Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
अभिसमयालंकारवृत्तिः स्फुटार्था
- Thông tin
- GRETIL — Ram Shankar Tripathi: Abhisamayalankaravrti sputartha. Sarnath: Central Institute of Higher Tibetan Studies, 1977, pp. 3-44.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
इति / (1) सर्वसंस्कारवीतरागत्वेन ताम्रनखता / (2) सर्वसत्त्वहिताध्याशयत्वेन स्निग्धनखता / (3) श्रेष्ठवंशप्रभवत्वेन तुङ्गनखता / (4) वृत्तानवद्यत्वेन वृत्ताङ्गुलिता / (5) समुपचितकुशलमूलत्वेन चिताङ्गुलिता / (6) सम्यगनूपूर्वप्रवृतत्वेन अनुपूर्वाङ्गुलिता / (7) सुनिगूढकायादिकर्मान्ताजीवत्वेन गूढशिरता / (8) क्लेशग्रन्थिभेदकत्वेन निर्ग्रन्थिशिरता / (9) सुनिगूढधर्ममतित्वेन गूढगुल्फता / (10) सर्वदुर्गस्थानजनोत्तारकत्वेन अविषमपादता / (11) नराभिभवनकुशलतया सिंहविक्रान्तगामिता / (12) नागाभिभवनकुशलतया नागविक्रान्तगामिता / (13) वैहायसङ्गमकुशलतया हंसविक्रान्तगामिता / (14) पुरुषवृषभकुशलतया वृषभविक्रान्तगामिता / (15) प्रदक्षिणमार्गानुयाततया प्रदक्षिणगामिता / (16) प्रासादिककुशलतया चारुगामिता / (17) नित्यमवक्रचित्ततया अवक्रगामिता / (18) विशुद्धगुणाख्यापकतया वृत्तगात्रता / (19) प्रमृष्टपापधर्मतया मृष्टगात्रता / (20) विनेयानुरूपधर्मदेशकतया अनुपूर्वगात्रता / (21) कायादिशुचिसमुदाचारत्वात् शुचिगात्रता / (22) करुणाचित्तत्वात् मृदुगात्रता / (23) विशुद्धचित्तत्वात् विशुद्धगात्रता / (24) परिपूर्णधर्मविनयत्वात् परिपूर्णव्यञ्जनता / (25) पृथुचारुगुणाख्यानात् पृथुचारुमण्डलगात्रता / (26) सर्वत्र समचित्तत्वात् समक्रमता / (27) सुविशुद्धधर्मदेशनाद् विशुद्धनेत्रता / (28) सुगमधर्मदेशनात् सुकुमारगात्रता / (29) नित्यमदीनचित्तत्वाद् अदीनगात्रता / (30) समुद्गतकुशलत्वाद् उत्सदगात्रता / (31) क्षीणपुनर्भवत्वेन सुसंहतगात्रता / (32) सुविभक्तप्रतीत्यसमुत्पाददेशकत्वेन
सुविभक्ताङ्गप्रत्यङ्गता / (33) सुविशुद्धपदार्थदर्शनाद् वितिमिरशुद्धालोकता / (34) वृत्तसम्पन्नशिष्यसंवर्तनीयत्वेन वृत्तकुक्षिता / (35) प्रमृष्टसंसारदोषत्वेन मृष्टकुक्षिता / (36) भग्नमानशृङ्गत्वेन अभग्नकुक्षिता / (37) धर्मक्षयविनिवर्तकत्वेन अक्षामकुक्षिता / (38) प्रतिविद्धधर्मगम्भीरत्वेन गम्भीरनाभिता / (39) प्रदक्षिणग्राहिशिष्यसंवर्तनीयत्वेन प्रदक्षिणावर्तनाभिता / (40) समन्तप्रासादिकपरिवारसंवर्तनीयत्वेन समन्तप्रासादिकता / (41) शुचिचित्तत्वेन शुचिसमुदाचारता / (42) व्यपगताकालधर्मविनयत्वेन व्यपगततिलकालकगात्रता / (43) कायादिलाघवप्रापकधर्मदेशकत्वेन तूलसदृशसुकुमारपाणिता / (44) प्रतिलब्धस्निग्धमहाश्रमणत्वेन स्निग्धपाणिलेखता / (45) गम्भीरधर्मस्थानत्वेन गम्भीरपाणिलेखता / (46) सम्यगायतिपरिशुद्धधर्मदेशकत्वेन