Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/2

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

शयनासनवस्तु

Thông tin
GRETIL — R. Gnoli: The Gilgit Manuscript of the Śayanāsanavastu and the Adhikaraṇavastu, Being the 15th and 16th Sections of the Vinaya of the Mūlasarvāstivādin, Roma 1978 (Serie Orientale Roma, 50).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

शयनासनवस्तु

शयनासनवस्तु

(शय्-व् 3) (a 314a5) (msv iii 121)

उद्दानम् शाक्या पंचनकाधश् च साङ्घिकं पौद्गलिकं च वस्तुभङ्गेन / कारयेत् प्रतिसंस्तरणं भूमिर् अरण्यं च त्रिचीवरम् / उच्छेद्यम् अरण्यं भिक्षुस्थविरो लाभषट्कैर् भवति पश्चिमम् //

old monks are entitled to veneration

बुद्धो भगवान् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे; तेन खलु समयेन संबहुलानां उपस्थानशालायां संनिषण्णानां संनिपतितानाम् अयम् एवंरूपो ऽभूद् अन्तराकथासमुदाहारः; को ऽस्माभिर् आयुष्मन्तः सत्कर्तव्यो गुरुकर्तव्यो मानयैतव्यः पूजयितव्यः? कस्य चास्माभिर् अभिवादनवन्दनप्रत्युत्थानांजलिसामीचीकर्म कर्तव्यम्? को ऽस्माकम् अर्हति अग्रासनम् अग्रोदकम् अग्रपिण्डपातं परिभोक्तुम् इति? तत्रैके एवम् आहुः शाक्यः प्रव्रजित इति; अन्ये त्व् एवम् आहुः यो ब्राह्मणः प्रव्रजित इति; अपरे यः क्षत्रियः प्रव्रजितः; अपरे यो वैश्यः प्रव्रजितः; अपरे यः शूद्रः प्रव्रजितः; (msv iii 122) अपरे उच्चात् कुलात् प्रव्रजितो ऽन्यूनात्; आढ्यात् कुलात् प्रव्रजितो ऽदीनात्; अपरे यो ऽभिरूपो दर्शनीयः प्रासादिकः कल्याणवाक्यो वाक्करणेनोपेतो ज्ञातो महापुण्यः सूत्रधरो विनयधरो मातृकाधरो बहुश्रुतो धार्मकथिकः स्थविरो राजन्यः आरण्यकः त्रैचीवरिको नामतिकः पांसुकुलिकः पिण्डपातिकः एकासनिकः खलुपश्चाद्भक्तिको वृक्षमूलिकः श्माशानिको ऽभ्यवकाशिकः नैषदिको यथासंस्तरिको यो लाभी अनित्यसंज्ञायाः पूर्ववद् यावद् यो ऽर्हन्न् अष्टविमोक्षध्यायीति; अपरे एवम् आहुः सर्वेषाम् अस्माकम् आयुष्मन्तो न समेति यदुत नानाप्रज्ञप्त्या; (अ 314ब्) एते वयं येन भगवांस् तेनोपसंक्रमामः; उपसंक्रम्य भगवन्तम् एतम् अर्थं परिपृच्छामः; यथास्माकं स भगवान् व्याकरिष्यति तथैनं धारयिष्याम इति अथ संबहुला भिक्षवो येन भगवांस् तेनोपसंक्रान्ताः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः; एकान्तनिषण्णाः संबहुला भिक्षवो भगवन्तम् इदम् अवोचन्; इहास्मकं

(शय्-व् 4) भदन्त संबहुलानां भिक्षूणाम् उपस्थानशालायं संनिषण्णानां संनिपतितानाम् अयम् एवंरूपो ऽभूद् अन्तराकथासमुदाहारः; पूर्ववद् यावद् यथास्माकं भगवान् व्याकरिष्यति तथैनं धारयिष्याम इति; ते वयं भदन्त भगवन्तम् एतम् एवार्थं पतिपृच्छामः; को ऽस्माभिः (msv iii 123) सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः? पूर्ववद् यावद् अग्रपिण्डपातम् परिभोक्तुम् इति; भगवान् आह: वृद्धतरको युष्माभिर् भिक्षवः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः; अभिवादनवन्दनप्रत्युत्थानांजलिसामीचीकर्म कर्तव्यम्; स च युष्माकम् अर्हत्य् अग्रासनम् अग्रोदकम् अग्रपिण्डपातम् परिभ्कोतुम् इति उक्तं भगवता: वृद्धतरको भिक्षुर् युष्माभिः सत्कर्तव्यह्; पूर्ववद् यावद् अग्रासनं परिभोक्तुम् इति

