Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

अभिसमयालंकारवृत्तिः स्फुटार्था

Thông tin
GRETIL — Ram Shankar Tripathi: Abhisamayalankaravrti sputartha. Sarnath: Central Institute of Higher Tibetan Studies, 1977, pp. 3-44.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अविभावितविभावितरूपसंज्ञत्वाद् यथाक्रममध्यात्मं रूप्यरूपीति बहिर्धा रूपाणि पश्यतीत्येतौ निर्माणावरणप्रतिपक्षेण द्वौ विमोक्षौ / शुभाशुभरूपनिर्माणे च यथाक्रममाभोगः प्रातिकूल्यञ्च संक्लेशः तत्प्रतिपक्षेण शुभं विमोक्षमुखं कायेन साक्षात्कृत्वोपसम्पद्य विहरतीत्येको विमोक्ष इति विमोक्षाकाराः त्रयो निर्याणमार्गः /

मोक्षानुकूलविहारमार्गस्वभावाश्चतुरारूप्यसमापत्त्याकाराः शान्तविहारस्वभावः संज्ञावेदितनिरोधाकार एक इति पञ्चाकारा दृष्टधर्मसुखविहारमार्गः /

चतुर्ध्यानारूप्यनिरोधसमापत्याकारा नव लोकोत्तरमार्गः / चतुःसत्यसङ्गृहीताः क्लेशविसंयोगलक्षणानन्तर्यमार्गाकाराश्चत्वारः प्रहाणमार्गः / दानादिपारमिताकारा दश बुद्धत्वमार्गः / तदेवं बोधिसत्त्वानां मार्गज्ञतामार्गाधिष्ठानाश्चतुस्त्रिंशदाकारा भवन्ति /

सर्वाकारज्ञताकारस्तु निरतिशयत्वादेक एव केवलमसाधारणमार्गः / तत्र स्थानास्थान-कर्मविपाकः-नानाधिमुक्ति-अनेकलोकधातु-इन्द्रियपरापर-सर्वत्रगामिनी-प्रतिपत्-संक्लेशव्यवदान-पूर्वनिवासानुस्मृति-च्युत्युपपत्ति-आस्रवक्षयज्ञानबलाकारा दश / बुद्धो ऽहमित्यात्मप्रतिज्ञाने रागादीनामन्तरायत्वाख्याने सर्वज्ञतादिमार्गस्य निर्याणत्वप्रकाशने क्षीणास्रवत्वेनात्मनो ऽभ्युपगमे च पर्यनुयोक्तुरभावेन वैशारद्याकाराश्चत्वारः / पर्याये धर्मलक्षणे जनपदभाषायां धर्मप्रभेदे च यथाक्रमं धर्मार्थनिरुक्तिप्रतिभानप्रतिसंविदाकाराश्चत्वारः / नास्ति स्खलितः रवितं मुषितस्मृतिरसमाहितं चित्तं नानात्वसंज्ञा अप्रतिसंख्यायोपेक्षा चेत्येवमाकाराः षट् / नास्तिछन्दतो वीर्यतः स्मृतितः समाधेः प्रज्ञायाः विमुक्तेश्च परिहाणिरित्येवमाकाराः षट् / कायवाङ्मनस्कर्मणां ज्ञानपूर्वङ्गमानुपरिवर्तनाकारास्त्रयः / अतीतानागतप्रत्युत्पन्नेषु असङ्गाप्रतिहतज्ञानाकारास्त्रय इति अष्टादशावेणिकबुद्धधर्माकाराः / सर्वबुद्धभाषिततथता-सत्वधर्मवशवर्तनस्वयम्भू-सर्वाकाराभिसम्बोधिबुद्धत्वाकाराः त्रयश्च / इत्येकोनचत्वारिंशदाकाराः सर्वाकारज्ञतामार्गाधिष्ठाना भवन्ति /

तत्रानास्रवाः सास्रवाश्च सर्वज्ञताकारा यथाक्रमं श्रावकबोधिसत्त्वभेदेन / मार्गज्ञताकाराः सास्रवा एव, बोधिसत्त्वानामत्यन्तक्लेशाप्रहाणात् / अनास्रवा एव सर्वाकारज्ञताकाराः सर्वथा सवासनसर्वक्लेशज्ञेयावरणप्रहाणेन सम्यक्सम्बुद्धस्य सर्वधर्मवशवर्तित्वाद्, इत्येकत्र गण्यमानं त्रिसप्तत्युत्तरशतमित्याकाराः /

विशिष्टप्रयोगैराकारा भावयितव्याः, ते च प्रयोक्तारं विना कथयितुमशक्या इति श्रवणादिभाजनं प्रयोक्तारमाह -

कृताधिकारा बुद्धेषु तेषूप्तशुभमूलकाः / मित्रैः सनाथाः कल्याणैरस्याः श्रवणभाजनम् // abhis_4.6 //

बुद्धोपासनसम्प्रश्नदानशीलादिचर्यया / उद्ग्रहधारणादीनां भाजनत्वं सतां मतम् // abhis_4.7 //

अतीतप्रत्युत्पन्नबुद्धेषु सामान्येनोप्तशोधितशुभमूलकाः, कायाद्युपस्थानाराधनात् कृततथागतपर्युपासनाः, कृतशंकास्थानपरिप्रश्नाः, कृतदानादिदशपारमिताप्रतिपत्त्यनुष्ठानाः, कल्याणमित्रैरधिष्ठिताश्च यथाक्रममाकारलक्षणाया मातुरस्या ग्रन्थश्रवणधारणामुषितार्थयथानयमनस्काराणां भाजनं बुद्धादिभिः मतमिति /

2 - प्रयोगाः

प्रयोक्तारं निर्दिश्य प्रयोग इत्याह -

रूपादिष्वनवस्थानात् तेषु योगनिषेधतः / तत्तथतागम्भीरत्वात् तेषां दुरवगाहतः // abhis_4.8 //

तदप्रामाण्यतः कृच्छ्राच्चिरेण प्रतिबोधतः / व्याकृतावविवर्त्यत्वे निर्याणे सनिरन्तरे // abhis_4.9 //

आसन्नबोधे क्षिप्रञ्च परार्थे ऽवृद्ध्यहानितः / धर्माधर्माद्यदृष्टौ च रूपाचिन्त्याद्यदर्शने // abhis_4.10 //

रूपादेस्तन्निमित्तस्य तद्भावस्याविकल्पकः / फलरत्नप्रदाता च शुद्धकः सावधिश्च सः // abhis_4.11 //

रूपादिषु निःस्वभावतया ऽनवस्थानम्, अयोग एव तेषु प्रयोगो भवति, तावेव रूपादितथतास्वरूपत्वेन गम्भीरः, दुरवगाहः, अप्रमाणश्चेत्येवमभिसम्बोधानां यथासंख्यं रूपादिष्वनवस्थानअयोगगम्भीरदुरवगाहअप्रमाणानीति पञ्च प्रयोगाः / प्रज्ञापारमिताया उत्त्रासअनुत्त्राससम्यगुद्ग्रहणआन्तरायिकधर्मवर्जनसततधर्मभावना अभिनवानास्रवधर्माधारत्वधर्मकायफलाभिनिर्वर्तनधर्मचक्रप्रवर्तनवृद्धि परिहाण्यदर्शनकामधात्वनुपलम्भरूपाद्यचिन्त्याकारामननरूपतन्निमित्ततत्स्व भावाविकल्पप्रथमफलदर्शनरूपविशुद्धिसंवत्सराभियोगानुत्सर्गादिप्रतिपत्तिमतां यथाक्रमं महत्कृच्छ्रचिराभिसम्बोधव्याकरणलाभअविनिवर्तनीयनिर्याणनिरन्तरआसन्नाभिसम्बोधक्षिप्राभिसम्बोधपरार्थअवृद्ध्यपरिहाणिधर्माधर्माद्यनुपलम्भरूपाद्यचिन्त्याकारनिरोधरूपादिभावाविकल्पफलरत्नदानविशुद्धिअवधिप्रयोगाः पञ्चदशधा इति विंशतिप्रयोगा भवन्ति /

3 - गुणाः

प्रयोगानन्तरं गुणदर्शनपूर्वकं सुतरामभ्यस्यन्ते प्रयोगा इति तद्गुणान् आह -

माराणां शक्तिहान्यादिश्चतुर्दशविधो गुणः /

मारशक्तिव्याघातबुद्धसमन्वाहारज्ञातत्वबुद्धप्रत्यक्षीकरणसम्यक्सम्बोध्यासन्नीभावमहार्थतादिदेशनिरूपणसर्वानास्रवधर्मपरिपूरिगुणकथापुरुषताअभेद्यताअसाधारणकुशलमूलोत्पत्तिप्रतिज्ञायाथार्थ्यसम्पादनौदारफलपरिग्रहणसत्त्वार्थप्रतिपत्तिनियतिलाभा - इति गुणा यथासंख्यं बुद्धाधिष्ठानआनुभावज्ञानदर्शनं - आसन्नीभावमहानुशंसकृत्यकरणप्रतिपक्षधर्मपरिपूरणसर्वाकारज्ञताकथाकथनसानाथ्यकरणमहोदारप्रीतिसम्पादनतत्प्रतिज्ञावचनानुमोदनगम्भीरधर्माभिलाषसत्त्वार्थकरणअविकलप्रज्ञापारमिताप्रापका इत्येतदविपरीतप्रयोगानुमोदनात् - सत्त्वार्थकरण - अविकलप्रज्ञापारमिताप्रापका इत्येतदविपरीतप्रयोगानुमोदनात् चतुर्दश गुणा उत्पद्यन्ते प्राप्यन्ते च /

4 - दोषाः

तदनन्तरं के पुनः प्रयोगान्तरायकरा दोषाः, येषां परिवर्जनेन प्रयोगा भावयितव्या इत्यन्तरायकरान् दोषानाह - दोषाश्च षड् विबोद्धव्याश्चतुर्भिर्दशकैः सह // abhis_4.12 // महाकृच्छ्रप्राप्तिः, अत्याशुप्रतिभानता, कायदौष्ठुल्यम्, चित्तदौष्ठुल्यम्, अयोगविहितस्वाध्यायादिकम्, वैमुख्यनिमित्तग्राहिता, हेत्वभिनिवेशभ्रंशः, प्रणीतास्वादभ्रंशः, सर्वथा उत्तमयानसंग्रहभ्रंशः, सर्वदोद्देशभ्रंश इति प्रथमं दशकम् / हेतुफलसम्बन्धभ्रंशः, निरुत्तरभ्रंशः, बहुविधविषयविकल्पप्रतिभानोत्पादः, अक्षरलिखनाभिनिवेशः, अभावाभिनिवेशः, अक्षराभिनिवेशः, अनक्षराभिनिवेशः, जनपदादिमनस्कारः, लाभसत्कारश्लोकास्वादनम्, अमार्गोपायकौशलमार्गणमिति द्वितीयं दशकम् /

यथासंख्यं श्रोतावक्त्रोः पूर्वापरयोः कस्यचिदभिसम्बन्धेन छन्दकिलासवैधुर्यम्, छन्दविषयभेदवैधुर्यम्, अल्पेच्छतानल्पेच्छतावैधुर्यम्, धूतगुणयोगायोगौ, कल्याणाकल्याणधर्मत्वम्, त्यागमात्सर्यम्, दानाग्रहणम्, उद्धटितज्ञविपञ्चितज्ञत्वम्, सूत्रादिधर्माभिज्ञानभिज्ञत्वम्, षट्पारमितासमन्वागमासमन्वागमाविति तृतीयं दशकम् /

तथैव उपायानुपायकौशले, धारणीप्रतिलम्भाप्रतिलम्भौ, लिखितुकामताऽलिखितुकामते, विगताविगतकामच्छन्दत्वे चेति चत्वारि; अपायगतिवैमुख्यम्, सुगतिगमनसौमनस्यमिति द्वे; यथासंख्यं श्रोतावक्त्रोः पूर्वापरयोः कस्यचिदभिसम्बन्धेन एकाकिपर्षदभिरतिः, अनुबन्धकामानवकाशदानत्वम्, आमिषकिञ्चित्काभिलाषतददातुकामता, सदसज्जीवितान्तरायदिग्गमनमिति चत्वारि च चतुर्थं दशकम् /

तथैव दुर्भिक्षदिग्गमनागमनम्, चौराद्याकुलितदिग्गमनागमनम्, कुलावलोकनदौर्मनस्यमिति त्रीणि; मारभेदप्रयोगः, प्रतिवर्णिकोपसंहारः, अयथाविषय-स्पृहोत्पादनमिति अपराणि त्रीणि / इत्येवं षट्चत्वारिंशद्दोषा भवन्ति /

5 - लक्षणानि

दोषानन्तरं यथासंख्यं गुणदोषादानत्यागेन प्रयोगा भावनीया लक्षणज्ञान पूर्वकमिति तेषां लक्षणमाह -

लक्ष्यते येन तज्ज्ञेयं लक्षणं त्रिविधं च तत् / ज्ञानं विशेष कारित्रं स्वभावो यश्च लक्ष्यते // abhis_4.13 //

प्रयोगाणां लक्षणं करणसाधनपरिग्रहेण ज्ञानविशेषकारित्रस्वरूपम्, कर्मसाधनपरिग्रहेण च स्वभावात्मकमिति लक्षणं चतुर्विधं बोद्धव्यम् /

तत्र तावत् ज्ञानलक्षणं त्रिसर्वज्ञताभेदेन भिद्यमानं सर्वज्ञताद्वारेणाह -

तथागतस्य निर्वृत्तौ लोके चालुज्यनात्मके / सत्त्वानां चित्तचर्यासु तत्संक्षेपे बहिर्गतौ // abhis_4.14 //

अक्षयाकारतायां च सरागादौ प्रविस्तृते / महद्गते ऽप्रमाणे च विज्ञाने चानिदर्शने // abhis_4.15 //

अदृश्यचित्तज्ञाने च तदुन्मिञ्जादिसंज्ञकम् / पुनस्तथताकारेण तेषां ज्ञानमतः परम् // abhis_4.16 //

तथतायां मुनेर्बोधतत्पराख्यानमित्ययम् / सर्वज्ञताधिकारेण ज्ञानलक्षणसंग्रह // abhis_4.17 //

तथागतनिर्वृत्तिलोकालुज्यतासत्त्वचित्तचरितचित्तसंक्षेपचित्तविक्षेपचित्ताक्षयाकारसरागादिचित्तआदिशब्दसङ्गृहीतविगतरागचित्तविपुलचित्तमहद्गतचित्तअप्रमाणचित्तअनिदर्शनचित्तःअदृशचित्तचित्तोन्मिञ्जितादिउन्मिञ्जितादितथताकारतथागततथतावबोधतत्परसमाख्यानप्रज्ञपनञ्चेत्येभिः षोडशभिः ज्ञानाकारप्रकारैः यथानयं सर्वज्ञताप्रयोगाः सम्यग् लक्ष्यन्त इति ज्ञानलक्षणं सर्वज्ञतया सङ्गृहीतम् /

