Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

हेतुबिन्दुटीका

Tác giả
अर्चट
Thông tin
GRETIL — Pandit S. Sanghavi and Muni Shri Jinavijayaji. Hetubinduṭīkā of Bhaṭṭa Arcaṭa, with the sub-commentary entitled Āloka of Durveka Miśra. Baroda 1949.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

एकार्थसमवायः कृतकत्वानित्यत्वादेः सम्बन्धः इति चेत्; न, तस्यापि ततो ऽर्थान्तरत्वे 'अयमनयोरस्मिन्नर्थे समवायःऽ; इति (ह्ब्ट् 42) सम्बन्धाभावस्य तदवस्थत्वात्, सम्बन्धान्तरकल्पनायां चानवस्थाप्रसङ्गात् । समवायाद् वृत्तिकल्पनायां च कृतकत्वादयो नित्याभिमतेष्वप्यात्मादिषु वर्तेरन् । य एव हि कृतकत्वादेः शब्दे समवायो यब्दलात् तत्रैव तद् वर्तते स एव नित्याभिमतेष्वपि, तस्यैकत्वेनोपगतत्वात् इत्यात्मादौ वृत्तिः कृतकत्वादेः केन निवार्येत? । अथ 'य एवाभूत्वा भवनधर्मा भूत्वा चाभवनधर्मास्थिररूपो भावः तत्रैव कृतकत्वादयो धर्मा वर्तन्ते ऽ; इति व्यवस्थाप्यते । सैव तर्ह्यभूत्वा भवनस्वभावता भूतस्य चास्थिरस्वभावता तद्विपरीतरूपसमारोपव्यवच्छेदविषयायाः कल्पनाबुद्धेर्निबन्धनं किं नेष्यते? । तयैव परमार्थाभेदवतोर्द्धर्मयोः साध्यधर्मिणि वृत्तेः किमन्तरालगडुना कृतकत्वादिना व्यतिरेकवता उपगतेन? । तथा हि- न सत्तामात्रेण कृतकत्वादयो धर्माः साध्यधर्मप्रतिपत्तिनिबन्धनम्, तेषां सदा सन्निहितत्वेनानवरतं तद्धर्मप्रतीतिप्रसङ्गात्, किन्तु विकल्पप्रतिभासिन एव । स च विकल्पः स्वप्रतिभासिनमेवकारं बहीरूपतयाध्यवसितमनुसरन् कृतकानित्यादिरूपतां वस्तुनः प्रतिपद्यते, परमार्थतो ऽसंस्पर्शे ऽपि तद्रूपस्य, परम्परया तदुपादानत्वात् । व्यतिरिक्तास्तु धर्मास्तुदुत्पत्तिनिमित्तमात्रतया परिकल्प्यन्ते, तद् वरं यदेव तत्कल्पनान्निबन्धनं तदेव तथाविधविकल्पप्रसवनिमित्तमस्तु, तस्यावश्यमभ्युपगमनीयत्वात्, तदभ्युपगमे च चरितार्था व्यतिरेकवन्तो धर्मा इत्यलं तत्कल्पनया । अवश्यं च

व्यतिरिक्तानित्यताद्वारेणापि वस्तुन एवानवस्थायिनमात्मानं प्रतिपद्यते, तदनुरूपार्थकृ(क्रि)यार्थितया प्रवृत्तेः, अन्यथा व्यतिरिक्तानित्यतया नित्यत्वात् तदवगमार्थित्वेनायमनित्यसाध्यार्थक्रियार्थी नित्यं शब्दादिकमाशङ्कमानः किमनित्यताविचारं प्रति आहीतास्थः? । (ह्ब्ट् 43) व्यतिरिक्तायां चानित्यतायामवगतायां तत्रैव प्रवर्तताम्, किमिति नित्ये शब्दात्मनि? । तद्वा(द्द्वा)रेण प्रतिपत्तेः इति चेत्; तत् किमनेन व्यवधिना? । वरमव्यवहितस्यैव प्रतिपत्तिरस्तु, तेनैवार्थित्वादिति । तदेतदतिप्रचर्च्च्यमानमतिगहनं सम्पद्यत इत्यास्तां तावत् ।

ये ऽपि जैमिनीया मन्यन्ते- 'येषामत्यन्तव्यतिरेकवन्तो धर्माः तेषामेवायं नैयायिकादीनां दोषः, अस्माकं तु कथञ्चिद् भेदाभेदवतां धर्माणां तत्स्वभावतया नैष दोषःऽ; इति; तेषामपि वस्तुतः साधनधर्मरूपतोपगमे साध्यधर्मस्य, कथञ्चिद् भेदाभ्युपगमे न किञ्चित् फलमुत्पश्यामः, साध्यसाधनभावस्य कल्पितभेदद्वारेणाप्युपपत्तेः । न चैकात्म्ये कथञ्चिदपि भेदो युक्तः, एकस्मात् स्वभावादभेदात् । ततो ऽपि तयोः कथञ्चिद् भेदाभेदौ स्त एवेति चेत्; न, अनवस्थाप्रसङ्गात् । तथा हि- धर्मयोस्तदेकस्वभावादपि भेदवतोस्तेन स्वभावेन कथञ्चिदभेदनिमित्तमभिन्नो ऽपरः स्वभावो ऽभ्युपगन्तव्यः, तथा तेनाप्यपरः इत्यनन्तैव भिन्नाभिन्नस्वभावपरम्परा स्यात् । न च कल्पनाबुद्धावनन्तोभयरूपस्वभावपरम्परा प्रतिभासत इति किमिति तत्कल्पनयात्मानं विप्रलभन्ते भवन्तः? । कथञ्चित् च भेदोपगमात् कथं भेदपक्षभाविनां दोषाणामनवसरः? । यं चात्मानं पुरोधाय 'इमौ धर्मौ, अयं धर्मीऽ; इति व्यवस्थाप्यते यदि तेन भेदस्तदा भेद एवेति कुतो ऽनेकान्तवादः? । अथाभेदः; तदा 'अयं साधनधर्मः, अयं साध्यधर्मः, धर्मी चायम्ऽ; इति कथं पारमार्थिकं तृ(त्रि)तयं सिध्येत्? । तस्मात् तत्तत्पररूपव्यावृत्तिसमाश्रयायां कल्पनाबुद्धौ भेदवतामिव धर्मधर्मिणां प्रतिभासनात् साध्यसाधनभावः । तन्मात्रानुबन्धस्तु वस्तुतः तत्तत्स्वभावतयैव युक्तः इति मन्यमानेन "वस्तुतस्तद्भावतया" इत्युक्तम् ।

[31. बाधकप्रमाणादेव स्वभावहेतौ साध्यसाधनतादात्म्यम् ।]

का पुनरसौ वस्तुतस्तद्भावता यया हेतुभूतया साध्यधर्मस्य साधनधर्मभावमात्रानुबन्धः सिध्यति? इत्याह- "सा" वस्तुतस्तद्भावता "साध्य"स्य "विपर्ययो" विपक्षः तत्र, "हेतोः" यद् "बाधकं प्रमाणं" तद्विपरीतधर्मप्रत्यवस्थापकम्, येन बाध्यमानो हेतुस्तत्र न प्रवर्तते, विरुद्धयोरेकत्र सहभावासम्भवात्, तस्य या "वृत्ति" प्रवृत्तिः "बाधकप्रमाणवृत्तिः" तत्साध्यत्वाच्च वस्तुतस्तद्भावतायाः सा बाधकप्रमाणवृत्तिरुक्ता । तस्यां हि सत्यां विपक्षात् निवृत्तो हेतुः साध्यधर्मवत्येव धर्मिणि वर्तते इति साध्यधर्मस्यानर्थान्तरस्य साधनधर्मस्वभावता सिध्यति । "तया च" वस्तुतस्तद्भावतया साधनधर्मभावमात्रानुबन्धः साध्यधर्मस्य सिध्यतीति "अन्वयनिश्चयः" 'यत्र यत्र साधनधर्मस्तत्र तत्र साध्यधर्मःऽ; इत्येवंरूपो जायते ।

अत्रोदाहरणं "यथा- यत् सत् तत् क्षणिकमेव ।" अवधारणेन व्याप्तिमाह । साधनधर्मभावमात्रानुबन्धस्य चैतद्रूपमाख्यातं, निमित्तान्तरमन्तरेण सत् इत्येव कृत्वा क्षणिकमित्युपदर्शनात् । स च वस्तुतस्तद्भावतया सिध्यतीति तत्सिद्ध्युपायं बाधकप्रमाणवृत्तिं दर्शयति- "अक्षणिकत्वे" क्षणिकविपर्यये सति "अर्थ क्रियाविरोधात्" अर्थस्य- कार्यस्य क्रिया- निष्पत्तिस्तस्या विरोधात् "तल्लक्षणं" सार्थक्रिया लक्षणं यस्य "वस्तुत्वस्य" अर्थक्रियासामर्थ्यात्मन, तत्तथोक्तम् । अर्थक्रियया हि तत्सामर्थ्यरूपं वस्तुत्वं लक्ष्यते । "तद्" एवंविधं वस्तुत्वं "हीयते" निवर्तते, तद्विपर्ययरूपस्यासत्त्वस्याकर्षणात् । एतच्च बाधकं प्रमाणं व्यापकानुपलब्धिरूपमुत्तरत्रावसरप्राप्तं स्वयमेव वक्ष्यति । तदनया बाधकप्रमाणवृत्त्या साध्यधर्मस्य वस्तुतः साधनधर्मस्वभावता सिध्यति । तया च वस्तुतस्तद्भावतया साधनधर्मभावमात्रानुबन्ध इति ।

[32. कार्यहेतावन्वयनिश्चयनिरूपणम् ।]

एवं स्वभावहेतौ विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यसिद्धितो ऽन्वयनिश्चयं प्रतिपाद्य कोर्यहेतौ प्रतिपादपन्नाह- "कार्यहेतौ" अन्वयनिश्चयः इति प्रकृतम् । कः पुनरसौ कार्यकारणयोर्भावः? । "कार्यत्वं" "कारणत्वं" च । तस्य या "सिद्धिः" प्रतीतिः सा कार्यहेतावन्वयनिश्चयः । यथा च कार्यकांरणभावसिद्धिर्भवति तथोपदर्शयन्नाह- "यथा" इत्यादि । यथाशब्द उपदर्शनार्थः । "इदं" धूमादिकम् "अस्य" अग्नेः "उपलम्भे" सति "उपलभ्यत" इति सम्बन्धः । अनेन कार्यकारणभावसिद्धौ प्रत्यक्षव्यापारमाह । न च केवलं प्रत्यक्षं कार्यकारणभावमसन्दिग्धं साधयति, किन्तु प्राक्प्रवृत्तानुपलम्भसहायमिति दर्शयितुमाह- "उपलब्धिलक्षणप्राप्तमानुपलब्धम्" इति । यदि तद् धूमादिकमुपलब्धिलक्षणप्राप्तं सत्स्वन्यै(न्ये)षूपलम्भप्रत्ययेषु दृश्यात्मकं सत् नोपलब्धं भवति अग्न्यादिसामग्रीसन्निधानात् प्राक् तादात्म्यादिसामग्र्यामुपलभ्यमानायामुपलभ्यमानं तत्कार्यं सिध्यति । न तूपलम्भप्रत्ययान्तरवैकल्यादनुपजातोपलब्धियोग्यरूपं सत्, तद्देशसन्निहितमप्यनुपलब्धिलक्षणप्राप्ततयाग्न्यादिसामग्रीसन्निधानात् प्रागनुपलब्धमिति । उपलब्धिलक्षणप्राप्तस्य चानुपलम्भे नाग्न्यादिसामग्रीसन्निधानात् प्रागन्यत आगमनं, तद्देशकालसंन्निहितात् कतकुट्या देरुत्पत्तिः, तद्देशे चासन्निधानमिति, त्रितयमपाक्रियते । एतावद्भिश्च प्रकारैरतत्कार्यता भवन्ती भवेत् । ततो ऽनुपलम्भेनातत्कार्यताशङ्कानिरासाद् तद्भावे भावग्राहिप्रत्यक्षनिबन्धनः कार्यकारणभावो ऽसन्दिग्धः सिध्यति ।

न चाग्नीन्धनादिभावे नियतसन्निधेरदृश्यात्मनः कुतश्चित् धूमस्य भावः स्यात् इत्याशङ्कनीयम् । अग्नीन्धनादिभेदानुविधानाद् धूमस्य । चन्दनागुरुकर्पूरकेशोर्णादीन्धनभेदे तदनुरूपभेदस्यास्य दर्शनादल्पमहदिन्धनविकारकारिणश्चाग्नेस्तदनुरूपस्य । न चाग्नीन्धनादिसन्निधावदृश्यात्मनो नियतसन्निधानता युक्ता, (ह्ब्ट् 46) प्रतिबन्धाभावात् । प्रतिबन्धे वा तत्कार्यता तत्कारणता वा स्यात् । तत्कार्यत्वे, नाग्नीन्धनसम्पर्कानन्तरं धूमजन्म स्यात्, तद्भावाभावानुविधानादेव चास्यापि तत्कार्यत्वम् । तच्च धूमे ऽपि समानम् । नापीन्धनादिकारणत्वम् अदृश्यात्मनः, इन्धनादेः स्वहेतोरेव वृक्षादेर्भावदर्शनात् । तत्रापि तथाभावकल्पनायां तदेवोत्तरं वाच्यम् । पुनश्चोद्ये स एव परिहारो ऽनवस्था च । एतेनैकसामग्र्यधीनतापि प्रत्युक्ता । तदन्वयव्यतिरेकानुविधानादेव च धूमस्य तत् कारणं कल्पेत । तच्चाग्न्यादावपि तुल्यम् । तदपि तत्र कारणमस्तु इति चेत्; न, अग्नयादिभावे ऽवश्यम्भाविनो ऽन्यस्यापि कारणत्वकल्पनायां निमित्ताभावात्, कार्यव्यतिरेकनिबन्धनत्वात् कारणभावकल्पनायाः । यथा अग्नीन्धना देरेवान्यतराभावे अभवतः । भवतु वान्यस्यापि तद्भावे नियतसन्निधेः कारणता । न तु तावताग्न्यादेः कारणत्वहानिः, यतो धूमदर्शनात् तन्निश्चयेन प्रवृत्तौ तद्विसंवादः स्यात् । नहि सर्वसत्त्वकर्माधिपत्यजनितत्वे ऽपि जगद्वैचित्र्यस्य दृष्टकारणहानितस्तत्कार्यदर्शनाद् वा प्रवृत्तानां अतत्प्राप्तिरित्यलमतिप्रसङ्गेन ।

किंरूपः पुनरसौ कार्यकारणभावो ऽनुपलम्भसहायप्रत्यक्षनिबन्धन इत्याह- "तद्भावे भावः तदभावे ऽभावश्च" इति । य एव हि कारणाभिमतस्य भावे भाव एव । कार्यत्वेनाभिमतस्य भावः । "तदभावे" कारणत्वाभिमतस्याभावे "अभाव एव" कार्यत्वेनाभिमतस्याभावश्च । स एव कार्यकारणाभावो नान्यः ।

