्यक्षणवत् सर्वेषां जनकस्वभावानामपि तद्भावं प्रति सलिलाद्यपेक्षत्वात् तदवस्थमनैकान्तिकत्वम् इत्याशङ्कयाह- "अपरापरोत्पत्तेः" क्षणिकैरपि नानेकान्तः, अपरेभ्यो ऽपरेभ्यश्च प्रत्ययेभ्यः प्रतिक्षणमुत्पत्तेः क्षणिकानां भिन्नशक्तित्वादन्त्यक्षणवज्जनकस्वभावताविरहात् कुतस्तैरप्यनेकान्तः स्यात्? । न हि कारणभेदोपधीयमानजन्मनां विशेषानुपलक्षणे ऽप्यभिन्नस्वभावता युक्ता, हेतु (ह्ब्ट् 89) भेदाननुविधाने ऽहेतुकताप्रसङ्गात् । तथा च वक्ष्यति- 'अपरापरप्रत्यययोगेन प्रतिक्षणं भिन्नशक्तयः सन्तन्वन्तः संस्कारा यद्यपि कुतश्चित् साम्यात् समानरूपाः प्रतीयन्ते तथापि भिन्न एव एषां स्वभावः, तेन किञ्चिदेव कस्यचित् कारणम्ऽ; इति ।

यदुक्तं 'तत्स्वभावस्य जननात्ऽ; इत्यस्यानेकान्तमुद्भावयन्नाह परः- "ते" बीजक्षित्यादयः "अन्त्याः" अन्ते भवाः प्रत्येकमङ्कुरजनने 'समर्थाःऽ; खण्डशः कारणेभ्यः कार्योत्पादाभावाद् भवद्भिरिष्यन्त इति "किन्न जनयन्ति प्रत्येकम्"? । ततश्चैषामेक एव कश्चिदङ्कुरं जनयति, तदन्ये तु तत्स्वभावा अपि न जनयन्तीति 'तत्स्वभावस्य जननात्ऽ; इत्यनेकान्तः । तद्वत् कुशूलाद्यवस्था अपि बीजादयो ऽङ्कुरादिजननस्वभावा अपि न जानयिष्यन्तीति तैरनेकान्तः तदवस्थ एवेति मन्यते परः ।

अत्राह- "इति" यदेवं त्वं मन्यसे । परेण सामान्येनाभिधानात् सामान्येनैवोत्तरमाह- "जनयन्त्येव" "नात्र" स्वकार्यजनने "अन्यथाभावः" अजनकत्वमाशङ्कनीयम् । कुतः? "स्वभावस्यावैपरीत्यात्" । यै हि न जनयेयुर्जननस्वभावा एव न स्युः । तत्स्वभावाश्चेष्यन्त इत्यवश्यं जनयन्ति, तथा च कुतो ऽनैकान्तः? इति भावः ।

[20. एकेकैव समर्थेन कार्यजनने परेषामनुपयोगमाशङ्कय तदुद्धारः ।]

प्रत्येकमन्त्यानां जनकत्वे कार्यस्यैकेन जननादपरेषामुपयोगस्य निर्विषयत्वादजननमेवेति मन्यमान आह परः- "तेषु" अन्त्येषु "सहकारिषु" सह- युगपत् करणशीलेषु "समर्थस्वभावेषु" तत्कार्यक्रियायोग्येषु अभ्युपगम्यमानेषु सत्सु "कार्यस्यैकेनैव जनितत्वात् को ऽपरस्योपयोगः?" नैव कश्चित् । तत् किमुच्यते 'जनयन्त्येवऽ; इति? । एतत् परिहरति- 'न वैऽ; नैव "भावानां" बीजादीनां काचित् "प्रेक्षापूर्वकारिता" बुद्धिपूर्वकारिता, "यतः" प्रेक्षापूर्वकारित्वात् 'अयमस्मास्वन्यतम एको ऽपि समर्थः कार्यजनने, किमत्रास्माभिः कर्तव्यम्?ऽ; इत्यालोच्य "अपरे निवर्तेरन्" औदासीन्यं (ह्ब्ट् 90) भजमानास्तत्कार्यजनने न व्याप्रियेरन् । यस्मात् "ते" बीजादयो भावाः "निरभिप्रायव्यापाराः" पर्यालोचनाशून्यव्यापारा एकत उत्पद्यमाने "कार्ये सर्व एव व्याप्रियन्ते" । भवनधर्मणि च कार्ये तेषां प्राग्भाव एव व्यापारः । तदन्यस्यायोगात् । यदि हि व्यापृतादन्य एव व्यापारः तदा तत एव कार्योत्पादाद् व्यापारवतः कारकत्वमेव हीयते ।

तस्यासौ व्यापारः ततस्तस्य कारकत्वम् इति चेत् । नन्वेवं व्यापारोपयोगस्य कार्यानुपयोगिनि तत्रोपचारात् पारमार्थिकमस्य कारकत्वं हीयेत । कश्चास्य व्यापारेण सम्बन्धः? । समवायश्चेत् । न । तस्य प्रागेव निरस्तत्वात् । समवायाच्च व्यापारवत्त्वे अन्यस्यापि तत्कार्यानुपयोगिनस्तद्भावप्रसङ्गः, समवायस्येहेति बुद्धिहेतोरेकत्वेन सर्वत्र समानत्वात् । अभिमतेनैव व्यापृतेन तब्द्यापारोत्पादनात् नातिप्रसङ्गः इति चेत् । ननु तेन तदुत्पादनं तत्र समवायोदेवोच्यते । स च सर्वत्र समानः । येन च परिश्रमेण व्यापारं जनयति तेन कार्यमेव किन्नोत्पादयति? येन व्यवधानमाश्रीयते । यथा च स्वसन्निधिमात्रेनैवायं व्यापारं जनयति न व्यापारान्तरेण, अनवस्थाप्रसङ्गात्, तथा तत एव कार्यमपीत्युक्तप्रायम् ।

तस्माद् भाविनि कार्ये प्राग्भाव एव कारणस्य व्यापारः । स च सर्वेषामस्तीति सर्व एव कार्योत्पत्तौ व्याप्रियन्त इति व्यपदिश्यन्ते ।

"तदपि कार्यं सर्वेभ्य एव जायते" सर्वेषां भाव एव तद्भावात् । न हि कार्यस्य कारणाभिमतभाव एव भावमन्तरेणापरं जन्म । तथाभावे हि तत्रैव कारणव्यापारात् कार्यक्रियैवैषां न सम्भवेत् । ततश्च सत्स्वपि कारणेषु कथमस्य भाव उपलब्धिर्वा स्यात्? । तत्सम्बन्धिनो जन्मनः करणात् इति चेत् । न । असता (ह्ब्ट् 91) तेन सम्बन्धायोगात् । स्वत एव सत्त्वे वा जन्मार्थानुपपत्तेः । जन्मकाले चोपलभ्यस्यात्मनः प्रागपि भावात् तथोपलब्धिप्रसङ्गः, रूपान्तरेण भावे नतस्य भावः स्यात् । रूपभेदलक्षणत्वाद् भावभेदस्य । तस्मादुपलभ्यात्मनो जन्मनः प्रागनुपलम्भादसत्त्वम् । ततो ऽस्य जन्मसम्बन्धिता कुतः? । तस्मात् कार्यमेवाभूत्वा हेतुभावे भवतीति भाव एवास्य ततो जन्मेति सर्वेभ्यस्तत् जायते ।

नन्वेकस्यापि तज्जनने सामर्थ्यात् अपरेषां तत्र सन्निधिलक्षणो व्यापारो व्यर्थ एवेति न तत्रपरेषां भावः सङ्गच्छत इति चेदाह- "स्वहेतोः" क्षितिबीजसलिलादिसामग्रीलक्षणस्य "परिणामः" कार्योत्पादानुगुणविशेषवतः प्रतिक्षणमुपधीयमानातिशयस्य क्षणान्तरस्य प्रसवः, ततः "उपनिधिः" कार्यदेशे सन्निधानं "धर्मो" येषां ते "तथाभवन्तः" कार्यदेशे सन्निधीयमानाः "नोपालम्भमर्हन्ति"- 'एकस्याप्येतत्कार्यकरणे समर्थत्वात् किमत्र भवन्तः सन्निहिताः?ऽ; इति न पर्यनुयोगमर्हन्ति । न हि तदपरसन्निधिमन्तरेण तत्रैकस्यापि भाव उपपद्यते । कुतः? "तत्प्रकृतेः" तत्प्रकृतित्वात् इति भावप्रधानो निर्द्देशः । क्षितिबीजसलिलादिसामग्रीपरिणामजन्यस्वभावत्वादेकैकस्य समर्थस्य तदभावे कुतः केवलस्य सम्भवः?, सामग्रीशब्दवाच्यैः कारणभेदैः समर्थस्वस्वलक्षणान्तरारम्भात् । ततश्च प्रतिक्षणमुपधीयमानातिशयस्योत्पादात् केवलानां च तज्जननस्वभाववैकल्यात् तदपरप्रत्यययोगजन्यस्वभावत्वात् समर्थजनकस्य हेतोः । एतच्च यथावसरं तत्र तत्र व्यक्तीकरिष्यति । तस्माद् यत्सामग्रीजन्यस्वभावो यो भावः स तत्रैकाभावे ऽपि कारणवैकल्यान्न सम्भवतीत्येकसामग्रीजन्मनां सहभावो नियतः । सर्वेषां तेषां भाव एव कार्यस्य भावात् सर्व एव जनयन्तीति 'तत्स्वभावस्य जननात्ऽ; इत्यत्र नानेकान्तः इति ।

येनाभिप्रायेण 'ते ऽन्त्याः समर्थाः किन्न जनयन्तिऽ; इत्युक्तं तं प्रकटयन्नाह- "समर्थाः" इत्यादि । सिद्धान्तवाद्यपि 'जनयन्त्येवऽ; इति यदभिप्रायवतोक्तं तमादर्शयति- "न, तत्रैव" इत्यादि । एतदेव व्याचष्टे- "तस्यैव" इत्यादि । अयमभिप्रायः- 'इदमत्र समर्थम्, इदमसमर्थम्ऽ; इति प्रत्यक्षानुपलम्भसाधनाभ्यामन्वयव्यतिरेकाभ्यां व्यवह्रियते, अन्यनिमित्ताभावात् । तौ चान्वयव्यतिरेकावेकत्रैव कार्ये दृश्येते नापरापरत्रेति तस्यैवैकस्य जनने समर्था गम्यन्त इति नापरपरजननम् । ते तु यदवस्था जनयन्तो दृश्यन्ते- किं तज्जननस्वभावास्तदैव? आहोस्वित् प्रागपि? इत्यत्र विवादः । तत्र प्रागपि तत्स्वभावत्वे पश्चादिव प्रागपि जनप्रसङ्ग इति प्रतिक्षणं भेद उच्यत इति ।

[21. कारणभेदात् कार्यभेदं स्वीकुर्वद्भिः क्षपणकजैमिनीयैरनेकान्तस्योद्भावनम् ।] पुनरन्यथा क्षपणकजैमिनीया अनेकान्तमुद्भावयन्त आहुः- "भिन्नः" परस्परव्यावृत्तः "स्वभावो" येषां तेभ्यश्चक्षुरादिभ्यः "सहकारिभ्यः" युगपत्कर्तृभ्यः "एकस्य" विज्ञानलक्षणस्य "कार्यस्योत्पत्तौ" सत्याम्, बहूनि भिन्नस्वभावानि कारणानि कार्यं त्वेकमभिन्नस्वभावमिति "न कारणभेदात् कार्यभेदः स्यात्" । ततश्चक्षुरादयो न भिन्नेनात्मनैकस्य कार्यस्य जनका एष्टव्याः । किन्त्वभिन्नमेषामेककार्यजनकं सामान्यभूतं रूपमुपेयं येनाभिन्नं कार्यं जनयन्ति । तच्च समग्रावस्थायामेव तत्कार्यं जनयति न व्यग्रावस्थायाम् । न चैकैकाभावे तस्याभावः, सामान्यात्मनः कदाचिदभावविरोधात् । न च तदास्याजनकस्वभावता, जनकाजनकरूपवतः समग्रेतरावस्थयोर्भेदप्रसङ्गात् । तथा च सामान्यात्मना हानिः । ततो यदस्य समग्रेषु चक्षुरादिषु जनकं रूपं तदेकैकाभावे ऽपि विद्यते न च जनयतीति 'तत्स्वभावस्य जननात्ऽ; इत्यनेकान्त इति ।