तदनन्तरं मार्गज्ञताधिकारेणाह -

शून्यत्वे सानिमित्ते च प्रणिधानविवर्जिते / अनुत्पादानिरोधादौ धर्मताया अकोपने // abhis_4.18 //

असंस्कारे ऽविकल्पे च प्रभेदालक्षणत्वयोः / मार्गज्ञताधिकारेण ज्ञानलक्षणमिष्यते // abhis_4.19 //

शून्यतानिमित्ताप्रणिहितानुत्पादानिरोधात्मकानि / आदिशब्देन असंक्लेशाव्यवदानाभावस्वभावानिश्रिताकाशलक्षणानि एतानि षट् सङ्गृहीतानि / धर्मता ऽविकोपनासंस्काराविकल्पप्रभेदालक्षणानि चेत्येभिः षोडशभिः ज्ञानाकारप्रकारैः यथावत् मार्गज्ञताप्रयोगा लक्ष्यन्त इति ज्ञानलक्षणं मार्गज्ञतासङ्गृहीतम् /

तदनन्तरं सर्वाकारज्ञताद्वारेणाह -

स्वधर्ममुपनिश्रित्य विहारे तस्य सत्कृतौ / गुरुत्वे माननायाञ्च तत्पूजा ऽकृतकत्वयोः // abhis_4.20 //

सर्वत्र वृत्तिमज्ज्ञानमदृष्टस्य च दर्शकम् / लोकस्य शून्यताकारसूचकज्ञापकाक्षगम् // abhis_4.21 //

अचिन्त्यशान्ततादर्शि लोकसंज्ञानिरोधि च / ज्ञानलक्षणमित्युक्तं सर्वाकारज्ञतानये // abhis_4.22 //

इति / तथागतस्वधर्मोपनिश्रयविहार-सत्कार-गुरुकार-मानना-पूजना-अकृत-कत्व-सर्वत्रग-अदृष्टार्थदर्शक-लोकशून्यताकार-लोकशून्यतासूचकः-लोकशून्यताज्ञापक-लोकशून्यतादर्शक-अचिन्त्यतादेशना-शान्ततादेशना-लोकनिरोध-संज्ञानिरोधाख्यैः एभिः षोडशभिर्ज्ञानाकारप्रकारैः यथावत् सर्वाकारज्ञताप्रयोगा लक्ष्यन्त इति ज्ञानलक्षणं सर्वाकारज्ञतासंगृहीतं भवति /

नवभिरन्तरश्लोकैरेवं ज्ञानलक्षणमभिधाय ज्ञानाकारेण परिच्छिन्नानां विशेषो ज्ञेय इति ज्ञानलक्षणानन्तरम् अन्तरश्लोकेन विशेषलक्षणमाह -

अचिन्त्यादिविशेषेण विशिष्टैः सत्यगोचरैः / विशेषलक्षणं षड्भिर्दशभिश्चोदितं क्षणैः // abhis_4.23 //

इति / अचिन्त्यातुल्यादिविशेषविशिष्टैर्दुःखादिसत्यविषयैः षोडशभिर्धर्मान्वयज्ञानक्षान्तिज्ञानक्षणैर्मार्गज्ञतादिप्रयोगा लक्ष्यन्त इति विशेषलक्षणम् /

कः पुनरचिन्त्यादिविशेष इत्यन्तरश्लोकत्रयमाह -

अचिन्त्यातुल्यते मेयसंख्ययोः समतिक्रमौ / सर्वार्यसंग्रहो विज्ञवेद्यासाधारणज्ञते // abhis_4.24 //

क्षिप्रज्ञान्यूनपूर्णत्वे प्रतिपत्समुदागमौ / आलम्बनञ्च साधारं साकल्यं सम्परिग्रहः // abhis_4.25 //

अनास्वादश्च विज्ञेयो विशेषः षोडशात्मकः / विशेषमार्गो मार्गेभ्यो येनान्येभ्यो विशिष्यते // abhis_4.26 //

इति / सम्यक्सम्बुद्धादेः सुसंगृहीतप्रज्ञाबलेन अचिन्त्यता, अतुल्यता, प्रमेयसमतिक्रमः, संख्येयसमतिक्रमः, सर्वार्यपुद्गलसंग्रहः, विज्ञपुरुषवेदनीयता, श्रावकाद्यगोचरवस्तुपरिज्ञानम्, स्वमतापेक्षक्षिप्राभिज्ञताज्ञानम्, संवृतिपरमार्थसत्याश्रितसर्वधर्मान्यूनापूर्णता, त्रिमण्डलविशुद्धदानादिषट्पारमिताप्रतिपत्तिः, सम्यक्प्रयोगेनानेककल्पेषु आसादितपुण्यज्ञानसमुदागमौ, अविकल्पेन सर्वधर्मालम्बनम्, धर्मधातुस्वभावबोधिसत्त्वाधारः, प्रणिधानादिषट्पारमितापरिसमाप्तिहेतुसम्भारः, कल्याणमित्रोपायेन संपरिग्रहः, अभिनिवेशानास्वाद इति षोडशात्मकः यथाक्रमं दुःखादिसत्यक्षणानां विशेषः, येन श्रावकादिमार्गेभ्यो बोधिसत्त्वादीनां मार्गज्ञतादिद्वये विशेषमार्गो विशिष्यते / अतस्तेषां यथोक्तविशेषविकलो ऽभिनिवेशाद्युत्पादनलक्षणत्वेन सुगमत्वान्नोक्तः /

विशेषलक्षणेनावच्छिन्नानां किं कारित्रमिति अन्तरश्लोकद्वयेन कारित्रलक्षणमाह -

हितं सुखं च त्राणं च शरणं लयनं नृणाम् / परायण च द्वीपं च परिणायकसंज्ञकम् // abhis_4.27 //

अनाभोगं त्रिभिर्यानैः फलासाक्षात्क्रियात्मकम् / पश्चिमं गतिकारित्रमिदं कारित्रलक्षणम् // abhis_4.28 //

इति / अनागतहित-ऐहिकसुखः-दुःखरहिताविपाकधर्मतोपस्थापनार्थेन हितादित्रयं सर्वज्ञताकारित्रम् / आत्यन्तिकहित-दुःखहेतुनिवर्तन-संसारनिर्वाण-समताधिगम-स्वपरार्थाधिगमाधारभाव-परार्थप्रतिपति-अनाभोगप्रवृत्तसत्त्वार्थ-यानत्रयनिर्याणफलासाक्षात्कारा इति यथाकालमुपसंहारार्थेन शरणादीनि सप्त मार्गज्ञताकारित्राणि / सर्वाकारज्ञतया सर्वधर्मदैशिकत्वेन सर्वाकारज्ञताया एकमेव गतिकारित्रम् / कारित्राकारैरेवं यथावद् सर्वज्ञतात्रयस्य प्रयोगा लक्ष्यन्त इति कारित्रलक्षणम् /

कारित्रलक्षणेनावच्छिन्नानां कः स्वभाव इति अन्तरश्लोकत्रयेण स्वभावलक्षणमाह -

क्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयोः / विवेको दुष्करैकान्तावुद्देशो ऽनुपलम्भकः // abhis_4.29 //

निषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञकः / विप्रत्ययो ऽविघाती च सो ऽपदागत्यजातिकः // abhis_4.30 //

तथतानुपलम्भश्च स्वभावः षोडशात्मकः / लक्षीव लक्ष्यते चेति चतुर्थं लक्षणं मतम् // abhis_4.31 //

इति / रागादिक्लेश-तल्लिङ्गकायदौष्ठुल्य-तन्निमित्तायोनिशोमनसिकारादिरागारागादिविपक्षप्रतिपक्षाणां शून्यत्वेन सर्वज्ञताविवेकस्वभावचतुष्टयम् / परमार्थासत्सत्त्वपरिनिर्वाणदुष्करकारक-अन्ययानापातलक्षणैकान्तिक-चिरसाध्योत्तमोद्देश-भाव्यभावकधर्मानुपलम्भ-समस्तभावाभिनिवेशनिषेधा इत्येते पञ्च मार्गज्ञतास्वभावाः / सर्वज्ञतामार्गज्ञतासङ्गृहीतवस्तुविशेषालम्बनम्, लोकप्रतिपत्तिग्रहणादिविपरीतनिर्देशात् विप्रत्ययः, रूपाद्यविघातिज्ञानम्, ज्ञानज्ञेयानुपलम्भेन अप्रतिष्ठम्, तथतया अगतिः, रूपादिनिःस्वभावत्वेन अजातिकः, भावाभावादिस्वभावत्रयानुपलम्भ इति एते सर्वाकारज्ञतायाः सप्त स्वभावाः / इत्येवं षोडशभिः स्वभावैर्यथावत् त्रिसर्वज्ञताप्रयोगा लक्षीव लक्ष्यन्ते इति चतुर्थं स्वभावलक्षणं मतम् / इत्येवं सामान्येन एकत्र कृतानि एकनवतिः लक्षणानि भवन्ति /

6 - मोक्षभागीयम्

यथोक्तप्रयोगपरिज्ञानं मोक्षभागीयकुशलमूलवतः एव भवतीति मोक्षभागीयमाह -

अनिमित्तप्रदानादिसमुदागमकौशलम् / सर्वाकारावबोधे ऽस्मिन् मोक्षभागीयमिष्यते // abhis_4.32 //

इति / अनिमित्तालम्बनज्ञानाकारेण दानादिपारमिता आरभ्य सर्वाकारज्ञतापर्यन्तं स्वसन्ताने समुदागमे कौशलमेवास्मिन् सर्वाकाराभिसम्बोधे मोक्षभागीयमिष्टम् /

किञ्च तत्कौशलमिति तद्दर्शनायान्तरश्लोकौ आह -

बुद्धाद्यालम्बना श्रद्धा वीर्यं दानादिगोचरम् / स्मृतिराशयसम्पत्तिः समाधिरविकल्पना // abhis_4.33 //

धर्मेषु सर्वैराकारैर्ज्ञानं प्रज्ञेति पञ्चधा / तीक्ष्णैः सुबोधा सम्बोधिर्दुर्बोधा मृदुभिर्मता // abhis_4.34 //

इति / अनिन्द्रियस्वभावाः श्रद्धावीर्यस्मृतिसमाधिविशिष्टप्रज्ञाः यथासंख्यं बुद्ध-दान-आशयसम्पत्त्i-avikalpa-sarvadhaर्मसर्वाकारपरिज्ञादिषु पञ्चविधविषयेषु कौशलम् / एवमपि न सर्वैरनुत्तरा सम्यक्सम्बोधिः प्राप्या / धर्मतेयं यतो ऽधिमात्रैः श्रद्धादिभिः सम्यक्सम्बोधिः सुबोधा, मृदुभिस्तैरेव दुर्बोधेत्यर्थादिदमाक्षिप्तम् / मध्यैः प्रत्येकबुद्धबोधिर्मृदुभिः श्रावकबोधिश्चाधिगम्यत इति //

7 - निर्वेधभागीयम्

उत्पन्नमोक्षभागीयस्योत्साहिनो निर्वेधभागीयमुत्पद्यत इत्याह -

आलम्बनं सर्वसत्त्वा ऊष्मणामिह शस्यते / समचित्तादिराकारस्तेष्वेव दशधोदितः // abhis_4.35 //

स्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च / तयोर्नियोजनान्येषां वर्णवादानुकूलते // abhis_4.36 //

मूर्धगं स्वपराधारं सत्यज्ञानं तथा क्षमा / तथाग्रधर्मा विज्ञेयाः सत्त्वानां पाचनादिभिः // abhis_4.37 //

इति / अस्यां सर्वाकाराभिसम्बोधौ सममैत्रहिताप्रतिघाविहेठनाचित्ताकारैः पञ्चभिर्मातापितृचित्तभ्रातृभगिनीचित्तपुत्रदुहितृचित्तमित्रामात्यचित्तज्ञातिसालोहितचित्ताकारैः आन्यैः पञ्चभिः सत्त्वालम्बने ऊष्मगतिमिष्यते /

संक्षेपतो ऽकुशलकुशलयोर्यथासंख्यं हानोपादानाभ्यां स्वयं निवृत्तस्य प्रवृत्तस्य च, तद्द्वारा अन्येषां पापान्निवर्तनं कुशले च प्रवर्तनमिति द्वावाकारौ / तथैव अन्येषां स्वयम्प्रवृत्तौ वर्णवादो ऽनुकूलता चेति धर्मप्रभेदद्वैविध्येन हि अनन्ताकारा इति सत्त्वालम्बने मूर्धगतो भवति /

यथा मूर्धगते स्वपराधिष्ठानभेदेन आलम्बनाकाराः, तथा नियोजनवर्णवादानुकूलताद्याकारैः स्वपराधिष्ठानदुःखादिसत्येष्वालम्बनमेव क्षान्तिर्भवति /

पूर्ववत् स्वपराधिष्ठानपाचनमोचनाद्याकारैः सत्त्वालम्बनमेव अग्रधर्मा भवन्तीत्येवं निर्वेधभागीया भवन्ति /

सर्वाकारमार्गवस्तुविभावनाभेदेन यथाक्रमं सर्वाकारज्ञतादित्रिविधे ऽभिसमये लौकिकनिर्वेधभागीयाधिगमपूर्वको लोकोत्तरदर्शनभावनामार्गाधिगमः / सर्वाकाराभिसम्बोधादौ तु त्रिविधे ऽभिसमये भावनोत्तरोत्तरावस्थाविशेषेण सर्वाकारविशेषमार्गसंगृहीतं ज्ञानमनास्रवं मृदुमध्याधिमात्रक्रमेणोत्पद्यत इति सकृदुत्पत्तिनिरासाय निर्वेधभागीयादिव्यपदेशो ऽभिहित इति वेदितव्यम् /

8 - अवैवर्तिको गणः

अवैवर्तिकबोधिसत्त्वसंघस्य यथोक्तनिर्वेधभागीयमुत्पद्यत इत्यवैवर्तिकबोधिसत्त्वसंघलक्षणमाह -

निर्वेधाङ्गान्युपादाय दर्शनाभ्यासमार्गयोः / ये बोधिसत्त्वा वर्तन्ते सो ऽत्रावैवर्तिको गणः // abhis_4.38 //

इति / ये वीराः चतुर्षु निर्वेधभागीयेषु वक्ष्यमाणदर्शनमार्गभावनामार्गयोः तत्तदधिगमनयेन स्थिताः, ते एव अवैवर्तिकशैक्ष्यबोधिसत्त्वसंघा भवन्ति /