old house-holders, etc., are not entitled to veneration

भिक्षवः आगारिकान् वृद्धान् सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति; श्रुत्वा ब्राह्मणगृहपतयो ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति; आर्या वयं कामभोगिनः कामपंकनिमग्नाः; कथं यूयम् अस्माकं सत्कुर्वथ? एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; भग्वान् आह: प्रव्रजितान् भिक्षवो मया सन्धायोक्तं नो त्व् आगरिकान् इति भिक्षवः अन्यतीर्थिकान् वृद्धान् दृष्ट्वा सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति; भगवान् आह; इह धार्मिकान् मया सन्धायोक्तं नो तु बाह्यकान् इति ते श्रामणेरकान् वृद्धप्रव्रजितान् दृष्ट्वा सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति; भगवान् आह: उपसंपन्नान् भिक्षवो मया सन्धायोक्तं नो तु श्रामणेरकान् इति ते नवोपसंपन्नान् वृद्धान् सत्कुर्वनि गुरुकुर्वन्ति मानयन्ति पूजयन्ति; भगवान् आह: अन्योन्यं वर्षाग्रं पृष्ट्वा वन्दितव्यं; ते पृष्टाः सन्तो जन्मवर्षाणि कथयन्ति; भगवान् आह; उपसंपद्वर्षाग्रं प्रष्टव्यम् इति; भिक्षवो न जानते ःकति वर्षाग्राणीतिः; (msv iii 124) भगवान् आह; सामयिकम् आरोचयितव्यम्; भिक्षवो न जानते कति सामयिकानीति; भगबान् आह: पंचेमे भिक्षवः समयाः, हैमन्तिकं ग्रैष्मिकं वार्षिकं मृतवार्षिकं दीर्घवार्षिकम् इति; तत्र हैमन्तिकं चत्वारो मासाः; ग्रैष्मिकं चत्वारो मासाः; ःवार्षिकम् एको मासःः; मृतवार्षिकम् एकं रात्रिन्दिवसम्; दीर्घवार्षिकं रात्र्यूनास् त्रयो मासाः; इत्य् एवं सामयिकम् आरोचयित्वा यः पूर्वोपसंपन्नः स वन्दितव्यः अपरे भिक्षवश् चत्वारो वन्द्याः; कतमे चत्वारो वन्द्याः? सदेवकस्य (शय्-व् 5) तावल् लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकाया प्रजायाः सदेवमानुषायास्

तथागतार्हत्सम्यक्संबुद्धो वन्द्यः; सर्वेषां गृहिणः प्रव्रजिता वन्द्याः; सर्वेषाम् उपसंपन्नानां पूर्वोपसंपन्ना वन्द्याः (अ 315अ) स्थापयित्वा भिक्षुणीम्; तस्या वर्षशतोपसंपन्नाया अपि तदहः उपसंपन्नो भिक्षुर् वन्द्यः; सर्वस्यानुपसंपन्नकस्योपसंपन्नको वन्द्यः दशावन्द्याः; कतमे ःदश?ः पारिवासिको मूलपारिवासिकः पर्युषितपरिवासः मानाप्यचारिकश् चरितमानाप्यो ऽदर्शनायोत्क्षिप्तकः अप्रतिकर्मायोत्क्षिप्तकः अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षिप्तकः सर्वो गृही ःसर्वाश्ः चानुपसंपन्नः यदा भगवता यथावृद्धिकया प्रज्ञप्तास् तदा भिक्षवो ऽन्योन्यं सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति; ते ऽन्योन्यं सत्कुर्व्वन्तो ःगुरुकुर्वन्तोः मानयन्तः पूजयन्तो वर्धन्ते कुशलैर् धर्मैर् उत्पलं वा (msv iii 125) यथोदके भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त यदा भगवता यथावृद्धिकया प्रज्ञप्तास् तदा भिक्षवो ऽन्योन्यं सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति; ते ऽन्योन्यं सत्कुर्वन्तो गुरुकुर्वन्तो मानयन्तः पूजयन्तो वर्धन्ते कुशलैर् धर्मैर् उत्पलं वा यथोदके इति; भगवान् आह: किम् अत्र भिक्षवः आश्चर्यं यद् इदानीम् मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन यथावृद्धिकायां प्रज्ञप्तायां यथावृद्धिकाम् आगम्य भिक्षवो ऽन्योन्यं सत्कुर्वन्ति गुरुकुर्वन्ति पूर्ववद् यावद् उत्पलं वा यथोदके इति; यत् तु मया सरागेण सद्वेषेण समोहेनापरिमुक्तेन

जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर् विनिपतितशरीरेण यथावृद्धिकायां प्रज्ञप्तायां यथावृद्धिकाम् आगम्य सकलो जम्बूद्वीपनिवासी जनकायो यद्भूयसा प्रणीते त्रयस्त्रिंशे देवनिकाये उपपन्नस् तच् छ्रूयताम्

the story of the francoline, the hare, the monkey and the elephant

भूतपूर्वं भिक्षवः काशीषु जनपदे अन्यतमस्मिन् वनगहने चत्वारः प्राणिनः प्रतिवसन्ति कपिञ्जलः शशो मर्कटो गजश् (शय्-व् 6) च; ते च परस्परं सख्येनावस्थिताः सहिताः समग्राः संमोदमाना अविवदमाना अशंकिनो यथेष्टविहारतया कालम् अतिनामयन्ति; यावद् अपरेण समयेन तेषां बुद्धिर् उत्पन्ना; (msv iii 126) अस्ति वयं भवन्तः परस्परं सख्येनावस्थिताः सहिताः समग्राः संमोदमाना अविवदमानाः; किन् तु न जानीमः को ऽस्माभिः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः इति; यन् नु वयं यथावृद्धिकां प्रज्ञपयेम इति; ते परस्परं संजल्पं कर्तुम् आरब्धा इति; को ऽस्माकं वृद्ध इति; ततः कपिंजलेन वटवृक्षो दर्शितः; भवन्तः एष वटवृक्षः केन कियत्प्रमाणो दृष्ट इति; हस्ती कथयति; मया यूथेन सहानेन पथा गच्छता अयं दृष्टो मत्प्रमाण एव उच्चत्वेनेति; मर्कटः कथयति; मया यूथेन सहानेन पथा गच्छता अयं दृष्टो मम तुल्य एवोच्चत्वेनेति; ते कथयन्ति; त्वम् अस्य वृद्ध इति; शशः कथयति; मयाप्य् अस्य द्विपत्रकस्य पत्रेष्व् एवावश्ययन्बिन्दवो जिह्वया निर्लीढा इति; ते कथयन्ति: त्वम् अप्य् अनयोर् वृद्ध इति; कपिञ्जलः कथयति; पश्यत यूयम् एनं वटवृक्षं महत्प्रमाणाकारम्; ते कथयन्ति: पश्यामः; एतस्मान् मया फलानि भक्षयित्वास्मिन् प्रदेशे उच्चारः कृतस् तस्माद् अयं जात इति; (अ 315ब्) ते कथयन्ति: यद्य् एवं त्वम् अस्माकं सर्वेषां वृद्ध इति; ततो हस्ती सर्वेषां सत्कर्तुं आरब्धः; मर्कटः शशं कपिंजलं च; शाशः कपिंजलम् एव; ते एवं यथावृद्धिकया सत्कुर्वन्तस् तस्मिन् वनगहने इतश् चामुतश् च परिभ्रमन्ति; यदा

