Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

अभिसमयालंकारवृत्तिः स्फुटार्था

Thông tin
GRETIL — Ram Shankar Tripathi: Abhisamayalankaravrti sputartha. Sarnath: Central Institute of Higher Tibetan Studies, 1977, pp. 3-44.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अभिसमयालंकारवृत्तिः स्फुटार्था

प्रज्ञापारमितोपदेशशास्त्रे आचर्यहरिभद्रकृता

अभिसमयालङ्कारवृत्तिः स्फुटार्था

सर्वाकारज्ञताधिकारः प्रथमः

नमः सर्वबुद्धबोधिसत्त्वेभ्यः मंगलाचरणम्

प्रज्ञापारमितायै यस्यास्तदलङ्कारकारिकाणाम् / सर्वालङ्करणार्थं क्रियते व्याख्या नमस्तस्यै // abhis_0.1 //

जगदासङ्गसङ्गेन त्वार्यासङ्गेन तायिना / आकर्ण्याजितनाथात्तन्महाशास्त्रं व्यभज्यत // abhis_0.2 //

जगद्धितपरो बन्धुः वसुबन्धुः स्वकाशयम् / चान्तर्ज्ञेयं समाश्रित्य तद्व्याख्यामकरोत्ततः // abhis_0.3 //

आर्यान्तर्गणितः ख्यातो विमुक्तिरिति तत्कृताम् / अकृतामिव तां द्रष्ट्वा चक्रे ऽन्यां मध्यया धिया // abhis_0.4 //

ततो विमुक्तिसेनेन शास्त्राण्यप्राप्य सर्वशः / श्रद्धाभूमिस्थितेनापि व्याख्याता स्वमनीषया // abhis_0.5 //

एवं विद्वद्वरैः प्रोक्ते किञ्चन्नैयून्यमीक्ष्यते / अस्मिन् सर्वं सुसम्पन्नं महदाश्चर्यकारकम् // abhis_0.6 //

अयं सुदुर्लभः पन्थाः गम्भीरश्च यथार्थकः / सुविमृश्यश्च विद्वद्भिः प्राप्तो बुद्धानुकम्पया // abhis_0.7 //

सर्वथा मम नास्त्येव गोचरो ऽप्यहमुत्सहे / पुण्यविध्यनुकूलत्वात् स्वपरोपचिकीर्षया // abhis_0.8 //

आर्यमैत्रेयः सदाचारानुवृत्तिमात्मनः प्रख्यापयन् स्वप्रतिसंविज्ज्ञानेन प्रज्ञापारमिताविषयकः प्रसाद एव सर्वश्रेयः प्राप्तिप्रधानहेतुरित्यवधृत्य परं निरतिशयानन्तगुणरत्नाकरभगवत्यां प्रवर्तयितुं प्रसादोत्पादनाय तावदादौ यथागुणाभिधानपुरःसुरं जननीं नमस्कुर्वन्नाह -

या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रावकान् या मार्गज्ञतया जगद्धितकृतां लोकार्थसम्पादिका / सर्वाकारमिदं वदन्ति मुनयो विश्वं यया संगतास् तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मात्रे नमः // abhis_1.1//

अनया कारिकया अस्याः अतिशयमाहात्म्यवत्त्वम् अमिहितम् / तच्छ्रुत्वा तावच्छ्रद्धानुसारिणः अस्यां निःसंशयमचिरेण श्रद्धामुत्पादयन्ति / धर्मानुसारिणो ऽपि एकानेकस्वभाववियुक्तत्वादित्यादिप्रमाणेन अनुत्पन्नवस्तुमार्गाकारपरिज्ञानकारिकार्थलक्षणजनन्यां बाधाम् अदृष्ट्वा त्रिसर्वज्ञतास्वरूपत्रयात्मिका बुद्धादिनिर्मात्री प्रज्ञापारमितावश्यमेव सम्भविनीत्यवधृत्य तस्यां प्रसादमुत्पादयन्ति / तस्यां प्रसादेन तद्गुणाभिलाषिणः उभयविधा अपि पुद्गलाः तत्तदाश्रितप्रवचनधारणाद्यर्थं सर्वथा अत्यन्तमाद्रियन्ते / ततः श्रुतमयादिज्ञानोत्पादक्रमेण सुश्रेयो ऽधिगताःभवन्ति / अत एव भगवत्यां प्रदास एव सर्वश्रेयो ऽधिगमहेतुः /

तत्र तिसृभिः सर्वज्ञताभिरष्टावर्थाः सङ्गृहीता भवन्ति / ताभिश्च वक्षमाणविधिना सर्वार्थाः सम्पत्स्यन्त इति मनसि निधाय त्रिसर्वज्ञताभिः प्रज्ञापारमितां स्तौति / श्रावकः, तत्पक्षनिक्षिप्तः किञ्चिद्विमोक्षाधिकः एकक्रम निर्दिष्टः प्रत्येकबुद्धश्च निर्वाणभिलाषिणौ, तयो अनुत्पन्नसर्ववस्तुज्ञतया सोपधिनिरुपधिलक्षणद्विविधनिर्वाणप्रापिका या, यावत्संसारं जगद्धितकृतां बोधिसत्त्वानामनुत्पन्नसर्वमार्गज्ञतया सर्वलोकार्थसम्पादिका या, अनुत्पन्नसर्वाकारज्ञतया यया सङ्गताः संयतकायाः प्रधानयोगीश्वरा बुद्धाः सर्वथा चरितप्रतिपक्षसर्वधर्मचक्रान् प्रवर्तयन्ति / तस्यै श्रावकादिपरिवृतबुद्धानामुत्पायित्र्यै मात्रे नमः / एवं नमस्कारस्तुतिपूवकेणाभिसमयालङ्कारशास्त्रेण वस्तुप्रतिपक्षाकारेषु कस्मिंश्चिदेकस्मिन् (पक्षे) संगृहीते, प्रथमपक्षे तावत्तदर्थपरिश्रमवैयर्थ्यम् / तथा हि न हि तदस्ति इह प्रज्ञापारमितायां वस्तुजातं यन्न लक्षणशास्त्रेषु उक्तपूर्वम् / द्वितीये व्यवदानवस्तु (मात्र) सङ्ग्रहात् सांक्लेशिकवस्त्वसंग्रहाच्च न ज्ञायते कस्यायं प्रतिपक्ष इति / तृतीते निर्वस्तुकाकारमात्रसंग्रहादर्थाधिगमशून्यादिह किञ्चिदपि नोक्तमिति व्यर्थ एव (शास्त्ररचनायासः) इति नापरे शङ्किष्यन्ते किम् इति चेत्? तन्नः, यतो हि यथाक्रमं श्रावकप्रत्येकबुद्धबोधिसत्त्वानुत्तरबुद्धानां त्रिसर्वज्ञतायां समस्ताभिसमयानां संग्रहणेन पक्षत्रयस्यापि संगृहीतत्वात् /

यथा मध्यमजिनजनन्यां - "सुभूते श्रावकप्रत्येकबुद्धयोः सर्वज्ञता, बोधिसत्त्वानां मार्गज्ञता, तथागतार्हत्सम्यक्सम्बुद्धानां सर्वाकारज्ञता / भगवन् किमर्थं सर्वज्ञता श्रावकप्रत्येकबुद्धयोः? सुभूते सर्वे हि यावन्तो बाह्याभ्यन्तरधर्माः, तावत एव श्रावकप्रत्येकबुद्धा जानन्ति, न तु मार्गेण, नापि सर्वाकारेण, अतः सर्वज्ञता श्रावकप्रत्येकबुद्धयोरिति / भगवन्, किमर्थं मार्गज्ञता बोधिसत्त्वानाम्? सुभूते बोधिसत्त्वैः, यं श्रावकस्य मार्गः, याः प्रत्येकबुद्धस्य मार्गः, यो बुद्धस्य मार्गः सर्वे मार्गा उत्पाद्यन्ते ज्ञायन्ते च / ते ऽपि परिपूर्यन्ते, तेषां मार्गाणां क्रियापि क्रियते / न यावत् प्रणिधानपरिसमाप्तिः, सत्त्वपरिपाकः, बुद्धक्षेत्रपरिशुद्धिर्वा क्रियते, न तावत्तेषां सम्यग्भूतान्तसाक्षात्कारः, अतः मार्गज्ञता बोधिसत्त्वानाम् / भगवन्, किमर्थं सर्वाकारज्ञता तथागतस्यार्हतः सम्यक्सम्बुद्धस्य? सुभूते, येन आकारेण, येन लिङ्गेन, येन निमित्तेन प्रख्याता धर्माः, तमाकारं तल्लिङ्गं तन्निमित्तं तथागता अवगच्छन्ति, अतः तथागतस्य अर्हतः सम्यक्सम्बुद्धस्य सर्वाकारज्ञतेति / "एवं संक्षिप्तायामपि (जिनजनन्यां) - "श्रावकभूमावपि शिक्षितुकामेनापि" इत्यादिकमाह / विस्तृतायामपि विस्तरेणाभिहितम् /

तत्र सर्वज्ञता हि रूपादिधर्मानित्यताद्यधिष्ठाना आत्ममोहप्रहाणफला; मार्गज्ञता सर्वयाननिर्याणा तत्त्वासाक्षात्काराधिष्ठाना असंगृहीतसत्त्वसंग्रहादिफलाः; सर्वाकारज्ञता सर्वधर्मानुत्पादाधिष्ठाना आकाशधातुपर्यन्ताविच्छिन्नसत्त्वार्थफला भूतान्ताधिगमवासनाप्रतिसन्धिप्रहाणात्मिका /

इत्थमभिसमयालङ्कारे सर्ववस्तुप्रतिपक्षाकारसंग्रहणेनाशेषाभिसमयनिर्देशः कृत इतीदमुपपद्यते /

ग्रन्थारम्भप्रयोजनम्

मन्दधीजनानां तु विस्तृतमध्मसंक्षिप्तासु भगवतीषु (संक्षिप्तमध्यविस्तृत) रुचिसम्पन्नसत्त्वहितेच्छया करुणामयेन तत्तज्जिनजनन्यां सकलप्रज्ञापारमितार्थाष्टाभिसमयक्रमो देशित एव, भगवत आर्याजितजिनस्य तन्निदर्शने किं प्रयोजनमितिशङ्कानिराकरणार्थसन्देहोत्पादनेन प्रवृत्त्यङ्गं स्वीयशास्त्राभिधेयप्रयोजनप्रयोजनप्रयोजनान्तर्भूतसम्बन्धांश्च प्रदर्शयन्नाह -

सर्वाकारज्ञतामार्गंः शासित्रा यो ऽत्र देशितः / धीमन्तो वीक्षिषीरंस्तमनालीढं परैरिति // abhis_1.2 //

स्मृतौ चाधाय सूत्रार्थं धर्मचर्यां दशात्मिकाम् / सुखेन प्रतिपत्सीरन्नित्यारम्भप्रयोजनम् // abhis_1.3 //

इति / सर्वाकारज्ञतैव हि बुद्धत्वमार्ग इति सर्वेषामभिसमयानामुपलक्षणत्वात्तस्यामेव तात्पर्यम् / त्रिप्रातिहार्यैः सकलजनानुशासकेन भगवता जिनजननीत्रये यो ऽभिधेयो देशितः, स अभिधानाभिधेयोपायोपेयप्रतिपत्तिरूपेण सम्बद्धः, बाह्येतरवीतरागादिभिः सर्वधर्मनैरात्म्यानभ्यस्तैः श्रुतमयादिप्रज्ञाक्रमेणानालीढ इति सुव्यवस्थापिते वासनासम्भूतस्मृतिज्ञाने बोधिचित्तदानप्रतिपत्त्याचारमष्टाभिसमयात्मकमशेषप्रज्ञापारमितासूत्रार्थं सम्यगाधाय सर्वत्रगधर्मधात्वधिगमलक्षणप्रमुदितभूम्याद्यधिगमक्रमेण सर्वाकारं साक्षात्कुर्यादिति प्रयोजनप्रयोजनाय विनेया अभिलषितप्रज्ञापारमितार्थबोधिचित्तप्रतिपत्त्यादिलक्षणानि सुखेन प्रतिपत्सीरन्निति शास्त्रारम्भप्रयोजनम् //

प्रज्ञापारमितायाः कायिकव्यवस्थापनम्

एवं सम्बन्धादीन् व्याहृत्य विनेयानां सुखेन प्रतिपत्तये सुप्रविभक्तस्यापि शास्त्रार्थस्य असंलुलितत्वेन व्याख्यानसौकर्यमवलोक्य पञ्चदशभिः कारिकाभिः समासव्यासनिर्देशेन प्रज्ञापारमितायाः कायिकव्यवस्थापनमाह -

प्रज्ञापारमिताष्टाभिः पदार्थैः समुदीरिता / सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता ततः // abhis_1.4 //

सर्वाकाराभिसम्बोधो मूर्धप्राप्तो ऽनुपूर्विकः / एकक्षणाभिसम्बोधो धर्मकायश्च ते ऽष्टधा // abhis_1.5 //

चित्तोत्पादो ऽववादश्च निर्वेधाङ्गं चतुर्विधम् / आधारः प्रतिपत्तेश्च धर्मधातुस्वभावकः // abhis_1.6 //

आलम्बनं समुद्देशः सन्नाहप्रस्थितिक्रिये / सम्भाराश्च सनिर्याणाः सर्वाकारज्ञता मुनेः // abhis_1.7 //

श्यामीकरणतादीनि शिष्यखड्गपथौ च यौ / महानुशंसो दृङ्मार्ग ऐहिकामुत्रिकैर्गुणैः // abhis_1.8 //

कारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसिताः / परिणामे ऽनुमोदे च मनस्कारावनुत्तमौ // abhis_1.9 //

निर्हारः शुद्धिरत्यन्तमित्ययं भावनापथः / विज्ञानां बोधिसत्त्वानामिति मार्गज्ञतोदिता // abhis_1.10 //

प्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः / अनुपायेन दूरत्वपायेनाविदूरता // abhis_1.11 //

विपक्षप्रतिपक्षौ च प्रयोगः समतास्य च / दृङ्मार्गः श्रावकादीनामिति सर्वज्ञतेष्यते // abhis_1.12 //

आकाराः सप्रयोगाश्च गुणा दोषाः सलक्षणाः / मोक्षनिर्वेधभागीये शैक्षो ऽवैवर्तिको गणः // abhis_1.13 //

समताभवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा / सर्वाकाराभिसम्बोध एष सोपायकौशलः // abhis_1.14 //

लिङ्गं तस्य विवृद्धिश्च निरूढिश्चित्तसंस्थितिः / चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः // abhis_1.15 //

प्रत्येकं दर्शनाख्ये च भावनाख्ये च वर्त्मनि / आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः // abhis_1.16 //