[22. सिद्धान्तवादीना दूषणोद्वारः ।]

सिद्धान्तवाद्याह- "न, यथास्वम्" इत्यादि । एवं मन्यते- किं पुनरिदं कारणमभिमतं भवतः? । यदि प्रत्येकं चक्षुरादिकम्; (ह्ब्ट् 93) तदयुक्तम् । सामग्रीजन्यस्वभावत्वात् कार्यस्य, तस्या एव कारणत्वात् । ननु तदवस्थायां प्रत्येकमेव सामग्रीशब्दवाच्यानां जननस्वभावत्वाभ्युपगमात् प्रत्येकमेव चक्षुरादिकं कारणम् । यद्येवं को ऽयं नियमो यदनेकस्माद् भवतानेकेन भवितव्यम् विपर्यये बाधकप्रमाणाभावात्, एकेनैव तत् कार्यं कर्तव्यमिति च न नियमकारणमुत्पश्यामः । एकं च तत्कार्यं करोतीति कुतो ऽवसितम्? । तद्भावे भावात् इति चेत् । अनेकत्रापि समानमेतत् । तदुक्तम्- "तस्यैवेइकस्य जनने समर्थाः नान्यस्य इति नापरापरजननम्" इति । न चानेकस्माद् भवदनेकं प्राप्नोति । यतो नास्माकं भवतामिव कारणमेव कार्यात्मतामुपैति, यतो ऽनेकपरिणतेरनेकरूपत्वात् कार्यस्यानेकता स्यात् । किन्तु अपूर्वमेव केषुचित् सत्सु भवति । तच्चानेकभाव एव भावात् तत्कार्यमुच्यते तस्य कुतो ऽनेकताप्रसङ्गः? । यत्त्वभिन्नं रूपं जनकमुच्यते तस्यैकस्थितावपि भावात् तत्कार्यजननस्वभावाच्च ततः कार्यप्रसवप्रसङ्गः, तदन्यसन्निधौ तस्य विशेषाभावात् तदापि वान जनयेत् । तस्माद् येषुं भावाभाववत्सु कार्यं भावाभाववद् दृष्टं त एव विशेषा जनका इति कुतो ऽनेकान्तः? ।

अथ सामग्रीं कारणमाश्रित्योच्यते 'न कारणभेदात् कार्यभेदः स्यादितिऽ, "तन्न", "यथास्वं" यस्याः सामग्र्याःय आत्मीयः स्वभावस्तद्भेदेन "तद्विशेषोपयोगतः" तस्य- विज्ञानलक्षणस्य कार्यस्य, विशेषाः- सामग्रीभेदाद् भिन्नाः स्वभावाः, तेषूपयोगतः तदुपयोगैः भिन्नसामग्रीव्यापारैः कार्याः ये स्वभावविशेषाः- कार्याणांविशिष्टाः स्वभावाः तेषामसङ्करात्परस्परव्यावृत्तरूपत्वात् । सामग्रीभेदाद् भिन्नरूपतैव कार्याणामिति कथन्न कारणभेदाद् कार्यभेदः स्यात्? । तथा हि- एका सामग्री मनस्कारतत्साग्दुण्यादिलक्षणा, ततो विकल्पविज्ञानमात्रं जायते; अपरा मनस्कारेन्द्रियमात्रलक्षणा, ततो भ्रान्तेन्द्रियविज्ञानसम्भवः; तदन्या विषयेन्द्रियमनस्कारात्मिका, ततो ऽप्यभ्रान्तविज्ञानसम्भूतिरिति भिन्नसामग्रीजन्मनां कार्यस्वभावविशेषाणामसाङ्कर्यादस्त्येव (ह्ब्ट् 94) सामग्रीलक्षणकारणभेदात् कार्याणां भेद इति । ननु यदा विषयेन्द्रियमनस्कारेभ्यो विज्ञानसम्भवः तदा तेषामुपयोगविषयस्यैकत्वात् कथमसाङ्कर्यम्? । तथाविधस्य साङ्कर्यस्येष्टत्वात् अदोषः । तदुक्तम्- "तत्रैवैकत्र सामर्थ्यात्" इत्यादि ।

कथं तर्हि तेषां तज्जनकत्वम्?, यदि तद्भेदात् न भिद्यते कार्यम् । किं नु वै समग्राणामन्यान्यकार्यजननेन जनकत्वम् यतस्तदभावे तन्न स्यात् । जनकत्वं ह्येषां तद्भाव एव कस्यचिद् भावात् । तत्रैकस्यानेकस्य वा भावे तेषामेकानेकजनकत्वमुच्यते ।

[23. एकसामग्रीजन्येष्वपि कार्येषु भेदोपपादनम् ।]

नन्वेकस्याः सामग्र्या अनेकस्य भावे सामग्र्यन्तरजन्येभ्यो भवतु भेदः, परस्परतस्तु कथम्? । तदतद्रूपहेतुजत्वाद्धि भावास्तदतद्रूपिण इष्यन्ते । तत्र यदा चक्षूरूपमनस्कारेभ्यो विज्ञानजन्म तदा चक्षूरूपक्षणयोरपि भावाद् विज्ञानेनाभिन्नहेतुजत्वात् तयोर्विज्ञानात्मता, विज्ञानस्य वा तद्रूपता कथं न प्रसज्येत? । आह च-

"तदतद्रूपिणो भावास्तदद्रूपहेतुजाः । तद्रूपादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥" इति ।

नैष दोषः । तेषां यथास्वं स्वभावभेदेन निमित्तोपादानतया तदुपयोगात् । मनस्कारो हि विज्ञानस्योपादानकारणम् । चक्षुषस्तु स्वविज्ञानजननयोग्यस्य जनमनि सहकारिकारणम् । एवमितरत्रापि यथायोगम्वाच्यम् । ततो ऽन्यादशी सामग्री चक्षुःक्षणस्य जनिका, अन्यादशी च विज्ञानादेरिति तद्वैलक्षण्यादेव कार्याणां वैलक्षण्यम् ।

स्यादेतत्- सर्वेषामन्वयव्यतिरेकावनुविधीयेते तदा चक्षुरादिक्षणैरिति कुतो ऽयं भेदः- इहोपादानभावे भेद(भावेनेद)मुपयुज्यते, अन्यत्र तु सहकारिभावेनेति? । बोधरूपतादेरनुकाराननुकाराभ्यां (ह्ब्ट् 95) तद्भावे व्यभिचाराव्यभिचारतश्च । तथा हि- विज्ञानं मनस्कारस्य बोधरूपतामनुकरोति, न चक्षुरादेर्जरा(डा)दिभावम् । एवमन्यदपि प्रत्येयम् । नियमेन च विज्ञानमात्रभावे समनन्तरप्रत्ययस्य व्यापारो न चक्षुरादेः । चक्षुःक्षणान्तरोदये च पूर्वभाविनश्चक्षुषो न स्वविज्ञानयोग्यताहेतोः समनन्तरप्रत्ययस्य । एवं रूपस्यापि वाच्यम् । तस्मादवस्थाभेदे ऽपि यद् एकाकारपरामर्ष(र्श)प्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यप्रसूतिनिमित्तं तद् उपादानकारणं यत् सन्तानान्तरे प्रागवस्थापेक्षविशेषोदयनिबन्धनं तत् सहकारिकारणम् । सा चेयं भावानां स्वहेतुपरम्परयाता प्रकृतिर्यया किञ्चित् कार्यं स्वसन्तानव्यवस्थानिबन्धनं जनयन्त्यपरं च सन्तानान्तरव्यपदेशनिबन्धनमिति तस्या एव सामग्र्या अवान्तरविशेषकृतत्वाच्चक्षूरूपविज्ञानक्षणानां परस्परतो वैलक्षण्यं न विरुध्यते ।

[24. कारणानेकत्वे ऽपि कार्यस्यैकत्वं सामग्रीभेदे च कार्यभेदः ।]

तस्माद् यदि 'कारणभेदात्ऽ; कारणानेकत्वात् "कार्यस्य भेदः" अनेकत्वं तदा प्रतिबन्धाभावादनेकान्तः । न च तदभ्युपगम्यत इति न काचित् क्षतिः ।

अथ सामग्रीलक्षणस्य कारणस्य भेदः सामग्र्यन्तराद् वैलक्षण्यं कार्यस्यापि भेदो ऽतत्कारणेभ्यो भिन्नस्वभावतोच्यते । तदा तस्येह भावात् कथं न कारणभेदात् कार्यभेदः स्यात्? इति अभिप्रायवता 'नऽ; कारणभेदात् कार्यभेदो न स्यात् । कुतः? । "यथास्वम्" इत्याद्यभिहितम् ।

उभयं चैतत् कार्येषु प्रमाणपरिदृष्टमिति दर्शयन्नाह- "यथा" इत्यादि । मृत्पिण्डादिभ्यो हि भवतो घटस्य न कारणानेकत्वे ऽप्यनेकरूपता । नापि सामग्र्यन्तरजन्यादभिन्नस्वभावतेत्युदाहरणार्थः । तत्र सामग्र्यन्तरजन्यात् तावद् भेदं दर्शयति- "मृत्पिण्डात्" इत्यादि । इह मृत्पिण्डकुलालसूत्राणि (ह्ब्ट् 96) व्यग्रस्वभावानि कारणान्तरसहितानि इष्टकादिलक्षणानि तदन्यजन्येभ्यो ऽभिन्नस्वभावानि यानि कार्याणि साधयन्ति तेभ्यो विलक्षणमेव समग्राणि घटात्मकं कार्यं जनयन्ति । तथा हि- कुलालादिनिरपेक्षो मृत्पिण्डः तदन्यजन्याद् वृक्षादेर्विलक्षणमेवोपादानभावेन मृदात्मकं कार्यं जनयन् दृष्टः । कुलालादिसहितो ऽपि तदात्मकमेव घटम् । तक्तारणाहितविशेषश्च केवलमृत्पिण्डाद् भिन्नस्वभावतया तक्तार्यादपीष्टकादेर्विलक्षणमेव करोति । एवं कुलालादिकमपि तदन्योपादानसहितं सहकारिभावेन यत्कार्यं करोति तद्विलक्षणमेव मृत्पिण्डसहितं तत्कारणाहितविशेषं घटात्मकं कार्यं जनयतीति समुदायार्थः । तत्र मृत्पिण्डाद् भिन्नः स्वभावो घटस्य ये तदन्योपदानकारणतया मृत्स्वभावा न भवन्ति वृक्षादयस्तेभ्यो भवति । "कुलालात्" मृत्पिण्डोपादानाहितातिशयात् सहाकारिभावेनोपयुज्यमानात् "तस्यैव घटस्य" मृत्पिण्डोपादानतया मृदात्मनः सतः "संस्थानविशेषः" पृथुबुध्नोदराद्याकारः तदात्मतया तदन्येभ्यो येषां मृत्पिण्डस्तदन्यनिमित्तसहित उपादानमिष्टकादीनां तेभ्यो भिन्नः स्वभावो भवति । "सूत्रात्" मृत्पिण्डकुलालकारणाहितविशेषात् तस्यैव घटस्य "मृत्संस्थानविशेषात्मनो" मृत्पिण्डकुलालयोस्तज्जननस्वभावत्वात् घटस्य तद्रूपयोगात् "तयोश्च"

