Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
अभिधर्मसमुच्चयभाष्य
- Thông tin
- GRETIL — N. Tatia: Abhidharmasamuccayabhāṣyam. Patna 1976 (Tibetan Sanskrit Works Series, 17).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
परिच्छिन्नविषयालंबनतः पञ्चानां विज्ञानकायानामालंबनम्, प्रतिनियतविषयत्वात् पञ्चानां विज्ञानकायानाम् / अपरिच्छिन्नविषयालंबनतः मनोविज्ञानस्यालंबनम्, सर्वधर्मविषयत्वान्मनोविज्ञानस्य / अचित्रीकारविषयालंबनतो ऽव्युत्पन्नसंज्ञानां मनोविज्ञानस्यालंबनम्, नामतो ऽक्षरीकर्तुमशक्यत्वात् / चित्रीकारविषयालंबनतस्तद्विपर्य[या]द्वेदितव्यम् / सवस्तुकविषयालंबनतो दृष्टिमस्मिमानं तत्संप्रयुक्तांश्च धर्मान् स्थापयित्वा तदन्येषामालंबनम् / अवस्तुकविषयालंबनतः स्थापितानामालंबनम्, आत्माधिष्ठानत्वात् / वस्त्वालंबनतो ऽनास्रवालंबनान् विसभागधातुभूमिसर्वत्रगाननिवारितवस्तुकांश्चातीतानागतालंबनान् स्थापयित्वा तदन्येषामालंबनम् / परिकल्पालंबनतः स्थापितानामालंबनम्, स्वपरिकल्पमात्रालंबनात् / विपर्यस्तालंबनं नित्याद्याकाराणाम् / अविपर्यस्तालंबनमनित्याद्याकाराणाम् / सव्याघातालंबनमप्रहीणज्ञेयावरणानाम् / अव्याघातालंबनं प्रहीणज्ञेयावरणानामिति //
आलंबनप्रत्यये विनिश्चयः - लक्षणतो ऽपि प्रभेदतो ऽपि स्थितितो ऽपि परिज्ञानतो ऽपि प्रहाणतो ऽप्यालवनव्यवस्थानं वेदितव्यम् //
कथं लक्षणतः / यो ऽर्थस्तत्प्रतिभासानां चित्तचैतसिकानां धर्माणामुत्पत्तिनिमित्तम, ते चोत्पन्नास्तदर्थाभिनिवेशव्यवहारप्रत्यात्मावगमाय भवन्ति तदालंबनलक्षणम् //
कथं प्रभेदतः / असदालंबनं तद्यथा विपर्यस्तानां चित्तचैतसिकानामतीतानागतस्वप्नप्रतिर्बिबमायाद्यालंबनं च / सदालंबनं तदन्येषाम् / अनालंबनमालंबनं रूपं चित्तविप्रयुक्ता असंस्कृतं च / सालंबनमालंबनं चित्तचैतसिका धर्माः / सम्यक्त्वालंबनं तद्यथा कुशलम् / (अभिध्-स्-भ् 41) मिथ्यात्वालंबनं तद्यथा क्लिष्टम् / नैवसम्यक्रत्वनमिथ्यात्वालंबनं तद्यथानिवृताव्याकृतम् / योनिश आलंबनं तद्यथा कुशलानां चित्तचैतसिकानाम् / अयोनिश आलंबनं तद्यथा क्लिष्टानाम् / नैवयोनिशोनायोनिशस्तद्विनिर्मुक्तानाम् / सभागमालंबनं तद्यथा कुशलादीनां कुशलादीनि स्वभूमिकानां च स्वभूमिकं सास्रवाणां च सास्रवमनास्रवाणां चानास्रवम् / विसभागमालंबनं तद्यथा कुशलादीनामकुशलादीन्यन्यभूमिकानां चान्यभूमिकं सास्रवानास्रवयोश्चानास्रवसास्रवम् / नानात्वमालंबनं तद्यथा सवितर्कविचाराणां चित्तचैतसिकानाम् / एकत्वमालंबनं तद्यथावितर्काविचाराणाम् / विभूत्यालंबनं तद्यथासंज्ञिकप्रायोगिकानां चित्तचैतसिकानामाकाशविज्ञानानन्त्यायतनिकानां च / अभिसंक्षिप्तं सूक्ष्ममालंबनं तद्यथाकिंचन्यायतनिकानाम् / पर्यन्तिकं सूक्ष्ममालंबनं तद्यथा नैवसंज्ञानासंज्ञायतनिकानाम् / क्लेश आलंबनं तेनालंब्यत इति कृत्वा / धर्म आलंबनं तद्यथार्याणां नामकायपदकायव्यञ्जनकायाः / अर्थ आलंबनं तदाश्रितो ऽर्थः / परीत्तमालंबनं तद्यथा श्रावकयानम् / विपुलमालंबनं तद्यथा महायानम् / निमित्तमालवनं तद्यथा शमथप्रग्रहोपेक्षानिमित्तानि / अनिमित्तमालंबनं तद्यथा निर्वाणं भवाग्रयं च / तत्त्वमालंबनं तद्यथा तथता षोडशानां चाकाराणां सत्यानि / वैहारिकमालंबनं तद्यथा निरोधसमापत्तिः / वशवर्त्यालंबनं तद्यथा विमोक्षादीनां सर्वाकारज्ञतावसानानां गुणानाम् / क्षणिकमालंबनं तद्यथाशैक्षाणां तज्जन्मिकमेव / अनुवर्त्यालंबनं तद्यथा बुद्धबोधिसत्त्वानाम् //
कथं स्थितितः / आलंबनस्यापरिनिष्पत्तितस्तथा व्यवस्थापनात् / चतुर्भिश्च कारणैरपरिनिष्पन्नमालंबनं वेदितव्यम् - विरुद्धविज्ञाननिमित्ततया, (अभिध्-स्-भ् 42) अ[न्]आलंबनविज्ञानोपलब्ध्या, यत्नमन्तरेणाविपर्यासप्रसङ्गतया, त्रिविधज्ञानानुवर्तनतया च / ततश्च ग्राहकस्याप्यपरिनिष्पत्तिः / त्रिविधं ज्ञानं वशिताज्ञानं विपश्यनाज्ञान निर्विकल्पज्ञानं च / तत्र चतुर्णा कारणानामुदाहरणानि /
प्रेततिर्यग्मनुष्याणां देवानां च यथार्ह तः / तुल्यवस्तुमनोभेदादर्थानिष्पत्तिरिष्यते // व्1
अतीतादौ तथा स्वप्ने प्रतिबिंबद्वये ऽपि च / असन्नालंबनत्वाच्च तदालंबनयोगतः // व्2
अर्थस्यार्थत्वनिष्पत्तौ ज्ञानं न स्यादकल्पकम् / तदभावाच्च बुद्धत्वप्राप्तिर्नैवोपपद्यते // व्3
बोधिसत्त्वे वशिप्राप्ते ऽधिमुक्तिवशाद्यतः / तथाभावः पृथिव्यादौ ध्यायिनां चोपलभ्यते // व्4
निष्पन्नविचयस्येह धीमतः समाधिलाभिनः / सर्वधर्ममनस्कारे तथार्थख्यानतो ऽपि च // व्5
ज्ञानचारे ऽविकल्पे हि सर्वार्थाख्यानतो ऽपि च / अर्थाभावोपगन्तव्यो विज्ञप्तेस्तदभावतः // व्6
कथं परिज्ञानतः / लक्षणप्रभेदस्थितीनां यथाभूतज्ञानतः //
कथं प्रहाणतः / श्रावकयानमहायानाभ्यामाश्रयपरिवृत्तितः / श्रावकयानाश्रयपरिवृत्त्या स्कन्धधात्वायतनालंबनेभ्यो विमोक्षो न तु तेषु विभुत्वलाभः / महायानाश्रयपरिवृत्त्या तूभयमिति / समाप्त आलंबनप्रत्यये यथाग्रन्थं विनिश्चयः /
प्रतिष्ठाधिपतितः वायुमण्डलादीन्यम्मण्डलादीनाम्, भाजनलोकः सत्त्वलोकस्य, भूतानि भौतिकानाम्, इन्द्रियाणि विज्ञानानामित्येवमादि / आवेधाधिपतितः सर्वसत्त्वसाधारणं कर्म भाजनलोकस्य, पौराणं सास्रवकर्म विपाकस्येत्येवमादि सहभावाधिपतितः चित्तं चैतसानाम्, मनस्कारः चित्तस्य, स्पर्शी वेदनाया इत्येवमादि / अतः परं द्वाविशति मिन्द्रियाण्यधिकृत्याधिपतिव्यवस्थानं वेदितव्यम् / तत्र विषयाधिपतितः चक्षुःश्रोत्रघ्राणजिह्वाकायमनैन्द्रियानाम्, तदाधिपत्येन रूपाद्यभिनिर्वृत्तेः / (अभिध्-स्-भ् 43) प्रसवाधिपतितः स्त्रीपुरुषेन्द्रिययोः, तदाधिपत्येन गर्भावक्रमणात् / स्थानाधिपतितो जीवितेन्द्रियस्य, तद्वशेन निकायसभागस्थानात् / फलोपभोगाधिपतितः सुखदुःखसौमनस्योपेक्षेन्द्रियाणाम्, तदधिष्ठानेनेष्टानिष्टविपाकप्रतिसंवेदनात् / लौकिकविशुध्यधिपतितः श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियाणाम्, तैः क्लेशविष्कम्भणात् / लोकोत्तरविशुध्यधिपतितो ऽनाज्ञातमाज्ञास्यामीन्द्रियस्याज्ञेन्द्रियस्याज्ञातावीन्द्रियस्य च व्यवस्थानं वेदितव्यम्, तैरनुशयसमुद्घातादिति //
विज्ञानाविरहिततत्सादृश्येन्द्रियविषयप्रबन्धोत्पत्तितः सभागं वेदितव्यम्, विज्ञानसहितस्य विज्ञानसादृश्येनेन्द्रियस्य विषयेषु प्रबन्धेनोत्पत्तेः विज्ञानवृत्तिसादृश्यार्थेन तदिन्द्रियं सभागमित्युच्यते / विज्ञानविरहितस्वसादृश्यप्रबन्धोत्पत्तितस्तत्सभागम्, विज्ञानेन विप्रयुक्तस्येन्द्रियस्य स्वात्मसादृश्येन प्रबन्धोत्पत्तिरिन्द्रियलक्षणसादृश्यार्थेन तत्सभागं वेदितव्यम् / रूपस्कन्धैकदेशश्चक्षुरादिपञ्चेन्द्रियलक्षणः / पञ्च रूपीणि धात्वायतनानि चक्षुरादीनीत्येव /
वेदनोत्पत्त्याश्रयरूपत इति यद्रूपमाश्रित्य वेदनोत्पद्यते तदुपात्तमित्युच्यते / रूपस्कन्धैकदेशः साधिष्ठानेन्द्रियसंगहीतः / पञ्च रूपीणि धात्वायतनानि चक्षुरादीनि / चतुर्णां चैकदेशः रूपगन्धरसस्प्रष्टव्यानामिन्द्रियाविनिर्भागी //
विषयग्रहणाधिपतितश्चक्षुरादीनां षण्णाम्, तदाधिपत्येन रूपाद्यालंबने चित्तचैतप्रवृतेः / कुलप्रबन्धाधिपतितः स्त्रीपुरुषेन्द्रिययोः, ततः पुत्रपौत्राद्यन्वयप्रवृत्तेः / शेषं यथाधिपतिप्रत्यये निर्दिष्टं तथानुगन्तव्यम् / रूपस्कन्धैकदेशश्चक्षुः श्रोत्रघ्राणजिह्वाकायस्त्रीपुरुषेन्द्रियलक्षणः / संस्कारस्कन्धैकदेशो जीवितश्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियलक्षणः / द्वादश धातव इन्द्रियविज्ञानधातवः / षडायतनान्याध्यात्मिकानि / धर्मधात्वायतनैकदेशश्च जीवितेन्द्रियं सुखादीनि श्रद्धादानि पञ्च //
दुःखा वेदना दुःखात्मिका सती स्वेनैव लक्षणेन दुःखदुःखताः / तदुत्पत्तिनिमित्तभूतास्त्विन्द्रियार्थास्तत्संप्रयुक्ताश्च दुःखवेदनीयत्वाद्दुःखदुःखता द्रष्टव्या //
सुखाया वेदनायास्तद्वेदनीयानां च धर्माणां विपरिणामेन दौर्मनस्योत्पादात् तद्विपरिणतिर्विपरिणामदुःखता / तत्र चानुनयेन चित्तस्य विपरिणमनं विपरिणामदुःखता वेदितव्या / यथोक्तमवदीर्णो विपरिणतेन चित्तेनेति //
अदुःखासुखा वेदनालयविज्ञानसंप्रयुक्ता तद्वेदनीयाश्च संस्कारा दुःखविपरिणामदुःखतयोदौष्ठुल्येनानुगतत्वात्तेन दुःखताद्वयेनाविनिर्मुक्तत्वादेकदा दुःखावस्थां भजन्ते एकदा सुखावस्थां, न नित्यकालमदुःखासुखावस्था एव भवन्ति / तस्मादनित्यतानुबन्धार्थेनायोगक्षेमत्वात्संस्कारदुःखता वेदितव्या / स्कन्धानाम् / त्रयाणां धातूनां मनोधर्ममनोविज्ञानधातूनाम् / द्वयोश्चायतनयोर्मनोधर्मायतनयोः / एकदेशं स्थापयित्वानास्रवलक्षणम्, तदन्यानि सर्वाणीति //
अकुशलस्य कुशलसास्रवस्य चायत्या ससंप्रयोगमालयविज्ञानं विपाकः / अतस्तेन विपाकेन तदुभयं सविपाकमित्युच्यते / स्कन्धानाम् / दशानां धातूनां विज्ञानरूपशब्दधर्म धातूनाम् / चतुर्णा चायतनानां रूपशब्दमनोधर्मायतनानाम् / एकदेशो ऽव्याकृतानास्रववर्जः / आलयविज्ञानात्तदन्यत्तु चक्षुरादिकं च सुखदुःखादिकं च तद्विपाक्रजमित्याख्यां लभते ततो जातमिति कृत्वा /