मूर्धाभिसमयस्त्रेधा दशधा चानुपूर्विकः / एकक्षणाभिसम्बोधो लक्षणेन चतुर्विधः // abhis_1.17 //

स्वाभाविकः ससांभोगो नैर्याणिको ऽपरस्तथा / धर्मकायः सकारित्रश्चतुर्धा समुदीरितः // abhis_1.18 //

इति / तत्र प्रथमकारिकाद्वयेन अष्टवस्तूनां संग्रहात् समासनिर्देशः, ततः त्रयोदशकारिकाभिः तस्यैवार्थं संगृह्य विस्तरेण व्याख्यानं भवति / इत्थं संक्षेपविस्तराभ्यां भाषितत्वेन सुभाषितम् / पिण्डार्थकारिकाणामेव शास्त्रप्रणेत्रा ऽचित्तोत्पादः परार्थायऽ - इत्यादिवक्ष्यमाणसकलशास्त्रेण व्याख्यास्यमानत्वात् तद्व्याख्यानेनैव व्याख्यानं सञ्चिन्त्य वीप्साभयेन नात्रैता व्याख्याताः /

सर्वाकारज्ञता 1 चित्तोत्पादः

इत्थं सकलपिण्डार्थ निर्दिश्य बोधिं प्राप्तुकामैर्बोधिसत्त्वैः फलभूतत्वात् सर्वाकारज्ञताधिगन्तव्येत्यादौ सर्वाकारज्ञतासंग्रहकारिकां व्याख्यातुकामः सालम्बनं चित्तोत्पादस्वरूपमाह -

चित्तोत्पादः परार्थाय सम्यक्सम्बोधिकामता /

बुद्धो भूत्वा यथाभव्यतया परार्थं प्रति यत्नं कुर्यामिति परार्थाय सम्यक्सम्बोध्यधिकामतालक्षणः प्रणिधिप्रस्थानस्वभावो द्विविधश्चित्तोत्पादः / सम्यक्सम्बोधिकामता च तत्प्रार्थना कुशलो धर्मच्छन्दश्चैतसिकः / विशिष्टविषयप्रतिभासमुत्पद्यमानं चित्तं "चित्तोत्पादः" इति कथं स (चैतसिकः) चित्तोत्पादो भवेत्? सत्यमेतत् / किन्तु कुशलधर्मच्छन्दलक्षणायां प्रार्थनायां सत्यां बोधिचित्तमुत्पद्यत इति कारणेनात्र कार्यं निर्दिष्टमेवं प्रार्थयितुः बोधिसत्त्वस्य सर्वे कुशला धर्मा वृद्धिं यान्तीति ज्ञापनाय चोपचारः समाश्रित इत्यदोषः / अन्यप्रकारेण प्रणिधानं प्रार्थना वा सम्यक्सम्बोधिकामता तत्सहचरितचित्तोत्पादः प्रार्थनयातिदिश्यते / एवञ्च प्रणिधानसहगतं तच्चित्तमुत्पद्यत इति ज्ञापनाय वा //

केयं सम्यक्संबोधिः? कश्च परार्थो यत्कामतात्मको यदर्थश्चित्तोत्पाद इति चेत्? उच्यते - समासव्यासतः सा च यथासूत्रं स चोच्यते // abhis_1.19 // तिसृष्वपि जिनजननीषु प्रज्ञापारमितायां दानादौ च देयदायकप्रतिग्राहकाद्यनुपलब्धिः प्रतिपत्तव्येति ज्ञापनार्थकेन; यथाभव्यसर्वसत्त्वान् निर्वाणे, मत्सरिणश्च दानादौ प्रतिष्ठापयितुकामेनास्यां प्रज्ञापारमितायां प्रतिपत्तव्यमितिप्रदर्शनपरेण वचनेन (वाक्येन) सूत्रार्थाविरुद्धेन समासव्यासतः परार्था सम्यक्सम्बोधिः निर्दिष्टा / इत्थं ऽचित्तोत्पादः परार्थाय सम्यक्सम्बोधिकामताऽ ज्ञातव्या / सर्वाकरग्रन्थतात्पर्यार्थनिर्देशावसरे सर्वं कथितं तथापि बहुवक्तव्यमाशङ्क्य न (अत्र प्रधानतः) समुल्लिखितम् /

एवं सालम्बनं चित्तोत्पादस्वरूपमभिधायेदानीं तस्य द्वाविंशतिप्रभेदान् द्वाभ्यामन्तरश्लोकाभ्यामाह -

भूहेमचन्द्रज्वलनैर्निधिरत्नाकरार्णवैः / वज्राचलौषधीमित्रैश्चिन्तामण्यर्कगीतिभिः // abhis_1.20 //

नृपगञ्जमहामार्गयानप्रस्रवणोदकैः / आनन्दोक्तिनदीमैघैर्द्वाविंशतिविधः स च // abhis_1.21 //

छन्द-आशय-अध्याशय-प्रयोग-दान-शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञा-उपाय-कौशल-प्रणिधान-बल-ज्ञान-अभिज्ञा-पुण्यज्ञान-बोधिपक्षानुकूलधर्म-करुणाविपश्यना-धारणीप्रतिभान-धर्मोत्सव-एकयान-धर्मकायैः सहगतः (चित्तोत्पादः) यथाक्रमं पृथिवी-कल्याणसुवर्ण-शुक्लपक्षवनचन्द्र-ज्वलन-महानिधान-रत्नाकर-महार्णव-वज्रपर्वतराज-भैषज्य-कल्याणमित्र-चिन्तामणि-आदित्य-धर्ममधुरसंगीति-महाराज-कोष्ठागार-महामार्ग-यान प्रस्रवणोदक-आनन्दोक्ति-नदीधारा-मेघैः-सदृशः; सर्वशुक्लधर्मप्रतिष्ठाभूतत्वात्, बोधिपर्यान्ताविकारित्वात्, सकलशुक्लधर्मविवृद्धिगमनात्, त्रिसर्वज्ञतावरणेन्धनदाहकत्वात्, सर्वसत्त्वसंतर्पणात्, गुणरत्नानामाश्रयभावात्, सर्वानिष्टोपनिपातैरक्षोभ्यत्वात्, संप्रत्ययदार्ढ्येनाभेद्यत्वात्, आलम्बनविक्षेपेणानिष्कम्प्यत्वात्, क्लेशज्ञेयावरणव्याधिप्रशमनात्, सर्वावस्थासु सत्त्वार्थापरित्यागात्, यथाप्रणिधानं फलसमृद्धेः, विनेयजनस्य परिपाचनात्, विनेयावर्जन करधर्मदेशकत्वात्, अव्याहतप्रभावत्वेन परार्थानुष्ठानात्, बहुपुण्यज्ञानसंभारकोशस्थानत्वात्, सर्वार्ययातानुयातत्वात्, संसारनिर्वाणान्यतरापातेन सुखसंवाहनात्, श्रुताश्रुतधर्मधारणादक्षयत्वात्, मोक्षकामानां विनेयानां प्रियश्रावणात्, असंभिन्न-ः परकार्यक्रियात्वात्, तुषितभवनवासादिसन्दर्शनयोग्यत्वात् यथासंख्यं भवति / इत्येवं ऽभूहेमचन्द्रज्वलनैतिरऽ त्यादिभिः द्वाविंशतिश्चित्तोत्पादा व्याख्याताः /

तत्र प्रथमास्त्रयो मृदुमध्याधिमात्रतयादिकर्मिकभूमिसङ्गृहीताः / ततः एकः प्रथमभूमिप्रवेशमार्गसङ्गृहीतः / तदन्तरं दश प्रमुदितादिदशभूमिसङ्गृहीता दर्शनभावनामार्गगोचराः / ततः पञ्च विशेषमार्गसङ्गृहीताः / तदन्तरं त्रयं चित्तोत्पादाः प्रयोगमौलपृष्ठद्वारेण बुद्धभूमिसङ्गृहीताः / इति चित्तोत्पादभेदः आदिकर्मिकभूमिमारभ्य यावद् बुद्धभूमि सङ्गृहीतः /

2 - अववादः

प्रसङ्गागत (चित्तोत्पाद)-भेदमभिधाय उत्पादितप्रथमादिबोधिचित्ताय यथाकालं बोधिसत्त्वाय प्रार्थितार्थबोधिचित्तोत्पादाय तदाक्षिप्तधर्मसिद्धये प्राप्तगुणपरिरक्षणेनाभिवृद्धये चोपदेशो ऽववाद इत्यत आह -

प्रतिपत्तौ च सत्येषु बुद्धरत्नादिषु त्रिषु / असक्तावपरिश्रान्तौ प्रतिपत्सम्परिग्रहे // abhis_1.22 //

चक्षुःषु पञ्चसु ज्ञेयः षड्स्वभिज्ञागुणेषु च / दृङ्मार्गे भावनाख्ये चेत्यववादो दशात्मकः // abhis_1.23 //

यथोक्तप्रभेदबोधिचित्तप्रतिपत्तौ संवृतिपरमार्थसत्यानतिक्रमेण श्रावकाद्यसाधारणतयाऽनुपलम्भयोगेन वर्तनमिति शिक्षणं प्रतिपत्त्यववादः /

दुःखे फलभूतरूपादिशून्यताप्रज्ञापारमितयोस्तथतारूपत्वादैकात्म्यमिति / समुदये शून्यताहेतुभूतरूपाद्योरव्यतिरिक्तत्वेन रूपादिर्न समुदयनिरोधसंक्लेशव्यवदानधर्मी इति / निरोधे शून्यतायामुत्पादनिरोधसंक्लेशव्यवदानहानिवृद्ध्यादिरहितायान्न रूपं यावन्नाविद्योत्पादो नाविद्यानिरोधो न बुद्धो बोधिरिति / मार्गे दानादिपारमिताभिरात्मनो ऽध्यात्मशून्यतादीनां बहिर्धाशून्यतादिभिः पूर्वान्तापरान्तयोश्च परस्परं न युक्तायुक्तत्वेन प्रतिपत्तिरित्युपदेशः सत्याववादः /

बुद्धे बुद्धबोध्योरेकत्वलक्षणत्वेन बुद्धकरधर्मलक्षणसर्वाकारज्ञताया अनुपलम्भे रूपाद्ययोजनेनालम्ब्यालम्बकसमताज्ञानमिति / धर्मे त्रिसर्वज्ञतासंगृहीतसमस्तवस्तुप्रतिपक्षाकारसङ्ग्रहैः सर्वधर्माणां सङ्गृहीतानां निःस्वभावतेति / संघे बुद्धरत्नान्तर्गतत्वेनार्हद्वर्ज्येषु फलस्थप्रतिपन्नकभेदेन सप्तसु महापुरुषेषु प्रत्येकबुद्धेन सहाष्टासु मृद्विन्द्रियादिभेदेन विंशतिसंख्यावच्छिन्नेष्यार्यावैवर्त्तिकबोधिसत्त्वशैक्षेष्वनुत्पादतया प्रवृत्तिरित्युपदेशो रत्नत्रयाववादः /

आरब्धवीर्यतया यथोक्तार्थानुष्ठानं प्रति कायादिसुखल्लिकत्वेन कस्यचिदभिनिवेशः स्यादित्यसक्तौ कायादीनामस्वभावतया देशनाववादः /

चिरतरकालाभ्यासेनापि समीहितार्थानिष्पत्तावुत्त्रसनजातीयस्य परिखेदः स्यादित्यपरिश्रान्तौ रूपादेर्यावत् सम्यक्सम्बोधेरमननतया देशनाववादः /

दशदिगवस्थितबुद्धादिभ्यः प्रत्यर्थं मार्गोपदेशे गृह्यमाणे चित्तावलीनता स्यादिति प्रतिपत्सम्परिग्रहे धर्माणां प्रकृत्यजातत्वेन शिक्षणमववादः / मांसवैपाकिकदिव्यप्रज्ञाधर्मबुद्धचक्षुषां यथासंख्यं प्रतिनियतवस्तुसर्वसत्त्वच्युत्युपपत्तिसर्वधर्माविकल्पानां सर्वार्यपुद्गलाधिगमसर्वाकारसर्वधर्माभिसम्बोधविषयाणां तथतयैकत्वेन प्रतिपत्तिरिति शिक्षणं पञ्चचक्षुरववादः /

ऋद्धिदिव्यश्रोत्रपरचित्तज्ञानपूर्वनिवासानुस्मृत्यभिसंस्कारिकदिव्यचक्षुरास्रवक्षयज्ञानाभिज्ञानां पृथिवीकम्पनादिसर्वलोकधातुस्थसूक्ष्मतरशब्दश्रवणसरागादिपरचित्तपरिज्ञानस्वपर-पूर्वानेकजात्यनुस्मरणसर्वरूपदर्शनक्लेशज्ञेयावरणप्रहाणकारित्राणामादिशान्तत्वेनावबोध इति देशना षडभिज्ञाववादः / चतुःसत्यसङ्गृहीतषोडशक्षणस्वभावं दर्शनमार्गं धर्मान्वयज्ञानक्षान्तिज्ञानात्मकं सर्वधर्मनिःस्वभावबोधेन मायाकार इव सर्वत्रानभिनिविष्टमूर्तिस्तत्प्रहातव्यवस्तुप्रतिपक्षत्वेन योगी विभावयतीति देशना दर्शनमार्गाववादः /

संस्कृतासंस्कृतयोरेकरूपत्वेन परस्परमशक्यव्यतिरेकप्रज्ञप्तिवद् यथोक्तदर्शनमार्गसंमुखीकृतवस्त्वव्यतिरेकालम्बनाद् दर्शनभावनयोरपृथग्भाव इति न लाक्षणिकं भावनामार्गव्यवस्थानम्, अथ च स तत्प्रहातव्यवस्तुप्रतिपक्षत्वेन विभाव्यते प्रतीत्यसमुत्पादधर्मतयेति देशना भावनामार्गाववाद इत्येवं बोधिचित्ततदाक्षित्पधर्मस्वभावप्रज्ञापारमितायां या प्रतिपत्तिरनुपलम्भाकारा, तस्या यदालम्बनं चत्वार्यसत्यानि, य आश्रयस्त्रीणि शरणानि, यो विशेषगमनहेतुरसक्तिः, यो ऽव्यावृत्तिगमनहेतुपरिश्रान्तिः, यो ऽनन्ययानगमनहेतुः प्रतिपत्संपरिग्रहः, यो ऽपरप्रत्यगामित्वहेतुः पञ्च चक्षूंषिः, यः सर्वाकारज्ञतापरिपूरिहेतुः षडभिज्ञाः, यौ निष्ठाहेतू दर्शनभावनामार्गौ, तत्सर्वमववादप्रकरणे निर्दिष्टमेतावतैव सर्वो ऽर्थः सम्पन्न इति दशविधो ऽववादः /