स हि ताभ्यामन्यो भवन् स्वभावतो ऽप्रतिपन्नकार्यकारणरूपयोर्वा भवेद्, यद्वा स्वभावेनैव कार्यकारणात्मनोः । यद्याद्यः पक्षः तदा सर्वत्रैवाकार्यक(का)रणभूते ऽपि वस्तुनि भवेत् तन्नियमकारणाभावात् । ततः सर्वं सर्वस्य कार्यं स्यात् । (ह्ब्ट् 47) स्वभावेन चातद्रूपस्यान्ययोगे ऽपि न तद्रूपता । नहि भावाः प्रतिनियतरूपत्यागेनान्ययोगे ऽपि रूपान्तरमाभजन्ते, यतो नान्ययोगस्तेषां पूर्वरूपं नाशयति विनाशहेत्वयोगाद् वक्ष्यमाणकात् । नाप्यपूर्वमुत्पादयति तस्य ततो ऽर्थान्तरत्वप्रसङ्गात् । नहि तेषु निष्पन्नेष्वनिष्पन्नो भिन्नहेतुको वा तत्स्वभावो युक्तः । अयं हि भेदो भेदहेतुर्वा विरुद्धधर्माध्यासः कारण भेदश्च ततश्चेत् न भेदः, अन्यनिमित्ताभावात् एकं द्रव्यं विश्वं स्यात् इत्यादि प्रसज्येत । प्रतिभासभेदो ऽपि हि इतरेतराभावरूपतया विरुद्धधर्माध्यासतां नातिक्रामति । ततश्च पूर्वके वस्तुनी तदवस्थे एवेति न तयोरन्ययोगे ऽपि कार्यकारणरूपतापत्तिः ।

अथ द्वितीयः पक्षः, तदा स्वभावत एव तयोः कार्यकारणरूपत्वादन्यस्तद्भावः कथं न वैयर्थ्यमनुभवेत्? । कार्यकारणवुद्धी अपि तद्भावभावित्वमात्रनिबन्धने नार्थान्तरनिमित्ते, तस्योपपलब्धिलक्षणप्राप्तस्य कार्यकारणरूपविवेकिना रूपान्तरेणाप्रतिभासनात् । तथाविधस्यापि ग्रहणकल्पनायामतिप्रसङ्गः । अनुपलब्धिलक्षणप्राप्ततायां कथं कार्यकारणभावबुद्धी तन्निबन्धने? । नहि तद् अर्थान्तरं स्वसत्तामात्रेण तब्दुद्धी प्रवर्तयति । सदा सन्निहितत्वेनास्य तयोः सर्वदोदयप्रसङ्गात् । न च विशेषणमगृहीतं विशेष्ये स्वविशिष्टप्रत्ययनिबन्धनमित्ययुक्तास्यानुपलब्धिलक्षणप्राप्तता । न च दृष्टस्याप्यनुपलक्षणं युक्तम्, कार्यकारणबुद्ध्योस्तन्निबन्धनतोपगमात् । न हि यन्निमितो यो ऽन्यत्रातब्दुद्धिभाजि तब्द्यवसायः स तदनुपलक्षणे युक्तः । देवदत्ते दण्डिव्यवसायवद् दण्डानुपलक्षणे । न चार्थान्तरस्य कार्यकारणाभ्यां सम्बन्धो घटते, सम्बन्धान्तरकल्पनायामनवस्थाप्रसक्तेः । कार्यकारणभावाभ्युपगमे कार्यकारणाभ्यामसहभाविता सद्भावस्य । ततश्च कार्यकारणकाले तस्यासन्निधानात् कथं कार्यकारणबुद्धिहेतुता? । (ह्ब्ट् 48) निरुद्धयोरध्याहृत्य तत्प्रत्ययकल्पनायां च कल्पितविषय एव कार्यकारणताध्यवसायः स्यात् न वस्तुविषयः । स च विशिष्टभावाभावनिबन्धनो ऽभ्युपगत एवेति किमर्थान्तरकल्पनया? । कल्पितविषयत्वे तव्ध्यवसायस्य, तस्या वैयर्थ्यात् कार्यकारणयोश्चायौगपद्यात् । हनि ताभ्यामसौ जन्यते, प्रत्येकजन्यश्च कथं कार्यकारणभावः? । यदा च कारणेन जन्यते तदा किं स्वकार्यसहितो जन्यते, अथ केवलः? ।

केवलो ऽपि किं स्वकार्यात् प्राग्, अथ पश्चात्? । यदि स्वकार्यसहितस्तुदुभयोरन्यत एव भावात् परस्परमसम्बन्ध इति कार्यसम्बन्धितास्य हीयेत । अथ केवलः स्वकार्यात् प्राक्; तदा क्षणिकतया कारणस्य तमेव जनयित्वा ध्वंसात् कथं स्वकार्यक्रीया? । तस्यां चासत्यां कथं तदपेक्षमस्य कारणत्वम्? । तस्मिंश्चासति कथमकारणेन कार्यकारणसम्बन्धो जन्यते? । अथ स्वकार्यं कृत्वा पश्चाज्जन्येत तदापि स्वकार्यकाले एव विनष्टत्वाद् असतस्तदुत्तरकालभाविकार्यकारणभावजननं कुतः? । तद्भावश्च सम्बन्ध उच्यते ।

....................................................................................................................................................................................... जन्यतायां वा यदि समग्राः स्वरूपत एव तां जनयन्ति कार्ये क एषां शक्तिव्याघातः? यतो ऽन्यत्र कल्प्यते । तत्राप्यपरसामग्रीयोगापेक्षायां चानवस्थाप्रसङ्गः । ततः समग्रा एव जनकाः ।

तेषां च कारणत्वमेकैकापाये कार्यव्यतिरेकतः समुन्नीयत इत्याह- "सत्स्वप्यन्येषु" तत्सामग्र्यन्तर्गतेषु "हेतुषु" जनकेषु (ह्ब्ट् 49) प्रत्येकं तेषां व्यञ्जनकत्वाद् "अस्याभावे" जनकत्वेन निर्द्धार्यमाणतया विवक्षितस्याभावे "न भवति" इत्यनेनानुपलम्भस्य विषय उक्तः । प्रत्यक्षवृत्तिस्तु पूर्वोक्तैवानुपलम्भरहिता तद्भावे भावग्राहिणी संबन्ध्यते ।

तथा चायमपि तद्भावे भावः तदभावे ऽभावश्च कार्यकारणभावः किंसाधनः? इत्याह- "प्रत्यक्षानुपलम्भसाधनः" प्रत्यक्षपूर्वको ऽनुपलम्भः तव्दिविक्रान्यपदार्थग्राहिप्रत्यक्षात्मकः साधनमस्येति "प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः" । यस्त्वनुपलम्भसापेक्षेण प्रत्यक्षेण साध्यत इति प्रागुक्तः सो ऽनुपलम्भपूर्वकं प्रत्यक्षं साधनमस्येति अनुपलम्भप्रत्यक्षसाधन इति वक्तव्यः । "तस्य" कार्यकारणभावस्यान्वयव्यतिरेकात्मनः "सिद्धिः" निश्चयो "यथोक्ताभ्यां" प्रत्यक्षानुपलम्भाभ्यां कार्यहेतावन्वयनिश्चय इति सम्बन्धते ।

ननु चान्वयनिश्चयो नाम कार्यहेतोः सर्वत्र कार्यस्य भवतः स्वकारणसत्तयानुगमनमित्येवमवसायः तत् कथं कार्यकारणभावसिद्धिरेवासावुच्यते? इत्याशङ्क्य कार्यकारणभावसिद्धिनिबन्धनत्वादन्वयनिश्चयस्य कारणे कार्योपचारादनन्योपायसाध्यतां दर्शयितुम्, दर्शनमात्रनिबन्धनं ये तमिच्छन्ति तन्मतनिषेधार्थमसावेवमुक्त इति दर्शयन्नाह- "कार्यकारणभाव एव हि" कार्यकारणभावे सत्येव 'हिःऽ; यस्मात् "अर्थान्तरस्य" साध्याद् व्यतिरिक्तस्य, यस्त्वव्यतिरिक्तः तस्य विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यनिश्चयादेवान्वयनिश्चय इति पूर्वमुक्तमेवेत्यर्थान्तरग्रहणम् । तस्यार्थान्तरस्य "एवं स्यात्" । कथम्? । 'यत्र नाम क्वचिद् धूमः तत्रावश्यमग्निःऽ; इति नियमेन 'अग्नेः तत्र भावःऽ; इत्येवंरूपो ऽन्वयनिश्चयः । यस्त्वकार्यकारणभावे ऽपि रसस्यार्थान्तरस्य रूपेणान्वयनिश्चयः स एकसामग्र्यधीनतया तस्य स्वकारणाव्यभिचारद्वारक एवेत्यदोषः ।

अथ यदि नाम कार्यमग्नेर्धूमस्तथापि किमिति यत्रासौ तत्रावश्यमग्निर्भवति यतः कार्यकारणभावसिद्धिनिबन्धनो ऽन्वयनिश्चय उच्यत इत्याह- "अग्नेः भावे एव" सत्तायामेव 'हिःऽ; यस्मात् "भावः" सत्ता धूमस्य "कार्यत्वमिति" । तस्मात् कार्यकारणभावे सत्येव यथोक्तो ऽन्वयनिश्चय इति । यदि हि यत्र धूमस्तत्रावश्यमग्निर्न स्यात् तदाग्निमन्तरेणाप्यस्य भावाद् अग्निभाव एव भावलक्षणं कार्यत्वं हीयेत ।

[33. अनुपलब्धावन्वयनिश्चयोपायकथनम् ।]

इदानीमनुपलब्धावन्वयनिश्चयमाह- "अनुपलब्धावपि" न केवलं स्वभावकार्यहेतो(त्वो)रन्वयनिश्चय उक्तः किन्त्वनुपलब्धावप्यन्वयनिश्चय उच्यते । किंरूपो ऽसौ? इत्याह- "असद्व्यवहारस्य" साध्यधर्मस्य योग्यतायाश्च साध्यत्वात् तद्योग्यतासव्द्यवहारो ऽभिप्रेतः, तस्य, उपलब्धिलक्षणप्राप्तस्य या "अनुपलब्धिः" तदन्योपलब्धिरूपा त"न्मात्रे" निमित्तान्तरानपेक्षणी, या "वृत्तिः" प्रवृत्तिरसव्द्यवहारस्य तस्याः "साधनं" सिद्धिः अनुपलब्धवन्वयनिश्चयः । कुतः पुनरसव्द्यवहारस्य तन्मात्रे वृत्तिर्भवति? इत्याह- "निमित्तान्तराभावोपदर्शनात्" इति । यदा ह्यसव्द्यवहारस्य यथोक्तानुपलद्भिव्यतिरिक्तं बुद्धिव्यपदेशार्थक्रियाविरहादिकं निमित्तं न भवतीति साध्यते तदा यथोक्तानुपलब्धिमात्रे ऽस्य वृत्तिः सिद्धा भवति । तथा(तया) चानुपलब्धावन्वयनिश्चयः । अन्यथा हि निमित्तान्तरापेक्षाशङ्कायां सत्यामपि यथोक्तानुपलब्धौ नावश्यमसव्द्यवहारस्य भाव इति कुतो ऽन्वयनिश्चयः स्यात्? । निमित्तान्तराभावस्तु विस्तरतो वादन्याय उक्त इति तत एवावधार्यः ।

अथवा सव्द्यवहारस्य यन्निमित्तमुपलब्धिलक्षणप्राप्तस्य सत्त्वम् तद् असव्द्यवहारनिमित्तादन्यत्वात् निमित्तान्तरं तत्रानुपलब्धेरभाव उपदर्श्यते येन प्रमाणेन तदेवमुक्तम्, तेन, सति वस्तुनि तस्या असम्भवनिश्चयाद् अनुपलब्धावन्वयनिश्चयः । तच्च तव्द्यतिरेकचिन्तायां दर्शयिष्यामः ।

तदेवं त्रयाणामपि हेतूनां यथास्वं प्रमाणेनान्वयनिश्चय उक्तः । स्वभावहेतौ विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यसिद्धिनिबन्धनत्वात्, कार्यहेतौ प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावसिद्धिनिमित्तत्वात्, अनुपलब्धौ निमित्तान्तराभावप्रसाधकप्रमाणस्तदभवसिद्धिहेतुत्वाच्चेति ।

[34. कार्यस्वभावयोर्व्यतिरेकनिश्चयोपायकथनम् ।]

सम्प्रति त्रयाणामपि हेतूनां स्वस्वप्रमाननिबन्धनं व्यतिरेकनिश्चयं प्रतिपादयितुकाम आह- "व्यतिरेकनिश्चयो ऽपि" न केवलमन्वयनिश्चयो यथास्वं प्रमाणनिबन्धनस्तयोरुक्तः अपि तु "व्यतिरेकनिश्चयो ऽपि कार्यस्वभावहेत्वो" र्यथास्वं प्रमाणनिमित्त उच्यते ।

कः पुनरसौ? "साध्याभावे ऽभावसिद्धिः" । यावतदात्मक[तदात्मकौ हेतू कारणव्यापकरूपसाध्यस्य साधकौ] साध्याभावे चाभावसिद्धिस्तयोः । केन प्रमाणेन? । "कारणव्यापकानुपलब्धिभ्यां" । कार्यहेतौ कारणानुपलब्ध्या साध्याभावे ऽभावनिश्चयः । स्वभावहेतौ व्यापकानुपलब्ध्या । कदा पुनस्ते अनुपलब्धी साधिके तस्य भवतः? । "कार्यकारणव्याप्यव्यापकभावसिद्धौ" प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावसिद्धौ सत्यां कारणानुपलब्धिः कार्यहेतौ साध्याभावे ऽभावस्य साधिका, विपर्यये च बाधकप्रमाणवृत्त्या तद्भावतासिद्धितः । व्याप्यव्यापकभावसिद्धौ सत्यां व्यापकानुपलब्धिः स्वभावहेतौ साध्याभावे ऽभावस्य साधिकेति । तदेवं ब्रुवता उभयत्र तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धनिश्चयादेव द्वयोरप्यन्वयव्यतिरेकयोः निश्चय इति उक्तं भवति । अत एवान्यत्र- "कार्यकारणभावाद् वा" इत्यादि उक्तम् । कीदृशीभ्याम्? "दृश्यविषयाभ्यां" दृश्यो विषयो ययोस्ते तथोक्ते । यदि कारणव्यापकावुपलब्धिलक्षणप्राप्तौ भवतस्तदा तदनुपलब्धी साध्याभावे ऽभावं साधयत इति यावत् । कदा पुनस्तयोः दृश्यविषयताविशेषणमपेक्ष्यते? इत्याह- "उद्दिष्टविषयस्य" उद्दिष्टः- कथितो विषयः- आधारो वैधर्म्यदृष्टान्तलक्षणो यस्य साध्याभावे ऽभावस्य तस्योपदर्शने क्रियमाणे । तत्रापि (ह्ब्ट् 52) कस्माद् दृश्यविषयतापेक्ष्यते? इति चेत् आह- "अनुपलब्धि" इत्यादि । "अन्यथा" यदि दृश्यविषयताविशेषणमनुपलब्ध्योर्नापेक्ष्यते । यदानुपलब्धिलक्षणप्राप्तं विषयं वैधर्म्यदृष्टान्तरूपमुपादत्ते तदानुपलब्धिलक्षणप्राप्तौ तत्र कारणव्यापकावपि भवत इति "अनुपलब्धिलक्षणप्राप्तस्यः" कारणस्य व्यापकस्य वा "क्वचिद्" विप्रकृष्टे विषये सुमेर्वादौ "अभावासिद्धेः" कथमाभ्यां साध्याभावे ऽभावसिद्धिः स्यात्, कारणव्यापकानुपलब्ध्योरेवासिद्धत्वात् इत्यभिप्रायः ।