परिणतितः पारिणामिकः कवडीकार आहारः, परिणामकाले इन्द्रियमहाभूतपोषणात् / विषयतो वैषयिकः स्पर्शाहारः, इष्टविषया धिष्ठानेन स्पर्शेनाश्रयानुग्रहणात् / आशात आशिकः मनः संचेतनाहारः, अभिप्रेतवस्तुप्रतिवद्धाशावशेनाश्रयानुग्रहणात् / उपादानत औपादानिकः विज्ञानमाहारः, आलयविज्ञानोपादानवशेनात्मभा वोपस्थानात् / तथाहि तद्वियुक्त आश्रयः पूतीभवतीति /
पुनश्चत्वारो ऽप्याहाराः समस्य चतुर्भिः प्रभेदैर्व्यवस्थाप्यन्ते / तद्यथा अशुद्धाश्रयस्थितिकः कामावचराणां पृथग्जनानाम्, सकलबन्धनत्वात् / शुद्धाशुद्धाश्रयस्थितिकः शैक्षाणां रूपारूप्यावचराणां च पृथग्जनानाम्, सावशेषवन्धनत्वात् / शुद्धाश्रयस्थितिको ऽर्हताम्, सर्वबन्धनविनिर्मुक्तत्वात् / स्थितिसांदर्शिको बुद्धानां बोधिसत्त्वानां च महाप्रभावप्राप्तानाम्, आहारवशेन स्थितिरिति संदर्शनमात्रत्वात् //
असंस्कृतैकदेशः निष्पन्नस्वभावः सोत्तरमिति निर्वाणं मुक्त्वा, तस्य सर्वधर्माग्रत्वादिशुद्धायाश्च तथतायास्तल्लक्षणत्वात् //
समासतः प्रभेदस्त्रिविधः, त्रिविधं स्वभावमधिकृत्य पुद्गलनैरात्म्यनयेन वेदितव्यः / तत्र परिकल्पितः स्वभावः स्कन्धादीन्यधिष्ठायाविद्यमान आत्मादिस्वभावो यः परिकल्पितः / परतन्त्रः स्वभावस्तान्येव स्कन्धादीनि यत्रासावात्मद्यभूतविकल्पः प्रवृत्तः / परिनिष्पन्नः स्वभावो भावाभाववियुक्तलक्षणा हि तथता, स्कन्धादिष्वात्माद्यभावनैरात्म्यास्तितालक्षणत्वात् //
लक्षणप्रभेदो धर्माणां स्वभावमधिकृत्य, रूपं वेदनेत्येवमादि / प्रकार[प्र]भेदो विशेषमधिकृत्य, द्रव्यसन्तः प्रज्ञप्तिसन्त इत्येवमादि / आश्रयप्रभेदः प्रत्यात्मभावं स्कन्धादीनां नानात्वमधिकृत्य /
संततिप्रभेद एकस्मिनप्यात्मभावे स्कन्धादीनां प्रतिलक्षणमन्यथात्वमधिकृत्य //
बहिर्मुखप्रभेदो यद्भूयसा कामावचर इति भूयोग्रहणं निष्पन्दधर्महेतुकश्रुतचिन्तामयव्युदासार्थम् // समाप्तः प्रभेदः //
लक्षणसंग्रहेण रूपस्कन्धो रूपस्कन्धेनैव संगृहीतो विस्तरेण यावद्धर्मायतनं धर्मायत[ने]नैव / धातुसंग्रहेण सर्वाणि स्कन्धधात्वायतनान्यालयविज्ञानेन संगृहीतानि, सर्वेषां तत्र बीजतो ऽस्तित्वात् / जातिसंग्रहेण स्कन्धैः राश्याद्यर्थयुक्ता रूपादयः सर्वे संगृहीता विलक्षणा अप्यन्योन्यं स्वलक्षणेनैकजातीयत्वात् / एवं धातुभिश्चायतनैश्चोपभोगधारणार्थयुक्ता आयद्वारार्थयुक्ताश्चक्षुरादयः संगृहीता वेदितव्याः / अवस्थासंग्रहेण स्कन्धा एकजातीया अपि सुखाद्यवस्थां नियमय्य सुखावस्थाः सुखावस्थैरेव संगृहीता न दुःखाद्यवस्थैः / एवं दुःखावस्थादुःखासुखावस्थाश्च तदवस्थै[रे]व संगृहीताः / यथा स्कन्धा एवं धातव आयतनानि च / सहायसंग्रहेण रूपस्कन्धः सह तदाश्रितैर्वेदनादिभिः सहायैर्गृह्यमाणः पञ्चभिः स्कन्धैः संगृहीतः / एवं वेदनादयापि प्रत्येकं सपरिवारा गृह्यमाणाः पञ्चभिः स्कन्धैः संगृहीता भवन्ति / तथा धातव आयतनानि च सपरिवाराणि प्रत्येकं सर्वर्धातुभिरायतनेश्च संगृहीतानि वेदितव्यानि / एकदेशसंग्रहेण शीलस्कन्धो रूपस्कन्धैकदेशेन संगृहीतः / समाधिप्रज्ञास्कन्धौ संस्कारस्कन्धैकदेशेन / कामव्यापादहिंसाधातवो धर्मधात्वेकदेशेन संगृहीताः / आकाशानन्त्यायतनादीनि मनोधर्मायतनैकदेशेन संगृहीतानि / एवं कृत्वा यावन्तो धर्माः स्कन्धधात्वायतनैः संगृहीताः सूत्रान्तरेषु तेषामन्यतमसंग्रह एकदेशसंग्रहो वेदितव्यः / सकलसंग्रहेण दुःखस्कन्धः पञ्चभिरुपादानस्कन्धैः संगृहीतः, कामधातुरष्टादशभिर्धातुभिः, असंज्ञि सत्त्वायतनं दशभिरायतनंगन्धरसायतनवर्जैः संगृहीतम् / एवं कृत्वा यावन्तो धर्माः स्कन्धधात्वायतनंः संगृहीताः सूत्रान्तरेषु तेषामशेषतः संग्रहः सकलसंग्रहो वेदितव्यः / इतरेतरसंग्रहेण स्कन्धाः प्रत्येकं धातुभिरायतनैश्च संगृहीताः, यथायोगमेवं धातवः स्कन्धायतनरायतनानि स्कन्धधातुभिः संगृहीतानि [इति] विस्तरेणावगन्तव्यम् //
संग्रहलक्षणं पुनर्लोकप्रसिद्धसंग्रहानुसारेण षडिद्वधं द्रष्टव्यम् / तत्पुनः कतमत् / पदस्थानसंग्रहो यथा जम्बूद्वीपसंगृहीता मनुष्याः, अरण्यसंगृहीता मृगा इति लोके उच्यते तथेहापि चक्षुरादिभिः चक्षुर्विज्ञानादीनां संग्रहो वेदितव्यः / निबन्धसंग्रहो यथा रज्ज्वादिना काष्ठभारादिकस्य तथा कायेन चक्षुरादोनामिन्द्रियाणाम् / तुल्यार्थसंग्रहो यथा समानसर्वप्रयोजनानां विस्रम्भिणां मनुष्याणां परस्परं तर्थकालंबनप्रवृत्तानां संप्रयुक्तानामान्योन्यम् / उपादानसंग्रहो यथा स्वामिना आत्मीयतः परिग्रहीतादीना दासादीनां तथालयविज्ञानेनात्मभावस्य / अविसारसंग्रहो यथा घटेनोदकस्य तथा समाधिना तदन्येषां चित्तचैतसिकानाम् / अभिसंक्षेप[सं]ग्रहो यथा समुद्रेण नदीनां तथा रूपस्कन्धेन चक्षुरादोनामिति / तदत्राभिसक्षपसंग्रहमधिकृत्यकादशविधः संग्रहो वेदितव्यः //
परमाणुदेशे सर्वेषां देशिनामित्येकपरमाणुपर्यापन्नानां रूपादीनामविनिर्भागः समानदेशत्वेन वेदितव्यः / परमाणोरूर्ध्व सर्वेषां देशिनां मिश्रीभावः तद्यथा कलुषे पानीये अप्पृथिवीपरमाणूनां परम्परम् / देशिनामेव समुदायिनामन्योन्यं समवधानं तद्यथा भित्तौ मृत्पिण्डेन मृत्पिण्डान्तरस्य / सहभावसं[प्र]योग एकात्मभावे क्षणिकानां स्कन्धादीनाम् / कृत्यानुष्ठानसंप्रयोग एकस्मिन् प्रयोजने प्रयुक्तानामन्योन्यम् / संप्रतिपत्तिसंप्रयोगः परभावेन न स्वभावेन तद्यथा चित्तं चित्तान्तरेण न संप्रयुज्यते, वेदना वेदनान्तरेणेत्यवमादि / न विरुद्धयोस्तद्यथा रागद्वेषयोः कुशलाकुशलयोर्वेत्येवमादि / न विसदृशकालयोस्तद्यथा वर्तमानानागतयोरतीतवर्तमानयोर्वा / न विसभागधातुभूमिकयोस्तद्यथा कामावचररूपावचरयोः प्रथमद्वितीयध्यानभूमिकयोर्वेत्येवमादि / सर्वत्रगः संप्रतिपत्तिसंप्रयोग वेदनादीनां षण्णां सर्वास्ववस्थास्वेषां विनान्योन्यमभावात् / उचितस्तदेकत्यानां च शैक्षाशैक्षाणामित्येकान्तलौकिकानां कुशलानामकुशलाव्याकृतानां च यथासंभवम् / आद्यतदुत्तराणामित्यपूर्वजातीयत्वेन प्रथमक्षणोत्पन्नानां द्वितीयादिक्षणोत्पन्नानां च लोकोत्तराणामनुचितत्वज्ञापनार्थम् //
समन्वागमो लक्षणतः पूर्ववत्तद्यथा कुशलादीनां धर्माणामाचयापचये प्राप्तिः प्रतिलम्भः समन्वागम इति प्रज्ञप्तिः / बीजसमन्वागम इति कामधातौ जातौ भूतस्त्रैधातुकैः क्लेशोपक्लेशैः समन्वागत इत्यवीतरागं पृथग्जनमधिकृत्यैतद्वैदितव्यम् / वीतरागस्तु तत्रोर्ध्वं वा जातो यतो भूमेर्वीतरागस्तद्भूमिकैरसमन्वागतः समन्वागतश्च, प्रतिपक्षेणोपहतत्वादसमुद्धातितत्वाच्चानुशयतो यथाक्रमम् / उपपत्तिप्रातिलम्भिकंश्च कुशलरिति यत्र जातस्तद्भूमिकैरेव / त्रैधातुकप्रतिपक्षलाभीति लोकोत्तरमार्गलाभी / यस्य यस्य प्रकारस्य प्रतिपक्ष उत्पन्न इति भावनाप्रहातव्यस्याधिमात्रादेः क्लेशस्य / तस्य तस्य बीजसमन्वागमेनासमन्वागतो ऽनुशयतः समुद्धातितत्वात् / वशितासमन्वागमः प्रायोगिकानां कुशलानामिति श्रुतमयादीनां सत्यपि बीजे तदभ्यासकृतां तज्जन्मिकीं बीजपुष्टिमन्तरेण संमुखीकर्तुमशक्यत्वात् / तदेकत्यानां चाव्याकृतानां शंल्पस्थानिकनैर्माणिकचित्तप्रभृतीनाम् //
मोक्षहेतुवैकल्यादात्यन्तिक एषां हेत्वसमन्वागम इति / मोक्षप्राप्तिहेत्वसमन्वागम इत्यर्थः / कः पुनर्मोक्षप्राप्तिहेतुः / यस्यैवं तथतायां क्लेशदौष्ठुल्यं संनिविष्टं भवति तत्सति प्रतिपक्षानुकूलप्रत्ययलाभे शक्यते समुद्धातयितुम्, स भव्यता र्थेन हेतुरित्युच्यते / विपर्ययाद्धेतुवैकल्यं वेदितव्यम् //
इइ सत्यविनिश्चयो नाम द्वितीयः समुच्चयः
तत्सत्त्वजन्मतो जन्माधिष्ठानतश्चेति यश्च जायते सत्त्वलोकः, यत्र च जायते भाजनलोके, तदुभयं दुःख मित्युक्तं भवति / यश्च सत्त्वलोको यश्च भाजनलोकः कर्मक्लेशजनितः कर्मक्लेशाधिपतेय इत्याभ्यां तयोः सत्त्वभाजनलोकयोर्दुःखत्वकारणं ज्ञापयति //
अपि खलु जातिर्दुःखमित्येवमादि पूर्वं समस्य दुःखसत्यलक्षणं व्युत्पाद्याधुना दुःखसत्यमारभ्य सूत्रोक्तस्य निर्देशस्यार्थ विभक्तुमारभते //
जातिर्दुःखं संवाददुःखतां तदन्यदुखस्वाश्रयतां चोपादायेति मातुः कुक्षावामपक्वाशययोरन्तराले आसीनस्य निष्क्रामतो वा कुक्षेर्विविधाशुचिद्रव्यासंपीडाङ्गसंमर्ददुःखानुभवनार्थेन, जातौ सत्यां जरादिदुःखाभ्यनुषङ्गार्थेन च यथाक्रमम् //
षट् समानान्यष्टौ भवन्ति विपरिणतिदुखं त्रिधा कृत्वा //
जात्यादिभिर्दुःखदुःखतापरिदीपनवचनं दुःखवेदनीयधर्मस्वलक्षणार्थेन / प्रियविनामावादिना विपरिणामदुःखतापरिदीपनवचनं प्राप्ताप्राप्तसुखवेदनीयधर्मविपरिणतिस्वलक्षणार्थेन / पञ्चोपादानस्कन्धा दुःखमित्यनेन (अभिध्-स्-भ् 50) संस्कारदुःखतापरिदीपनवचनं द्वयाविनिर्मोक्षानित्येता नुबन्धयोगक्षेमार्थेन //
जातिर्दुखमित्येवमादि संवृतिसत्येन दुखम्, लौकिकज्ञानविषयत्वात् / पञ्चोपादानस्कन्धा दुःखमिति परमार्थसत्येन दुखम्, संनिवेशतथतामुखेन लोकोत्तरज्ञानविषयत्वात् //
दुःखसामान्यलक्षणे यैराकारैर्योगिने दुःखसत्यं व्यवचारयन्ति, तद्यथानित्यतो दुःखतः शून्यतो ऽनात्मतश्च //