संघरत्नाधिकारे तत्सुबोधाय द्वौ अन्तरश्लोकौ इत्याह -

मृदुतीक्ष्णेन्द्रियै श्रद्धादृष्टिप्राप्तौ कुलङ्कुलौ / एकवीच्यन्तरोत्पद्य काराकाराकनिष्ठगाः // abhis_1.24 //

प्लुतास्त्रयो भवस्याग्रपरमो रूपरागहा / दृष्टधर्मशमः कायसाक्षी खड्गश्च विंशतिः // abhis_1.25 //

वक्ष्यमाणमार्गज्ञतासङ्गृहीतषोडशक्षणदर्शनमार्गम् आश्रित्य श्रद्धाधर्मानुसारिभेदेन प्रथमफलप्रतिपन्नको द्विविधः / ततः स्रोत आपन्नः / ततो देवमनुष्यकुलंकुलत्वेन स एवान्यो द्विविधः / ततो द्वितीयफलप्रतिपन्नको मृदुतीक्ष्णेन्द्रिय एवैकः श्रद्धादृष्टिप्राप्तः / ततः सकृदागामी / ततः स एकवीचिको ऽपरः / ततं तृतीयफलप्रतिपन्नकः पूर्ववच्छद्धादृष्टिप्राप्तः / ततः अनागामी अन्तराभवे उपपद्य, अभिसंस्कारे अनभिसंस्कारे च परिनिर्वायीति चतुर्धा / ततं एवाकनिष्ठगः प्लुतार्धप्लुतसर्वस्थानच्युतत्वेनोर्ध्वावक्रान्तापरस्त्रिविधः / ततः स एव भवाग्रगस्तु रूपवीतरागो दृष्टधर्मशमः कायसाक्षीति अपरो द्विविधः / ततो ऽर्हत्त्वफलप्रतिपन्नकः / ततः प्रत्येकबुद्ध इति विंशतिः /

3 - निर्वेधाङ्गम्

लब्धाववादस्यैवमादिकर्मिकस्य निर्वेधाङ्गभवनमिति निर्वेधाङ्गमाह -

आलम्बनत आकाराद्धेतुत्वात्सम्परिग्रहात् / चतुर्विकल्पसंयोगं यथास्वं भजतां सताम् // abhis_1.26 //

श्रावकेभ्यः सखड्गेभ्यो बोधिसत्त्वस्य तायिनः / मृदुमध्याधिमात्राणामूष्मादीनां विशिष्टता // abhis_1.27 //

बोधिसत्त्वानां श्रुतादिप्रकर्षप्राप्तमोक्षभागीयश्रद्धादिलक्षणकुशलमूलादूर्ध्वं चतुःसत्यप्रतिवेधानुकूलानि च चतुर्निर्वेधभागीयानि लौकिकभावनामयानि ऊष्मप्राप्त इति कुशलमूलम्, ततो मूर्धप्राप्तः, ततः क्षान्तिप्राप्तः, ततो ऽग्रधर्म इति मृद्वादिक्रमेण उत्पादो ऽथवा बोधिसत्त्वसम्बद्धमृद्विन्द्रियादिपुद्गलभेदेन वक्ष्यमाणमृदुमध्याधिमात्रालम्बनविशिष्टवस्त्वात्मकचतुःसत्यालम्बनधर्मदर्शन-प्रतिपक्षत्वेनानभिनिवेशाद्याकारविशेषात् यानत्रयाधिगमहेतुत्वविशेषादुपायकौशलकल्याणमित्रलक्षणसम्परिग्रहाद् दर्शनभावनामार्गाभ्यां प्रहातव्या ग्राह्यग्राहकचतुर्विकल्पाः वक्षमाणनयसम्बन्धेनोत्पन्नाः श्रावकादीनामूष्मादिभ्यो विशिष्टाः / तेषामूष्मादिकुशलमूलं न्याये रूपणादिलक्षणवस्त्वात्मकचतुःसत्यालम्बनमात्मदर्शनप्रतिपक्षत्वेनानित्याद्याकारप्रतिपन्नं स्वयानाधिगमहेतुभूतं सम्परिग्रहरहितं, चतुर्विधो विकल्पो ऽसंसृष्टो भवतीति व्यवस्थापनात् / बोधिसत्त्वानां निर्वेधभागीयानि उपायकौशलबलेन क्वचित् हेतुना, क्वचित् फलेन, क्वचित् स्वरूपतया, क्वचिद् धर्मताकारेण यथाभव्यतया चतुःसत्यवस्त्वालम्बनमिति वेदितव्यम् / संक्षिप्तव्याख्यामात्रं वक्तुकामेन न प्रपञ्चितम् / यत इदमेव व्यवस्थापनं ह्यतो ऽन्ययानमाश्रित्य कुत्रापि दूषणं नाभिधातव्यम् /

आलम्बनाकारयोः का विशेषता इत्यत आलम्बनाकारौ सप्तमिः अन्तरश्लोकैराह -

आलम्बनमनित्यादि सत्याधारं तदाकृतिः / निषेधो ऽभिनिवेशादेर्हेतुर्यानत्रयाप्तये // abhis_1.28 //

रूपाद्यायव्ययौ विष्ठास्थिती प्रज्ञप्त्यवाच्यते /

तत्र मृदुन अनित्यादिषोडशाकारं दुःखादिचतुःसत्याधारमालम्बनम् / दुःखादिसत्याभिनिवेशालम्बनादीनां निषेधः तदाकृतिः / यानत्रयाधिगमप्राप्तये हेतुभावः सर्वेषामेवोष्मादीनां वेदितव्यः /

अधिमुक्तिना तत्त्वमनस्कारेण च यथासंख्यं रूपादीनां प्रतिपत्तेः निषेधस्य चानुपलम्भनं न समनुदर्शनमिति मध्यस्यालम्बनम् /

सर्वनामधेयाभावेन प्रबन्धविसदृशप्रबन्धसदृशप्रवृत्तिलक्षणयोरभाव इत्याकृतिः /

रूपमारभ्य यावद्बुद्ध इति सर्वधर्मसाङ्केतिको व्यावहारिकधर्म इत्यधिमात्रस्यालम्बनम् / कुशलादिधर्मता न केनचिद् वचनीया इत्याकृतिः / इत्यालम्बनाकारवन्निर्विकल्पज्ञानाग्नेः पूर्वरूपत्वादूष्मगतं त्रिविधम् / रूपादावस्थितिस्तेषां तद्भावेनास्वभावता // abhis_1.29 // तयोर्मिथःस्वभावत्वं तदनित्याद्यसंस्थितिः / तासां तद्भावशून्यत्वं मिथः स्वाभाव्यमेतयोः // abhis_1.30 //

अनुद्ग्रहो यो धर्माणां तन्निमित्तासमीक्षणम् / परीक्षणञ्च प्रज्ञायाः सर्वंस्यानुपलम्भतः // abhis_1.31 //

इति / अत्र स्वभावशून्यतया रूपादीनां रूपादिस्वभावेनापगतस्वभावता, ततः रूपाद्यस्थानमिति मृदुन आलम्बनम् / परमार्थेन रूपादिसर्वधर्मशून्यतयोः परस्परमेकं रूपमिति शून्यतायामनित्यत्वादीनामभावेन रूपादौ न नित्यानित्यादिभिः स्थानमित्याकारः /

धर्मधातुरूपतयानित्यादिशून्यतानां स्वनिःस्वभावत्वादनित्यादिशून्यतानां परस्परमैकात्म्यमिति मध्यस्यालम्बनम् / यं स्वभावप्रतिषेधेनास्वीकारो रूपादीनां स आकार इति /

स्वभावाभावतयैव नीलादिनिमित्तादर्शनं रूपादीनामिति अधिमात्रस्यालम्बनम् / सम्यग्धर्मप्रविचयत्वेन प्रज्ञायाः सर्ववस्तुनो ऽनुपलम्भतया निरूपणमित्याकारः / इत्यालम्बनाकारवच्चलकुशलमूलमूर्धत्वान्मूर्धगतं त्रिविधम् /

रूपादेरस्वभावत्वं तदभावस्वभावता / तदजातिरनिर्याणं शुद्धिस्तदनिमित्तता // abhis_1.32 //

तन्निमित्तानधिष्ठानानधिमुक्तिरसंज्ञतां /

इति / अत्र शून्यता रूपलक्ष्यलक्षणयोरेकत्वेनास्वभावो रूपादीनामिति मृदुन आलम्बनम् / आलम्बकजनं प्रति अभावस्वभावता रूपादीनामित्याकारः /

प्रकृत्यस्वभावत्वेन रूपादीनामनुत्पादानिरोधाविति(मध्यस्य) आलम्बनम् / सर्वधर्मस्वरूपावबोधेन कायादीनां सर्वाकारविशुद्धिरित्याकारः /

स्वसामान्यलक्षणानुपपत्त्या सर्वधर्माणामनिमित्तत्वमिति अधिमात्रस्यालम्बनम् / प्रकृत्यैव रूपादिनिमित्तानामाश्रयरहितत्वेनाधिमोक्षमनस्कारानधिमोक्षतत्त्वमनस्कारापरिज्ञानमिति आकारः / इत्यालम्बनाकारवदपायाभावेनाधिमात्रधर्मक्षमणात् क्षान्तिगतं त्रिविधम् / समाधिस्तस्य कारित्रं व्याकृतिर्मननाक्षयः // abhis_1.33 // मिथस्त्रिकस्य स्वाभाव्यं समाधेरविकल्पना / इति निर्वेधभागीयं मृदुमध्याधिमात्रतः // abhis_1.34 //

इति / अत्र सर्वधर्माणामनुत्पादस्य वीरंगमादीनाञ्च समाधिर्भावनीय इति मृदुन आलम्बनम् / स्वप्रणिधानपुण्यज्ञानधर्मधातुबलेनानाभोगात्सर्वलोकधातुषु यथाभव्यतया समाधेर्व्यापारः प्रवर्तत इत्याकारः /

धर्मतैषा सम्यक्प्रतिपन्नसमाधेर्योगिनो बुद्धैर्व्याकरणं क्रियत इति मध्यस्यालम्बनम् / सर्वविकल्पानुपपत्त्या विदितसमाधिस्वरूपस्य बोधिसत्त्वस्याहं समाहितं इत्यादिज्ञानं न सम्भवतीत्याकारः /

धर्मतया समाधिबोधिसत्त्वप्रज्ञापारमितार्थत्रयस्य परस्परमेकं रूपमित्यधिमात्रस्यालम्बनम् / सर्वधर्माविद्यमानत्वेन समाधेरविकल्पनं परमोपाय इत्याकारः / इत्यालम्बनाकारवल्लौकिकसर्वधर्माग्रत्वादग्रधर्माख्यं त्रिविधम् /

आलम्बनमनित्यादि सत्याधारमतिरिच्य आलम्बनविशिष्टाकारयोः धर्मधर्म्यभिधाने सत्यपि आलम्बनविशिष्टाकारयोः धर्माभिधानेन सर्वत्र उच्यमाने ऋते विशिष्टान्तरपरिहारापरिहारौ नानयोः कश्चित् प्रतिविशेष इति न्यायात् / अथवा कारिकाच्छन्दानुरोधेन भिन्नाभिधाने ऽपि अभिनिवेशादिनिषेधयुक्तयोः तत्त्वतः विधानप्रतिषेधरहितत्वाद् दुःखादिसत्यान्तर्गतमेवालम्बनमाकारश्च क्रियेते / तथैवापरत्रापि बोद्धव्यम् /

चतुर्विकल्पसंयोगस्य स्फुटार्थावबोधाय द्वौ अन्तरश्लोकौ आह -

द्वैविध्यं ग्राह्यकल्पस्य वस्तुतत्प्रतिपक्षतः / मोहराश्यादिभेदेन प्रत्येकं नवधा तु सः // abhis_1.35 //

इति / सांक्लेशिकवस्त्वधिष्ठानत्वेन प्रतिपक्षाधिष्ठानत्वेन च प्रकारद्वये ऽविद्याव्यवदानस्कन्धादिप्रभेदा नवधा /

द्रव्यप्रज्ञप्त्यधिष्ठानो द्विविधो ग्राहको मतः / स्वतन्त्रात्मादिरूपेण स्कन्धाद्याश्रयतस्तथा // abhis_1.36 //

इति / अत्र पुद्गलद्रव्यसत्पुरुषप्रज्ञप्तिसदुपलम्भत्वेन द्विविधो ग्राहकविकल्पो ऽपि / स्वतन्त्रात्मस्कन्धाद्युपलम्भेन प्रत्येकं नवप्रकारो भवति /

तत्रायमेव संक्षेपार्थः-संक्लेशवस्त्वधिष्ठानाः (यथा)-अविद्या-रूपाdi-skandha-nआमरूपाभिनिवेश-अन्तद्वयसक्ति-संक्लेशव्यवदानाज्ञान-आर्यमार्गाप्रतिष्ठान-उपलम्भ-आत्मादि-विशुद्ध्युत्पादादिग्राह्यविकल्पाः /

प्रतिपक्षाधिष्ठाना-राशि-आयद्वार-गोत्र-उत्पाद-शून्यता-पारमितार्थ-दर्शन-भावना-अशैक्षमार्गाश्चेति ग्राह्यविकल्पाः /

पुद्गलद्रव्यसदधिष्ठानाः-स्वतन्त्रात्म-एक-कारण-द्रष्टाद्यात्म-संक्लेश-वैराग्य-दर्शन-भावना-कृतार्थाधाराश्चेति ग्राहकविकल्पाः /

प्रज्ञप्तिसत्पुरुषाधिष्ठानाः-स्कन्ध-आयतन-धातु-प्रतीत्यसमुत्पाद-व्यवदान-दर्शन-भावना-विशेष-अशैक्षमार्गाश्चेति ग्राहकविकल्पाः /

इत्येवं चतुर्विकल्पाश्चतुर्निवेधभागीयैर्यथाक्रमं संयुक्ता भवन्ति /

सम्बद्धकारिकानुसारम् उक्तपूर्वे ऽपि सम्परिग्रहे तद्बलेन यथोक्तविशेषो भवतीति दर्शनाय तदनन्तरमन्तरश्लोकः -

चित्तानवलीनत्वादि नैःस्वाभाव्यादिदेशकः / तद्विपक्षपरित्यागः सर्वथा सम्परिग्रहः // abhis_1.37 //

चित्तानबलीनत्वानुत्त्रासादिनोपायकौशल्येन यथाशयं मात्सर्यादिविपक्षधर्मवियुक्तः समस्तवस्तुनैरात्म्यादिदेशकः कल्याणमित्रमिति सम्परिग्रहः /