किञ्च तेषामावेणिकलक्षणमिति चेत् तावदेकेन अन्तरश्लोकेन निर्वेधभागीयस्थितानां लक्षणमाह -

रूपादिभ्यो निवृत्त्याद्यैर्लिङ्गैर्विंशतिधेरितैः / निर्वेधाङ्गस्थितस्येदमवैवर्त्तिकलक्षणम् // abhis_4.39 //

इति / रूपादिनिवृत्तिनिर्विचिकित्साद्याकारैर्विंशतिप्रकारैर्निर्वेधभागीयस्थानामवैवर्तिकलक्षणं ज्ञेयम् /

कानि च निवृत्त्यादेर्लक्षणानि इति चेत् षड्भिः अन्तरश्लोकैः प्रतिपादयितुमाह -

रूपादिभ्यो निवृत्तिश्च विचिकित्साक्षणक्षयौ / आत्मनः कुशलस्थस्य परेषां तन्नियोजनम् // abhis_4.40 //

पराधारञ्च दानादि गम्भीरे ऽर्थेप्यकांक्षणम् / मैत्रं कायाद्यसंवासः पञ्चधावरणेन च // abhis_4.41 //

सर्वानुशयहानञ्च स्मृतिसंप्रज्ञता शुचि / चीवरादि शरीरे च कृमीणामसमुद्भवः // abhis_4.42 //

चित्ताकौटिल्यमादानं धूतस्यामत्सरादिता / धर्मतायुक्तगामित्वं लोकार्थं नरकैषणा // abhis_4.43 //

परैरनेयता मारस्यान्यमार्गोपदेशिनः / मार इत्येव बोधश्च चर्या बुद्धानुमोदिता // abhis_4.44 //

ऊष्ममूर्द्धसु सक्षान्तिष्वग्रधर्मेष्ववस्थितः / लिङ्गैरमीभिर्विंशत्या सम्बोधेर्न निवर्तते // abhis_4.45 //

इति / अस्वभावत्वाद् रूपादिधर्मेभ्यो निवृत्तिः, अवेत्य प्रसादलाभेन विचिकित्साक्षयः, प्रणिधानसमृद्ध्या मिथ्यादृष्ट्i-naraka-preta-tiryagupअपत्ति-बुद्धवचना-श्रवण-प्रत्यन्तजनपदोत्पाद-इन्द्रियवैकल्यजडमूकभाव-दीर्घायुष्कदेवोपपत्तीत्यष्टा-क्षणक्षयः, कारुणिकतया स्वपरकुशलधर्मनियोजनम्, परात्मपरिवर्त्तकत्वेन परसत्त्वविषयपरिणामितदानादिः, सम्यग्धर्मावबोधेन गम्भीरधर्मार्थाकांक्षणम्, परहितप्रतिपन्नत्वेन मैत्रकायवाङ्मनस्कर्म, प्रयोगसम्पत्त्या कामच्छन्दो व्यापादः स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा चेति पञ्चनीवरणैरसंवासः, विभावितप्रतिपक्षत्वेन अविद्यादिसर्वानुशयविध्वंसः, नित्यसमाहितत्वेन स्मृतिसम्प्रज्ञानयोगः, चौक्षसमुदाचारत्वेन शुचिपरिभोग्यचीवरादीति एकादश आकाराः / सर्वलोकाभ्युपगतकुशलमूलत्वेन काये अशीतिकृमिकुलसहस्रासम्भवः, कुशलमूलविशुद्ध्या चित्ताकौटिल्यम्, लाभसत्कारादिनिरपेक्षत्वेन पांशुकूलिकत्वादिधूतगुणसमादानम्, दानादिविशेषप्रतिपतिपत्त्या तद्विपक्षमात्सर्यभ्रष्टशीलादेरभावः, सर्वधर्मसंग्रहाद् धर्मता ऽविरुद्धप्रज्ञापारमितायोगगमनम्, स्वात्मीकृतसत्त्वधातुत्वेन परार्थनरकाभिलाष इति षडाकाराः / अधिगतसम्प्रत्ययधर्मत्वेन अपरप्रणयनम्, विदितबुद्धत्वोपायकौशलत्वेन प्रतिरूपमार्गोपदेकमारस्य मारत्वावबोधश्चेति द्वावाकारौ / त्रिमण्डलविशुद्ध्या सर्वासु चर्यासु बुद्धानुमोदितत्वमिति एव आकारः / यथाक्रमं ऊष्ममूर्धक्षान्त्यग्रधर्मेष्ववस्थितो बोधिसत्त्वो ऽनुत्तरबोधेर्न निवर्तत इति एभिर्विंशतिलिङ्गैर्विज्ञेयम् /

निर्वेधभागीयावैवर्तिकलक्षणानन्तरं दर्शनमार्गावैवर्तिकलक्षणमेकेन अन्तरश्लोकेनाह -

क्षान्तिज्ञानक्षणाः षट् च पञ्च पञ्च च दृक्पथे / बोधिसत्त्वस्य विज्ञेयमवैवर्तिकलक्षणम् // abhis_4.46 //

इति / दुःखादिसत्यद्वारा धर्मान्वयज्ञानक्षान्त्यादयः षोडश क्षणाः दर्शनमार्गस्थबोधिसत्त्वस्यावैवर्तिकलक्षणं भवति /

कीदृशक्षणाकारलक्षणमिति चेत् पञ्चभिरन्तरश्लोकैराकारानाह -

रूपादिसंज्ञाव्यावृत्तिर्दार्ढ्यं चित्तस्य हीनयोः / यानयोर्विनिवृत्तिश्च ध्यानाद्यङ्गपरिक्षयः // abhis_4.47 //

कायचेतोलघुत्वञ्च कामसेवाभ्युपायिकी / सदैव ब्रह्मचारित्वमाजीवस्य विशुद्धता // abhis_4.48 //

स्कन्धादावन्तरायेषु सम्भारे सेन्द्रियादिके / समरे मत्सरादौ च नेति योगानुयोगयोः // abhis_4.49 //

विहारप्रतिषेधश्च धर्मस्याणोरलब्धता / निश्चितत्वं स्वभूमौ च भूमित्रितयसंस्थितिः // abhis_4.50 //

धर्मार्थं जीवितत्याग इत्यमी षोडश क्षणाः / अवैवर्तिकलिङ्गानि दृङ्मार्गस्थस्य धीमतः // abhis_4.51 //

इति / स्वलक्षणशून्यतया रूपादिधर्मावबोधव्यावर्तनम्, बुद्धादेरधिष्ठानेन अनुत्तरबोधिचित्तदृढता, महायानविशेषधर्मप्रतिपत्त्या श्रावकप्रत्येकबुद्धयानचित्तविनिवर्तनम्, धर्मप्रविचयसामर्थ्याद् ध्यानारूप्यसमापत्त्याद्युदयाङ्गपरिक्षय इति चत्वार एव दुःखस्याकारा भवन्ति /

अपगताकुशलत्वेन कायचेतोलाघवम्, सत्त्वदमनोपायकौशलसामर्थ्येन अनभिनिवेशकामोपभोगः, विषयादीनवदर्शनेन सदा ब्रह्मचारित्वम्, सत्पुरुषधर्मतया सम्यगुपकरणाजीवविशुद्धत्वमिति चत्वार एव समुदयाकारा भवन्ति /

शून्यतावस्थितत्वेन स्कन्धधात्वायतनयोगानुयोगयोरकरणमित्येवं योगानुयोगविहारप्रतिषेधः, निरस्तविपक्षत्वेन अधिगमान्तरायधर्माणां पूर्ववद्योगानुयोगविहारप्रतिषेधः, परिज्ञातविकल्पदोषत्वेन बोधिसम्भारदानादीनां पूर्ववत् कथायोगानुयोगविहारप्रतिषेधः, ग्राह्यग्राहकयोर्हेयत्वेनेन्द्रियाश्रयनगरादियुद्धेषु पूर्ववद्योगानुयोगविहारप्रतिषेध इति चत्वारो निरोधाकारा भवन्ति /

दानादिविशेषावबोधेन मात्सर्यदौःशील्यादियोगानुयोगविहारप्रतिषेधः, सर्वधर्मत्रिविमोक्षमुखस्वभावत्वेन अणुमात्रज्ञेयधर्मानुपलम्भः, अभिसम्प्रत्ययलाभेन त्रिसर्वज्ञतात्मकस्वभूमित्रययथावन्निश्चितावस्थानम्, एकान्तनिष्ठत्वेन सर्वाकारज्ञतादिधर्मार्थं जीवितत्याग इति चत्वारो मार्गाकारा भवन्ति /

एवं क्षान्तिज्ञानक्षणाः षोडशभिराकारैः सम्यगधिगताः सन्तो ऽनभिनिविष्टग्राह्यग्राहकाकारशुद्धलौकिकपृष्ठचित्तसंगृहीतं स्वानुरूपकार्यं रूपादिसंज्ञाव्यावर्तनादिकं परप्रतिपत्तिविषयं जनयन्तीत्यतो दर्शनमार्गस्थावैवर्तिकबोधिसत्त्वलक्षणानि भवन्ति / अधिगमानुरूप एव सर्वत्र योगिनां व्यवहारः अन्यत्र सत्त्वविनयप्रयोजनवशादिति ज्ञापनायोपचारेणोक्तम्, अन्यथा योगिसन्तानप्रत्यात्मवेद्यक्षणाः कथं परप्रतिपत्तये लक्षणानीति?

तदनन्तरं सत्यपि भावनामार्गस्थावैवर्तिकलक्षणे ऽनागृहीतविशेषणा विशेष्ये बुद्धिरुत्पद्यते ऽ इति न्यायात् तावद्भावनामार्गं विशेषयन्नाह -

गम्भीरो भावनामार्गो गाम्भीर्यं शून्यतादिकम् / समारोपापवादान्तमुक्तता सा गभीरता // abhis_4.52 //

इति / शून्यतादिके न रूपादिकम्, न ततो ऽन्यच्छून्यतादिकमिति यथाक्रमं या समारोपापवादान्तमुक्तता, सा शून्यतादेर्गाम्भीर्यं शून्यतादिकमिति गाम्भीर्ययोगाद् गम्भीरो ऽभ्यासपथ इति /

विशेषणं निर्दिश्यैवं विशेष्यं वस्तु आह -

चिन्तातुलननिध्यानान्यभीक्ष्णं भावनापथः / निर्वेधाङ्गेषु दृङ्मार्गे भावनामार्ग एव च // abhis_4.53 //

इति / श्रुतचिन्ताभावनामयप्रज्ञया समाधौ वा प्रयोगमौलपृष्ठभाविन्या प्रज्ञया यथाक्रमं त्रिषु निर्वेधाङ्गादिषु निर्दिष्टानामर्थानां पुनः पुनश्चिन्तातुलननिध्यानानि भावनामार्गे प्राबन्धिकानि भवन्ति /

तस्य कति प्रकारा इति चेदाह -

प्राबन्धिकत्वादिष्टो ऽसौ नवधा च प्रकारतः / मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः // abhis_4.54 //

इति / विकल्पक्लेशा बोधिसत्त्वा इति कृत्वा यथौदारिकञ्च तमः सूक्ष्मेणालोकेन हन्यते सुक्ष्मञ्चाधिमात्रेणेति मृदुमध्याधिमात्रविकल्पानां प्रत्येकं मृदुमध्याधिमात्रभेदात् तेषां मृदुमध्याधिमात्रप्रतिपक्षाणां प्रत्येकं मृदुमध्याधिमात्रभेदात् तथा परमार्थतः शून्यतालक्षणाकारद्वारा विकल्पप्रतिपक्षयोर्भेदाद् यथासंख्यं कामधात्वादिनवभूमिषु नवप्रकारः प्रबन्धेन वर्तमानः भावनामार्गो भवति /

तत्तज्जिनजननीनामेकैकं प्रकारमधिकृत्य असंख्येयाप्रमेयाप्रमाणपुण्यप्रसववचनाद् बहुधा भेदात् कथं नवप्रकार इति चेदाह -

असंख्येयादिनिर्देशा परमार्थेन न क्षमाः / कृपानिष्यन्दभूतास्ते संवृत्याभिमता मुनेः // abhis_4.55 //

इति / असंख्येयाप्रमेयाप्रमाणनिर्देशा वागभिलापस्वभावा व्यावृत्त्यपेक्षोपजनितनानात्वरूपेण एकस्मिन्नर्थे प्रत्युक्तास्तस्मात् परमार्थेन यथोक्तलक्षणस्य भावनामार्गस्य भेदं कर्तुं न क्षमाः / संवृत्या त्वनालम्बनमहाकरुणास्वभावधर्मधातुनिष्यन्दभूतास्ते देशनाधर्मस्वभावा यथोक्तनिर्देशा बालजनानां महाफलोदयप्रकाशकत्वेनाभिमतास्तथागतस्येति बहुत्वं न प्रसज्यते /

शून्यतालक्षणतया अतिशयाधानाभावाद् किञ्चिदपि मन्दबुद्धिपुरुषं प्रति न क्रियत एवेति आशङ्क्याह -

हानिवृद्धी न युज्येते निरालापस्य वस्तुनः / भावनाख्येन किं हीनं वर्त्मना किमुदागतम् // abhis_4.56 //

धर्मतास्वरूपस्य अभिमतमार्गवस्तुनो निःस्वभावतया तत्त्वान्यत्वोभयानुभयत्वैरवाच्यस्य भावनातिशयाधानाभावात् विपक्षप्रतिपक्षयोर्यथाक्रममपगमोदयौ न युज्येते /

यद्येवं भावनासंज्ञकेन मार्गेण किं विपक्षस्वरूपं परित्यक्तम्, किञ्च व्यवदान स्वरूपं प्राप्तम्, न किञ्चिदपि क्रियते, अतः अनुपन्यसनीय एवेति चेत्? मैवम् / तथा चोक्तम् -

यथा बोधिस्तथैवासाविष्टस्यार्थस्य साधकः / तथतालक्षणा बोधिः सो ऽपि तल्लक्षणो मतः // abhis_4.57 //

इति / यथा निरतिशयाधाना तथतास्वरूपा बोधिः निष्प्रपञ्चज्ञानात्मकधर्मकायादिबुद्धस्वभावा आधिपत्यमात्रेण विनेयजनानां पुण्यज्ञानानुरूपतया विशिष्टार्थप्रतिभासिचित्तजननद्वारेणाभिमतार्थस्य साधिका, तद्वदयमप्यागन्तुकमलापगमाद् भावनया साक्षात्कृतो मार्गः तथतालक्षणो ऽपि संवृत्याभिमतार्थक्रियाकारी / परमार्थतस्तु हानिवृद्ध्यभाव एवाङ्गीक्रियत इति अप्रयोग एव प्रयोगत्वात् न दोषः /