तत्र द्वादशविधेन लक्षणेनानित्यं दुःखसत्यं वेदितव्यम् / तत्पुन रसल्लक्षणं यथा नास्ति सर्वदा दुःखसत्यमा[त्मा]त्मोयस्वभावमिति यो ऽर्थः सो ऽर्थो ऽनित्यं दुःखसत्यमिति / अकारस्य प्रतिषेधार्थत्वात् नित्यशब्दस्य च सर्वकालार्थत्वादिति / विनाशलक्षणं संस्काराणां भूत्वाभावः / विपरिणतिलक्षणं प्रबन्धासादृश्येन प्रवृत्तिः / वियोगलक्षणं तदवस्थेष्वेव वस्तुषु स्वभाववशित्वभ्रंशः क्वचित्परैः स्वीकरणमपि वेदितव्यम् / संनिहितलक्षणं यत्तदानीमेवानुभूयमानानित्यता / धर्मतालक्षणं यामवश्यमनुभविष्यति / क्षणलक्षणमात्मलाभानन्तरमवश्यविनाशिता / प्रबन्धलक्षणमनादिमति संसारे आजवंजवीभावेन वृत्तिः / व्याधिजरामरणलक्षणं धातुवैषम्यं खलित्यादिकं स्थितिकालावेधोपयोगश्च / चित्तचित्ताकारवृत्तिलक्षणं विपक्षप्रतिपक्षावस्थानावस्थितत्वम् / भोगसंपत्तिलक्षणं सर्वलौकिकसमृद्धो नामनात्यन्तिकतया दुरन्तत्वम् / भाजनसंवर्तविवर्तलक्षणं महापृथिव्यादिनामग्न्यादिभिः पुनः पुनर्विनाश[त] उत्पादतश्च, अग्न्यम्बुवायुसंवर्तनीभिर्दहनक्लेदनशोषणात्मिकाभिर्यथाक्रमम् / प्रथमद्वितीयतृतीयध्यानस्थानावसाने लोकसंनिवेशे संवृत्ते तदूर्ध्वं यान्यवशिष्यन्ते द्वितीयतृतीयचतुर्थध्यानस्यानान्तराणि तानि तासां शीर्षाणि वेदितव्यानि / चतुर्थध्यानभूमिकानां तर्हि विमानानां केन संवर्तविवर्तः / न केन चिद्बाह्येन, तैरेव तु सर्वैर्जायमानैः सह तानि विमानानि निर्वर्तन्ते च्यवमानैः सह (अभिध्-स्-भ् 51) तानि निरुध्यन्त इति / स एव तेषां संवर्तविवर्तो वेदितव्यः / यैः कल्पस्य निर्याणं भवतीति परिसमाप्तिर्भवतीत्यर्थः / एको ऽन्तरकल्पो ऽपकर्षः विवर्तकाले एकान्नविंशति[त]मः / अष्टादश उत्कर्षापकर्षाः / तत ऊर्ध्वमेक उत्कर्षः पश्चिमः / आयुक्षयान्मरणं कालच्युतिमधिकृत्य यावदाक्षेपमायुषः परिसमाप्तत्वात् / पुण्यक्षयादकालच्युति[मधिकृत्य] समापत्त्यास्वादनतया तदायुराक्षेपककर्मभावनोपधातात् / कर्मक्षयात्प्रबन्धच्युतिमधिकृत्य, तस्मिन्नायतने उपपद्यापरपर्यायवेदनीयकर्मण उपयुक्तत्वादभावाद्वा तत्र भूयो ऽनुत्पत्तितो वेदितव्यम् //
अष्टाकारं वा दुःखमिति संबाधदुःखतादि / उत्पादांशिकी अनित्यता अभूत्वा भावः, स च दुःखपक्ष्याणां संस्काराणां बाधनात्मकः / इति तामनित्यतां प्रतीत्य दुःखदुःखता प्रज्ञायते / व्ययांशिकी भूत्वाभावः, स च सुखपक्ष्याणां संस्काराणामनभिप्रेतः / इति तां प्रतीत्य विपरिणामदुःखता प्रज्ञायते / सदौष्ठुल्यानां संस्काराणां प्रबन्धेनोदयो ऽप्यनभिप्रेतः, व्ययो ऽपीति तदुभयांशिकीमनित्यतां प्रतीत्य संस्कारदुःखता प्रज्ञायते / संस्कारानित्यतां संस्कारविपरिणामतां च संधायोक्तम् - मया यत्किंचिद्वेदितमिदमत्र दुःखस्येत्ययमदुःखासुखस्य सुखस्य च वेदितस्य दुःख वचने ऽभिसंधिर्वेदितव्यः / दुःखस्य तु वेदितस्य दुःखत्वेन प्रसिद्धत्वाल्लोके न तत्र पुनरभिसंधिरुच्यत इति / येषु चानित्येषु संस्कारेषु जात्यादिकं प्रज्ञायते [तेषाम्] अनित्यत्वात् दुःखमित्यभिसंधिर्वेदितव्यः / अन्यथा मार्गो ऽप्यनित्यत्वाद्दुःखं स्यादिति //
शून्यतालक्षणं नित्यादिलक्षणस्यात्मनः संस्कारेभ्यो ऽर्थान्तरभूतस्य तेष्वभावः / तेषां च संस्काराणां नित्यकालं तद्रहितप्रकृतिकलक्षणस्य (अभिध्-स्-भ् 52) नैरात्म्यस्य भावस्तदुभयं शून्यतेत्युच्यते / स्वभावशून्यता परिकल्पितं स्वभावमु[पा]दाय, तस्य स्वलक्षणेनैवाभावात् / तथाभावशून्यता परतन्त्रं स्वभावमुपादाय, तस्य येन येन प्रकारेण परिकल्प्यते तेन तेन प्रकारेणाभावात् / प्रकृतिशून्यता परिनिष्पन्नं स्वभावमुपादाय तस्य शून्यताप्रकृतिकत्वात् //
अनात्मलक्षणं पुनस्तेषामेव संस्काराणामात्मवादिभिः परिकल्पितेनात्मलक्षणेनानात्मलक्षणता //
विनाशादिलक्षणानित्यता प्रसिद्धा, क्षणिकलक्षणा तु न प्रसिद्धा सर्वसंस्काराणामतः सा प्रसाधयितव्या / तत्र चित्तचैतसिकानां क्षणिकत्वं लोके प्रसिद्धमतः तेनाप्रसिद्धं रूपस्य क्षणिकत्वं प्रसाध्यते / कथमिति / चित्तोपात्ततामुपादाय, क्षणिकेन हि चित्तेन काय उपात्त / केनार्थेन / चित्तैकयोगक्षेमतामुपादाय, तथाहि कायः सविज्ञानक एव समुदागच्छति विज्ञानापक्रान्त्या च पूतीभवति / तस्माच्चित्तेनैकयोगक्षेमत्वात्तदिवास्य क्षणिकत्वं वेदितव्यम् / किं च चित्ताश्रयतामुपादाय, चित्तस्य हि [वि]कारेण कायस्य विकारो दृश्यते सुखदुःखरागद्वेषाद्यवस्थासु / अतः प्रतिक्षणं विकारिणश्चेतसो ऽनुविधानात् कायस्य क्षणिकत्वं सिद्धम् / चित्ताधिपत्यसंभूततामुपादाय, चित्तस्य हि सेन्द्रियः काय आश्रयः प्रसिद्धः, यस्य च य उत्पत्याश्रयो नासौ स्वविनाशमन्तरेण तस्याश्रयीभवन्दृष्टः / तद्यथाग्न्यंकुरादीनामिन्धनबीजादिकः / तस्मात्प्रतिक्षणं चित्तस्याश्रयभावात्प्रतिक्षणमेव विनश्यतीति सिद्धम् / चित्तस्याधिपत्यसंभूततामुपादाय, सर्वं ह्याध्यात्मिकबाह्यं रूपं चित्तस्याधिपत्येन संभवति / अतः कारणस्य क्षणिकत्वात्कार्यस्य क्षणिकत्वं वेदितव्यम्, ये हेतवो ये प्रत्ययाः रूपस्यात्पादाय ते ऽप्यनित्याः, अनित्यान् खलु हेतुप्रत्ययान् प्रतीत्योत्पन्नं रूपं कुतो नित्यं भविष्यतीति सूत्रपदानुसारेण / चित्तवशवर्त्तितां चोपादाय, प्रभावविशिष्टस्य च चित्तस्य (अभिध्-स्-भ् 53) रूपं वशे वर्तते, तेन यथेष्टं परिणामात् / अतः प्रतिक्षणमन्यथाधिमोक्षे सत्यन्यथोत्पादात्क्षणिकत्वसिद्धिः / अपि खलु अन्ते विकारोपलब्धितामुपादाय, न हि प्रतिक्षणप्रकृतिविकारितामन्तरेणाकस्मिको रूपस्यान्ते विकारो युक्तः, स चोपलभ्यते / तस्मात्स्वासांतानिकप्रतिक्षणविकाराभिवृद्धिहेतुकत्वादन्त्यस्य रूपविकारस्य क्षणिकं रूपमिति सिद्धम् / उत्पन्नस्य चानपेक्ष्य प्रत्ययं स्वरसविनाशितामुपादाय, सर्वस्योत्पन्नस्य विनाशः प्रत्ययमनपेक्ष्य स्वरसेनैव भवति / अतः प्रत्ययान्तरनिरपेक्षो ऽवश्यंभावी विनाश उत्पन्नमात्रस्यैव भावस्य न भवति पश्चाद्भतीति [न] किंचिद्विशेषणमस्ति / तस्मात्सर्वेण विनाशिनोत्पन्नमात्रेण विनष्टमिति सिद्धं क्षणिकत्वम् //
एकप्रदेशाश्रयिभावार्थ उपादायार्थः, भूतदेशनिरपेक्षस्य पृथक् स्वतन्त्रवृत्तितासामार्थ्याभावात् / अस्ति समुदाय एकभौतिकस्तद्यथा शुष्को मृत्पिण्डः / अस्ति द्विभूतिकः स एवार्द्रः / अस्ति त्रिभूतिकः स एवोष्णः / अस्ति सर्वभूतिकः स एवार्द्र उष्णश्च मृत्पिण्डो गमनावस्थायामिति / अस्ति समुदाय एकोपादायरूपिकस्तद्यथा प्रभा / द्व्युपादायरूपिकस्तद्यथा शब्दगन्धो वायुः / त्र्युपादायरूपिकस्तद्यथा धूमः, तस्य रूपगन्धस्प्रष्टव्यविशेषप्रभावितत्वात् / स्प्रष्टव्यविशेषः पुनरत्र लघुत्वं वेदितव्यम् / चतुरुपादायरूपिकस्तद्यथा गुडपिण्डः / पञ्चोपादायरूपिकस्तद्यथा स एव सशब्दः / इत्य[न्य]त्रापि यद्यत्रोपलभ्यते भूतं भौतिकं वा तत्र तदस्तीति वेदितव्यं नान्यत्र /
निःशरीरः परमाणुरिति निःस्वभावो व्यवस्थानमात्रमित्यर्थः, अपकर्षमर्यादाभावात् / बुद्ध्या पर्यन्तभेदतस्तु परमाणुव्यवस्थानं बुद्ध्या यावानवयपापकर्षपर्यन्तः शक्यते प्रभेत्तुं तावता परमाणुव्यवस्थानं क्रियते / किं पुनः कारणं यदेवं निःशरीरो ऽपि परमाणुर्व्यवस्थाप्यते / पिण्डसंज्ञाविभा[व]नतामुपादाय, अवयवशो हि बुद्ध्या भिद्यमाने रूपे सर्वमेतदेकं रूपमिति पिण्डसंज्ञा विगच्छति, यतः पुद्गलनैरात्म्यप्रवेशस्यानुकूल्यं भवतीति / (अभिध्-स्-भ् 54) रूपद्रव्यापरिनिष्पत्तिप्रवेशतां चोपादाय, एवं हि बुद्ध्या भिद्यमानं रूपं न किंचिद्भवतीति मत्वा रूपद्रव्यस्यापरिनिष्पत्तिं प्रविशति, यतो विज्ञप्तिमात्रावतारेण धर्मनैरात्म्यप्रवेशस्यानुकूल्यं भवतीति //
विपुलदुःखमसंलिखितं कामावचरमनुपचितकुशलमूलानाम्, सर्वदुःखतागतियोनिप्रभावितत्वात् कामधातोरनुपचित्तकुशलमूलत्वेनानावृतं सर्वगतिगमनत्वाच्च यथाक्रमं तद्विपुलमसंलिखितं च वेदितव्यम् संलिखितं तदेवोत्पन्नमोक्षभागीयानाम्, अवश्यं परिनिर्वाणनियमात् / संलिखितासंलिखितं तदेव कामावचरं दुःखं लौकिकवैराग्यावरोपितकुशलमूलानाम्, दुःखदुःखतादिसमतिक्रमनियमितत्वादनात्यन्तिकत्वाच्च यथाक्रमम् / एवं मध्यासंलिखितादीनि यथायोगं योजयितव्यानि / महासंलेखप्रत्युपस्थानमनेकसत्त्वसंतानिकदुःखापनयनप्रत्युपस्थानात् //
कुशलादिचित्तस्य मरणमित्यात्मस्नेहसंप्रयुक्ताच्च्युतिचित्तापवर्गावस्थामधिकृत्य वेदितव्यम् / मनोमय उपपादुकत्वेन, चित्तमात्रहेतुकत्वात् / गन्धर्वो गन्धेनार्वणात् गन्धानुसारेणो पपत्तिदेश[ग]मनादित्यर्थः / परं सप्ताहं तिष्ठत्यन्तरेण च च्यवते यद्युपपत्तिप्रत्ययान् लभते / अथ न लभते सप्ताहात्परेण च्युत्वा पुनरन्तराभव एव निवर्तते / एवं याव[त्] सप्तकृत्वः ततः परेण एकदा च व्यावर्तते यदि तदवस्था स्याद्यत्रोपपत्तिप्रत्य[य] / बलवन्त आमुखीभूता भवन्ति चतुर्थध्यानलाभिनो ऽर्हत्त्वाभिमानिनो भिक्षोस्तद्भूमिकान्तराभवाभिनिर्वृत्तौ मोक्षापवादि कमिथ्यादृष्टिप्रतिलम्भान्नारकान्तराभवाभिनिर्वृत्तिवत् / तत्रस्थश्च कर्मोपचिनोति, पूर्वावेधवशेन कुशलादिचेतनासमुदाचारात् / सभागांश्च सत्त्वान्पश्यति यैः सह पूर्व तत्कुशलमकुशलं वा चरितं भवति तैः सह वर्तमानमात्मानं स्वप्न इव संजानीते / यत्र चासावुपपन्नो तत्पूर्वकालभवाकृतिर्निर्वर्तते / तत ऊर्ध्वमिन्द्रियाभिनिर्वृत्तिर्यथा प्रतीत्यसमुत्पाद इति नामरूपाद्यानुपूर्व्या / यथोक्तम् -