4 - प्रतिपत्तेराधारः

प्रतिपत्तिमतो यथोक्तनिर्वेधभागीयमन्यदपि दर्शनमार्गादिकमिति प्रतिपत्तेराधारमाह -

षोढाधिगमधर्मस्य प्रतिपक्षप्रहाणयोः / तयोः पर्युपयोगस्य प्रज्ञायाः कृपया सह // abhis_1.38 //

शिष्यासाधारणत्वस्य परार्थानुक्रमस्य च / ज्ञानस्यायत्नवृत्तेश्च प्रतिष्ठा गोत्रमुच्यते // abhis_1.39 //

तत्रादौ तावच्चतुर्विधलौकिकनिर्वेधभागीयानामुत्पादाधारः / ततो लोकोत्तरदर्शनभावनामार्गयोः / ततस्तदुत्पत्तिबलेन चौरनिष्कासनकपाटपिधानवत् समकालं समस्तप्रतिपक्षोत्पादविपक्षनिरोधयोः / ततस्तदनुपलब्ध्या तदुत्पादनिरोधयुक्तविकल्पापगमस्य / ततं पूर्वप्रणिधानदानाद्युपायकौशल्यबलेन संसारनिर्वाणाप्रतिष्ठानयोः प्रज्ञाकरुणयोः / ततस्तदुत्पत्त्या श्रावकाद्यसाधारणधर्मस्य / ततो यथाशयमवतारणाद्यभिसन्धिद्वारेण यानत्रयप्रतिष्ठापनलक्षणपरार्थानुक्रमस्य / ततो यावदासंसारं निर्निमित्तानाभोगपरार्थज्ञानस्य चाधारः / अयमेवानुक्रमः / अनेनैव सर्व पुरुषार्थाः सम्पद्यन्ते /

प्रतिपत्तिधर्मावस्थान्तरभेदेन त्रयोदशविधो बोधिसत्त्वो यथोक्तधर्माधारो धर्मधातुस्वभाव एव गोत्रमिति निर्दिष्टम् /

यदि धर्मधातोरेवार्यधर्माधिगमाय हेतुत्वात्तदात्मको बोधिसत्त्वः प्रकृतिस्थमनुत्तरबुद्धधर्माणां गोत्रम्, तदा तत्सामान्यवर्तित्वाद् ऽन बोधिसत्त्व एवेतिऽ मन्दबुद्धि पुरुषं प्रत्याशंक्य अन्तरश्लोकमाह -

धर्मधातोरसम्भेदाद् गोत्रभेदो न युज्यते /

यथा श्रावकयानाद्यधिगमक्रमेणालम्बेत तथार्यधर्माधिगमाय धर्मधातोर्हेतुभावेन व्यवस्थापनाद् गोत्रत्वेन व्यपदेश इत्यपि समाधिः दृश्यते, तथापि सौकर्यात् लौकिकदृष्टान्तेनापि समाध्यन्तरमाह - आधेयधर्मभेदात्तु तद्भेदः परिगीयते // abhis_1.40 // यथैकमृद्द्रव्याभिनिर्वृत्तैकतेजःपरिपक्वाधारघटादेराधेयक्षौद्रशर्करादिभाजनत्वेन भेदस्तद्बद् यानत्रयसङ्गृहीताधिगन्तव्याधेयधर्मनानात्वेनाधारनानात्वं निर्दिष्टमिति /

5 - आलम्बनम्

यथोक्तप्रतिपत्त्याधारस्य किमालम्बनमित्याह -

आलम्बनं सर्वधर्मास्ते पुनः कुशलादयः / लौकिकाधिगमाख्याश्च ये च लोकोत्तरा मताः // abhis_1.41 //

सास्रवानस्रवा धर्माः संस्कृतासंस्कृताश्च ये / शिष्यसाधारणा धर्मा ये चासाधारणा मुनेः // abhis_1.42 //

तत्रादौ तावत् सामान्येन (सर्वधर्माः) कुशलाकुशलाव्याकृताः यथाक्रमं श्रामण्यताप्राणातिपाताद्यव्याकृतकायकर्मादयः / ततस्तेषामेव लौकिकादिद्विविधस्यावशिष्टाश्चत्त्वारो भेदाः, यथासंख्यं बालपृथग्जनसम्बद्धाः पञ्च स्कन्धाः, सर्वार्यजनसंगृहीतानि चत्वारि ध्यानानि, आत्मदर्शनाप्रतिपक्षत्वेन पञ्चोपादानस्कन्धाः / तद्दर्शनप्रतिपक्षत्वेन चत्वारि स्मृत्युपस्थानानि / हेतुप्रत्ययाधीनाः कामादिधातवः / कारणानपेक्षाः तथता / सर्वार्यजनसन्तानप्रभवानि चतुर्ध्यानानि / सम्यक्सम्बुद्धसन्तानोदयधर्मीणि दशबलानि इत्येवमधिगमानुक्रमेण सर्वधर्मा यथावदालम्ब्यन्त इत्यालम्बनमेकादशविधम् /

6 - समुद्देशः

तादृशालम्बनप्रतिपत्तेः कः समुद्देश इति समुद्देशमाह -

सर्वसत्त्वाग्रता चित्तप्रहाणाधिगमत्रये / त्रिभिर्महत्त्वैरुद्देशो विज्ञेयो ऽयं स्वयम्भुवाम् // abhis_1.43 //

सर्वथा सर्वाकारज्ञतापरिज्ञानेन भविष्यद्बुद्धबोधिसत्त्वानां सर्वसत्त्व (राशि)-अखिलसत्त्व (निकाय)-अग्रताचित्तमहत्त्वं प्रहाणमहत्त्वमधिगममहत्त्वञ्चाधिकृत्य प्रतिपत्तौ प्रवृत्तत्वान्महत्त्वान्महत्त्वत्रययुक्तत्वाच्च त्रिविधः समुद्देशो ज्ञातव्यः /

7 - सन्नाहप्रतिपत्तिः

इत्येवं प्रतिपत्त्याधारादीन् अभिधाय किञ्च तत्स्वरूपमिति चेत्? सा त्रिसर्वज्ञताविषये सामान्येन शुक्लधर्माधिष्ठाना, सर्वाकाराभिसम्बोधादौ चतुर्विधे ऽभिसमये प्रत्यभिसमयं षट्पारमिताधिष्ठाना च क्रिया परिपत्तिः / एवं यथावत् प्रयोगदर्शनभावनाविशेषमार्गस्वभावानां प्रतिपत्तिलक्षणानां सन्नाहप्रस्थानसम्भारनिर्याणानां मध्ये

वीर्यरूपतया सन्नाहप्रतिपत्तिं प्रथमामाह -

दानादौ षड्विधे तेषां प्रत्येकं संग्रहेण या / सन्नाहप्रतिपत्तिः षा षड्भिः षट्कैर्यथोदिता // abhis_1.44 //

इति / धर्मदानादिदाने श्रावकादिमनस्कारपरिवर्जनम्, सर्वजनाप्रियवादित्वक्षान्तिः, छन्दजननम्, यानान्तराव्यवकीर्णैकाग्रतानुत्तरसम्यक्सम्बोधिपरिणामना यथाक्रमं देयाद्यनुपलम्भसन्नाहत्वेन क्रियन्ते / तथैव शीलस्य रक्षणम्, क्षान्तेः सम्पादनम्, वीर्यस्य प्रारम्भः, ध्यानस्य आराधनम्, प्रज्ञाया भावना इत्येवं दानादिषट्पारमितासु प्रत्येकं दानादौ संगृहीतासु षड्भिः षट्कैः षट्त्रिंशद्विद्या भवन्ति दानादिसाधर्म्याच्च षट् सन्नाहप्रतिपत्तयो भवन्ति /

8 - प्रस्थानप्रतिपत्तिः

कृतसन्नाहस्यैवं प्रस्थानमिति प्रस्थानप्रतिपत्तिं द्वितीयामाह -

ध्यानारूप्येषु दानादौ मार्गै मैत्र्यादिकेषु च / गतोपलम्भयोगे च त्रिमण्डलविशुद्धिषु // abhis_1.45 //

उद्देशे षट्स्वभिज्ञासु सर्वाकारज्ञतानये / प्रस्थानप्रतिपज्ज्ञेया महायानाधिरोहिणो // abhis_1.46 //

ध्यानारूप्यसमापत्ति-दानादिषट्पारमिता-दर्शनभावनाशैक्षविशेषमार्ग-चतुरप्रमाण-अनुपलम्भयोग-सर्ववस्तुत्रिमण्डलविशुद्धि-उद्देश-षडभिज्ञा-सर्वाकारज्ञतासु सम्यग्व्यवस्थितिलक्षणा हि समस्तमहायानधर्माक्रमणस्वभावा प्रस्थानप्रतिपत्तिः नवधा /

9 - सम्भारप्रतिपत्तिः

कृतप्रस्थानस्यैवं सम्भार इति सम्भारप्रतिपत्तिं तृतीयामाह -

दया दानाधिकं षट्कं शमथः सविदर्शनं / युगनद्धश्च यो मार्गं उपाये यच्च कौशलम् // abhis_1.47 //

ज्ञानं पुण्यं मार्गश्च धारणी भूमयो दश / प्रतिपक्षश्च विज्ञेयः सम्भारप्रतिपत्क्रमः // abhis_1.48 //

महाकरुण-दान-शील-वीर्य-ध्यान-प्रज्ञा-शमथ-विदर्शना-युगनद्धमार्ग-उपायकौशल-ज्ञान-पुण्य-दर्शनादिमार्ग-वचनादिधारणी-भूमि-प्रतिपक्षाणामनुपलम्भेन संवृतिसत्यानतिक्रमेण समस्तमहायानार्थप्रतिपत्तेरेभिः करुणादिभिः सम्यक्-प्रतिपत्स्वाभाव्यात् महाबोधिग्रहणात् महाकरुणादिसम्भारा इति सप्तदश सम्भारप्रतिपत्तयः / तत्र ज्ञानसम्भारः आध्यात्मिक-बाह्य-तदुभय-शून्यता-महत्-परमार्थ-संस्कृत-असंस्कृत-अतीतानन्त-अनवराग्र-अनवकार-प्रकृति-सर्वधर्म-लक्षण-अनुपलम्भ-अभावस्वभाव-भाव-अभाव-स्वभाव-परभावशून्यतानां भेदेन विंशतिधा /

आध्यात्मिकत्वबाह्यत्वोभयशून्यत्वतस्तथा / दिङ्निर्वाणार्थतश्चैव संस्कृतासंस्कृतत्वतः // 1 //

अत्यन्तानवराग्रत्वानवकाराकृतात्वतः / सर्वधर्मत्वलक्ष्मत्वाभ्यतीतादित्वतः पुनः // 2 //

सांयोगिकत्वभावत्वाकाशशून्यस्वभावतः / स्वस्वभाववियुक्तत्वाद् विंशतिः शून्यता मताः // 3 //

भूमिसम्भारेण दशभूभय इति परिष्क्रियमाणानां धर्माणां संदर्शनाय त्रयोविंशतिरन्तरश्लोका कथ्यन्ते -

1. प्रमुदिता भूमिः

लभ्यते प्रथमा भूमिर्दशधा परिकर्मणा / आशयो हितवस्तुत्वं सत्त्वेषु समचित्तता // abhis_1.49 //

त्यागः सेवा च मित्राणां सद्धर्मालम्बनैषणा / सदा नैष्क्रम्यचित्तत्वं बुद्धकायगता स्पृहा // abhis_1.50 //

धर्मस्य देशना सत्यं दशमं वाक्यमिष्यते / ज्ञेयञ्च परिकर्मैषां स्वभावानुपलम्भतः // abhis_1.51 //

इति / यथावत् सर्ववस्तुषु अकौटिल्याशयः, स्व-परप्रयोजने हितत्वम्, सर्वसत्त्वेषु समचित्तता, सर्वस्वपरित्यागः, कल्याणमित्रारागणम्, यानत्रयसङ्गृहीत सद्धर्मालम्बनपर्येष्टिः, गृहवासानभिरतिः, अनुत्तरबुद्धकायगता स्पृहा, सद्धर्मप्रकाशनम्, सत्यवादितेत्येवमेभिर्दशभिर्लक्षणधर्मैः सर्वथोत्पद्यमानत्त्वात् परिकर्मभिः कारणविशेषैः स्वभावानुपलम्भतया कृतविशेषलक्षणपरिकर्मभिरेव प्रथमा प्रमुदिता भूमिः प्राप्यते /

2 - विमला भूमिः

शीलं कृतज्ञता क्षान्ति प्रमोद्यं महती कृपा / गौरवं गुरुशुश्रूषा वीर्यं दानादिके ऽष्टमम् // abhis_1.52 //

इति कुशलधर्म-सत्त्वार्थक्रिया-संवरशीलानि, परकृतोपकारस्य अविस्मरणम् (अविप्रणाशनम्), परकृतापकारादौ क्षान्तिः, कुशलधर्मस्याराधने ऽविप्रतिसारः, सर्वजनेषु मैत्री, उपाध्यायादिषु प्रणमनम्, कल्याणमित्रनिर्दिष्टधर्मसाधना, दानादिषट्पारमितासु पर्येष्टिरित्येवं कृतपरिकर्मविशेषेणाष्टप्रकारधर्मेण द्वितीया विमला भूमिरधिगम्यते /

3. प्रभाकरी भूमिः

अतृप्तता श्रुते दानं धर्मस्य च निरामिषम् / बुद्धक्षेत्रस्य संशुद्धिः संसारापरिखेदिता // abhis_1.53 //

ह्रीरपत्राप्यमित्येतत् पञ्चधा मननात्मकम् /

इति / सद्धर्मश्रवणे तृप्तेरज्ञानम्, लाभादिनिरपेक्षचित्तेन सद्धर्मप्रकाशनम्, स्वबुद्धक्षेत्राश्रयाश्रितसंशोधनम्, उपकृतसत्त्ववैपरीत्यादिदर्शनेन न परिखेदापत्तिः, स्वपरापेक्षया अकुशलधर्माकरणमित्येवं पञ्चधा परिकर्मणा पूर्ववत् कृतानवबुध्यमानस्वभावपरिकर्मणा तृतीया प्रभाकरी भूमिरवबुध्यते /

4. अर्चिष्मती भूमिः वनाशा ऽल्पेच्छता तुष्टिर्धूतसंलेखसेवनम् // abhis_1.54 // शिक्षाया अपरित्यागः कामानां विजुगुप्सनम् / निर्वित्सर्वास्तिसन्त्यागो ऽनवलीनानपेक्षते // abhis_1.55 //

इति / अरण्यावासः, अप्राप्तलाभेषु अनभिलाषः, प्राप्तलाभेष्वनधिकाभ्यर्थना, भिक्षादिधौतगुणसंवरणम्, गृहीतशिक्षाणां प्राणादिभ्यो ऽपि अपरित्यजनम्, कामगुणेषु दोषोपलम्भदर्शनेन निन्दनम्, विनेयानुसारेण निर्वाणे प्रवणत्वम्, सर्वस्वपरित्यागः, कुशलसाधने चित्तासंकोचः, सर्ववस्त्वनपेक्षणमित्येवं पूर्ववद्दशप्रकारेण चतुर्थी अर्चिष्मती भूमिरभिरूह्यते /