आयतपाणिलेखता / (47) प्रचुरतरशिक्षादेशकत्वेन नात्यायतवचनता / (48) प्रतिबिम्बवत् विदितसर्वलोकत्वेन बिम्बप्रतिबिम्बोपमौष्ठता / (49) मृदुवचनविनयत्वेनमृदुजिह्वता / (50) प्रभूतगुणोपपन्नत्वेन तनुजिह्वता / (51) रक्तबालजनदुरवगाहधर्मविनयत्वेन रक्तजिह्वता / (52) सर्वत्रासापगतत्वेन मेघगर्जितघोषता / (53) मधुराद्यालापत्वेन मधुरचारुमञ्जुस्वरता / (54) निवृत्तभवसंयोजनत्वेन वृत्तदंष्ट्रता / (55) दुर्दान्तजनदमकत्वेन तीक्ष्णदंष्ट्रता / (56) परमशुक्लधर्मविनयत्वेन शुक्लदंष्ट्रता / (57) समभूतिप्रतिष्ठितत्वेन समदंष्ट्रता / (58) सम्यगनुपूर्वाभिसमयप्रकाशकत्वेन अनुपूर्वदंष्ट्रता / (59) प्रज्ञाप्रकर्षस्थापकत्वेन तुङ्गनासता / (60)
शुचिजनसम्पन्नत्वेन शुचिनासता / (61) परमोदारधर्मत्वेनविशालनयनता / (62) समुपचितसत्त्वराशित्वेन चित्तपक्ष्मता / (63) सर्वयुवतिजनाभिनन्दित्वेन सितासितकमलदलनयनता / (64) नित्यमायतिदर्शित्वेन आयतभ्रूकता / (65) श्लक्ष्णधर्मविनयकुशलत्वेन श्लक्ष्णभ्रकता / (66) कुशलस्निग्धसन्तानत्वेन सुस्निग्धभ्रकता / (67) समन्तदोषदर्शित्वेन समरोमभ्रूकता / (68) परमपीडानिवर्तकत्वेन पीनायतभुजता / (69) विजितरागादिसमरत्वेन समकर्णता / (70) सर्वसत्त्वानुपहतसन्तानस्वेन अनुपहतकर्णेन्द्रियता / (71) सर्वदृष्टिकृतान्यथाविपरिणामत्वेन अपरिम्लानललाटता / (72) सर्ववादिप्रमथनत्वेन पृथुललाटता / (73) परिपूर्णोत्तमप्रणिधानत्वेन पूर्णोत्तमाङ्गता / (74) विषयरतिव्यावर्तकत्वेन भ्रमरसदृशकेशता / (75) प्रहीणदर्शनभावनाप्रहातव्यानुशयत्वेन चितकेशता / (76) श्लक्ष्णबुद्धिपरिज्ञातशासनत्वेन श्लक्ष्णकेशता / (77) रागाद्यसंलुठितचेतनत्वेन असंलुठितकेशता / (78) नित्यमपरुषवचनत्वेन अपरुषकेशता / (79) बोध्यङ्गकुसुमावकीर्णत्वेन सुरभिकेशता / (80) सर्वथा शोभासंवर्तनीयत्वेन श्रीवत्सस्वस्तिकनन्द्यावर्तललितपाणिपादतलता चेति /
4 - नैर्माणिककायः
इत्थं कायत्रयं निर्दिश्यं चतुर्थः नैर्माणिककायः सर्वबालजनसाधारण इति / तमाह -
करोति येन चित्राणि हितानि जगतः समम् / आभवात्सो ऽनुपच्छिन्नः कायो नैर्माणिको मुने // abhis_8.33 //
इति / येन शाक्यमुनितथागतादिरूपेण आसंसारं सर्वलोकधातुषु सत्त्वानां समीहितमर्थं समं करोति, असौ कायः प्रबन्धतया अनुपरतो नैर्माणिको बुद्धस्य भगवतः सर्वबालजनसाधारणश्चतुर्थो ऽवसातव्यः /
बुद्धकारित्राणि
इत्येवं स्वाभाविककायस्वरूपभावनाप्रभावितबुद्धादिविषयत्वे ज्ञानाद्यपेक्ष्य परिकल्पितकायत्रयं निर्दिश्यं संवृत्या ज्ञानमेव साम्भोगिककायादिप्रतिभासोत्पादद्वारेणार्थक्रियाकारीति कर्म विनेयजनप्रतिभासभाक् तदाधिपत्याश्रयेणायातं धर्मकाय एवेति /
तथा कर्माप्यनुच्छिन्नमस्यासंसारमिष्यते / गतीनां शमनं कर्म सङ्ग्रहे च चतुर्विधे // abhis_8.34 //