कललं प्रथमं भवति कललाज्जायते ऽर्बुदम् / अर्बुदाज्जायते पेशी पेशीतो जायते धनम् //
घनात्प्रशाखा जायन्ते केशलोमनखादयः / इन्द्रियाणि च रूपीणि व्यञ्जनाद्यनुपूर्वशः //
समुदयसत्यं यतो दुःखं समुदेति / तत्पुनः कतमत् / क्लेशाः क्लेशाधिपतेयं च कर्म इति सास्रवमित्यर्थः / यद्येवं किमर्थ भगवता तृष्णैव समुदयनिर्देशे निर्दिष्टा / सर्वत्रगत्वेन प्राधान्यात् / तृष्णा वस्तुसर्वत्रगा प्राप्ताप्राप्तसर्वात्मभावविषयवस्तुव्यापनात् / प्राप्ते आत्मभावे तृष्णा, अप्राप्ते पौनर्भविकी / प्राप्तेषु विषयेषु [नन्दीरागसहगता / अप्राप्तेषु विषयेषु] तत्रतत्राभिनन्दिनी वेदितव्या / अवस्थासर्वत्रगा दुःखदुःखतादित्र्यवस्थेषु संस्कारेष्वनुग[त]त्वात् / तत्र दुःखदुःखतावस्थेषु प्राप्तेषु वियोगतृष्णा, अप्राप्तेष्वसंयोगतृष्णा / विपरिणामदुःखतावस्थेषु अवियोगतृष्णा संयोगतृष्णा च, प्राप्ताप्राप्तभेदात् / संस्कारदुःखतावस्थेषु संमोहतृष्णा, क्लेशदौष्ठुल्यप्रभावितत्वाददुःखासुखवेदनाप्रभावितत्वाच्च / आलयविज्ञानं विशेषेण संस्कारदुःखतावस्थं तत्र चात्मसंमोहसुखेन तृष्णा प्रवृत्ता वेदितव्या / अध्वसर्वत्रगा त्रिष्वप्यध्वस्वनुगतत्वात् / अतीते तावदध्वन्यपेक्षाकारेणानुगता, अनागते अभिनन्दनाकारेण, प्रत्युत्पन्ने अध्यवसानाकारेण / धातुसर्वत्रिका त्रैधातुकस्फरणात्कामरूपारूप्यतृष्णाभिः / एषणासर्वत्रिका तया कामभवमिथ्याब्रह्मचर्यैषणात् / कामैषणया कामधातोरपरिमुच्यमानस्तत्रैव दुःखं निर्वर्तयति / तथा भवैषणया रूपारूप्यधात्वोः दुखं निर्वर्तयति / मिथ्याब्रह्मचर्यैषणया संसारादपरिमुच्यमानस्तत्र संसरतीति / प्रकारसर्वत्रिका शाश्वतोच्छेदप्रकारानुगतत्वाद्भवविभव तृष्णाभ्याम् //
दृष्टेः प्रञ्चाकारो भेदः - सत्कायदृष्टिरन्तग्राहदृष्टिमिथ्यादृष्टिः दृष्टिपरामर्शः शीलव्रतपरामर्श इति //
अप्रशान्तलक्षणता क्लेशानां सामान्यलक्षणं वेदितव्यम् / सा पुनः षडाकारा तद्यथा विक्षेपाप्रशान्तता विपर्यासाप्रशान्तता औद्धत्याप्रशान्तता स्त्यानमिद्धाप्रशान्तता प्रमादाप्रशान्ततालज्जाप्रशान्तता च //
क्लेशानुशयश्चाप्रहीणो भवतीति तत्पक्षस्य दौष्ठुल्यस्यासमुद्घाति तत्वात् / क्लेशस्थानीयश्च धर्म आभासगतो भवति रंजनीयादिः / तत्र चायो निशोमनस्कारः प्रत्यवस्थितो भवतीति तस्मिन्विषये शुभनिमित्ताद्युद्ग्राहको रागाद्युत्पत्त्यनुकूलः //
अविद्या दृष्टिविचिकित्सा ऊर्ध्वभूम्यालंबना अपि सन्ति न पुनरासां सा भूमिः साक्षादालंबनं वेदितव्यं यथा स्वभूमिः, तत्परिकल्पमुखप्रवृत्तत्वात् तु तदालंबनव्यवस्थानं वेदितव्यम् / तत्राविद्या ऊर्ध्वभूम्यालंबना या दृष्टिसंप्रयुक्ता / दृष्टिः सत्कायदृष्टि स्थापयित्वा, न हि परभूमिकान् संस्कारानहमित्यभिनिविशमानो दृष्ट इति / ऊर्ध्वभूमिकस्य तु क्लेशस्याधोभूमिरालंबनं न भवति, ततो वीतरागत्वात् / निरोधमार्गालंबनस्य तौ नालंबनम्, लोकोत्तरेण ज्ञानेन तत्पृष्ठलब्धेन वा प्रत्यात्मवेदनीयत्वात् / तत् परिकल्पितं त्वस्यालंबनमिति वक्तव्ये तत्परिकल्पस्त्वस्यालंबनमिति वचनम्, तदव्यतिरेकात्परिकल्पितस्य //
रागः प्रतिधेन न सं[प्र]युज्यते, एकान्तविरुद्धयोरेकत्र वृत्त्ययोगात् / विचिकित्सयापि न सं[प्र]युज्यते, न हि विचिकित्साव्यवस्थितबुद्धिरध्यवस्यतीति / शिष्टैस्त्वस्य मानादिभिरविरुद्धत्वात्संप्रयोगो वेदितव्यः / प्रतिघो मानेन दृष्ट्या च न संप्रयुज्यते, न हि यो यत्र वस्तुनि प्रतिहतस्तेन स उन्नतिं गच्छति तद्वा संतीरयितुं शक्नोतीति, एवमन्यदपि योजयितव्यम् // क्रोधादय अन्योन्यं न संप्रयुज्यन्त इति विरुद्धा विरुद्धैर्न सं[प्र]युज्यन्ते / तद्यथा रागांशिकाः प्रतिघांसिकैः / अविरुद्धास्तु क्लेशवदेव संप्रयुज्यन्त इति (अभिध्-स्-भ् 57) वेदितव्यम् / आह्रीक्यानपत्राप्यं सर्वत्राकुशले संप्रयुज्यते, स्वपरनिरपेक्षतामन्तरेणाकुशलसत्समुदाचारा संभवात् / एवं स्त्यानादयः सर्वत्र क्लिष्टे योजयितव्याः, अकर्मण्यादिकमन्तरेण क्लिष्टत्वा संभवादिति //
यद्येन प्रकारेण यस्मिन् वस्तुनि संप्रयोजयति तन्निर्देशेन संयोजननिर्देशो वेदितव्यः / किं संयोजयति / अनुनयसंयोजनं तावत्त्रैधातुकरागस्वभावं संयोजयति / केन प्रकारेण संयोजयति / तद्वतः त्रैधातुकानुद्वेगे सत्यकुशलसमुदाचरतः कुशलासमुदाचरतश्च / कस्मिन् संयोजयति / आयत्यां दुःखाभिनिर्वृत्तौ / एवं प्रतिघसंयोजनादिषु योजयितव्यः / अविद्यासंयोजनेन संप्रयुक्तो दुःखधर्मान् समुदयधर्मान्नाध्यवस्यति, फलहेतुभूतान्सास्रवान्संस्कारास्तदादीनवापरिज्ञानात् / दृष्टिसंयोजनेन संप्रयुक्तो मिथ्यानि सरणं पर्येषत इत्यह मोक्षो मम मोक्षो मुक्तश्च नित्यो भविष्यास्युच्छेत्स्यामि वेति, न च बौद्धानामस्ति मोक्ष इति / परामर्शसंयोजनेन सं[प्र]युक्तो मिथ्यानिःसरणोपायं कल्पयत्यभिनिविशते, आर्याष्टाङ्गं मार्गं हित्वा सत्कायदृष्टया तत्पूर्वकेण च शीलव्रतेन शुद्धिप्रत्ययनात् //
रागादिबन्धनैविपरिणामदुःखतादिबन्धनवचनं सुखादिवेदनानुशयितत्वात् / बाह्येन हि बन्धनेन बद्धो द्वयं न लभते - गन्तुं च न लभते, आसीनो ऽपि यथेष्टमभिप्रेतचेष्टायां कामकारं न लभते / तत्साधर्म्येणाध्यात्मिकं रागादिबन्धनं वेदितव्यम् //
कामैषणाया अविरतस्य कामरागप्रतिघानुशयावनुशया ते, तन्मुखेन तयोः पुष्टिगमनात् / मिथ्या मोक्षं मोक्षोपायं च सन्तीरयन्तीति यथाक्रमं तिसृभिर्दृष्टिभिर्द्वाभ्यां च परामर्शाभ्यां यथा संयोजनेषूक्तमिति //
षड् रागादीन् क्लेशान् स्थापयित्वा तदन्यः क्लिष्टश्चैतसिकः संस्कारस्कन्धः क्रोधादिको वेदितव्यः /
कुशलपक्षान्तरायाय योगिनां पुनःपुनरुद्वेगेन चित्तं पर्यवनह्यन्तीति पर्यवस्थानानि / कुशलपक्षः पुनर्यथाकालं शमथप्रग्रहोपेक्षानिमित्तभावना तत्संनिश्रयश्च ब्रह्मचर्यादिशुद्धिसंगृहीतं शीलम् / तत्र शमथकाले स्त्यानमिद्धमन्तरायं करोति, आध्यात्मं संक्षेपावाहनात् / प्रग्रहकाले औद्धत्यकौकृत्यम्, बहिर्धा विक्षेपावाहनात् / उपेक्षाकाले ईर्ष्यामात्सर्यम्, तद्वतः परात्मसंपत्त्यमर्शग्रहमुखेन मुहुर्मुहुश्चित्तकंपनात् / शीलविशुद्धिकाले आह्वीक्यानपत्राप्यम्, तदुभयवतः सर्वथापत्तिस्थानेष्वलज्जनादिति //
संक्लेशव्यवदानगुणवैगुण्यार्थेन यथाक्रममोघयोगव्यवस्थानं वेदितव्यम् / आश्रिताश्रयसंबन्धयोगेनेति दृष्टयौघ आश्रितः, अविद्यौघ आश्रयः, संमोहे सति मोक्षतदुपायविपरीतं संतीरणात् //
दृष्टिशीलव्रतोपादानाभ्यां तीर्थ्या अन्योन्यं विवदन्ति, तत्रानेकमत्यात् / आत्मवादोपादाने[न] त्वन्योन्यं न विवदन्ति, आत्मनो ऽस्तित्वं प्रति सर्वेषां मतसाम्यात् / आत्मवादोपादानेन तीर्थ्याइहधार्मिकैः सार्द्धं विवदन्ति, एषां नैरात्म्यवादित्वात् //
अभिध्यादयः कायग्रन्था इति न रूपकायस्यैते ग्रन्था वेदितव्याः किंतर्हि समाहितचित्तस्वभावस्य कायस्य परिग्रन्थार्थेन ग्रन्थाः / पृथग्दृष्टिसंनिश्रयेणेदमेव सत्यं मोघमन्यदित्यभिनिविश्य ज्ञेयं संतीरयतामयोनिशो ज्ञेयसंतीरणहेतोः चित्तं विक्षिप्यते / कुतो विक्षिप्यते / समाहितचित्तस्य यथाभूतज्ञानदर्शनतः //
कुशलपक्षस्यासंप्रख्यानाय चित्तं निवृण्वन्तीति निवरणानि कुशलप्रवृत्तेरन्तरायं कुर्वन्तीत्यर्थः / कामच्छन्दं प्रव्रज्याभिरतेरन्तरायं करोति, विषयोपभोगाभिलाषमुखेन तत्र तत्राभिरमणात् / व्यापादश्चोदनायां सम्यक्प्रतिपत्तेः, सब्रह्मचारिभिः शिक्षास्थानेषु चोद्यमानस्य (अभिध्-स्-भ् 59) व्यापन्नचित्ततयासम्यक्शैक्षणात् / स्त्यानमिद्धमोद्धत्यकौकृत्यं च शमथप्रग्रहयोः, पूर्ववत्संक्षेपविक्षेपावाहनादिभिः / विचिकित्सा उपेक्षायाम्, निश्चय मन्तरेणाभ्युपेक्षितुमशक्यत्वात् //
प्रतिपक्षलांगर्लैदुर्भेदार्थेन खिलव्यवस्थानं वेदितव्यम्, जन्मान्तराभ्यासेन खिलीभूतत्वात् //
दौःशील्याशुचिसंभावनानिमित्तत्वान्मलाः //
पुनः पुनः संसारे जातिजरामरणयोगेन निध्नन्तीति निघाः //
भवभोगेषु रत्नेषु च तृष्णाविचिकत्सामुखेनानुप्रविश्य तोदनाच्छल्याः //
बहूपकरणपरिग्रहेण सकिंचनं कृत्वा भयादिभिर्योजनात् किंचनाः //
प्राणातिपाताद्यकुशलचर्यावाहनाद्दुश्चरितानि / लोभद्वेषमोहानामेवाकुशलमूलत्वेन व्यवस्थानम्, एभिर्मुखैः सत्त्वानां दुश्चरितचरणात् / तत्रामिषकिंचित्कहेतोः भोगार्थिनो लोभेन दुश्चरितं चरन्ति / अपकारनिमित्तपरिकल्पहेतोः परापराधामर्षिणो द्वेषेण, मिथ्याधर्माभिनिवेशहेतोः विपरीतदर्शिनो मोहेन दुश्चरितं चरन्ति याज्ञिकादय इति //
चित्तविसारं स्रुतं कुर्वन्तीत्यास्रवाः //
कायिकचैतसिकविघातकरत्वाद्विघाताः //
अयोनिशोनिमित्तमनुव्यञ्जनं च ग्राहयित्वा कायं चित्तं च परिदहन्तीति परिदाहाः //
रूपादिके वस्तुनि रत्यध्यवसानं कारयित्वा तद्विपरिणामे शोकादिभिः सत्त्वानायासन्तीत्यु पायासाः //
रणयन्ति शस्त्रादानादिभिरिति रणाः //
अधर्मरागादिमहापरिदाहकरत्वात् ज्वरा इव ज्वरा वेदितव्याः // तत्राधर्मरागः यो ऽकुशलेषु कर्मपथेणानुरागः / विषमलोभो ऽन्यायेनाधर्मेण विषयपर्यष्टिः / मिथ्याधर्मो दुराख्यातो धर्मविनयो वेदितव्यः //
जातिमूलक संस्कारतरुवनं संजानयन्तीति वनसाः //
कायसापेक्षादितया कुशलप्रयोगविबन्धनाद्विबन्धाः / कायसापेक्षतादीनि पुनः पञ्च चेतोविनिबन्धानधिकृत्य //