सूत्रकारणोपहितविशेषयोस्तन्निरपेक्षावस्थातो भिन्नात्मकतया "चक्रादेर्विभक्तो" विछिन्नः "स्वभावो भवति" तस्मादनु[क्रा]न्तकारणत्रयजन्यो घटः तदन्यस्मादेकैककार्याद् द्विद्विकार्याच्च भिन्नस्वभाव एव जायत इति सामग्रीभेदाद् भिन्नान्येव कार्याणि परस्परमसङ्कीर्णस्वभावानि भवन्तीति तदुपयोगकार्यविशेषासङ्करः सिद्धः । तस्य चैकैकतद्वस्थाभाविकारणभेदान्वयव्यतिरेकानुविधायितया खण्डशो ऽनुत्पादाच्च । तेदेकैकजन्यत्वे ऽपि वस्तुतस्तदेकैकसजातीयकारणान्तरसन्निधावदृष्टस्य । विशेषस्येतरसन्निधौ तद्दर्शनात् 'तज्जन्यो ऽयम्ऽ; इति तत्त्वचिन्तकैर्विवेच्यते । यतः (ह्ब्ट् 97) कार्यविशेषार्थिनो ऽनेककारणपरिग्रहं कुर्वन्ति परस्पराहितोपकारकार्यपरम्परया वाञ्छितकार्यजननयोग्यकारणसामग्रीभावार्थम् । यत एवं सामग्रीभेदाद् भिन्नान्येवेष्टकाचक्राविभक्तघटतव्दिभक्तघटलक्षणानि कार्याणि भवन्ति "तत्" तस्मात् "एवम्" उक्तेन प्रकारेण कुलालात् मृत्पिण्डरहितादन्यसामग्र्यन्तर्भूतात् न मृत्स्वभावता कस्यचित् कार्यस्य, मृत्पिण्डकारणोपकृतात्मन एव तस्य तद्विशेषहेतुत्वात् । न मृदः केवलायाः तत्सामग्रीबहिर्भूतायाः संस्थानविशेषः कुलालोपादानोपकृताया एव मृत्संस्थानविशेषात्मककार्यहेतुत्वात् ।

[25. सहकार्यनेकत्वे ऽपि कार्यस्य ऐक्यम् ।]

तदेवं सामग्रीभेदाद् भेदं कार्यस्योदाहरणे प्रतिपाद्य सहकारिणामनेकत्वे ऽप्यनेकात्मताविरहं प्रतिपादयन्नाह- "न च तयोः" मृत्कुलालयोः सहितयोः परस्परोपादानोपकृतात्मनोः यः शक्तिविशेषः प्रत्ययान्तरसहितावस्थातो विशिष्टा योग्यता तद्विषयस्य तदन्यावस्थाविषयाद् भेदे सत्यपि यथा तदन्यस्माद् भेदः, एवं "स्वभावेन न भेदः" । "स्वरूपतो ऽपि न नानात्वं" नानेकात्मकता "कार्यस्य" । ताभ्यां जनितो यो विशेषो मृत्संस्थानविशेषात्मकः स एव तदन्यसामग्रीजन्याद् भिद्यत इति भेदो अस्य ।

कथं पुनरेत[द्] ज्ञायते 'तदन्यस्मादिव स्वभावतो ऽप्यस्य भेदो नास्तिऽ; इत्यत आह- "मृत्संस्थानयोः" इत्यादि । यदि हि मृत्कुलालयोः तदवस्थाभाविनोः "शक्तिविशेषविषयो" मृत्संस्थानविशेषात्मको "भेद"स्तदन्यस्मादिव स्वरूपतो भिद्येत तदा मृत्संस्थानयो "रपरस्परात्मतया" परस्परात्मताविरहेण कारणेन संस्थानविशेषेण मृत् न प्रतिभासेत, न मृत्स्वभावेन च संस्थान विशेषः, यथा तदन्यरूपेण । न हि यो यस्य स्वभावो न भवति स तेनात्मना स्वग्राहिणि ज्ञाने प्रतिभासते, रूपरसवत्; ज्ञानं वा तद्रूपविकलार्थसामर्थ्येनोत्पद्यमानं तद्रूपमनुकर्तुं युक्तम्, (ह्ब्ट् 98) भ्रान्तताप्रसङ्गेन तद्वशादर्थव्यवस्थानाभावप्रसक्तेः । तस्मात् मृत्संस्थानयोरेकात्मतैवेति न कारणानेकत्वात् कार्यस्यानेकात्मकता ऐकान्तिकी, यतो भिन्नस्वभावेभ्यश्चक्षुरादिभ्यः सहकारिभ्यः एककार्योत्पत्तिविरोधादेकरूपतया तेषां साधारणैककार्यक्रिया, भिन्नरूपतया वा साधारणकार्यकरणमिष्येत । एतच्चैकसामग्र्यपेक्षयैककार्यकर्तृत्वमुच्यते । परमार्थतस्तु तत्सामग्र्यन्तर्गतानां सजातीयस्यापि क्षणान्तरस्यारम्भात् सामग्र्यन्तरावयवत्वेन च कार्यान्तरस्यापि यथा एकप्रत्ययजनितं किञ्चिदेकं नास्ति तथाऽनेकप्रत्ययजनितमपीति कारणानेकत्वात् कार्यानेकत्वोपगमे ऽपि न काचित् क्षतिः । तत एककार्यापेक्षयाऽनेकत्वप्रसञ्जने सन्दिग्धव्यतिरेकता, सामान्येन साधने सिद्धसाध्यतेति च ।

[26. अह्रीकादिसंमतस्य द्रव्यपर्याययोः भेदाभेदपक्षस्य निरासः ।]

ननु च मृत्संस्थानविशेषयोरेकस्वभावत्वे ऽप्यह्रीकादिभिः सङ्खयादिभेदाद् भेद इष्यते तत्कथमनेकप्रत्ययजनितस्यैकत्वे एतदुदाहरणम् स्यात्? । सर्वत्रैव हि द्रव्यपर्याययोः सङ्खयासंज्ञालक्षणकार्यभेदाद् भेदो देशकालस्वभावाभेदाच्चाभेद इष्यते, यथा घटस्य रूपादीनां च । तथा हि- एको घटः रूपादयो बहव इति सङ्ख्याभेदः । घटः रूपादयः इति संज्ञाभेदः । अनुवृत्तिलक्षणं द्रव्यन्नित्यं च, व्यावृत्तिलक्षणा भेदाः क्षणिकाश्च; जैमिनीयस्य तु केचित् कालान्तरस्थायिनो ऽपीति लक्षणभेदः । घटेनोदकाहरणं क्रियते, रूपादीभिः पुनर्वस्तुराग इति कार्यभेदः । एवं सर्वत्र द्रव्यपर्यायोः सङ्खयादिभिर्भेदः देशादिभिस्त्वभेद इति मृत्संस्थानयोः कथञ्चित् भेदात् मृत्कुलालाभ्यां जनितस्य कार्यस्यानेकतास्त्येव । यथा त्वेकता तथा ताभ्यां तस्य अभिन्नात्मजन्यतैवेति यदनेककारणं तदनेकमेव, यत् पुनरेकं तत् सहकारिणामभिन्नरूपजन्यतयैककारणमेवेति न व्यभिचार इति ।

तदयुक्तम् । स्वभावतो भेदानभ्युपगमे अन्यथा भेदासिद्धेः अनेकस्मादेककार्योत्पत्तेरबाधनात् । स्वभावतो भेदोपगमे वापरस्परात्मतया भृत्संस्थानयोः संस्थानमृत्स्वभवविशेषाभ्यां तयोरप्रतिभासनं दुर्निवारम् । यदि हि स्वभावतो न भेदो धर्मधर्मिणोः, सङ्खयादिभेदादपि नैव भेदः । न हि पररूपाः भिद्यमाना अपि सङ्खयादय आत्मभूतमभेदं बाधितुं समर्थाः ।

सङ्ख्याभेदस्तावदसमर्थः, एकस्मिन्नपि द्रव्ये बहुत्वेन व्यवहारदर्शनात् । यथा गुरव इति । न च बहुवचनस्य नियमेनादर्शनाद् रूपादयो ऽत्र निमित्तम्, रूपादिनिमित्तत्वे हि गुरुः इति न कदाचिदेकवचनं स्यात् । सम्भवि धर्मिरूपमात्रमभिधेयत्वेन विवक्षितम् इति चेत् । न । तस्यैकत्वेन विवक्षायां कार्त्स्न्यगौरवयोरप्रतितिप्रसङ्गात् । ब्रीहय इति च जातिवचने धर्मिणो रूपादीनां चानभिधानात् न किञ्चिदुत्तरम् । उभयरूपस्य च वस्तुनो गुरुशब्दवाच्यत्वात् कथं सम्भविनो धर्मिरूपस्यैकत्वेन विवक्षा? । ततश्चैको गुरुरिति सामानाधिकरण्यदर्शनात् पर्याया अप्येकसंख्याविषयाः । ते च पर्यायरूपेण भिद्यन्ते । तत् कथं संख्याभेदाद् भेदसिद्धिः? इति ।

संज्ञापि सङ्केतनिबन्धना । स चेच्छायत्तवृत्तिरिति कुतस्ततो ऽर्थभेदः? । एकस्मिन्नपि च संज्ञाभेददृष्टेः कथमस्य भेदनिमित्तता? । यथा इन्द्रः शक्रः पुरन्दरः इति । अत्रापि इन्दनात् शकनात् दारणाच्च शक्तिभेदो गम्यत इति चेत् । न । समस्तस्य कार्यकर्तृत्वात् । न हि शक्तिरेव इन्दति शन्कोति दारयति च । किं तर्हि? । धर्मिरूपमपि, तयोरेकस्वभावोपगमात्, शक्नोत्यादिपदैस्तद्वाचिनां सामानाधिकरण्यदर्शनाच्च । न चास्खलव्दृत्तिप्रत्ययविषयत्वादुपचारकल्पना युक्तेति । येषां च पर्यायाणां न काचिदर्थानुगममात्रा तत्र किं वक्तव्यम्? ।

लक्षणभेदो ऽप्यहेतुः असिद्धत्वात् । नह्येको भावः क्वचिदप्यन्वयी सिद्ध इति । तथा हि- न कूटस्थनित्यतया नित्यं द्रव्यमह्रीकैरिष्यते, (ह्ब्ट् 100) परिणामनित्यतोपगमात् । सा च पुर्वोत्तरक्षणप्रबन्धवृत्त्या । नह्यस्य पर्यायाणामिवोच्छेदः तद्रूपेण, पर्याया एव पर्यायरूपेण निरुध्यन्ते न तु द्रव्यमिति नित्यमभ्युपगम्यते । न चेयं कूटस्थनित्यता वा द्रव्ये सम्भवति, पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः तस्योपलब्धिलक्षणप्राप्तस्य तद्विवेकानुपलक्षणात् । पर्यायेष्वेव तुल्यरूपकार्यकर्तृषु द्रव्याभिमानो मन्दमतीनाम् । न पुनस्तत् ततो विलक्षणमुपलक्ष्यते ।

कार्यभेदस्त्वस्मान् प्रति असिद्ध एव । रूपादीनामेव केषाञ्चित् तत्कार्यकर्तृत्वात् । तथाप्यभ्युपगम्योच्यते- कार्यं हि द्विविधम् । भिन्नकालमभिन्नकालं च । तत्र पूर्वं भवति भेदनिवन्धनम् यदीह सम्भवेत् । तत्तु न सम्भवति धर्मधर्मिणोस्तुल्यकालत्वात् । अभिन्नकालस्तु कार्यभेदे ऽनैकान्तिकः, विभक्तपरिणामेषु पटादिषु सम्भवात् । पटादयो ऽपि हि विभक्तपरिणामा अनेकं कार्यं कुर्वन्तो दृष्टाः । न च धर्मिरूपेण भिद्यन्ते, एकस्यानेकक्रियाविरोधाभावाच्च । नह्यत्र कारणमेव कार्यात्मतामुपैति, यत एकस्य कारणात्मनः एककार्यरूपतोपगमे तदन्यरूपाभावात् तदन्यकार्यात्मतोपगतिर्न स्यात् । किन्त्वपूर्वमेव कस्यचिद् भावे प्रागविद्यमानं भवत् तत्कार्यम् । तत्र विषयेन्द्रियमनस्काराणामितरेतरोपदानाहितरूपभेदानां सन्निधौ विशिष्टस्वेतरक्षणभावे प्रत्येकं तद्भावाभावानुविधानादनेकक्रियोपगमो न विरुध्यते । यत्र एकक्रियायामपि तस्य तद्भावभावितैव निबन्धनम् । सा चानेकक्रियायामपि समानेति ।