विषमनिम्नाः प्रदेशा गन्तव्या भवन्ति तदा हस्तिनं मर्कटो ऽभिरोहति मर्कटम् शशः शशम् अपि कपिंजलः तेषाम् एवं प्रवृद्धस्नेहानां सगौरवाणां च बुद्धिर् उत्पन्ना; अस्ति वयं भवन्तः प्रवृद्धस्नेहाः सगौरवाश् च; अन्यद् अपि (msv iii 127) तावत् किंचित् कुशलं समादाय वर्तेम इति; किं कुर्मः; कपिंजलः कथयति; प्राणातिपातात् प्रतिविरमामः; कीदृषो ऽस्माकं प्राणातिपातः? कपिंजलः कथयति: सन्ति तृणपुष्पफलानि सपृआणकानि सन्ति निष्प्राणकानि; तद् अस्माभिर् अद्याग्रेण सप्राणकानि परित्यज्य निष्प्राणकानि; परिभोक्तव्यानि; ते सप्राणकानि परित्यज्य निष्प्राणकानि परिभोक्तुम् आरब्धाः तेषाम् एतद् अभवत्; अस्ति वयं प्राणातिपातात् प्रतिविरता नो त्व् अदत्तादानात् प्रतिविरमामः; कीदृशो ऽस्माकम् अदत्तादानम्? कपिंजलः कथयति: सन्ति सपरिग्रहाणि तृणपत्रपुष्पफलानि सन्ति निष्परिग्रहाणि; तद् अस्माभिर् अद्याग्रेण सपरिग्रहाणि परित्यज्य निष्परिग्रहाणि (शय्-व् 7) परिभोक्तव्यानि; ते सपरिग्रहाणि परित्यज्य निष्परिग्रहाणि परिभोक्तुम् आरब्धाः तेषाम् एतद् अभवत्; अस्ति वयम् अदत्तादानात् प्रतिविरताः नो तु काममिथ्याचारात्; यन् नु वयं काममिथ्याचारात् प्रतिविरमामः; कीदृशो ऽस्माकं काममिथ्याचारः? कपिंजलः कत्ययति: वयम् गम्या अपि गच्छामः; अगम्या अपि गच्छामः; तद् अस्माभिर् अद्याग्रेण गम्यैव गन्तव्या नागम्या ते गम्यां गच्छन्ति नागम्याम्. तेषाम् एतद् अभवत्: अस्ति वयं काममिथ्याचारात् प्रतिविरताः; नो तु मृषावादात्; यन् नु वयं मृषावादात् प्रतिविरमामः; कीदृशो ऽस्माकं मृषावादः? कपिंजलः कथयति: वयं यद्वा तद्वा विप्रलपामः; तद् अस्माभिर् अद्याग्रेण न यद्वा तद्वा

विप्रलपितव्यम्; (msv iii 128) विचार्य विचार्य काले वाग् उदीरयितव्या; ते न यद्वा तद्वा विप्रलपन्ति किं तु विचार्य विचार्य कालेन वाचम् उदीरयन्ति तेषाम् एतद् अभवत्; अस्ति वयं मृषावादात् प्रतिविरताः; नो तु सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरताः; यन् नु वयं सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरमामः; किदृशम् अस्माकं सुरामैरेयमद्यप्रमादस्थानम्? कपिंजलः कथयति: सन्ति मादनीयानि फलानि सन्त्य् अमादनीयानि; तद् अस्माभिर् अद्याग्रेण मादनीयानि फलानि परित्यज्यमादनीयानि फलानि परिभोक्तव्यानि; ते मादनीयानि फलानि परित्यज्यमादनीयानि फलानि परिभोक्तुम् आरब्धाः यदा ते पञ्चसु व्रतपदेषु प्रतिष्ठापितास् तदा कपिंजलः कथयति: अस्ति वयं भवन्तः पंचसु व्रतपदेषु प्रतिष्ठिताः; यन् नु वयम् अन्यान् अपि पंचसु व्रतपदेषु प्रतिष्ठापयामः; ते कथयन्ति: एवं कुर्मः; को युष्माकं प्रतिष्ठापयति? मर्कटः कथयति: अहं सर्वान् शाखामृगान् प्रतिष्ठापयामि; ततः शशः कथयति: अहं सर्वान् शशान् लोमशान् मृगांश् च प्रतिष्ठापयामि; (अ 316अ) हस्ती कथयति: अहं सर्वान् हस्तिनः सिंहान् व्याघ्रद्वीपिनश् च प्रतिष्ठापयामि; कपिंजलः कथयति: यद्य् एवम् एतत् संक्षेपाद् युष्माकम् अविनया अपदा द्विपदाश् चतुष्पदाः पक्षिणश् च तान् अहं सर्वान् पंचसु व्रतपदेषु प्रतिष्ठापयामीति (शय्-व् 8) ततस् ते काशीविषये (msv iii 129) यावत्तिर्यग्योनिगताः प्राणिनस् ते सर्वे पंचसु व्रतपदेषु प्रतिष्ठापिताः; ते अन्योन्यम् अव्याबाधमानास् तस्मिन् वनषण्डे संप्रजानद्विहारिणो यथेष्टं विहरन्ति; तेषाम् अनुभावाद् देवः कालवर्षी संवृत्तः; सदा पुष्पफला वृक्षाः, शस्यवती