निवेशनं ससंक्लेशे व्यवदानावबोधने / सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च // abhis_8.35 //
बुद्धमार्गे प्रकृत्यैव शून्यतायां द्वयक्षये / संकेते ऽनुपलम्भे च परिपाके च देहिनाम् // abhis_8.36 //
बोधिसत्त्वस्य मार्गे ऽभिनिवेशस्य निवारणे / बोधिप्राप्तौ जिनक्षेत्रविशुद्धौ नियतिं प्रति // abhis_8.37 //
अप्रमेये च सत्त्वार्थे बुद्धसेवादिके गुणे / बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने // abhis_8.38 //
विपर्यासप्रहाणे च तदवस्तुकतानये / व्यवदाने ससम्भारे संस्कृतासंस्कृते प्रति // abhis_8.39 //
व्यतिभेदापरिज्ञाने निर्वाणे च निवेशनम् / धर्मकायस्य कर्मेदं सप्तविंशतिधा मतम् // abhis_8.40 //
इति / तत्र प्रथमं प्रशस्ताप्रशस्तगत्यनभिनिवेशावस्थानलक्षणं गतिप्रशमनं कर्म कृत्वा, दानादिचतुःसङ्ग्रहवस्तुनि प्रतिष्ठाप्य, श्रुतमयादिज्ञानेन विपक्षप्रतिपक्षहेयोपादेयद्वारेण बोधयित्वा, मायाकार इवानुनयादिविविक्ततया मैत्र्यादिलक्षणे परार्थे सत्त्वार्थयाथात्म्ये प्रतिष्ठाप्य, तदनु स्वार्थे त्रिमण्डलविशुद्धिप्रभावितषट्पारमिताभ्यासे, तदनन्तरं स्वपरार्थलक्षणे दशकुशलकर्मपथे बुद्धमार्गे, ततः सर्वधर्मप्रकृतिशून्यताभ्यासे, तदनु दानपारमिताधिष्ठानेन प्रथमायां भूमौ सर्वत्रगधर्मधातुप्रतिवेधलक्षणे अद्वयधर्मे, ततो द्वितीयादिभूमौ सम्भारपरिपूरिहेतुभूते शीलादिपारमितासर्वधर्मसाङ्केतिकज्ञाने निवेशयति / एवमनुक्रमेण प्रज्ञापारमिताधिष्ठानेन षष्ठ्यां भूमौ ज्ञानज्ञेयभावानभिनिवेशलक्षणे सर्वधर्मानुपलम्भे, तदनन्तरं सप्तम्यामुपायपारमिताबलेन सत्त्वपरिपाके, ततो बलपारमिताबलेनाष्टम्यां श्रावकाद्यसाधारणे बोधिसत्त्वमार्गे, पुनस्तत्रैव सर्वभावाभिनिवेशप्रहाणे, तदनु नवम्यां प्रणिधानपारमितासामर्थ्याद् बोधिप्राप्तौ, तदनन्तरं ज्ञानपारमिताबलाद् दशम्यां भूमौ विविधबुद्धक्षेत्रविशुद्धौ प्रतिष्ठाप्य, पुनस्तत्रैव एकजातिप्रतिबद्धस्वरूपे सम्यक् सम्बोधिप्रतिनियमे दशदिग्लोकधातवीयसत्त्वार्थे सर्वलोकधातुबुद्धोपसङ्क्रमणादिगुणे च निवेशयति /
एवमनुक्रमेण पुनस्तत्रैन विशेषमार्गस्वरूपे समस्तबोध्यावाहकधर्मलक्षणे बोध्यङ्गे, कर्मफलसम्बन्धाविप्रणाशे, यथाभूतपदार्थाधिगमे, सर्वविपर्यासप्रहाणे, निर्वस्तुकविपर्यासप्रहाणे ज्ञाने, प्रकृतिपरिशुद्धिलक्षणे बोधिसत्त्वव्यवदाने, सर्वकलङ्कापगतव्यवदानहेतौ सम्भारे, शून्यतास्वभावेन संस्कृतासंस्कृताव्यतिभेदपरिज्ञाने च प्रतिष्ठाप्य ताथागत्यां भूमौ निर्वाणे निवेशयति / एवं धर्मकायवदस्य सप्तविंशतिप्रकारं कर्म आसंसारमिष्यत इति कारित्रम् /
प्रथमचित्तोत्पादस्य अन्तिमकर्मणाञ्च अनुक्रमनिर्देशेन अवशिष्टानां मध्यपदार्थानामपि क्रमो वेदितव्यः, वक्तव्यबाहुल्यभयान्मया नोल्लिखितः /
इति अभिसमयालङ्कारे नाम प्रज्ञापारमिताशास्त्रे अष्टमाधिकारवृत्तिः /
