Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 6/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

हेतुबिन्दुटीका

Tác giả
अर्चट
Thông tin
GRETIL — Pandit S. Sanghavi and Muni Shri Jinavijayaji. Hetubinduṭīkā of Bhaṭṭa Arcaṭa, with the sub-commentary entitled Āloka of Durveka Miśra. Baroda 1949.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अथ मतम्- सर्वस्यापरिदृष्टस्य दृश्यमानादन्यतया व्याप्तिं नैवं प्रत्यक्षं साधयति तत् कुतस्तृतीयराश्यभावः प्रत्यक्षत एव स्यात्, यतो ऽभावप्रामाण्यकल्पना व्यर्था भवेदित्यत आह- "तस्य" तृतीयराशितया कल्प्यमानस्य ततो दृष्टादन्यतया व्याप्त्यभावे "तेन" प्रत्यक्षेण "ततो"ऽर्थात् स्वविषयस्य "अव्यवच्छेदा" दपृथक्करणात्, तदर्थस्य च राश्यन्तरत्वेन कल्प्यमानस्य स्वविषयादव्यवच्छेदात् अपृथक्करणात् पुनरपि भावस्य स्वविषयस्यापरिच्छेदप्रसङ्गात् । स हि तद्विषयः सकलपररूपासंकीर्णात्मा यदि तेनात्मना न परिच्छिन्नः कथं तेन तस्य परिच्छेदः? । तेनात्मना परिच्छेदे वा कथं सर्वस्य तदन्यतया व्याप्त्यसाधनम्? अन्यथैकस्यापि तदन्यत्वं न स्यात्, निमित्तस्य समानत्वादिति । यत एवं "तस्मात्" क्वचिद्वस्तुनि प्रमाणं प्रत्यक्षादिकं (ह्ब्ट् 198) प्रवृत्तं तद्वस्तु प्रतिनियतेनात्मना परिच्छिनत्ति, ततो ऽन्यत्तद्रूपविकलं व्यवच्छिनत्ति, तदन्यत्वेन व्यवस्थापनात् । तृतीयस्य च तत्त्वान्यत्वबहिर्भूतस्य प्रकारस्याभावं सूचयति, सर्वस्यान्यतया व्याप्तिसाधनात्, तद्विरुद्धस्य वा सर्ववस्तुनो द्वैविध्यस्य साधनादिति ।

एवमेकस्य प्रमाणस्य व्यापार एषो ऽनन्तरोक्त इति तमेवोपसंहृत्य सुखप्रतिपत्तये दर्शयन्नाह- "तथाहि" क्वचिद्वस्तुनि "प्रमाणं" प्रत्यक्षादि प्रवृत्तं "तदेव" वस्तु तदन्यस्मात् "पारूपाद् व्यवच्छिनत्ति" ततः पृथक्करोति तदसंकीर्णरूपतया प्रतिपद्यते, परमार्थतस्तस्य तद्रूपत्वात् यथावस्तु च प्रत्यक्षेण रूपानुकारात् । किमिति पररूपाव्द्यवच्छिनत्ति? । तस्यैव पररूपविकलस्यैकरूपस्य परिच्छेदात् । तथा "तदन्यदेव च" तस्माद् दृश्यमानादन्यदेव च व्यवच्छिनत्ति । कुतः? । "तस्मात्" स्वविषयात् । न केवलं स्वविषयं परतो व्यवच्छिनत्ति, परमपि स्वविषयाद् इति । कुत एतद्? । अन्यस्य पररूपस्य तत्र खालम्बने ऽपरिच्छेदादवश्यमेवापरिच्छिन्नस्य परिच्छिन्नादन्यत्वं भवति । यत एवमतः "तद्" एव प्रमाणमेकवस्तुपरिच्छेदकं प्रकारान्तराभावं साधयति, नाभावाख्यम् । कुत एतत्? । तस्मिं दृश्यमाने वस्तुनि दृष्टतदन्यत्वेन तस्यान्यस्य तत्रापरिच्छिद्यमानस्यान्यत्वं तदन्यत्वं दृष्टात् तदन्यत्वं "दृष्टतदन्यत्वं" तेन सर्वस्य तव्द्यतिरिक्तस्य व्यवस्थापनान्न अ(पनेन अ) तदन्यस्यैव च यदन्यन्न भवति पुरो ऽवस्थितं सकलपरभावव्यावृत्तं तस्यैव तत्त्वेन दृश्यमानप्रकारतया व्यवस्थापनादिति ।

अमुमेव न्यायमन्यत्राप्यतिदिशन्नाह- "एतेन क्रमाक्रमादयः" इत्यादि । एतेन अनन्तरोक्तेन न्यायेन प्रतिनियतैकपदार्थरूपानुकारिणी बुद्धिरुपजायमाना तद्विपरीतरूपं सर्वं स्वविषयाद् व्यवच्छिन्दती द्वैराश्यं तृतीयप्रकाराभावं च साधयतीति ये केचिदन्योन्यव्यच्छेदरूपाः क्रमाक्रमनित्यानित्यादयः ते व्याख्याताः । (ह्ब्ट् 199) तथा हि- कार्यस्य क्रममनन्यसहायतां प्रतियत्येव बुद्धिस्तस्याक्रमं कार्यान्तरसाहित्यं ततः पृथक्करोति । ततः क्रमाक्रमतया द्वैतसिद्धेः तृतीयस्य प्रकारस्य सम्भवो निरस्तो भवति । क्रमभावव्यतिरेकिणः सर्वस्य कार्यजन्मनः तदन्यतया द्वितीयप्रकारतयावस्थानात् । एवमुदयानन्तरध्वंसिता क्षणिकतोच्यते इति प्रतीयती व्यवस्थापनाकाल एव बुद्धिस्तद्विपरीतरूपतायाः स्वविषयादपाकरणात् ततो ऽन्यत्वेन प्रकारान्तरे ऽवस्थापनाद् राश्यन्तराभाव इति ।

तदेवमेकप्रमाणनिबन्धनामसाङ्कर्यसिद्धिं प्रतिपाद्योपसंहरन्नाह- "तदेवम्" उक्तेन न्यायेन "एकस्य" प्रतिनियतात्मन उपलम्भात् तस्योपलभ्यमानस्य यस्ततो ऽन्यस्तत्तुल्ययोग्यतारूपस्तव्दिपरीतो वा तद्रूपविकलस्तदात्मनो "व्यवच्छेदः" पृथक्करणं तस्योपलभ्यमानस्यानुपलभ्यमानस्वभावाद् रूपान्तरेण प्रतिभासनात् । तथा तस्य स्वविषयस्य तदन्यात्मताया भावप्रधानत्वान्निर्द्देशस्य "व्यवच्छेदो भवति" असाङ्कर्यं सिध्यति ।

तद् यद्येतदविशेषेणान्यस्य सर्वस्य तन्नाभावसिद्धिः स्यादित्यत्राभिमतं तदा सिद्धसाधनम्, यतः सर्वमविशेषेणैव तदेकाकारया बुध्या तद्रूपविकलं स्वविषयादवच्छिद्यते, सर्वस्यान्यरूपस्य तत्राप्रतिभासनात् । अथ तद्देशकालयोरभावः सर्वस्य तद्विपरीतरूपस्य व्यवच्छेदो ऽभिमतः स न युक्त इति दर्शयति- "न तद्देशकालयोः" यत्रासौ प्रतिनियतात्मा सकलत्रैलोक्यविलक्षणः पदार्थ उपलभ्यते तत्र सर्वस्यान्यस्य भावस्य तत्तुल्ययोग्यतारूपस्येतरस्य वा व्यवच्छेदः प्रतिषेधः । येन हि कारणेन तत्तुल्ययोग्यतारूपस्य तत्राप्रतिभासमानस्य प्रतिषेधस्तस्मिन् सति तदेकरूपनियतायाः प्रतिपत्तेरसंभवात् तदभावनान्तरीयिका सा भावन्ती तत्प्रतिषेधं गमयतीति तत्कारणमनुपलब्धिलक्षणप्राप्ते तदतुल्ययोग्यतारूपे च न सम्भवतीति कथं तदभावः सिध्येत् ।

एतदेवोपसंहरन्नाह- "तस्मादतदात्मा" च सर्वस्तद्विपरीतरूपस्तदेकाकारया बुद्ध्या प्रसाधितः स्यात् "तद्देशकालश्च" तस्य प्रतिभासमानस्य यौ देशकालौ तौ यस्य, स च स्यात् । किंवत्? । रसरूपादिवदिति । नहि रूपप्रतिभासिना ज्ञानेन तद्रूपविकलस्य रसस्य स्वविषयात् पृथक्करणे ऽपि तदसांकर्यसाधने ऽपि तद्देशकालयोरभावः सिध्यति । ततश्च कथं सर्वस्यातुल्ययोग्यावस्थास्यापि तत्राभावः स्यात्?, उपलब्धिलक्षणप्राप्तस्येति विशेषणं वा नोच्येत । यत एवं "तस्मात्" क्वचित् कदाचित् कस्यचिदभावसिद्धिर्यथोक्तादेवानुपलम्भाद् उपलब्धिलक्षणप्राप्तस्य तत्तुल्ययोग्यतारूपोपलम्भात्मनश्चेत्येवंरूपात्, न तु सामान्येन यथाहुः परे-

"प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता ॥" इति ।

न ह्यनुपलब्धिलक्षणप्राप्ते प्रमाणपञ्चकाप्रवृत्तावपि तदभावः सिध्यति, सत्यपि तस्मिन् स्वभावादिविप्रकर्षेण प्रमाणपञ्चकाप्रवृत्तिसम्भवादिति ।

तदेवं प्रासङ्गिकं परिसमापय्य यदुक्तं परेण 'स एवान्यभावस्तद्विषया चोपलब्धिः तदभावस्य किं न साधनम्ऽ; इति तत्रान्यभावस्य तदभावं प्रति लिङ्गत्वे निरस्ते तद्विषयाया उपलब्धेर्निराकुर्वन्नाह- "अन्याभावविषये"त्यादि । यत्पुनरुक्तम्- 'अन्यभावविषयोपलब्धिस्तदभावस्य किन्न साधनम्ऽ; इति सा तदभावस्य साधिकेष्टैवास्माकम्, न तु लिङ्गत्वेन यथोक्तवानसि । किं कारणम्? । यतः तत्राप्यन्यभावविषयायामुपलब्धावऽभावस्य पृथगन्यभावात् साध्यत्वे कल्प्यमाने सम्बन्धाभावस्य तदभावेन तुल्यत्वात् । न हि तस्या अपि अन्यभावरूपायाः तदभावेन कश्चिदेकार्थसमवायादिरूपः सम्बन्धो ऽस्तीति ।

अपृथक्सिद्धेरित्यस्यापि तुल्यतां दर्शयन्नाह- "लिङ्गाविर्भावे" त्यादि । येयमन्यभावविषया उपलब्धिर्ल्लिङ्गतयोच्यते तस्यास्तद्विविक्तप्रदेशाकाराया (ह्ब्ट् 201) "अविर्भावकाल एव" जन्मकाले प्रतीतिकाल एव वा तदभावसिद्धेश्च । तथा हि- तत्प्रतिभासविविक्तान्यभावप्रतिभासबुद्धिसंवेदनमेव तदभावसंवेदनमिति । तदेव साधयति- न ह्यन्यस्य तद्विविक्तस्य भावं प्रतिपद्य प्रतिपत्ता पुनरुत्तरकालं तत्प्रतिपत्तेरन्यभावप्रतिपत्तेस्तदभावेनान्वयव्यतिरेकौ प्रसाध्य प्रतिबन्धसाधकेन प्रमाणेन तदभावं प्रतिपद्यते । किं तर्हि? । तदन्यं तद्विविक्तरूपं प्रतिपद्यमान एव तस्य प्रतियोगिनो ऽभावं प्रतिपद्यते, तस्यैव तदभावात्मकत्वात् । तथा हि- सघटप्रदेशासंकीर्णरूपस्य केवलप्रदेशस्य दर्शनमेव घटाभावदर्शनम् । नहि 'घटो ऽत्र नास्तिऽ; 'घटवानयं न भवतिऽ; 'सघटादन्यःऽ; इत्यर्थभेदः कश्चित् । ततः सघटादन्यतया केवलप्रदेशस्य दर्शनमेव घटाभावदर्शनमिति । 'घटो ऽत्र नास्तीऽ; ति ज्ञानं गृहीतग्राहितया स्मृतिरेवेति । कथं ज्ञायते इति चेत् । दर्शनानन्तरमन्वयव्यतिरेकसाधनलक्षणेन व्यवधानेन विना 'इदं घटविविक्तं प्रदेशवस्त्वस्तिऽ; 'इदं तु घटवस्तु नास्तिऽ; इति पाश्चात्येन विकल्पद्वयेन व्यवस्थापनात् । ततो नान्वयव्यतिरेकानुसरणमत्रास्तीति ।