अथानुद्दिष्टविषयस्याप्यभावस्योपदर्शने ऽनुपलब्ध्योर्द्दश्यविषयताविशेषणं किमित्ति नापेक्ष्यते? इत्याह- "अनुद्दिष्टविषयम्" अनुद्दिष्टो विषयः- वैधर्म्यदृष्टान्तरूपो यस्मिन् साध्याभावे हेत्वभावख्यापने तत् "प्रतिबन्धमात्रसिद्धौ" सत्यां दृश्यविषयताविशेषणमन्तरेणापि यस्मात् "सिध्यति इति" तस्मात् "न तत्र" अनुद्दिष्टविषये "व्यतिरेकसाधने" अनुपलब्ध्यो "र्दृश्यविषय ताविशेषणमपेक्ष्यते" अङ्गीक्रियते । तथा हि- अशेषपदार्थपरिग्रहेण सामान्येनापि ब्रुवतो यो यत्र प्रतिबद्धस्वभावः तादात्म्यतदुत्पत्तिभ्यां स तदभावे ऽवश्यमेव न भवतीति निःस्वभावत्वाहेतुकत्वप्रसङ्गात् । तदुक्तम्-

"स्वभावे ऽप्यविनाभावो भावमात्रानुरोधिनी । तदभावे स्वयं भावस्याभावः स्यादभेदतः ॥"

तथा- "कार्यं धूमो हुतभुजः कार्यधर्मानुवृत्तितः । स भवंस्तदभावे ऽपि हेतुमत्तां विलङ्घ्येत् ॥" इति ।

ततस्तत्र दृश्यविषयतापेक्ष्यमाणानुपकारिकैवेति न तया किञ्चिदिति भावः ।

"प्रतिबन्धमात्रसिद्धौ" इत्यनेन ये प्रतिबन्धं हेतोर्न वर्णयन्ति किन्त्वदर्शनमात्रादेव व्यतिरेकमाहुस्तेषां तदसम्भवं व्च दर्शयति । तथा हि- असति प्रतिबन्धे यदि सर्वे साध्यविरहिणो ऽर्था दृश्या भवन्ति तदा तेष्वनुपलब्धस्य साधनस्याभावः शिष्येत् । तदाह कुमारिलो ऽपि-

"गत्वा गत्वा तु तान् देशान् यद्यर्थो नोपलभ्यते । तदान्यकारणाभावादसन्नित्यवगम्यते ॥" इति ।

देशादिविप्रकर्षितया त्वदृश्यत्वे सत्यपि तत्र हेतावनुपलम्भमात्रस्य सम्भवात् सन्दिग्धो ऽसावऽशेषे साध्याभावे साधनाभावलक्षणो व्यतिरेकः तथाविधस्यैव यत्र यत्र साध्याभावः तत्र तत्र साधनाभाव इति वीप्सापदाभ्यामभिधानात् । अन्वयनिश्चयो ऽपि प्राक्प्रतिबन्धनिबन्धन एव वर्णितः ततस्तेनापि परेषां दर्शननिबन्धनामन्वयसिद्धिमिच्छतामभावो ऽस्यापि कथित एव, सर्वार्थानां हेतुमतां साध्यधर्मवत्तया द्रष्टुमशक्यत्वादनुमातृभिः । अशेषदेशादिविषयस्य च साध्यानुगमस्य यत्र यत्र हेतुः तत्र तत्र साध्यम् इति वीप्सया प्रतिपादनात् । न च कतिपयदेशादौ साधनधर्मस्य साध्यधर्मेण सहभावस्य भूयो दर्शने ऽपि व्याप्तिः सिध्यति, असति प्रतिबन्धे क्वचिद् बहुलं तथादृष्टानामप्यन्याथात्वस्यापि सम्भवात्, तदसम्भवे बाधकप्रमाणाभावात् ।

[35. अनुपलब्धौ व्यतिरेकनिश्चयोपायाकथनम् ।] अनुपलब्धिमधिकृत्याधुनाह- "व्यतिरेकनिश्चयो ऽनुपलधौ" उच्यत इति शेषः । किमात्मको ऽसौ? इत्याह "उपलब्धिलक्षणप्राप्ताद्" विद्यमानोपलम्भप्रत्ययान्तराद् दृश्यस्वभावाच्च "सतः" विद्यमानात् साध्याभावरूपाद् "अनुपलम्भस्य" तद्विविक्तोपलम्भात्मनो यो ऽभावः सतो यद्ग्राहकं प्रत्यक्षं तद्भावलक्षणस्तस्य "दर्शनं" दर्श्यते- प्रत्याय्यते ऽनेनेति दर्शनम् उपदर्शकं प्रमाणं तदात्मको ऽनुपलब्धौ व्यतिरेकनिश्चयः । तद्धेतुत्वाच्च तत् प्रमाणं तथोच्यते । यदि हि सन्निहितान्योपलम्भप्रत्ययो दृश्यस्वभावो भावो विद्यमानो ऽपि नोपलभ्येत कथमसौ (ह्ब्ट् 54) दृश्यस्वभावः स्यात्? । यो हि सत्स्वन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स एव दृश्यस्वभाव आख्यायते । तस्मात् तथाविधे सन्निहिते ऽवश्यं प्रत्यक्षवृत्त्या भवितव्यम्, अन्यथास्य न कदाचिदपि प्रत्यक्षता स्यात्, विशेषाभावादिति । प्रयोगः- यद् यन्मात्रनिमित्तं तत्स्मिन् सति नियमेन भवति । तद् यथा- बीजादिसामग्रीमात्रनिमित्तो ऽङ्कुरः । यथोक्तोपलब्धिलक्षणप्राप्ततामात्रनिमित्तं च सति वस्तुनि तथाविधे प्रत्यक्षमिति स्वभावहेतुः । [एते]न प्रमाणेन स्वभावानुपलब्धौ साध्याभावे ऽभावलक्षणो व्यतिरेको निश्चीयते । एतच्च प्रमाणमन्वयनिश्चयस्यापि निमित्तम् । अनेनैव निमित्तान्तरे ऽनुपलब्धेरभावोपदर्शनात् । कारणव्यापकानुपलब्ध्योस्तु वक्ष्यमाणयोः प्रतिबन्धद्वयसिद्व्युपाय एवान्वयव्यतिरेकनिश्चयनिबन्धनम् । स च कार्यस्वभावहेत्वोरुपदर्शित एवेति पृथग्नोक्तः । तथा हि- कारणव्यापकयोरभावः कार्यव्याप्याभावाभ्यामवश्यमन्वितः कार्यव्याप्याभावव्यतिरेके च तद्भावलक्षणे ऽवश्यं व्यतिरिच्यते कारणव्यापकयोर्भावात् । अन्यथा कार्यव्याप्ययोरहेतुकत्वनिःस्वभावताप्रसङ्गादिति न किञ्चित् पृथगभिधानेनेति ।

[36. हेतोः प्रकारत्रयस्य नामनिर्देशः ।]

तदेतावता ग्रन्थेन "पक्षधर्मस्तदंशेन व्याप्तो हेतुः" इति व्याख्यातम् । अधुना "त्रिधैव सः" इत्येतद् व्याख्यातुमाह- "एतल्लक्षणः" 'पक्षधर्मः सन् यस्तदंशेन व्याप्तो हेतुःऽ; इत्येतल्लक्षणं यस्य स एतल्लक्षणः । "त्रिधैव सः" । 'सःऽ; इत्येतस्य व्याख्यानं "हेतु"रिति, । 'त्रिधैवऽ; इत्यस्य विवरणं "त्रिप्रकार एवे" ति । तान् हेतून स्वेन स्वेन नाम्ना कीर्तयति- "स्वभावः कार्यम् अनुपलब्धिश्चेति" । "च"कारो हेतुत्वसमुच्चयार्थः । "इति" शब्दः समाप्तिं सूचयन्नवधारणार्थमेव स्फुटयति । "यथा- अनित्ये" कस्मिंश्चित् शब्दादौ "साध्ये सत्व(त्त्व)मिति" स्वभावहेतूपदर्शनम्, (ह्ब्ट् 55) "अग्निमति प्रदेशे" साध्ये "धूम इति" कार्यहेतोः प्रदर्शनम्, "अभावे च" अभावस्य व्यवहारे च "उपलब्धिलक्षणप्राप्तस्यानुपलब्धिरिति" अनुपलब्धेरुपन्यासः । [37. त्रिविधहेतुबाह्यानां हेत्वाभासत्वे प्रमाणोपदर्शनम् ।]

कस्मात् पुनः त्रिविध एव हेतुः? इत्याशङ्कय त्रिविधहेतुव्यतिरिक्तानामर्थानां हेत्वाभासतया हेतुविरुद्धया व्याप्तेस्त्रिष्वेव हेतुत्वं नियतं भवतिति हेत्वाभासतां प्रमाणवतीं तद्व्यतिरेकिणां दर्शयन्नाह- "अत्रैव" स्वभावकार्यानुपलब्ध्याख्ये "त्रिविधहेतौ अविनाभावस्य नियमादिति" त्रिविधहेतुव्यतिरिक्तेष्वर्थेष्वविनाभावाभावादित्यर्थः । ततश्चाविनाभावविकलत्वात् स्वभावकार्यानुपलब्धिव्यतिरेकिणो ऽर्था हेत्वाभासाः प्रमेयत्वादिवत् इत्युक्तं भवति । अविनाभावाभावश्च त्रिविधहेतुव्यतिरिक्तत्वादेव तादात्म्यतदुत्पत्त्योरविनाभावव्यापिकयोरभावाद् व्यापकानुपलब्धितो ऽवगतः ।

[38. अविनाभावनिरूपणम् ।]

अथ को ऽयमविनाभावः? कस्य चासौ? कथं वात्रैव नियत उच्यते? इत्यत आह- "यथोक्ता व्याप्तिः व्यापकस्य"- तत्कारणतया तद्भावतया च । यत्र तद्वयाप्यं कार्यं स्वभावो वा सन्निहितस्तत्र भाव एव । "व्याप्यस्य वा"- कार्यस्य स्वभावस्य वा । यत्र तत्कारणस्वभावाख्यं व्यापकं सन्निहितं तत्रैव धर्मिणि न तदभावे ऽपि भाव इति या व्यापकव्याप्यधर्मतया व्याप्तिरुक्ता सा "यथोक्ता व्याप्तिरविनाभावः" । कस्य? । "पक्षधर्मस्य" । साध्यधर्मिधर्मस्य । "स" एवंरूपो ऽविनाभावः "तृ(त्रि)विधाद्" यथोक्ताद् हेतोः "अन्यत्रः" तद्व्यतिरेकिण्यर्थे "नास्ति" । यतो ऽत्र च तृ(त्रि)विधे ऽस्ति तादात्म्यतदुत्पत्त्योरविनाभावेन व्याप्तयोर्भावात्, कृतकत्वानित्यत्ववदनयोर्व्याप्यव्यापकभावादिति "तस्मादत्रैव" त्रिविधे हेतौ तदन्यत्राभावमुखेन "नियतः" उच्यते । तदनेन "हेत्वाभासास्ततो ऽपरे" इत्यस्य "अविनाभावनियमात्" इत्युपपत्तिसहितस्यार्थः प्रदर्शितः । यथा च त्रिविधाद् हेतोरन्यत्राविनाभावो नास्ति तथा प्रागेवोक्तम् ।

यदि वा स्वभावादन्यो ऽर्थो ऽर्थान्तरम्, तच्च कार्यादप्यन्यत् कारणमनुभयं वा । अनुपलब्धेरप्यन्यद् यथोक्तायाः अनुपलब्धिमात्रमुपलब्धिर्वा प्रतिषेध्यस्य तदन्यस्यापि विरुद्धस्याविरुद्धस्य वा । तत्रार्थान्तरम् यद्यनन्तरकार्यं तस्यार्वाग्दर्शिभिः इतरविवेकेन लक्षयितुमशक्यत्वात् अलिङ्गत्वम् । कार्यदर्शनात् विवेकावसाये ऽपि साध्यसिद्युत्तरकालभावी पक्षधर्मतावसायो ऽन्वयानुगमनं च व्यर्थं । व्यवहितकार्यमपि कारणं न कार्यस्य लिङ्गम्, अन्तरालप्रतिबन्धवैकल्यसम्भवेन व्यभिचारात् । तदुक्तम्-

"सामग्रीफलशक्तीनां परिणामानुबन्धिनि । अनैकान्तिकता कार्ये प्रतिबन्धस्य सम्भवात्" ॥

इति । योग्यतानुमाने तु नार्थान्तरं लिङ्गम् ।

नाप्यनुभयम्, अप्रतिबन्धेन गमकत्वायोगात् । कथं कृत्तिकोदयविज्ञानाद् रोहिण्यासत्तिक्लृप्तिः? इति चेत् । ननु सापि नैवासति प्रतिबन्धे युक्ता विशेषाभावेन सर्वतः सर्वप्रतीतिप्रसङ्गात् इत्युक्तत्वात् । तस्मान्नक्षत्रचक्रस्य सङ्क्रान्तिहेतुरेव कालव्यवधानेन कश्चित् कल्पयितव्यः, यथा भूतसंक्षोभः पश्चात्कालभाविनो वर्षस्येति हेतुधर्मानुमानेन कार्यलिङ्गजैव कल्पयितव्या ।

अनुपलब्धिमात्रमपि संशयहेतुः, प्रमाणनिवृत्तावप्यर्थाभावासिद्धेः । उपलब्धिरपि प्रतिषेध्यस्य कथमभावं साधयेत्?, अभ्रान्तोपलम्भस्याभावायोगात् । विरुद्धोपलब्धिस्तु प्रतियोग्यभावं साधयति । किन्तु स विरोधस्तद्भावे सत्यन्यानुपलम्भादेव सिद्ध इति तद्द्वारेणानुपलब्धिरेव प्रयुक्ता भवति । अन्यथानिषिद्धोपलब्धेरभावासिद्धेः । अविरुद्धोपलब्धिः पुनः प्रतिषेधे ऽनैकान्तिकी, सहभावसम्भवादविरुद्धानाम् । न चापरः प्रकारः सम्भवतीति नाविनाभावो ऽन्यत्र विद्यत इति ।