मध्यमरुचिसत्त्वार्थं व्याख्यानम्
एवं विस्तररुचिसत्त्वानुग्रहेण अष्टभिः पदार्थैः (प्रज्ञापारमितां) व्याख्याय पुनरन्यप्रकारेण व्याख्यानायाह -
लक्षणं तत्प्रयोगस्तत्प्रकर्षस्तदनुक्रमः / तन्निष्ठा तद्विपाकश्चेत्यन्यः षोढार्थसंग्रहः // 1 //
इति / प्रथमं सर्वाकारज्ञतादित्रिसर्वज्ञताभिलक्ष्यस्थानीयत्वेन लक्षणम् / ततो वशित्वार्थत्रिसर्वज्ञताभावनां प्रति प्रयुज्यते ऽनेनेति त्रिसर्वज्ञताप्रयोगः सर्वाकाराभिसम्बोधः / ततो ऽत्यभ्यासात् प्रकर्षगमनमिति त्रिसर्वज्ञतायाः प्रकर्षावस्थोमूर्धाभिसमयः / ततो ऽधिगतवस्तुनिश्चयाय व्यस्तसमस्तविभावितार्थप्रगुणीकरणमिति त्रिसर्वज्ञतानुक्रमावस्थो ऽनुपूर्वाभिसमयः / ततो विशेषगमनाभावात् त्रिसर्वज्ञतानिष्ठावस्थः सम्यगेकक्षणाभिसम्बोधः / ततस्तस्य फलम्, इति त्रिसर्वज्ञताविपाको धर्मकायः सकारित्रः / एवं षट्प्रकारेणार्थसंग्रहेण पूर्ववदेव जिनजननी व्याख्येया /
संक्षिप्तरूचिसत्त्वार्थं व्याख्यानम्
मध्यमरुचिसत्त्वानुकम्पया अमुना षट्प्रकारेणार्थसंग्रहेण व्याख्याय पुनः संक्षिप्तरुचिसत्त्वानुरोधेनान्यप्रकारेण व्याख्यानायाह -
विषयस्त्रितयो हेतुः प्रयोगश्चतुरात्मकः / धर्मकायः फलं कर्मेत्यन्यस्त्रेधार्थसंग्रहः // 2 //
इति / आदौ सर्वाकारज्ञतादित्रिसर्वज्ञतास्वभावः प्रवृत्तिविषयहेतुः / स कथं प्रयुज्यत इति तदनन्तरं सर्वाकाराभिसम्बोधादिश्चतुर्विधो ऽभिसमयः प्रयोगः / तस्यैवं प्रयोगवतो विषयस्य किं फलमिति तदनु धर्मकायः सकर्मा फलमित्येवं त्रिविधेनार्थसंग्रहेण तथैव जिनजननी व्याख्येया /
परिणामना
अर्थतः पदतो वापि नामपर्यायतः क्वचित् / तावानेव बुधैर्ज्ञेयः पिण्डार्थः सर्वमातृषु // 1 //
अन्यथा न भवेत्सम्यक् सर्वासां क्रमसंग्रहः / तत्र पिण्डादिभेदेन वैशिष्ट्यं जायते ध्रुवम् // 2 //
आर्यविमुक्तिसेनस्यानुभावेनात्र दर्शितम् / अर्थमात्रं सुबोधाय त्यक्त्वा वचनविस्तरम् // 3 //
वैरोचनं गुरुं नत्वा सदुपाध्यायज्ञानिनम् / कारिकाणां स्फुटा वृत्तिर्हरिभद्रेण रच्यते // 4 //
एतद्ग्रन्थविधानेन यत्पुण्यमर्जितं मया / निखिलाः प्राणिनस्तेन प्राप्नुयुः सौगतीं धियम् // 5 //
सर्वशास्त्रबहिर्भूतः क्वाहं स्वल्पमतिः पुमान् / क्व चार्यगतिगम्यो ऽयं शास्त्रार्थो महिमान्वितः // 6 //
तथाप्यगोचरीभूते यत्नमास्थितवानहम् / परात्महितबुद्ध्यैव क्षम्यतामेष साधुभिः // 7 //
अहो मृशं मया नानामतैः श्रान्तेन वीक्षितम् / शमस्थानं चिरेणेदं प्रज्ञापारमितामतम् // 8 //
इति प्रज्ञापारमितोपदेशशास्त्रे आचार्यहरिभद्रकृता अभिसमयालङ्कारवृत्तिः समाप्ता /
भारतीयपण्डितेन विद्याकरप्रभेण महालोकचक्षुषा वन्देश्रीकूटेन चानूद्य निर्णीता / श्रीपण्डितामरगोम्यादिभिः भिक्षुधीमत्प्रज्ञेन च पश्चात् सुनिर्णीता /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