किञ्च- दृष्टान्तासिद्धे स्वात्मन्यभावविषयोपलब्धिस्तदभावस्य साधनं । तदेव व्यतिरेकमुखेन दर्शयति- "तच्च तस्य" इत्यादि । इहाप्यस्त्येवान्वय इति चेत्, आह- "न ह्येवं शक्यम्" इत्यादि । कस्मान्न शक्य दर्शयितुम्? । तदेकोपलब्धेः तस्यैकस्यानन्यसंसर्गिणो योपलब्धिर्विशेषरूपा तस्याः क्वचिदप्यन्यत्राभावात् । अथ तद्विविक्तोपलब्धिसामान्यं हेतुरूच्यते- यत्र यत्र घटविविक्तभूतलोपलब्धिस्तत्र तत्र घटाभावो यथा पूर्वानुभूते घटविविक्ते प्रदेश इत्याह- "सामान्येन प्रदर्शने क्रियमाणे" दृष्टान्ते ऽपि पूर्वानुभूतघटविविक्ते प्रदेशे घटाभावस्य प्रसाधकं प्रत्यक्षादिकं प्रमाणान्तरमन्यभावविषयोपलब्धेर्नास्ति, किं तु सैव तदन्यभावोपलब्धिः साध्यधर्मस्य तदभावलक्षणस्य साधिका । (ह्ब्ट् 202) सा च यथा साध्यधर्मिणि तदभावसिद्ध्ये दृष्टान्तमपेक्षते तथा दृष्टान्ते ऽपि । तथा, तत्रापि तदन्यत्रापीत्यनवस्था दृष्टान्तानाम् इति । अनवस्थायां चाप्रतिपत्तिः सर्वत्र तदभावस्य । यत एवं "तस्मान्न" कुतश्चिल्लिङ्गात्तदन्यभावात्तदुपलब्धेर्वा तदभावसिद्धिरिति । यदि तदन्यभावस्तदभावं न साधयति, किं पुनर्ल्लिङ्गतया साधयति?, इत्यत आह- "सो ऽन्यभावः" प्रत्यक्षलक्षणेन- प्रत्यक्षस्यैव विवक्षितोपलम्भादन्यत्वेनानुपलम्भत्वात् । तल्लक्षणेनानुपलम्भेन सिद्धः सन्नभावव्यवहारं साधयेत्, कर्मस्थक्रियापेक्षायां तदन्यभावस्यानुपलब्धिरूपत्वात् । क्व पुनरसावभावव्यवहारं साधयेत्? । मूढप्रतिपत्तौ साध्यायां । यस्त्वमूढो विषयप्रतिपत्तौ विषयिणं स्मरत्येव तस्याभावव्यवहारः प्रत्यक्षनिबन्धन एवेति न तत्रानुपलब्धेर्लिङ्गतेति सुचर्च्चितमेवान्यत्रेतीहालं प्रसङ्गेनेति ।

[3. अनुपलब्धिं त्रिधा विभज्य तद्विवेचनम् ।]

तदेवमनुपलब्धेरशेषविप्रतिपत्तिनिराकरणेन स्वरूपमवस्थाप्यप्रभेदनिर्द्देशार्थमाह- "सेयं यथोक्ता त्रिधानुपलब्धिः" । कथम्? । सिद्धे तत्प्रसाधकेन प्रमाणेन कार्यकारणभावे सति कारणस्यानुपलब्धिः । कीदृशस्य? । सिद्धाभावस्य । तथा, व्याप्यव्यापकभावसिद्धौ सत्यां तत्प्रसाधनप्रमाणबलेनैव सिद्धाभावस्यैव व्यापकस्य नान्यस्य व्यापकानुपलब्धेरेवासिद्धताप्रसङ्गाद् । यथोक्ता स्वभावानुपलब्धिश्चेति । एवं त्रिविधानुपलब्धिः । कथं पुनः कारणव्यापकयोरभावव्यवहारः सिध्यति यतस्तयोः सिद्धाभावतोच्यत इत्याह- "तत्र कारणव्यापकयोरपि" न केवलं यस्य साक्षादभावव्यवहारः साध्यते । स्वभावानुपलब्धौ "स्वभावस्यासव्ध्यवहारस्य सिद्धिरन्यस्य" तद्विविक्तस्य भावसिद्धिर्या सैवासव्द्यवहारसिद्धिहेतुत्वादेवमुच्यते । "स" कारणव्यापकाभावः "तथासिद्धो" ऽन्यभावसिद्ध्या प्रत्यक्षरूपया सिद्धो ऽभावव्यवहारः कार्यव्याप्ययोः प्रतिषेध्ययोः । यदानयोर्विरूपविषयतया सविशेषाणामुपलब्धिर्न (ह्ब्ट् 203) सिध्यति "तदाभावमभावव्यवहारं वा साधयति" । समुच्चयार्थो वाशब्दः । अथ किं स्वभावानुपलब्धावप्यभावो लिङ्गतया साध्यत इत्याह- "स्वभावानुपलब्धौ तु" इत्यादि । "अभावव्यवहार एव", नाभावो ऽपि तस्य प्रत्यक्षसिद्धत्वात् ।

अत्र परस्य वचनावकाशमाशङ्कयाह- "यदि" तर्हि "कारणव्यापकौ" सिद्धो ऽसव्द्यवहारो ययोः तौ सन्तौ । केन? । "तदन्यस्य" कारणव्यापकविविक्तस्य भावस्य सिद्धिर्या प्रत्यक्षत्मिका तद्रूपयानुपलब्ध्या, अन्यस्य कार्यस्य व्याप्यस्य वाभावमभावव्यवहारं च साधयतः । सा चान्यभावोपलब्धिस्तयोः कारणव्यापकयोरुपलब्धिलक्षणप्राप्तावेव सत्यामसव्द्यवहारस्य साधिका नान्यथा इत्येवमिष्यमाणे सति कथं तयोः कारणव्यापकानुपलब्ध्योः परोक्षे ऽर्थे विषये प्रयोगः । यदा कार्यस्वभावहेत्वोर्व्यतिरेकप्रयोगः क्रियते- यत्र यत्राग्निर्नास्ति तत्र तत्र धूमो ऽपि नास्ति, तथा यत्र यत्र वृक्षो नास्ति क्षणिकता वा तत्र तत्र शिंशपा नास्ति सत्त्वं वा इत्यशेषपदार्थपरिग्रहेण व्यतिरेकप्रयोगे सति । नहि तदाग्निवृक्षव्यतिरिक्ताः सर्वे ऽर्थाः प्रत्यक्षता(क्षा) अक्षणिकता वा । ततश्च कथं तद्विविक्तोपलब्धिलक्षणानुपलब्धिः प्रतियोगिनो वोपलब्धिलक्षणप्राप्तता सिद्धा? । तथा च कथमशेषोपसंहारेण व्याप्त्या कार्यस्वभावहेत्वो ऽर्व्यतिरेकः सिध्येत्? । तदसिद्धौ वा कथमनयोर्गमकत्वम्? । तस्मात् क्वचिददर्शनमात्रादेव व्यतिरेक एष्टव्यः, क्वचिच्च दर्शनमात्रादन्वयः । तथा च प्रतिबन्धघोषणानर्थिकेति मन्यते परः ।

सिद्धान्तवाद्याह- "नैव" परोक्षे ऽर्थे कारणव्यापकानुपलब्ध्योः "प्रयोगो" व्यतिरेकोपदर्शनकाले "प्रमाणतया" कारणस्य व्यापकस्य वानुपलब्धिः प्रमाणभूता नैव प्रयुज्यते । कस्मात्? । "लिङ्गस्य" कारणव्यापकानुपलब्धिलक्षणस्य तदभावलक्षणस्य वा "अनिश्चयात्" तदनुपलब्ध्योः सन्देहरूपत्वात् तदभावस्य च सन्दिग्धत्वात् । कथं तर्हि तदानयोः प्रयोग इष्यते? इत्याह- "केवलम्" इत्यादि । कारणव्यापकयोर्हिकार्यकारणभावप्रसाधकेन (ह्ब्ट् 204) पूर्वोक्तेन प्रमाणेन व्याप्यव्यापकभावसाधकेन च तदुत्पत्तिलक्षणे तादात्म्यलक्षणे च सम्बन्धे साधिते सिद्धसम्बन्धयोर्यद्यभावो यत्र यत्रा भावः स्यात् परस्यापि कार्यस्य व्याप्यस्य वावश्यं नियमेनाभावो ऽन्यथाहेतुकत्वप्रसङ्गात्, निःस्वभावताप्रसङ्गाच्च । तद्द्वारेण प्रतिबन्धप्रसाधके प्रमाणे स्मृतिः कथं नाम स्यादित्येतस्यार्थस्य दर्शनार्थमेते कारणव्यापकानुपलब्धी प्रयुज्येते इति । दर्शनादर्शनबलेन तु साधने यत्रैवैकदर्शने परो दृष्टो ऽदर्शने वा न दृष्टः तत्रैव तस्य भावो ऽभावो वा भवतु सर्वत्र तु कस्माद् भवति? । न ह्यप्रतिबद्धात्मनां गवाश्वादीनां क्वचित् तथाभावदर्शने ऽपि सर्वत्र तथाभावो भवति, पुरुषस्य तु सर्वदा क्वचिदेकभावाभावयोरपरस्य भावाभावादर्शनं यदृच्छासंवादः सम्भाव्येत असति प्रतिबन्धे । तथा चाह-

"देशादिभेदादृश्यन्ते भिन्ना द्रव्येषु शक्तयः । तत्रैकदृष्टया नान्यत्र युक्तस्तद्भावनिश्चयः ॥" इति ।

तस्मादवश्यं प्रतिबन्धः साध्यसाधनयोरभ्युपगन्तव्यः । स एवान्वयव्यतिरेकप्रयोगाभ्यां सुचनीयः । न चासौ व्याप्त्यान्वयव्यतिरेकोपदर्शनमन्तरेण ख्यापयितुं शक्यत इति 'यत्र यत्रऽ; इति सकलपदार्थपरिग्रहेण ख्याप्यते । प्रतिबन्धे हि प्रमाणसिद्धे सत्यवश्यमेव यत्र यत्र कार्यं तत्र तत्र कारणम्, यत्र यत्र तदभावः तत्र तत्र च कार्यस्याप्यभावो ऽन्यथा कारणमन्तरेण कार्यस्य भावे तस्याहेतुतैव स्यात् । ततश्च नित्यं सत्त्वादिप्रसङ्गः । तथा यत्र यत्र यत्स्वभावस्तत्र तत्र तद्भावः अन्यथा तस्य नैरात्म्यमेव स्यादिति व्याप्त्यैवान्वयव्यतिरेकोपदर्शने प्रतिबन्धः ख्यापयितुं शक्यते नान्यथेति प्रागेव विस्तरतो विपञ्चितम् ।

[4. हेतोस्त्रैरूप्यत्रैविध्ययोर्हेत्वाभासत्वस्य चोपसंहारः ।]

एवं कार्यस्वभावानुपलब्धिलक्षणे एव पक्षधर्मे तत्साधकप्रमाणसद्भावादन्वयव्यतिरेकसद्भावो नान्यत्रेति प्रतिपाद्योपसंहरन्नाह- (ह्ब्ट् 205) "इति" एष एव स्वभावकार्यानुपलब्धिलक्षणः पक्षधर्मो ऽन्वयव्यतिरेकवान् प्रतिबन्धसद्भावात् । यतश्वान्वयव्यतिरेकवान् प्रतिबन्धप्रसाधकप्रमाणसद्भावादुक्तेन न्यायेन "इति" तस्मात् "तदंशेन व्याप्तो"ऽन्वयव्यतिरेकनिश्चयेनैव तदंशव्याप्तेर्निश्चयाद् यथोक्तं प्राक्, ततश्च तदंशव्याप्तिवचनात् त्रिलक्षण एव "त्रिरूप एव" त्रिविध एव हेतुर्गमको नान्यलक्षणो ऽन्यो वा यथोक्तत्रैरूप्यसद्भावे रूपान्तरस्य वैयर्थ्यात् यथोक्तत्रैरूप्याभावे च रूपान्तरकल्पनायामप्यव्यभिचाराभावेनागमकत्वात् । कस्मात् त्रिलक्षण एव त्रिविध एव हेतुर्गमको नान्यलक्षणो ऽन्यो वेति दर्शयति "स्वसाध्यधर्माव्यभिचाराद्" इति त्रिलक्षणस्यैव स्वसाध्यधर्माव्यभिचारात् । स्वसाध्यधर्माव्यभिचार एव च गमकत्वमिति रूपान्तरकल्पना व्यर्था । प्रतिबन्धनिबन्धनान्वयव्यतिरेकापगमे च रूपान्तरकल्पनायामपि स्वसाध्यधर्माव्यभिचाराभावात् । तदनेन 'त्रिधैव सऽ; इत्यस्य त्रिलक्षण एव "स हेतुरःविनाभावस्य" स्वसाध्यधर्माव्यभिचारस्य "नियमाद्" अवश्यन्तया सद्भावात् प्रतिबन्धनिमित्ततदंशव्याप्त्यनभ्युपगे (गमे)च रूपान्तरकल्पनायामपि "हेत्वाभासास्ततो ऽपरे" यथोक्तत्रिलक्षणादपरे रूपान्तरयोगितया विकल्प्यमाना हेत्वाभासा अविनाभावस्य स्वसाध्यधर्माव्यभिचारस्य तेष्वभावादित्यपरो ऽर्थो दर्शित इति ।