वसुमती; ते मनुष्यैर् दृष्टा अन्योन्यम् अव्याबाधमाना विहरन्तः, सदा पुष्पफला वृक्षाः, शस्यवती वसुमती; राजा कथयति: अहं धर्मेण राज्यं कारयामि ममैषो ऽनुभाव इति; अन्तःपुरं कुमारामात्या भटबलाग्रं नैगमजानपदाश् च ःकथयन्ति; अस्माकम् एषो ऽनुभावःः; राजा संलक्षयति; सर्व एते कथयन्ति ममानुभावो ममानुभाव इति; तन् न ज्ञायते कस्यानुभाव इति; स कुतूहलजातो नैमित्तिकान् आहूय पृष्टवान्; तैर् अपि न ज्ञातम्; यावद् वाराणस्यां नातिदूरे उद्यानम्; तत्र पञ्चाभिज्ञ रिषिः प्रतिवसति सकलस्य वाराणसीनिवासिनो जनकायस्य पूज्यो मान्यो ऽभिवाद्यश् च; ततो राजा तस्य ऋषेः सकाशम् उपसंक्रान्तः पादयोर् निपत्य कथयति: महर्षे मम विजिते यावत्तित्यग्योनिगताः प्राणिनस् ते सर्वे अन्योन्यम् अव्याबाधमानाः संप्रजानद्विहारिणो यथेष्टं विहरन्ति; देवः कालवर्षी सदा पुष्पफला वृक्षाः शस्यवती च वसुमती; तस्मान् ममैतद् अभवत्: अहं धर्मेण राज्यं कारयामि; ममैसो ऽनुभाव इति; अन्तःपुरं कुमारामात्या भटबलाग्रं नैगमजानपदाश् च संलक्षयन्ति: अस्माकम् एषो ऽनुहाव इति; तन् न ज्ञायते कस्यायम् अनुभाव इति; कौतुकश् च मे महान्; त्वम् अर्हसि संशयं छेत्तुम्; कस्यायम् अनुभाव इति; स कथयति: महाराज म तवैषो ऽनुभावो नान्तःपुरस्य न कुमाराणां नामात्यानां न भटबलाग्रस्य न (msv iv 130) नैगमजानपदानं; अपि तु तव विजिते चत्वारः प्रानिणः प्रतिवसन्ति; तेषाम् अयम् अनुभाव तित्; राजा कथयति: गच्छामि तान् पश्यमीति; ऋषिः कथयति: महाराज किं तव तैर् दृष्टैर् अपि तु यत् ते समादाय वर्तन्ते तत् समादाय वर्तस्वेति; किं ते समादाय वर्तन्ते?