[2. स्वभावहेतुनिरूपणम् ।]

[1. स्वभावहेतोर्लक्षणाभिधानम् ।]

इदानीं स्वभावहेतोस्तावल्लक्षणमाह- "तत्र" हेतुत्रये स्वभावहेतोस्तावल्लक्षणमुच्यते । साध्यते येन तत् साधनम् । तच्चासौ धर्मश्च तस्य भावस्तद्भावः । स एव "साधनधर्मभावमात्र"म् । तस्य "अन्वयः" । स यस्यास्ति साध्यधर्मस्यावयवे समुदायोपचारात्, तस्मिन् । "स्वभावो हेतुः" । साध्यधर्मस्य श्रुतत्वात् तस्यैव स्वभाव इति गम्यते । कथं पुनरसौ साध्यधर्मस्वभावो? यावता भेदेन प्रतीयत इत्यत आह- "अपरस्मादपरस्माच्च" असतो ऽक्षणिकाच्च या "व्यावृत्ति"स्तस्या यो "भेदः" अवधिभेदोपकल्पितस्तेन हेतुभूतेन "साध्यधर्मात् साधनधर्मस्य" यो "भेद"स्तस्मिन् "सत्यपि" "वस्तुतः" परमार्थतो "लिङ्गस्वभाव एव" साध्यधर्मस्वभाव एव । तथा हि- य एवासतो व्यावृत्तः स एवाक्षणिकादपि । तत एकस्माद् धर्मिणो भेदाभावात् साध्यसाधनधर्मावपि परमार्थतो नैव भिद्येते इति ।

[2. परमतनिरासार्थं साध्यधर्मे साधनधर्मभावमात्रेत्यादिविशेषणम् ।]

यदि वस्तुतो लिङ्गिस्वभाव एव साधनधर्मः, तत् कस्मात् "साधनधर्मभावमात्रान्वयिनि" इति साध्यधर्मो विशेष्यते? । यो हि यस्य स्वभावः स कथं तन्मात्रान्वयी न स्यात्?, नीरूपत्वप्रसङ्गादतत्स्वभावता वा इत्यत आह- हेतुः स्वभावो यस्य साध्यधर्मस्य तस्मिन् "हेतुस्वभावे" "साध्यधर्मे" सति "अन्वयव्यभिचाराभावात्" साधनधर्मभावमात्रस्य यो ऽन्वयस्तस्य व्यभिचाराभावात् । सम्भवे व्यभिचारे च विशेषणं युक्तम् । अत्र तु सम्भव एव न व्यभिचार इति "विशेषणमयुक्तमेव । तथापि" स्वभवहेतुलक्षणे क्रियमाणे यदेतत् "साध्यधर्मस्य" "तन्मात्रान्वयेन" साधनधर्मभावमात्रानुगमनेन विशेषणं "तत् परमतापेक्षं" नैयायिकादीनां विप्रतिपत्तेस्तन्मतापेक्षं न तु स्वमतापेक्षम् ।

तामेव परविप्रतिपत्तिं दर्शयन्नाह- "परे हि" नैयायिकादयः "अर्थान्तरनिमित्तः" जनकादर्थादन्यो यो ऽर्थो वेगवद्द्रव्ययोगादिः तन्निमित्तम् । ते ह्येवमाहुः- वेगवद्द्रव्ययोगादवयवेषु कर्माण्युत्पद्यन्ते । तेभ्यो ऽवयवविभागः । ततस्तत्संयोगविनाशस्तदारब्धं कार्यद्रव्ये ऽपि (कार्यद्रव्यमपि) नश्यतीति । एवमर्थान्तरं निमित्तं । तत एव "अर्थान्तरनिमित्तपेक्षमाणं" कृतकत्वादिभावे ऽप्यभावाद् "अतद्भावमात्रान्वयिनं" तस्य कृतकत्वादेः भावः सत्ता सैव तन्मात्रं तस्यान्वयः स यस्यास्ति साध्यधर्मस्य अनित्यत्वलक्षणस्य तद्विपरीतम् "अपि" कृतकत्वादेः "स्वभावमिच्छन्ति" यतः ततो विशेषणं कृतम् । तेन च विशेषणेन तथाविधस्यार्थान्तरनिमित्तस्य विनाशस्यातत्स्वभावतामाह लक्षणे विशेषणकारः । स्वसत्तामात्रभाविन्येव स्वभावत्वं नान्यत्रेति विशेषणेन सूचनात् ।

[3. हेतुमति विनाशे साध्ये कृतकत्वस्य व्यभिचारित्वम् ।]

तथा, "तस्मिन्" अर्थान्तरनिमित्ते साध्ये "हेतोः" कृतकत्वादेः व्यभिचारमनैकान्तिकतां चाह । अत्रोदाहरणं "यथा हेतुमति विनाशे" साध्ये "कृतकत्वस्य" हेतोः "अतत्स्वभावता व्यभिचारश्चेति" ।

ननु च कृतकत्वस्वभावता अनित्यताया भेदोपगमात् नेष्टैव परैस्तत् किमुच्यते- "अतद्भावमात्रान्वयिनमपि स्वभावमिच्छन्ति" इति? । एवं मन्यते- व्यतिरिक्तावपि कृतकत्वानित्यत्वाख्यौ धर्मावभ्युपगच्छद्भिरवश्यम् 'अभूत्वा भवनं भूत्वा चाभवनमनवस्थायिस्वभावत्वम्ऽ; अभ्युपगन्तव्यम्, अन्यथात्मादिष्वपि कृतकत्वानित्यत्वे विशेषाभावाद् भवेताम् । ततो यदेव'अभूत्वा भवनं भूत्वा [ऽभवनं] चानवस्थायित्वम्ऽ; उपादीयते भावस्य तयोरेव तद्दर्शनबलोत्पन्नकृतकत्वानियत्वभेदावभासिकल्पनाद्वारेण साध्यसाधनभावो ऽस्तु, किं व्यतिरिक्तधर्मकल्पनया? । कल्पयित्वापि वस्त्वात्मन एवार्थक्रियानिबन्धनतया तदर्थिभिः चिन्त्यत्वात् । तदुक्तम्-

"सदसत्पक्षभेदेन शब्दार्थानपवादिभिः । वस्त्वेव चिन्त्यते ह्यत्र प्रतिबद्धः फलोदयः ॥

अर्थाक्रियासमर्थस्य विका(चा)रैः किं तदर्थिनाम्? । षण्ढस्य रूपवैरूप्ये कामिन्याः किं परीक्षया? ॥"

इति । तस्माद् दृष्टा अपि भावाः केनचिदात्मना तदन्यव्यावृत्तेन कथञ्चिन्निश्चिताः तदन्येनाप्यतद्रूपव्यावृत्तेनात्मना भ्रान्तिकारणसद्भावादनिश्चीयमानाः, निश्चितानिश्चितयो रूपयोः प्रमाणान्तरतः प्रतिबन्धावसायापुरोवर्तिनो ऽनुमानतो निश्चीयते इति अनित्यतास्वभावभूतस्यैव कृतकत्वस्य विनाशं प्रति लिङ्गता युक्ता । तथा च विनाशस्वभाव एव कृतकत्वाख्यो हेतुः तैर्यथोक्तन्यायादिष्टो भवति । तस्यातन्मात्रान्वयित्वे ऽर्थान्तरनिमित्ततया विशेषणेनातत्स्वभावता कथ्यते ।

स्यान्मतम्- कृतकत्वेन साक्षद् हेतुमान् विनाशो ऽनुमीयते ततः प्राक्प्रध्वंसाभवविशेषणा सत्ता तत्समवायो वानित्यता व्यवस्थाप्यते । अत एवात्मादिष्वनित्यताप्रसङ्गाभावः । विनाश इति च न भावाभावं प्रध्वंसलक्षणं मन्यामहे । कृतकत्वं तु स्वकारणसत्तासमवायम् । तस्य विशेषणेन विनाशो ऽस्व(शास्व)भावताख्यापने न किञ्चिदनिष्टमिति ।

तदयुक्तम्, तथाविधस्य विनाशस्य हेतुमत्ताविरोधात्, स्वयमेव चैतदाचार्यो वक्ष्यति । न च तेनानुमितेन किञ्चित्, तस्यार्थक्रियासामर्थ्यविकलत्वात् । सुखदुःस्वसाधने ज्ञात्वा यथार्हं प्रतिपित्सवो हि किञ्चित् परीक्षन्ते न व्यसनितया । तस्मादनेनास्थिरस्वभावतैव भावस्यानुमातव्या । सैव च हेतुमती (ह्ब्ट् 60) कल्पनीया । अन्यथा भावाविलक्षणस्य प्रध्वंसाभावस्य मुग्दरादेरुदये ऽपि तस्य भावे ऽनुपयोगात् स भावस्तदवस्थ एवेति कथं तद्विशेषणा सत्ता तत्समवायो वा अनित्यता स्यात्? । अविचलितरूपस्य च भावस्य मुग्दरादिकृतप्रध्वंसाभावविशेषणौ सत्तासमवायौ यद्यनित्यता, किं नात्मादेरपि? इति प्रसङ्ग तदवस्थ एव । स्वकारणसमवायो ऽपि चाभूत्वा भवनमनिच्छतो न सिध्यति । अभूत्वा भवत एव च या सत्ता सैव कृतकत्वं वर्ण्यते । न च सत्तासमवाययोर्नित्यतयोपगतयोर्निरतिशयत्वात् प्राक्प्रध्वंसाभावौ विशेषणं युज्येते । अभूत्वा भवनोपगमे च तदेव कृतकत्वमस्थिरस्वभावता च विनाशो ऽस्तु । किं निष्फलया अप्रमाणिकया प्रमाणबधितयऽर्थान्तरकल्पनया? । एवं कृतकत्वविनाशयोस्तादात्म्योपगमो ऽवश्यम्भावी परेषामपि । ततो विनाशस्यास्थायित्वलक्षणस्यार्थान्तरनिमित्ततोपगमे कृतकत्वस्यातत्स्वभावता विशेषणेन ख्याप्यते । तन्निष्पत्तावनिष्पन्नस्य भिन्नहेतुकस्य च तत्स्वभावत्वायोगात् ।

तथा, तस्मिन् साध्ये कृतकत्वस्य व्यभिचारः । तथा हि- ये यत्र हेत्वन्तरापेक्षिणो न ते तत्रावश्यम्भाविनः, यथा वाससि रागः । हेत्वन्तरापेक्षी च कृतकेष्वपि भावेषु प्रध्वंसाभाव इति विरुद्धव्याप्तोपलब्धिः ।

ननु वाससि रागस्य परिमितहेतुत्वात् तस्य च स्वकारणायत्तसन्निधानत्वात् तदाश्रयस्य च विधुरप्रत्ययोपनिपातेनास्थिरतया नावश्यम्भविता युक्तैव । न पुनर्विनाशस्य, तद्धेतूनामानन्त्यादवश्यं कस्यचिद् घटादिषु सन्निधेः । न च विनाशस्याश्रयं प्राक् तद्धेतुसन्निधेः केचिदुपघ्नान्ति, यतस्तदभावाद् विनाशो नारभ्येतेति ।

तदयुक्तम्, यतो यद्यपि बहुलं विनाशकारणानि सन्ति तथापि तेषां स्वकरणायत्तसन्निधित्वात् तथा तत्कारणानां च स न्निहितानामपि विरोधिनामप्यानत्यात् तद्भावे तच्छक्तिप्रतिबन्धान्नावश्यं हेतवः फलवन्त इति कश्चिन्न विनश्येदपीति व्यभिचारो (ह्ब्ट् 61) न निवर्तते । नन्वयं वाससि रागः सापेक्षो ऽपि यदि सर्वत्रोपलभ्येत ततः किमवश्यम्भावी न स्यात्? । स्याद्, यदि तथोपलभ्येत । स त्वन्यथापि गृह्यते । यद्येवं न तर्हि सर्वत्रोपलब्धस्य विनाशस्यान्यथाभावशङ्कया मनसि खेद आधातव्यः । किं वा पुनर्भवान् समस्तवस्तुविस्तरव्यापिज्ञानालोकः?, येनैवं वदति । तथाभावे वा कथमनुमानवृत्तिर्दृष्टे न वैफल्यमश्नुवीत? । कस्यचित् तु हेतुकृतविनाशदर्शने ऽपि हेत्वायत्तजन्मनमन्यथापि दर्शनाद् उपजाताशङ्को देशकालस्वभावविप्रकृष्टेषु कथं तथाभावं निश्चिन्वीत? । कृतकमपि चायं भवभावलक्षणं विनाशं नित्यमुपैति, तद्विनाशोपगमे भावस्योन्मज्जनप्रसङ्गात् । न चास्य घटादेरिव विनाशहेतुरुपलभ्यते कश्चिदिति । तदुक्तम्-

"घटादिषु यथा दृष्टा हेतवो ध्वंसकारिणः । नैवं नाशस्य सो ऽहेतुस्तस्य संजायते कथम्? ॥"

इति । ततः कृतकत्व विनाशे साध्ये तेनैव व्यभिचारः किं नेष्यते? ।

भावानामयमैकान्तिक एव धर्म इति चेत्, कुतः पुनरेतदवसितम्? । तेषामन्यथाभावस्यानुपलम्भादिति चेत् । नन्वयमनुपलम्भो भवन्नप्यात्मादेरनिवर्तकः सत्तायाः, कथमन्यत्रान्यथाभावं निवर्तयति? । तस्यानुमानेनोपलम्भादिति यद्युच्येत तदा तत्राप्यनुमाने विपक्षे वृत्तिमनुपलम्भ एव हेतोः कथं निवर्तयति? इति यत्किञ्चिदेतत् । तस्मात् साधूक्तम्- 'हेतुमति विनाशे कृतकत्वस्यास्वभावतां व्यभिचारं चाहऽ; इति अलमतिजल्पितेनेति ।

[4. परार्थानुमाने साधर्म्यवैधर्म्यप्रयोगोदाहरणम् ।]

इदानीं यद्यपि स्वार्थानुमानं प्रकृतं तथापि कश्चित् प्रयोगदर्शनाभ्यासात् प्रयोगभङ्गयैव प्रतिपद्यत इति स्वार्थानुमाने ऽपि (ह्ब्ट् 62) तत्स्वम्भवात् प्रसङ्गेन परार्थानुमानं च व्युत्पादयितुमाह- "तस्य" स्वभावहेतोः "द्विधा" त्रैलक्षण्यप्रतिपादको वचनोदाहारः "प्रयोगः" । तमेव दर्शयति- समानो धर्मो यस्य तस्य भावः तेन "साध्य(ध)र्म्येणैकः" प्रयोगः । "अपरो" विसदृशो धर्मो यस्य तस्य भावः तेन "वैधर्म्येण" ।