[5. हेतुलक्षणे ऽधिकरूपवादिनां निरासः ।]

यदुक्तं 'त्रिलक्षण एव हेतुर्नान्यलक्षणःऽ; इति तत्र परेषां विप्रतिपत्तिं दर्शयन्नाह- "षड्लक्षणो हेतुरित्यपरे" नैयायिक- मिमांसकादयो मन्यन्ते । कानि पुनः षड्रूपाणि हेतोस्तैरिष्यंते? इत्याह- 'त्रीणि चैतानि" पक्षधर्मान्वयव्यतिरेकाख्यानि । तथाबाधितविषयत्वं चतुर्थं रूपम् । अबाधितः प्रमाणेनानिराकृतो विषयः साध्यधर्मलक्षणो यस्य स तथोक्तः तस्य भावः तत्त्वमपरं रूपम् । तथा विवक्षितैकसंख्यत्वं रूपान्तरं, एका संख्या यस्य हेतुद्रव्यस्य (ह्ब्ट् 206) तदेकसंख्यं विवक्षितमेकसंख्यं हेतुद्रव्यमाश्रयत्वेन यस्य हेतुसामान्यस्य तद्विवक्षितैकसंख्यं तद्भावो ऽपरं रूपम् । यद्येकसंख्याव्यावच्छिन्नायां प्रतिहेतुरहितायां हेतुव्यक्तौ हेतुत्वं भवति तदा गमकत्वं न तु प्रतिहेतुसहितायामपि द्विसंख्यायुक्तायामिति । यदि विरुद्धाव्यभिचार्यपरं हेत्वन्तरं नोपदर्श्यत इति यावत् । तथा ज्ञातत्वं च ज्ञानविषयत्वं च । नह्यज्ञातो हेतुः स्वसत्तामात्रेण गमको युक्तः इति । तत्रैतेषु रूपान्तरेषु यदेतबाधितविषयत्वं नाम तत् तावत् प्रतिबन्धनिबन्धनान्वयव्यतिरेकात्मकाविनाभावसम्भवे सति ततः पृथगन्यल्लक्षणं न भवति । तदात्मकं तु तद्वचनेनैवोक्तमिति न वक्तव्यमिति । कस्मात् पृथग् लक्षणं न भवति? बाधाया अविनाभावस्य च विरोधादिति । तथा हि- सत्यप्यविनाभावे यथोक्ते बाधासम्भवं मन्यमानैरबाधितविषयत्वं रूपान्तरमुच्यते । सा चेयं तत्सम्भावना न सम्भवति, बाधाया अविनाभावेन "विरोधात्" सहानवस्थानलक्षणात् । तमेव विरोधं साधयन्नाह- "अविनाभावो हि" इत्यादि । सत्येव हि साध्यधर्मे भावो

हेतोरविनाभाव उच्यते । प्रमाणबाधा तु तस्मिन्नसति । यदि हि सत्येव तस्मिंस्तदभावविषयं प्रमाणं प्रवर्तेत तदास्य भ्रान्तत्वादप्रमाणतैव स्यात् इति कुतो बाधा? । ततः "स" हेतुः "तल्लक्षणः" साध्याविनाभावी "धर्मिणि स्यात् । अत्र च साध्यधर्मः कथं न भवेत्"? यतो बाधावकाशः स्यात् । तस्मादविनाभावस्य प्रमाणबाधायाश्च सहानवस्थानमविनाभावेनोपस्थापितस्य धर्मिणि साध्यधर्मभावस्य प्रमाणबाधोपस्थापितस्य च तदभावस्य परस्परपरिहारस्थितिलक्षणतया विरोधेनैकत्र धर्मिण्यसम्भवादिति ।

तमेव विरोधं स्पष्टीकर्तुं परोपहासव्याजेनाह- "प्रत्यक्षानुमाने हि" इत्यादि । साध्यधर्मं हि बाधमाने प्रत्यक्षानुमाने, "तं ग्रीवायां गृहीत्वा" धर्मिणः स्वाश्रयात् "निष्कासयतः" । तस्मिंश्च साध्यधर्मे सत्येव तदविनाभावित्वाद्धेतुर्भवं "स्तं" साध्यधर्मं (ह्ब्ट् 207) निष्कास्यमानं गले गृहीत्वा हठात् "तत्रैव" धर्मिण्यवस्थापयतीति "परं" प्रकृष्टं बत "भावानां" साध्यधर्मलक्षणानामस्वास्थ्यं वर्तते । तथा हि- यन्त्रद्वयनियन्त्रितानां निरुच्छावसितया मरणमेव प्राप्तमिति ।

परो बाधाविनाभावयोर्विषयभेदादविरोधं दर्शयन्नाह- "अन्यत्र" साध्यधर्मिणं परिहृत्य दृष्टान्तधर्मिणि साध्यधर्मेणाविनाभावी हेतुर्न पुनः साध्यधर्मिण्येव । ततः कुतो बाधाविनाभावयोर्विरोधो ऽन्यत्र बाधया साध्यधर्माभावसाधनादन्यत्र च हेतुना तद्भावसाधनात् । तथा चैवंविधे सत्यपि अविनाभावे बाधासम्भवाद् अबाधितविषयत्वस्य रूपान्तरस्य सम्भव इति ।

एवंविधाविनाभावोपगमे सत्यप्यबाधितविषयत्वादिके रूपान्तरे "हेत्वाभासास्ततो ऽपरे" रूपान्तरसम्भविन इत्यापादितां हेत्वाभासतां विवरीतुं परोपहासपूर्वकमाह- तत् किम् "अयं" साध्यधर्मी "तपस्वी" वराकः "शड्ढ(ण्ढ)मुद्वाह्य तस्मिंन्" साध्यधर्मसाधनशक्तिविकलं हेतुं परिणाय्य साध्यधर्मलक्षणं "पुत्रं मृगयते?" । एतदेव व्यनक्ति- "यस्य" हेतोर्द्धर्मिण्यसत्यपि "साध्यधर्मे भाव" इष्यते, साध्यधर्मिणो ऽन्यत्राविनाभावोपगमात् । "तं" तथाविधं साध्यधर्मिण्युपदर्श्य कथं धर्मी साध्यधर्मवानित्युच्यते? । न ह्य् अम्भस्त्वस्य समुद्रे लवणत्वेनाविनाभावे ऽपि तव्द्यतिरिक्ते ऽम्भसि लवणतया साध्यत्वेनेष्टे ऽम्भस्त्वभावे ऽपि लवणत्वसिद्धिरिति ।

परस्य वचनावकाशमाशङ्कयाह- "अत एव" इत्यादि । एतदेव विवृणोति- "स्यादेतद्" भवतो मतम् । यत एव हेतुरन्यथापि साध्यधर्ममन्तरेणापि धर्मिणि भवेदम्भस्त्वादिषु तथादर्शनात्, साध्यधर्मिपरिहारेण चाविनाभावोपगमात् अत एव कारणात् प्रमाणाभ्यामबाधितधर्मा धर्मीत्युच्यते । यदि प्रत्यक्षानुमानाभ्यां (ह्ब्ट् 208) साध्यधर्मिणि हेतोर्विषयः साध्यधर्मो न बाध्यते यथाम्भस्त्वस्य लवणत्वम्, तदा तस्य गमकत्वम्, नान्यथेति । ततो ऽन्यत्राविनाभावमात्रेण साध्यसिद्धेरनभ्युपगमात् न यथोक्तो दोष इति ।

सिद्धान्तवाद्याह- "तत् किम्" इदानीं यदा हेतोर्धर्मिण्यविनाभावितानभ्युपगमात् साध्यसिद्धेरभावात् तत्सिद्धये रूपान्तरमबाधितविषयत्वमुच्यते तदा हेतोर्न किञ्चित् सामर्थ्यम् । कस्माद्? "अबाधयैव" हेतुमन्तरेणापि "साध्यसिद्धेः" अकिञ्चित्कर एव हेतुः । तथा ह्यत्र कल्पनाद्वयम्- बाधकप्रमाणवृत्तौ साध्याभावो नियतो वा स्याद्? अनियतो वा? । तत्र यदि पूर्वो विकल्पस्तदा साध्याभावो हि बाधकप्रमाणस्य वृत्तौ नियतः, तदैव भावात् तदभावे चाभावादिति । तस्माद् "अबाधायां" बाधकप्रमाणवृत्त्यभावे तन्नियतस्य साध्याभावस्याप्यभावात् "साध्यसिद्धिः" भवत्येवेति व्यर्थ एव हेतुरिति नोपन्यसनीय एव । ततः कस्याबाधितविषयत्वं रूपान्तरं भवेत्? । स्यान्मतम्- मा भुद् बाधकप्रमाणवृत्त्यभावे हेतोः सामर्थ्यम्, यदा तु साध्यस्य बाधकं प्रमाणं धर्मिणि वर्तते तदा हेतोः साध्यसाधने सामर्थ्यं भविष्यतीत्यत आह- "बाधायामपि" इति । यदि बाधकं प्रमाणं वर्तते तदा तेन साध्याभावस्य धर्मिणि साधनात् पुनर्ब्रह्मणापि तद्भावस्य कर्तुमशक्यत्वात् किमङ्ग पुनः शठेन हेतुनेति कुतः साधनस्य हेतोः सामर्थ्यम्? । अत एव हि भवद्भिरबाधितविषयत्वं रूपान्तरमुच्यत इति ।

अथ बाधकप्रमाणवृत्तौ साध्याभावो न नियतः तदभावे ऽपि भावादिति द्वितीयः पक्ष इष्यते तदाप्यबाधायाः सामर्थ्यविरह इति दर्शयन्नाह- "अनियमे" बाधकप्रमाणवृत्तौ साध्याभावस्येष्यमाणे सतीदमापतितम् । न च- बाधकं प्रमाणं स्यात् "साध्याभावस्य च सम्भवः"- इति "न" साध्यसाधने "सामर्थ्यम् अबाधायाः" सत्यामपि तस्यां साध्याभावस्य सम्भवादिति तद्योगिनो ऽपि हेत्वाभासतैवेति ।

यदुक्तम् "अबाधयैव साध्यसिद्धेर्व्यर्थो हेतुः" इति तत्रान्यथार्थमबाधाया दर्शयन् हेतुसामर्थ्यं प्रतिपादयन्नाह परः- न बाधाया अभावो ममाबाधाभिमता । किं तर्हि? । बाधाया अनुपलब्धिः । सा च तदनुपलब्धिः पुरुषस्य शक्तिवैकल्यात् क्वचिद् देशादौ बाधायाः सम्भवे ऽपि स्यात् । ततो बाधानुपलब्धिमात्रेण साध्यसिद्धेरभावात् तत्सिद्धये ऽवश्यं हेतुरभिधानीय इति स हेतुप्रयोगस्य विषयस्तदा हि हेतुः स्वसाध्यं साधयन् कथमसमर्थः स्यात्? इति ।

सिद्धान्तवाद्याह- किं नु वै हेतुर्ब्बाधाया या उपलब्धिस्तस्याः विभेति न पुनर्ब्बाधाया येन बाधां सम्भवन्तीमप्यनादृत्य तदनुपलब्धौ सत्यां प्रयोक्तव्य इष्टो भवतः ।