रागो विषये दृष्टौ च विप्रतिपन्न इति भावनाप्रहातव्यो दर्शनप्रहातव्यश्च यथाक्रमम् / शुभतामात्रालंबनत्वाद्रागस्य यो ऽपि सत्त्वेषु रागः सो ऽपि विषयमुखेनैव विप्रतिपन्नो वेदितव्यः / एवं प्रतिकूलमात्रालंबनत्वात् प्रतिघस्य सत्त्वेष्वपि प्रवर्तमानो विषयमुखेनैव विप्रतिपन्नो वेदितव्यः // मानः सत्त्वेषु दृष्टौ च [वि]प्रतिपन्नः हीनादस्मि श्रेयानित्येवमाद्याकारप्रवृत्तत्वात्सत्वेषु विप्रतिपन्नो वेदितव्यः / सत्कायान्तग्राहमिथ्यादृष्टयो ज्ञेये विप्रतिपन्नाः समारोपापवादमुखेन यथायोगम् / शीलव्रतपरामर्शादिः दृष्टौ विप्रतिपन्नः दृष्टिदोषेणैव शीलव्रतस्य शुद्धितः परामर्शनात् / विचिकित्सा प्रतिपक्षे विप्रतिपन्ना सत्येषु बुद्धिर्द्वघापादनात् / ते दुःखसमुदययोर्दशापि क्लेशा निदानं भवन्ति / तौ च तेषां पदस्थानम् / अतस्ते तन्निदानपदस्थानतो विप्रतिपन्ना इत्युच्यन्ते / निरोधे मार्गे चोत्त्राससंजननतो विप्रतिपन्नाः क्लेशवशात्संसारे ऽभिरतस्य व्यवदानतः प्रपातसंज्ञात्रासात् / विपरीतकल्पनतश्च निरोधे मार्गे च विप्रतिपन्ना द्रष्टव्याः, तीर्थ्यैरन्यथा परिकल्प्य तत्र [वि]प्रतिपत्तेः //
कामावचरो रागः पञ्चविज्ञानकायिकः सुखेन संप्रयुज्यते / मनोविज्ञानकायिकः सौमनस्येन / सर्व उपेक्षयाप्रबन्धोपरतिकाले / दुःखदौर्मनस्याभ्यां तु न संप्रयुज्यते, हर्षाकारप्रवृत्तत्वात् //
प्रतिघो दुःखेन संप्रयुज्यते पञ्चविज्ञानकायिकः, षष्ठो दौर्मनस्येन, सर्व उपेक्षया पूर्ववत् सुखसौमनस्याभ्यां न संप्रयुज्यते, दैन्याकारप्रवृत्तत्वात् //
मानः कामधतौ सुखेन न संप्रयुज्यते, पञ्चविज्ञानकायिकाभावात् / प्रथमद्वितीययोस्तर्हि ध्यानयोः कथं सुखेन संप्रयुज्यते / मनोभूमिकेन सुखेन / (अभिध्-स्-भ् 61) कथं तत्र मनोभूमिकं सुखम् / यत्तदुच्यते प्रीतिसुखमिति, यथोक्तम् - "प्रीतिः कतमा / या परिवृत्ताश्रयस्य परिवृत्तिविज्ञानाश्रिता चित्ततुष्टिः चित्तौद्विल्यं चित्तहर्षः चित्तकल्पता सातं वेदितं वेदनागतम् / सुखं कतमत् / यत्परिवृत्ताश्रयस्यालयविज्ञानाश्रित आश्रयानुग्रहत आश्रयह्लादः सातं वेदितं वेदनागतमिति /" तदेतदुक्तं भवति / सुखा वेदना प्रथमद्वितीययोर्ध्यानयोरुत्पद्यमाना येन चित्तचैतकलापेन संप्रयुज्यते तं च हर्षाकारेण प्रीणयति, आश्रयं चालयविज्ञानस्वभावं प्रस्रब्धिसुखेन ह्लादयति / अतस्तदुभयकृत्यकरत्वादुभयथैवास्या व्यवस्थानं वेदितव्यं प्रीतिः सुखं चेति / तस्मात्तया संप्रयुज्यमानो मानः सुखेन सौमनस्येन च संप्रयुज्यत इत्युच्यते /
मिथ्यादृष्टिः कामधातौ दौर्मनस्येन सौमनस्येन च संप्रयुज्यते, सुकृतदुष्कृतकारिणां तद्वैफल्यदर्शनेनाधृतिहर्षोत्पादात् / सुखदुःखाभ्यां न संप्रयुज्यते, मनोभूमिकत्वात् सर्वस्या दृष्टेः //
विचिकित्सा कामधातौ सौमनस्येन न संप्रयुज्यते, अनिश्चितचित्तस्य नैर्वृत्त्यमन्तरेण सौमनस्याभावात् / रूपधातौ विचिकित्सोत्तरध्यायिनामपि प्रीतिसुखं समाधिवलाधानेनानुवर्तत एवेति तत्र सुखसौमनस्याभ्यामपि संप्रयुज्यते //
आवेणिकाया अप्यविद्याया एष एव नयो द्रष्टव्यः सुखसौमनस्याभ्यां संप्रयोगासंप्रयोगमारभ्य //
सर्वक्लेशा उपेक्षया संप्रयुज्यन्ते औदासीन्यमागम्यास्तगमनतामुपादायेति क्लेशप्रवन्धस्य मन्दतरतमतागमनेनोपरतवेगस्योपरमणादन्ते ऽवश्यमौदासीन्यमुखेनोपेक्षायाः संप्रयोगो वेदितव्यः //
रूपधातौ चतुर्विज्ञानकायिकस्तत्र घ्राणजिह्वाविज्ञानाभावात् / मानादयो मनोविज्ञानकायिका एव, परितुलनतामुखप्रवृत्तित्वात् / मानस्यैकदेशप्रवृत्तित्वं केनचिदेवांशेनोन्नतिगमनात् //
कामधतौ दश दुखदर्शनप्रहातव्या इति ये तत्र तन्निदानपदस्थानतो विप्रतिपन्नाः / एवं समुदयादिषु यथायोगं विप्रतिपन्नास्तद्दर्शनप्रहातव्या इति वेदितव्याः / किं खलु ये यदालंबनास्ते तत्र (अभिध्-स्-भ् 62) विप्रतिपन्ना इति वेदितव्याः / नावश्यम्, अनास्रवालंबनानां सास्रवे वस्तुन्यनुशयादिति / रूपधातौ प्रतिधाभावान्नव एव दुःखादिदर्शनप्रहातव्या वेदितव्याः / एवमारूप्यधातौ / सहजा सत्कायदृष्टिः का भावनाप्रहातव्या / यामधिष्ठायोत्पन्नदर्शनमार्गस्याप्यार्यश्रावकस्यास्मिमानः समुदाचरति / यथोक्तम् - "नाहमायुष्मन्दासकेमान् पञ्चोपादानस्कन्धानात्मत [आ]त्मीयतो वा समनुपश्याम्यपि त्वस्ति मे एषु पञ्चसूपादानस्कन्धेष्वस्मीति मानो ऽस्मीति छन्दो ऽस्मीत्यनुशयो ऽप्रहीणो ऽपरिज्ञातो ऽनिरोधितो ऽवान्तीकृत इति /" यथा क्लिष्टस्य धात्रीचैलस्योषादिभिः सुधौतस्य निर्मलस्यापि सतस्तदधिवासनाकृतं गन्धमात्रमनुवर्तते यत्तत्सुगन्धद्रव्यपरिभावनया भूयो ऽप्यपनेतव्यं भवत्येवमेव दर्शनमार्गेण प्रहीणपरिकल्पितसत्कायदृष्टिमलस्याप्यार्यश्रावकस्य पूर्वाभिनिवेशाभ्यासकृतमपरिच्छिन्नवस्तुकमात्मदर्शनमनुवर्तते यत्तत्पुनर्मार्गभावनया प्रहातव्यं भवतीति / अन्तग्राहदृष्टिः सहजोच्छेददृष्टिसंगृहीता वेदितव्या, यया निर्वाणात् प्रत्युदावर्तते मानसं परित्रसनमुपादायाथ कस्तर्हि मे आत्मेति / रागादयो भावनाप्रहातव्या दृष्टिपक्षान् मुक्त्वा //
तन्निदानवस्तुपरिज्ञानं क्लेशानुशयश्चाप्रहीणो भवत्येवमादि पूर्ववत् / स्वभावपरिज्ञानं क्लेश एष उत्पन्नः चित्तसंक्लेशात्मक इति / आदीनवपरिज्ञानमात्माव्यावाधाय संवर्तते परव्याबाधायोभयव्या[बा]धाय, दृष्टधामिकमवद्यं प्रसवति सांपरायिकं दृष्टधर्मसांपरायिकमवद्यं प्रसवति तज्जं चैतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयत इत्येवं त्रिभिः प्रकारैः परिज्ञायोत्पन्नः क्लेशो ऽनधिवासनयोगेन परिवर्ज्यते / अनुत्पन्नस्य त्वनुत्पादाय मार्गो भाव्यते //
असंभिन्नालंबनेन मनस्कारेणेति मिश्रालंबनेन सर्वधर्मसामान्य लक्षणाकारेणेत्यर्थः / यदि सर्वधर्मा अनात्मन इति नैरात्म्यज्ञानेनैव क्लेशप्रहाणं भवत्यनित्याद्याकाराः किमर्थमुपदिश्यन्ते / न ते क्लेशप्रहाणार्थं किंतर्ह्यनात्माकारपरिकर्मार्थम् / अनित्याकारं हि निःसृत्यानात्माकारः / यथोक्तम् - "यदनित्यं तद्दुखं यद्दुखं तदनात्मेति" / अत एवानात्माकारस्यानुत्तर्यव्यवस्थानम् / आनुत्तर्याण्यारभ्य त्रीण्यानुत्तर्याणि - ज्ञानानुत्तर्यं (अभिध्-स्-भ् 63) प्रतिपदानुत्तर्यं विमुक्त्यानुत्तर्यं च / तत्र ज्ञानानुत्तर्यं नैरात्म्यज्ञानम्, ततः परेण ज्ञानान्तरापर्येषणा[त्] / प्रतिपदानुत्तर्य सुखा क्षिप्राभिज्ञा, तस्याः सर्वप्रतिपदग्रत्वात् / विमुक्त्यानुत्तर्य मशैक्षाकोप्या च विमुक्तिः, सर्वविमुक्तिप्रतिविशिष्टत्वात् / एतानि च त्रीण्यानुत्तर्याणि यथाक्रमं दर्शनभावनानिष्ठामार्गानधिकृत्य वेदितव्यानि //
उपलब्धिकर्म चक्षुरादीनां रूपदर्शनादि / कारित्रकर्म पृथिव्यादीनां धारणादि यद्वा यस्य स्वलक्षणकृत्यम् / तद्यथा रूपणा रूपस्येत्येवमादि / व्यवसायकर्माभिसंधिपूर्वकं कायादिकर्म / परिणतिकर्म सुवर्णकारादीनामलंकारादि / प्राप्तिकर्मार्यमार्गादीनां निर्वाणाधिगमादि // अस्मिंस्त्वर्थे यद्भूयस्या व्यवसा कर्माभिप्रेतमिति प्राप्तिकारित्रकर्मणोरपि संभवात् //
कायादिकर्म कर्मपथा इति सूत्रानुसारेण यथाप्रधानं निर्देशो वेदितव्यः, तत्प्रयोगादीनापि कायादिकर्मान्तर्भावात् / त्रयश्चत्वारस्त्रयश्च कर्मपथा यथाक्रमं कायवाङ्मनःकर्मलक्षणा वेदितव्याः // प्राणातिपातादीनां वस्तु सत्त्वसंख्यातमसत्त्वसंख्यातं वा यथायोगं यदधिष्ठाय प्राणातिपातादयः प्रवर्तन्ते / आशयस्तत्र वस्तुनि तत्संज्ञाशयस्तत्कर्मपथक्रियेच्छाशयश्च / प्रयोगस्तत्क्रियायै स्वयं परैर्वा कायवाङ्मनोभिरारम्भः / क्लेशः लोभद्वेषमोहा यथायोगं समस्तव्यस्ताः / निष्ठागमनं तेन तेन प्रयोगेण तस्य तस्य कर्मणः परिपूरणं तत्कालमूर्ध्वकालं वा // तत्र प्राणातिपातस्य वस्तु सत्त्वः / आशयस्तत्र तत्संज्ञिनो वधाभिप्रायः / प्रयोगो वधो यत्प्रहरणादिभिः / क्लेशो लोभादिकः / निष्ठागमनं तस्य प्राणिनस्तेन प्रयोगेणानन्तरं प्रश्चाद्वा मरणम् // अदत्तादानादोनां वस्तु च निष्ठागमनं च निर्धेक्ष्यामः / शेषं यथायोगं योजयितव्यम् / अदत्तादानस्य वस्तु परपरिगृहीतं सत्त्वसंख्यातमसत्त्वसंख्यातं वा / निष्ठागमनं तत्स्वीकरणम् / काममिथ्याचारस्य वस्त्वगम्या स्त्री गम्या वानङ्गादेशाकाले वमात्रायुक्ताभ्यां च सर्वश्च पुमान्नपुंसकं च / निष्ठागमनं द्वयद्वयसमापत्तिः / मृषावादस्य वस्तु दृष्टं श्रुतं मतं विज्ञातमदृष्टमश्रुतममतमविज्ञातं च / (अभिध्-स्-भ् 64) आशयो ऽन्यथावत्कुकामता / निष्ठागमनं पर्षत्प्रतिवादिविज्ञापनम् / पैशुन्यस्य वस्तु समग्रव्यग्राः सत्त्वाः / आशयस्तेषामेव भेदाप्रतिसंधानाभिप्रायः / निष्ठागमनं भेद्यविज्ञापनम् / पारुष्यस्य वस्त्वाघातनिमित्तभूताः सत्त्वाः / निष्ठागमनं पारूषाणाम् / संभिन्नप्रलापस्य वस्त्वनर्थोपसंगृहीतार्थः / निष्ठागमनं तस्य भाषणम् / अभिध्याया वस्तु परकीयं वित्तोपकरणम् / आशयस्तत्र तत्संज्ञिनस्तथारुचिः / प्रयोगस्तत्स्वीकरणसंप्रधारणम् / निष्ठागमनं तत्स्वीकरणनिश्चयः / व्यापादस्य वस्त्वाघातनिमित्तभूताः सत्त्वाः / निष्ठागमनं प्रहनननिश्चयः / मिथ्यादृष्टेर्वस्तु सन्नर्थः / आशयः सत्यतत्संज्ञिनस्तथारुचिः / निष्ठागमनमपवादनिश्चयः //