5. सुदुर्जया भूमिः

संस्तवं कुलमात्सर्यं स्थानं सङ्गणिकावहम् / आत्मोत्कर्षपरावज्ञे कर्ममार्गान् दशाशुभान् // abhis_1.56 //

मानं स्तम्भं विपर्यासं विमतिं क्लेशमर्षणम् / विवर्जयन् समाप्नोति दशैतान् पञ्चमीं भुवम् // abhis_1.57 //

इति / लाभाद्यर्थं गृहिप्रव्रजितादिभिः संवासः, श्राद्धकुलानुपदर्शनम्, जनाकीर्णनगरादि, स्वप्रशंसनपरनिन्दने, दशाकुशलकर्मपथाः, श्रुताद्यभिमानः, पराप्रणमनम्, कुशलाकुशलविपरीताभीनिवेशः, मिथ्यादृष्ट्यादिकुमतिः, सर्वरागादिसर्वक्लेशाभिमुखीकरणं चेत्येवंलक्षणान् दशधर्मान् विवर्जयन् अर्थादाक्षिप्तविपर्ययधर्मेण दशप्रकारपरिकर्मणा पूर्ववत् पञ्चमी सुदुर्जया भूमिराक्रम्यते /

6. अभिमुखी भूमिः

दानशीलक्षमावीर्यध्यानप्रज्ञाप्रपूरणात् / शिष्यखड्गस्पृहात्रासचेतसां परिवर्जकः // abhis_1.58 //

याचितो ऽनवलीनश्च सर्वत्यागे ऽप्यदुर्मनाः / कृशो ऽपि नार्थिनां क्षेप्ता षष्ठीं भूमिं समश्नुते // abhis_1.59 //

दानादिषट्पारमितापरिपूरणेन श्रावकप्रत्येकबुद्धाभिलाषस्य स्वभावानुपलम्भोत्त्त्रासस्य च याचकजनप्रार्थनासंकोचस्य स्वरसप्रवृत्तसर्वार्थत्यागदौर्मनस्यस्य दारिद्र्यादर्थिजनप्रतिक्षेपचित्तस्य च वर्जनेनेत्येवं द्वादशभिः परिकर्मभिः पूर्ववत् षष्ठी अभिमुखी भूमिराज्ञायते /

7. दूरङ्गमा भूमिः

आत्मसत्त्वग्रहो जीवपुद्गलोच्छेदशाश्वतः / निमित्तहेत्वोः स्कन्धेषु धातुष्वायतनेषु च // abhis_1.60 //

त्रैधातुके प्रतिष्ठानं सक्तिरालीनचित्तता / रत्नत्रितयशीलेषु तद्दृष्ट्यभिनिवेशिता // abhis_1.61 //

शून्यतायां विवादश्च तद्विरोधश्च विंशतिः / कलङ्का यस्य विच्छिन्नाः सप्तमीमेत्यसौ भुवम् // abhis_1.62 //

इति / आत्मसत्त्वजीवपुद्गलोच्छेदशाश्वतनिमित्तहेतुस्कन्धधात्वायतनत्रैधातुकाधिष्ठान-सक्त्यालीनचित्तबुद्धधर्मसंघशीलदृष्ट्यभिनिवेशशून्यताविवादविरोधोद्भावनाग्रहोत्सृष्टयश्चेत्येवं विंशतिप्रकारकलङ्कापगमादाक्षिप्तविपर्ययधर्मेण विंशतिप्रकारेण परिकर्मधर्मेण पूर्ववत् सप्तमी दूरङ्गमा भूमिः समीयते /

अर्थाक्षिप्तधर्मतानिर्देशायाह -

त्रिविमोक्षमुखज्ञानं त्रिमण्डलविशुद्धता / करुणामनना धर्मसमतैकनयज्ञता // abhis_1.63 //

अनुत्पादक्षमाज्ञानं धर्माणामेकधेरणा / कल्पनायाः समुद्धातः संज्ञादृक्क्लेशवर्जनम् // abhis_1.64 //

शमथस्य च निध्यप्तिः कौशलञ्च विदर्शने / चित्तस्य दान्तता ज्ञानं सर्वत्राप्रतिघाति च // abhis_1.65 //

सक्तेरभूमिर्यत्रेच्छं क्षेत्रान्तरगतिः समम् / सर्वत्र स्वात्मभावस्य दर्शनञ्चेति विंशतिः // abhis_1.66 //

शून्यता ऽनिमित्ताप्रणिहितविमोक्षमुखसम्यग्ज्ञानम्, दशकुशलकर्मपथेषु वधवध्यघातकानुपलम्भादि, सर्वसत्त्वालम्बनकरुणा, वस्त्वनुपलम्भः, सर्वधर्मसमतावबोधः, महायानैकयानावबोधः, अनुत्पादपरिज्ञानम्, गम्भीरधर्मनिध्यानक्षान्त्यवगमः, सर्वज्ञेयानां महायानोपायमुखेन प्रकाशनम्, सर्वकल्पनोच्छेदः, निमित्तोद्ग्रहणविकल्पाभावसत्कायादिपञ्चदृष्टिसन्त्यागः, रागादिक्लेशवर्जनानि, शमथभावना, प्रज्ञाकौशल्यम्, चित्तोपशमः, रूपाद्यप्रतिघातज्ञानम्, अभिनिवेशास्थानम्, यथेष्टसमकालबुद्धक्षेत्रगमनम्, विनेयानुरूपं सर्वत्र स्वकायप्रकाशनमिति विंशतिप्रकारेणानेन परिकर्मधर्मेणापि पूर्ववत् सप्तमी भूमिः समीयते /

8. अचला भूमिः

सर्वसत्त्वमनोज्ञानमभिज्ञाक्रीडनं शुभा / बुद्धक्षेत्रस्य निष्पत्तिर्बुद्धसेवापरीक्षणे // abhis_1.67 //

अक्षज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थितिः / सञ्चिन्त्य च भवादानमिदं कर्माष्टघोदितम् // abhis_1.68 //

इति / यथावत्सर्वसत्त्वचित्तचरितज्ञानम्, लोकधातौ ऋद्ध्यभिज्ञाभिः क्रीडनम्, आधारबुद्धक्षेत्रसुवर्णादिभावपरिणामः, सर्वाकारधर्मपरीक्षणेन बुद्धरागणम्, दिव्यचक्षुषो निष्पत्तिः, आधेयबुद्धक्षेत्रसत्त्वपरिशोधनम्, सर्वत्र मायोपमतावस्थानम्, सर्वसत्त्वार्थदर्शनाद बुद्धिपूर्वकजन्मग्रहणञ्चेत्येवमष्टप्रकारधर्मेण परिकर्मणा पूर्ववदष्टमी अचला भूमिरनुभूयते /

9. साधुमती भूमिः

प्रणिधानान्यनन्तानि देवादीनां रूतज्ञता / नदीव प्रतिभानानां गर्भावक्रान्तिरुत्तमा // abhis_1.69 //

कुलजात्योश्च गोत्रस्य परिवारस्य जन्मनः / नैष्क्रम्यबोधिवृक्षाणां गुणपूरे स्वसम्पदः // abhis_1.70 //

इति / अनन्तप्रणिधानम्, देवादिसर्वसत्त्वरुतज्ञानम्, नद्युपमिताक्षयप्रतिभानम्, सर्वजनप्रशस्तगर्भावक्रमणम्, राजादिस्थानम्, आदित्याद्यन्वयः, मात्रादिसुसम्बन्धज्ञातिः, स्वविधेयपरिवारः, शक्राद्यभिनन्दितोत्पादः, बुद्धादिसञ्चोदननिष्क्रमणम्, चिन्तामणिसदृशाश्वत्थवृक्षादिः, बुद्धबुद्धधर्मस्वभावगुणपरिपूरणञ्चेत्येवं सम्पत्तिलक्षणैर्द्वादशभिः परिकर्मभिः पूर्ववत्कृतपरिकर्मविशेषैर्नवमी साधुमती भूमिः साक्षात्क्रियते /

10. धर्ममेघा भूमिः

हेतुभूमित्वेन तत्परिकर्माण्येवं निर्दिश्य फलभूमित्वेन पृथक् तान्यनभिधाय सङ्ग्रहणेन दशमभूमिलक्षणमाह -

नवभूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते / येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः // abhis_1.71 //

इति / श्रावकादिगोत्र-प्रथमफलप्रतिपन्नक-स्रोत-आपन्न-सकृदागामि-अनागामि-अर्हतामिति षण्णां नयत्रयव्यवस्थापनाभिप्रायेण शेषसङ्गृहीतापन्नकत्रयस्य प्रत्येकबुद्धस्य च यथाक्रमं गोत्र-अष्टमक-दर्शन-तनु-वीतराग-कृतविकल्प-श्रावक-प्रत्येकबुद्धभूमयः, बोधिसत्त्वानां यथोक्ता नवविधेत्येवं नवभूमीरतिक्रम्य दशम्यां पुनः भूमौ बोधिसत्त्वो बुद्ध एव वक्तव्यो न तु सम्यक्सम्बुद्ध इति वचनात् बुद्धभूमौ येन प्रणिधानज्ञानेनावतिष्ठते सा एव दशमी बोधिसत्त्वभूमिः ज्ञेया /

(प्रतिपक्षसम्भारः)

प्रतिपक्षसम्भारार्थं अन्तरश्लोकमाह -

प्रतिपक्षो ऽष्टधा ज्ञेयो दर्शनाभ्यासमार्गयोः / ग्राह्यग्राहकविकल्पानामष्टानामुपशान्तये // abhis_1.72 //

इति / सांक्लेशिकवस्तुमात्रप्रतिपक्षाधिष्ठानग्राह्यविकल्पद्वयस्य द्रव्यपुद्गलप्रज्ञप्तिपुरुषाधिष्ठानग्राहकविकल्पद्वयस्य च दर्शनमार्गभावनामार्गयोः प्रहाणाद् ग्राह्यग्राहकाष्टविकल्पोपशान्तये सत्यद्वयमाश्रित्य साक्षात्करणीया विपक्षभेदेन मार्गद्वयावस्थायामेव अष्टविधाः प्रतिपक्षाः /

10. निर्याणप्रतिपतिः

सम्भृतसम्भारस्यैवं निर्याणमिति निर्याणप्रतिपत्तिं चतुर्थींमाह -

उद्देशे समतायाञ्च सत्त्वार्थे यत्नवर्जने / अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम् // abhis_1.73 //

सर्वाकारज्ञतायाञ्च निर्याणं मार्गगोचरम् / निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका // abhis_1.74 //

इति / यथोक्त उद्देशः , सर्वधर्मसमता, सत्त्वार्थकरणम्, अनिमित्तसर्वक्रियाकारित्वेनानाभोगः, शाश्वतोच्छेदरहितावस्थाविशेषः, त्रियानसर्वार्थप्राप्तिः, यथोक्तसर्वाकारज्ञता तद्विशिष्टमार्ग इत्येवं निर्यातव्यवस्तुषु प्रतिविशिष्टान्यधर्माभावेन सर्वानुपलम्भतया एभिरष्टाभिर्निर्याणप्रतिपत्तिः अष्टधा भवति /

इति अभिसमयालङ्कारे नाम प्रज्ञापारमिताशास्त्रे प्रथमाधिकारवृत्तिः /

मार्गज्ञताधिकारः द्वितीयः

1 - ध्यामीकरणतादीनि

सर्वाकारज्ञताधिगमो न विना मार्गज्ञतापरिज्ञानेनेति मार्गज्ञतामाह -

ध्यामीकरणता भाभिर्देवानां योग्यतां प्रति / विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च // abhis_2.1 //

मार्गज्ञतोत्पत्तिं प्रति योग्यतापादनाय देवादीनां स्वकर्मजप्रभायास्तथागतप्रकृतिप्रभाभिर्मलिनीकरणता निहतमानसन्ताने ऽधिगम उत्पद्यत इति ज्ञापनाय कृता, अतो वक्रोक्त्याधारः कथितः / स चोत्पादितबोधिचित्त एवेति विषयप्रतिनियतो भवति / त्रियानव्यवस्थानमाभिप्रायिकम्, न लाक्षणिकमिति न्यायादनुत्तरसम्यक्सम्बोधिपर्यवसान एव सर्वो जन इत्यतो वीतरागेतरयोगिनापि बुद्धत्वप्राप्तये मार्गज्ञता भावनीयेति व्याप्तिर्भवति / सत्त्वार्थकरणप्रवृत्तत्वेनोत्पादितबोधिचित्तस्य सर्वथा क्लेशाप्रहाणमिति स्वभावो भवति / तादृशस्वभावस्य भूतकोटेरसाक्षात्करणेन प्रयोपायकौशलेन चापरिगृहीतसत्त्वस्य परिग्रहणादिनेति कारित्रम् /

2 - श्रावकमार्गः

आधारादिकमेवममिधाय मार्गज्ञताधिकारे सर्वे मार्गाः परिपूरयितव्या इति श्रावकमार्गमाह -

चतुर्णामायसत्यानामाकारानुपलम्भतः / श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये // abhis_2.2 //

इति / तत्र दुःखसत्यस्यानुक्रमेण अनित्यं दुःखं शून्यमनात्मेत्येतानि चत्वारि शान्ताकारलक्षणानि /

समुदयसत्यस्य हेतु-समुदय-प्रभव-प्रत्ययरूपत्वेन रोग-गण्ड-शल्य-अघाकाराः /

निर्विदे विरागाय निरोधाय च प्रतिपन्नो भवतीत्यतस्तयोः दुःखसमुदययोः प्रत्येकः पर-प्रलोपधर्मस्वरूपौ निर्विदाकारौ, चल-प्रभङ्गुरस्वरूपौ विरागाकारौ; भय-उपसर्ग-उपद्रवस्वरूपा निरोधाकाराः / निरोधसत्यस्य निरोधरूप-निरात्म-शान्त-प्रणीतरूपविविक्त-निर्याणरूपशून्यानिमित्ताप्रणिहितानभिसंस्कारा निरोधसत्याकाराः /

मार्गसत्यस्य मार्ग-न्याय-प्रतिपत्ति-नैर्याणिका इति मार्गसत्याकाराः / ततश्चैषां स्वभावानुपलम्भभावनया मार्गज्ञताधिकारे श्रावकाणां मार्गो बोधिसत्वेनैवं परिज्ञेयः /