कदाचित् परो ब्रूयात्- किं करिष्यति विद्यमानापि बाधा तपस्विनी, तदुपलब्धिरेव राक्षसी । तस्मात् तत एव हेतोर्भयं तदभावे हेतुः प्रयोक्तव्य एवेत्यत आह- "स तर्हि" इत्यादि । एवं तर्हि परमार्थेन बाधा किमस्ति नास्तीत्येतदनपेक्ष्य बाधाया अनुपलब्धौ सत्यां प्रयोक्तव्य इति काक्वा पृच्छति । कदाचित् परो ब्रूयात्- उक्तमेवैतत् किमर्थं पृच्छ्यते? इत्याह- "किमर्थं प्रयुज्यत" इति । बाधानुपलम्भे ऽपि तत्सम्भवे साध्यसाधनायोगादित्यभिप्रायः । परो ऽनवगताभिप्राय आह- "साध्यसिद्ध्यर्थम्" इति बाधकप्रत्ययाभावे प्रमाण्यस्येष्टत्वात् ततः साध्यसिद्धिरविरुद्धैवेति मन्यते । सिद्धान्तवादी सत्यां बाधायां तदनुपलम्भे ऽपि साध्यसिद्धिमसम्भावयन् पृच्छति "स किं क्वचिद्" इत्यादि । किं पुनरसौ हेतुः सत्यामपि बाधायां साध्यं साधयेदिति सम्भाव्यते भवता येनास्या बाधाया अभावनिश्चयं प्रति यत्नो न क्रियते हेतुश्च प्रयुज्यत इति । एवमेतत् इति चेत्; तथा सत्यामपि बाधायां साध्यसाधनसामर्थोपगमे सत्यबाधितविषयत्वं हेतुलक्षणं न भवति । किं कारणम्? । बाधायामपि सत्यामस्य हेतोः "सामर्थ्यात्" सामर्थ्योपगमात् । तद्धि हेतोर्लक्षणमुच्यते येन विना साध्यं न साधयेदिति ।

स्यान्मतम्- अनुपलभ्यमानबाधत्वं हेतुलक्षणं परमार्थेन, नाबाधितविषयत्वमित्यत आह- "तथा च" इत्यादि । एवं हि सति बाधायाः सद्भावसम्भवे ऽपि तामभ्युपगम्य तदनुपलम्भमात्रेण हेतोः प्रयोगः प्राप्तः । यदि हि बाधामभ्युपगम्य हेतुप्रयोगो नाभिमतः स्यात् तदानुपलम्भमात्रेण बाधायं संशयात्- सतामपि केषाञ्चित् कथञ्चिदनुपलम्भसम्भवात्- संशयितस्य हेतुप्रयोगे प्रवृत्तिरेव न युज्येत । तस्माद् यो यत्संशये ऽपि प्रवर्तते स तस्य भावपक्षमभ्युपेत्यैव प्रवर्तते । तथा च यथा बाधानुपलब्धौ तामभ्युपगम्य हेतुः प्रयुज्यते तथा तदुपलब्धावपि प्रयुज्यताम्, बाधायाः सद्भावाभ्युपगमे सति तदुपलम्भानुपलम्भयोर्विशेषाभावादिति नानुपलभ्यमानबाधत्वमपि हेतुलक्षणं युज्यत इति कुतो बाधकप्रत्ययविरहे ऽप्यसति प्रतिबन्धे प्रामाण्यस्य सम्भव इति ।

परस्य वचनावकाशमाशङ्कयाह- "न बाधायाम्" इत्यादि । नैव हि बाधायां संत्यां हेतोः सामर्थ्यमिष्यते तत् कथं तदुपलम्भे ऽपि प्रयोगः स्यात्? । सिद्धान्तवाद्याह- "यद्येवं" बाधायां सत्यां हेतुरसमर्थो यदीष्यते तदानिर्णीतो बाधाया असंभवो यस्य हेतोः स तथाविधः प्रयोगं बाधानुपलम्भमात्रेण नार्हति । किं कारणम्? । मा भूद् बाधायाः सम्भवपक्षे "प्रयुक्तस्यापि" हेतोः साध्यसिद्धौ "असामर्थ्यमिति" । पूर्वपक्षवाद्याह- बाधानुपलम्भे सति बाधाया अभावात् सदुपलम्भकप्रत्ययाभावे सत्यवश्यमर्थानामसत्त्वाद्धेतोः सामर्थ्यम् इति चेन्मन्यसे सिद्धान्तवाद्याह- "किमुपलम्भो बाधाम्" इत्यादि । उपलम्भो ह्यर्थानां कार्यम्, न च कार्यं कारणं व्याप्नोति । न ह्यऽवश्यं कारणानि कार्यवन्ति भवन्ति, प्रतिबन्धवैकल्यसम्भवात् । तत् कथमव्यापकस्योपलम्भस्य निवृत्तौ बाधाया निवृत्तिः?, यतो हेतोर्ब्बाधायाः सम्भवकृतमसामर्थ्यं न सम्भवेदिति । एतच्च परैरपीष्यत एव; प्रमाणतयोपगतस्याप्युदयकाले ऽनुपलब्धबाधस्य कालान्तरेण (ह्ब्ट् 211) बाधकप्रत्ययोत्पादे सत्यप्रामाण्योपगमात् । अथाव्यापकस्याप्युपलम्भस्य निवृत्तौ बाधा निवर्तते-

"निवर्तते हि मिथ्यात्वं दोषाज्ञानादयत्नतः ॥"

इति अनेनैव न्यायेन ज्ञाननिवृत्त्या बाधानिवृत्तेरित्याह- त- थापि व्यर्थो हेतुः । कुतः? । "बाधानुपलम्भादेव" हेतुप्रयोगरहितात् साध्यसिद्धेः । किं कारणम्? । अनुपलम्भे बाधाया असम्भवात् । तथा हि- यत्र बाधाया अनुपलम्भस्तत्र परमार्थत एव सा न विद्यत इति मन्यसे । यत्र चासौ परमार्थतो नास्ति तत्र साधय्धर्मस्याभावो ऽपि परमार्थेनैव नास्त्यन्यथा परमार्थेन बाधाया अभावायोगात् । ततश्च साध्यधर्मस्याभावाभावे सति भाव इति भवन्मत्या साध्यप्रतीतेर्व्यर्थता हेतोरिति ।

अथ मा भूद् युक्तिविरोध इति नोपलम्भनिवृत्तौ बाधानिवृत्तिरिष्यते, तत्राह- उपलम्भस्य निवृत्तावपि सत्यां बाधाया अनिवृत्ताविष्यमाणायां तदवस्थं हेतोरससामर्थ्यम् यदवस्थं बाधोपलम्भ इति हेतोरप्रयोग इति कस्याबाधितविषयत्वं रूपान्तरं स्यात्? ।

एतदेवोपसंहरन्नाह- "तस्मात् स्वसाध्य" इत्यादि । यत एवं व्याप्त्या हेतोः सर्वत्र साध्येनाविनाभावाभ्युपगमे बहिर्व्याप्ताविष्यमाणायां वैयर्थ्यं हेतुप्रयोगस्यापद्यते तस्मात् "स्वसाध्यभावाभावाभ्यां अन्यथापि" स्वसाध्यभावे ऽप्यभवन्नऽभावे ऽपि च भवन् हेतुर्धर्मिणि किञ्चित् साध्यं "न भावयति" न साधयति "न विभावयति" तद्विपरीतं न निषेधयति "इति" तस्य विधिप्रतिषेधावकुर्वत "उपक्षेपः" प्रयोगो "न समर्थः" इत्यवश्यं हेतुप्रयोगमिच्छता स्वसाध्याविनाभावः सर्वत्र हेतोरभ्युपगन्तव्यः । स च प्रतिबन्धनिबन्धनः । एष च दर्शनादर्शनमात्रयत्तो यथोक्तं प्राक् । तस्मिंश्चाभ्युपगते बाधाविनाभावयोर्विरोधः सिद्ध इत्युपसंहरन्नाह- "तन्न" इत्यादि । यत एवं तेन कारणेनाबाधा रूपान्तरं न भवति ।

यदि नाम बाधाविनाभावयोः सहावस्थानाभावादविनाभावे (ह्ब्ट् 212) सत्यबाधा गम्यते रूपान्तरं तु किमिति न भवति? इति, अत आह- "तन्नाम" इत्यादि । तद्धि तस्माद् विशेषणान्तरं भवेद् वस्तुस्थित्या । लक्षणकारैश्च रूपान्तरत्वेनोपादानमर्हति यस्य विशेषणस्य भावे ऽपि यस्यापरस्याभावः स्यात् । यतः सम्भवे व्यभिचारे च विशेषणविशेष्यभावो न सम्भव एव केवले । उदाहरणमाह- "तद् यथा" इत्यादि । सत्यपि हि धर्मिसम्बन्धे श्रावणत्वादेः सपक्षे भावो नास्ति । सत्यपि च चाक्षुषत्वादेः सपक्षे भावे साध्यधर्मिणि शब्दे सम्बन्धो नास्ति । ततो ऽनयोः सम्भवव्यभिचारयोर्भावाद् विशेषणविशेष्यभावो लक्षणान्तरत्वेन चोपादानम् । इहाप्येवं भविष्यतीति चेद् आह- "न चैतद्" अनन्तरोदितमबाधाया अविनाभावे सति सम्भवति । सत्यविनाभावे नियमेनाबाधायाः सम्भवाव्द्यभिचाराभावात् कुतो विशेषणविशेष्यभावो क्षणान्तरत्वेन चोपादानमर्हति? इति न हेतोः साध्याविनाभाविनो विरुद्धस्य च साध्यविपर्ययाविनाभाविनो विषये बाधा सम्भवति । उक्तेन प्रकारेण विपर्यये सम्यग्घेतुरेवाविषये तु प्रयोगाद्धेत्वाभास उच्यते । यत एवम् "इति" तस्मान्न तदभावो बाधाविरहः पृथगविनाभावादन्वयव्यतिरेकात्मनो ऽनयोर्हेतुविरुद्धयोर्लक्षणान्तरत्वेन वाच्यः, व्यभिचाराभावेन रूपान्तरत्वायोगात् । यतश्चाविनाभावे सति बाधा न सम्भवति विरोधात्, तस्माद्धेतोर्यथोक्तलक्षणस्य प्रयोगे सति गम्यार्थाया अपि प्रतिज्ञाया दोषाणां प्रत्यक्षविरुद्धादीनां सम्भवो नास्ति, हेतुलक्षणेनैव तेषां निरस्तत्वात् । तत् कथं बाधाविरहो हेतो रूपान्तरमुच्यते? । असम्भविनां च तेषां उपवर्णनं निष्फलमित्याकूतम् ।

केवलायाः प्रयोगे ऽस्ति सम्भव इति चेत्, आह- "नापि" इत्यादि । हेतुप्रयोगे ह्यसति केवला प्रतिज्ञैव न प्रयुज्यते, हेतुविषयत्वेन तदभ्युपगमात् । ततश्च शास्त्रकारैर्न प्रतिज्ञादोषाः प्रत्यक्षविरुद्धादयो वाच्या इति । दिङ्नागपादैस्तु साध्यासाध्यविपर्ययेण (ह्ब्ट् 213) विप्रतिपत्तिदर्शनादप्रयोगार्हस्यापि पक्षस्य लक्षणविधाने न्यायप्राप्तमेवापक्षत्व न नि(त्वं नि)राकृतपदेन प्रमाणविरुद्धस्याख्यानम्, न त्वतिप्रसक्तं पक्षलक्षणम् व्यवच्छिन्नम्, सन्दिग्धस्यैव साध्यत्वात्, प्रमाणबाधिते साधकप्रमाणावृत्तेइरिति ।

तदेवमबाधितविषयत्वं निराकृत्य रूपान्तरं निराकुर्वन्नाह- "एतेन" अविनाभावे सति बाधाया असम्भवदर्शनेन "एकसंख्याविवक्षापि" विरुद्धाव्यभिचारिदोषविपक्षेणोच्यमाना "प्रत्युक्ता" प्रत्याख्याता ।

परः पृच्छति- "कथम्" इति केन प्रकारेण- यथा बाधाविनाभावयोः सहानवस्थानं तथा प्रतिहेत्वविनाभावयोरपि?, येनैकसंख्याविवक्षा तद्वदेव प्रत्याख्यायेत इति ।

सिद्धान्तवादी साम्यं दर्शयन्नाह- "एक" इत्यादि । एको हि हेतुर्लक्षणयुक्तः । स्वसाध्याव्यभिचारी कथं भवति? । यदि स्वसाध्यभाव एव भवेत्, अन्यथा तल्लक्षणमविनाभावो नाम हीयेत । यत्रैव धर्मिणि स तल्लक्षण एको भवति तत्रैव धर्मिणि तस्मादन्यो ऽपि प्रतिहेतुर्विरुद्धस्तेन हेतुलक्षणयुक्तः कथं भवति? । एकस्य हेतोर्यत् साध्यं तब्दाधकस्य तद्विरुद्धस्यापरस्य धर्मस्य भाव एव नाभावे भावादविनाभावादिति बाधया समानं बाधासम्भवेन समानः प्रतिहेतुरिति तन्निरासेनैव निरस्त इति ।