पराज्ञप्तिसंचेतनीयता यथा कश्चिदनिच्छन्नपि परैर्बलादाज्ञाप्यमनो ऽभिसंघायाकुशलमाचरति / परसंज्ञप्तिसंचेतनीयता यथा कश्चिदनिच्छन्निव परैः संज्ञाप्यमानः समादाप्यमानो हितमेतदिति ग्राह्यमाणो ऽभिसंघाया कुशलमाचरति / अविज्ञाय संचेतनीयता यथा कश्चिद्गुणदोषानभिज्ञो ऽनभिनिविष्टः यदृच्छयाभिसंधायाकुशलमाचरति / मूलाभिनिवेशसंचेत नीयता यथा कश्चिद्कुशलमूलैः लोभादिभिरभिभूत आविष्टचित्तस्तीव्रेणाभिनिवेशेनाभिसंघायाकुशलमाचरति / विपर्याससंचेतनीयता यथा कश्चिद्धर्मकामो विषमहेतुदृष्टिरायत्यामिष्टफलार्थमभिसंधायाकुशलमाचरति / तत्र पूर्विकाभिस्तिसृभिः संचेतनीयताभिः कृतमपि कर्म नैवोपचीयते यतो ऽस्य नावश्यं विपाकः प्रतिसंवेदनीयः / पश्चिमाभ्यां तु संचेतनीयाभ्यां यदि कृतं भवत्युपचितं चावश्यमेवास्य विपाकः प्रतिसंवेद्यते / उपचयो वासनावृद्धिरित्यालयविज्ञाने विपाकबीज परिपोषणं वेदितव्यम् //
कर्मक्रियानियमः पूर्वकर्मभिरेव नियम्य विपाकसंततिराविद्धा भवति / यदस्मिन् जन्मन्यनेनेदं कर्म करणीयमिति स तमवधिमलंघयित्वा तत्कर्म करोति, यस्याकरणाय प्रतिबन्धं बुद्धा अपि भगवन्तो न समर्थाः कर्तुम् यथाहेतुनियमनं फलसंतानपरिणामादिति / विपाकप्रतिसंवेदनानियमः संचेतनीयस्य कर्मणः पूर्ववत् / अवस्थानियमे दृष्टधर्मवेदनीयादिभिरवस्थापि नियमिता भवतीति / यथानेन विपाकेन दृष्टे धर्मे भवितव्यमनेनोपपद्यानेनापरस्मिन् पर्याय इति //
अकुशलानां कर्मपथानां मृदुमध्याधि मात्राणां विपाकफलं तिर्यक्प्रेतनरकेषु वेदितव्यम् / निष्यन्दफलमपायेभ्यश्च्युत्वा मनुष्येषूपपन्नानं प्रत्येकं प्राणातिपातादत्तादानाद्यानुरूप्येणात्मभावपरिग्रहयोर्विपत्तिः / तद्यथाल्पायुष्कता दारिद्रयमित्येवमादि यथायोगम् / अधिपतिफलं प्रत्येकं तदानुरूप्येणैव बाह्यानां भावानां [स]स्यादीनां विपत्तिः / तद्यथा प्राणातिपातस्याधिपत्येनाल्पौजसो भवन्त्येवमादि //
यथासूत्रम् - "सर्वैर्दशभिरकुशलैः कर्मपथैरासेवितैर्भावितैर्बहुलीकृतैर्नरकेषूपपद्यते / तदेषां विपाकफलम् / स चेदिच्छत्वमागच्छति मनुष्याणां सभागताम्, प्राणातिपातेनाल्पायुर्भवति अदत्तादानेन भोगव्यसनी भवति / काममिथ्याचारेण ससपत्नदारः / मृषावादेनाभ्याख्यानबहुलः / पैशून्येन मित्रभेदो ऽस्य भवति / पारुष्येणामनोज्ञशब्दश्रवणं भवति / संभिन्नप्रलापेनानादेयवाक्यः / अभिध्यया तीव्ररागः / व्यापादेन तीव्रद्वेषः / मिथ्यादृष्ट्या तीव्रमोहः, तस्या मोहभूयस्त्वात् / इदमेषां निष्यन्दफलम् / प्राणातिपातेनात्यासेवितेन बाह्याभावा अल्पौजसो भवन्ति / अदत्तादानेनाशनिरजोबहुलाः / काममिथ्याचारेण रजो ऽवकीर्णाः / मृषावादेन दुगन्धाः / पशून्येनोत्कूलनिकूलाः / पारूष्येणोषरजङ्गलाः प्रतिक्रुस्टाः पापभूमयः / संभिन्नप्रलापेन विषमर्तुपरिणामाः / अभिध्यया सूक्ष्मफलाः / व्यापादेन कटुकफलाः / मिथ्यादृष्टयाल्पफला अफला वा / इदमेषामधिपतिफलम् //"
दशानां कुशलानां कर्मपथानां विपाकफलं देवमनुष्येषु / निष्यन्दफलं तेष्वेव प्रत्येकमानुरूप्येणात्मभावपरिग्रहसंपत्तिः /
यथाकुशलानां कर्मपथानां विपाकफलादि त्रिफला वस्थानं कृतम्, एवं कुशलादीनां कर्मपथानां सास्रवाणां देवमनुष्येषु त्रीणि फलानि यथायोगं योजयितव्यानि //
एकेन कर्मणा एकमात्मभावमाक्षिपति, एकेन कर्म[क्ष]णेनैकजन्मिकस्यैव विपाकस्य बीजपोषणात् / एकेनानेकमाक्षिपति, तेनैवानेकजन्मिकविपाकबीजपोषणात् / अनेकेनैकमाक्षिपति, बहुभिः कर्मक्षणैः तस्यैवैकस्य पुनः पुनः बीजपोषणात् / अनेकेनानेकमाक्षिपति, बहुभिरन्योन्यापेक्षया जन्मपरंपराबीजपोषणादिति //
केन कारणेन रूपारूप्यप्रतिसंयुक्तं कुशलमानिज्यमित्युच्यते / यथा कामावचरमन्यगतिकमपि परिपूरकं कुशलमूलमन्यत्र विपाकं प्रयच्छति, नैवं रूप्यारूप्यावचरम्, भूमिनैयम्येन फलदानात् / अतो विपाकदानं प्रत्यकम्पनार्थेनानिज्यमुक्तं समाहितभूमिकत्वाच्चाकम्पनार्थे[ने]ति //
फलविपाकसंमूढस्यापुण्याः संस्काराः संभवन्ति, तेषामेकान्तक्लिष्टत्वेनाविद्यासांनिध्ये सति फलविपाकाभिसंप्रत्ययाकारायाः सम्यग्दृष्टेरनवकाशात् / तत्त्वार्थसंमूढस्य पुण्यानिंज्यास्तत्त्वार्थ उच्यते चत्वार्यार्यसत्यानि / तत्र संमोहः कुशलचित्तानामप्यदृष्टसत्यानामनुशयतो ऽनुबुद्धो भवति यद्वशेन ते दुःखतस्त्रैधातुकस्य यथाभूतमपरिज्ञानात् पुनर्भवहेतुभूतान् पुण्यानिज्यसंस्कारानुत्थापयन्ति / न त्वेवं दृष्टसत्यास्तत्त्वार्थसंमोहाभावात् / अतस्ते तद्धेतुका इत्युच्यन्ते //
प्राणातिपातस्य लोभेन प्रयोगो मांसिकादीनाम् / द्वेषेणैव वैरनिर्यातनकामानाम् / मोहेन याज्ञिकादीनाम् / द्वेषेणैव निष्ठा निर्घृणतामन्तरेण परसत्त्वविपादनासंभवात् / एवं पारुष्यादीनां यथायोगं योजयितव्यम् / (अभिध्-स्-भ् 67) अभिध्यादीनां कथं लोभादिभिः प्रयोगः / तत्राभिध्याकर्मपथः परवित्तोपकरणस्वीकरणनिश्चय इत्युक्तम् / तद्यदि तेनैव वित्तोपकरणेनार्थी भव[ति] तत्स्वीकरणायाभिसंस्करोत्यतो ऽस्य लोभेन प्रयोगो व्यवस्थाप्यते / अथ मैवास्य भूदित्येवं द्वेषेण / अथ परस्वीकरणे न कश्चिद्दोष इति मोहेन प्रयोगो वेदितव्यः / एवमन्यदपि योजयितव्यम् //
अन्योन्याधिपतेयमपि कर्म साधारणं वेदितव्यं यद्वशात्सत्त्वा अन्योन्यं चितचैत्तपरिणामनिमित्तं भवन्तीति //
वैपक्षिकात् कर्मणः प्रातिपक्षिकै कर्म बल[व]द्द्रष्टव्यम्, प्रतिपक्षबलेनाक्षिप्तस्यापि विपक्षफलस्यान्यथात्वापादनात् / सर्वं च कुशलं कर्म संचेतनीयं प्रतिपक्षबलिकस्याकुशलाद् बलवद्द्रष्टव्यम् / प्रतिपक्षबलदुर्बलस्य त्वकुशलं कुशलाद्बलवत् / सर्वं चाविशेषेण कुशलाकुशलं नियतविपाकमार्य मार्गेणाप्रहीणं बलवदित्युच्यते / कामप्रतिसंयुक्तमकुशलं प्रकृत्या बलवत्, क्लेशोपक्लेशादिबहुपरिवारत्वात् / यद्यपि पूर्वाभ्यस्तं तदपि बलवत्, संततेस्तेन भावितत्वात् / यदपि पदस्थं परिपूर्णवयसाम्, तीव्राभिनिवेशप्रसादकरणात् / यदप्यसाध्यमपरिनिर्वाणधर्मकाणाम्, प्रतिपक्षेणानुद्धार्यत्वात् / क्षेत्रतो ऽपि मातृबधादिकम् / चित्ताभिसंस्कारतो ऽपि महाबोधिप्रणिधानादिकं बलवत्कर्म वेदितव्यम् / पुनर्नवभिराकारैर्बलवत्कर्म वेदितव्यम् / तद्यथा क्षेत्रतो यदि गुणवद्दक्षिणीयं क्षेत्रं भवति / वस्तुनो यदि प्रणीतं प्रभूतं देयवस्तु भवति / स्वभावतो दानाच्छीलं शीलाद्भावनेत्येवमादिः / आश्रयतः पुण्यानां कर्ता यदि वीतरागो भवति / मनस्कारतो यदि तीव्रप्रसादसहगतो मनस्कारो भवति / आशयतो यदि निर्वाणाशयो भवति / सहायतो यदि तदन्यपुण्यक्रियावस्तुपरिगृहीतं भवति / बहुलीकारतः यदि पौनः पुन्येन कृतं भवत्यनुवितर्कितं वा / बाहुजन्यतो यदि स्वयं च कृतं भवत्यन्यैश्च कारितमिति //
य एवं वदेत् - यथा यथायं पुरुषपुद्गलः कर्म करोत्युपचिनोति तथा तथा विपाकं प्रतिसंवेदयत इत्येवं सति ब्रह्मचर्यवासो न भवत्यवकाशश्च (अभिध्-स्-भ् 68) न प्रज्ञायते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै / कथं कृत्वा ब्रह्मचर्यवासो न भवति / तीव्रक्लेशस्य प्रतिसंख्याय सहदुःखेन सहदौर्मनस्येन शीलपरिपालनात् / यदि तद्विपाकस्तथैव सहदुःखेन सहदौर्मनस्येनानुभूयेत वृथा तत्परिपालनं स्यात् / पारदारिकप्रभृतीनां च सहसुखेन सहसौमनस्येन दौःशील्यकरणाद्यदि तद्विपाकस्तथैवानुभूयेत वृथा तद्विरतिः स्यादित्येवं कृत्वा ब्रह्मचर्यवासो न भवति // कथमवकाशश्च न प्रज्ञायते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै / अत एव तदुपनिषद्भतस्य ब्रह्मचर्यवासस्य दुःखविपाकत्वादिति / एवं च कृत्वा सुखसहगतस्य कर्मणः सुखसहगत एव विपाको दुःखसहगतस्य दुःखसहगतो ऽदुःखासुखसहगतस्य तत्सहगत एवेति नियमः प्रतिषिद्धः // अत्र यस्त्वेवं यथावेदनीयं यथावेदनीयमित्येवमादिना सुखसहगतस्य कुशलाकुशलस्य यथायोगमायत्यां सुखदुःखादुःखासुखवेदनीयस्य सुखादिको विपाको ऽनुज्ञातः / एवं दुःखादुःखासुखसहगतस्य सुखादिवेदनीयस्य सुखादिको विपाको ऽनुज्ञायत इति //
प्रव्रजितस्य संवरः पञ्चविधो भिक्षुसंवरो यावच्छामणेरीसंवर इति / स दुश्चरितविवेकचरितं कामविवेकचरितं च पुद्गलमधिकृत्य व्यवस्थापितः / तथाहि स तादृशः शक्नोति यावज्जीवं प्राणातिपाताद ब्रह्मचर्याच्च विरन्तुमिति / उपासकोपासिकासंवरो दुश्चरितविवेक चरितमधिकृत्य नो तु कामविवेकचरितम् / अतः एवास्य यावज्जीवं काममिथ्या चारविरतिर्व्यवस्थाप्यते नाब्रह्मचर्यविरतिरिति / उपवाससंवरो नैव दुश्चरितविवेकचरितं न कामविवेकचरितम् / अत एवास्याहोरात्रिक उपवाससंवरः प्रज्ञप्तः, शनैस्तदुभयाभ्यसनार्थमिति / यथा पण्डपण्डकानां भिक्षुभिक्षुणी पक्षोपासनायोग्यत्वादुपासकत्वप्रतिषेधः, एवमुभयव्यञ्जनानामपि स्त्रीपुरुषक्लेशसमुदाचारेणोभयपक्षोपासनायोग्यतेति न ते पृथगुक्ताः / ध्यानसंवरो दौःशील्यसमुत्थापकानां लोभादीनां कामावचराणां क्लेशोपक्लेशानां विष्कम्भणप्रतिपक्षेण बीजोपघाते सति प्रदेशवैराग्येणापि कामेभ्यो वीतरागस्य या तस्मादौःशील्याद्विरतिः / यावत्तृतीयध्यानवीतरागस्य दूरीभावप्रतिपक्षेण तेषामेव दौःशील्यसमुत्थापकानां सुतरां बीजोपघातो वेदितव्यः / चतुर्थध्यानवीतरागस्य त्वारूप्येषु रूपाभावाच्छोलसंवराव्यवस्थानं वेदितव्यम् //