एवं सति संवृत्या अर्थक्रियासामर्थ्यं न घटत इत्याशङ्कयन्नाह -

पूर्वेण बोधिर्नो युक्ता मनसा पश्चिमेन वा /

इति / एकैकस्मिंश्चित्ते पूर्वापरीभूते बुद्धबोधिनिष्पादकसर्वाकारज्ञतादिसमस्तार्थाप्रतिभासनान्नैवैकेन (पूर्वेण पश्चिमेन वा) बोधिर्युज्यते / ऽएकविज्ञानसन्ततयः सत्त्वाःऽ इति वचनादसम्भवित्वेन युगपदुत्पन्नसमीहितार्थनिष्पादकधर्मप्रतिभासेन अनेकचित्तेनापि न (युज्यते) / अनुत्तरबुद्धबोधिनिष्पादकस्मृत्युपस्थानाद्यष्टादशावेणिकबुद्धधर्मपर्यन्ताधिगन्तृस्वरूप-पूर्वापरीभूतानेकचित्तेन वा न(युज्यते) ; निरन्वयोदयविनाशेन परस्परसम्बन्धात् /

किं तर्हि विशिष्टार्थप्रतिभासिचित्तजननद्वारेण अर्थक्रियाकारीति? न, तदसम्यक्त्वात् / इत्याह - दीपदृष्टान्तयोगेन गम्भीरा धर्मताष्टधा // abhis_4.58 // प्रथमे ज्वालावर्त्योर्मीलनक्षणे द्वितीयक्षणमन्तरेण स्वकारणपरम्पराक्रमायातसमानकालसंहतोत्पत्त्यविशिष्टत्वात् कार्यकारणलक्षणदाह्यदाहकाभावः / तथैव द्वितीयक्षणे ऽपि विशिष्टज्वालावर्त्योरूत्पत्तिक्षणे प्रथमक्षणमन्तरेण नित्यसत्त्वादिप्रसङ्गतया संवृत्युत्पादाभावात् कार्यकारणलक्षणदाह्यदाहकाभावः / यद्येवं तथापि यदा इदम्प्रत्ययतात्मकप्रतीत्यसमुत्पादधर्मतया अविचारैकरम्यत्वेन हेतुफलसम्बन्धबलाद् संहतविशिष्टोत्पन्नं प्रथमक्षणं समपेक्ष्य तदाहितसामर्थ्यातिशय एव विशिष्टो द्वितीयक्षणः स्यात्, तदा निर्हेतुकविनाशे ऽपि कारणकार्ययोः यथाक्रमं तुल्यकालनिरन्वयविनाशोदयाद् दाह्यदाहकभावः / तस्मात् प्रथमक्षणे द्वितीयार्चिरनपेक्ष्य वर्ती न दह्यते, द्वितीयक्षणेनापि प्रथमार्चिरनपेक्ष्य वर्ती न दह्यत इति दीपदृष्टान्तन्यायेन पूर्वापरीभूतक्षणयोरेकविषयोपयोगज्ञापनपरेण पूर्वक्षणवत् बोधिनिष्पादककतिपयपदार्थप्रतिभासि प्रथमविज्ञानं प्रतीत्य तत्प्रतिभासाभ्यधिक विशिष्टार्थप्रतिभासिपश्चिमविज्ञानोदयाद् बोधिप्राप्तिर्युज्यते /

यथोक्तेनैव च दृष्टान्तेन अष्टप्रकारा गम्भीरधर्मता प्रतिसर्तव्या इति भावनामार्गस्थबोधिसत्त्वानामवैवर्तिकलक्षणकथनाय यस्मिन् विषये अष्टविधगाम्भीर्यं तत्कथयन्नाह -

उत्पादे च निरोधे च तथतायां गभीरता / ज्ञेये ज्ञाने च चर्यायामद्वयोपायकौशले // abhis_4.59 //

इति / न पूर्वापरक्षणाभ्यां न च निःस्वभावतया भावनागम्यविशिष्टार्थोत्पादनमिति प्रतीत्यसमुत्पादः / सर्वभावोदय एव निःस्वभाव इति संवृत्या निरुध्यत इति निरोधः / सर्वावस्थासु तथताभ्यासे ऽपि तस्या असाक्षात्करणमिति तथता / तथतास्वभावसर्वधर्मस्य दानाद्यनेकविधानुष्ठानमिति ज्ञेयः / तथतारूपेणादर्शनमेव दर्शनमिति ज्ञानम् / धर्मतया सर्वत्राचरणमेव चरणमिति चर्या / अद्वयस्वभावे सर्वसिद्धिरित्यद्वयः / सर्वसम्भारपरिनिष्पत्तौ तत्फलबुद्धत्वस्याप्राप्तिरित्युपायकौशलम् / अचिन्त्यविमोक्षमुखलाभात् परस्परविरुद्धार्थानुष्ठानेन गाम्भीर्यं भवति / एवं अवैवर्तिकशैक्षः सलक्षणो ऽभिहितः /

9 - भवशान्त्योः समता

शैक्षसम्भारधर्मप्राप्तो बुद्धत्वप्राप्तये यतते, अतः बुद्धत्वप्राप्तिनिमित्तसंसारनिर्वाणसमतां कथयन्नाह -

स्वप्नोपमत्वाद्धर्माणां भवशान्त्योरकल्पना / कर्माभावादिचोद्यानां परिहारा यथोदिताः // abhis_4.60 //

इति / विपक्षप्रतिपक्षसांसारिकवैयदानिकधर्माणां प्रतिभासमात्रस्वभावस्वप्नसदृशत्वेन अवगमात् संसारनिर्वाणयोर्नानात्वेन अविकल्प इति समता / ननु स्वप्नसदृशत्वे सति दशाकुशलदानादीनामभावः स्वप्नावस्थायामिव जाग्रद्दशायामपि स्यादितिचोद्यानां परिहारा बाह्यार्थवादनये क्षणिकतया निर्हेतुकविनाशे

कर्मजं लोकवैचित्र्यम्

इति सिद्धान्तात् परमार्थतो न कश्चिन्न केनचिद्धतो नापि कयचिद् द्रव्यं केनचिद् गृहीतमित्याद्युपगमे पक्षप्रवृत्तसन्तानविरुद्धपदार्थोत्पादनात् मारणाद्यध्यवसायद्वारेण अयोनिशोमनस्कारादिमतो ऽकुशलादिवत् प्राणातिपातादयो व्यवस्थाप्यन्ते, तथैव स्वप्नसदृशे वस्तुनि तदनुरूपार्थे भावाद्यभिनिवेशेन अखण्डितसकलविपर्यासबन्धनानामित्येवं तत्पतिहाराः तत्पक्षाश्चान्यत्र अभिहिता इत्यवगन्तव्याः / किञ्चमिद्धेनोपहतं चित्तं स्वप्ने तेनासमं फलम् /

इति दृष्टान्तासिद्धिः / इत्येव स्वप्ने ऽप्युपचित्तकुशलाकुशलस्य प्रबुद्धावस्थायामहो कृतः सुकृत इत्यनुमोदने पृष्ठावस्थाचित्ताभिनिवेशपरिपुष्ट्या परिपोषः / अतश्च दृष्टान्तासिद्धेः संसारनिर्वाणसमता एव /

10 - अनुत्तरा क्षेत्रशुद्धिः

उभयसमताविभावनया स्वबुद्धक्षेत्रे बुद्धो भविष्यतीति तदनन्तरं बुद्धक्षेत्रपरिशुद्धिरित्याह -

सत्त्वलोकस्य या ऽशुद्धिस्तस्याः शुद्ध्युपहारतः / तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता // abhis_4.61 //

सत्त्वभाजनलोकभेदेन द्विविधबुद्धक्षेत्रयोर्यथाक्रमं जिघत्सापिपासास्थाणुकण्टकादिका या ऽशुद्धिः, तस्याः प्रतिपक्षेण दिव्योपभोगकनकभूभ्यादिशुद्धिजननद्वारेण विशुद्धिर्बुद्धक्षेत्रविशुद्धिः /

11 - उपायकौशलम्

निष्पादितस्वबुद्धक्षेत्रविशुद्धिनोपायकौशलेन यथाभव्यतया बुद्धकृत्यं करणीयमित्युपायकौशलमाह -

विषयो ऽस्य प्रयोगश्च शात्रवाणामतिक्रमः / अप्रतिष्ठो यथावेधमसाधारणलक्षणः // abhis_4.62 //

असक्तो ऽनुपलम्भश्च निमित्तप्रणिधिक्षतः / तल्लिङ्गं चाप्रमाणं च दशधोपायकौशलम् // abhis_4.63 //

इति / आन्तरायिकधर्मसमतिक्रमणेन देवादिमारातिक्रमः, विभावितसर्वधर्मसमत्वेन अप्रतिष्ठितविहारः, प्रणिधानसमृद्ध्या यथावेधं परार्थकरणम्, स्वभ्यस्तसर्वदुष्करत्वेन असाधारणः, शुक्लधर्मविशुद्ध्या सर्वधर्मस्याग्रहणम्, शुन्यताविमोक्षमुखत्वेन अनुपलम्भः, अनिमित्तविमोक्षमुखत्वेन अनिमित्तः, अप्रणिहितविमोक्षमुखत्वेन अप्रणिधानम्, प्रश्नपूर्वकावैवर्तिकधर्मकथनेन अवैवर्तिकलिङ्गम्, सर्वविषयज्ञानत्वेन अप्रमाणमिति प्रज्ञापारमिताया दशविधविषयाणां साक्षात्क्रियायां कालाकालज्ञानप्रयोग एव उपायकौशलं भवतीति / इति अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे चतुर्थाधिकारवृत्तिः //

मूर्धाभिसमयाधिकारः पञ्चमः

1 - लिङ्गम् (ऊष्मा मूर्धप्रयोगः)

प्राप्तसर्वाकारभिसम्बोधस्य प्रकर्षपर्यन्तो ऽधिगमो भवतीति तत्सुखावबोधाय लिङ्गाद्यभिधानपुरःसरं मूर्धाभिसमयमाह -

स्वप्नान्तरे ऽपि स्वप्नाभसर्वधर्मेक्षणादिकम् मूर्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम् // abhis_5.1 //

इति / स्वप्नावस्थायामप्यत्यभ्यासात् स्वप्नसदृशसर्वधर्मेक्षणम्, श्रावकादिभूमिस्पृहाचित्तानुत्पादनम्, तथागतादिदर्शनम्, बुद्धर्द्धिविकुर्वितोपलब्धिः, धर्मदेशनादिचित्तोत्पादः, नैरयिकसत्त्वादीक्षणपुरःसरस्वबुद्धक्षेत्रापायप्रहाणानुस्मरणम्, नगरादिदाहप्रशमनसत्याधिष्ठानसमृद्धिः, यक्षाद्यमनुष्यापगमसत्यवाक्यनिष्पत्तिः, स्वयमभिज्ञापराक्रमकल्याणमित्रसेवनम्, सर्वप्रकारप्रज्ञापारमिताशिक्षणम्, सर्वधर्मानभिनिवेशः, बुद्धबोध्यासन्नीभवनमिति द्वादश प्रकाराणि प्राप्ताभिसमयावस्थाया विशेषलिङ्गानि /

2 - विवृद्धिः (मूर्धा मूर्धप्रयोगः)

लिङ्गेनैवं लक्षितस्य कतिप्रकारा विवृद्धिरिति विवृद्धिमाह -

जम्बुद्वीपजनेयत्ताबुद्धपूजाशुभादिकाम् / उपमां बहुधा कृत्वा विवृद्धिः षोडशात्मिका // abhis_5.2 //

इति / जम्बूद्वीपकादित्रिसाहस्रलोकधातवीयसत्त्वेयत्तातथागतपूजाधिकत्वम्, विशिष्टप्रज्ञापारमितामनस्कारः, अनुत्पत्तिधर्मक्षान्तिलाभः, बोध्यबोधकधर्मानुपलम्भः, दशकुशलाद्यारूप्यसमापत्तियोगाद् विशेषोत्कर्षः, सर्वदेवनिकायोपसंक्रमः, सर्वमाराभिभवः, शास्तृसदृशजनसमानावस्था इति अष्टप्रकाराणि पुण्यानि / पुनः सर्वथोपायकौशलपरिशुद्धशिक्षा, बुद्धगोत्रीभवनम्, बुद्धत्वफलप्राप्तिनिमित्तम्, पारमिताविपक्षचित्तानुत्पादः, रूपादियोगाधिगमचित्तानुत्पादः, सर्वपारमितासंग्रहज्ञानम्, सर्वसम्पत्प्रतिलम्भः, सम्यक्सम्बोध्यासन्नीभाव इत्यन्यानि अष्टप्रकाराणि पुण्यानि / पुष्पादिभिः बुद्धपूजायाः शुभादिकां बहुधा उपमां कृत्वा उत्तरोत्तरविशेषोत्कर्षेण षोडशावस्थात्मिका विवृद्धिर्भवति /

3 - निरूढिः (क्षान्तिः मूर्धप्रयोगः)

विवृद्ध्यैवं वर्धितस्य आत्मीभावगमनपर्यन्तलक्षणां निरूढिं वक्तुमाह -

त्रिसर्वज्ञत्वधर्माणां परिपूरिरनुत्तरा / अपरित्यक्तसत्त्वार्था निरूढिरभिधीयते // abhis_5.3 //

इति / सम्यगुपायकौशलबलेनैवं निर्विकल्पाधिगमावस्थायां महाकरुणादिसम्मुखीकरणभावेन अपरित्यक्तसत्त्वार्थलक्षणा यथोक्तसर्वाकारज्ञतादित्रिसर्वज्ञताधर्माणां चित्तोत्पादादीनामुपर्युक्तानामनुत्तरा परिपूरिर्निरूढिरिति /

4 - चित्तसंस्थितिः (अग्रधर्माख्यः मूर्धप्रयोगः)

निरूढ्यैवं विरूढस्य स्थिरीभावलक्षणा चित्तसंस्थितिरिति चित्तसंस्थितिमाह -

चतुर्द्वीपकसाहस्रद्वित्रिसाहस्रकोपमः / कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः // abhis_5.4 //

इति / सम्भवत्प्रमाणस्य पलप्रमाणेन परिमाणं प्रमातुं शक्यत इति न्यायात् चतुर्द्वीपादित्रिसाहस्रलोकधातूनां सर्वेषां पारमितादीनां समाधिपुण्यज्ञानस्वरूपाणां पृथक् पृथक् उपमां कृत्वा तेभ्यो विशिष्टा प्रमाणातिक्रान्तपुण्यबहुत्वेन समाधिलक्षणा चित्तसंस्थितिः कथितेति /

एतानि च लिङ्गादीनि यथाक्रममूष्मादिचतुर्निर्वेधभागीयस्वरूपाणि वेदितव्यानि /

5 - दर्शनमार्गः (मूर्धप्रयोगः)