पञ्च व्रतपदानि; महर्षे किदृशानि पञ्च व्रतपदानि? महाराज ते प्राणिनं जीवितान् न व्यवरोपयन्ति; परस्वं नापहरन्ति; अगम्यागमनं न कुर्वन्ति; मृषावादं न भाषन्ते; मद्यपानं च नाध्याचरन्ति; राजा कथयति: महर्षे यद्य् एवं अहम् अप्य् एतानि पञ्च व्रतपदानि समादाय वर्तेम; अथ स राजा पञ्च व्रतपदानि समादाय वर्तितुम् आरब्धः; राजा पञ्च व्रतपदानि समादाय वर्तत इति देव्यो ऽपि पञच व्रतपदानि समादाय वर्तितुम् आरब्धाः; कुमारा अमात्या भटबलाग्रं नैगमजानपदा अपि पञ्च व्रतपदानि समादय वर्तितुम् आरब्धानि; पृतिसीमैः (शय्-व् 9) कोट्टराजभिः श्रुतम्; राजा ब्रह्मदत्तः पञ्च व्रतपदानि समादाय वर्तते सार्धम् अन्तःपुरेण कुमारैर् अमात्यैर् भटबलाग्रैर् नैगमजानपदैर् इति; श्रुत्वा च पुनस् ते ऽपि पञ्चव्रतपदानि (अ 316ब्) समादय वर्तितुम् आरब्धाः सार्धम् अन्तःपुरेण कुमारैर् अमात्यैर् भटबलाग्रैर् नैगमजानपदैर् इति; भूयसा सर्व एव जनकायः पञ्च व्रतपदानि समादाय वर्तितुम् आरब्धः तेन खलु समयेन जम्बूद्वीपे यः कालं करोति स कायस्य भेदात् प्रणीतेषु देवेषू त्रयस्त्रिंशेषूपपद्यते; ततः शक्रो देवेन्द्रः आपूर्यमाणं देवपर्षदं दृष्ट्वा च पुनर् गाथां भाषते; (msv iii 131) सगौरवाः सप्रतीशा विहरन्ति तपोवने / कपिंजलब्रह्मचर्यं पृथग्लोकप्रकाशितम् //

इति / भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ कपिंजलः अहम् एव सः तेन कालेन तेन समयेन; शशः शारिपुत्रो भिक्षुर् मर्कटो मौद्गल्यायनो भिक्षुर् गज आनन्दः; तदापि मया यथावृद्धिकायां प्रज्ञप्तायां यथावृद्धिकाम् आगम्य सकलो जम्बूद्वीपनिवासी जनकायो भूयसा त्रयस्त्रिंशे देवनिकाये उपपन्नः; एतर्ह्य् अपि मया यथावृद्धिकायां प्रज्ञप्तायां यथावृद्धिकाम् आगम्य भिक्षवो ऽन्योन्यं सत्कुर्वन्तो गुरुकुर्वन्तो मानयन्तः पूययन्तो वर्धन्ते कुशलैर् धर्मैर् उत्पलं वा यथोदके

the buddha eulogises the order by age

तस्मात् तर्हि भिक्षवः सगौरवा विहरत सप्रतीषाः सभयवशवर्तिनः सब्रह्मचारिषु स्थविरेषु मध्येषु नवकेषु; तत् कस्य हेतोः? स तावद् भिक्षवो भिक्षुर् अगौरवो विहरन्न् अप्रतीशः अभयवशवर्ती स्थविरेषु मध्येषु नवकेषु आसमुदाचारिकान् धर्मान् परिपूरयिष्यति नेदं स्थानं विद्यते; आसमुदाचारिकान् धर्मान् अपरिपूर्य शैक्षान् धर्मान् परिपूरयिष्यति नेदं स्थानं विद्यते; शैक्षान् धर्मान् अपरिपूर्य शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञानदर्शनस्कन्धं परिपूरयिष्यति नेदं स्थानं विद्यते; विमुक्तिज्ञानदर्शनस्कन्धम् अपरिपूर्यानुपादाय (शय्-व् 10) परिनिर्वास्यति नेदं स्थानं विद्यते; स तावद् भिक्षवो भिक्षुः सगौरवो विहरन् सप्रतीशः सभयवशवर्ती ब्रह्मचारिषु स्थविरेषु मध्येषु नवकेषु आसमुदाचारिकान् धर्मान् पूरयिष्यति (msv iii 132) स्थानम् एतद् विद्यते; आसमुदाचारिकान् धर्मान् परिपूर्य शैक्षान् धर्मान् परिपूरयिष्यति स्थानम् एतद् विद्यते; शैक्षान् धर्मान् परिपूर्य शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञानदर्शनस्कन्धं परिपूरयिष्यति स्थानम् एतद् विद्यते; विमुक्तिज्ञानदर्शनस्कन्धं परिपूर्यानुपादाय परिनिर्वास्यति स्थानम् एतद् विद्यते; तस्मात् तहि भिक्षव एवं शिक्षितव्यम्; यत् सगौरवा विहरिष्यामः सप्रतीशाः सभयवशवर्तिनः ःसब्रह्मचारिषूः स्थविरेषु मध्येषु नवकेषु: इत्य् एवं वो भिक्षवः शिक्षितव्यम्