अत्रैव दूषणान्तरमभिधातुं विकल्पयन्नाह- "अपि च" इत्यादि । "वस्तुतः" परमार्थतो यस्य प्रतिहेतुर्न सम्भवति किमसौ सम्यग्ज्ञानस्य विपर्यस्य वोपन्यस्तसाध्यविपरीतज्ञानस्य वा हेतुरिष्टो यतो विवक्षितैकसंख्यत्वं तल्लक्षणमुच्यते, आहोस्विद् यस्य प्रतिहेतुस्तत्साध्यविपरीतसाधको न प्रदर्शितः परमार्थतः सन्नपीति । परो दोषमपश्यन्नाह- "किञ्चातः" इत्यादि । यदि नाम पुर्वो विकल्प उत्तरो वा ततः को दोषः? इति ।

सिद्धान्तवाद्याह- यद्यसम्भवन् प्रतिहेतुर्यस्य स सम्यग्ज्ञानादिहेतुरिष्यते, तदालक्षणमेतद् विवक्षितैकसंख्यत्वम् । कस्मात्? । अशक्यो निश्चयो यस्य वस्तुतो ऽसम्भवत्प्रतिहेतुत्वस्य स तथोक्तः । परमतापेक्षया चैतदुच्यते । परो हि दर्शनादर्शनाभ्यामसत्यपि प्रतिबन्धे ऽविनाभावमिच्छति । ततस्तस्य प्रतिहेतोरेवंविधस्य सम्भवो ऽस्ति । स चानुपलभ्यमानो ऽपि कदाचित् स्यादिति वस्तुतस्तदभावो निश्चीयते । प्रतिबन्धनिबन्धनाविनाभाववादिनां त्वस्माकं प्रतिहेत्वसम्भवः सुनिश्चित एव । नहि तादात्म्यतदुत्पत्तिलक्षणे प्रतिबन्धे प्रमाणतः सिद्धे तन्निमित्ताविनाभावितया एकेन हेतुना स्वसाध्ये साधिते पुनस्तत्रैव धर्मिणि तल्लक्षणस्य तद्विरुद्धार्थसाधकस्य प्रतिहेतोः सम्भवः शङ्कयते, भावानां विरुद्धस्वभावद्वयायोगाद्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । विरुद्धधर्मसाधकसम्भवे च तस्यैव स्वसाध्याविनाभाविनः प्रथमस्य तत्र प्रमाणतो भावसिद्धययोगादिति ।

स्यान्मतम्- यदि नाम प्रस्तुतः प्रतिहेत्वसम्भवो ऽस्माभिर्निश्चेतुमशक्यस्तथाप्यसम्भवत्प्रतिहेतुत्वं विवक्षितैकसंख्यत्वप्रतिपादितं हेतुलक्षणं कस्मान्न भवति? इत्याह- "न ह्यनिश्चितात्मनः" इत्यादि । प्रतिपादको यो धर्मो हेतोस्तस्यानिश्चितस्वभावस्य यस्मात् तल्लक्षणत्वं प्रतिपादकधर्मता न भवति । यथा संदिग्धस्य पक्षधर्मत्वस्येति पूर्वकस्य साधनम् । नापि सन्धिग्धं लक्षणं यस्य स हेतुर्भवतीति न कश्चिद्धेतुर्भवेदिति हेत्वभावो वा इत्यस्य समर्थनम् । ततश्च "हेत्वाभासास्ततो ऽपरे" इत्यत्रापि योजितमिति ।

स्यान्मतम्- यस्य प्रतियोगी दृश्यते तस्यैव प्रतिहेतुभावात् अहेतुत्वं भवतु, यस्य तु प्रतियोगी हेतुर्न दृश्यते स वस्तुत एवासम्भवत्प्रतिहेतुः । न हि तत्र वस्तुतः प्रतिहेतुसम्भवः शङ्कयते, बाधकप्रत्ययमन्तरेण बाधाशङ्काया अयोगात् । तदुक्तम्-

"बाधाज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिका" इति ।

अत्र आह- "तुल्ये लक्षणे हि" इत्यादि । शङ्कयमानप्रतिहेतुना तुल्यं लक्षणं दर्शनादर्शनमात्रनिमित्ताविनाभावरूपं यस्य तस्मिन् दृष्टः प्रतियोगिनः प्रतिहेतोर्ब्बाधकस्य सम्भवः स येषामपि तत्तुल्यलक्षणानां प्रतियोगी न दृश्यते तेष्वपि शङ्कां प्रतिहेतुसम्भवविषयामुत्पादयति । किं कारणम्? । अदृष्टप्रतियोगिनो दृष्टप्रतियोगिनो विशेषाभावात् । नहि तस्येतरेण कश्चिद्विशेषो ऽस्ति, यतस्तत्सम्भवो न शङ्कयेत । प्रुषशक्तिवैकल्यादिना तु तददर्शनं सम्भाव्येतेति किमुच्यते 'नाशङ्का निःप्र(ष्प्र)माणिकाऽ; इति । अथ विशेषः प्रतिबन्धलक्षणो ऽविनाभावनिश्चायको दृष्टप्रतिहेतोरदृष्टप्रतियोगिन इष्यते यतः प्रतियोगिसम्भवाशङ्कास्तमुपैति । तदा सति वा विशेषे स विशेषो हेतोर्लक्षणम् । किं कारणम्? । यतस्ततो विशेषाद्धेतुरेकान्तेन निश्चयेन निरस्तप्रतिपक्षस्तथाविधे धर्मिणि प्रतिहेत्वसम्भवात् स्वसाध्यं निश्चाययतीति । यस्तथाविधो न भवति तद्विशेषविरहात् दृष्टप्रतिहेतुः सो ऽतल्लक्षणो न हेतुः स्यात् । तथा च यदि नामाहेतौ प्रतिहेतुर्दृष्टो, हेतोः किमायातम्, येन तन्निवृत्तये तत्रैकसंख्याविवक्षा क्रियते, यथोक्ताविनाभाववचनेनैव तन्निवृत्तेरित्याह- "तथा च हेतौ" तद्विशेषयोगिनि "प्रतिहेत्वसम्भवे" सति "व्यर्था" निष्प्रयोजना "एकसंख्याविवक्षेति" । यथोक्तविशेषाङ्गीकरने तल्लक्षणस्य प्रतिहेतोरसम्भवात् कस्यैकसंख्याविवक्षया व्यवच्छेदः क्रियते? यतो ऽस्य सार्थकत्वं स्यादिति ।

विरुद्धाव्यभिचारिणश्च हेत्वाभासस्य व्यवच्छेदार्थमेकसंख्याविवक्षा हेतुलक्षणे क्रियते । वस्तुतो ऽसम्भवत्प्रतिहेतुत्वसिद्धये च प्रतिबन्धलक्षणे विशेषे हेताविष्यमाणे विरुद्धाव्यभिचार्यपि हेत्वाभासो न भवति । ततो व्यवच्छेद्याभावात् किमेकसंख्याविवक्षया? इति दर्शयन्नाह- "अतः" प्रतिबन्धलक्षणविशेषोपगमात् "विरुद्धाव्यभिचारिणो हेत्वाभासस्य यल्लक्षणं तद्धीयेत" न सम्भवेत् । किं पुनस्तद्विरुद्धाव्यभिचारिणो लक्षणम्? इत्याह- "स्वलक्षण" इत्यादि । हेतोर्यदात्मीयं लक्षणं तद्युक्तयोर्हेत्वोरेकत्र (ह्ब्ट् 216) धर्मिणि विरोधेन परस्परविरुद्धसाध्यसाधकत्वेनोपनिपाते सति विरुद्धाव्यभिचारीति विरुद्धाव्यभिचारिणो लक्षणम् । न च तत् प्रतिबन्धाङ्गीकरणे सति सम्भवति । नहि तादात्म्यतदुत्पत्तिभ्यां स्वसाध्यप्रतीबन्धवत्येकत्र हेतौ क्वचिद्धर्मिणि संभवति द्वितीयस्तल्लक्षस्तत्रैव हेतुः सम्भवेत्, भावानां विरुद्धस्वभावद्वयासम्भवात्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । तदव्यभिचारिणो हेतोर्द्वितीयस्य तत्र कुतः सम्भवावकाश इति ।

ननु यदि तथविधाविशेषसम्भवे सति विरुद्धाव्यभिचारिलक्षणं हीयते, एकसंख्याविवक्षा वा व्यर्था, तथापि नैव हेत्वभावपरसङ्गः, तत् किमुक्तं हेत्वभावो वेत्यत आह- "न च" नैव "तस्य" विशेषस्य प्रतिबन्धलक्षणस्य, यतो वस्तुतो ऽसम्भवत्प्रतिहेतुत्वं निश्चीयते । "स्वरूपं" तादात्म्यतदुत्पत्तिलक्षणं निर्द्दिश्यते भवद्भिः यथास्माभिर्निर्दिष्टं यद्रूपं "प्रतीत्य" प्रतिपद्य प्रतियोगिनः अम्भवासम्भवावुत्पश्यामः । यत्र स विशेषो नास्ति तत्र प्रतियोगिनः सम्भवः कल्पित आगमाश्रये ऽनुमाने । यत्र त्वस्ति स विशेषो वस्तुबलप्रवृत्ते ऽनुमाने तत्र प्रतियोगिनो ऽसम्भव इति । यत एवं तस्मान्नास्त्येव भवतां स विशेषः- भवद्भिर्न ज्ञायत एव स विशेष इति । तस्मात् सर्वत्र यत्रापि प्रतियोगी न दृश्यते तत्रापि शङ्कया प्रतियोगिविषयया भवितव्यम् । तामेव शङ्कां द्रढयन्नाह- "दृष्टप्रतिहेतोरपि" इत्यादि । यस्यापि हि प्रतिहेतुर्दृष्टस्यापि प्राक् प्रैत्योगिदर्शनादितरेण सर्वकालमदृष्टप्रतियोगिना न कश्चिद् विशेषो लक्ष्यते यद्दर्शनाज्ज्ञायेत 'अत्र प्रतियोगी सम्भवति न्यान्यत्रऽ; इति दर्शनादर्शनमात्रनिबन्धनयोरन्वयव्यतिरेकयोः सर्वत्र समानत्वात् । तथापि पश्चात्तत्र प्रतियोगी दृष्ट इति सर्वत्र तत्तुल्यलक्षणे प्रतियोगिसद्भावशङ्का न निवर्तत इति ।

स्यान्मतम्- येषु प्रतियोगी सम्भवति तेष्वश्यमेव कदाचिदसावुपलभ्यते । येषु तु पुरुषायुषेणापि नोपलभ्यते तेष्वसौ नास्त्येव । (ह्ब्ट् 217) ततः स तथाविधो हेतुर्भविष्यति, तत् कथं हेत्वभावो ऽस्माकम्? इत्यत आह- "न च" इत्यादि । येषामपि हि प्रतिहेतुः सम्भवति तेषामपि नैव सर्वदा तस्य प्रतिहेतोरूपलब्धिः प्रतिपत्तॄणाम् । न ह्यसर्वदर्शिनामुपलब्धिः सर्वभावसत्तां व्याप्नोति, प्रतिबन्धवैकल्यसद्भावात् । ननु च यत्र सर्वदैव प्रतिपत्र(त्त्रा) प्रतियोगी न दृश्यते तत्र तदाशङ्काकथं क्रियते? । तथा चाह-

"बाध(धा)ज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिका" इति ।

तथापरम्-

"उत्प्रेक्षेत हि यो मोहादजातमपि बाधकम् ।

स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥" इति ।

अत आह- "अतिशयवती तु" इत्यादि । तथा हि कस्यचिदेव प्रमातुः कुशाग्रीयमतेरतिशयवती प्रज्ञा प्रतिहेतूत्प्रेक्षिणी दृष्टास्माभिः यथा वेदप्रामाण्यनिराकर्तृषु [हेतुषु] सौगतैः शिष्यपरम्परया कुमारिलोत्पादात्प्रागदृष्टप्रतियोगिषूपन्यस्तेषु, तेनैव प्रज्ञातिशयशालिना प्रतिहेतव उत्प्रेक्षिताः ततस्तद्दर्शनात् यावज्जीवं अदृष्टप्रतिहेतुष्वपि तदाशङ्का न निवर्तते । ततः कथमाशङ्का निष्प्रमाणिकोच्यते? । "तुल्यलक्षणे हि" इत्यादिकमपि प्रतियोगिसम्भवाशङ्काकारणमुक्तमेव । न च प्रतियोगिसम्भवमाशङ्कमानस्तन्निमित्तसंभवात् 'उत्प्रेक्षेत हिऽ; इत्याद्याक्रोशमात्रेण निवर्तयितुं शक्यते । तेनास्य प्रतियोग्याशङ्कापनोदक्षमं किञ्चित् कारणमभिधानीयम् यथास्माभिरभिहितं 'स्वभावहेतोर्विपर्येये बाधकप्रमाणवशात्तादात्म्यनिश्चये सत्यन्वयव्यतिरेकयोस्तत्र निर्णयः; कार्यहेतौ च यथोक्तप्रत्यक्षानुपलम्भतः कार्यकारणसिद्धेस्तनिश्चयऽ; इति । यत एवं सर्वत्र प्रतियोग्याशङ्का न निवर्तते भवद्दर्शने तेन कारणेनानिश्चयः प्रतियोगिनः सम्भवासम्भवयोः 'इह प्रतियोगी सम्भवति इह तु न सम्भवतिऽ; इत्येवंरूप इति । तस्माद्वस्तुतो ऽसम्भवत्प्रतिहेतुत्वं यल्लक्षणं (ह्ब्ट् 218) हेतोः तस्यानिश्चितत्वादेकसंख्याविवक्षावादिनां न कश्चिद्धेतुः स्यात् । न ह्यनिश्चितलक्षणो हेतुर्भवतीत्युपसंहार इति ।