ननु च तत्सन्निधौ विज्ञानलक्षणकार्यसम्भवात् तज्जननस्वभावतैवैषामवध्रियते, कार्यस्वभावापेक्षया कारणस्य जनकरूपतावस्थानात् । ततो विज्ञानजननस्वभावेभ्यः प्रत्येकं कथं तदन्यकार्यसम्भवः? । (ह्ब्ट् 101) तद्भावे वा तेषां तदन्यजननस्वभावता स्यात् । ततश्च विज्ञानमेव न कुर्युः, तदः यजननस्वभावत्वात् ।

नैष दोषः, तेषामनेककार्याक्रियास्वभावत्वात् । तथा हि- ते तदवस्थायां प्रत्येकं विशिष्टसजातीयेतरक्षणजननात्मकाः, तेषां तत्सत्तानन्तर्यदर्शनात् । तत्र विज्ञानजननस्वभावतैवेति तस्याजननस्वभावता व्यवच्छिद्यते तस्या एव प्रतियोगित्वात् नान्यजननस्वभावता । न चातस्तेषामनेकात्मता स्यात्, एकस्यैवात्मातिशयस्यानेककार्यहेतुत्वात् । न हि तदन्यापेक्षया विपर्यव्यावृत्तिमुपादायानेकेन शब्देनाभिधीयमानं वस्तु अनेकरूपतां प्रतिपद्यते, प्रतिविशिष्टस्यैकस्यैवात्मनस्तथाभिधानात् । यथा रूपं सनिदर्शनं सप्रतिघमिति । नह्यत्र स्वभावभेदनिबन्धना ध्वनयः, सामानाधिकरण्याभावप्रसङ्गात् । तन्निमित्तानामेकत्र भावात् अदोष इति चेत् । न । तेषां तदेकोपकारानपेक्षिणां तदयोगात् । अपेक्षायां वा कथमेकमनेककार्यं न स्यात्? । अनेकेनैवात्मनोपयोगात् इति चेत् । न । सामानाधिकरण्याभावदोषस्य तादवस्थ्यप्रसङ्गात् । न च नीलादीनामात्मभेदमध्यक्षमीक्षामहे । नापि कार्यभेदादेवात्मभेदानुमानम्, प्रतिबन्धाभावात्, तदाग्रहकप्रमाणाभावात् । प्रत्यक्षतो ऽनेककार्याणामपि भावानामेकात्मतयैवोपलक्षणात् प्रदीपादीनाम् । नानुमानतः, तत्रापि विपर्यये बाधकप्रमाणाभावात् । एकस्यानेकक्रियानभ्युपगमे च यो ऽयं रूपरसगन्धस्पर्शविशेषाणां क्वचित् सहभावनियमः प्रमाणपरिदृष्टः स न स्यात् । भिन्ननिमित्तानां सहभावनियमायोगात् । तन्निमित्तानामपि तदेककारणानायत्तजन्मनां नियतसाहित्यासम्भवात् । तदेकधर्मिस्वभावतयैकत्र सहभावनियम इति चेत् । न । एकस्यानेकस्वभावताया एव चिन्त्यत्वात् । अनेकेनैकस्वभावतां चानुभवतः तद्वदनेकताया दुर्निवारत्वात् अन्यथा धर्मधर्मिणां कथं (ह्ब्ट् 102) नैकान्तिको भेदः? । तथा हि- यमात्मानं पुरोधायायं धर्मी पर्यायाश्चैते इति व्यवस्थाप्यते, यदि तस्य भेदस्तदा भेद एवेति ।

अनेकस्याप्येककार्यता न स्यात् । न हि परस्परोपादानकृतोपकारानपेक्षा विषयेन्द्रियमनस्काराः सहैककार्यारम्भिणो युक्ताः । न चैकमेव किञ्चित् क्वचित् जनयति । ततश्च सर्वत्र कार्यकारणभाव एवो ऽत्सीदेत्, अनेकस्यैकस्य चैकानेकक्रियाविरहात् प्रकारान्तराभावाच्च ।

नाप्येहेतुकमेव विश्वम्, देशकालप्रकृतिनियमात् । तस्मादेकसामग्र्यधीनजन्मनामेव सहभावनियमो भावानामेककार्यक्रियानियमो वा । ततश्च स्वसन्तानक्षणमितरोपादानं च युगपदुपकुर्वतः कथमेकस्यानेककार्यता न स्यात्? । ततः काथं कार्यभेदाद् भेदः कल्प्येत? । द्रव्यपर्यायाणां चैकस्वभावतामाचक्षाण एकस्यानेककार्यतां प्रतिक्षिपतीति कथं नोन्मत्तः?, स्वभावस्यैव वस्तुत्वात्, अन्यथा तस्य निःस्वभावताप्रसङ्गात् । एकस्वभावत्वे च द्रव्यपर्यायाणां तत्कार्यभेद एकवस्तुनिबन्धन एवेति कार्यभेदाद् भेदमभिदधानः स्फुटमह्रीक एवायमित्युपेक्षामर्हति ।

[27. वैशेषिककृतो ऽप्येकस्यानेककार्यकारित्वाक्षेपो न युक्तः ।]

वैशेषिको ऽपि द्रव्यस्यैकस्य द्रव्यगुणकर्मणां समवायिकारणतां ब्रुवाणः कर्मणश्चैकस्य संयोगविभागसंस्कारनिमित्ततामेकस्यानेककार्यक्रियां प्रतिक्षिपन् स्वकृतान्तकोपेनैव प्रतिहतः । न चात्र शक्तिभेदो निबन्धनम्, यतस्तदेकोपकारनिरपेक्षाः कथमेताः शक्तयो नियतार्थाधाराः?, न पुनरनवयवेन व्यक्तीर्वाश्नुवीरन्? । ततो यत एवास्यात्मातिशयादनेकशक्त्युपकार (ह्ब्ट् 103) तत एवानेककार्यक्रियापि, इत्यलमतिविस्तारिण्या कथयेति ।

[28. देशकालस्वभावाभेदस्याभेदसाधकत्वनिरासः ।]

देशकालस्वभावाभेदादभेदस्तु यो ऽभ्युपगम्यते सो ऽप्यनुपपन्न एव । तथा हि- देशकालयोरभेदे ऽपि रूपरसगन्धस्पर्शाः पर्यायरूपेण भिद्यन्ते ततः कथमभेदसिद्धिः? । स्वभावो ऽपि यदि द्रव्यपर्याययोर्द्वयोरपि प्रत्येकमनुवृत्तिव्यावृत्तिरूपता; तदा पदार्थद्वयं स्याद् घटपटवद्, न त्वेकं द्विरूपमिति कथन्तस्मादभेदसिद्धिः? । न चानुवृत्तिव्यावृत्ती स्वभावो युक्तः, तयोरनुवर्तमानव्यावर्तमानाधीनत्वात् । ततश्चानुवर्तमानव्यावर्तमानयोः स्वभावो ऽन्यो वक्तव्यः, न तु तयोरनुवृत्तिव्यावृत्ती एव स्वभावः, भावत्वेन भवित्रधीनत्वात् । नहि स्मृतिः स्मर्तुः स्वभावो भवति । अनुवृत्तिव्यावृत्त्योश्च स्वभावत्वे लक्षणात् स्वभावस्य भेदो वक्तव्यः । मृदादिरूपता स्वभाव इति चेत् । अत्राप्यभेद इति यदि सादृश्यमुच्यते; तद् भेद एव सम्भवति, सादृश्यस्य सदृशाधिकरणत्वात् । ततश्च पदार्थद्वयमेव स्यात् न त्वेकं द्विरूपमिति । अथैक्यं द्वितीयरूपरहितताभेदो ऽङ्गीक्रियते कथं तर्हि द्विरूपता? । रूपशब्देन ह्यत्र स्वभावो ऽभिधीयते । तस्य चैक्ये कथं द्वीरूपता? । विप्रतिषिद्धं ह्येतत् एकस्वभावता द्विरूपता चेति । अथ पुनः स्वभावत ऐक्यं नोपेयते । कथं तर्हि स एक इत्युच्यते अनेकः सन्? । न तावदेककारणजन्यत्वात्, सर्वत्रोपादाननिमित्तकारणभेदेन हेतुभेदसिद्धेः । नाप्येककार्यकर्तृत्वात्, एकस्यापि विभक्तपरिणामाविभक्तपरिणामकार्यभेदाभ्युपगमात् । एकाभिधानाभिधेयत्वादपि नैकत्वम्, एकस्याप्यनेकपर्यायसम्भवात् । योग्यत्वाच्च विश्वस्य कृताकृतानामेकाभिधानाभिधेयत्वस्य क्वचिदसम्भवात् शक्तिभेदाच्च विषयभेदं ब्रूवाणं प्रति अभिहितम् । नाप्येकविज्ञानविषयत्वादेकम्, एकत्राप्यनेकविज्ञानप्रसूतेः । तथा हि- शशाङ्कोदयं बहवो निरीक्षन्ते तस्य कथमेकत्वमभ्युपगतम्? । (ह्ब्ट् 104) बहूनां चैकविज्ञानविषयत्वसम्भवात् नीलपीतादीनामेकताप्रसङ्गः । सर्वथेदं न कथञ्चिदपि सङ्गच्छते यदुत एकस्य द्वैरूप्यमिति । विज्ञानं तु नीलप्रतिच्छायतयोत्पद्यमानं पीतादिप्रतिभासव्यवच्छेदेन प्रतिविशिष्टं ख्याप्यते, न पुनरस्य भावतो द्वे रूपे स्तः ।

अथ पुनर्द्रव्यपर्याययोः सम्मूर्च्छितत्वात् नरसिंहवदेकं शबलरूपत्वात् द्वीरूपमुच्यते । तदयुक्तम्, नरसिंघ[ह]स्य शबलरूपत्वासिद्धेः । स ह्यनेकपरमाणुसङ्घातरूपः, ते च परमाणवः प्रत्येकं नरसिंहरूपा न भवन्ति, ऊर्ध्वभागस्तस्य सिंहरूपः, अधोभागस्तु नररूपः, जात्यन्तरं च स एव नरसिंहाभ्यां स्यात्, न शबलरूपः । विचित्रं हि रूपं शबलमुच्यते । विचित्रता च नानास्वभावतां । नानास्वाभाव्ये चैकत्वं कुतः? इति केवलमनेकत्वे ऽपि बहुष्वेककार्यदर्शनात् सेनादिवदेकव्यवहारदर्शनकृतो ऽयं विपर्यासो जडमतीनाम् ।

तदेवं तावत् प्रत्यकमहेतुत्वं देशकालस्वभावानामेकत्वप्रसाधने । समुदितानामपि व्यभिचारित्वं पर्यायैः । तथा हि पर्याया अभिन्नदेशकालस्वभावाश्च पर्यायरूपेण च भिद्यन्ते पूर्वोक्ताच्च धर्मधर्मिणोर्निषेधान्नोभयवादसम्भव इति ।

[29. द्रव्यपर्यायानेकान्तवादखण्डनम् ।]

आह च- "द्रव्यपर्यायरूपत्वात् द्वैरूप्यं वस्तुनः किल । तयोरेकात्मकत्वे ऽपि भेदः संज्ञादिभेदतः ॥ 1 ॥