the institution of vihāras

यदा भगवता पञ्चका विनीतास् ते अरण्ये प्रतिवसन्ति; ते अरण्ये प्रतिवसन्तो आगम्या भवन्ति सिंहानां व्याघ्राणां द्वीपिनां तरक्षूणाम् भगवान् संलक्षयति: कुत्र पूर्वकाणां सम्यक्संबुद्धानां श्रावका आवासं कल्पितवन्तः? पश्यति विहारे; देवताभिर् अप्य् एवं भगवत आरोचितम् तेन खलु समयेन वाराणस्यां कलयाणभद्रो नाम गृहपतिः प्रतिवसति; तस्य कुशलमूलप्रतिबोधितसन्ततेर् एतद् अभवत्; अहो बताहं भगवतः श्रावकाणं विहारं कारयेयम् इति; स काल्यम् एवोत्थाय येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ (अ 317अ) शिरसा वन्दित्वैकान्ते निषण्णः; एकान्तनिषण्णं कल्याणभद्रिकं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्ष्य (msv iii 133) समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथ कल्याणभद्रिको गृहपतिर् उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनांजलिं प्रणम्य भगवन्तम् इएअम् अवोचत्: यदि भगवान् अनुजानीयाद् अहं भगवतः श्रावकाणां विहारं करयेयम् इति; भगवान् आह; तस्माद् गृहपते अनुजानामि कारय इति; स न जानीते कीदृशः कारयितव्य इति; भगवान् आह: यदि त्रिलयनं कारयसि मध्ये गन्धकुटिः कारयितव्या द्वयोः पार्श्वयोर् द्वे लयने; एवं त्रिषाले नव लयनानि; चतुःशाले मध्ये द्वारकोष्ठकाभिमुखं (शय्-व् 11) गन्धकुटिः; द्वारकोष्ठकपार्श्वयोर् द्वे लयने; स न जानीते कति पुराः कर्तव्या इति; भगवान् आह: भिक्षूणां पञ्चपुरा विहाराः कर्तव्याः सप्तपुरा गन्धकुटिः; सप्तपूरा बालाग्रपोतिकाः; भिक्षूणीनां तु त्रिपुरा विहाराः कर्तव्याः; पंचपुरा गन्धकुटिः; पंचपुरा बालाग्रपोतिका इति

the story of anāthapiṇḍada: his birth and wonders

तेन खलु समयेन श्रावस्त्यां दत्तो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोग विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी; तेन सदृशात् कुलात् कलत्रम् आनीतम्; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य (msv iii 134) परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा चाष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः; तस्य त्रीणि सप्तकान्य् एकविंशतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते; किं भवतु दारकस्य नामेति; ज्ञातय ऊचुः: अयं दारको दत्तस्य गृहपतेः पुत्रस् तस्माद् भवतु दारकस्य सुदत्त इति नामेति; तस्य सुदत्त इति नामधेयं व्यवस्थापितम्; सुदत्तो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तः; द्वाभ्याम् अंसधात्रीभ्याम्; द्वाभ्यां क्षीरधात्रीभ्याम्; द्वाभ्यां मलधात्रीभ्याम्; द्वाभ्यां क्रीडनकाभ्याम्; सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्धते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पंकजम्; सो ऽपरेण समयेन सर्वालंकारविभूषितो धात्र्यंसगतो निषण्णो बहिर्निर्गतः; याचनकेनालंकारं प्रार्थितः: कुमाराहम् अलंकारेणार्थी; प्रयच्छ मे अलंकारम् इति; तेन प्रमुदितमनसा असाव् अलंकारो दत्तः; स गृहं प्रविष्टः; पित्रा चास्य धात्री पृष्टा; कुत्र कुमारस्यालंकार इति; सा कथयति: दत्तः कुमारेण (शय्-व् 12) याचनकायेति; सो ऽन्येनालंकारेण विभूषितः; सो ऽपि दत्तः; भूयो ऽप्य् अलंकृतः; सो ऽपि तेन दत्तः; स गृहपतिः पत्नीम् आमन्त्रयते: भद्रे सोभनो ऽस्माकं पुत्रो जातः; नित्यं