निर्वेधभागीयानन्तरं दर्शमार्गः / तत्र चतुर्विधो विपक्षः सप्रतिपक्षः / विपक्षं तावद् ग्राह्यविकल्पद्वयमाह -

प्रवृतौ च निवृतौ च प्रत्येकं तौ नवात्मकौ / ग्राह्यौ विकल्पौ विज्ञेयावयथाविषयात्मकौ // abhis_5.5 //

इति / अनुपलम्भोपलम्भस्वभावो प्रवृत्तिनिवृत्तिपक्षौ यथाक्रमं श्रावकबोधिसत्त्वादीनां धर्मस्यादानसन्त्यागाकारेण ग्राह्याविति क्लेशवद् विपक्षौ ग्राह्यविकल्पौ वस्तुन्यप्रतिबद्धवृत्तित्वेन वितथप्रतिभासित्वादयथास्वरूपौ विषयप्रभेदेन प्रत्येकं नवप्रकारौ ज्ञेयाविति /

ग्राह्यविकल्पपक्षद्वयमेवं निर्दिश्य ग्राहकविकल्पद्वयमाह -

द्रव्यप्रज्ञप्तिसत्सत्त्वविकल्पौ ग्राहकौ मतौ / पृथग्जनार्यभेदेन प्रत्येकं तौ नवात्मकौ // abhis_5.6 //

ग्राहौ चेन्न तथा स्तो ऽर्थौ कस्य तौ ग्राहकौ मतौ / इति ग्राहकभावेन शून्यतालक्षणं तयोः // abhis_5.7 //

इति / पृथग्जनार्यपुद्गलयोर्यथाक्रमं द्रव्यप्रज्ञप्तिसत्पुरुषाधिष्ठानौ ग्राहकविकल्पौ विबन्धकत्वाद् विपक्षौ विषयभेदेन प्रत्येकं नवप्रकाराविति / यदा विषयभावापन्नग्राह्यावर्थौ न तथा ग्राह्यरूपेण भवतस्तदा न कस्यचित् तौ ग्राहकाविति, ग्राहकरूपेणानयोर्विविक्तं रूपमिति वितथप्रतिभासित्वादयथाविषयस्वरूपौ ज्ञेयाविति /

कथं प्रवृत्यधिष्ठानः प्रथमो ग्राह्यविकल्पो नवधाः? इत्याह -

एष स्वभावे गोत्रे च प्रतिपत्समुदागमे / ज्ञानस्यालम्बनाभ्रान्तौ प्रतिपक्षविपक्षयोः // abhis_5.8 //

स्वस्मिन्नधिगमे कर्तृतत्कारित्रक्रियाफले / प्रवृत्तिपक्षधिष्ठानो विकल्पो नवधा मतः // abhis_5.9 //

इति / विविक्तेन विविक्तानवबोधस्वभावे, अचलादिभूमिप्रवेशेन नियतबुद्धगोत्रे, मायोपमप्रतिपत्त्या दर्शनादिमार्गसमुदागमे, प्रतिभासमात्रेण अभ्रान्तज्ञानालम्बने, गुणदोषपूर्वकोपादेयहेयत्वेन प्रतिपक्षविपक्षे, सर्वमलरहितत्वेन स्वाधिगमे, हीनाप्रणीतत्वेन श्रावकादिभूमिदूरीकरणे, यथाशयानुरूपनिर्माणेन सत्त्वार्थव्यापारे, सम्यगुपायकौशलबलेन सर्वजननिर्वाणप्रतिष्ठापनक्रियाफले च निर्दोषतया उपादेयत्वेन प्रवृत्तिः कार्या, इत्येवं प्रवृत्तिपक्षाधिष्ठानः प्रथमो ग्राह्यविकल्पो नवप्रकारो दर्शनमार्गप्रयोगावस्थायां प्रहेयो मत इति /

कथं निवृत्तिपक्षधिष्ठानो द्वितीयो ग्राह्यविकल्पो नवधेति? आह -

भवशान्तिप्रपातित्वान्न्युनत्वे ऽधिगमस्य च / परिग्रहस्याभावे च वैकल्ये प्रतिपद्गते // abhis_5.10 //

परप्रत्ययगामित्वे समुद्देशनिवर्तने / प्रादेशिकत्वे नानात्वे स्थानप्रस्थानमोहयोः // abhis_5.11 //

पृष्ठतो गमने चेति विकल्पो ऽयं नवात्मकः / निवृत्तिपक्षधिष्ठानः श्रावकादिमनोभवः // abhis_5.12 //

इति / संसारनिर्वाणान्यतरप्रपातित्वेन न्युनताधिगमे, कल्याणमित्रोपायकौशलविकलत्वेन संपरिग्रहाभावे, समस्तज्ञेयावरणाप्रतिपक्षत्वेन प्रतिपद्वैकल्ये, तथागताद्युपदेशसापेक्षत्वेन परप्रत्ययगामित्वे, सर्वसत्त्वाग्रताचित्तमहत्त्वाद्यप्रवृत्तत्वेन उद्देशनिवृतौ, क्लेशावरणप्रतिपक्षत्वेन प्रादेशिकमार्गव्यापारे, सोपलम्भत्वेन प्रथमफलाद्यधिगमनानात्वे, सर्वाविद्यानुशयाप्रहीणत्वेन स्थानगमनाज्ञाने, महायानसर्वसंग्राहकत्वेन सर्वाकारज्ञतासर्वनिर्वाणपश्चादनुगमने च सदोषतया ग्राह्यत्वेन विनिवृत्तिः कार्या / इत्येवं द्वितीयो ग्राह्यविकल्पो निवृत्तिपक्षाधिष्ठानः श्रावकप्रत्येकबुद्धसन्तानोपादेयत्वसमुद्भवो नवधा बोधिसत्त्वानां दर्शनमार्गे चित्तचैत्तप्रवृत्त्यवस्थायां प्रहेयो मत इति /

कथं द्रव्यसत्पृथग्जनपुरुषाधिष्ठानः प्रथमो ग्राहकविकल्पो नवधा? इत्याह -

ग्राहकः प्रथमो ज्ञेयो ग्रहणप्रतिमोक्षणे / मनस्क्रियायां धातूनामुपश्लेषे त्रयस्य च // abhis_5.13 //

स्थाने चाभिनिवेशे च प्रज्ञप्तौ धर्मवस्तुनः / सक्तौ च प्रतिपक्षे च यथेच्छं च गतिक्षतौ // abhis_5.14 //

इति / संवृत्या मायावद् ग्रहणमोक्षणे, तत्त्वतो ऽमनस्कारेण मनस्करणे, धर्मतया त्रैधातुकोपश्लेषणे, शून्यता ऽनवस्थानेन अवस्थाने, वस्त्वनभिनिवेशेन सर्वाभिनिवेशे, द्रव्यसद्भावेन सर्वधर्मप्रज्ञप्तौ, तत्त्वज्ञानासक्त्या अनभिनिवेशपूर्वकसक्तौ, समताभावनाप्रतिपक्षतया प्रतिपक्षे, सम्यगविज्ञातप्रज्ञापारमितत्वेन यथेच्छगमनव्याघाते च पारमार्थिकभावाभिनिवेशेन प्रथमो ग्राहकविकल्पो नवप्रकारो दर्शनमार्गप्रयोगावस्थायां प्रहेयो मत इति /

कथं प्रज्ञप्तिसत्पुरुषाधिष्ठानो द्वितीयो ग्राहकविकल्पो नवधा? इत्याह -

यथोद्देशमनिर्याणे मार्गामार्गावधारणे / सनिरोधे समुत्पादे वस्तुयोगवियोगयोः // abhis_5.15 //

स्थाने गोत्रस्य नाशे च प्रार्थनाहेत्वभावयोः / प्रत्यर्थिकोपलम्भे च विकल्पो ग्राहको ऽपरः // abhis_5.16 //

इति / श्रावकादिनिर्याणत्वेन यथोक्तोद्देशानिर्याणे, स्वाभीष्टमार्गाभावेन इतरमार्गामार्गावधारणे, संवृतिकार्यकारणभावेन उत्पादनिरोधे, निरन्तरेतरप्रतिभासत्वेन समस्तवस्तुसंयोगवियोगे, व्योमावस्थितशकुनिसदृशत्वेन रूपादिस्थाने, बोधिचित्तोत्पादादिद्वारेण श्रावकादिगोत्रविनाशे, तथताप्रतिविशिष्टधर्मताभावेन अभिलाषाभावे, परमार्थसत्याश्रयेण हेत्वभावे, अभ्यस्तमात्सर्यधर्मतया प्रत्यर्थिकमारादिवस्तूपलम्भे च प्रज्ञप्तिभावाभिनिवेशेन द्वितीयो ग्राहकविकल्पो नवप्रकारो दर्शनमार्गचित्तचैत्तप्रवृत्त्यवस्थायां प्रहेयो मत इति /

दर्शनमार्गे विपक्षं सप्रतिपक्षमेवं निर्दिश्य यन्महाबोधिनिष्पत्तये दर्शनमार्गो येन कारणेन सहित इष्यते, तत्कारणप्रदर्शनायान्तरश्लोकमाह -

बोधौ सन्दर्शनान्येषां तद्धेतोश्च परीन्दना / तत्प्राप्त्यनन्तरो हेतुः पुण्यबाहुल्यलक्षणः // abhis_5.17 //

इति / वक्ष्यमाणलक्षणबोधौ दर्शनादिमार्गसन्दर्शनेन अन्येषां प्रतिष्ठापनं प्रथमम् (कारणम्) /

बोधिनिमित्तमेवान्येषां सम्यग् ग्रन्थार्थादिद्वारेण प्रज्ञापारमिताप्रत्यर्पणं द्वितीयम् (कारणम्) /

बोधिप्राप्तये चाव्यवहितकारणं स्वतः प्रचुरतरप्रज्ञापारमिताभावनादिपुण्यलक्षणं तृतीयम् (कारणम्) /

का पुनरियं महाबोधिर्यदर्थं यथोक्तकारणसहायो दर्शनमार्गो ऽभिप्रेत इत्यन्तरश्लोकेन महाबोधिमाह -

क्षयानुत्पादयोर्ज्ञाने मलानां बोधिरुच्यते / क्षयाभावादनुत्पादात्ते हि ज्ञेये यथाक्रमम् // abhis_5.18 //

इति / क्लेशज्ञेयावरणमलानामुत्पन्नानुत्पन्नत्वेन कल्पितानां -

धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते /

इति धर्मधातुस्वभावानामाकाशस्येव निरोधोत्पादाभावाद् एकानेस्वभावकार्यकारणप्रमाणाद्युपपन्नभाववैधुर्याद् गगनकमलवद्वा यथाक्रमं मलानां क्षयोत्पादाभावाद् अक्षयानुत्पादज्ञानात्मिका सर्वधर्माविपरीताधिगतिलक्षणा यथावद् धमकायाद्यात्मिका महाबोधिरभिधीयत इति /

यस्मादेवं अतो ये भावविनाशाभिसन्धिना क्षीणे क्षीणमिति ज्ञानं क्षयज्ञानम्, भावानुत्पादाभिसन्धिना च अनुत्पन्ने ऽनुत्पन्नमिति ज्ञानमनुत्पादज्ञानं वर्णयन्ति / बोधिञ्च क्षयानुत्पादज्ञानं वर्णयन्ति / तेषां क्षयानुत्पादवैकल्याद् एतज्ज्ञानं न घटत इत्यन्तरश्लोकेनाह -

प्रकृतावनिरुद्धायां दर्शनाख्येन वर्त्मना / विकल्पजातं कि क्षीणं किं वानुत्पत्तिमागतम् // abhis_5.19 //

इति / उत्पन्नानुत्पन्नयोर्थथाक्रमं क्षयोत्पत्तिविघातलक्षणनिरोधेन अनिरुद्धायां परमार्थतस्तथतारूपायां प्रकृतौ सत्यां कतरद् विकल्पादिरूपमुत्पन्नं क्षीणं, कतरच्चानुत्पन्नम् अनुत्पत्तिधर्मकं जातं दर्शनमार्गबलेन वितथभावाभिनिवेशिनां भवताम्? यावता नैव किञ्चित् / तस्मादस्माकं मतमेवाङ्गीकर्तव्यमित्यभिप्रायः /

अन्यथा तात्त्विकधर्मसत्त्वोपगमे भगवतः सर्वथा विकल्पक्लेशज्ञेयावरणप्रहाणं महद्विस्मयस्थानीयं स्यादित्यन्तरश्लोकेनाह -

सत्त्वा च नाम धर्माणां ज्ञेये चावरणक्षयः / कथ्यते यत्परैः शास्तुरत्र विस्मीयते मया // abhis_5.20 //

इति / तत्र ह्यदयव्ययशून्यत्वान्नास्त्यात्मेति विभावयन्नात्माभिनिवेशं परित्यज्य तद्विविक्तस्कन्धादिकं प्रतीत्यसमुत्पन्नम् उदयव्ययधर्मकं समुपलभ्य नीलतद्धियोः सहोपलभ्भनियमाच्चित्तमात्रमेवेदं न बाह्यार्थो ऽस्तीति मनसिकुर्वन् अपरित्यक्तग्राहकाकारचित्ताभिनिवेशो बाह्यार्थाभिनिवेशं तिरस्कृत्य ग्राह्याभावे ग्राहकाभाव इति निध्यायंस्तामपि ग्राहकाकारलक्षणां विज्ञप्तिमात्रतामवधूय अद्वयज्ञानमेव केवलं भावतो भावरूपमिति निश्चित्य तदपि प्रतीत्यसमुत्पन्नत्वान्मायानिःस्वभावं तत्त्वतो ऽपगतैकान्तभावाभावादिपरामर्शरूपमिति भावयन् भावनाबलनिष्पत्तौ केषाञ्चिन्मणिरूप्यादिज्ञानवद् उत्सारितसकलभ्रान्तिनिमित्ताया मायोपमात्मप्रतिभासधियो निर्विकल्पायाः कथञ्चित् प्रत्यात्मवेद्यायाः समुत्पादे ज्ञेयावरणं सम्यग् योगी प्रजह्यात् / अन्यथा परैः सर्वदा आकाशस्य द्रव्याभावमात्ररूपधारणवद् अनाधेयानपनेयस्वरूपधारणाद् धर्माणां क्षणिकानां ज्ञानमात्ररूपाणां ज्ञेयलक्षणानाञ्च यदि परमार्थतो विद्यमानता स्यात् तदा प्रतिपक्षभावनया आकाशस्येव तेषां न किञ्चित् क्रियते / अतो भावाभिनिवेशविपर्यासाविनिवृत्या यद् भगवतः सर्वथाः ज्ञेयावरणप्रहाणं धर्माणाञ्च यत्सत्तोपगम्यते परैः तत्परस्परविरुद्धार्थाभ्युपगमे विस्मयस्थानीयं भवेत् /