इन्द्रियज्ञाननिर्भासि वस्तुरूपं हि गोचरः । शब्दानां नैव, तत् केन संज्ञाभेदाद् विभिन्नता ॥ 2 ॥

'परमार्थैकतानत्वऽ; इत्यादिवचनात् तथा । शब्देनाव्यापृताक्षस्य बुद्धावप्रतिभासनात् ॥ 3 ॥

अर्थस्य, दृष्टाविव तच्छब्दाः कल्पितगोचराः । कल्पितस्यैव तद्भेदः संज्ञाभेदाद् भवेद् यदि ॥ 4 ॥

व्यावृत्तिभेदः कश्चित् स्याद्, वस्तुनो न कथंचन । संख्याभेदो ऽपि नैवान्यो मतो वचनभेदतः ॥ 5 ॥

ततो ऽपि कल्पितस्यैव कथञ्चित् स्याद् विभिन्नता । 'येषां वस्तुवशा वाचऽ; इत्यादेर्न तु वस्तुनः ॥ 6 ॥

अविनाशो ऽनुवृत्तिश्च व्यावृत्तिर्नाश उच्यते । द्रव्याविनाशे पर्याया नाशिनः किं तदात्मकाः? ॥ 7 ॥

नष्टाः पर्यायरूपेण ते चेद् द्रव्यस्वभावतः । किमन्यरूपता तेषां न चेन्नाशस्तथा कथम्? ॥ 8 ॥

द्रव्यात्मनि स्थिते पश्चाद् भवन्तश्च तदात्मकाः । विरुद्धधर्माध्यासे ऽपि, केन, भूतं च किं, यतः ॥ 9 ॥

पर्यायास्तत्र कल्प्यन्ते, भेदरूपं यदीष्यते । भिन्नं पर्यायरूपं हि द्रव्यरूपाद् भवेद् यदि ॥ 10 ॥

तदैतत् स्यादभेदे तु नैतत् संबध्यते वचः । एकं जातमजातं च नष्टानष्टं प्रसज्यते ॥ 11 ॥

द्रव्यपर्याययोरकस्वभावोपगमे सति । ततो लक्षणभेदेन तयोर्नैव विभिन्नता ॥ 12 ॥

कार्यभेदात् स्वभावस्य तयोर्भेदो भवेद् यति । स्वभावाभेदतो न स्यादभेदस्तु तथा सति ॥ 13 ॥

स्वभावस्यैव भेदेन किं भेदश्च न कीर्तितः? । न हि पश्चाद्भवन् भेदः कार्याणां तस्य भेदकः ॥ 14 ॥

स्वभावस्यापि कार्यत्वान्नशहेतोरयोगतः । एकान्तेन विभिन्ने च ते स्यातां वस्तुनी स च ॥ 15 ॥

तयोः केन, विभिन्नाभ्यामभिन्नस्य विभेदतः । तेषामभेदसिद्ध्यर्थमभिन्नो यदि तूच्यते ॥ 16 ॥

अन्यः स्वभावस्तस्यापि तदभेदप्रसिद्धये । कल्पनीयः स्वभावो ऽन्यः तथा स्यादनवस्थितिः ॥ 17 ॥

न चानन्तस्वभावत्वमर्थसामर्थ्यभाविनि । ज्ञाने ऽवभासते येन तथवोपगमो भवेत् ॥ 18 ॥

ऐकान्तिकस्त्वभेदः स्यादभिन्नाद् भिन्नयोर्यदि । भेद एव विशीर्येत तदेकाव्यतिरकतः ॥ 19 ॥

अभेदस्यापरित्यागे भेदः स्यात् कल्पनाकृतः । तस्यावितथभावे वा स्यादभेदे मृषार्थता ॥ 20 ॥

अन्योन्याभावरूपाणामपराभावहेतुकः । एकभावो यतस्तस्मान्नैकस्य स्याद् द्विरूपता ॥ 21 ॥

अन्योन्याभावरूपाश्च पर्यायाः स्युर्न भेदिनः । तद्विनाशे ऽविनाशि स्याद् द्रव्यं वा कथमन्यथा? ॥ 22 ॥

कूटस्थनित्यता द्रव्ये भेदेषु क्षणनाशिता । कस्मान्नेष्टा? विरोधश्चेत् नेष्यते भेदलक्षणम् ॥ 23 ॥

तदिष्टौ किन्न सामान्यं सर्वव्यक्त्यनुयायि च । एकमिष्टं जनन्या च जायायाः किं न चैकता? ॥ 24 ॥

भेदाभेदोक्तदोषाश्च तयोरिष्टौ कथं न वा? । प्रत्येकं ये प्रसज्यन्ते द्वयोर्भावे कथं न ते? ॥ 25 ॥

गुडश्चेत् कफहेतुः स्यान्नागरं पित्तकारणम् । तन्मूलजमन्यदेवेदं गुडनागरसंज्ञितम् ॥ 26 ॥

मधुरं न हि सर्वं स्यात् कफहेतुर्यथा मधु । तीक्ष्णं वा पित्तजनकं यथा मागधिका मता ॥ 27 ॥

प्रत्येकं यन्निदानं यत् स्वतो मिश्रं तदात्मकम् । किन्न दृष्टम्? यथा माषः स्निग्धोष्णः कफपित्तकृत् ॥ 28 ॥

शक्त्यपेक्षं च कार्यं स्याद् गुणमात्रानिबन्धनम् । सर्वत्राभावतस्तासां कस्यचित् किञ्चिदेव च ॥ 29 ॥

ये भेदाभेद मात्रे तु दोषाः सम्भविनः कथम्? । तत्सद्भावे ऽपि ते न स्युरिति ब्रूयाद् विचक्षणः ॥ 30 ॥

विरोधिसन्निर्धेर्द्दोषः तज्जन्मा न भवेदपि । सति तस्मिंस्तदात्मा तु नानिष्टो ऽपि निवर्तते ॥ 31 ॥

भागा एव च भासन्ते सन्निविष्टास्तथा तथा । तद्वान् कश्चित् पुनर्नैव निर्भागः प्रतिभासते ॥ 32 ॥

अन्योन्यप्रत्ययापेक्षास्ते तथास्थितमूर्तयः । कर्मणां चापि सामर्थ्यादविनिर्भागवर्तिनः ॥ 33 ॥

सन्निवेशेन ये भावाः प्राणिनां सुखदुःखदाः । कर्मभिर्जनितास्ते हि तेभ्य एवाविभागिनः ॥ 34 ॥

ते चैकशब्दवाच्याः स्युः कथञ्चिन्न त्वभेदिनः । न च स्वलक्षणज्ञाने शब्दार्थः प्रतिभासते ॥ 35 ॥

अस्पष्टरूपा गम्यन्ते शब्देभ्यो ऽपि त एव हि । ततः केन सहैषां स्याद् भिन्नभिन्नत्वकल्पना? ॥ 36 ॥

निर्विभागस्य चानेकभिन्नदेशांशयोगिता । कथमिष्टा? प्रतीतेश्चेत् क्षणध्वंसानुभाविनः ॥ 37 ॥

पर्याया ये प्रातीयन्ते स्थेमानन्दवतो मताः । कुतो ऽन्यतः प्रमाणाच्चेद् बाधकादिह तत्समम् ॥ 38 ॥

ऐकान्तिकावनन्यत्वाद् भेदाभेदौ तयोर्ध्रुवम् । अन्योन्यं वा तयोर्भेदो नियतो धर्मधर्मिणोः ॥ 39 ॥

तयोरपि भवेद् भेदो यदि येनात्मना तयोः । पर्यायो द्रव्यमित्येतद् यदि भेदस्तदात्मना ॥ 40 ॥

भेद एव तथा च स्यान्नैवेकस्य द्विरूपता । द्रव्यपर्यायरूपाभ्यां न वान्यो ऽस्तीह कश्चन ॥ 41 ॥

स्वभावो यन्निमित्तात् स्यात् तयोरेकत्वकल्पना । ततस्तयोरभेदे हि स्वात्महानिः प्रसज्यते ॥ 42 ॥

तस्य भेदो ऽपि ताभ्यां चेद् यदि येनात्मना च ते । धर्मी धर्मस्तदन्यश्च यदि भेदस्तदात्मना ॥ 43 ॥

भेद एवाथ तत्रापि तेभ्यो ऽन्यः परिकल्प्यते । तेषामभेदसिद्ध्यर्थं प्रसङ्गः पूर्ववद् भवेत् ॥ 44 ॥

धर्मित्वं तस्य चैवं स्यात् तत्तन्त्रत्वात् तदन्ययोः । न चैवं गम्यते तेन वादो ऽयं जाल्मकल्पितः ॥ 45 ॥"

इत्यलं बहुभाषितया । तदेवं मृत्संस्थानयोरेकस्वभावत्वे न कथञ्चिद्भेदसम्भव इति सहकारिणामनेकत्वे ऽपि न कार्यस्यानेकत्वमित्यत्र भवत्येतदुदाहरणमिति ।

[30. द्रव्यगुनयोरभेदे वैशेषिककृतपूर्वपक्षस्योल्लेखः ।]

अत्र वैशेषिकमतमाशङ्कयाह- "अन्यदेव" इत्यादि । "संस्थानं" ह्यवयवसन्निवेश उच्यते । स च संयोगलक्षणत्वाद् गुणरूपः । "ततो" मृद्द्रव्यादस्यान्यत्वं द्रव्यगुणयोरसंकीर्णस्वभावत्वात् । तेन यदि मृत्पिण्डस्य मृदात्मतायां व्यापारः कुलालस्य तत्संस्थानविशेषे कथ्यते, तदा तयोत्यन्तभेदात् कारणानेकत्वात् कार्यानेकत्वं प्राप्तमिति । सिद्धान्तवाद्याह- "उक्तमत्र" इति । मृत्संस्थानयोः स्वभावभेदे दूषणमुक्तम् "मृत्संस्थानयोरपरस्परात्मतया" (ह्ब्ट् 108) इत्यादिकमिति न संस्थानस्य मृद्द्रव्यादन्यत्वम् । ततो मृत्पिण्डोपादानाहितातिशयेन तत्कार्यक्षणसहकारिणा कुलालेन तदुपादानोपकृतात्मना तत्कार्यक्षणसहकारिणा मृत्पिण्डेन च प्रत्येकं सकलमेव मृत्संस्थानात्मकं कार्यं क्रियत इति न कारणानेकत्वे ऽप्यनेकत्वमस्य । अत्रैवोपचयहेतुमाह- "अपि च" इत्यादि । यत् तद् घटगतं संस्थानं "यदि तत" मृदो "भिन्नं स्यात्" तदा कुलालः पृथगेव किमिति न करोति? । नहि भिन्नानामावश्यकमपृथक्करणम्, कुलालश्चान्वयव्यतिरेकाभ्यां तस्य संस्थानस्य गुणात्मनः कारणतया गम्यत इति "स पृथगपि" तत् "कुर्यात्" । पर आह- "गुनस्येत्यादि । "द्रव्याश्रय्यऽगुणवान् संयोगविभागेष्वकारणमनपेक्ष" इति गुणलक्षणात् सर्वदा गुणो द्रव्यपरतन्त्रः, स कथं कदाचित् पृथक् क्रियेत? । वैशेषिक एव बौद्धीयं चोद्यमाशङ्कयाह- "तत्संस्थान" इत्यादि । यदि स्वभावेनैव तस्य गुणात्मनः संस्थानस्य "क्रियावद् गुणवद्" इत्यादिवचनादाधारस्वभावं तत् मृद्द्रव्यं, संस्थानं वा तथाविधं कपालाधेयात्मकं तदा किमिति कुलालव्यापारमपेक्षते? । स्वत एव किं न भवति? इति चोदकाभिप्रायः ।