तदेवं 'किं यो वस्तुतो ऽसम्भवत्प्रतिहेतुः स सम्यग्ज्ञानविपर्ययहेतुरिष्टःऽ; इति अमुं विकल्पं निराकृत्य द्वितीयं विकल्पं निराचिकीर्षुराह- "अथाप्रदर्शितप्रतिहेतुः" सम्यग्ज्ञानविपर्यहेतुरिष्ट इति सम्बन्धः । अयं च पक्षः किल दिङ्नागाचार्यस्याप्यभिमत इति पर उपदर्शयन्नाह- "यथाह दिङ्नागाचार्यः" । किमाह?"यदा तर्हि" इत्यादि । "श्रावणत्वस्य हि न कथञ्चिव्द्यवच्छेदहेतुत्वम्" इति दिङ्नागाचार्येणोक्ते परेणाभिहितम्- "यदा तर्हि वैयाकरणः शब्दत्वं सामान्यविशेषं नित्यमभ्युपगच्छति तदायं श्रावणत्वलक्षणः पक्षधर्मः हेतुरेव स्यात् । नित्यः शब्दः श्रावणत्वात् शब्दत्ववत्" इत्येवं परेणोक्ते सत्याचार्येणोक्तम्- "यद्यत्र शब्दाख्ये धर्मिण्यनित्यत्वहेतुं कृतकत्वप्रयत्नानतरीयकत्वादिलक्षणं कश्चिद् वैशेषिकादिर्न दर्शयेत् तदायमप्रदर्शितप्रतिहेतुर्हेतुरेव भवेत्" इति । तदेवामाचार्यपादैः साक्षित्वे दत्ते भुजमुत्क्षिप्य शास्त्रकारः पूत्कुर्वन्नाह- "इदमिदानीम्" इत्यादि । यदा ह्याचार्यस्याप्येतदभिमतमिति कैश्चिव्द्याख्यायते तदिदं सुमहव्द्यसनमायातम्- गुरुभिरभिहितत्वादप्रकाश्यम्, नहि गुरूणां दोषः प्रकाशयितुं युक्तः, "न्यायमनुपालयद्भिः असंवरणीयम्" अप्रच्छादनीयम् । तत् किं गुरून् दूषयाम उत न्यायमप्युपेक्षामहे इत्युभयमप्यशक्यमिति "कष्टतरं व्यसनं कथं निर्वोढुं शक्येत?" । न कथंचिदिति । कः पुनरत्र दोषो येनेदं कष्टतरमित्याह- "स तावदयं" श्रावणत्वलक्षणो "हेतुर्वस्तूनि" शब्दादीनि स्वसाध्यं तत्त्वं नित्यत्वं "तत्प्रकृतीनि" तदात्मकानि "कृत्वा" तच्छ्रावणत्वं प्रमाणं येषां पुरुषाणां मीमांसकवैयाकरणादीनां तान्

"अभ्युदयेन" (ह्ब्ट् 219) स्वर्गेण "निःश्रेयसेन" चापवर्गेण "योजयित्वा" । तथा हि- वस्तुतत्त्वं भावयन् यावत् क्लेशान्न् प्रजहाति तावत् स्वर्गमासादयति, क्लेशांस्तु प्रजहन्निर्वाणपरायणो भवति । अथावा शब्दनित्यत्वप्रतीतौ वेदप्रामाण्यात् तद्विहिताग्निहोत्रानुष्ठानात् स्वर्गो वेदान्तनिषेवणादपर्वग्गः । पुनरुत्तरकालं "प्रतिभावता" प्रज्ञाजातीयेन वैशेषिकादिना पुरुषेण "हेत्वन्तरस्य" प्रतिहेतोः "निदर्शनेन" यदस्य "नित्यत्वसाधनसामर्थ्यं" प्रतिहेत्वनुपदर्शने सत्यासीत् त्ततदुपदर्शनेन "उत्कीलितम्" अपनीतमिति । तानि वस्तूनि नित्यत्वसम्पदः प्रच्याव्य, तांश्च तत्प्रमाणकान् पुरुषान् स्वर्गापवर्गसम्पदः प्रच्याव्य श्रावणत्वलक्षणो हेतुः शक्तिवैकल्यात् परित्रातुमशक्तो भ्रष्टराज्य इएव राजा तपोवनं गच्छति स्वैरेव दुश्चरितैरिति किमत्र वयं ब्रूमः? ।

तदेवमुपहस्यैतस्मिन् पक्षे दोषमुपदर्शयन्नाह- "पुरुषप्रतिभा" इत्यादि । यद ह्यप्रदर्शितप्रतिहेतुर्हेतुर्हेतुरिष्यते तदा पुरुषप्रतिभाकृतं साधनत्वमभ्युपगतं भवति । ततश्च वस्तुतो न किञ्चित् साधनमसाधनं वा प्राप्तम् । तथा हि- यदा प्रतिहेतुर्नोपदर्श्यते तदा साधनम्, यदा तूपदर्श्यते तदा न साधनमिति पुरुषप्रतिभाकृतं साधनत्वमायातमिति ।

अपि च- अप्रदर्शितप्रतिहेतोर्हेतोर्हेतुत्वे ऽङ्गिक्रियमाणे विकल्पद्वयम्- किं परमार्थतो हेतुस्तद्धर्मभावी, उतातद्धर्मभावीति? । तत्राद्यं विकल्पमधिकृत्याह- "स च" हेतुर्यो ऽसौ प्रथमं उपादीयते । स "यदि स्वभावत" एव "तस्मिन्" साध्यधर्मे "सत्येव भवति" इत्येवंशीलो ऽस्मदुपवर्णितप्रतिबन्धोपगमात् यदीष्यते "तदा कथमन्यथा क्रियेत" हेत्वन्तरेणातद्धर्मभावी कथं क्रियेत? । न कथञ्चित् । किं कारणम्? । वस्तूनां हेतुलक्षणानां यःस्वभावः- 'सत्यमेव साध्यधर्मे भवनात्मकःऽ- "तदन्यथाभावस्य" तद्विपर्ययस्य "अभावाद्" उभयोश्च स्वसाध्यधर्माविनाभावित्वे (ह्ब्ट् 220) स्वभावत एव धर्मिण्येकत्र तयोर्भावे विरुद्धावुभौ स्वभावावेकस्य स्याताम् । न चैकस्य विरुद्धौ स्वभावौ सम्भवतः, विरुद्धधर्माध्यासेन तस्यैकत्वहानिप्रसङ्गात् । अथ द्वितीयो विकल्पस्तदा "अतद्धर्मभावी च" असत्यपि साध्यधर्मे भवनशीलः प्रतिबन्धानभ्युपगमात् "कथमन्यदापि" अप्रदर्शितप्रतिहेत्ववस्थायामपि "साधनं" कस्यचित्? । नैव तदापि साधनम्, न केवलं प्रदर्शितप्रतिहेत्ववस्थायामिति ।

उपसंहरन्नाह- "तस्मात् स्वभावतः" इत्यादि । यत एवं भावानां स्वभावो ऽन्यथा कर्तुं न शक्यते, विरुद्धोभयस्वभावश्चैको न सम्भवति तस्मात् परमार्थतः स्वेन स्वेन साध्येनाविनाभाविनोर्यथोक्तलक्षणयोः कार्यस्वभावहेत्वोः तल्लक्षणस्य कार्यस्वभावलक्षणस्य प्रतिहेतोरसम्भवाद् "अलक्षणमेकसंख्याविवक्षा" विवक्षितैकसंख्यत्वं लक्षणं न भवति । किं कारणम्? इत्याह- "व्यवच्छेद्याभावादिति" । प्रतिहेतुर्हि विवक्षितैकसंख्यत्वस्य व्यवच्छेद्यो वर्ण्यते । स च प्रतिहेतुः स्वलक्षणयुक्तयोः कार्यस्वभावयोर्न भवत्येवेति कथं तद्धेतुलक्षणं स्यादिति । तदेवमनयोर्द्वयो रूपयोर्यः सम्भवो यथोक्ताविनाभावासम्भवे सतीति रूपान्तरोपगमे ऽपि हेत्वाभासतैवेति "हेत्वाभासास्ततो ऽपरे इति" इत्यस्यार्थो विवृत इति ।

ज्ञातत्वनिराकरणायाह- "ज्ञानं पुनः" इत्यादि । अवाधितविषयत्वं विवक्षितैकसंख्यत्वं च कार्य- स्वभावहेत्वोरेवाविनाभावे सति बाधाप्रतिहेत्वोरसम्भवात् व्यवच्छेद्याभावत्वेन सत्यपि लिङ्गधर्मत्वे तल्लक्षणं न भवतीत्युक्तम् । ज्ञानं तु ज्ञातत्वम्, तस्यैव भावप्रत्ययेनाभिधानात् । तथा हि- ज्ञानशब्दप्रवृत्तिनिमित्तं ज्ञातत्वमुच्यते, तच्च ज्ञानमेव, तदुत्पादे सति ज्ञात इति व्यवहारात् । न च तत् लिङ्गस्यात्मरूपमिति कथं लिङ्गलक्षणं भविष्यति? । यद्यपि विकल्पप्रतिभासी सामान्याकारो लिङ्गतयावस्थाप्यते तथापि न ज्ञानस्य लिङ्गधर्मता । न ह्यसौ स्वतन्त्र एव लिङ्गम् । यदाह- "विकल्पभेदान स्वतन्त्राणामन्वर्थाश्रयणात् (ह्ब्ट् 221) तत्कल्पितविषयादऽर्थप्रतिपत्तावनर्थप्रतिलम्भ एव स्यात्" इति । तस्माद् वाह्यवस्तूपादानस्यैवास्य लिङ्गतावस्थाप्यते । साध्यसाधनसंकल्पे वस्तुदर्शनहानेः स्वलक्षणस्य क्वचिदनन्वयाच्च तद्धर्मतामेव त्वनुस्मरन्तो विकल्पा नानैकव्यतिरेकान् संदर्शयन्तो वस्तुनि परम्परया प्रतिबन्धादविसंवादकाः कार्यादिलिङ्गव्यपदेशनिबन्धनं चेत्युक्तप्रायम् ।

न च तस्य कार्यादेरात्मरूपं ज्ञानम् । विकल्पावभासी च सामान्याकारो नैव विकल्पस्यात्मभूतः, तस्य नीरूपस्य वस्तुरूपविरोधात् । तद्रूपस्य च विकल्पप्रतिबिम्बचक्रस्य सामान्यात्मताविरहात् । यस्मादबाध्यस्यापि बाह्यतया व्यवसितस्याननुयायिनो ऽप्यनुयायितया सामान्यात्मकत्वं तथात्वे चास्य विकल्परूपता कुतः? यदाह-

"ज्ञानादव्यतिरिक्तं च कथमर्थान्तरं व्रजेत्? ॥

तस्मान्मिथ्यावभासो ऽयमर्थेष्वेकात्मताग्रहः ।" इति ।

न ज्ञानस्य लिङ्गधर्मता । एतदेव साधयन्नाह- "किंरूपाद्" इत्यादि । किमात्मकात् "हेतोरनुमेयो ऽर्थो ज्ञातव्यः इति चिन्तायां" प्रकृतायां "प्रतिपत्तुः" पुंसो यदविसंवादकं लिङ्गं तस्य स्वरूपमभिधीयते शास्त्रकारैः यस्य रूपस्य दर्शनादयं प्रतिपत्ता 'यत्र तद्रूपसम्भवः तत् साधनम् तद्रूपविकलमसाधनम्ऽ; इति प्रविभागेन व्यवस्थाप्य यत्तत्र साधनत्वेन व्यवस्थापितं तस्येष्टार्थसन्निधानसम्प्रत्ययात् प्रवृत्तिमवलम्बते । तथा, एतस्मिंश्च न्याये व्यवस्थिते यदस्य लिङ्गस्यात्मरूपं तल्लक्षणं भवितुमर्हति पक्षधर्मादिवत् न तु यत् पररूपम् ।