निर्वेधभागीयाधिगमपूर्वकं चतुःसत्वपरिज्ञानमिति मार्गममिधाय निर्वेधभागीयमाह-

रूपादिस्कन्धशून्यत्वाच्छून्यतानामभेदतः / ऊष्माणो ऽनुपलम्भेन तेषां मूर्धगतं मतम् // abhis_2.3 //

क्षान्तयस्तेषु नित्यादिगोस्थाननिषेधतः / दश भूमीः समारभ्य विस्तरास्थानदेशनात् // abhis_2.4 //

अग्रधर्मगतं प्रोक्तमार्यश्रावकवर्त्मनि / तत्कस्य हेतोर्बुद्धेन बुद्ध्वा धर्मासमीक्षणात् // abhis_2.5 //

रूपादिस्कन्धानां स्वस्वरूपशून्यत्वाच्छून्यतानामभेदेन, रूपादीनां पूर्ववदनुपम्भेन, एवं रूपादीनां ऽन नित्यं नानित्यम्ऽ इत्युपलम्भयोगतः स्थाननिषेधेन, यस्मात् तथागतेन बोधिमभिसम्बुध्य धर्मा न समीक्षिता इति प्रमाणपुरुषादर्शनकारणोपपत्त्या प्रमुदितभूम्यादौ विस्तरास्थानदेशनया चेति एभिराकारैर्यथाक्रमं सत्यानामुपलब्धौ निर्वेधभागीया उत्पद्यन्ते /

3 - प्रत्येकबुद्धमार्गः

श्रावकमार्गानन्तरं प्रत्येकबुद्धानां मार्गाभिधाने न्यायप्राप्ते ऽपि श्रावकेभ्यः कथं प्रतिविशिष्टास्ते येन तेषां मार्गभेद इत्याशङ्क्य वैशिष्ट्यप्रतिपादनार्थं तावदाह -

परोपदेशवैयर्थ्यं स्वयम्बोधात् स्वयम्भुवाम् / गम्भीरता च ज्ञानस्य खड्गानामभिधीयते // abhis_2.6 //

इति / श्रावकाः परोपदेशसापेक्षाः स्वबोधिं बुध्यन्ते; सालापधर्मदेशनया च परानपि कुशले प्रवर्तयन्तीत्यागमः / प्रत्येकबुद्धाः पुनः स्वयं पूर्वश्रुताद्यभिसंस्कारेण परोपदेशं प्रत्यनपेक्षाः स्वबोधिसमधिगच्छन्त्यतस्तेषां बुद्धाद्युपदेशनैरर्थक्यमित्येकं वैशिष्ट्यम् / शब्दोच्चारणधर्मदेशनया श्रोतृभिः क्रियते वक्तृज्ञानसामर्थ्यावबोधः / ते (प्रत्येकबुद्धाः) पुनः अशब्दोच्चारणधर्मदेशनया स्वाधिगतज्ञानादिसामर्थ्येन परान् दशकुशलादौ प्रवर्तयन्त्यतस्तेषां ज्ञानस्यानवबोधतया द्वितीयं वैशिष्ट्यमिति /

कथमशब्दोच्चारणधर्मदेशनेत्याशंक्याह -

शुश्रूषा यस्य यस्यार्थे यत्र यत्र यथा यथा / स सो ऽर्थः ख्यात्यशब्दो ऽपि तस्य तस्य तथा तथा // abhis_2.7 //

इति / नावितर्क्य नाविचार्य वाचं भाषत इत्यालापो विक्षेपः / स च सन्तानक्षोभमादधातीति यथा यथा बोधिसत्त्वेन ऽबुद्धो भूत्वा आलापमन्तरेण धर्मदेशनां कुर्याम्ऽ इति प्रणिधानं प्रवर्तितम्, तथा बुद्धत्वसाम्यात् प्रत्येकबुद्धावस्थायाञ्च प्रणिधानादिसामर्थ्येन यस्मिन्नर्थे येन प्रकारेण यस्य श्रवणेच्छा, तस्य विज्ञाने तेनैव प्रकारेण अशब्दो ऽपि सो ऽर्थः प्रतिभातीत्यशब्दधर्मदेशनोच्यते / इत्येवं वक्ष्यमाणधर्मस्य श्रोतृविज्ञाने सुनिर्माणमुत्पादश्चेत्ययं भवति धर्मदेशना शब्दार्थः /

वैशिष्ट्यमेवमभिधाय विशिष्टानां विशिष्ट एव मार्ग इति प्रकृतप्रत्येकबुद्धमार्गमाह -

ग्राह्यार्थकल्पनाहानाद् ग्राहकस्याप्रहाणतः / आधारतश्च विज्ञेयः खड्गमार्गस्य सङ्ग्रहः // abhis_2.8 //

इत्युक्तम् / प्रत्येकबुद्धस्य मार्गः यथोक्तसत्यभावनया एव, यथाअवस्तु प्रतीत्यसमुत्पादभावनया च / ग्राह्यग्राहकार्थविकल्पयोर्यथाक्रमं प्रहाणाप्रहाणे प्रत्येकबुद्धयानसङ्गृहीताधारधर्मवस्तुनो विशेषविशिष्टधर्माधिगमश्च बोधिसत्त्वेन परिज्ञेयो न सर्वाकारज्ञानेनेति प्रत्येकबुद्धमार्गः /

निर्वेधभागीयाधिगमे सति यथोक्तमार्ग उत्पद्यत इति निर्वेधभागीयमाह -

प्रज्ञप्तेरविरोधेन धर्मतासूचनाकृतिः / ऊष्मगं मूर्धंगं रूपाद्यहानादिप्रभावितम् // abhis_2.9 //

अध्यात्मशून्यताद्याभी रूपादेरपरिग्रहात् / क्षान्ती रूपाद्यनुत्पादाद्याकारैरग्रधर्मता // abhis_2.10 //

इति / रूपादिसाङ्केतिकधर्मप्रज्ञप्तेरविरोधेन धर्मतायाः प्रतिपादनेनः, रूपादेः परमार्थतो न हानिवृद्ध्याद्यर्थं शिक्षणेन, स्वभावशून्यत्वात् रूपादेरध्यात्मबहिर्धादिशून्यतया अपरिग्रहणेन, रूपादेरनुत्पादानिरोधाद्याकारैश्च यथाक्रमं चतुःसत्यालम्बने निर्वेधभागीयो भवति /

4 - बोधिसत्त्वमार्गः

प्रत्येकबुद्धमार्गानन्तरं बोधिसत्त्वमार्गमाह -

क्षान्तिज्ञानक्षणैः सत्यं सत्यं प्रति चतुर्विधैः / मार्गज्ञतायां दृङ्मार्गः सानुशंसो ऽयमुच्यते // abhis_2.11 //

इति / मार्गज्ञताधिकारे बोधिसत्त्वेन धर्मज्ञानक्षान्तिर्धर्मज्ञानमन्वयज्ञानक्षान्तिरन्वयज्ञानं चेति चत्वारः क्षान्तिज्ञानक्षणाः प्रत्येकं दुःखादिसत्यसम्बन्धयुक्ता ऐहिकामुत्रिकैर्गुणैर्युक्ता विमावनीया इति दर्शनमार्गो महानुशंस इत्युच्यते /

कथमाकारो भावनीय इत्याह -

आधाराधेयताभावात्तथताबुद्धयोर्मिथः / पर्यायेणाननुज्ञानं महत्ता सा ऽप्रमाणता // abhis_2.12 //

परिमाणान्तताभावो रूपादेरवधारणम् / तस्यां स्थितस्य बुद्धत्वे ऽनुद्ग्रहात्यागतादयः // abhis_2.13 //

मैत्र्यादि शून्यताप्राप्तिर्बुद्धत्वस्य परिग्रहः / सर्वस्य व्यवदानस्य सर्वाधिव्याधिशातनम् // abhis_2.14 //

निर्वाणग्राहशान्तत्वं बुद्धेभ्यो रक्षणादिकम् / अप्राणिवधमारभ्य सर्वाकारज्ञतानये // abhis_2.15 //

स्वयं स्थितस्य सत्त्वानां स्थापनं परिणामनम् / दानादीनाञ्च सम्बोधाविति मार्गज्ञताक्षणाः // abhis_2.16 //

परमार्थतः तथताबुद्धयोराधाराधेयभावो न विद्यत इत्यतस्तयोः पर्यायेणावस्थितेरननुज्ञानम् / रूपादीनां धर्मधातुस्वभावतया महत्ता तथैव तेषामप्रमाणता / पूर्ववदाकाशापरिमाणतया तेषामपरिमाणतेत्येवं दुःखसत्याकारा भवन्ति /

रूपादीनां निःस्वभावत्वेन शाश्वतोच्छेदाद्यन्ताभावः / प्रज्ञापारमितायां स्थितस्य धर्मधातुस्वभावतया रूपादीनां तथागतत्वावधारणम् / तथैव तस्यां स्थितस्य सर्वधर्माणां नोद्ग्रहत्यागभावनादिकम् / निःस्वभावाधिमोक्षपूर्वकं चतुरप्रमाणं विभावनीयमित्येवं समुदयसत्याकारा भवन्ति /

रूपादेर्निजरूपा प्रकृत्यैव शून्यता / धर्मधातुपरिणामितकुशलमूलानां फलं तथागतत्वस्य प्रापणम् / प्रज्ञापारमितया सर्वाकारप्रतिपक्षाणां संग्रहः / तयैव बाह्याभ्यन्तरोपद्रवप्रशमनमित्येवं निरोधसत्याकारा भवन्ति /

निःस्वभावताभावनयैव रूपादिनिर्वाणाभिनिवेशस्य शान्तिः / प्रज्ञोपायकौशलप्रवृत्तस्य बुद्धेभ्यो रक्षावरणगुप्तयो भवन्ति / बुद्धत्वाभिलाषिणा स्वयं प्राणातिपातविरत्यादिपूर्वकं सर्वाकारज्ञतायां स्थित्वा तत्रैव परेषां स्थापनम् / दानादीनामक्षयं कर्तुमिच्छता सम्यक्सम्बोधौ परिणामनमित्येवं मार्गसत्यस्याकारा भवन्ति / इत्येवमेव मार्गज्ञतायाः क्षणा भवन्ति /

केचिदिह कारिकार्थोपलक्षणपरेण ग्रन्थेन आकारार्थमनुक्त्वा दर्शनमार्गषोडशक्षणोपलक्षणमेव केवलमनुकृतमिति वर्णयन्ति, एवमुक्तानुक्तनिर्वेधभागीयाद्यर्थकारिकास्वपि द्रष्टव्यमिति / तैर्भावनानुक्रमाद्यनिर्देशात् काचिदभिसमयानुपूर्वी न प्रतिपादिता / ऽआलम्बनमनित्यादि सत्याधारं तदाकृतिःऽ इत्यादिकारिकार्थश्च कथं व्याख्येय इत्यपरे /

5 - भावनामार्गकारित्रम्

दर्शनमार्गानन्तरं भावनामार्गाभिधाने सति स्वल्पवक्तत्वेन फलनिम्नत्वेन च विनेयप्रवृत्तेः तत्कारित्रं तावत् -

सर्वतो दमनं नाअ सर्वतः क्लेशनिर्जयः / उपक्रमाविषह्यत्वं बोधिराधारपूज्यता // abhis_2.17 //

इत्युक्तम् / सर्वप्रकारचित्तस्वविधेयीकरणम्, कल्याणमित्रादिसर्वजननमनम्, रागाद्यभिभवः, परकृताघाताननुप्रतिपत्तेः अविषह्यत्वम्, सम्यक्सम्बोधिप्रतिपत्तिः, आधारविषयपूज्यताकारित्रञ्चेति षड्विधमेव कारित्रम् /

सास्रवो भावनामार्गः

6 - भावनामार्गाधिमुक्तिः

कारित्रानन्तरं भावनामार्गः / स च सास्रवानास्रवभेदेन द्विविधः / अतः सास्रवभावनामार्गाधिमुक्तिपरिणामनानुमोदनामनस्कारेषु प्रथमं भावनामार्गाधिमुक्तिमनस्कारमाह -

अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थिका / परार्थिकैवेत्येषा च प्रत्येकं त्रिविधेष्यते // abhis_2.18 //

मृद्वी मध्याधिमात्रा च मृदुमृद्वादिभेदतः / सा पुनस्त्रिविधेत्येवं सप्तविंशतिधा मता // abhis_2.19 //

इति / स्वोभयपरार्थोपलम्भतया यथाधिमोक्षं दृष्टकुशलधर्मधिष्ठाना भावनामार्गाधिकारादादौ असाक्षात्क्रियारूपाधिमुक्तिः त्रिविधा सती प्रत्येकं मृद्वादिभेदेन त्रिविधा / एवमेषापि प्रत्येकं मृदुमृद्वादिभेदेन त्रिविधा / एवं नवभिस्त्रिभिरधिमुक्तिः सप्तविंशतिप्रकारा भवति /

7 - भावनामार्गाधिमुक्तस्य स्तुतिः स्तोभः प्रशंसा च

तद्भावकबोधिसत्त्वस्योत्साहवर्धनाय तदधिमोक्षस्य स्त्युत्यादयो बुद्धादिभिः क्रियन्त इति स्तुतिं, स्तोभं प्रशंसाञ्चाह -

स्तुतिः स्तोभः प्रशंसा च प्रज्ञापारमितां प्रति / अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते // abhis_2.20 //

इति / यथाधिमोक्षदृष्टधर्मलक्षणां प्रज्ञापारमितां प्रति प्रवृत्तस्याधिमोक्षमनस्कारस्य प्रथमद्वित्रिनवावस्थानां प्रत्येकं नवभिः प्रकारैरुत्तरोत्तराभिनन्दनं स्तुतिः स्तोभः प्रशंसा च इष्यते / अतस्ते स्तुत्यादयो यथाभूतार्थाधिगममात्रलक्षणा नार्थवादरूपाः /

8 - परिणामना

एवमधिमोक्षस्य परिणामनासम्भवाद् द्वितीयं परिणामनामनस्कारमाह -

विशेषः परिणामस्तु तस्य कारित्रमुत्तमम् / नोपलम्भाकृतिश्चासावविपर्यासलक्षणः // abhis_2.21 //

विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः / सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदितः // abhis_2.22 //

त्रैधारुकाप्रपन्नश्च परिणामो ऽपरस्त्रिधा / मृदुर्मध्यो ऽधिमात्रश्च महापुण्योदयात्मकः // abhis_2.23 //