एवं चोद्यमाशङ्कय वैशेषिकः परिहारमाह- "न, ततः" इत्यादि । यत् तत् मृद्द्रव्यं पृथुबुध्नोदराद्याकारं च संस्थानं तयोर्यः सम्बन्ध आधाराधेयलक्षणः तत्र या "योग्यता" तां "द्वयमप्येतत् कुलालाद्" यतः प्रतिलभते तस्मात् "कुलालमपेक्षते" कुलालानपेक्षायां दोषमाह- "अन्यथा" यदि तयोः परस्परसम्बन्धयोग्यतायां कुलालापेक्षा न स्यात् तदा स्वभावत एव मृत्पिण्डस्य तथविधसंस्थानसम्बन्धयोग्यत्वं भवेत् । तस्मिंश्च सति वस्तुन एव तत्संस्थानसम्बन्धयोग्यतालक्षणा धर्मतास्तीति कुलालसन्निधेः प्रागपि संस्थानविशेषेण सम्बन्धः स्यादिति वैशेषिकीयश्चोद्यपरिहारः ।

[31. द्रव्यगुणयोरभेदस्योपपादनम् ।]

सिद्धान्तवाद्याह- "एवम्" इत्यादि । यदि परस्परसम्बन्धयोग्यतायां कुलालमपेक्षते "एवं तर्हि सा योग्यता मृद्द्रव्यस्य कुलालाद् भवति इति" आपन्नम् । न च "अनयोः" मृद्द्रव्ययोग्यतयोः स्वभावस्य "भेदः" नानात्वम् । यदि हि स्यात् तदा योग्यतायाः द्रव्यात् पृथक्करणं "प्राग्वत् प्रसज्येत" । अथ योग्यताया अपि योग्यपारतन्त्र्यादपृथक्सिद्धिं ब्रूयात् तदा तस्या अपि वस्तुधर्मतयैव प्रागपि समावेशो मा भूदिति द्रव्येण सह सम्बन्धयोग्यताया अन्य योग्यता कुलालाद् भवतीत्येष्टव्या । सापि पृथक्करणप्रसङ्गा[त्] द्रव्याद् भिन्नस्वभावा नोपगन्तव्या । पृथक्करणप्रसङ्गे वा पुनः स एव परिहारः तदीयः, पुनस्तदेवोत्तरम्, इत्यनवस्थाप्रसङ्गादवश्यामभिन्नस्वभावता कपालात्मकमृद्द्रव्ययोग्यतयोरभ्युपगन्तव्या । किमेवं सति सिद्धं भवति? इत्यत आह- "अस्ति तावत्" इत्यादि । मृत्पिण्डकुलालभ्यां कपालद्रव्यस्य संयोगविशेषसम्बन्धयोग्यस्यारम्भात् यदैकस्वभावत्वे ऽप्येकस्यानेकप्रत्ययोपाधेयविशेषता तदा सिद्धः आस्माकीनः पक्षः । ततश्च किमस्माकं मृत्संस्थानयोरेकस्वभावत्वसाधनाय अतिनिर्ब्बन्धनेन? । यदि योग्यतामप्याश्रित्यानेकप्रत्ययजन्यत्वे ऽप्येकत्वात् नानात्वप्रसङ्गाभावः सिध्यति कार्यस्य, न किञ्चिद् द्रव्यगुनवादनिराकरणेनेह प्रयोजनम्, अन्यत्रैव तन्निराकरणस्य कृतत्वादित्यभिप्रायः । निर्बन्धग्रहणेन च मृत्संस्थानयोरपरस्परात्मतया संस्थानमृत्स्वभावविशेषाभ्यां तयोरप्रतिभासनप्रसङ्गात् इत्यनयोपपत्त्या साधितमेवानयोरेकत्वम्, युक्त्यन्तराणां सम्भवे ऽपि तदभिधानलक्षणो निर्ब्बन्धो न क्रियते, प्रकृतसिद्धेरन्यथापि भावादित्याचष्टे ।

[32. सामग्रीभेदे कार्यभेदस्य कारणभेदे ऽपि च कार्यस्यैक्यस्योपसंहारः ।]

तदेवं सामग्रीभेदात् सामग्र्यन्तरजन्येभ्यो भेदः सहकारिणामनेकत्वे ऽपि च कार्यस्यैकत्वमविरुद्धमिति प्रतिपाद्य (ह्ब्ट् 110) उपसंहरन्नाह- "तेन सहकारिण" इत्यादि । येन- प्रत्ययान्तरप्रचये तद्विकलसामग्र्याः सामग्र्यन्तरं सम्पद्यते, तच्च पूर्वसामग्रीजन्याद् भिन्नं कार्यान्तरमेव जनयति ; एकसामग्रीव्यपदेशविषयाणां च सहकारिणामनेकत्वे ऽप्यनेकस्यैकक्रियविरोधाभावात् तदन्वयव्यतिरेकानुविधायिनश्च कार्यस्यैकस्य दर्शनात् स्वभावत एकत्वं साधितम्- तेन कारणेन सहकरणशीला एकसामग्र्यन्तर्गताः प्रत्ययाः सामग्र्यन्तरैः सह "नैकोपयोगविषयाः" एक उपयोगस्य विषयो येषां ते न भवन्ति, सामग्र्यन्तरैरेव सह भिन्नोपयोगविषयत्वस्य न्यायबलात् प्रतीतेः । अनेन यत् प्राग् विकल्पितं 'यदि कारणशब्देन सामग्री भण्यते तदा तद्भेदादस्त्येवातत्सामग्रीजन्येभ्यः कार्यस्य भेद इउति किमुच्यते- न कारणभेदाद् भेदः स्यात्ऽ; इति एतदुदा हरणोपदर्शितं निगमितम् । अथ कारणशब्देन सामग्रीव्यपदेशविषयाः सहकारिण उच्यन्ते तदा तद्भेदादनेकत्वलक्षणात् कार्यस्यानेकत्वलक्षणो भेदो नेष्यत एव, अनेकस्यैकक्रियाविरोधाभावात्, एकस्यानेकत उत्पत्तिदर्शनाच्चेति मृत्संस्थानयोरेकात्मकतोपदर्शितं निगमयति- 'कार्यस्वभावस्यऽ; मृत्संस्थानात्मन 'एकत्वे ऽपिऽ; नानात्वाभावे ऽपि 'वस्तुतःऽ; परमार्थतः कल्पनाबुद्धौ मृत्संस्थानयोर्भिन्नयोरिव प्रतिभासने ऽपीति ।

एवम् उदाहरणे सामग्रीभेदात् कार्याणां भेदो नैकसामग्रीविषयप्रत्ययभेदादनेकत्वं कार्यस्येति प्रतिपाद्य प्रकृते चक्षुरादौ योजयन्नाह- "यथा इहो" दाहरणे "कारणभेदः" सामग्रीभेदः कुलालविकलमृत्पिण्डतत्सहितसूत्राधिकसामग्रीत्रितयलक्षणो 'भिन्नेषुऽ; नानास्वभावेषु 'विशेषेषुऽ; इष्टकादिचक्राविभक्तघटतद्विभक्तघटलक्षणेषूपयोगा "न्नैककार्यः" किन्तु भिन्नकार्य एव, "तथा" तेनैव प्रकारेण चक्षुरादिभ्यो विज्ञानस्योत्पत्तौ सामग्र्यन्तरात् सामग्रीलक्षणकारणभेदो ऽनेककार्य इत्युन्नेयः ।

एतदेव विभजन्नाह- "तथाहि" इत्यादि । या चक्षूरूपरहिता समनन्तरप्रत्ययाख्याविज्ञानलक्षणा प्रत्ययान्तरसापेक्षा सामग्री, ततो विज्ञानस्य विकल्पकस्येतरस्य वा तदुपादेयत्वेन या बोधरूपतोपलब्धा सा चक्षुर्विज्ञानस्यापि भवति । "तस्यैव" चक्षुर्विज्ञानस्य । कीदृशस्य? । "उपलम्भात्मनः सतो भवतः" जायमानस्य तदैव तदेककार्यप्रतिनियतस्य चक्षुरिन्द्रियस्य सन्निधानात् समनन्तरप्रत्ययोपादानोपकृतात् ततो "रूपग्रहणप्रतिनियमो" रूपाकारताप्रतिनियमः, शब्दाद्याकारविवेकवत एवं (व) कार्यस्य चक्षुःसहितसमनन्तरप्रत्ययसामग्र्याः जनकत्वाद् । "विषयाद्" विषयाधिकात् समनन्तरप्रत्ययादिन्द्रियाच्च "तेन" विषयेण "तुल्यरूपता" न केवलैव रूपप्रतिभासिता भ्रान्तविज्ञानस्येवेति विषयेन्द्रियमनस्कारलक्षणसामग्रीकार्यमेवं प्रदर्शितम् । तदन्यदेकद्वयजन्यं तु कार्यं स्वयम्भूह्यम् । अत्राभिन्नत्वे ऽपि वस्तुतः "कार्यस्य" चक्षुर्विज्ञानलक्षणस्य "कारणानां" विषायेन्द्रियमनस्काराणां भिन्नेभ्यः स्वभावेभ्यः केवलानामेषां यः स्वभावस्ततो भिन्ना एवातज्जन्येभ्यो विधिशे (न्येभ्यो ऽपि विशे)षा बोधरूपतादिलक्षणा "भवन्ति" । अतज्जन्यापेक्षया चैकात्मका अपि बहुत्वेन निर्दिष्टाः । यत एवम् "इति" तस्मात् न कारणभेदे ऽपि । यथैकसामग्र्यन्तर्गतप्रत्ययभेदे ऽप्यभेदो नैवं सामग्रीलक्षणकारणभेदे ऽप्यभेदः सामग्र्यन्तरजन्येभ्यः "कार्यविशेषस्य" विशिष्टस्य कार्यस्येति ।

तेन यदुच्यते- 'यदि सहकारिणां भेदे ऽप्यभिन्नं कार्यं भवति सामग्रीभेदे ऽप्यभिन्नमस्तु, अथ सामग्रीभेदाद् भिन्नं भवति सहकारिभेदादपि किमिति भिन्नं न भवति विशेषाभावात्?ऽ; इति तदपास्तं भवति । तथा हि- परस्परोपसर्पणाद्याश्रयात् प्रत्ययविशेषादेककार्योद्देशेनेतरेतरसन्तानोपकाराच्च सहकारिणां प्रतिनियतशक्तिनामुदयादेकं कार्यं समाजायते । सामग्र्यन्तरस्य (ह्ब्ट् 112) तु कार्यान्तरप्रभवशक्तिनिबन्धनेभ्यो हेत्वन्तरेभ्यः स्वभावभेदवतो भावाद् भिन्नकार्यप्रसूतिरिति कुतो विशेषाभावः? ।

[33. जनकत्वमेवाधारत्वं न तु स्थापकत्वम् ।]

ननु च सर्वं कार्यं साधारं यथा उपादायरूपम् । तद्धि भूतेभ्यो जायमानं तान्येवाश्रयत इति भवद्भिरिष्यते । तथान्यदपि विज्ञानादिकं कार्यम् । अतो ऽनेनापि किञ्चित् कारणमाश्रयणीयम् । तस्य च कारणस्य पूर्वं जनकत्वं पश्चात् कार्यं प्रत्याधारभाव एव, न जननम्, ततस्तत्स्वभावस्य जननादित्यनेकान्तः तदवस्थ एवेत्यत आह- "त एवैते" ये ऽनन्तरमुक्ताः "कारणशक्तिभेदाः" कारणानां शक्तिविशेषाः । कीदृशाः? "यथास्वं" येषां कारणशक्तिभेदानां सहकारिलक्षणानां यदात्मीयं सामग्र्यन्तरजन्यात् प्रतिविशिष्टं कार्यं तस्य जनने ऽव्यवधेया व्यवधातुं प्रतिबन्धुमशक्या शक्तिर्येषां तद्भावस्तया " अव्यवधेयशक्तितया" अवश्यं कार्यकारिशक्तितया "प्रत्युपस्थिताः" उद्युक्ताः सन्तः "सामग्रीकार्यस्य" एकप्रत्ययजनितस्य कस्यचिदभावात् सर्वं सामग्र्या एव कार्यमिति कृत्वा सामग्रीकार्यस्य स्वभावस्थित्याश्रय इत्युच्यन्ते । कस्मात् पुनरव्यवधेयशक्तिता? "क्षणिकत्वात्" । नहि क्षणिकस्य शक्तिः प्रतिबन्द्धुं शक्यते, स्वभावान्तरोत्पादने यावत्प्रतिबन्धको व्याप्रियते तावत् क्षणिकस्य स्वकार्यं कृत्वैव निरोधात् ।