यथाक्रममनयोरुदाहरणमाह- "यथा यत् सत्" । यद्यत्सदिति वीप्साप्रधानो यच्छब्दः । "तत् सर्वम्" इति तच्छब्दो ऽपि वीप्साप्रधान एव । अत्र सर्वग्रहणेन चाशेषपरिग्रहाद् बहिर्व्याप्तेर्निरासः । "यथा घटादयः" इति । यस्य सत्त्वक्षणिकत्वयोः प्रतिबन्धप्रसाधकं प्रमाणं घटादौ प्रवृत्तं तं प्रति तत्र स्मृतिसमाधानार्थं दृष्टान्तवचनं न साध्यसिद्ध्यर्थम् । दृष्टान्तमात्रतः साध्यसिद्धेरभावात् । न ह्येकस्य तथा भावे सर्वस्तथा भवति, अतिप्रसङ्गात् । "संश्च शब्दः" इति पक्षधर्मोपसंहारः ।

वैधर्म्यप्रयोगस्योदाहरणम्- "तथा" इत्यादि । तथाशब्दः समुच्चये । वैधर्म्येण च प्रयोग उदाह्रियते । अत्रापि सर्वग्रहणं विभक्तिविपरिणामेन सम्बन्धनीयम् "क्षणिकत्वाभावे" सर्वस्मिन् "सत्त्वा(त्त्वा)भावः" इति ।

प्रयोगद्वये ऽपि सर्वग्रहणस्य फलं दर्शयन्नाह- "सर्वस्मिन् साधनधर्मवति" धर्मिणि न दृष्टान्तधर्मिण्येव "साध्यधर्मस्यो" पसंहरणं "उपसंहारो" ढौकनं तेन या "व्याप्तिः" 'व्यापकस्य तत्र भाव एवऽ; इत्यादिरूपा तस्याः प्रदर्शनं प्रतिपादनं तदेव "लक्षणं" ययोः तौ तथोक्तौ । ततश्च ये साध्यधर्मिणं परिहृत्य बहिर्व्याप्तिं प्रदर्शयन्ति ते- यद्यपि दृष्टान्तधर्मिणि साध्यधर्मेण साधनधर्मो व्याप्तः तावतास्य सर्वत्र तथाभावाभावात् साध्यसिद्धिरयुक्तेति- निरस्ता भवन्ति । सर्वत्र वा साध्यधर्मेण साधनधर्मस्य व्याप्तिः तद्भावे, सा तथाविधैव किन्न प्रदर्श्यते येनासमर्था बहिर्व्याप्तिराख्यायते? । न हि 'स श्यामः, तत्पुत्रत्वात्, परिदृश्यमानपुत्रवद्ऽ; इति तत्पुत्रत्वस्य (ह्ब्ट् 63) श्यामत्वेन साध्याद् बहिः परिदृश्यमानपुत्रे व्याप्तिप्रदर्शने ऽपि साध्यसिद्धिर्भवति । तस्माद् यैव सर्वोपसंहारेण व्याप्तिः प्रमाणसिद्धप्रतिबन्धनिबन्धना साध्यसिद्धौ समर्था सैव तत्स्मृतये प्रदर्शनीया । न च सर्वोपसंहारेण व्याप्तिप्रदर्शने ऽपि धर्मविशिष्टो धर्म्यपि तदैव प्रतीयते, यतः पक्षधर्मोपदर्शनोत्तरकालभाविनो ऽनुमानस्य स्मृतित्वं स्यात् । तस्याः साध्यधर्मिणि साध्यधर्माविनाभूतसाधनधर्मप्रतीतिनिबन्धनत्वेन तदुपदर्शनात् प्रागसम्भवात् । तत्पूर्विकायां च व्याप्तौ अनन्तरं विशेषविषयमनुमानं कथं स्मृतिः स्यात्? इति ।

[5. वैधर्म्यप्रयोगे ऽपि व्याप्तिप्रदर्शनं संगतम् ।]

ननु च साधर्म्यप्रयोगस्य व्याप्तिप्रदर्शनलक्षणत्वं युक्तम्, साधनधर्मे सति साध्यधर्मस्यवश्याम्भाविताप्रदर्शनात्; वैधर्म्यप्रयोगस्य तु कथम्? । तत्र हि केवलं साध्याभावे हेत्वभावः कथ्यते, न तु हेतौ सति साध्यस्य भाव एवेति । नैष दोषः । न ह्यत्र साध्याभावे हेत्वभावस्तुच्छरूपो दर्श्यते, तस्य हेतुरूपताविरोधात् । वस्तुधर्मो हि सत्त्वादिको हेतुः । तस्यात्मन एवाभावः कथं [हेतुस्व]रूपं भविष्यति, यतस्त्रिरूपो हेतुर्भवेत् । किन्तु निवृत्तौ निवृत्तिधर्मकत्वं स्वगतो धर्म उपदर्श्यते वैधर्म्यप्रयोगेण, तथाविधे च साधनधर्मे ऽवश्यंतया साध्यधर्मस्य भावः प्रतीयत एव, अन्यथा तन्निवृत्तौ निवृत्तिधर्मकत्वस्यैवायोगादिति न व्याप्तिप्रदर्शनलक्षणत्वं वैधर्म्यप्रयोगस्य न युज्यते ।

[6. प्रतिज्ञाप्रयोगस्य नैरर्थक्यम् ।]

ननु द्विविधे ऽपि प्रयोगे प्रतिज्ञाप्रयोगो नोपदर्शितः तत् कथं तदर्थावगतिः?, तदर्थप्रत्यायनाय च साधनप्रयोगो ऽभिमतः इत्यत आह- "अत्र" अनयोः प्रयोगयोः "पक्षधर्मसम्बन्धवचनमात्रसामर्थ्यादेव" (ह्ब्ट् 64) वक्ष्यमाणकात् "प्रतिज्ञार्थस्य" धर्मधर्मिसमुदायलक्षणस्य साध्यस्य "प्रतीतेः" हेतोः "न" "प्रतीज्ञायाः प्रयोग उपदर्शितः" । परः सामर्थ्यमनववुध्यमान आह- "अप्रदर्शिते" वचनेन "प्रमेये" साध्ये "कथं" न कथञ्चित् "तत्प्रतीतिः" प्रतिज्ञार्थप्रतीतिः "इति" एवं "चेद्" यदि मन्यसे तदा स्वार्थानुमानकाले "स्वयं" परं प्रतिपादकमन्तरेण "प्रतिपत्तौ" प्रमेयस्य "क उपदर्शयिता"? नैव कश्चित् । स्वयमेव तु साध्यविनाभूतसाधनधर्मदर्शनात् प्रमेयं प्रतिपद्यते तथ परार्थानुमाने ऽपि तत एव तत्प्रतीतिरस्तु किं प्रतिज्ञावचनेन? ।

यदि स्वयंप्रतिपत्तिकाले न कश्चित् प्रमेयस्योपदर्शयिता कथं तर्हि तत्प्रतिपत्तिः? इत्यत आह- "प्रदेशस्थं" साध्यधर्मिणि स्थितं "धूमं" साधनधर्मं "उपलब्धवतः" प्रत्यक्षेण दृष्टवतः सतः "तस्य" धूमस्य "अग्निना" साध्यधर्मेण प्रमाणतः प्रतिबन्धनिश्चयबलात् प्राक्प्रतिपन्नायाः "व्याप्तेः" अविनाभावस्य "स्मरणे" सति "तत्सामर्थ्यादेव" पक्षधर्मग्रहणव्याप्तिग्रहणसामर्थ्यादेव प्रतिज्ञाप्रयोगरहिताद् "अग्निरत्र इति" एवंरूपा "प्रतिज्ञार्थप्रतीतिर्भवति" ।

स्यान्मतम्- तत्राप्यस्य कर्णपिशाचिकादिः प्रमेयं कथयत्येवेत्यत आह- "न च" नैव "तत्र" स्वार्थनुमानकाले "कश्चित्" कर्णपिशाचिकदिरदृश्यो "'अग्निरत्रऽ- इति" एवम् "अस्मै" प्रतिपत्रे(त्रे) प्रमेयं "निवेदयति" कथयति । यदि भवान् सत्यवादी नैवं वक्तुमर्हति । तथा हि- वयमपि प्रदेशस्थधूमदर्शनात् तस्याग्निना व्याप्तिस्मरणसापेक्षादग्निं प्रतिपद्यामहे । न चास्मभ्यं कश्चित् निवेदयति 'अग्निरत्रऽ; इति, भवति च तत्प्रतिपत्तिः, तथा तदन्यस्यापि सा युक्तरूपैवेति ।

यद्यपि न कश्चित् निवेदयति तथापि स्वयमेव प्रमेयं व्यवस्थाप्य तत्प्रतिपत्तये लिङ्गमनुसरिष्यतीति चेत्, आह- "नापि" न केवलं न कश्चित् निवेदयति "स्वयमपि प्रागेव" लिङ्गव्यापारात् न प्रतिपद्यते "किञ्चिद्" अग्न्यादिकम् । कस्मात्? (ह्ब्ट् 65) इति चेत्, "प्रमाणं" हेतुम् "अन्तरेण" विना 'अग्निरत्र" इत्येवं प्रतीतेः "निमित्ताभावात्" । त्रिरूपो हि हेतुः परोक्षार्थप्रतीतेर्निमित्तम्, तदभावे सा कथं भवेत्? । अथ लिङ्गमन्तरेणाप्येवं प्रतीतिर्भवतिति ब्रूयात् तदा प्रतीताविष्यमाणायां लिङ्गस्य वैयर्थ्यम्, तस्यानुमेयप्रतिपत्त्यर्थत्वात्, तेन विना तत्प्रतिपत्तौ कथमस्य निष्प्रयोजनता न स्यात्? ।

अत्यन्तमूढतां च परस्य दर्शयन्नाह- "स्वयमेव" स्वतन्त्र एव 'अग्निरत्रऽ- इति व्यवस्थाप्य । कथं स्वतन्त्रो व्यवस्थापयति? । "अकस्मात्" प्रमाणमन्तरेण व्यवस्थापनात् "तत्प्रतिपत्तये" निर्निमित्तव्यवस्थापितप्रमेयप्रतिपत्त्यर्थं "पश्चात्" "लिङ्गं" तन्निमित्तम् "अनुसरतीति को ऽयं प्रतिपत्तेः क्रमः" परिपाटिः? । तथा हि- प्रथमं लिङ्गानुसरणम्, ततः साध्यप्रतिपत्तिरिति विपश्चितां क्रमः । अयं त्वपूर्वो ऽनुमाता यस्तद्विपर्ययमाश्रयत इति उपहसति । यत्तल्लोके गीयते- शीरो मुण्डयित्वा नक्षत्रं पृच्छतीति तत्तुल्यत्वादस्य क्रमस्य । तस्मात् पक्षधर्मग्रहणव्याप्तिस्मरणसामर्थ्यादेव स्वयं प्रतिपद्यते । तच्च प्रतिपादकं कथितेमवेति न किञ्चित् प्रमेयनिर्द्देशेन ।

यदि नाम स्वार्थानुमानकाले स्वयमेव साध्यं प्रतिपद्यते तद् युक्तमेव, लिङ्गस्यापि तत्र स्वयमेव प्रतिपत्तेः । परार्थानुमाने तु परतो यथा लिङ्गं प्रत्येति तथा प्रमेयमपि परत एव प्रत्येतव्यम् । अतो युक्त एव प्रतिज्ञाप्रयोग इत्यत आह- "परेणापि" न केवलं स्वयमेव प्राग् व्यवस्थाप्यमानं प्लवते परेणापि वादिना "तत्" प्रमेयम् "उच्यमानं प्लवत् एव" तद्वचनस्य सन्दिग्धार्थभिधायकतया साध्यनिश्चयानङ्गत्वात् प्रमेयगाम्भीर्यानवागाहिनः परम्परयाप्यतत्सम्बद्धस्य विवक्षामात्रनिबन्धनतयोपर्येवावस्थापनात् । कस्मात् प्लवते? इति चेत्, "उपयोगाभावात्" नास्य साध्यप्रतीतिं प्रति कश्चिदुपयोगः, तत्प्रत्यायनसमर्थास्यानभिधानादिति यावत् ।

परस्तूपयोगमात्रं कदाचिद् ब्रूयाद् इत्याशङ्कयाह- "विषयोपदर्शनं" हेतोर्यो विषयः साध्यं तदुपदर्शनं प्रतिज्ञावचनस्योपयोगः "चेत् मतम्" । अत्राह "तेनैव" विषयेण, "ताव"च्छब्दः क्रमे । विषयस्योपदर्श्यमानस्यार्थवत्तायां तदुपदर्शनं प्रतिज्ञावचनस्य प्रयोजनं भवेत् । विषयेणैव तु दर्श्यमानेन "को ऽर्थः" किं प्रयोजनम्? ।

ननु साध्यप्रतीतिः साध्यर्म्यवत्प्रयोगादिप्रतीतिश्च विषयोपदर्शनस्यार्थः । ततस्तुदुपदर्शनं प्रतिज्ञावचनस्य प्रयोजनम् । तथा हि- असति साध्यनिर्देशे 'यत् कृतकं तदनित्यम्ऽ; इत्युक्ते 'किमयं साधर्म्यवान प्रयोगः? उत वैधर्म्यवान्?ऽ; इति न ज्ञायेत । उभयं ह्यत्राशङ्क्यते- कृतकत्वेनानित्यत्वे साध्ये साधर्म्यवान्, नित्यत्वेनाकृतकत्वे वा वैधर्म्यवान् इति । 'अनित्यः शब्दःऽ; 'अकृतको वा इति तु प्रतिज्ञावचने सत्युभयमसन्दिग्धमवगम्यते । हेतुविरुद्धानैकान्तिकप्रतीतिश्च न स्यात् । प्रतिज्ञापूर्वके तु प्रयोगे 'अनित्यः शब्दः, कृतकत्वात्ऽ; इति हेतुभावः प्रतीयते, 'नित्यः, कृतकत्वात्ऽ; इति विरुद्धता, 'प्रत्यत्नानन्तरीयकः कृतकत्वात्ऽ; इत्यनैकान्तिकत्वम् । हेतोश्च त्रैरूप्यं न गम्येत, तस्य साध्यापेक्षया व्यवस्थानात् । सति प्रतिज्ञावचने अवयवे समुदायोपचारात् साध्यधर्मी पक्ष इति तत्र वृत्तस्य कृतकत्वस्य पक्षधर्मत्वं; साध्यधर्मसामान्येन च समानो ऽर्थः सपक्ष इति तत्र वर्तमानस्य सपक्षे सत्त्वम्; न सपक्षो ऽसपक्ष इति साध्यधर्मविरहिण्यवृत्तस्यासपक्षे ऽप्यसत्त्वं प्रतीयेत इत्याशङ्कयाह- "यदि प्रतीति" साध्यस्य निश्चयलक्षणा साधर्म्यवत्प्रयोगादेश्च स्वरूपावधारणात्मिका । "अन्यथा" प्रतिज्ञावचनमन्तरेण "न स्यात् तदा" यदुक्तं साध्यसिध्यर्थं साधर्म्यवत्प्रयोगादिज्ञानार्थं च विषयोपदर्शनम् इति तत् "सर्वं शोभेत" यावता स्वर्थानुमानकाले प्रतिज्ञावचनमन्तरेणापि पक्षधर्मग्रहण सम्बन्धस्मरणतः साध्यसिद्धिलक्षणा भवत्येव प्रतीतिः इत्याख्यातमेव । तद्वत् परार्थे ऽप्यनुमाने भविष्यति । (ह्ब्ट् 67) यत एवं