इति / यथोक्तो विशेषाधिमोक्षः, अनुपलम्भः, अविपर्यासः, विविक्तः, तथागतकुशलमूलौधस्वभावस्मृतिः, सोपायकौशलः, अनिमित्तः, बुद्धानुज्ञातः, त्रैधातुकाप्रपन्नः, मृदुमध्याधिमात्रश्च महापुण्योदय इत्येवमध्यारोपितमनस्कारा यथाक्रममनुत्तरसम्यक्सम्बोधिः शीलादिस्कन्ध-परिणामनाचित्त-आत्मादियुक्तवस्तु-त्रिकालबुद्धकुशल-दानाdi-nimitta-sarvamआर्ग-कामादिधातु-दशकुशलकर्मपथ-स्रोत-आपन्नाद्यनुत्तरसम्बोधिप्रस्थितानामनुपलब्धानामुपलम्भा इति त्रियानविनेयसत्त्वानां मार्गोपदेशहेतुभावव्यापारयुक्तैः सर्वसत्त्वार्थमक्षयाय चानुत्तरसम्यक्सम्बोधौ द्वादश परिणामनाः क्रियन्ते /

9 - अनुमोदना

एवं परिणामयितवस्तु अभिवर्धयितव्यमिति तृतीयमनुमोदनामनस्कारमाह -

उपायानुपलम्भाभ्यां शुभमूलानुमोदना / अनुमोदे मनस्कारभावनेह विधीयते // abhis_2.24 //

इति / संवृत्युपायेन कुशलमूलान्युपलभ्य प्रमुदितचित्तेन परमार्थतो ऽनुपलम्भतयानुमोदनीयानीति /

तत्रायं समासार्थः-आकरान्निष्कृष्टः स्वर्णपिण्ड इवाधिमोक्षमनस्कारः, स्वर्णकारेण ततो ऽलङ्कारकरणमिव सम्यक्सम्बोधेरङ्गकरणं परिणामनामनस्कारः, स्वपरपुण्यसमताप्राप्ति अनुमोदनामनस्कार इति /

अनास्रवो भावनामार्गः

10 - अभिनिर्हारः

सास्रवानन्तरमनास्रवो भावनामार्गः / स च द्विविध इति प्रथममभिनिर्हारलक्षणं भावनामार्गमाह -

स्वभावः श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः / नोपलम्भेन धर्माणामर्पणा च महार्थता // abhis_2.25 //

इति / रूपाद्यविपरीतदर्शनं स्वभावः / नान्यथा बुद्धत्वसंप्राप्तिरिति श्रेष्ठता / सर्वधर्मविशेषानुत्पादनेन अधिगमप्रयोगो ऽनभिसंस्कारः / तादृशस्वभावादियुक्तमार्गधर्माणामनुपलम्भतया योगिसन्ताने समुत्पादनमर्पणा / बुद्धत्वमहार्थसाधनान्महार्थता /

11 - अत्यन्तविशुद्धिः तदनन्तरं यः परिग्रहत्यागेन प्राप्स्यमानः कस्तस्योत्पादानुत्पादहेतुरिति आकांक्षानिरासद्वारेण द्वितीयमत्यन्तविशुद्धिलक्षणमाह -

बुद्धसेवा च दानादिरुपाये यच्च कौशलम् / हेतवो ऽत्राधिमोक्षस्य धर्मव्यसनहेतवः // abhis_2.26 //

माराधिष्ठानगम्भीरधर्मतानधिमुक्तते / स्कन्धाद्यभिनिवेशश्च पापमित्रपरिग्रहः // abhis_2.27 //

इति / बुद्धसमाराधनम्, दानादिपारमितापरिपूरणम्, शमथकौशलञ्चेति उत्पादहेतवः /

मारबाधितम्, गम्भीरधर्मानधिमोक्षः, भावग्रहः, पापमित्रसंगतिरिति अनुत्पादहेतवः /

अधिगमानधिगमहेतूनेवमुक्त्वा प्रकृतस्य सामान्येन विशुद्धिमाह -

फलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयोः / अभिन्नाच्छिन्नता यस्मादिति शुद्धिरूदीरिता // abhis_2.28 //

इति / आर्यपुद्गलस्य यत् श्रामण्यताफलं तस्य सर्वविपक्षरहितत्वेन या विशुद्धिः सैव रूपादिविशुद्धिः, फलरूपादिविशुद्धिः रूपादेरात्माभिनिवेशादिविगमात् / प्रभेदत्वेन यस्मात् तद्विशुद्धिः अभिन्ना अच्छिन्ना तस्मात् स्वसामान्यलक्षणनानात्वविरहाद् एवं विशुद्धिरभिधीयते /

सामान्येन विशुद्धिमेवमभिधाय विशेषेणाह -

क्लेशज्ञेयत्रिमार्गस्य शिष्यखड्गजिनौरसाम् / हानाद्विशुद्धिरात्यन्तिकी तु बुद्धस्य सर्वथा // abhis_2.29 //

इति / रागादिक्लेशप्रहाणात्, एतस्य ज्ञेयावरणैकदेशग्राह्यविकल्पस्य च प्रहाणात्, यानत्रयमार्गावरणप्रहाणाद् यथाक्रमं श्रावक-प्रत्येकबुद्ध-बोधिसत्त्वानां शुद्धिर्भवति / सर्वथा सवासनक्लेशज्ञेयावरणप्रहाणात् धर्मधातूद्भवानुत्तरबुद्धानां विशुद्धिरिष्यते /

मार्गज्ञताधिकारे विशुद्दिकथनप्रसङ्गादात्यन्तिकी चेतरा च बुद्धानां श्रावकादीनां च यथाक्रमं विशुद्धिः / सः कथमित्याह -

मृदुमृद्वादिको मार्गः शुद्धिर्नवसु भूमिषु / अधिमात्राधिमात्रादेर्मलस्य प्रतिपक्षतः // abhis_2.30 //

इति / कारधातुध्यानारूप्यसमापत्तय इति नवभूमिष्वधिमात्रादिनवप्रकारविपक्षस्य प्रतिपक्षभावेन मृदुमृद्वादिमार्गो यथाक्रमं नवप्रकारः / सर्वथान्यथा च विशुद्धिहेतुत्वादात्यन्तिकी चेतरा च विशुद्धिरिति /

कथमात्यन्तिकीत्याह -

त्रिधातुप्रतिपक्षत्वं समता मानमेययोः / मार्गस्य चेष्यते तस्य चोद्यस्य परिहारतः // abhis_2.31 //

इति / तत्राधिमात्राधिमात्रादिः प्रतिपक्षो मृदुमृद्वादिर्विपक्ष इति भवितव्यमितिचोद्यस्य वस्त्रलिप्तसूक्ष्ममलापकषर्णे रजकमहायत्नोदाहरणेन परिहारतः यथानिर्दिष्टभावनामार्गस्यात्यन्तिकी / त्रैधातुकाकारज्ञानज्ञेयानुपलम्भाद् या समता सैव समस्तप्रतिपक्षत्वादात्यन्तिकी विशुद्धिर्बुद्धस्य व्यवस्थाप्यत इति //

अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे द्वितीयाधिकारवृत्तिः

सर्वज्ञताधिकारः तृतीयः 1 - प्रज्ञया न भवे स्थानम् 2 - कृपया न शमे स्थितिः

सर्ववस्तुपरिज्ञानं विना न मार्गज्ञतापरिज्ञानं सम्यग् इति सर्वज्ञतामाह -

नापरे न परे तीरे नान्तराले तयोः स्थिता / अध्वनां समताज्ञानात् प्रज्ञापारमिता मता // abhis_3.1 //

इति / त्रैयध्विकधर्माणामनुत्पादाकारेण तुल्यतावबोधात् बुद्धबोधिसत्त्वानां या आसन्नीभूता मता प्रज्ञापारमिता, सा खलु प्रज्ञया पुनर्नापरे तीरे संसारे, न परे तीरे निर्वाणे च यथाक्रमं शाश्वतोच्छेदलक्षणे, न तयोर्मध्ये ऽपि व्यवस्थितेति न संसारनिर्वाणयोः व्यवस्थिता /

3 - अनुपायेन दूरत्वम् 4 - उपायेनाविदूरता

सर्वज्ञताधिकाराद् व्यतिरेकनिर्देशेन श्रावकादीनां त्र्यध्वसमताज्ञानाभावात् सम्यक् प्रज्ञापारमिता दूरीभूतेति / स्वाधिगममात्रात्मिका तु प्रज्ञापारमिता कृपाप्रज्ञावैकल्यान्निर्वाणे संसारे चावस्थिता वस्त्वस्तूपलम्भतयेति ज्ञेया / ऽयः प्रतीत्यसमुत्पादः शून्यता सैव ते मताऽ इति न्यायादध्वत्रयसमताज्ञानं पदार्थावबोध एव, ननु स च सर्वेषामेव समस्तीति कथं श्रावकबोधिसत्त्वादीनां सम्यक् प्रज्ञापारमितादूरीभावः, न चेतरेषां भवतीति चेत्? आह -

अनुपायेन दूरं सा सनिमित्तोपलम्भतः / उपायकौशलेनास्याः सम्यगासन्नतोदिता // abhis_3.2 //

इति / मायाकारनिर्मितवस्तुनः प्रतिभासे अविदिततत्स्वरूपस्य भावाभिनिवेशिता नैःस्वाभाव्याप्रतिभास इव कल्याणमित्राद्युपायकौशलवैकल्याद् वस्तु निमित्तयोगेन प्रतिपत्तौ तत्समतापरिज्ञानमविज्ञातभावरूपाणां श्रावकादीनां नास्तीत्यतस्तेषां दूरीभावो जिनजनन्या इति / बोधिसत्त्वानां तु समाराधितकल्याणमित्रोपदेशतया अविपरीतसत्यद्वयाश्रितश्रुतादिज्ञानोत्पत्त्युपायकौशलेन च उत्सारितभावाभिनिवेशभ्रान्तिनिमित्तानां रूपादिसर्वधर्मपरिज्ञानमेव तत्समतापरिज्ञानमित्यतस्तेषां सम्यगासन्नीभावो ऽस्या मातुरिति अनुपायेन एव दूरता, उपायेन तु अदूरता भवति /

5 - विपक्षः

श्रावकादीनामेवं मातुर्दूरीभावेनानुष्ठानं विपक्षमाह

रूपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च / दानादौ बोधिपक्षेषु चर्यासंज्ञा विपक्षता // abhis_3.3 //

इति / सर्वेषां रूपादीनां त्रैयध्विकानाञ्च धर्माणां सास्रवानास्रवोभयस्थानीयानामनुपलम्भस्वरूपाणां सर्वत्र भावोपलम्भतया ते परपरिकल्पितात्मादिशून्यत्वेन दृष्टाः / अनुष्ठानसंज्ञा तु एतेषां प्रतिपक्षभूतानि विपर्यासप्रवृत्तत्वेन हेयत्वात् विपक्षो भवति /

6 - प्रतिपक्षः

विपर्ययेण बोधिसत्त्वानां परिपक्ष इत्याह -

दानादिष्वनहङ्कारः परेषां तन्नियोजनम् / सङ्गकोटीनिषेधो ऽयं सूक्ष्मः सङ्गो जिनादिषु // abhis_3.4 //

इति / त्रिमण्डलविशुद्ध्या दानादावनात्मावबोधेन स्वपरयोर्नियोजनं सम्यक् प्रवृत्तत्वात् सर्वसक्तिनिचयस्थानप्रतिषेधेन चोपादेयत्वात् सर्वथा प्रतिपक्षः / तथागतादिषु नमस्कारादिः पुण्यसम्भारहेतुत्वेन प्रतिपक्षो ऽपि सन् सूक्ष्मसक्तिरूपतया न सर्वथा प्रतिपक्ष इति विपक्षो भवति /

कथं पुनः सुक्ष्मसक्तिर्विपक्ष इति चेदाह -

तद्गाम्भीर्यं प्रकृत्यैव विवेकाद्धर्मपद्धतेः /

इति / यस्मात् स्वभावेनैव धर्मगोत्राणां शून्यत्वात् तेषां गाम्भीर्यम्, तस्मात् तथागतोपलम्भो ऽपि विपक्षः /

कथं तर्हि तस्य वर्जनमित्याह - एवप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनम् // abhis_3.5 // इति / रूपादिसर्वधर्माणामेकैव प्रकृतिः यदुत निःस्वभाव इति ज्ञानज्ञेयसमतैकपरिज्ञाने सक्तिर्वर्जिता भवति /

कथ पुनः प्रकृत्या धर्मगाम्भीर्यमित्याह -

दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता /

इति / यस्मात् सर्वविज्ञानोपलव्धार्थनिराकरणेन तस्याः प्रकृतेर्दुर्बोधता कथिता, अतस्तस्या गाम्भीर्यम् / कथं पुनरेवं दुर्बोधतेत्याह - रूपादिभिरविज्ञानात् तदचिन्त्यत्वमिष्यते // abhis_3.6 // रूपाद्यावेणिकबुद्धधर्माद्याकारैः प्रकृतेस्तथतास्वाभाव्यादनभिसम्बोधेन यस्माच्चिन्तातिक्रान्तत्वमिष्यते, अतो ऽस्या दुर्बोधतेति यावत् /

विपक्षादि एवमभिधाय उपसंहारमाह -

एवं कृत्वा यथोक्तो वै ज्ञेयः सर्वज्ञतानते / अयं विभागो निःशेषो विपक्षप्रतिपक्षयोः // abhis_3.7 //

इति / सर्वज्ञताधिकारे यथोक्तनयेन यथाक्रमं श्रावकबोधिसत्त्वादीनां विपक्षप्रतिपक्षयोरयं प्रभेदो ऽवसातव्यः /

7 - प्रयोगः

विपक्षादि एवमभिधाय तयोर्विभावनायां कः प्रयोग इति चेत् प्रयोगमाह -

रूपादौ तदनित्यादौ तदपूरिप्रपूरयोः / तदसङ्गत्वे चर्यायाः प्रयोगः प्रतिषेधतः // abhis_3.8 //

अविकारो न कर्त्ता च प्रयोगो दुष्करस्त्रिधा / यथाभव्यं फलप्राप्तेरबन्ध्यो ऽभिमतश्च सः // abhis_3.9 //

अपरप्रत्ययो यश्च सप्तधा ख्यातिवेदकः /

रूपादिसर्वधर्माः, तेषामेवानित्यताशून्यतादयः, प्रतिपूर्णापूर्णता, असङ्गः, अन्यथा ऽविकारः, अकर्तृत्वम्, त्रिसर्वज्ञतात्मकानां यथाक्रमं उद्देशप्रयोगकारित्राणां दुष्करता, यथाभव्यफलप्राप्त्या अवन्ध्यता, परप्रत्ययानिर्गामित्वम्, परिणामसमाहार-विरोध-प्रत्यय-असङ्क्रान्ति-निराधार-अकारकात्मक-सप्तख्यातिसिद्धपरिज्ञानस्य निराकरणम्, तदेवमन्वयमुखेन बोधिसत्त्वानां दशविधः प्रयोगः कथितः, अर्थाद् यथोक्तविपर्ययेण श्रावकादीनां प्रयोगो भवति /