कथं पुनरसमानकालं कारणमाधारो युज्यते?, इत्यत आह- "तथा हि" इत्यादि । यस्मात् "तत्" विज्ञानलक्षण कार्यं "तेभ्यः" चक्षुरादिभ्य "समस्तभ्यो" बोधरूपतया तदन्यस्मात् तदजन्यात् "प्रतिविशिष्टस्वभावमेकं" खण्डशः कार्यस्यानुत्पादादेकैकस्मात् सकलस्यैव भावादेकं जातम्, तस्मात् ते आधारा उच्यन्ते । नहि जनकादन्य एवोपकारकः । न चानुपकारक आधारः, (ह्ब्ट् 113) अतिप्रसङ्गात् । ततो भिन्नकालस्याधारभावो न विरुध्यते । यदपि भूतानामुपादायरूपं प्रत्याश्रयत्वमुच्यते तदपि स्वदेशस्यास्य जनकत्वमेवेति न किञ्चित् प्राग्जनकं भूत्वा पश्चात् स्थापकतामुपैति, यतो ऽनेकान्तः स्यादिति ।

[34. अतिशयोत्पादनं न सहकारित्वं किन्तु एकार्थकारित्वम् ।]

पुनरन्यथा तत्स्वभावस्य जननादित्यनेकान्तोद्भावनं परस्याशङ्क्याह- "अप्रतिरोधशक्तिकेषु" अविद्यमानः प्रतिरोधःप्रतिबन्धो यस्याः शक्तेः सा येषाम् । अप्रतिरोधशक्तिकत्वं चानन्तरकार्यत्वात् । ये ह्युत्पन्नाः कालक्षेपेण कार्यं कुर्वन्ति तेषां स्यादपि शक्तिप्रतिबन्धो, न तु य उदयानन्तरमेव कार्यं कुर्वन्ति । अनेन क्षणक्षयिणामुपघातकाभावमाह । अनुग्राहकविरहमप्याह- "अनाधेयविशेषेषु" । तच्चानाधेयविशेषत्वं "क्षणिकेषु" इत्यनेनाह । नहि क्षनिकानां विशेष आधातुं शक्यते, विशेषाधायकेन तत्सहभाविना तदनन्तरं तदुत्पादनात् । तदा च तस्य निरोधात् । तेष्वेवंविधेषु "प्रत्ययेषु परस्परं कः सहकारार्थः" येन सहकारिण उच्यन्ते? । नन्वनाधेयविशेषत्वेनैव सहकारित्वाभावः प्रतिपादित इति किमर्थमिदमप्रतिरोधशक्तिकेष्विति? । नहि शक्तिप्रतिरोधकः सहकारि भण्यते । सत्यम् । सर्वथा तु तत्राकिञ्चित्करत्वज्ञापनार्थमेतदुक्तम् । शक्तिप्रतिबन्धकापनयनेन चोपकारित्वकल्पनां सहकारिणां निरस्यति । तस्मादतिशयाधायिनः सहकारिणो ऽसम्भवात् क्षणिकानां स्वहेतुमात्रप्रतिबद्धमेव जनकत्वम् । तच्चैवंविधं सर्वदास्ति । न च केवला जनयन्तीति तत्स्वभावस्य जननादित्यनेकान्त एवेति मन्यते ।

एतत् परिहरति- "न वै" नैव अतिशयोत्पादनं सहक्रिया यतस्तदभावात् सहकारिणो न स्युः । क्व पुनरतिशयोत्पादनं सहक्रिया प्रत्ययानां न भवति? । "सर्वत्र" । नहि क्वचिदपि सहभाविनामतिश्योत्पादनलक्षणा सहक्रिया सम्भवति । (ह्ब्ट् 114) का तर्हि सहक्रिया? इत्याह- "एकार्थकरणम्" एककार्यनिष्पादनं यद् "बहूनाम्" । "अपिः" सम्भावनायाम् । न्यायबलादेवंविधामेव सर्वत्र सहक्रियां सम्भावयामः, नान्यमिति । अत्रोदाहरणम्- "यथा अन्त्यस्य" अनन्तराङ्कुरादिकार्यस्य "कारणकलापस्य" प्रत्ययसामग्र्या इति ।

[35. एककार्यकारित्वमेव मुख्यं सहकारित्वमितरत्तु गौणम् ।]

स्यादेतत्- औपचारिकमेतत् सहकारित्वम्, अतिशयोत्पादनमेव तु मुख्यम् इत्यत् आह- "तदेव" एककार्यकरणलक्षणं "मुख्यं सहकारित्वम्" नातिशयोत्पादनलक्षणम्, तस्यैव गौणत्वात् । एतच्चोत्तरत्र वक्ष्यते । कुत एतत्? इत्याह- "तस्यैव अन्त्यस्य" विवक्षितकार्यं प्रति "कारणत्वात्" । कारणस्य च सहकारिव्यपदेशः नाकारणस्य । यतः सह- युगपत् कुर्वन्तः सहकारिण उच्यन्ते, अन्त्यश्च कारणकलाप एवंविध इति । यथा चान्त्यस्यैकार्थकरणं सहकारित्वम् एवं पूर्वस्यापि कारणकलापस्योत्तरोत्तरविशिष्टक्षणान्तरारम्भिण इत्यवसेयम्, अन्त्यस्योदाहरणतया निर्द्देशात् । तस्मात् सर्वं कार्यमङ्कुरादिकं विशेषलक्षणं वानेकप्रत्ययजन्यमिति । सर्वत्रैकार्थक्रियैव चोपचीयमानापचीयमानकार्यकारिणः कारणकलापस्य सहकारित्वम्, न विशेषोत्पादनमिति ।

स्यादेतत्- एकार्थकरणमपि तत्र सहकारित्वमस्तु अतिशयोत्पादनलक्षणमपीत्यत आह- "तत्र च" क्षणे ऽन्त्ये "विशेषस्य कर्तुमशक्यत्वात्" नातिशयोत्पादनमपि सहकारित्वम् । कुतो विशेषस्य कर्तुमशक्यत्वम्? इत्यत आह- "एकस्य" अनंशस्य "स्वभावस्याविवेकात् । न हि तत्र 'अयमनाहितातिशयो भागः स्वहेतुभ्यो जातः, अयं तु सहकारिभिराहितातिशयःऽ; इति विवेको ऽस्ति । यदि नामविवेकः, विशेषस्तु किमिति न क्रियते? इत्यत आह- "स्वभावान्तरोत्पत्तिलक्षणत्वाद् विशेषोत्पत्तेः", निर्भागे च कुतः स्वभावान्तरस्य व्यवस्था? ।

स्यान्मतम्- भिन्नस्वभाव एवान्त्यस्य विशेषो ऽस्तु इत्यत आह- "भवान्तर"- इत्यादि । यदि भावान्तरलक्षणो विशेषो (ह्ब्ट् 115) भवेत् तदा तस्यान्त्यत्वमेव हीयेत । हीयेनां (हीयतां) को दोषः? इति चेत्; "ततश्च" अनन्त्यत्वात् "न साक्षात् कारणं स्यात्" । यत एवं "तस्मान्न कारणस्य" मुख्यस्य "सहकारिभ्यः" सकाशाद् "विशेषस्योत्पत्तिः" इत्येकार्थक्रियैव सहकारित्वमिति ।

नन्वसत्यां सहकारिभ्यो विशेषोत्पत्तौ कार्यजनने सामर्थ्यमेषां न युज्यत इत्यत आह- "ते समर्थाः" इत्यादि । यदि हि ते स्वभावेनासमर्था उत्पद्येरन् तदैषां सहकारिभ्यः सामर्थ्योत्पत्तिरभ्युपगम्येत । यावता "ते ऽन्त्याः स्वभावेनैव समर्थाः प्रत्ययाः सहिता जायन्ते" क्षणमात्रविलम्बिनो । "येषा"मेकक्षणनियतत्वात् ततः "प्राक्पश्चात्पृथक्त्वभावो नास्ति । येभ्यश्चानन्तरमेव कार्यमुत्पद्यते" न कालान्तरेण "तत्र" तेष्वेवंविधेषु "एकार्थक्रियैव सहकारित्वम्" नातिशयोत्पादनलक्षणम् ।

स्वभावतः सामर्थ्यस्य भावविरोधात्, परस्परतश्चानभ्युपगमात् समर्थस्य जन्मैवायुक्तमिति मन्वानः परः आह- "समर्थः कुतः" इत्यादि । सिद्धान्तवाद्याह- "स्वकारणेभ्यः" इति । परमतापेक्षया तु स्वभावत इत्युक्तम् । परो ह्यत्यन्तस्य (ह्युत्पन्नस्य) कारणस्य सहकारिभ्यः सामर्थ्यमिच्छतीति तन्निषेधपरं स्वभावत इति वचनम् । न तु स्वभावतः किञ्चिज्जायते, तस्याहेतुकत्वप्रसङ्गात् ।

[36. क्षणिकेष्वेकार्थक्रियानियमस्य व्यवस्थापनम् ।]

एकार्थक्रियानियम एव क्षणिकानामयुक्तः, केवलानामप्यंत्यक्षणसरूपाणां दर्शनात् । तथाहि- 'इदमेवंरूपं नैव चऽ; इति दर्शनादर्शनाभ्यां विभज्यते । तत्र यादृशः क्षित्यादयस्तदन्यप्रत्ययसन्निधावुपलभ्यन्ते तादृशा एव केवला अपि । ततस्तदन्यसहिता इव केवला अपि समर्थमङ्कुरजनने स्वं स्वं क्षणान्तरमारभेरन् । ततः केवलस्याप्यङ्कुरादिजननस्वाभाव्यादजननाच्च 'तत्स्वभावस्य जननात्ऽइत्यनेकान्त एवेति मन्यमानः पर (ह्ब्ट् 116) आह- "तानि" स्वकारणानि क्षितिबीजादीनि "एनं" समर्थम् "अपरस्य" अन्यस्य प्रत्ययस्य "सन्निधान एव किं" कस्मात् "जनयन्ति"? न केवलानि?, सहितानामेव सर्वदा सम्भवात् इति चेत् आह- "कदाचित्" कस्मिंश्चित् काले "अन्यथापि" केवला अपि "स्युः" भवेयुः । तथा हि- दृश्यन्त एवाध्यात्मिकबाह्याः क्वचित् कार्ये यादृशा यत्सहिताः तादृशा एव तद्रहिता अपीति । जनयन्तु केवला अपि सम्भवन्तः समर्थम्, को दोषः? इति चेदाह- "ततश्च" केवलानामपि समर्थजनकानां सम्भवात् "एको ऽपि" न केवलमनेकः "क्वचि" द्देशादौ समर्थः उत्पन्नः क्षितिबीजादोइरङ्कुरादिकार्यं "जनयेत्" यदि तत्स्वभावस्यावश्यं जनकत्वम् । न च केवलो जनयति तत्स्वभावसम्भवे ऽपि ततो ऽनेकान्तः इति परः ।

एतत् परिहरन्नाह- "अपरापर- " इत्यादि । अपरैश्चापरैश्च कुशूलतदपनेतृपुरुषप्रयत्नपिटकादिप्रक्षेपक्षेत्रनयनप्रकिरणादिभिः "प्रत्ययै"र्यो "योगः" तेन कारणेन "प्रतिक्षणं भिन्नशक्तयो" न कदाचित् पूर्वापरकालभाविन एकशक्तयः अपरापरप्रत्यययोगलक्षणहेतुभेदे ऽप्यभिन्नशक्तितायामहेतुकत्वप्रसङ्गात् । अन्यत्रापि च शालियवबीजादौ शक्तिभेदस्य हेतुभेदनिबन्धनत्वात् ।