स्यादेतत्- ज्ञातस्य लिङ्गस्य साधकत्वाद् युक्तैव साध्यसिद्ध्युपयोगिनो ज्ञानस्य लिङ्गलक्षणतेत्यत आह- "प्रतिपत्तिजन्मनि" इत्यादि । यद्यनुमेयप्रतीतिजन्मन्युपयुज्यते ज्ञानमिति तन्मात्रेण लिङ्गस्य लक्षणमिष्यते तदातिप्रसङ्गः प्राप्नोति । तमेवाह- "एवं प्रतिपत्तिजन्मन्युपयोगमात्राल्लिङ्गलक्षणत्वे प्रमेयस्य" अर्थस्य "पुरुषस्य" प्रमातुः (ह्ब्ट् 222) "आदि" शब्दात् संयोगसमवायादीनामालोकमनस्कारादीनां लिङ्गलक्षणत्वं भवेत् । अत्र कारणमाह- "नहि तेष्वपि" प्रमेयादिषु असत्सु लिङ्गिनि ज्ञानं भवतीति कृत्वा । अत्र परो ऽनिष्टमापादयन्नाह- "निश्चितग्रहणं तर्हि" इत्यादि । यदि पररूपत्वाज्ज्ञानं लिङ्गलक्षणं न भवति तदा च यदेतदाचार्येण-

"अनुमेये ऽथ तत्तुल्ये सद्भावो नास्तितासति । निश्चिते" ति-

निश्चितग्रहणं कृतं भवतश्चाभिमतं तन्न कर्तव्ययम् । तथा हि- निश्चयो हि लिङ्गस्य पररूपमेव । स चेत् तल्लक्षणम्, ज्ञानं किमिति नेष्यते यतो निश्चयो विज्ञानमेव तद्विशेषत्वादस्येति ।

सिद्धान्तवाद्याह- "न न कर्तव्यं" किन्तु कर्तव्यमेव तस्य निश्चितग्रहणस्य लिङ्गरूपप्रतिपादन्यार्थत्वात् । तामेवान्यार्थतां दर्शयन्नाह- "सपक्षविपक्षयोः" इत्यादि । परे हि सपक्षे दर्शनमात्रेणासपक्षे चादर्शनमात्रतो गमकं हेतुमिच्छन्ति । तेषां नैव दर्शनमात्रेण साध्यसिद्धौ समर्थो हेतुर्भवतीति ज्ञापनार्थं निश्चितग्रहणं कृतम् । यतः सतोर्विद्यमानयोरपि दर्शनादर्शनयोरगमकत्वं हेतोर्दृश्यते 'स श्यामः, तत्पुत्रत्वात्ऽ; इत्यादौ । यत एवं तेन कारणेन सपक्षे भावेन विपक्षे सर्वत्राभावविशिष्टेनासपक्षे च सर्वत्राभावेन सपक्षे तादात्म्यतदुत्पत्तिलक्षणभावविशिष्टेन गमको हेतुरित्यस्यार्थस्य ज्ञापनार्थं लक्षणवाक्ये निश्चितग्रहणं कृतं बोद्धव्यम् । एतदुक्तं भवति- यावेव सपक्षविपक्षयोः भावाभावौ प्रतिबन्धसाधकप्रमाणवृत्त्या निश्चितौ ताभ्यामेव हेतुर्गमको भवति, न तु यथाकथञ्चिद्दर्शनमात्रेणेत्यस्यार्थस्य ज्ञापनाय निश्चितग्रहणं कृतमिति ।

प्रकृतमुपसंहरन्नाह- "तेन" इत्यादि । येन विशिष्टयोर्भावाभावयोरेव ख्यापनाय निश्चितग्रहणं कृतम्, न रूपान्तराभिधानाय, अनात्मरूपस्य च लक्षणता न युज्यते, तेन पररूपं लिङ्गस्य लक्षणं न भवति । यतः तेन ज्ञानादिना पररूपेण लिङ्गस्य न कश्चिद् रूपविशेषो ऽभिधीयत इति ।

ननु च परे ऽपि सपक्षविपक्षयोर्भावाभावाभ्यां गमकं हेतुमिच्छन्ति, दर्शनादर्शने तु तयोरेव साधके, तत् किमर्थं निश्चितग्रहणम्? इति, अत आह- "तौ हि" इत्यादि । यद्यपि परे भावाभावाभ्यामेव गमकं हेतुमिच्छन्ति तथापि सपक्ष एव भावो ऽसपक्षे चाभाव एवेति भावाभावौ दर्शनादर्शनमात्रतो व्यवस्थापयन्ति । न च ततस्तौ तथाविधौ सिध्यतः, प्रतिबन्धविकलानामप्यर्थानां क्वचिद् भावाभावयोः कथञ्चिद्दर्शनादर्शनसम्भवात् । तस्माद् यौ 'हेतोः सपक्षे एव भावो ऽसपक्षे चाभाव एवऽ; इत्येवमात्मकौ भावाभावौ तौ तद्भावस्य साधकं यत् प्रमाणं तादात्म्यतदुत्पत्तिसाधनविषयं तद्धृत्त्या वोद्धव्यौ । कुतः? उपायान्तरस्याभावात् । तदनभ्युपगमे हि हेतोः सपक्ष एव भावः सर्वेषां हेतुमतां भावानां साध्येनानुगमदर्शने सति विपक्षे चाभाव एव साध्यविकलानां सर्वार्थानां हेतुविविक्तानां उपलम्भे सति स्यात् । न चैतदसर्वदर्शिनः सम्भवतीति । यत उपायान्तरं नास्ति तेन कारणेन तयोर्विशिष्टयोर्भावाभावयोः प्रतिपादनाय निश्चितशब्दः प्रयुक्तो लक्षणे लक्षणकारेणेति ।

ननु च भावाभाववचनमात्रादेव प्रमाणतो निश्चयो लभ्यते अन्यथा तयोरेव सत्ता न प्रसिध्येदिति, अत आह- "यद्यपि" इत्यादि ।

"अनुमेये ऽथ तत्तुल्ये सद्भावो नास्तितासति ।"

इत्यनेनैव सपक्षासपक्षयोः भावाभाववचनमात्रेणा निश्चितग्रहणनिरपेक्षेण तयोर्भावाभावयोर्यत् साधनं प्रमाणं तस्य वृत्तिर्यद्यप्याक्षिप्यते । कथं पुनर्निश्चितग्रहणमन्तरेण भावाभाववचनमात्रतस्तद्धृत्तेः आक्षेपः? इत्याह- "अन्यथा" यदि तत्साधनप्रमाणवृत्तिर्नाक्षिप्येत, तदा "तयोरेव" सपक्षविपक्षयोरेव भावाभावयोर्या सत्ता स्वरूपव्यवस्था तस्या "अप्रसिद्धेः" । कस्मादप्रसिद्धिः? इत्याह- "ज्ञानस्य" उपलब्धेर्या सत्ता उत्पत्तिः तन्निबन्धनत्वाज्ज्ञेयस्य भावाभावलक्षणस्य सत्ताव्यवस्थायाः स्वरूपव्यवस्थितेः । न ह्युपलम्भमन्तरेण स्वत एवार्थाः (ह्ब्ट् 224) सिध्यन्ति, सर्वस्य सर्वसिद्धिप्रसङ्गात् । तस्मादिदमेवंरूपं नैवंरूपमिति तदाकारज्ञानोदयादेव व्यवस्थाप्यते । यत एवं तस्मात् सर्वत्र शास्त्रे लोके वा ज्ञेयसत्ताव्यवस्थैव निश्चितग्रहणं विनापि "तत्साधनं" तत्सत्तासाधनं प्रमाणम् "आकर्षति" आक्षिपतीति । किञ्च, परार्थत्वाच्च शास्त्रप्रणयनस्य तत्साधनप्रमाणवृत्तिराक्षिप्यते इति सम्बन्धः । कीदृशं पुनस्तच्छास्त्रप्रणयनं यत् परार्थरूपतया स्वव्यवस्थापितज्ञेयसत्तासाधनं प्रमाणमाक्षिपति? इत्याह- " त्रिरूपं लिङ्गं वः संवादकं प्रापकं" वाञ्छितस्यार्थस्येति । यदि नामैवंरूपं परार्थं शास्त्रप्रणयनं तथापि कथं तत् साधनप्रमाणवृत्तिमाक्षिपतीत्याह- "तद्रूपं" तस्य लिङ्गस्य त्रिरूपस्य रूपं स्वभावं शास्त्रोक्तं ये प्रतिपत्तारो न विदन्ति, न तेषां ततस्त्रिरूपाल्लिङ्गाच्छास्त्रोक्ताद् वाञ्छिते ऽर्थे प्रवृत्तिर्भवति, अज्ञातस्यार्थस्य ज्ञापकस्य स्वसत्तामात्रेण प्रवर्तकत्वाभावात् । यत एवम् "इति" तस्मात्

परोपलक्षणत्वादेव परेषां ज्ञापकत्वादेव प्रवर्तके त्रिरूपलिङ्गे ज्ञानं सिद्धमिति यद्यपि निश्चितग्रहणमतिरिच्यते तथापि तावेव लिङ्गस्य सपक्षासपक्षयोर्भावाभावौ विशिष्टौ शास्त्रोक्तौ 'सपक्ष एव भावो ऽसपक्षे चाभाव एवऽ; इत्येवंरूपौ केचिन्नैयायिकप्रभृतयः, परे दर्शनादर्शनमात्रेण- ये दर्शनादर्शने प्रतिबन्धसाधके न भवतः- तन्मात्रेण व्यवस्थापयन्ति "यत एव इति" तस्मात्तेषां वादिनां निषेधार्थो ऽयं लक्षणे निश्चितशब्दः प्रयुक्त आचार्येणास्माभिश्चाभ्युपगत इति । यदि तु परविप्रतिपत्तिः न स्यात् तदा नैवासौ प्रयुज्येतेति ।

किमिति पुनर्द्दर्शनादर्शनाभ्यां भावाभावविषयाभ्यां सपक्षा [स]पक्षयोः विशिष्टौ भावाभावावन्वयव्यतिरेकात्मकौ नेष्येते इत्याह- "सतोरपि" इत्यादि । सत्यपि क्वचित् सपक्षे भावदर्शने हेतोः क्वचिच्चासपक्षे ऽभावदर्शने 'स श्यामः, तत्पुत्रत्वात्ऽ; इत्यादावन्वयव्यतिरेकयोः संशयात् । तथा हि- अन्वयो नाम सर्वत्र सत्येव साध्ये हेतोर्भावो (ह्ब्ट् 225) व्याप्त्या चासति साध्ये हेतोरभावो व्यतिरेकः । न च क्वचित् सति साध्ये हेतोर्भावदर्शने ऽपि तन्मात्रेण तथाभावः सर्वत्र भवति, अप्रतिबद्धस्वभावानां सहभावनियमाभावात् । तथा क्वचित् साध्याभिमतस्याभावे सत्यभावदर्शने ऽपि हेतोः सर्वत्र तदभावे ऽवश्यमभावः, तदनायत्तस्य तन्निवृत्तौ नियमेन निवृत्त्यभावात् । तस्मात् प्रतिबन्धप्रसाधकप्रमाणवृत्त्यैव यथोक्तौ सपक्षासपक्षयोः भावाभावौ सिध्यतः नान्यथेति विप्रतिपत्तिनिरासार्थमेव निश्चितग्रहणं कृतमित्युपदर्शयन्नाह- "तस्मात्" इत्यादि । "अस्माभिः" इत्याचार्यकृते निश्चितग्रहणे ऽन्यत्रास्माकमभिमतत्वात् "अस्माभिः" इत्याह ।

तदेवं विप्रतिपत्तिनिरासार्थं निश्चितग्रहणम्, असत्यां तु विप्रतिपत्तौ तन्न कर्तव्यमेवेति प्रतिपाद्य अत एव न्यायात् ज्ञातत्वं रूपान्तरं न भवतीति दर्शयन्नाह- "यतो ऽपि"इत्यादि । "पृथगतः" इति पक्षधर्मत्वादेस्त्रैरूप्यात् । कुतः? "तेनैव"त्रैरूप्यवचनेनैव तत्साधनप्रमाणाक्षेपतः "अवगतत्वात्" प्रतिपन्नत्वादिति । किंवत्? "उपनयार्थवत् पक्षधर्मत्वात्" इति । यथा पक्षधर्मत्ववचनेनैव हेतोरुपनयस्यार्थो ऽवगतस्तस्य धर्मिणि हेतोः सद्भावप्रदर्शनात्मकत्वात्, पक्षधर्मवचनस्य च तद्रूपत्वात् ततः पृथगुपनयो रूपान्तरं न भवति; तथा त्रैरूप्यात् ज्ञानं, तद्वचनेनैवावगतत्वादिति ।