8 - समता

समताद्वारेण प्रयोगो भावनीय इति प्रयोगानन्तरं समतामाह - चतुर्धा ऽमनना तस्य रूपादौ समता मता // abhis_3.10 // इति / रूपाद्यभिनिवेशनीलादिनिमित्तप्रपञ्चाधिगममननानां सर्वथानुपलब्धिरिति प्रयोगसमतात्वात् समता भवति /

9 - दर्शनमार्गः

प्रयोगसमतां प्रतिविध्य दर्शनमार्गो भावनीय इति दर्शनमार्गमाह -

धर्मज्ञानान्वयज्ञानक्षान्तिज्ञानक्षणात्मकः / दुःखादिसत्ये दृङ्मार्ग एष सर्वज्ञतानये // abhis_3.11 //

इति / प्रतिसत्यं धर्मज्ञानक्षान्तिर्धर्मज्ञानमन्वयज्ञानक्षान्तिरन्वयज्ञानमित्येवं षोडशक्षणात्मकः सर्वज्ञताधिकारे दर्शनमार्गो भवति /

ननु कः सत्यस्याकार इत्याह -

रूपं न नित्यं नानित्यमतीतान्तं विशुद्धकम् / अनुत्पन्नानिरुद्धादि व्योमाभं लेपवर्जितम् // abhis_3.12 //

परिग्रहेण निर्मुक्तमव्याहारं स्वभावतः / प्रव्याहारेण नास्यार्थः परेषु प्राप्तये यतः // abhis_3.13 //

नोपलम्भकृदत्यन्तविशुद्धिर्व्याध्यसम्भवः / अपायोच्छित्त्यकल्पत्वे फलसाक्षात्क्रियां प्रति // abhis_3.14 //

असंसर्गो निमित्तैश्च वस्तुनि व्यञ्जने द्वये / ज्ञानस्य या चानुत्पत्तिरिति सर्वज्ञताक्षणाः // abhis_3.15 //

नैःस्वाभाव्येन रूपादि नित्यानित्यवियोगान्न नित्यं नानित्यम्, दुःखादुःखविगमत्वेन अपगतशाश्वतोच्छेदान्तम्, शून्याशून्यरहितत्वाद् विशुद्धम्, आत्मानात्मस्वभावाभावान्नोत्पन्नं न निरुद्धं न संक्लिष्टं न व्यवदातमित्यादयो दुःखसत्याकारा भवन्ति /

हेत्वहेतुतुच्छत्वादाकाशसदृशम्, समुदयासमुदयविसंयोगात् सर्वक्लेशोपक्लेशनिरुपलिप्तम्, प्रभवाप्रभवासम्बद्धत्वात् परिग्रहेण निर्मुक्तम्, प्रत्ययाप्रत्ययविमुक्तत्वात् स्वरूपतो ऽवचनीयमिति समुदयसत्याकारा भवन्ति /

यस्मान्निरोधानिरोधेनासम्बन्धः, तस्मान्निरोधसत्यार्थो वचनोदाहरणेन सन्तानान्तरे ऽप्रापणीयः, शान्ताशान्ताभावान्नोपलम्भकरणम्, प्रणीताप्रणीतविकलत्वादतिक्रान्तोभयान्ता विशुद्धिः, निःसरणानिःसरणविविक्तत्वात् सर्वव्याध्यनुत्पाद इति निरोधसत्याकारा भवन्ति /

मार्गामार्गरहितत्वादपायोच्छित्तिः, न्यायान्यायासंश्लेअषात् फलसाक्षात्करणं प्रत्युपायो ऽविकल्पत्वम्, प्रतिपत्त्यप्रतिपत्तिविनिर्मुक्तत्वेन सर्वधर्माणां निमित्तैरसंसर्गः, नैर्याणिकानैर्याणिकविकल्पत्वेनोभये वाच्यवाचकभावलक्षणे ज्ञेये शब्दे ज्ञानस्यानुत्पत्तिरिति मार्गसत्याकारा भवन्ति /

एवमेते आकाराः सर्वज्ञताक्षणा इति बोधिसत्त्वानां दर्शमार्गः, तद्विपर्ययेण श्रावकदीनामनित्यादिभिराकारैः सर्वज्ञतायां दर्शनमार्गो विभावनीयः / श्रावकमार्गो बोधिसत्त्वेन परिज्ञातव्यो न साक्षात्करणीय इति भावनामार्गो न निर्दिष्टः /

विस्तरेण एवं निर्दिश्य सकलार्थसङ्ग्राहकत्वेन त्रिसर्वज्ञतामुपसंहरन्नाह -

इति सेयं पुनः सेयं खलु पुनस्त्रिधा / अधिकारत्रयस्यैषा समाप्तिः परिदीपिता // abhis_3.16 //

इति / यथोक्तनीत्या इयं सर्वाकारज्ञता, इयं मार्गज्ञता, इयं सर्वज्ञता चेत्येवं परिवर्तत्रयेण प्रकारत्रयं परिसमाप्तम् /

इति अभिसमयालङ्कारे नाम प्रज्ञापारमिताशास्त्रे तृतीयाधिकारवृत्तिः /

सर्वाकाराभिसम्बोधाधिकारः चतुर्थः

1 - आकाराः

परिज्ञातत्रिसर्वज्ञतावशित्वार्थं पुनः सर्वाकारमार्गवस्तुज्ञानसङ्ग्रहेण त्रिसर्वज्ञतां भावयतीति सर्वाकाराभिसम्बोध इत्याह -

वस्तुज्ञानप्रकाराणामाकारा इति लक्षणम् / सर्वज्ञतानां त्रैविध्यात् त्रिविधा एव ते मताः // abhis_4.1 //

नित्यादिग्राहविपक्षस्य प्रतिपक्षधर्मतास्वभावानामनित्याद्यालम्बनज्ञानप्रकाराणामाकारत्वेन व्यवस्थानं लक्षणम् / ते चाकारास्त्रिसर्वज्ञताभेदात् त्रिप्रकारा एव मताः /

सामान्येनाकारान् निर्दिश्य इदानीं विशेषेणाह -

असदाकारमारभ्य यावन्निश्चलताकृतिः / चत्वारः प्रतिसत्यं ते मार्गे पञ्चदश स्मृताः // abhis_4.2 //

इति / तत्र त्रिसर्वज्ञतामधिकृत्य असद्-अनुत्पाद-विवेक-अनवमर्दनीय-अपद-आकाश-अप्रव्याहार-अनाम-अगमन-असंहार्य-अक्षय-अनुत्पत्तय इति द्वादश आकारा हि यथाक्रमं दुःखादिसत्यत्रयस्य अनित्यादिलक्षणा भवन्ति / क्लेशावरणप्रतिपक्षत्वेनैकः अनास्रवमार्गः, सर्वज्ञतया प्रत्येकबुद्धाः सङ्गृहीता इति तेषां ज्ञेयावरणप्रतिपक्षत्वेन द्वौ सास्रवानास्रवभावनामार्गौ चेति मार्गाः त्रिप्रकाराः /

तत्र प्रथमे अकारकाजानकासंक्रान्त्यविनयाकारा इति चत्वारो यथाक्रमं मार्गादिलक्षणाः (क्लेशावरणप्रतिपक्षे) भवन्ति /

द्वितीये स्वप्न-प्रतिश्रुत्का-प्रतिभास-मायाकारा इति पञ्च यथाक्रमं निःस्वभाव-अनुत्पन्न-अनिरुद्ध-आदिशान्त-प्रकृतिपरिनिर्वृतिलक्षणाः सामान्यतो ज्ञेयावरणप्रतिपक्षभूताः सन्ति /

तृतीये असंक्लेश-अव्यवदान-अनुपलेप-अप्रपञ्च-अमनन-अचलाकारां षट् यथाक्रमं संक्लेश-व्यवदान-क्लेशवासना-रूपादिप्रपञ्च-स्वाधिगम-परिहाणि-विकल्पानां प्रतिनियतज्ञेयावरणानां प्रतिपक्षभूता भवन्ति /

इत्येवं मार्गसत्यस्य पञ्चदश आकाराः / समुदायेन सप्तविंशतिरिति सर्वज्ञताकारा भवन्ति /

तदनन्तरं मार्गज्ञताया आकारा इत्याह -

हेतौ मार्गे च दुःखे च निरोधो च यथाक्रमम् / अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिताः // abhis_4.3 //

तत्र संक्लेशेतरपक्षाश्रयेण समुदयमार्गसत्ये कारणम्, दुःखनिरोधसत्ये च फलमित्यर्थद्वारेण निर्दिष्टे समुदयमार्गदुःखनिरोधसत्येषु यथासंख्यमष्टाद्याकारा बोद्धव्याः //

तत्र विराग-असमुत्थान-शान्त-अराग-अद्वेष-अमोह-निःक्लेश-निःसत्त्वाकारा एव यथाक्रमं यो हेतुः छन्दो रागो नन्दी च, यः समुदयः रागो द्वेषो मोहश्च, यः प्रभवः परिकल्पः, यश्च प्रत्ययः सत्त्वाभिनिवेश इति एतेषां प्रतिपक्षभूतत्वेन त्रयस्त्रय एक एक इत्यष्टावाकाराः समुदयसत्ये भवन्ति /

अप्रमाण-अन्तद्वयाननुगम-असम्भिन्न-अपरामृष्ट-अविकल्प-अप्रमेय-असङ्गाकारा-यथाक्रमं यः सर्वसत्त्वावकाशदो मार्गः यथा व सर्वसत्त्वावकाशदः, यो न्यायो यथा च न्यायः, या प्रतिपत्तिर्यथा च प्रतिपत्तिः, यच्च निर्याणमिति तत्स्वभावा द्वौ द्वौ द्वावेक इति सप्ताकारा मार्गसत्ये भवन्ति /

अनित्य-दुःख-शून्य-अनात्माकाराः पञ्चमालक्षणाकारस्वभावा इत्येवं पञ्चाकारा दुःखसत्ये भवन्ति /

अध्यात्मबहिर्धोभयवस्तूनां निरोधेनाध्यात्मबहिर्धोभयशून्यताकारास्त्रयः निरोधाकारस्वभावाः, शून्यतायां भाजनलोके परमार्थे संस्कृते ऽसंस्कृते शाश्वतोच्छेदान्ते ऽनवराग्रसंसारे अधिगतधर्मानवकारे अभिनिवेशस्य प्रज्ञप्त्यात्मकस्य निरोधेन यथाक्रमं शून्यता-महत्-परमार्थ-संस्कृत-असंस्कृत-अत्यन्त-अनवराग्र-अनवकारशून्यताकारा अष्टौ शान्ताकारस्वभावाः, प्रणीताकारः परपरिकल्पितकारकनिरोधेन प्रकृतिशून्यताकारः, विषयभ्रान्त्यात्मिकानां प्रज्ञप्तिलक्षणकालभ्रान्तीनां च निरोधेन सर्वधर्मस्वलक्षणानुपलम्भशून्यताकारास्त्रयो निःसरणाकारस्वभावाः, स्वभावनिरोधेन अभावस्वभावशून्यताकार एकः निःसरणाकारात्मक इत्येवं षोडशाकारा निरोधसत्ये भवन्ति / समुदायेन षट्त्रिंशदिति मार्गज्ञताकाराः /

तदनन्तरं सर्वाकारज्ञताकारा इत्याह-

स्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमाः / शिष्याणां बोधिसत्त्वानां बुद्धानां च यथाक्रमम् // abhis_4.4 //

सप्तत्रिंशच्चतुस्त्रिंशत्त्रिंशन्नव च ते मयाः / त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधतः // abhis_4.5 //

स्मृत्युपस्थानमारभ्य बुद्धाकारपर्यन्तानां हि त्रिसर्वज्ञतासङ्गृहीतमार्गद्वारेण सर्वाकारज्ञतया सर्वेषामार्यपुद्गलानां सङ्ग्रहणेन च यथासंख्यं श्रावकाणां सप्तत्रिंशत्, बोधिसत्त्वानां चतुस्त्रिंशत्, बुद्धानां त्रिंशन्नव चेति मताः / तत्र सर्वज्ञतायामादौ चतुःसत्यावताराय स्वसामान्यलक्षणपरीक्षितकायवेदनाचित्तधर्मस्मृत्युपस्थानाकाराश्चत्वारो वस्तुपरीक्षामार्गः / ततो ऽवतीर्णस्य वीर्यमिति उत्पन्नानुत्पन्नस्य अकुशलस्य कुशलस्य च यथाक्रमं सम्यक्प्रहाणानुत्पादनार्थं वर्धन (भूयोभाव)-उत्पादनार्थं च हेतुभूतवीर्यात्मकाः सम्यक्प्रहाणाकाराश्चत्वारो व्यावसायिकमार्गः / वीर्यवतश्चित्तकर्मण्यतापादनमिति छन्दवीर्यचित्तमीमांसासमाधिप्रहाणसंस्कारसमन्वागतर्द्धिपादाकाराश्चत्वारः समाधिपरिकर्ममार्गः / कृतचित्तपरिकर्मणो ऽनन्तरमूष्ममूर्धप्रयोगः इति ऊष्ममूर्धस्वभावाः श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियाकाराः पञ्च सम्यगभिसमयप्रायोगिकमार्गः / अधिगतोष्मादेः क्षान्त्यग्रधर्मप्रयोग इति क्षान्त्यग्रधर्मस्वभावाः श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाबलाकाराः पञ्च अभिसमयसंश्लेषमार्गः / विदितोष्मादिचतुष्कस्य सत्यदर्शनमार्गोत्पाद इति स्मृतिधर्मप्रविचयवीर्यप्रीतिप्रस्रब्धिसमाध्युपेक्षाकाराः सप्त बोध्यङ्गान्यभिसमयमार्गः / परिज्ञातसत्यदर्शनस्य भावनामार्गोत्पाद इति सम्यग्दृष्टिसंकल्पवाक्कर्मान्ताजीवव्यायामस्मृतिसमाध्यार्याष्टाङ्गमार्गाकारा विशुद्धनैर्याणिकमार्ग इति शिष्याणां सर्वज्ञतामार्गाधिष्ठानाः सप्तत्रिंशदाकारा भवन्ति /

मार्गज्ञतायां दृष्टिकृतप्रतिपक्षः, तन्निमित्तविकल्पप्रतिपक्षः, त्रैधातुकप्रणिधानप्रतिपक्षः इति तत्स्वभावा यथाक्रमं शून्यानात्माकारस्वभावं प्रथमं विमोक्षमुखम्, निरोधमार्गसत्याकारस्वभावं द्वितीयम्, अनित्यदुःखसमुदयसत्याकारस्वभावं तृतीयमित्येवं त्रिविमोक्षमुखाकारास्त्रयः प्रतिपक्षमार्गः /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.