"तस्मात्" "एष" प्रतिज्ञाप्रयोगवादी यदा स्वयं साध्यं प्रत्येति तदा स्वयं साध्यस्य "प्रतीतौ" विषय उपस्थाप्यते येन प्रतिज्ञावचनद्वारेण पुंसा "केनचित्" तेन "विनापि" "प्रतियन्" साध्यं निश्चिन्वन् लिङ्गसामर्थ्यदेव । यदास्माभिः प्रतिपाद्यते तदा "अस्मान् कार्यिणो दृष्ट्वा व्यक्तं" प्रतिज्ञाप्रयोगलक्षणं "मूल्यं मृगयते" । क इव? "पर्वब्राह्मण इव" । यथा दक्षिणामन्तरेणाप्यन्यदा और्ध्वरथिको ब्राह्मणो भुञ्जानो ऽन्यदा श्राद्धादिपर्वण्यर्थिनं श्रद्धालुं ब्रवीति- यदि मे घृतपूरं घृतपूरं प्रति रूपकं ददासि ततो ऽहं भुञ्जे नान्यथेति । तेन तुल्यो भवानपीति ।

किञ्च, यदपि ब्रवीषि- परार्थानुमानकाले यथा लिङ्गं परेणानभिधीयमानं न प्रत्येति प्रतिपाद्यस्तथा साध्यमपीति । तदैतद् युज्यते यद्यसौ वादिवचनमात्रेण लिङ्गमपि निश्चित्य तदनुसारेण साध्यमवगच्छेत्, परप्रतीत्यर्थिनश्च तदा वयमपि प्रतिज्ञां किन्न प्रयुञ्ज्महे लिङ्गवचनरहिताम्? । अस्मद्वचनस्यैव तं प्रति प्रमाणतया, तत एवानुमेयप्रतीतेः, तद्वचनस्य चरितार्थत्वात् । न चैतदस्ति, यतः "अस्मद्वचनादपि" न केवलं स्वार्थानुमानकाले अस्मद्वचनमन्तरेण इत्यपिशब्दः । किन्तु यदाप्यस्मद्वचनं प्रवृत्तं तदापि "नैव" अस्मद्वचनात् "लिङ्गमपि प्रत्येति" कुत एव साध्यसिद्ध्ये ऽनुसरिष्यति? । अपि तु स्वयमस्य यदि तल्लिङ्गं कुतश्चित् प्रमाणतः सिद्धं भवति "अस्मद्वचनेन तु" केवलं तत्र "स्मृतिसमाधानमात्रं क्रियते" । तदा स्वयं सिद्धमेव लिङ्गमनुसृत्य साध्यं प्रत्येति । नास्मद्वचनात् पानीयमपि पिबतीति । "तस्मात्" "को ऽनयोः" प्रतिज्ञावचनावचनात्मिकयोः "अवस्थयोर्विशेषः"?, उभयत्र स्वयंसिद्धलिङ्गसामर्थ्यादेव साध्यप्रतीतेर्न कश्चित् । ततः स्वपरार्थानुमानयोः स्वयंसिद्धलिङ्गानुसरणम्, ततः साध्यप्रतीतिं च प्रति विशेषाभावात् प्रतिज्ञोपन्यासः परार्थानुमाने ऽपि व्यर्थ एव । लिङ्गमपि हि तावदत्र नाभिधीयते यदि तत् (ह्ब्ट् 68) पूर्वप्रसिद्धं स्वयमनुस्मरेत् किमङ्ग पुनः सन्दिग्धार्थाभिधायकं प्रतिज्ञावचनमुपादीयते? ।

स्यान्मतम्- यदि नाम साध्यसिद्धौ प्रतिज्ञावचनस्य नोपयोगस्तदर्थो ऽस्य प्रयोगो मा भूत, साधर्म्यत्वत्प्रयोगादिज्ञानार्थं तु तदुपदानमवस्थितमेव, तस्यान्यथा प्रतीत्यभावात् इत्यत आह- "दृष्टा च साधर्म्यवत्प्रयोगादेः प्रतिज्ञावचनमन्तरेनापि प्रतीतिः," ततस्तदर्थो ऽपि प्रतिज्ञोपन्यासो न शोभते ।

कुतः पुनः साधर्म्यवत्प्रयोगादेरसति साध्यनिर्द्देशे प्रतीतिः? इत्याह- पक्षधर्मसम्बन्धवचनमात्रादिति" । एवं मन्यते- नैव हि कश्चित् 'यत् कृतकं तदनित्यम्" एतावन्मात्रमभिधीयास्ते, साधनन्यूनतयैवास्य पराजयात्, किन्त्ववश्यं हेतोर्द्वर्मिण्युपसंहारं करोतीति । तत्र यदि 'कृतकश्च शब्दःऽ; इति ब्रूयात् तदा साध्य(ध)र्म्यवत्प्रयोगप्रतीतिः, अथ 'नित्यश्चऽ; इत्यभिदध्यात् तदा वैधर्म्यवत इति सम्बन्धवचनपूर्वकात् पक्षधर्मवचनात् प्रयोगद्वयावगतिः ।

हेतुविरुद्धानैकान्तिका अपि पक्षधर्मवचनमात्रेण न प्रतीयन्ते । यदा तु सम्बन्धवचनमपि क्रियते तदा कथमप्रतीतिः? । तथा हि- 'यत् कृतकं तदनित्यम्ऽ; इति पक्षधर्मवचने सत्युक्ते हेतुरवगम्यते, विधियमानेनानूद्यमानस्य व्याप्तेः । 'यत्कृतकं तन्नित्यम्ऽ; इत्यभिधाने विरुद्धः, विपर्ययव्याप्तेः । 'यत् कृतकं तत् प्रयत्नानन्तरीयकम्ऽ; इति प्रदर्शने व्यभिचारादनैकान्तिकाध्यवसायः ।

त्रैरूप्यमपि हेतोर्गम्यत एव, यतो व्याप्तिप्रदर्शनकाले व्यापको धर्मः साध्यतयावगम्यते । यत्र च व्याप्यो धर्मो धर्मिण्युपसंह्रियते स व्यापकाधर्मविशिष्टतयावगम्यमानः साध्यसमुदायैकदेशतया पक्ष इत्युपसंहृतस्य व्याप्यधर्मस्य पक्षधर्मत्वावगतिः, सा च व्याप्तिर्यत्र धर्मिण्युपदर्श्यते स साध्यधर्मसामान्येन समानो ऽर्थः सपक्षः प्रतीयत इति सपक्षे (ह्ब्ट् 69) सत्त्वमवगम्यते, सामर्थ्याच्च व्यापकनिवृत्तौ व्याप्यनिवृत्तिर्यत्रावसीयते सो ऽसपक्ष इत्यसपक्षे ऽप्यसत्व(त्त्व)मपि निश्चीयत इति, यदि पक्षादिभिरपि ज्ञातैः किञ्चित्प्रयोजनं । न तु व्यवहर्तणां पक्षादिसङ्केतापेक्षा परोक्षार्थगतिर्भवति । तथा हि- यत् क्वचिद् दृष्टं तस्य यत्र प्रतिबन्धः तद्विदस्तस्य तद् गमकं तत्र इति हि लोके वस्तुगतिर्भवति, न पक्षदिसङ्केतग्रहणापेक्षा । तत्र यथेष्टं शास्त्रकारा गमकरूपप्रतिपत्तये स्वसङ्केतेनान्यथा वा लक्षणं प्रणयन्तु । न तु व्यवहारकाले तदनुसरणं क्वचिदुपयुज्यते । तत्सङ्केतप्रतिपादितमेव तु यथोक्तं गमकं रूपमुपयोगि व्यवहर्तॄणाम् । तच्चेत् प्रतिपन्नं तावतैव साध्यसिद्धिः सञ्जाता इति पक्षसपक्षादिसङ्केतापरिज्ञाने ऽपि न किञ्चित् प्लूयते । अत एवाचार्यपादै 'र्त्रान्तरीयकार्थदर्शनं तद्विदो ऽनुमानऽ; मिति गमकरूपमात्रमेव पक्षादिसङ्केतानपेक्षं प्रतिपादितम् । स्वप्रज्ञापराधास्तु तत्रापि कैश्चिदसन्त एव दोषाः प्रकीर्त्यन्त इति किमत्र ब्रूमः? । "तस्मात्" साधर्म्यवत्प्रयोगादिज्ञानार्थमपि प्रतिज्ञावचनं पक्षधर्मसम्बन्धवचनमात्र एव यथोक्तेन प्रकारेण प्रतीतेरयुक्तमिति "कस्तस्य" प्रतिज्ञावचनस्य "उपयोगः" नैवं कश्चित् ।

स्वयं चायं वादी येन क्रमेणानुमेयं प्रतिपन्नवांस्तमुल्लङ्घ्य परप्रतिपत्तये क्रमान्तरमाश्रयन् प्रवञ्चकतया धूर्त एव प्रतीयते, न सव्दृत्त इत्युपदर्शयन्नाह- "स्वनिश्चयवत्" इत्यादि । यथात्मनो निश्चयस्योत्पादनं कृतं तथैव "अन्येषामपि निश्चयोत्पादा(द)नाय" च परहितनिरतैः "साधनमुच्यते", "तत्र" एतस्मिं(स्मिन्) न्याये सति स्वयमयं वादी "प्रमेयस्योपदर्शनेन" उपदर्शकेन वचनेन "विनापि" स्वार्थानुमानकाले "प्रतिपद्य" प्रमेयं "परं" संशयितादिकं "प्रतिपादयन्" स्वप्रतिपन्नं प्रमेयमवबोधयन् "अपूर्वं" स्वप्रतिपत्तिकाले पूर्वं यः प्रमेयप्रतिपत्तौ "क्रमः" उपायो ऽनुभूतस्तस्मादन्यम् "आश्रयत इति किमत्र" क्रमान्तराश्रयणे "कारणम्"? नैव किञ्चित् परव्यामोहनं मुक्त्वा । तथा हि- यदि स्वप्रतिपत्तिक्रमः (ह्ब्ट् 70) प्रतीतिनिबन्धनं किं तत्परित्यागेन क्रमान्तराश्रयणम्?, कथं तेन स्वयं प्रतिपन्नवानसीति? । यत एवं "तस्मान्न प्रमेयस्य" साध्यस्य "वचनेन" प्रतिज्ञाख्येन "किञ्चित् प्रयोजनम्" । कुतः? । 'अन्यथापिऽ; विनापि तेन "प्रतिपत्तेः" साध्यप्रतीतेः "उत्पत्तेरि"त्युपसंहारः ।

[7. उपनयनिगमनादेरपि साधनवाक्यानङ्गत्वम् ।]

एवं प्रतिज्ञां साधनवाक्यादपनीयापरमप्युपनयनिगमनादिकं परपरिकल्पितं साधनवाक्यादपनेतुमुक्तमेव न्यायमतिदिशन्नाह- "एतेन" अन्यथापि प्रतिपत्तेरुत्पत्तेःऽ; इति न्यायेन "उपनयनिगमनादिकं" आदिग्रहणात् संशयजिज्ञासादिकं "प्रत्युक्तं" प्रत्याख्यातम् । तत्र "उदाहरणापेक्षः 'तथाऽ; इत्युपसंहारो 'न तथेऽति वा साध्यस्योपनयः", "प्रतिज्ञायाः पुनर्वचनं प्रतिज्ञा" इति तु प्रतिज्ञायाः । एतेनेत्येतदेव दर्शयति- "एतावतैव" पक्षधर्मसम्बन्धवचनमात्रेणैव उपनयादिरहितेन "साध्यप्रतीतेः भावात्" उत्पत्तेरिति ।

अत्रोद्यो(द्द्यो)तकरः प्राह- प्रतिज्ञा तावद्विषयनिर्द्देशार्थमवश्यकर्तव्या, यतो लोकः प्रथमं कर्म च्छेद्यादिकं निरूपयति । ततः कुठारादिकं साधनं व्यापारयति । उपनयेनापि यावद् दृष्टान्ते दृष्टसामर्थ्यो हेतुर्द्धर्मिणि नोपसंह्रियते तावत् कुतः साध्यप्रतीतिः? । स्वार्थानुमानदृष्टश्च प्रत्यवमर्शप्रत्ययार्थो ऽनेन दर्श्यते । तथा हि- स्वार्थानुमाने प्रथमं प्रदेशे धूमं पश्यति, ततो 'यत्र यत्राहं धूममद्राक्षं तत्र तत्राग्निमपिऽ; इति व्याप्तिं स्मरति । ततो 'धूमश्चात्रऽ; इति पुनः प्रत्यवमृशति, स प्रत्यवमर्शार्थः परार्थानुमाने उपनयेनोच्यते । निगमनमप्यवश्याभिधानीयम्, यतो यद्यपि पूर्वं अनित्यः शब्द इत्युक्तम्, न तु तावतास्य निश्चयो जातः । सम्प्रति तु प्रमाणबलायातो ऽर्थः तत्सम्प्रत्ययार्थमनेन निगम्यते । अशेषप्रमाणव्यापारश्चानेनोपसंह्रियते । तथा हि- आगमः प्रतिज्ञा, हेतुरनुमानं, (ह्ब्ट् 71) दृष्टान्तः प्रत्यक्षमुपमानमुपनयः । तदेतस्य प्रमाणचतुष्टस्यापि व्यापारो निगमनेनोपसंह्रियते- इति कथमस्य न साफल्यम्? इत्येतदाशङ्कयाह- "डिण्डिकरागं परित्यज्य" डिण्डिकाः- नग्नाचार्याः ते निष्फलमुपर्युपरि नामलेखने प्रसक्ताः ततस्तेषामिव 'परेणोक्ते तस्योपरि मयावश्यमयुक्ततया निष्फलमप्यभिधानीयम्ऽ; इत्यस्थानाभिनिवेशं त्यक्त्वा "अक्षिणी निमील्य" बहिर्विक्षेपमुपसंहृत्य "चिन्तय तावत्"- "किमियता" पक्षधर्मसम्बन्धवचनमात्रकेण वाक्येन साध्यस्य "प्रतीतिः स्यात् न वा?" इति । यावता यावानेव परार्थानुमाने ऽर्थो ऽभिधानीय इत्यस्माभिरनुज्ञायते तावानेवान्यूनानतिरिक्तः स्वार्थानुमाने ऽपि प्रतीतिहेतुर्दृष्टः, तस्य क इह