"संस्काराः" समेत्य सम्भूय च प्रत्ययैः क्रियमाणाः "सन्तन्वन्तः" सन्तानेन भवन्तो "यद्यपि कुतश्चित् साम्याद्" वर्णेन संस्थानेन अन्येन वा केनचित्प्रकारेण सादृश्यादेकाकरपरामर्शप्रत्ययजननलक्षणात् समानं रूपमेषामिति "सरूपाः" सदृशाः "प्रतीयन्ते" प्रत्यभिज्ञायन्ते "तथापि" कृत्रिमाकृत्रिमाणामिव मणिमुक्तादीनामपरापरप्रत्ययोगलक्षणसामग्रीभेदाद् "भिन्न एव" विसदृश एव न प्रत्यभिज्ञानवशादभिन्नः तुल्यरूप "एषां" बीजादीनां "स्वभावः" यत एवं "तेन" भिन्नस्वभावत्वेन भिन्नशक्तितया वापरापरसामग्रीजन्यत्वेन क्षणानां सिद्ध्या "किञ्चिदेव" क्षितिबीजादिकं "कस्यचि"देव कार्यस्याङ्कुरादेस्तज्जननसमर्थस्य (ह्ब्ट् 117) वा "कारणम्" । न सर्वं सर्वस्य । तथा च व्यग्राणां क्षितिबीजादीनामङ्कुरजननस्वभावता समर्थक्षणजाननस्वभावता वा नास्त्येवेति तत्स्वभावस्य जननादजनकस्य चातत्स्वभावत्वादित्यत्र नानेकान्तः यतो यो यत्स्वभावः स स्वहेतोरेवोत्पद्यमानः तादृशो भवति न पुनस्तद्भावे हेत्वन्तरमपेक्षत इत्यत्रानेकान्तः स्यादिति । प्रत्यभिज्ञानस्य च सरूपताविषयस्य सामग्रीभेदादनुमितभिन्नशक्तिस्वभावत्वेन बाध्यमानतया प्रामाण्याभावात् न ततः सरूपतासिद्धिः क्षणक्षयिणामिति ।

पूर्वं च 'अत एवान(एव त)योरवस्थयोर्वस्तुभेदो निश्चेयः इत्यादिना एकत्वविषयं प्रत्यभिज्ञानं निरस्तम् । अधुना तु तुल्यस्वभावताविषयमिति भेदः । एतदपि तत्र 'अपरापरोत्पत्तेःऽ; इत्यनेनोक्तमेव । विपञ्चनार्थं तु पुनः इह उपन्यस्तम् ।

[37. क्षणिकेषु हेतुफलभावव्यवस्थायाः कथनम् ।]

किञ्चिदेव कस्यचित् कारणम् इत्युक्तम् तत्र किं कस्य कारणमिति शक्यपरिच्छेदमप्याध्यात्मिकेषु तावद् दर्शयन्नाह- "तत्र" इत्यादि । "तत्र" तेषु प्रतिक्षणं शक्तिस्वभावेषु क्षणिकेषु भावेषु । व्यवधानं- व्यवधीयते यन, तदादिर्येषां अतिदूरात्यासन्नत्वादीनां ते ऽविद्यमाना यस्मिन् देशे सो ऽव्यवधानादिः देशो यस्य सो ऽव्यवधानादिदेशः, रूपमिन्द्रियं चादी यस्य मनस्कारादेः स रूपेन्द्रियादिः स चासौ करणकलापश्च सामग्रीलक्षणस्तथोक्तः, अव्यवधानादिदेशश्चासौ रूपेन्द्रियदिकारणकलापश्च स"विज्ञानजनने समर्थो हेतुः" नान्यः, तद्भाव एव तस्य भावात्, अन्यभावे ऽपि चाभावात्, एतन्मात्रनिबन्धनत्वाच्च समर्थासमर्थव्यवस्थायाः । "यस्तेषा" मिन्द्रियादीनां "परस्परोपसर्पणस्य" अन्योन्यढौकनस्य । "आदि" ग्रहणाद् व्यवधानापनयना.................................................................................................................... [सा]मग्र्यधीनत्वेनासंवादिति ।

इममेवंविधं हेतुफलभावप्रतिनियमं निरवद्यमाध्यात्मिकेषु दर्शितम् अन्यत्राप्यतिदिशन्नाह- "अनेन न्यायेन" इत्यादि । यो ऽयमनन्तरं हेतुफलभावप्रतिनियमे न्याय उक्तः सो ऽन्यत्रापि "सर्वत्र" द्रष्टव्यः । सर्वत्रेति वचनात् अक्षणिकेष्वपि प्रतीतिर्मा भूत् इत्याह- "प्रतिक्षणम्" इत्यादि । याः क्षणे क्षणे ऽन्याश्चान्याश्च स्वभावभेदान्वयिन्यः शक्तयो भवन्ति तत्रायमेकार्थक्रियाप्रतिनियमः सहकारिणां द्रष्टव्यः । न तु ये स्थिरैकस्वभावा भावाः परैः कल्प्यन्ते तेष्वपि । स्थैर्यं सन्तानाश्रयेणापि व्यपदिश्येतेत्येकग्रहणम् । क्षणे ऽप्येकत्वमस्तीति स्थिरग्रहणम् ।

[38. अक्षणिके एकार्थक्रियाकारित्वस्याभावः ।]

कस्मात् पुनः स्थिरैकस्वभावेषु नेष्यते? इत्याह- "स्वभाव- " इत्यादि । कामं भावः स्वयं न भवेत् । न तु स्वत एव स्वभावस्यान्यथात्वं सम्भवति । ततश्च स्थिरः पदार्थो यदि कार्योत्पादनसमर्थस्वभावः ततो ऽस्याक्रिया नोपपद्यते इति सर्वदैव कुर्यात् । अथासमर्थस्वभावः । तदापि क्रियानुपपन्ना, सर्वदैव न कुर्यादिति भावः । यत्तु कदाचित् करोति कदाचिन्न इत्येतन्न लभ्यते । ततश्चाक्षणिकानां तत्कार्यक्रियासमर्थस्वभावत्वे सहितासहितावस्थयोरेकरूपत्वात् केवलानामपि तत्कार्यक्रियाप्रसङ्गेन कुत एकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं सम्भवेत्? ।

अत्र पर आह- "अन्यसहितः" इत्यादि । यद्यपि केवलस्यप्यक्षणिकस्य समर्थः स्वभावः तथापि अन्यसहितः करोति न केवलः । अयमपि ह्यस्य स्वभावः यद्- 'अन्यसहितेन स्वकार्यं कर्तव्यम् न समर्थस्वभावेनापि सता केवलेनऽ; इति ।

सिद्धान्तवाद्याह- "किं केवलस्य" इत्यादि । अन्यसहितेनैव स्वकार्यं कर्तव्यं न केवलेन इत्येतत् केवलस्यासमर्थस्वभावत्वे युज्यते नान्यथेति मन्यमानस्य प्रश्नः । परस्त्वनवगताभिप्राय आह- "समर्थ" इति । केवलस्याप्यक्षणिकस्य समर्थ एव स्वभावः (ह्ब्ट् 119) अन्यथास्याक्षणिकतैव हीयेतेति । सिद्धान्तवाद्याह- "किन्न करोति" इति । नहि समर्थस्याक्रिया, सहितस्यावस्थायामिव युज्यत इति सहितस्यैव क्रियामिच्छता केवलस्यासमर्थस्वभावतैवोपगन्तव्या ।

अथ मतम्- केवलस्य यदि शिरश्छिद्यते तथापि न करोतीत्यत आह "अकुर्वन्" इत्यादि । कार्यानुमेयं हि सामर्थ्यं न च केवलस्य कदाचिदपि कार्यक्रियास्तीति कथं सामर्थ्यं कल्प्यते? । नायं नियमः यत् समर्थस्वभावेनावश्यमेव कार्यं कर्तव्यम्, अन्यथापि दर्शनात् इति मन्यमान अह परः- "कुविन्दादयः" इत्यादि । सिद्धान्तवाद्यपहसन्नाह "क्रीडनशीलः" इत्यादि । देवानांप्रियः ऋजुः मूर्खो व सुखसंवर्द्धितत्वात् रमणस्वभावः, क्रीडनं बालधर्मः, तत्साधर्म्येण प्रज्ञावैकल्यं दर्शयति, सुखैधितत्वेन शास्त्रेष्वनभियोगम् । यो ह्यनभियुक्तो दुर्बुद्धिश्च स "कृतमपि" वस्तु विस्मरणप्रकृतित्वात् पुनः पुनः "कारयतीति" पुनः प्रतिविधापयति । क्व पुनरेतत् प्रतिविहितम्? इत्याह- "तथाहि"- इत्यादि । 'बीजादिवदनेकान्तःऽ; इत्यनेन प्रस्तावेन निर्ल्लोठितमेवैतत् ।

तदेवमक्षणिकस्य समर्थस्वभावत्वे सहितस्यैव कार्यक्रियास्वभावत्वविरोधात् केवलस्याक्रियानुपपन्नेति प्रतिपाद्योपसंहरन्नाह- "तस्मात् तत्स्वभावस्य" कार्यक्रियासमर्थस्य "अन्यथात्वासम्भा(म्भ)वात्" कदाचिदसमर्थत्वाभावात् "तद्धर्मणः" कार्यक्रियाधर्मणः तथाभावः कार्यक्रिया "अन्त्यावस्थावत्" सहितावस्थायामिव "अनिवार्यः ।

[39. मीमांसकसंमतस्य भावस्वभावरूपसामर्थ्यस्य निरासः ।]

स्यान्मतम्- केवलो ऽयमक्षणिको ऽसमर्थ एव । ततः केवलो न करोति, सहितावस्थायां त्वस्य सामर्थ्यं सहकारिभ्यो जायते । ततः सहित एव करोतीत्यत आह- "अन्त्यावस्थायां सामर्थ्योत्पत्तौ" कीदृशस्य "प्रागसमर्थस्य" सतः "तस्य सामर्थ्यस्य" यस्य तदुपजायते "तत्स्वभावत्वे" मीमांसकादिभिरिष्यमाणे । (ह्ब्ट् 120) नहि तेषां समर्थस्य सामर्थ्यस्य च स्वभावभेदो ऽभिमतः । कथञ्चित् तद्भेदे ऽपि तत्स्वभावतयैव प्रतीयमानत्वादिति ते मन्यन्ते । "अपूर्वोत्पत्तिरेव सा" अपूर्वस्यैव वस्तुनः सा उत्पत्तिर्या तत्स्वभावस्य सामर्थ्यस्य । नह्येकस्वभावत्वे सामर्थ्यमेवापूर्वमुपजातं न समर्थः इति युक्तम्, तयोः स्वभावभेदप्रसङ्गात्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् ।

ननु प्रतीयमाने एव सामर्थ्यतद्वतोरुत्पत्त्यनुत्पत्ती एकस्वभावता च कथं निन्होतुं शक्यते? इति चेत् । न । अप्रमाणेन प्रतीतेः, अन्यथा प्रतीत्यनुसारिणा भवता द्विचन्द्रादयो ऽपि न निन्होतव्याः । बाधकप्रमाणसम्भवात् ते ऽपन्हूयन्त इति चेत् । इहापि वस्तुन एकस्वभावस्योत्पत्त्यनुत्पत्ती परस्परविरुद्धे बाधिके किं नेष्येते? । व्यवस्थितस्यैव वज्रोपलादेर्द्धर्मिणः तत्स्वभावं सामर्थ्यमुत्पन्नमिति च पुर्वापरकालयोरप्रतिभासमानविवेकः कथं प्रतीयात्? ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.