इत्येवं भावपक्षं निराकृत्य निःस्वभावपक्षदृढीकारेण मुमुक्षुभिरिदमेवाङ्गीकर्त्तव्यमित्यन्तरश्लोकेन स्थानपक्षमाह -

नापनेयमतः किञ्चित् पक्षेप्तव्यं न किञ्चन / द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते // abhis_5.21 //

इति / यस्मादेवं भावाभिनिवेशेन मुक्तेरनुपपत्तिरतो अपवादसमारोपरूपमपनयनप्रक्षेपं कस्यचिद्धर्मस्याकृत्वा इदमेव प्रतीत्यसमुत्पन्नं संवृत्या तथ्यरूपं रूपादिनिःस्वभावादिरूपतो निरूपणीयम्, एवञ्च मायागजेन अपरमायागजपराजयवद् विपर्यासनिवृत्या तत्वदर्शी विमुच्यत इति /

इत्येवं प्रासङ्गिकमभिधाय प्रकृतं दर्शनमार्गमाह -

एकैकस्यैव दानादै तेषां यः सङ्ग्रहो मिथः / स एकक्षणिकः क्षान्तिसङ्गृहीतो ऽत्र दृक्पथः // abhis_5.22 //

इति / दानादिषट्पारमितानां प्रत्येकमेकैकभावे दानादौ यः परस्परं सर्वपारमितासङ्ग्रहः, सो ऽत्रैकक्षणिको मूर्धाभिसमये दुःखधर्मज्ञानक्षान्तिसंगृहीतः त्रिमण्डलविशुद्धिप्रभावितः षट्त्रिंशदाकारनिर्जातो दर्शनमार्गः /

अस्मिंश्च (दर्शनमार्गे) समुत्पन्ने कामरूपारूप्यधातुभेदेन प्रत्येकं चतुर्विकल्पनवप्रकारतया अष्टोत्तरशतग्राह्यग्राहकविकल्पप्रहाणेन तत्संगृहीतविकल्पजनकवासनाक्लेशाष्टोत्तरशतप्रहाणं प्रतीत्यसमुत्पादधर्मतयोपलभ्यते /

तत्र वशित्वार्थं तामेव पुनः पुनर्भावयतीति अन्तरश्लोकेनाह -

स समाधिं समापद्य ततः सिंहविजृम्भितम् / अनुलोमं विलोमञ्च प्रतीत्योत्पादमीक्षते // abhis_5.23 //

इति / स दर्शनमार्गप्राप्तो योगी क्लेशज्ञेयावरणभयाभावात् सिंहविजृम्भितं (नाम) समाधिं समापद्य उत्तरकालमविद्याप्रत्ययाः संस्कारा इत्याद्यनुलोमं जरामरणनिरोधो जातिनिरोधाद् इत्यादिप्रतिलोमं प्रतीत्यसमुत्पादं निरूपयति /

6 - भावनामार्गः (मूर्धप्रयोगः)

दर्शनमार्गमेवमभिधाय विपक्षप्रहाणादिकम् आधारप्रतिपत्तिपूर्वकं सुबोधमिति आधारं भावनामार्गमाह -

कामाप्तमवधीकृत्य विज्ञानमसमाहितम् / सनिरोधाः समापत्तीर्गत्वागम्य नव द्विधा // abhis_5.24 //

एकद्वित्रिचतुःपञ्चषट्सप्ताष्टव्यतिक्रमात् / अवस्कन्दसमापत्तिरनिरोधमतुल्यता // abhis_5.25 //

इति / बोधिसत्त्वाः प्रथमध्यानमारभ्य यावन्निरोधं गत्वा ततो निरोधमारभ्य यावत् प्रथमध्यानमागम्य एवमनुलोमप्रतिलोम (क्रम)-द्वयेन चतुर्ध्यान चतुरारूप्यनिरोधलक्षणा नव समापत्तीर्गत्वा आगम्य पुनः प्रथमं ध्यानं समापद्य ततो व्युत्थाय निरोधम्, एवं यावन्नैवसंज्ञानासंज्ञायतनान्निरोधं समापद्य, ततो व्युत्थाय अनन्तरसमापत्तिमालम्ब्य कामावचरं विज्ञानं मर्यादारूपेणावस्थाप्य उपायकौशल्यबलेन व्युत्थाय तदेव विज्ञानमसमाहितमामुखीकृत्य, ततो निरोधं ततो ऽसमाहितं ततो निरोधमेकं परित्यज्य नैवसंज्ञानासंज्ञायतनं ततो ऽसमाहिम् ततो द्वयं परित्यज्य आकिञ्चन्यायतनं ततो ऽसमाहितम्, एवं यावदष्टौ परित्यज्य प्रथमं ध्यानं ततो ऽसमाहितम्, इत्येकादिपरित्यागेनानिरोधसमापत्तिं यावद् विसदृशद्वारेण गच्छतीत्यतुल्यगाम् अवस्कन्दसमापत्तिं वशित्वलक्षणाम् आमुखीकृत्य भावनामार्गो भवति /

भावनामार्गमेवमभिधाय तत्र प्रहेयः चतुर्विधो विपक्षो वक्तव्यः / प्रथमं तावद् ग्राह्यविकल्पमाह -

संक्षेपे विस्तरे बुद्धैः सानाथ्येनापरिग्रहे / त्रैकालिके गुणाभावे श्रेयसस्त्रिविधे पथि // abhis_5.26 //

एको ग्राह्यविकल्पो ऽयं प्रयोगाकारगोचरः /

इति संक्षिप्तरूचिसत्त्वानुग्रहेण धर्मसंक्षेपे, विस्तररुचिसत्त्वानुकम्पया धर्मविस्तरे, यथाविहितार्थाननुष्ठानेन बुद्धसानाथ्यापरिग्रहे, समुत्पन्ननिरुद्धत्वेन प्रयोगमार्गगुणाभावे, सम्यगुत्पत्तिहेतुवैधुर्याद् दर्शनमार्गगुणाभावे, अनागतासत्त्वेन भावनामार्गगुणाभावे, विपर्यासशान्तत्वादिना निर्वाणप्रयोगमार्गे, शून्यताभिनिर्हारत्वेन दर्शनमार्गे, नैःस्वाभाव्यभावकत्वेन भावनामार्गे च प्रथमो ग्राह्यविकल्पः अस्यामवस्थायां प्रहेयत्वेन भावनामार्गप्रयोगावस्थायां नवविधो विषयी /

प्रथममेवं निर्दिश्य द्वितीयं ग्राह्यविकल्पमाह - द्वितीयश्चित्तचैत्तानां प्रवृत्तिविषयो मतः // abhis_5.27 // अनुत्पादस्तु चित्तस्य बोधिमण्डामनस्क्रिया / हीनयानमनस्कारौ सम्बोधेरमनस्कृतिः // abhis_5.28 //

भावने ऽभावने चैव तद्विपर्यय एव च / अयथार्थश्च विज्ञेयो विकल्पो भावनापथे // abhis_5.29 //

इति / कल्याणमित्रादिवैकल्याद् बोधिचित्तानुत्पादे, विशिष्टबुद्धालम्बनपुण्याभावाद् बोधिमण्डामनस्कारे, श्रावकगोत्रत्वात् तद्यानमनस्करणे, प्रत्येकबुद्धगोत्रत्वात् तद्यानामुखीकरणे, प्रज्ञापारमिताप्रतिपत्तिवैधुर्यात् सम्यक्सम्बोध्यमनस्करणे, सोपलम्भत्वेन भावनायां निरुपलम्भवत्त्वेन अभावनायाम्, अनुपलम्भाननुपलम्भत्वात् नभावनानाभावने, विपरीताभिनिवेशाद् अयथार्थत्वे च द्वितीयो ग्राह्यविकल्पः तस्यामवस्थायां प्रहेयत्वेन भावनामार्गे चित्तचैत्तप्रवृत्यवस्थायां नवविधो विषयी /

द्वितीयमेवं निर्दिश्य प्रथमं ग्राहकविकल्पमाह -

ग्राहकः प्रथमो ज्ञेयः सत्त्वप्रज्ञप्तिगोचरः / धर्मप्रज्ञत्यशून्यत्वसक्तिप्रविचयात्मकः // abhis_5.30 //

कृते च वस्तुनो यानत्रितये च स कीर्त्तितः / दक्षिणाया अशुद्धौ वा चर्यायाश्च विकोपने // abhis_5.31 //

इति / द्रव्यसदनुपपत्त्या सत्त्वप्रज्ञप्तौ, प्रतिभासमात्रत्वात् (सर्व)-धर्मप्रज्ञप्तौ, सर्वत्रगत्वात् सर्वाकारज्ञतादिधर्माशून्यत्वे, सर्वथाभिनिवेशाप्रहाणाद् धर्मसक्तौ, निःस्वभावावबोधेन धर्मप्रविचये, समुद्देशाकरणेन वस्तूद्देशकरणे, रूपाद्युपलम्भत्वाद् यानत्रयनिर्याणे, सम्यगप्रतिपन्नत्वेन दक्षिणाशुद्धौ, दानाद्युपलम्भप्रतिषत्त्या चर्याविकोपने च पूर्ववद् ग्राहकविकल्पो भावनामार्गप्रयोगावस्थायां नवविधो विषयी /

प्रथममेवं निर्दिश्य द्वितीयं ग्राहकविकल्पमाह -

सत्त्वप्रज्ञप्तितद्धेतुविषयो नवधा ऽपरः / भावनामार्गसम्बद्धो विपक्षस्तद्विघाततः // abhis_5.32 //

इति / विपक्षो द्वितीयो ग्राहकविकल्पः सत्त्वप्रज्ञप्तितद्व्यवस्थापनप्रतिभासमात्रहेतुविषयो भावनामार्गेण सम्प्रहेयत्वात् तत्सम्बद्धो नवप्रकारः /

कथं नवप्रकार इति चेद्? द्वाभ्यामन्तरश्लोकाभ्यामाह -

सर्वज्ञतानां तिसृणां यथास्वं त्रिविधावृतौ / शान्तिमार्गतथतादिसंप्रयोगवियोगयोः // abhis_5.33 //

असमत्वे च दुःखादौ क्लेशानां प्रकृतावपि / द्वयाभावे च संमोहे विकल्पः पश्चिमो मतः // abhis_5.34 //

इति / सर्वाकारापरिज्ञानेन सर्वाकारज्ञतावरणसंमोहे, सर्वमार्गापरिज्ञानेन मार्गज्ञतावरणसंमोहे, सर्ववस्त्वपरिज्ञानेन सर्वज्ञतावरणसंमोहे, प्रज्ञापारमिता ऽपरिज्ञानेन सर्वशान्तमार्गसंमोहे, तथताज्ञेयरूपाद्यपरिज्ञानेन तथतादिसंयोगवियोगसंमोहे, मारादिस्वरूपापरिज्ञानेन असमत्वसंमोहे, यथारूतार्थग्राहित्वेन दुःखादिसत्यसंमोहे, रागादिस्वभावापरिज्ञानेन क्लेशप्रकृतिसंमोहे, ग्राह्यग्राहकलक्षणापरिज्ञानेन अद्वयसंमोहे च पूर्ववत् पश्चिमो ग्राहकविकल्पो भावनामार्गचित्तचैत्तप्रवृत्त्यवस्थायां नवप्रकारो विषयी मतः //

तेषां भावनामार्गविपक्षाणां प्रहाणे चतुर्विधप्रतिपक्षो ऽपि तद्भेदेन भिन्नो ऽवगन्तव्यः /

पूर्ववद् अष्टोत्तरशतविकल्पप्रहाणसमकालमेव तत्संगृहीताष्टोत्तरशतक्लेशानां प्रहाणेन सर्वगुणसम्पदो भावनामार्गस्थं बोधिसत्त्वमाश्रयन्त इति द्वाभ्याम् अन्तरश्लोकाभ्यामाह -

आसां क्षये सतीतीनां चिरायोच्छ्वसिता इव / सर्वाकारजगत्सौख्यसाधना गुणसम्पदः // abhis_5.35 //

सर्वाः सर्वाभिसारेण निकामफलशालिनम् / भजन्ते तं महासत्त्वं महोदधिमिवापगाः // abhis_5.36 //

इति / भावनामार्गाभ्यासाद् आसां चतुर्विकल्पजातीनामुपद्रवत्वेन इतीनां क्षये सति संरोधवैकल्येन संहर्षोच्छ्वासप्राप्ता इव सर्वास्त्रियानसंगृहीता गुणसम्पदः कृपापारतन्त्र्यात् सर्वप्रकारजगत्सौख्योत्पादनदक्षा सर्वथाभिमुख्यागमनप्रकारेण प्रकर्षपर्यन्ताधिगमफलैः प्रातशोभं भावनामार्गस्थं बोधिसत्त्वमाश्रयन्ते महासमुद्रमिव नद्य इति /

7 - आनन्तर्यसमाधिः (मूर्धप्रयोगः)

भावनामार्गानन्तरमानन्तर्यमार्गमाह -

त्रिसाहस्रजनं शिष्यखड्गाधिगमसंपदि / बोधिसत्त्वस्य च न्यामे प्रतिष्ठाप्य शुभोपमाः // abhis_5.37 //

कृत्वा पुण्यबहुत्वेन बुद्धत्वाप्तेरनन्तरः / आनन्तर्यसमाधिः स सर्वाकारज्ञता च तत् // abhis_5.38 //

इति / श्रावकप्रत्येकबुद्धबोधिसत्त्वानां न्यामे त्रिसाहस्रमहासाहस्रलोकधातवीयसत्त्वान् प्रतिष्ठाप्य कश्चिद् यत्पुण्यं प्रस्रवति, तदुपमीकृत्य तद्विशिष्टपुण्यबहुत्वेन या सर्वाकारज्ञता तद् बुद्धत्वमिति बुद्धत्वप्राप्तेरव्यवहितो यः समाधिः सो ऽत्रानन्तर्यसमाधिः /

तदालम्बनादयः कीदृशा इति चेद्? अन्तरश्लोकेन आलम्बनादीनाह -

आलम्बनमभावो ऽस्य स्मृतिश्चाधिपतिर्मतः / आकारः शान्तता चात्र जल्पाजल्पिप्रवादिनाम् // abhis_5.39 //

इति / अस्य चानन्तर्यसमाधेः सर्वधर्माभावोपलब्धिः आलम्बनप्रत्ययः, स्मरणं चाधिपरिप्रत्ययः, प्रकृतिशान्तता चाकारः / अत्र च स्थाने दुरवगाहत्वाद् अविदितोपायकौशलानां प्रवादिनां (नाना)-चोद्यमुखपरम्पराप्रसर्पिणी (विप्रतिपत्तिः) इति उपायकौशलेन सा निराकर्तव्येति / अनेनास्य गभीरता अभिहितेत्यभिप्रायः /