औरभ्रिका ये पशून् हत्वा तद्विक्रयेण जीविकां कल्पयन्ति / एवं कौक्कुटिकादयो यथासंभवं योजयितव्याः / नागबन्धका अरण्यात् हस्तिनो वद्ध्वा द[म]यन्ति / नागमण्डलिका ये सर्पानादाय तत्क्रीडनैर्जीवन्ति / मूत्रका ये परान् पैशुन्येनोपहत्व जीवन्ति / अभिजन्मतो वा तत्कर्मसमादानतो वेति तत्कुलीनस्यान्यकुलीनस्य च यथाक्रमम् / कायवाक्प्रयोगपूर्वकः तत्कर्माध्याचारनिश्चयो ऽसंवर इत्युच्यते /
यथोक्तसंवरासंवरविनिर्मुक्तस्य दानप्रियवचनादिकं खटचपेटादिकं च कर्म नवसंवरोनासंवर इत्युच्यते //
दृष्टधर्मवेदनीयं कर्म यत्र जन्मनि कृतं तत्रैव यद्विपच्यते / उपपद्यवेदनीयं यदनन्तरे जन्मनि, तद्यथा पञ्चानन्तर्याणि कर्माणि / यस्य तावदेकमेवानन्तर्य तस्य तद्विपाको ऽनन्तरं युक्तः, यस्येदानीं संबहुलानि तस्य कथं तद्विपाकप्रतिसंवेदना / सर्वेषां युगपद्विपाकः प्रतिसंविद्यते, तथाह्यनेकानन्तर्यकारिण आश्रयः सुकुमारतरो निर्वर्तते, कारणाश्च बहुतीव्रविचित्रा यद्वशाद्भूयसीं वेदनां प्रत्यनुभवति //
आरम्भं च प्रत्येतानि दृष्टधर्मवेदनीयादीनि व्यवस्थाप्यन्ते, न तन्मात्रवेदनीयतामधिकृत्य / यस्य तत्रैव जन्मनि विपाको विपक्तुमारभते तद्दृष्टधर्मवेदनीयम् / यस्यानन्तरे जन्मन्यारभते तदुपपद्यवेदनीयम् / यस्यानन्तरं जन्म लघयित्वारभते तदपरपर्यायवेदनीयमित्येवं च कृत्वा हाचित्तावदाने - "आनन्तर्यस्य कर्मणो नरके पुनःपुनश्च्युत्युपपादेन विपाकप्रतिसंवेदनम्" - अनुलोमितं भवतीति //
कृष्णं कृष्णविपाकं कर्माकुशलम्, क्लिष्टत्वादनिष्टविपाकत्वाच्च //
विपर्ययाच्छुक्लं शुक्लविपाकं त्रैधातुकं कुशलम् //
कृष्णशुक्लं कृष्णशुक्लविपाकं यत्कामप्रतिसंयुक्तं विपाकं व्यामिश्रं कुशलाकुशलमित्यर्थः / कथमेकं कुशलं भवत्यकुशलं च / नात्र (अभिध्-स्-भ् 70) प्रवृत्तिक्षणनैयम्येनोच्यते तदेवोभयमित्यपि तु सहाशयप्रयोगेणैकं कर्मेत्ययमत्राभि संधिर्वेदिव्यः / तयोश्च कृष्णशुक्लतां प्रत्यन्योन्यासादृश्ये सत्येकं कर्म कृष्णशुक्लं व्यवस्थाप्यते / तत्राशयतः कृष्णं प्रयोगतः शुक्लं यथापि कश्चित्परान् वञ्चयितुकामस्तेषां संप्रत्ययननिमित्तं भावेन दानानि ददाति यावत्प्रव्रजत्यपि / प्रयोगतः कृष्णमाशयतः शुक्लं यथापि कश्चित्पुत्रं वा शिष्यं वाहितान्निवारयितुकामो हिते च नियोजयितुकामो ऽनुकम्पाचित्तः कायेन वाचा वा परुषया तस्मिन्काले संक्लिश्यते //
अकृष्णशुक्लाविपाकं कर्म कर्मक्षयाय संवर्तते प्रयोगानन्तर्यमार्गेष्वनास्रवं कर्मप्रयोगमार्गानन्तर्यमार्गाणां प्रहाणप्रतिपक्षत्वात् / तत्राकृष्णं क्लेशमलाभावात् / शुक्लमेकान्तव्यवदानत्वात् / अविपाकं संसारविरोधित्वात् / कर्मक्षयाय संवर्तते ऽस्यैव कृष्णादिकस्य त्रिविधस्य सास्रवस्य कर्मणस्तेनानास्रवेण कर्मणा विपाकदानवासनासमुद्घातात् //
अविशेषेण च सर्वस्यानास्रवस्य कर्मणः परिपन्थमानुकूल्यं स्वभावमधिकृत्य वंकदोषकषायाणां शौचेयानां मौनेयानां च यथाक्रमं व्यवस्थानं वेदितव्यम् //
तत्र वंकमृजुकमार्गस्याष्टाङ्गस्योत्पत्त्यावरणभूतं कायवाङ्मनःकर्म / दोषो येन कायादिकर्मणा दूषिते संताने तत्तादृशमावरणभूतं कर्मोत्पद्यते / कषायाः तीर्थिकदृष्टिसंनिश्रितं कायादि कर्म, बुद्धशासनप्रसादविपक्षेणाश्रद्ध्यकालुष्यपरिगृहीतत्वात् / अपरः पर्यायः - शाश्वतोच्छेदानुपतितं मध्यमाप्रतिपद्विरोधार्थेन वंकम् / अपवाददृष्टिपरिगृहीतं व्यवदानव्यवस्थानप्रद्वेषार्थेन दोषः / सत्कायदृष्टिपरिगृहीतं नैरात्म्यतत्त्वदर्शनप्रतिवद्धार्थेन कषाय इति //
शौचेयानि सुविशुद्धशीलसंगृहीतमृजुदृष्टिसंगृहीतं च यत्कायवाङ्मनःकर्म, शीलदृष्टिविपत्तिमलवर्जितत्वात् / मौनेयानि शैक्षाशैक्षाणां यदनास्रवं कायवाङ्मनःकर्म मुनीनां तत्कर्मेति कृत्वा / दानसंपदमधिकृत्य दानं दाता भविष्यतीत्यनेनाभीक्ष्णदानतां दर्शयति, तच्छीलतया पुनः पुनर्दानात् / श्रमणेभ्यो ब्राह्मणेभ्य इत्येवमादिनापक्षपातदानताम्, अविशेषेण सर्वार्थिभ्यो दानात / (अभिध्-स्-भ् 71) अन्नपानमित्येवमादिनेच्छापरिपूरणदानताम्, यथाभिप्रायं सर्वोपकरणवस्तुपरित्यागात् / मुक्तत्यागः प्रततपाणिर्व्यवसर्गरतो यायजूकस्त्यागसंपन्नो दानसंविभागरत इत्येभिः पदैर्यथाक्रममनिश्रितदानतादयो वेदितव्याः / अनिश्रितदानता पुनर्भवभोगापरिणामितत्वेन वेदितव्या // देयसंपदमधिकृत्योत्थानवीर्याधिगतैरित्यनेनानभिद्रुग्धदेयवस्तुतां दर्शयति / अभिद्रुग्धं ह्यनुत्थानबीर्याधिगतं भवति, स्वस्थाने स्थित्वा परनिक्षेपा[प]लपनेन प्रतिलब्धत्वात् / बाहुबलोपार्जितैरित्यनेनापरापहृतदेयवस्तुताम् / परेभ्यो ह्यपहृतं न बाहुबलोपार्जितं भवति, तैः कृच्छ्रेण विविधैरूपायैरर्जितस्यापहरणात् / स्वेदमलापक्षिप्तैरित्यनेनाकुथितविमलदेयवस्तुताम्, स्वेदमलाभ्यामपक्षिप्तत्वादुज्झितत्वादित्यर्थः / धार्मिकैरित्यनेन कल्पिकदेयवस्तुताम्, शस्त्रविषमद्याद्यकल्पिकवस्तुविवर्जितत्वात् / धर्मलब्धैरित्यनेन धर्मार्जितदेयवस्तुतां दर्शयति, तुलाकूलादिमिथ्याजीव परिवर्जनेनोपार्जितत्वात् //
शीलं समादायाखण्डनेन तद्योगाच्छीलवान् भवति / मोक्षं प्रति यः संवरः स प्रातिमोक्षसंवरः / स हि संसारान्निर्याणाय भवति / आचारसंपन्नः सद्भिरगर्हितेर्यापथादित्वात् / गोचरसंपन्नः पञ्चागोचरपरिवर्जनात् / पञ्च भिक्षोरगोचराः - घोषो वेशः पानागारं राजकुलं चण्डालकठिनमेव पञ्चमम् / प्रज्ञप्तिसावद्येष्वपि प्रकृतिसावद्येष्विव तीव्रेण गौरवेण शिक्षणादणुमात्रेष्ववद्येषु भयदर्शी भवति / समन्तात् परिपूर्ण शिक्षामादाय शिक्षते शिक्षापदेष्वित्युच्यते //
अतः परं शीलमारभ्य यद्भगवता सूत्रान्तरेषु निर्दिष्टं कायेन संवृतो भवतीत्येवमादि तस्यार्थ उच्यते / तत्र कायेन वाचा संवृतो भवति संप्रजन्यपरिगृहीततया यथनुज्ञातमभिक्रमप्रतिक्रमादिषु बुद्धिपूर्वं सम्यग्वर्तनात् / (अभिध्-स्-भ् 72) कायवाक्संपत्त्या संपन्नः आपत्त्यनध्यापन्नतया शीलाविपादनात् / परिशुद्धकायवाकसमुदाचारः समाधिसंनिश्रयतया समाधिबलेन दौःशील्यमलदूरीकरणात् / कुशल[काय]वाक्समुदाचारः क्लिष्टवितर्काव्यवकीर्णतयैकान्तशुभत्वात् / अनवद्यकायवाक्समुदाचारो भवभोगापरिणामितत्वेन सद्भिः प्रशस्तत्वात् / अव्याबध्यकायवाक्समुदाचार आत्मोत्कर्षणादिभिः परेषामवज्ञादुःखसंवासेनाघट्टनात् / आनुलोमिककायवाक्समुदाचारो निर्वाणानुप्राप्त्यनुकूलतयार्यमार्गावाहनात् / अनुच्छविककायवाक्समुदाचारः स्वदोषगुणाविष्कम्भणछादनार्थम् / औपयिककायवाक्समुदाचारः सब्रह्मचार्युपग्रहणशीलतयोपगमनार्हत्वात् / प्रतिरूपकायवाक्समुदाचारो गुरुषु गुरुस्थानीयेषु च निहितमानतया यथार्हमुपचरणात् / प्रदक्षिणकायवाक्समुदाचारो ऽववादे प्रदक्षिणग्राहितयास्वयंदृष्टिपरामर्शत्वात् / अतप्तकायवाक्समुदाचारः कष्टतपोलूहाधिमुक्तिविवर्जिततयानात्मतपत्वात् / अननुताप्यकायवाक्समुदाचारः समुत्सृष्टान् भोगान् कर्मान्तांश्चारभ्याविप्रतिसारितया पश्चात्तापाभावात् / अविप्रतिसारकायवाक्समुदाचारः कुशलपक्षमारभ्याल्पमात्रेणासंतुष्टस्या विप्रतिसारितया यावच्छक्यं संपादनात् //
कर्म स्वकमेषां त इमे कर्मस्वकाः / कथं पुनस्तेषां कर्म स्वकं भवति / स्वयंकृतकर्मविपाकप्रतिसंवेदनतामुपादाय, तद्धि नाम स्वकमित्युच्यते यत्परैरसाधारणमिति / कर्माणि दायाय एषां त इमे कर्मदायादाः / कथं कर्मणां दायादत्वम् / तस्यां स्वयंकृतविपाकप्रतिसंवेदनायां कुशलाकुशलानां कर्मणामन्योन्यदायादतामुपादाय यथास्वमिष्टानिष्टफलसंविभजनात् / ते पुनः स्वकृतकर्मेष्टानिष्टविपाकप्रतिसंवेदिनः सत्त्वाः कुत आदितः संभूताः किमहेतुका आहोस्वित् प्रकृतीश्वरादिहेतुका इत्याह कर्मयोनीयाः / कर्मेवेषामहेतुविषमहेतुवर्जितो योनिः सत्त्वानां संभवायेत्यर्थः / एवं तावत्प्रवृत्तिमारभ्य निवृत्तिमप्यारभ्य कर्मप्रतिसरणाः, सास्रवकर्मप्रहाणायानास्रवकर्मसंश्रयणात् कर्मैवैषां प्रतिसरणं भवतीति //
यदुक्तमचिन्त्यः सत्त्वानां कर्मविपाक इति न सर्वैः प्रकारैः [अ] सावचिन्त्यो वेदितव्यः / कथं तर्हि चिन्त्यः कथमचिन्त्यः / (अभिध्-स्-भ् 73) कुशलाकुशलस्येष्टानिष्टो विपाकः सुगतिदुर्गत्योरिति चिन्त्यः, शक्यत्वात् सम्यग्दृष्ट्यादिगुणावाहनाच्च / अनेन कर्मणा सत्त्वानामात्मभावस्य वर्णसंस्थानादिप्रकारभेदवैचित्र्यमित्यचिन्त्यः, अशक्यत्वात् सर्वज्ञादन्यस्योन्मादादिदोषाबाहनाच्च / तदेव कर्मस्थानादिभिरचिन्त्यम् / [तत्र स्थानं] यत्र प्रदेशे स्थित्वा यत्कर्म कृत्वा ग्रामे वा नगरे वेत्यादि / वस्तु यदधिष्ठानं सत्त्वसंख्यातमसत्त्वसंख्यातं वा / हेतुः कुशलाकुशलादेः कुशलाकुशलमूलानियथायोगम् / विपाकस्तदेवात्मभाववैचित्र्यम् / बाह्यभाववैचित्र्याभिनिर्वर्तकं कर्माचिन्त्यम्, कीदृशेन खलु कर्मणा कण्टकादीनां तैक्ष्णादिकं कृतमिति लोकचिन्ता नन्तर्भूतत्वात् / मणिमन्त्रौषधिमुष्टियोगप्रतिसंयुक्तं कर्माचिन्त्यम् / तत्र मणि[प्रति]संयुक्तं चन्द्रकान्तादीनामुदकक्षरणादि / मन्त्रप्रतिसंयुक्तं तदभिमन्त्रितानामदाहादि / औषधिप्रतिसंयुक्तं तया गृहीतयान्तुर्धातादि / मुष्टियोगप्रतिसंयुक्तं तेन तेन मुष्टियोगेन ज्वरापगमादि / सर्व च योगिनां प्रभावकर्माचिन्त्यम् / कथम् / ते चित्तप्रभावेन महापृथिवी कम्पयन्त्याकाशेन वोत्पतन्तीत्येवमादि / बोधिसत्त्वानां वशिताभिर्यत् क्रियते कर्म तदचिन्त्यम् / तद्यथा आयुर्वशितया बोधिसत्त्वा आयुःसंस्कारानधिष्ठा य यावदिच्छन्ति तिष्ठन्ति / चित्तवशितया यथेच्छं समाधीन् समापद्यन्ते परिष्कारवशितयाप्रमेयमनर्धेयमुपकरणवर्ष सत्त्वानां वर्षन्ति /