शक्तेर्व्याघातः? येनासौ परार्थानुमाने ऽपि प्रतीतिं न कुर्यात् । "भावे" प्रतीतेः "किं प्रपञ्चमालया" प्रतिज्ञोपनयनिगमनलक्षणया, बालप्रतारकतदुपयोगोपवर्णनलक्षणया वा? । तथा हि- प्रतिज्ञोपनयनिगमनप्रयोगे ऽपि यदि प्रमाणनिश्चिता स्वसाध्यव्याप्तिः साधनधर्मस्य न स्यात्, साध्यधर्मिणि वा सद्भावस्तदास्य नैव प्रतीतिहेतुता । तत्सम्भवे तु प्रतिज्ञाद्यभावे ऽपि स्वार्थानुमान इव गमकरूपावैकल्यात् सा न निवार्यत इति किमस्थाननिर्बन्धेन इति? । नहि साध्यधर्माक्षेपणसामर्थ्यविरहे साधनधर्मस्य वादिवचनमात्रात् साध्यनिश्चयो युक्तः, हेतूपन्यासवैर्थ्यप्रसङ्गात्, तस्य तदाक्षेपसामर्थ्ये वा प्रतिज्ञावचनस्येति ।

यतूक्तम् 'विषयप्रदर्शनाय प्रतिज्ञाऽ; इत्यत्र शास्त्रकृतैव दत्तमुत्तरम् । यश्च साधनं प्रयुक्ते तेन 'अहमनेन साधनेनामुष्मिं(ष्मिन्) साध्ये प्रतीतिं साधयिष्यामिऽ; इति कर्म निरूप्यैव तत् प्रयुक्तमिति न लौकिकन्यायातिक्रमः, अन्यथा यदि साधनाद् यस्य साध्यप्रतीतिरुपजायते तेनैव कर्म निरूपणीयम् कथं तदभावे स्वार्थानुमाने साध्यसिद्धिः साधननिबन्धना (ह्ब्ट् 72) स्यात्? । यश्चाग्निधूमयोः सम्बन्धं चेतसि व्यवस्थाप्य 'क्वाग्निः क्वाग्निः?ऽ; इत्यग्निं पर्येषते स प्रदेशे धूमदर्शनमात्रादेवाग्निं प्रतिपद्यत इति कथं स्वार्थानुमाने प्रत्यवमर्शप्रत्ययः स्यात्? । अथ कदाचिदसौ दृष्टस्तत्रेति परार्थे ऽप्यस्योपादानं तदा दध्यादिकमपि भुक्त्वा कदाचिद् धूमादग्निं प्रतिपन्नवानिति किन्न दधिभोजनादेरपि कादाचित्कस्योपादानम्? ।

यत् पुनरुक्तम् 'आगमः प्रतिज्ञाऽ; इति, तत्र यदि वादिवचनमेवागमस्तदा तत एव साध्यसिद्धेर्हेत्वाद्युपदानमनर्थकम् । अथ प्रतिज्ञार्थस्यागमे पाठादागमः प्रतिज्ञा, तदा न क्वचिदागमे पठ्यते अत्र प्रदेशे ऽग्निरिति कथमागमत्वं प्रतिज्ञायाः? ।

'हेतुरनुमानम्ऽ; इत्यप्ययुक्तम्, न हि पक्षधर्मत्वमात्रं हेतुः, तस्य त्रिरूपत्वात् । दृष्टान्तो ऽपि न सर्वः प्रत्यक्ष इति कथं 'दृष्टान्तः प्रत्यक्षम्ऽ; भवेत्? । उपमानं तु प्रमाणमेव न भवति, कथं तव्द्यापार उपसंह्रियेत निगमनेन? । यदि चावश्यं दृष्टान्ते दृष्टसामर्थ्यो हेतुर्द्वर्मिण्युपनेयः तदोपनय एवास्तु किं 'कृतकत्वात्ऽ; इति पक्षधर्मनिर्द्देशेन?, स एव दृष्टसामर्थ्यं हेतुमुपसंहरिष्यति पक्षधर्मतां च दर्शयिष्यतीति न किञ्चित्तेन । ततो यत्र च प्रतिज्ञायाः प्रथमत एव प्रयोगो नेष्यते तत्र तस्याः पुनर्वचनं कुतो निगमनं भविष्यति? इत्याह- "इति" तस्माद् "इयानेव" पक्षधर्मसम्बन्धवचनमात्रात्मकः साधनवाक्ये "प्रयोगो ज्यायान्" न पञ्चावयवात्मक इति स्थितम् ।

[8. न्यायवाक्ये हेतुदृष्टान्तवचनयोः क्रमस्यानियमः ।]

अत्र साधनवाक्ये न केवलं प्रतिज्ञादिप्रयोगो न युक्तः परोपगतः 'पूर्वं हेतुः प्रयोक्तव्यः पश्चाद् दृष्टान्तःऽ; इति क्रमनियमो ऽपि न कश्चित् । कुतः? सर्वथा यदि पूर्वं हेतुः पश्चाद् व्याप्तिः अथ पूर्वं व्याप्तिः पश्चात् पक्षधर्मः प्रयुज्यते, तथापि गमकत्वात् ।

[9. हेतोस्त्रिधाप्रयोगस्य खण्डनम् ।]

ननु तस्य द्विधा प्रयोग इत्ययुक्तमुक्तम् । यतस्त्रिविधो हेतुः- अन्वयी व्यतिरेकी अन्वयव्यतिरेकी चेति नैयायिकाः, ततस्तस्य त्रिघा प्रयोगः साधर्म्येण वैधर्म्येण साधर्म्यवैधर्म्याभ्यां चेति वक्तव्यमित्यत आह- "सम्बन्धवचने ऽपि" न केवलं क्रमनियमो न युक्तः किन्तु "अर्थ भेदो ऽपि न कश्चिद्" उभयत्रापि त्रिरूपसद्भावात । ततः सर्व एव हेतुरन्वयव्यतिरेकी, न त्वन्वयी व्यतिरेकी वा कश्चिद्वेतुरस्तीति भावः । तत् कुतस्त्रिविध्यं प्रयोगस्य स्यात्? इति मन्यते । कुतः पुनरर्थभेदो नास्तीति? चेत्, आह- "उभयथा" साधर्म्येण वैधर्म्येण च प्रयोगे यद्यपि विधिप्रतिषेधरूपतया धर्मभेदः प्रतीयते तथापि "तद्भावस्यैव" साधनधर्मस्य साध्यस्वभावतायाः एव साधर्म्यवैधर्म्यप्रयोगाभ्यां "ख्यापनात्" ।

ननु साधर्म्यप्रयोगे हेतुभावे साध्यस्य भावः, वैधर्म्ये च साध्याभावे हेत्वभावः शब्दादवगम्यते, न तादात्म्यम् । तत् किमुच्यते 'तद्भावस्यैव ख्यापनात्'? इत्यत आह- "न हि" इत्यादि । यदि साधर्म्यप्रयोगे तद्भावो नाक्षिप्येत तदा साधनस्य "अतत्स्वभावस्य भावे" किमिति "एकान्तेन" अवश्यन्तया "साध्यस्य भावः?" । कादाचित्कस्तु भवतु नाम? । 'यत् कृतकं तदनित्यम्ऽ; इत्येकान्तभावश्च हेतौ सति साध्यस्य व्याप्त्या साधर्म्यप्रयोगे ऽभिधीयते । स च तादात्म्यमन्तरेणानर्थान्तरस्य न सम्भवतीति सामर्थ्यात् तदाक्षिपति ।

कथमिवातत्स्वभावस्य भावे न एकान्तेनान्यभाव इति आह- "कृतकत्वे"त्यादि । यदि प्रत्यत्नानन्तरीयकत्वमन्तरेणापि कृतकत्वस्य भावादतत्स्वभावत्वम् अनित्यत्वे ऽप्ययमेव वृत्तान्तः । ततश्च तादात्म्यविरहात् प्रयत्नानन्तरीयकत्वस्यानित्यत्वेनान्वयो न स्यात्, तन्निवृत्तौ वा निवृत्तिरिति कथं ततस्तत् (ह्ब्ट् 74) प्रतीयते? । नैष दोषः, प्रयत्नानन्तरीयकपदार्थस्वभावस्यैवानित्यत्वस्य तेन साधनात्, तत्र च तादात्म्यसद्भावाद् अन्वयव्यतिरेकावनिवारितौ अनित्यत्वकृतकत्वमत्रापेक्षया तु तादात्म्यविरहो ऽस्याभिहित इति ।

नन्वग्निनिवृत्तावतत्स्वभावस्यापि धूमस्य निवृत्तिर्दृष्टान्वयश्चेत्याह- "कार्यस्य" इति । अन्वयव्यतिरेकयोर्हि प्रतिबन्धो निबन्धनम्, तेन तयोः व्याप्तेः, तदभावे तयोरप्यभावात् । तत्रार्थान्तरस्य धूमस्याग्नौ "तदुत्पत्तिलक्षणः प्रतिबन्धो ऽन्वयव्यतिरेकनिमित्तम" स्तीति भवेतां तौ । यत्र त्वनर्थान्तरस्य तावुच्येते तत्रावश्यं तादात्म्येन भवितव्यमित्यभिप्रायः । अत्रोदाहरणम् "यथा- अनयोरेव कृतकत्वप्रयत्नानन्तरीयकत्वयोर्विपर्ययेण नैकनिवृत्तावन्यनिवृत्तिः"- 'यत् प्रत्यत्नान्तरीयकं न भवति तत् कृतकमपि न भवतिऽ; इत्येवंरूपा । यत एवं तस्मदन्वयव्यतिरेकयोर्यथालक्षणं हेतुभावे साध्यस्यावश्यं भावः, साध्याभावे च हेतोरवश्यमभावः इत्येको ऽपि साधर्म्यमुखेण वैधर्म्यमुखेण वा प्रयुक्तो द्वितीयमाक्षिपति, स्वव्यापकप्रतिबन्धाक्षेपात्, तस्यापि चेतरेण व्याप्तेः । तस्मादुभयत्र त्रैरूप्यप्रतीतेरेकस्य शब्दे(ब्द)तो ऽपरस्यार्थत इति सम्बन्धवचने ऽपि प्रयोग एव विधिमुखेन प्रतिषेधमुखेन वा भिद्यते नार्थ इति सिद्धं ततस्तस्य द्विधा प्रयोगः साधर्म्येण वैधर्म्येण च । न तु साधर्म्यवैधर्म्यभ्यामपि, तदर्थस्यान्यतरेणैव प्रकाशनात् ।

सर्वो हेतुरन्वयव्यतिरेक्येव वस्तुतो न कश्चिदन्वयी व्यतिरेकी वा नामेत्येतदुपसंहरन्नाह- "इति नैकत्रा" न्वयमुखेन व्यतिरेकमुखेण वा साधनवाक्ये "द्वयो" रन्वयव्यतिरेकयोः "प्रयोगः" साक्षाच्छब्देन प्रतिपादनमिष्यते, "वैयर्थ्यात्" प्रतीतप्रत्यायने प्रयोजनाभावात् ।

तामेवार्थतो ऽपरस्य प्रतीतिं स्फुटयन्नाह- "तत्स्वभावतया" इत्यादि । यदि तत्स्वभावतया साध्येन हेतोरन्वयः सिध्यति तत एव "तदभावे ऽभावो ऽपि सिध्यत्येव" । तत्स्वभावस्य तदभावे स्वयं नैरात्म्येन भावायोगात् । "तथा" तत्स्वभावतया साध्याभावे साधनस्याभाव "सिद्धौ" "च" सत्यां तत एव साध्येन हेतोः "अन्वयस्यापि सिद्धेरिति" ।

यैस्तु व्याख्यायते- "साधर्म्यवति प्रयोगे तदभाव एव विपक्षे हेतोरभावख्यातिर्यथा स्यात् नान्यत्र विपक्षे विरुद्धे वा हेत्वभावप्रसङ्गात् विरुद्धत एव व्यवच्छेदप्रसङ्गाच्चेति नियमख्यापनार्थो व्यतिरेकप्रयोगः" इति । स तदर्थो ऽप्ययुक्तः । कुतः? "अन्यविरुद्धयोरपि" न केवलं तदभावस्य "विपक्षत्वात्" यस्य हि- अन्य एव विपक्षो ऽन्यधर्मयोगी वान्यो, न विवक्षितधर्मानाश्रयः, विरुद्ध एव वा सहानवस्थानलक्षणेनैव विरोधेन, न परस्परपरिहारस्थितलक्षणतयापि विपक्षः- तस्यानित्यत्वादन्यानात्मादिधर्मवति अर्थे, कृतकत्वादिवृत्तेः, हेत्वभावप्रसङ्गः । औष्ण्ये च साध्ये ऽग्निलक्षणस्य हेतोर्विरुद्धादेव शीतात् नानुष्णशीतादप्यन्यतो व्यवच्छेदप्रसङ्गात् नैकान्तेनौष्ण्यमग्निर्ग्रसयेदिति तस्यायं दोषः स्यात् । तं प्रत्याचार्येणोक्तम्- यद्येकस्य विपक्षत्वमिष्यते तदा तदभावस्यैवेष्यताम्, न विरुद्धस्य अन्यस्य वा, तस्यान्यत्रापि विवक्षितधर्मानाश्रये विरुद्धे च भावात्, तदभावमन्तरेण तयोरन्यविरुद्धत्वायोगात् । न त्वस्माकं त्रिविधमपि विपक्षमिच्छताम्, विवक्षितधर्मानाश्रयं चान्यमिति भावः ।

[10. सत्त्वस्य क्षणिकत्वस्वभावतायाः समर्थनम् ।]

यदि स्वभावहेतावन्वयव्यतिरेकयोः साधनधर्मस्य साध्यस्वभावता निबन्धनमित्यन्वयेन व्यतिरेकेण वा साधर्म्येवैधर्म्यवतोः (ह्ब्ट् 76) प्रयोगयोरभिधीयमानेन तादात्म्याक्षेपद्वारेणार्थादितराक्षेप उच्यते, तदा प्रमाणसिद्धैव तत्स्वभावता तयोर्निबन्धनं न शब्दमात्रतः प्रतीयमानेत्यभिप्रायवानाह- "कथमिदम्" इत्यादि । "येने"ति सतो नश्वरस्वभावत्वेन । सत्व(त्त्व)लक्षणस्य हेतोः क्षणिकत्वस्वभावत्वेनेति यावत् । पृच्छतश्चायमभिप्रायः- इह द्विविधाः सन्तः- कृतकाश्च घटादयः अकृतकाश्चाकाशादयः । तत्र ये तावदकृतकास्ते "सदकारणवत् नित्यम्" इति नित्यलक्षणयोगादनित्या एव न भवन्ति कुत एव क्षणिकाः? इति न सत्व(त्त्व)स्य क्षणिकत्वस्वभावता । ये ऽपि सन्तः कृतकास्तेषामपि मुग्दराद्यन्वयव्यतिरेकानुविधायितया विनाशस्य सहेतुकत्वात् तद्वेत्वसन्निधावविनाशात् कृतकात्मनो ऽपि सत्व(त्त्व)स्य क्षणिकत्वस्वभावता न समस्त्येवेति नान्वयव्यतिरेकयोः सम्भव इति । अवश्यं च विनाशो दण्डाद्यन्वयव्यतिरेकानुविधायी, दृष्टत्वात् । तथा हि-