8 - विप्रतिपत्तिः (मूर्धप्रयोगः)

विपर्यस्तमतीनां कीदृशीः विप्रतिपत्तीः निराकृत्य स समाधिरुत्पादयितव्य इति चेत्? समाधेरनन्तरं विप्रतिपत्तीराह -

आलम्बनोपपत्तौ च तत्स्वभावावधारणे / सर्वाकारज्ञताज्ञाने परमार्थे ससंवृतौ // abhis_5.40 //

प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः / विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः // abhis_5.41 //

लक्षणे भावनायाञ्च मता विप्रतिपत्तयः / सर्वाकारज्ञताधारा षोढा दश च वादिनाम् // abhis_5.42 //

इति संस्कृतासंस्कृतधात्वोरभावत्वेन आलम्बनोपपत्तौ, सर्वथा नीरूपत्वाद् आलम्बनस्वभावावधारणे, भावाभावानुपलम्भेन सर्वाकारज्ञताज्ञाने, तथतास्वभावत्वेन संवृतिपरमार्थसत्यद्वये, दानाद्यनुपलम्भेन प्रयोगे, बोद्धव्याभावाद् बुद्धरत्ने, नामधेयमात्रत्वाद् धर्मरत्ने, रूपाद्यालम्बनप्रतिषेधात् संघरत्ने, दानाद्यनुपलम्भेन उपायकौशले, भावाभावोभयरूपाधिगमप्रतिषेधात् तथागताभिसमये, प्रपञ्चव्यवस्थापितानित्यादित्वेन नित्यादिविपर्यासे, विभावितमार्गफलासाक्षात्करणेन मार्गे, हानोपादानाभावेन विपक्षे प्रतिपक्षे च, धर्म्यभावाद् धर्मलक्षणे, स्वसामान्यलक्षणानुपपत्त्या भावनायाञ्च परस्परविरुद्धा भाषार्थानुष्ठानेन अयुज्यमानतया संशयरूपाः षोडश विप्रतिपत्तीर्यथानिर्दिष्टविषयत्वेन सर्वाकारज्ञताधिष्ठानाः सर्वेषामेव अविदितबोधिसत्त्वोपायकौशलजनप्रवादिनां यथासम्भवमुभयसत्याश्रितोपायकौशलेन निराकृत्य सम्यक् सर्वथा निश्चयमुत्पाद्य कल्याणकामैर्बोधिसत्त्वैरानन्तर्यसमाधिरधिगम्यत इति /

इति अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे पञ्चमाधिकारवृत्तिः /

आनुपूर्विकाधिकारः षष्ठः

प्राप्तमूर्धा ऽभिसमयो व्यस्तसमस्तत्वेन अधिगतानर्थान् अनुपुर्वीकृत्य स्थिरीकरणाय विभावयतीत्यनुपूर्वाभिसमयमाह -

दानेन प्रज्ञया यावद् बुद्धादौ स्मृतिभिश्च सा / धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता // abhis_6.1 //

इति / त्रिमण्डलविशुद्धिप्रभावितदानादिषट्पारमितासर्वाकारपरिपूरणेन प्रज्ञापारमितान्तर्गतपारमिताचतुष्टयत्वात् सम्यग् दशभूमिनिष्पादकेन स्मृत्युपस्थानादिना सप्तबोध्यङ्गाकारेण आर्याष्टाङ्गमार्गतया च परमार्थतः अस्मरणलक्षणेन त्रिविधबुद्धानुस्मरणेन यथाक्रमं निर्वेधभागीयदर्शनभावनामार्गद्योतकेन तथैव कुशलाकुशलाव्याकृतधर्मानुस्मरणेन पूर्ववद् आर्यावैवर्तिकबोधिसत्त्वसंघस्मरणेन तथैव शीलत्यागदेवतानुस्मरणेन रूपादिसर्वधर्माभावे स्वभावावबुद्धेन च यो ऽधिगमः सानुपूर्वक्रियेष्यत इहेति /

इति अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे षष्ठाधिकारवृत्तिः /

एकक्षणाभिसम्बोधाधिकारः सप्तमः

विभावितानुपूर्वाभिसमयस्य स्वभ्यस्तीकरणाय तेषामेव क्षणेनैकेनाधिगम इत्येकक्षणाभिसम्बोधः / सो ऽपि लक्षणेन चतुर्विध इति /

1 - अविपाकलक्षणः

अविपाकानास्रवसर्वधर्मैकक्षणलक्षणेन प्रथम एकक्षणाभिसम्बोधः / इत्याह -

अनास्रवाणां सर्वेषामेकैकेनापि संग्रहात् / एकक्षणावबोधो ऽयं ज्ञेयो दानादिना मुनेः // abhis_7.1 //

धर्मधातुस्वभावरूपे -

एको भावः सर्वभावस्वभावः सर्वे भावा एकभावस्वभावाः / एको भावस्तत्त्वतो येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः //

इतिन्यायान्न केवलं बहुभिरेकस्य संग्रहः, अपि त्वेकक्षणदानादिज्ञानेन आलम्ब्यमानेन अपगतप्रतिनियतवस्तुग्रहणविपर्ययरूपेण दानाद्यशीत्यनुव्यञ्जनलक्षणानां धर्माणां संग्रहेण मुनेः बोधिसत्त्वस्यावबोधो हि एकक्षणाभिसम्बोध इति ज्ञातव्यः /

किमेवं पुनरेकानास्रवज्ञानालम्बने सर्वानास्रवसंग्रह इति चेत्? लौकिकदृष्टान्तेनाह -

अरघट्टं यथैकापि पदिका पुरुषेरिता / सकृत्सर्वं चलयति ज्ञानमेकक्षणे तथा // abhis_7.2 //

इति / यथैकापि पदिका पुरुषेरिता सकृदेकवारं सर्वमरघट्टं सच्छिल्पिपूर्वपरिकर्मसामर्थ्यात् चलयति तथा पूर्वप्रणिधानावेधधर्मधातुसामर्थ्याद् एकस्मिन्नेव क्षणे एकमनास्रवमालम्ब्यमानं सर्वं सजातीयमभिमुखीकारयतीति /

2 - विपाकलक्षणः

एवं प्रथमं निर्दिश्य विपाकधर्मतावस्थानास्रवसर्वधर्मैकक्षणलक्षणो भवत्येकक्षणाभिसम्बोधो द्वितीयः / इत्याह -

विपाकधर्मतावस्था सर्वशुक्लमयी यदा / प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा // abhis_7.3 //

यदा बोधिसत्त्वस्य प्रतिपक्षभावनया सर्वविपक्षापगमनेन सकलव्यवदानपक्षविपाकधर्मतावस्था सर्वकलङ्कापगमेन शरदिन्दुज्योत्स्नावत् शुक्लस्वभावा जाता तदा एकस्मिन्नेवक्षणे विपाकावस्थाप्राप्तानाम् अनास्रवधर्माणां बोधात् ज्ञानं प्रज्ञापारमिता एकक्षणाभिसम्बोध इति /

3 - अलक्षणलक्षणः

द्वितीयमेवं निर्दिश्य अलक्षणसर्वधर्मैकक्षणलक्षणः एकक्षणाभिसम्बोधस्तृतीयः / इत्याह -

स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिचर्यया / अलक्षणत्वं धर्माणां क्षणेनैकेन विन्दति // abhis_7.4 //

पूर्वं स्वप्नोपमसर्वधर्माभ्यासेन सम्भारद्वयमनुभूय अधिगमावस्थायां स्वप्नस्वभावेषु सर्वधर्मेषु उपादानस्कन्धादिषु स्थित्वा दानादिषट्पारमिताप्रतिपत्त्या दानादिरूपनिरूपणाकारेण अलक्षणाः सर्वधर्मा इति संक्लेशव्यवदानरूपाणां धर्माणाम् एकेनैव क्षणेनालक्षणत्वं जानातीत्येवमेकक्षणाभिसम्बोधः /

4 - अद्वयलक्षणः

तृतीयमेवं निर्दिश्य अद्वयलक्षणसर्वधर्मैकक्षणलक्षणः एकक्षणाभिसम्बोधश्चतुर्थः / इत्याह -

स्वप्नं तद्दर्शिनञ्चैव द्वययोगेन नेक्षते / धर्माणामद्वयं तत्त्वं क्षणेनैकेन पश्यति // abhis_7.5 //

निरन्तरदीर्घकालद्वयप्रतिभासप्रहाणाभ्याससात्मीभावाद् उन्मूलितद्वयप्रतिभासवासनो यदा बोधिसत्त्वो ग्राह्यग्राहकयोगेन स्वप्नं ग्राह्यं स्वप्नदशिंनं ग्राहकं नेक्षते, तदा सर्वे ऽप्वेवंधर्माणो धर्मा इति धर्माणामद्वयं तत्त्वम् एकेनैव क्षणेनाधिगच्छतीत्येकक्षणाभिसम्बोध इति /

इति अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे सप्तमाधिकारवृत्तिः /

धर्मकायाधिकारः अष्टमः

1 - स्वभावकायः

विभावितैकक्षणाभिसम्बोधस्य द्वितीये क्षणे धर्मकायाभिसम्बोधः / स च स्वाभाविककायादिभेदेन चतुर्विधः / (तत्र) प्रथमः स्वाभाविककाय इत्याह -

सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः / स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः // abhis_8.1 //

स्मृत्युपस्थानादयो ज्ञानात्मका लोकोत्तरा धर्मधातुरूपत्वाद् अनास्रवामलानामागन्तुकत्वेन सर्वप्रकारां विशुद्धिं प्रकृतिविविक्तलक्षणां प्राप्तास्तेषां या प्रकृतिः स्वभावो ऽनुत्पादरूपः, अयं मुनेर्बुद्धस्य भगवतो लोकोत्तरेण मार्गेण प्राप्यते, न क्रियत इत्यकृत्रिमार्थेन मायोपमविज्ञानसर्वधर्मप्रतिपत्त्याधिगतः स्वाभाविकः कायः /

परिशिष्टकायत्रयं तथ्यसंवृत्या प्रतिभासमानं परमार्थतो धर्मतारूपं यथाधिमोक्षप्रभावितं बुद्धबोधिसत्त्वश्रावकादिगोचरत्वेन व्यवस्थापितमिति कथनाय -

विविक्ताव्यतिरेकित्वं विवेकस्य यतो मतम् /

इतिन्यायात् तदव्यतिरेके ऽपि पृथग् व्यवस्थाप्यते /

2 - ज्ञानधर्मकायः

इत्थं प्रथमं कायं निर्दिश्य द्वितीयो निष्प्रपञ्चज्ञानात्मको धर्मकायः अनास्रवः स्मृत्युपस्थानाद्यात्मक इति तमाह -

बोधिपक्षाप्रमाणानि विमोक्षा अनुपूर्वशः / नवात्मिका समापत्तिः कृत्स्नं दशविधात्मकम् // abhis_8.2 //

अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः / अरणा प्रणिधिज्ञानमभिज्ञाः प्रतिसंविदः // abhis_8.3 //

सर्वाकाराश्चतस्रो ऽथ शुद्धयो वशिता दश / बलानि दश चत्वारि वैशारद्यान्यरक्षणम् // abhis_8.4 //

त्रिविधं स्मुत्युपस्थानं त्रिधा ऽसंमोषधर्मता / वासनायाः समुद्धातो महतो करुणा जने // abhis_8.5 //

आवेणिका मुनेरेव धर्मा ये ऽष्टादशेरिताः / सर्वाकारज्ञता चेति धर्मकायो ऽभिधीयते // abhis_8.6 //

इति / स्मृत्युपस्थानाद्यारभ्य आर्याष्टाङ्गमार्गपर्यन्ता बोधिपक्षाः / पूर्ववदप्रमाणानि मैत्र्यादिचतुर्ब्रह्मविहाराः / अध्यात्मं रूप्यरूपी बहिर्धा रूपाणि पश्यतीति द्वौः, शुभं विमोक्षं कायेन साक्षात्कृत्वोपम्पद्य विहरतीत्येकः, आकाशविज्ञानाकिञ्चन्यनैवसंज्ञानासंज्ञायतनानीति चत्वारः, संज्ञावेदितनिरोध इत्येकः इत्यष्टौ विमोक्षाः / रूपधातुचतुर्ध्यानानि चतुरारूप्यसमापत्तयो निरोधसमापत्तिरिति नव समापत्तयः / पृथिव्यप्तेजोवायुनीलपीतलोहितावदातविज्ञानाकाशमिति कृत्स्नं दशविधम् / अध्यात्मरूपारूपसंज्ञिनौ प्रत्येकं परीत्ताधिमात्राकाराभ्यां बहिर्धा रूपाणि पश्यतस्तान्यभिभूय जानीत इति चतुष्टयम्, अध्यात्मारूपसंज्ञी एव नीलपीतलोहितावदातानभिभूय पश्यतीति चतुष्टयमित्यष्टविधमभिभ्वायतनम् / परसन्तानगतक्लेशरणप्रबन्धोन्मूलनात् समाधिरित्यरणा / सम्यगपगतसर्वनिमित्तसङ्गव्याघातं संशयापनयनकारिप्रणिधानसमृद्ध्या आसंसारमसमाहितावस्थायां प्रवर्तत इति प्रणिधिज्ञानम्, षडभिज्ञाश्चतस्रश्च प्रतिसविदः पूर्वोक्ता आश्रयालम्बनचित्तज्ञानपरिशुद्धय इति चतस्रः शुद्धयः / आयुश्चित्तपरिष्कारकर्मोपपत्त्यधिमुक्तिप्रणिधानर्द्धिज्ञानधर्मवशिता इति दश वशिताः / पूर्वोक्तानि दश बलानि, चत्वारि वैशारद्यानि च / परिशुद्धकायवाङ्मनःसमुदाचारस्तथागतः, नास्त्यस्य विपरीतसमुदाचारता, यां परपरिज्ञानभयात् प्रच्छादयितव्यां मन्येत इत्यरक्षणं त्रिविधम् / धर्मदेशनायां श्रोतुकामाश्रोतुकामोभयकामेषु यथाक्रममनुनयप्रतिघोभयविविक्त एवोपक्षेकः स्मृतिमान् विहरतीति स्मृत्युपस्थानं त्रिधा / सत्त्वार्थक्रियाकालानतिक्रमलक्षणेत्यसंमोषधर्मता / क्लेशज्ञेयावरणानुशयरूपबीजप्रहाणाद् वासनायाः समुद्धातः सकलजनहिताशयता, महती करुणा जने ऽष्टादशावेणिका बुद्धधर्मा सर्वाकारज्ञता / ऽचऽ इति शब्देन संगृहीताः मार्गज्ञतादयो ऽपि प्रागुक्ताः /