कर्मवशितयान्यधातु भूमिगतियोन्यवस्थावेदनीयानि कर्माण्यन्यथा परिणामयन्ति / उपपत्तिवशितया ध्यानैरपि विहृत्यापरिहीणा एव कामधातावुपपद्यन्ते / अधिमुक्तिवशितया पृथव्यादीनवादित्वेनाधिमुच्यन्ते / प्रणिधानवशितया यथेष्टं स्वपरार्थसंपत्तिकराण्यसंख्येयानि महाप्रणिधानान्यभिनिर्ह[र]न्ति / ऋद्धिवशितया सत्त्वानामावज नार्थमप्रमेयमृद्धिप्रतिहार्य संदर्श[य]न्ति / ज्ञानवशितया धर्मार्थनिरुक्तिप्रतिभानानां प्रकर्षपर्यन्तं गच्छन्ति / धर्मवशितया यथार्हं यावत् सर्वसत्वानामन्यान्यैर्नामपदव्यंजनकार्यः सूत्रादीन् धर्मान् व्यवस्थाप्य युगपच्चित्तपरितोषणे समर्था भवन्तीति //
बुद्धानां बुद्धकृत्यानुष्ठानकर्माचिन्त्यम् / कथम् / अनाभोगप्रतिगता धर्मधात्वेकरसताप्राप्ता सर्वे बुद्धा भगवन्तः सत्त्वानां यथा यदा यावत्कृत्यमनुष्ठातव्यं तत्सर्वमनुतिष्ठन्ति एवं बुद्धानां बुद्धविषयो ऽचिन्त्यः //
पुनर्भवस्य वासनाया आहारकं कारणमिति हेतुः / उपचितवासनानां सत्त्वनां देवादिसत्वनिकाये तदाकृतिप्रकृतिसादृश्येन समस्योदयस्य कारणमिति समुदयम् / प्रत्यात्मंसंताननैयभ्येन गतियोन्यादिसर्वप्रकारैः प्रकर्षेण यावद्भवाग्रगतस्योद्भवस्य कारणमिति प्रभवः / अपूर्वस्यान्यस्यात्मभावस्य प्राप्तौ पूर्वात्मभावात्ययेन कारणमिति प्रत्ययः //
संस्काराणामुपरमात्स निरोधो ऽन्यः स्यात्तदसंवध्यमानो ऽर्थान्तरभूतः स्यात् / अथानन्यः स्यात्संक्लेशलक्षणः स्यात् / अत एव नोभयो नानुभयश्च / प्रपञ्चः पुनरस्मिन्नर्थे ऽयोनिशश्चिन्त्येत्यमार्गेणान्यायेनानयेन चिन्त्येत्यर्थः, अन्यथा चिन्तयितव्ये ऽन्यथाचिन्तना[त्] / कथं पुनश्चिन्त्यः / शान्तः प्रणीत इत्येवमादिभिः प्रकारैः //
निरलंकारः प्रज्ञाविक्तानां विद्यादिवैशेषिकगुणालंकाराभावात् //
पर्यायतो ऽशेषप्रहाणमित्युद्देशः, शेषो निर्देशः / अत एव तत्परिशिष्टानि पदान्युपादायेत्युच्यते, तैस्तस्य निर्देशात् / कथं कृत्वाशेष प्रहाणम् / पर्यवस्थानानुशयप्रहाणात् / तत्र प्रतिनिःसर्गः पर्यवस्थानप्रहाणमधिकृत्य, उत्पन्नस्य परिवर्जनात् / व्यन्तीभावो ऽनुशयप्रहाणम्, मूलाभावे ऽत्यन्तमनुत्पादात् / तत्पुनर्दर्शनभावनामार्गप्रतिपक्षभेदाद्द्विधा व्यवस्थाप्यते - क्षयो विराग इति / तत्र दर्शनमार्गेण विरागतामधिकृत्य क्षयः, अल्पमात्रावशिष्टत्वात् क्लेशराशेः / भावनामार्गेण विरागः, तस्य भूमिवैराग्यगमनप्रविभावितत्वात् / तदुभयविसंयोगे पुनः सत्यायत्यां च दुःखं निरुध्यते, अनुत्पत्तिधर्मतापादनात् / दृष्टे च धर्मे दौर्मनस्यं व्युपशाम्यति, असमुदाचारात् / अतस्तत्फलभूतस्य दुःखस्य प्रहाणमधिकृत्याह - निरोधो व्युपशम इति / पूर्वकर्म क्लेशसमुदागतानां तु सत्त्वानां स्वरसेनैवोपरम[म]धिकृत्याह - अस्तंगम इति / एवं कृत्वाशेषप्रहाणं निर्दिष्टं वेदितव्यम् //
असंस्कृतमुत्पादव्ययस्थित्यन्यथात्वाभावात्संस्कृतविपर्ययेण / दुर्दृशमार्यस्यैवैकस्य प्रज्ञा चक्षुषो गोचरत्वात् / अचलं नरकादिगत्यसंचारेण स्थिरत्वात् / अनतं कामरूपारूप्यतृष्णाभावेन भवेष्वनमनात् / अमृतं मरणाश्रयस्कन्धाभावात् / अनास्रवमास्रवाभावात् / लयनं विमुक्ति प्रीतिसुखसंनिश्रयत्वात् / द्वीपं संसारमहार्णवे स्थलभूतत्वात् / त्राणं तत्प्राप्तौ जात्यादिसर्वोपद्रवापगमनात् / शरणं तत्कृताशयप्रयोगयोरवन्धत्वस्य पदस्थानतयाश्रयणी[य]त्वात् / परायणं परमस्यार्यत्वस्यागमनाय पदस्थानत्वादार्हत्यत्वप्राप्त्युपायालंबनत्वादित्यर्थः / अच्युतम्[अ]जातत्वेन भ्रंसासंभवात् / निर्ज्वरं सर्वेच्छाविघातसंतापाभावात् / निष्परिदाहं शोकादिसर्वपरिदाहप्रतिप्रस्रब्ध्या शीतलत्वात् / क्षेमं व्याधिजरामरणभयरहितार्य विहाराश्रयत्वात् / शिवं सर्वकुशलधर्माश्रयत्वात् / सौवर्णकं लोकोत्तरसुखवस्तुत्वा[त्] / स्वस्त्ययनं सुखेन प्रयोगेण तत्प्प्राप्तये आलंबनभवात् / आरोग्यं क्लेशाद्यावरणरोगरहितत्वात् / आनिञ्ज्यं सर्वविषयप्रपञ्चविक्षेपरहितत्वात् / निर्वाणं रूपादिसंज्ञापग[म]स्य शान्तसुखविहारस्यालंबनत्वात् //
पुनर्निरोधसत्यमारभ्याजातादयः पर्यायाः दुःखलक्षणविपर्ययार्थेन वेदितव्याः / दुखं हि तत्र तत्र सत्त्वनिकाये प्रतिसंधिबन्धेन जायते / तत उत्तरकालमात्मभावपरिपूर्या वर्धते / तच्च दुःखं पूर्वकर्मक्लेशावेधेन कृतम् / तच्च वर्तमानं दुःखं कर्मक्लेशानां चान्यभवसंस्करणे पदस्थानं भवति / ततो ऽव्युच्छेदयोगेन पुनर्भवस्य संतत्युत्पादो भवति / अतस्तद्विपर्ययेण दुःखनिरोध आर्यसत्यं यथाक्रममजातमभूतमकृतमसमुत्पन्नं वेदितव्यम् /
अपि खलु निरोधसत्यमधिकृत्य / शान्तलक्षणं (अभिध्-स्-भ् 76) संस्कारदुःखतयाप्रशान्तलक्षणानामुपादानस्कन्धानां विसंयोगमधिकृत्य / प्रणीतलक्षणं क्लेशदुःखविसंयोगात् स्वयं शुचिसुखस्वभावतामधिकृत्य / निःसरणलक्षणं नित्यहितस्वभावतामधिकृत्य, अपुनरावर्तनात् क्षेमत्वाच्च यथाक्रमं हितं कुशलमिति शक्यत्वात् //
मार्गसत्यं येन दुखं परिजानीत इत्येवमादि, सत्येष्वस्य कृत्याधिकारेण लक्षणनिर्देशो वेदितव्यः / पञ्चविधो मार्ग इति प्रभेदाधिकारेण / पञ्चप्रभेदः सपरिवारमार्गसत्याधिकाराद्वेदितव्यम् //
तत्र संभारमार्गः शीलादिको यस्य परिपूर्णत्वादुष्मगताद्यानुपूर्व्या सत्यदर्शनाय तदावरणप्रहाणाय च संतानस्य योग्यतां प्रतिलभत इति / यद्वा पुनरन्यदौपनिषदं कुशलमित्यविप्रतिसारादिकं वेदितव्यम् //
उष्मगतं प्रत्यात्मं सत्येष्वालोकलब्धः समाधिः प्रज्ञा ससंयोग इति समाहितेन चित्तेन सत्याधिपतेयस्य सूत्रादिकस्य धर्मस्य मनोजल्पस्य मुखैरर्थसंप्रख्याने सति शमथश्च विपश्यना चोष्मगतमिति वेदितव्यम् // तद्वृद्धिर्मूर्धानस्तदुपरि व्यवस्थापनार्थेन / क्षान्तिरेकदेशप्रविष्टानुसृतः समाधिरिति / कथमेकदेशप्रविष्टो भवति / एकान्तेन ग्राह्यभावलक्षणात् / कथमेकदेशानुमृतः ग्राहकाभावप्रतिवेधानुकूल्यावस्थानात् / लौकिको ऽग्रधर्मो यदन्तरमादितो लोकोत्तरो मार्गः //
दर्शनमार्गो लौकिकाग्रधर्मानन्तरं निर्विकल्पशमथविपश्यनालक्षणो वेदितव्यः / समसमालंब्यालंबनज्ञानमपि तदिति तेन ग्राह्य ग्राहकाभावतथताप्रतिवेघात् / प्रत्यात्ममपनीत सत्त्वसंकेतधर्मसंकेत सर्वतो ऽपनीतोभयसंकेतालंबनधर्मज्ञानमपि तदिति / कथं प्रत्यात्ममपनीतसत्त्वसंकेतालंबनधर्मज्ञानम् / तेन स्व[स]न्ताने आत्मनिमित्ताविकल्पनात् / कथं प्रत्यात्ममपनीतधर्मसंकेतालंबनधर्मज्ञानम् / तेन स्वसंतान एव रूपादिधर्मनिमित्ताविकल्पनात् / कथं सर्वतो ऽपनीतोभयसंकेतालंबनधर्मज्ञानम् / सर्वत्राविशेषेणात्म धर्मनिमित्ताविकल्प[ना]दिति //
प्रभेदशः पुनर्दर्शनमार्गः सत्येषु षोडशधर्मान्वयक्षान्तिज्ञानानि / तत्र दुःखे धर्मज्ञानक्षान्तिः प्रयोगमार्गे दुःखसत्याधिकारिकसूत्रादिधर्मविचारणाज्ञानं योनिशो मनस्कारसंगृहीतमधिपति कृत्वा स्वसंतानिकदुःखसत्ये तत्तथताप्रत्यक्षानुभाविनो लोकोत्तरा प्रज्ञा सम्यग्दृष्टिस्वभावोत्पद्यते यया दुःखदर्शनप्रहातव्यांस्त्रैधातुकानष्टाविंशतिमनुशयान् प्रजहाति / तस्मादुच्यते दुःखे धर्मज्ञानक्षान्तिरिति / तया क्षान्त्या दुःखदर्शनप्रहातव्यक्लेशप्रहाणात् परिवर्तित आश्रये तदनन्तरं येन ज्ञानेन तामाश्रयपरिवृत्ति प्रत्यनुभवति तद्दुःखे धर्मज्ञानमित्युच्यते / एतच्चोभयमाद्यं क्षान्तिज्ञानमन्वयः सर्वेषां शैक्षाशैक्षाणामार्यधर्माणाम्, ततस्तेषां समुदागमात् / अतस्तदालंब्यान्वय एष आर्यधर्माणामिति प्रत्यात्मं प्रत्यक्षानुभाविन्यनास्रवा प्रज्ञा दुःखे अन्वयज्ञानक्षान्ति / तामन्वयज्ञानक्षान्तिं येन ज्ञानेन प्रत्यनुभवति तदन्वयज्ञानमित्युच्यते / लोकोत्तरस्य हि मार्गस्य द्वयं विषयः - तथता सम्यग्ज्ञानं च / तत्र धर्मज्ञानपक्षस्य मार्गस्य तथता विषयः / अन्वयज्ञानपक्षस्य सम्यग्ज्ञानम् / अत इदमुच्यते - धर्मज्ञानक्षान्तिज्ञानैर्ग्राह्यावबोधः, अन्वयक्षान्तिज्ञानैर्ग्राहकावबोध इति / यो भगवता षष्ठो ऽ[नि]मित्तविहारी पुद्गल आख्यातः स एतेषु क्षान्तिज्ञानेषु वर्तमानो वेदितव्यः, सर्वनिमित्तानुपलंभात् / त एते क्षान्ति[ज्ञान]संगृहीताः षोडश चित्तक्षणा दर्शनमार्गः, तैरदृष्टपूर्वाणामार्यस त्यानां प्रत्येकं चतुर्भिर्दर्शनात् / न चात्र भावस्याभत्वा प्रादुर्भावमात्रं चित्तक्षणो वेदितव्यः / किं तर्हि यावता ज्ञेये ज्ञानात्पत्तेः परिसमाप्तिर्भवति / तद्यथा दुःखं परिज्ञेयमित्येकश्चित्तलक्षणः / एवं समुदयः प्रहातव्य इत्येवमादिः / यच्चैतद्दर्शनमार्गमारभ्य विस्तरेण विपंचित्तं व्यवस्थानमात्रं तत्सर्वं वेदितव्यम्, प्रत्यात्ममेव वेदनीयत्वात् लोकोत्तराया अवस्थायाः //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