अत्र परो ऽनिष्टमापादयन्नाह- "अन्वयव्यतिरेकयोरपि" इत्यादि । यदि त्रैरूप्यवचनेनैव सामर्थ्याज्ज्ञानं लभ्यत इति तत् ततः पृथग् न वक्तव्यम् "हन्तः" तर्हि अन्वयात् पृथग् व्यतिरेको न वक्तव्यः व्यतिरेकाच्च पृथगन्वयः । किं कारणम्? । एकस्यान्वयस्य व्यतिरेकस्य वा प्रयोगादुभयस्य गतेः । कृतं च तयोः पृथग्वचनं, तथा ज्ञातत्वस्यापि त्रैरूप्याद् गम्यमानस्यापि पृथग्वचनं कर्तव्यमिति ।

सिद्धान्तवाद्याह- "न, हेतोः" इत्यादि । नान्वयव्यतिरेकयोर्न पृथक्त्वं किन्तु भिन्नरूपतैव । तथा हि- अन्वयो हेतोः (ह्ब्ट् 226) सपक्षे भाव उच्यते, व्यतिरेकः पुनरभावो ऽसपक्षे । न च तौ परस्परमाक्षिपतः परस्परमन्तर्भवतो विधिप्रतिषेधरूपयोर्भिन्नस्वभावत्वात् । न च यो यतो भिन्नस्वभावः स तत्रान्तर्भूतो युक्तो । ननु च यद्यन्वयव्यतिरेकयोर्भिन्नरूपता कथं तर्हि त्रिरूपं लिङ्गमुच्यते? । नहि परस्परभिन्नावात्मानावेवास्य युज्येते, स्वभावभेदलक्षणत्वाद् वस्तुभेदस्य । नैष दोषः, यतो यथान्वयव्यतिरेकौ व्यवस्थाप्येते न वा नयो (प्येते तथा तयो)रनन्तर्भाव उच्यते नान्यथा । कथं चेतौ व्यवस्थाप्येते? । व्यावृत्तिकृतं भेदमुपादाय । तथा चानयोर्भिन्नरूपतैव । व्यावृत्तिभेदे ऽपि च परमार्थतो भेदो नास्तीत्येकं लिङ्गं त्रिरूपमित्युच्यते इति ।

कथं तर्हि प्रागुक्तम् 'नानयोरर्थतः कश्चिद् भेदः, अन्यत्र प्रयोगभेदाद्ऽ; इति? अत आह- "एकं वाक्यम्" इत्यादि । अन्वयमुखेन व्यतिरेकमुखेण वा प्रयुक्तमेकं वाक्यमुभयमन्वयं व्यतिरेकं च भिन्नलक्षणमेव गमयतीत्युच्यते ऽस्मभिर्नैको ऽर्थः स्वभावो द्वितीयस्योच्यते, परस्परभिन्नयोरेवैकवाक्यार्थरूपत्वात् ।

अत्र पर आह- "न तु तत्रैव" इत्यादि । अयमभिप्रायः- लक्षणवाक्यप्रतिपादितावन्वयव्यतिरेकावाश्रित्य परस्परान्तर्भावश्चोद्यते । स च विद्यत एव । तथा हि- 'तत्रैव भावःऽ; इत्यत्र लक्षणवाक्ये तदर्थतया तदभावे ऽभावो गम्यते; 'अतद्भावे ऽवश्यमभावःऽ; इति चात्र 'तद्भावे भावःऽ; । न ह्यसति प्रतिबन्ध एकाभावे ऽपरस्याभावः । प्रतिबन्धश्च तादात्म्यतदुत्पत्तिभ्यां तद्भावे भावरूप एव । ततश्चैकेनैव सपक्षासपक्षयोर्भावाभावप्रतिपादकेन प्रतिविशिष्टेन लक्षणवाक्येनोभयगतेर्द्वितीयवचनं न कर्तव्यमिति । तथा चैकवाक्यार्थान्तर्भावाद् भिन्नस्वभावताप्यनयोर्दुर्ल्लभा । ततश्च यदुक्तम् 'अन्वयव्यतिरेकयोरपि तर्हि न पृथक्त्वमितिऽ; तत् तदवस्थमेवेति ।

सिद्धान्तवाद्याह- "वचनमेतत्" 'तत्रैव भावःऽ; इत्यादिरूपम् "उभयमाक्षिपति" प्रतिपादयति । कुतः? । सामर्थ्यादुभयप्रतिपादनशक्तत्वात् । कथम्? इति चेत्, आह- "एकस्यापि वाक्यस्य" कीदृशस्य? । "नियमख्यापकस्य" 'सपक्ष एव भावो ऽसपक्षे चाभाव एवऽ; इति सावधारणस्य "द्वितीयाक्षेपनान्तरीयकत्वात्" द्वितीयप्रतिपादननान्तरीयकत्वात् । "न च तावतैकवाक्यप्रतिपादनमात्रेणोभयोरेकस्वभावता" भिन्नस्वभावानामप्यर्थानामेकवाक्येन प्रतिपादनात् । एकेनैव च लक्षणवाक्येनोभयगतावपि यत् "पृथगभिधानं" तत् "प्रयोगनियमार्थम्" । साधर्म्यप्रयोगे वैधर्म(र्म्य)वचनं न कर्तव्यम्, वैधर्म्यप्रयोगे च साधर्म्यवचनमिति न पुनरेकाभिधानेनानवगतस्य रूपान्तरस्य प्रतिपादनार्थम् । न च तथा त्रैरूप्यवचनेन ज्ञाननिबन्धनेन ज्ञेयसत्ताव्यवस्थायाः प्रोपलक्षणार्थेन च शास्त्रप्रणयनेनाश्रितज्ञानस्यैव त्रैरूप्यस्य प्रतिपादनाल्लब्धस्य ज्ञानस्य पुनर्वचने न किञ्चित् प्रयोजनमस्तीति नास्य पृथग्वचनं युक्तमिति ।

स्यान्मतम्- केवलावपि तर्ह्येकवाक्यार्थानन्तर्भूतौ परस्परमऽभिन्नस्वभावौ भविष्यतः तत एवैवकवाक्यार्थान्तर्भावादित्यत आह- "न पुनः केवलौ" एकवाक्यार्थानपेक्षौ तदन्तर्भावमात्रेण सपक्षासपक्षयोः भावाभावौ परस्परमाक्षिपतो ऽन्तर्भवतः भिन्नरूपाणामप्यर्थानामेकवाक्यान्तर्भावदर्शनात् । ननु च नियमवन्तावपि भावाभावौ केवलावेव, तयोः परस्पराक्षेपे केवलयोरपि तत्प्रसङ्ग इत्यत आह- "नियमवन्तौ च" सावधारणवाक्यप्रतिपादितौ "न केवलौ" किन्तु सहितावेव । कुतः? । "नियमस्य" सावधारणस्य वाक्यस्य "उभयरूपत्वात्" भावाभावप्रतिपादनात्मकत्वात् ।

तदेवं सावधारणेन वाक्येन नैव केवलो ऽन्वयो व्यतिरेको वाभिधीयते । तदन्तर्भावात्तु द्वितीयगतिः किन्तु परस्परान्तर्भूतावेव सहितावेकेन वाक्येनाभिधीयेते इति प्रतिपाद्योपसंहरन्नाह- "तस्मात्" तत्रैव सपक्ष एव भाव (ह्ब्ट् 228) इत्यनेन वाक्येन न सपक्षे भाव एवोच्यते । किं तर्हि? । असपक्षे ऽभावो ऽपि, तथा चेतरेणाप्यसपक्षे ऽभाव एवेति वचनेन नाभाव एव केवल उच्यते किन्तु सपक्षे भावो ऽपि, येन केवलवचनेन भावो ऽभावो वा तदात्मकतया द्वितीयमाक्षिपेद् यतो ऽनयोः पृथग्वचनं न स्यात् । तस्माद् यदान्वयव्यतिरेकौ भवाभावावभिप्रेतौ तदा तौ भिन्नरूपावेवेति कथं तयोः न पृथक्त्वम्? । अथ नियमवता वाक्येनाभिहितौ तदैकवाक्यादेवोभयगतेः पृथग्वचनं न कर्तव्यमेव । तत्तु कृतं नाप्रतिपन्नप्रतिपत्तये किन्तु प्रयोगनियमार्थमित्युक्तमेतदिति ।

स्यान्मतम्- यथान्वयव्यतिरेकौ भावाभावलक्षणौ न परस्परात्मकौ ततश्च तयोः परस्परतो रूपान्तरत्वम्, एवं परोपलक्षणशास्त्रप्रतिपादितात् त्रैलक्षण्याद् भिद्यत एव ज्ञानम्, न तत्रान्तर्भतम्, ततो रूपान्तरं भविष्यतीत्यत आह- "नैवम्", यथान्वयव्यतिरेकौ भावाभावलक्षणौ परस्परमनन्तर्भूतौ, न तथा ज्ञानं परोपलक्षणशास्त्रप्रतिपादिते त्रैलक्षण्ये ऽनन्तर्भूतम् । कुतः? । "परोपलक्षणात्"- परे उपलक्ष्यन्ते उपलक्षण(णं) त्रैरूप्यविषयां प्रतीतिं कार्यन्ते येन शास्त्रेण ततो यत् त्रैलक्षण्यं प्रतीयते आगृहीतज्ञानं तस्मादव्यतिरेकादागृहीतज्ञाने त्रैलक्षण्ये ऽन्तर्भावादिति यावत्, "इति" तस्मान्न लक्षणान्तरं त्रैरूप्यादिति । तदयमत्र समुदायार्थः- यदि ज्ञातत्वं ज्ञानशब्दप्रवृत्तिनिमित्तं उक्तेन प्रकारेण ज्ञानमेवोच्यते तदा तल्लिंगस्यानात्मभूतमिति न तल्लक्षणम् । अथावि(पि) ज्ञानापेक्षः कर्मभावो ज्ञातत्वमुच्यते तदापि ज्ञेयसत्ताव्यवस्थाया ज्ञानसत्तानिबन्धनत्वात् त्रैरूप्यव्यवस्थैव तत्सत्ताव्यवस्थापकं ज्ञानमाक्षिपति । ततस्तदपेक्षो ऽपि कर्मभावो ऽनुक्तसिद्ध इति न तद्वचनं पृथक्कर्तव्यम् । तथा परोपलक्षणार्थशास्त्रप्रतिपादितागृहीतज्ञानात् त्रैलक्षण्यादव्यतिरेकादिति ।

तदेवमबाधितविषयत्वादिकं रूपत्रयं निराकृत्य निगमयन्नाह- "तस्मान्न हेतुः षड्लक्षणः ।" किं तर्हि? । त्रैलक्षण्य एवेति ।

इमं क्षताशेषकुतर्कमार्गं, मुनीशराद्धान्तनयप्रदीपम् । वितत्य पुण्यं यदुपार्जितं तत्, परां विशुद्धिं जगतो विधेयात् ॥

हेतुबिन्दुटीका समाप्ता ।

............................................................. ............................................................. मा यतत इमा या तद्रूपा वल (?) त्रिभुवनस्य हिताय शस्वत् । नरस्य सेतोः दो.......तथागतमतस्य निवोधयित्री ॥ 2 ॥

........75 माग्र(र्ग)सिर वादि 7 रवौ । मंगलं महाश्रीः ॥

न गुरोरुपदेशमग्रहीत् बुबुधे वस्तु ततो.............धीः । यतते स्म न तस्य वृद्धये न परिस्पन्दितुमप्यपारयत् ॥ [1 ||] ॥

जीवात्मकं चान्द्रमसं च तेजः कृतास्पदं तस्य तै .......त् । तदेव शक्ता.....था परत्र चित्रा हि विश्वप्रकृति.....नाः ॥ 2 ॥

हे ! रोहिणीरमण ! सर्वकलानिकेत ! तारापते ! रजनिनाथ ! सुधानिधान! । कादम्बरीरसगुणेषु नि.........व- मात्मानमर्पितशरीरमनुस्मरेन्दोः ॥ 3 ॥

श्रीब्रह्माणगच्छे पं. अभयकुमारस्य हेतुबिन्दुतर्कः ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.