सर्वे चाश्रयपरावृत्त्या परावृत्ता बोधिपक्षादयो निष्प्रपञ्चज्ञानात्मका धर्मकायो ऽभिधीयत इति केचित् /

अन्ये तु -

सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः / स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः //

इति यथारुतत्त्वेन लोकोत्तरानेवानास्रवान् धर्मानभ्युपगम्य तेषां यां प्रकृतिरनुत्पादता तल्लक्षणः स्वाभाविकः कायः, स एव च धर्मताकायो धर्मकाय इति भावप्रत्ययलोपाद् व्यपदिश्यत इति व्याख्याय, के पुनस्ते ऽनास्रवा धर्मा येषां प्रकृतिलक्षणो धर्मकाय इत्याशङ्क्य ऽबोधिपक्षाप्रमाणानीऽ त्यादिकारिकामवतारयन्ति / तेषां योगिसंवृत्या विशिष्टार्थप्रतिभासजननद्वारेणाश्रयपरावृत्त्या परावृत्ता धर्मदेशनाद्यर्थक्रियाकारिणो ऽवश्यमद्वयाश्चित्तचैताः कथमभ्युपगन्तव्याः? सङ्गृहीता इत्यपरे /

केचित् (कायचतुष्टयव्याख्याने) - स्वाभाविकः ससाम्भोगो नैर्माणिको ऽपरस्तथा / धर्मकायः सकारित्रश्चतुर्धा समुदीरितः //

इतिकारिकायां स्वाभाविकशब्दानन्तरं धर्मकायशब्दस्यापाठात् कायत्रयमेवेति / अन्ये तूपदर्शितप्रयोजनसामर्थ्यात् कारिकाबन्धानुरोधेन ज्ञानस्यैव कारित्रेण सम्बन्धार्थं चैवमुक्तम्, अतो ऽविरुद्धं सर्वं प्रदेशान्तराभिहितं कायचतुष्टयं भवतीति /

श्रावकाद्यरणासमाधेः बुद्धस्यारणासमाधेः वैशिष्ट्यदर्शनाय अन्तरश्लोकेनाह -

श्रावकस्यारणादृष्टेर्नृक्लेशपरिहारिता / तत्क्लेशस्रोतौच्छित्त्यै ग्रामादिषु जिनारणा // abhis_8.7 //

इति / मा ऽस्मद्दर्शनात् कस्यचित् क्लेशोत्पत्तिः स्यादिति मनुष्यक्लेशोत्पत्तिपरिहारिता श्रावकाद्यरणासमाधिः / तथागतानां तु सकलजनक्लेशप्रबन्धोन्मूलनं स्यादिति ग्रामादिषु अरणासमाधिविशेषः /

श्रावकादिप्रणिधिज्ञानात् तथागतप्रणिधिज्ञानस्य वैशिष्ट्यप्रदर्शनाय अन्तरश्लोकेनाह -

अनाभोगमनासङ्गमव्याघातं सदा स्थितम् / सर्वप्रश्नापनुद्बौद्धं प्रणिधिज्ञानमिष्यते // abhis_8.8 //

इति / निर्निमित्तत्वेन स्वरसप्रवृत्तम्, वस्त्वनभिनिवेशाद् रूपादिसङ्गविगतम्, सवासनक्लेशज्ञेयावरणप्रहाणात् सर्वज्ञेयाव्याघातम्, आसंसारमवस्थानात् सदा स्थितम्, सम्यक् प्रतिसंविल्लाभात् प्रश्नविसर्जनकारि ताथागतं प्रणिधिज्ञानमितीष्टम् / श्रावकादीनां विपरीतत्वेन नैवम् /

स्यादेवं नित्यं महाकरुणामयधर्मकायावस्थाने कथं (सकलप्राणभृतां) सदा नाथेक्रियेति? अन्तरश्लोकेन समाधानमाह -

परिपाकं गते हेतौ यस्य यस्य यदा यदा / हितं भवति कर्तव्यं प्रथते तस्य तस्य सः // abhis_8.9 //

इति / कल्याणमित्रादिसमवधानाद् बुद्धाद्यालम्बने परिपोषं गते हेतौ पूर्वावरोपितकुशलमूलबीजे सति, यस्य सत्त्वस्य यस्मिन् काले धर्मदेशनादिकं क्रियमाणमायतिपथ्यं भवति, तदा तस्यार्थकरणाय पूर्वप्रणिधानसमृद्ध्या तत्प्रतिभासानुरूपेणार्थक्रियाकारी भगवानिति (महाकरुणास्वभावधर्मकायावस्थानेन) सर्वदा चिन्तामणिरिवोपस्थितो ऽपि स्वकर्मापराधजनितहेतुवैधुर्यान्न फलदायकः प्रतिभासत इत्यभिप्रायः /

तत्कथमिति शंकायामन्तरश्लोकेन दृष्टान्तमाह -

वर्षत्यपि हि पर्जन्ये नैव बीजं प्ररोहति / समुत्पादे ऽपि बुद्धानां नाभव्यो भद्रमश्नुते // abhis_8.10 //

इति / यथा देवराजे वर्षत्यपि सति पूतीभावादिना अबीजीभूतं बीजं तिलादि न प्रादुर्भवति, तद्वद् बुद्धानां सकलमनोरथपरिपूरणदक्षाणां समुत्पादे ऽपि अभव्यो न भद्रं सद्धर्मश्रवणादिकं प्राप्नोतीति /

कथं ज्ञानात्मको धर्मकायः प्रतिनियतयोगिसन्तानाधारवर्ती प्रतिक्षणमुत्पद्यमानो व्यापो नित्य इति कथ्यत इति चेद्? अन्तरश्लोकेनाह -

इति कारित्रवैपुल्याद् बुद्धो व्यापी निरूच्यते / अक्षयत्वाच्च तस्यैव नित्य इत्यपि कथ्यते // abhis_8.11 //

इति / यथोक्तन्यायेनैवं सर्वत्र प्रतिभासद्वारेणार्थक्रियाकरणवैपुल्यात् प्रबन्धतया आसंसारमवस्थानेन च भगवतः क्षयाभावाद् यथाक्रमं बुद्धो व्यापी नित्य इत्यभिधीयते /

3 - सम्भोगकायः

कायद्वयमेवं निर्दिश्य लक्षणानुव्यञ्जनविराजितः साम्भोगिकः रूपकायस्वभावस्तृतीयः / तमाह -

द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम् / सांभोगिको मतः कायो महायानोपभोगतः // abhis_8.12 //

इति / द्वात्रिंशल्लक्षणाशीत्यनुव्यञ्जनात्मको ऽयं दशभूमिप्रविष्टमहाबोधिसत्त्वैः परमानवद्यमहायानधर्मसंभोगप्रीतिसुखोपभोगात् बुद्धस्य भगवतः साम्भोगिककायः /

कानि तानि द्वात्रिंशल्लक्षणानीति चेत्? पञ्चभिरन्तरश्लोकैराह -

चक्राङ्कहस्तः क्रमकूर्मपादो जालावनद्धाङ्गुलिपाणिपादः / करौ सपादौ तरुणौ मृदू च समुत्सदैः सप्तभिराश्रयो ऽस्य // abhis_8.13 //

दीर्घाङ्गुलिर्व्यायतपार्ष्णिगात्रं प्राज्यं त्वृजूच्छङ्खपदोर्ध्वरोमा / एणेयजङ्घश्च पटूरुबाहुः कोशावनद्धोत्तमबस्तिगुह्यः // abhis_8.14 //

सुवर्णवर्णः प्रतनुच्छविश्च प्रदक्षिणैकैकसुजातरोमा / ऊर्णाङ्कितास्यो हरिपूर्वकायः स्कन्धौ वृतावस्य चितान्तरांसः // abhis_8.15 //

हीनो रसः ख्याति रसोत्तमो ऽस्य न्यग्रोधवन्मण्डलतुल्यमूर्तिः / उष्णीषमूर्धा पृथुचारुजिह्वो ब्रह्मस्वरः सिंहहनुःसुशुक्लाः // abhis_8.16 //

तुल्याः प्रमाणे ऽविरलाश्च दन्ता अन्यूनसंख्या दशिकाश्चतस्रः / नीलेक्षणो गोवृषपक्ष्मनेत्रो द्वात्रिंशदेतानि हि लक्षणानि // abhis_8.17// इति / (1) गुरूणामनुगमनप्रत्युद्गमनादिना चक्राङ्कहस्तपादता / (2) दृढसंवरसमादानत्वात् कूर्मवत् सुप्रतिष्ठितपादता / (3) चतुःसंग्रहवस्तुसेवनाद् राजहंसवत् जालावनद्धाङ्गुलिपाणिपादता / (4) प्रणीतखाद्यभोज्यादिदानाद् मृदुतरुणहस्तपादता / (5) प्रणीततरलेह्यादिदानेन समुच्छ्रितहस्तपादस्कन्धग्रीवाप्रदेशत्वात् सप्तोच्छ्रयता / (6) वध्यमोक्षणत्वाद् दीर्घाङ्गुलिता / (7) जीवितानुग्रहणाद् आयतपार्ष्णिता / (8) प्राणातिपातविरत्या बृहदृजुगात्रता / (9) कुशलधर्मसमादानाद् उच्छङ्खपादता / (1)) गृहीतकुशलसमादानवर्धनात् ऊर्ध्वगरोमता / (11) सत्कृत्य विद्याशिल्पादिदानाद् एणेयजङ्घता / (12) संविद्यमानार्थयाचनकजनाप्रत्याख्यानात् पटूरूबाहुता / (13) सर्वजनब्रह्मचर्यसमादापनगुह्यमन्त्रारक्षणात् कोशगतबस्तिगुह्यता / (14) प्रणीतोपास्तरणदानात् सुवर्णवर्णता / (15) प्रासादादिवरदानात् श्लक्ष्णच्छविता / (16) सङ्गणिकादिपरिवर्जनात् प्रदक्षिणावर्तैकैकरोमता / (17) सर्वगुरुजनयथास्थाननिवेशनाद् ऊर्णाङ्कितमुखता / (18) सर्वथा मुखरवचनानवसादनात् सिंहपूर्वार्द्धकायता / (19) प्रियवादित्वसुभाषितानुलोमत्वात् सुसंवृतस्कन्धता / (20) भैषज्यादिदानात् चितान्तरांसता / (21) ग्लानजनोपस्थानाद् रसरसाग्रता / (22) वनारामादिकरणसमादापनात् न्यग्रोधपरिमण्डलता / (23) विहाराद्यभ्यधिकप्रदानादुष्णीषशिरस्कता / (24) श्लक्ष्णादिवचनात् प्रभूतजिह्वता / (25) सर्वलोकधातुसत्त्वसद्धर्मविज्ञपनाद् ब्रह्मस्वरता / (26) सम्भिन्नप्रलापविरत्या सिंहहनुता / (27) सर्वजनसम्मानादिना शुक्लदन्तता / (28) विशुद्धाजीवत्वात् समदन्तता / (29) सत्यवचनसमुदाचाराद् अविरलदन्तता / (30) पिशुनवचनानभ्यासात् समचत्वारिंशद्दन्तता / (31) सर्वसत्त्वैकपुत्रदर्शनाद् अभिनीलनेत्रता / (32) प्रतिघातादिविवेकदर्शनाद् गोपक्ष्मनेत्रता /

सिद्धकरणात् लक्षणं सिद्धं भवतीत्यन्तरश्लोकेनाह -

यस्य यस्यात्र यो हेतुर्लक्षणस्य प्रसाधकः / तस्य तस्य प्रयूर्यायं समुदागमलक्षणः // abhis_8.18 //

इति / येषां लक्षणानां ये प्रसाधकाः, तान् प्रपूर्य तानि द्वात्रिंशल्लक्षणानि प्रादुर्भवन्ति /

कानि तेषां कारणानीति चेत्? द्वाभ्यामन्तरश्लोकाभ्यामाह -

गुरूणामनुयानादिर्दृढता संवरं प्रति / सङ्ग्रहासेवनं दानं प्रणीतस्य च वस्तुनः // abhis_8.19 //

वध्यमोक्षसमादानं विवृद्धिः कुशलस्य च / इत्यादिको यथासूत्रं हेतुर्लक्षणसाधकः // abhis_8.20 //

इति / इमे द्वे कारिके उपर्येव लक्षणव्याख्यानावसरे स्फुटिते, अतो न पुनः विस्तीर्येत इति /

लक्षणान्येवं व्याख्याय द्वादशभिः अन्तरश्लोकैः अशीत्यनुव्यञ्जनान्याह -

ताम्राः स्निग्धाश्च तुङ्गाश्च नखा अंगुलयो मुनेः / वृत्ताश्चितानुपूर्वाश्च गूढा निर्ग्रन्थयः शिराः // abhis_8.21 //

गूढौ गुल्फौ समौ पादौ सिंहेभद्विजगोपतेः / विक्रान्तं दक्षिणं चारुगमनमृजुवृत्तता // abhis_8.22 //

मृष्टानुपूर्वते मेध्यमृदुत्वे शुद्धगात्रता / पूर्वव्यञ्जनता चारूपृथुमण्डलगात्रता // abhis_8.23 //

समक्रमत्वं शुद्धत्वं नेत्रयोः सुकुमारता / अदीनोत्सदगात्रत्वे सुसंहतनगात्रता // abhis_8.24 //

सुविभक्ताङ्गता ध्वान्तप्रध्वस्तालोकशुद्धता / वृत्तमृष्टाक्षताक्षामकुक्षिताश्च गभीरता // abhis_8.25 //

दक्षिणावर्तता नाभेः समन्ताद्दर्शनीयता / समाचारः शुचिः कालतिलकापगता तनुः // abhis_8.26 //

करौ तूलमृदू स्निग्धगम्भीरायतलेखता / नात्यायतं वचो बिम्बप्रतिबिम्बौपमौष्ठता // abhis_8.27 //

मृद्वी तन्वी च रक्ता च जिह्वा जीमूतघोषता / चारुमञ्जुस्वरो दंष्ट्रा वृत्तास्तीक्ष्णाः सिताः समाः // abhis_8.28 //

अनुपूर्वीं गतास्तुङ्गा नासिका परमं शुचिः / विशाले नयने पक्ष्मचितं पद्मदलाक्षिता // abhis_8.29 //

आयतश्लक्ष्णसुस्निग्धसमरोम्नौ भ्रुवौ भुजौ / पीनायतौ समौ कर्णावुपघातविवर्जितौ // abhis_8.30 //

ललाटमपरिम्लानं पृथुपूर्णोत्तमाङ्गता / भ्रभराभाश्चिताः श्लक्ष्णा असंलुलितमूर्तयः // abhis_8.31 //

केशा अपरुषाः पुंसां सौरभ्यादपहारिणः / श्रीवत्सः स्वस्तिकञ्चेति बुद्धानुव्यञ्जनं मतम् // abhis_8.32 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.