"अभिघाताग्निसंयोगनाशप्रत्ययसन्निधिम् । विना संसर्गितां याति न विनाशो घटादिभिः ॥"

अन्यत्रापि चान्वयव्यतिरेकानुविधानमेव हेतुमत्ताव्यवहारनिवन्धनमभ्युपेयते सौगतैरपि, तदिहाप्यस्तीति किन्न तव्द्यवहारः प्रवर्त्यत्ते? इति ।

ननु चान्वयनिश्चयं प्रतिपादयता बाधकप्रमाणवृत्तिवशात् तत्स्वभावता पूर्वमेव प्रतिपादिता 'अन्वयनिश्चयो ऽपि स्वभावहेतौऽ; इत्यादिवचनात् । तत् कुतो ऽस्य पूर्वपक्षस्यावसरः? । सत्यम्, किन्तु पूर्वाचार्यैः कृतकत्वस्य क्षणिकतायां साध्यायां परैः कृतकानामन्ते ऽवश्यं हेतुनिबन्धनविनाशोपगमात् तद्वेत्वयोगप्रतिपादनेनानपेक्षा विनाशं प्रति विपर्यये बाधकं प्रमाणं तादात्म्यप्रसाधकमुक्तं तत् प्रसङ्गमुखेन कृतकल्क्षणस्यैव सत्त्वस्य तदात्मतां गमयति नान्यस्य इति दर्शयितुम् । अर्थक्रियाविरोधलक्षणं तु सर्वस्य सत्त्वस्य इति वस्तुमात्रेण (ह्ब्ट् 77) प्रागुक्तमपि विपञ्चयितुं पूर्वपक्षोपन्यासः । अकृतकलक्षणं तु सत्त्वं न सम्भवत्येव, नियामकं हेतुमन्तरेण देशकालस्वभावनियमायोगात् । ततः पूर्वाचार्यैर्न तस्यैकाङ्गवैकल्यादेव "सदकारणवत् नित्यम्" इति नित्यतासम्भव इति न तदात्मतां प्रति यत्नः कृतः । शास्त्रकारस्तु सामान्येन सत्त्वस्य क्षणिकस्वभावतां, कृतकलक्षणस्य अपि च, देशकालस्वभावविप्रकृष्टस्यापि वस्तुस्थित्यैव तदात्मताम् अर्थक्रियाविरोधेन, न परोपगतावश्यम्भाविविनाशस्याहेतुकतया विशेषाभावात् उत्पन्नमात्रस्याभावप्रसङ्गेन प्रतिपादयिष्यति ।

[11. सहेतुकं विनाशं निरसितुं तस्य भावस्वभावतायाः समलोचनम् ।]

तत्र पूर्वाचार्योक्तं 'सर्वस्य सतः कृतकस्यवश्यमन्ते हेतुकृतो विनाश इतिऽ; यः परिरिष्यते तं प्रत्यनपेक्षत्वं ख्यापयितुमुपक्रमते "विनाशहेत्वयोगादिति" ।

यदि तर्हि नाशस्य हेतुर्नास्ति, स तेषां कृतकानां सतामवश्यम्भावी विनाशः कुतः? । न ह्याकस्मिकः कश्चित्स्वभावो युक्त इत्याह- "स्वभावत एव" । भवत्यस्मात् कार्यम् इति भावशब्दो हेतुवचनः । तेन स्वहेतुभ्य एव "नश्वराः" नशनशीलाः, सूच्यग्रे सर्षपा इवानवस्थायिनः स्वात्मनि "भावा जायन्ते" । "नैषां" कृतकलक्षणानां सतां भावानां "स्वहेतुभ्यो निष्पन्नानां" "अन्यतः" अभिघातादे "र्विनाशोत्पत्तिः" । कुतः? "तस्या" भिघाताग्निसंयोगादेस्तद्धेतुतयोपगतस्य "असामर्थ्यात्" । तथाहि- अग्निसंयोगादिकाले त्रितयं लक्षयामः । तदेव काष्ठादिकं विनाश्यम्, अङ्गारादिकमवस्थान्तरम्, काष्ठादिनिवृत्तिलक्षणं चाभावं तुच्छरूपं, नापरं यत्राग्निसंयोगादेर्व्यापरः चिन्त्येत । एतावत्यां च वस्तुगतौ न क्वचिदत्र विनाशहेतौः सामर्थ्यं युज्यते । यतो "नहि विनाशहेतुर्भाव" स्येन्धनादेः स्वहेतुभ्यः स्थिररूपस्योत्पन्नस्य "स्वभावमेवा" स्थिरात्मतालक्षणं "करोति" । कुतः? "तस्ये"न्धनादेः "स्वहेतुभ्य" एव "निर्वृत्तेः" । नहि स्थिरात्मनो (ह्ब्ट् 78) निर्वृत्तस्यान्यथाभावः तदात्मा शक्यते कर्तुम्, तस्य हेत्वन्तरात् पश्चाद् भव्तो ऽर्थान्तरत्वप्रसङ्गात्, तस्यैवान्यथात्वायोगात्, तत्र हेतुव्यापारस्य कल्पयितुमशक्यत्वात् ।

अथवा त्रितये समीक्ष्यमाणे यत् तावत् विनाश्यं काष्ठादि न तत्स्वभावमेवाग्निसंयोगादिर्विनाशहेतुः करोति तस्य स्वहेतुभ्य एव निर्वृत्तेरिति ।

[12. कुमारिलेष्टभावान्तरस्वभावपक्षस्य समालोचनम्]

कुमारिलस्तु मन्यते- नाग्निसंयोगादिना भावस्वभाव एव क्रियते किन्त्विन्धनादेः प्रध्वंसाभावः । स चेन्धनादिरूपविकलमङ्गारादिकमुत्तरं भावान्तरमेव । तदुक्तम्-

"नास्तिता पयसो दघ्नि प्रध्वंसाभावलक्षणम् ॥" इति ।

तथाविधस्य चाभावस्य हेतुमत्तोपगमो नैव विरुध्यते । तथा चाह कश्चित्-

"भावान्तरविनिर्मुक्तो भावो ऽत्रानुपलम्भवत् । अभावः सम्मतस्तस्य हेतोः किन्न समुद्भवः? ॥" इति ।

तदेतत् कौमारिलं दर्शनमपनुदन्नाह- "नापि" इत्यादि । यद्युत्तरं कार्यात्मकं "भावान्तरमेव" अभावस्तदाग्निसंयोगादयो ऽङ्ग(ङ्गा)रादिजन्मनि व्यापृ(प्रि)यन्त इतीष्टमेवास्माकम्, किन्तु "भावान्तरकरणे" अभ्युपगम्यमाने ऽग्न्यादीनामिन्धनादावव्यापारात् तदवस्थमेवेन्धनादिकम् । ततश्च यथाग्निसंयोगात् प्राग् इन्धनादेरुपलब्धिः अन्या च तत्साध्यार्थक्रिया तथाङ्गाराद्युत्पत्तावप्युपलब्ध्यादेः प्रसङ्गः ।

ननु भावान्तरस्य प्रध्वन्सा(ध्वंसा)भावरूपतायां तदुत्पत्ताविन्धनादीनां प्रध्वस्तत्वादसतां कथं तथोपलब्ध्यादिप्रसङ्गः? । सत्यम्, एवं मन्यते- सर्वस्येन्धनादेरन्यस्य गवादेरपि तथाभावो मा भूत् इत्यङ्गारादेः ध्वंसव्यवस्थायां निबन्धनमभिधानीयम् । (ह्ब्ट् 79) तस्मिं(स्मिन्) सति तन्निवृत्तिरिति चेत्, अहो वचनकौशलम् यतो निवृत्तेस्तुच्छस्वभावतानङ्गीकरणात् तदेव भावान्तरमङ्गारादिकं निवृत्तिं ब्रूषे । तदयमर्थः सम्पन्नः अङ्गारादिभावे ऽङ्गारादिभावादङ्गारादिकं ध्वंसः काष्ठादेरिति । न चाङ्गारादिभावे तद्भावः स्वात्मनि हेतुभावायोगात् । अग्न्यादिभ्यश्च तदुत्पादवचनादिन्धनाद्युपमर्द्देनाङ्गारादिभावात् अस्य ध्वंसंरूपतेति चेत् । को ऽयमुपमर्द्दो नाम? । यदि निवृत्तिः साङ्गारादिलक्षणैवेति न पूर्वस्माद् विशिष्यते । तस्मात् स्वरसतो निवर्तते काष्ठादिः, अग्न्यादिभ्यस्त्वङ्गारादिजन्म इत्येव भद्रकम्, अन्यथा काष्ठादे"स्तथोपलब्ध्यादिप्रसङ्गः" कथं न स्यात्? ।

अपि च- यदि भावान्तरं प्रध्वंसाभावो य एते ऽनुपजातविकाराः प्रदीपबुद्ध्यादयो ध्वंसन्ते तेषां कतरद् भावान्तरं प्रध्वन्सो(ध्वंसो) व्यवस्थाप्यते? । ते ऽप्यव्यक्ततामात्मभावं च विकारमेव ध्वंसं समलम्बन्त इति चेत् । न, प्रदीपादेर्भावरूपाव्यक्तताभावे प्रमाणाभावात् । यदि हि शक्तिरूपतापत्तिरव्यक्तता तदा शक्तेः कार्यदर्शनोन्नीयमानरूपत्वात् तदभावे कथं प्रदीपादयः शक्त्यात्मनावस्थिताः कल्पेरन्? । अथोपलब्धियोग्यताविकलात्मतापत्तिरव्यक्तिः; अत्रापि तदात्मनावस्थितौ नैव प्रमाणमस्ति । न चाप्रमाणकमाद्रियन्ते वचो विपश्चितः । आत्मनश्चासत्त्वात् कथं तद्भावो बुद्ध्यादीनां विकारः परिणामश्च? । अन्यत्र विहितप्रतिक्रियत्वात् नेह प्रतन्यत इत्यलं प्रसङ्गेन ।

स्यान्मतम्- भावान्तरेणाङ्गारादिनावृतत्वात् इन्धनादेस्तथोपलब्ध्यादयो न भवन्तीत्यत आह- "नापि" इत्यादि । स्वभावान्तरम् "अन्यस्ये"न्धनादेरा"वरणमपि"न"युज्येत" "तदवस्थे" अविचलित रूपे "तस्मिन्नि"न्धनादौ स"त्यावरणस्यापि" न केवलमनुपलब्ध्यादे"रयोगात्" ।

[13. भावाभावपक्षस्यापि समालोचनम् ।]

न केवलं भावस्वभावो भावान्तरं वा विनाशहेतुना न क्रियते भावाभावो ऽपि न क्रियत इत्याह- "नापि" इत्यादि । कुतः? इति चेत्, "अभावस्य विधिना" पर्युदासेन विवक्षिताद्भावाद"न्य"तया कार्यत्वो"पगमे" क्रियमाणे किमिन्धनादिरूप एवासौ? अथार्थान्तरम्? इति "व्यतिरेकाव्यतिरेकाविकल्पानतिक्रमात्" । तत्र चोक्त एव दोषः ।

ननु प्रसज्यप्रतिषेधात्मा तुच्छरूपो ऽसावग्न्यादिजन्यो ऽभ्युपेयते । तद्भावे चेन्धनदिनां नैःस्वाभाव्यात् कुतः पूर्वदोषावसरः? । स चावश्यमग्न्यादिभावाभावानुविधायितया तत्कार्यस्तद्भावव्यवहारस्यान्यत्रापि तन्निबन्धनत्वात् । तदुक्तम्-

"सन् बोधगोचरप्रास्तद्भावे नोपलभ्यते । नश्यन् भावः कथं तस्य न नाशः कार्यतामियत् ॥

प्रागभूत्वा भवन् भावो हेतुभ्यो जायते यथा । भूत्वापि न भवंस्तद्वद्धेतुभ्यो न भवत्ययम् ॥" इति ।

अत आह- "भावप्रतिषेधे"त्यादि । अयमभिप्रायः- यद्यनपेक्षितभावान्तरसंसर्गश्च्युतिमात्रमेव तुच्छरूपं ध्वंसः तदा तत्र कारकव्यापारो नैव सम्भवति भवनधर्मिण्येव तत्सम्भवात् । तस्याप्यभूत्वा भावोपगमात् कार्यता न विरुध्यत इति चेत् । न । भवनधर्मणो भावरूपताप्राप्तेरभावत्वहानेः । यतो भवतीति भावो भण्यते, नापरमङ्कुरादेरपि भावशब्दप्रवृत्तिनिमित्तम् । अर्थक्रियासामर्थ्यामिति चेत् । सर्वसामर्थ्यविरहिणस्तर्ह्यस्य कथं प्रतीतिविषयता? । नह्यकारणं प्रतीतिविषयः, अतिप्रसङ्गात् । तदविषयस्य वा कथं हेतुमत्तावगतिः? वस्तुता वा? । उएमाच्यते 'तुच्छरूपमेव तद् वस्तुऽ; इति । प्रतीतिजनकत्वे वा कथं न सामर्थ्यसम्बन्धिता? । सदितिप्रत्ययाविषयस्य कथं भावतेति चेत् । कार्यताप्यस्य कथम्? । स्वहेतुभावे भावात् इति चेत् । कथं तर्हि सत्परत्ययाविषयता? । (ह्ब्ट् 81) तथा हि- यदि स्वहेतुभावे भवतीति प्रतीयते सदित्यपि प्रतीयेत । यतो ऽस्तीति सद् इति वदन्ति विद्वांसः । न चास्ति, भवति, भावः, सन्निति शब्दानामर्थभेदः परमार्थतः कश्चित् । अभावात्मकतयैव भवत्यसाविति चेत् । न । व्याहतत्वात्, यतो न भवतीत्यभाव उच्यते स कथं भवतीति व्यपदिश्यते? । प्रतिष्ठितेन केनचिद् रूपेण स्वज्ञानात्मन्यप्रतिभासनात् न भव इति चेत् । अत्यन्तपरोक्षाणां चक्षुरादीनामभावताप्रसङ्गः । न । तेषां ज्ञानहेतुरूपतया प्रतिभासनात् इति चेत् । न । अस्यापि भवितृरूपतयावभासनात् । सर्वरूपविवेकस्य च कथं भूत्या सम्बन्धः? । केनचिद् रूपेणोन्मज्जनं हि भवनम् । ज्ञानविषयतयास्यापि च तेद्धेतुरूपतयावभासनस्य

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.