दानाभिरत इति; सा कथयति: आर्यपुत्र यद्य् एवं नैनं भूयो ऽप्य् अलंकरिष्यामि; स कथयति: भद्रे अस्त्य् अस्माकं सुवर्णम् अप्रमेयं रत्नानि च; किन् तु अलंकारघटका न सन्ति; सर्वथा नायं बहिर् (अ 317ब्) निष्कासयितव्य इति; सो ऽभ्यन्तर एव लाड्यते; यावद् अपरेण समयेन दत्तो गृहपतिर् भृत्यजनपरिवृतो (msv iii 135) नदीम् अजीरवतीं स्नातुं संप्रस्थितः; सुदत्तो दारकः कथयति: तात अहम् अपि गच्छामीति; स तं विप्रलम्भयितुम् आरब्धः; पुत्र इहैव शोभनं सलिलम्; नदी ग्राहाकुला; इयं ते धात्री स्नापयिष्यतीति; स रोदितुं प्रवृत्तः; मातास्य कथयति: आर्यपुत्र किमर्थम् अयं दारको रौतीति; तेन यथावृत्तं समाख्यातम्; सा कथयति: आर्यपुत्र त्वया सार्धं गच्छतु; को ऽत्र विरोधः; सुतरां गुप्तो भविष्यतीति; स तम् आदाय नदीं गतः; स्नापयित्वा कुले स्थापितः कथयति: तात किमर्थं मम रक्षा क्रियते? पुत्र तव दोषो ऽस्ति; कथम्? दत्तम् अलंकारं याचनकेभ्यो ऽनुप्रयच्छसि; किं तातो द्रव्येणार्थी? पुत्र को ऽनार्थी? तात यद्य् एवम् अवतारय माम्; स तेनावतारितः; ततस् तेनोभौ पाणी नद्याम् आप्लाव्य सुवर्णपूर्णास् चत्वारो लोहसंघाटा उद्धृताः; कथयति: तात अतस् त्नं यावदाप्तःंः धनेन धनकार्यं कृत्वावशिष्टम् अत्रैव प्लावय; पुत्र किं त्वं जलगतान् निधीन् पश्यसि? तात न केवलं जलगतान् स्थलगतान् अपि सस्वामिकान् अस्वामिकान् अपि ये ऽपि दूरे ये ऽप्य् अन्तिके; दत्तो गृहपतिर् विस्मयोत्फुल्ललोचनः संलक्षयति: शक्यम् एवंविधेन दानप्तिना दानं दातुम् इति विदित्वा कथयति: पुत्र यद्य् एवं देहि दानं यथेष्टम् इति; धर्मता ह्य् एषा: न तावत् पुत्रो

यशस्वी भवति यावद् अस्य पिता जीवतीति यावद् अपरेण समयेन दत्तो गृहपतिः कालगतः; सुदत्तो गृहस्वामी संवृत्तः; सततम् अनाथेभ्यः पिण्डकम् अनुप्रयच्छतीति समन्ताच् छद्बो विसृतः: दत्तस्य गृहपतेः पुत्रः सुदत्तो गृहस्वामी संव्र्ट्तः; (शय्-व् 13) सो ऽनाथेभ्यः पिण्डकम् अनुप्रयच्छतीति; तस्यानाथपिण्डदो (msv iii 136) गृहपतिर् इति संज्ञा संवृत्ता; ततस् तेन सदृशात् कुलात् कलत्रम् आनितं; स तया सार्धम् क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; एवं यावत् सप्त पुत्रा जाताः; तेन षण्णां निवेशः कृतः; सप्तमः सुजातो नाम्ना; तस्य सदृशं कुलं समन्वेषते; न आरागयति; स करे कपोलं दत्वा चिन्ताप्रो व्यवस्थितः; तस्य मधुस्कन्धो नाम मानवो वयस्यः; तेनासौ दृष्टस् तथा चिन्तापरः; स कथयति: कस्मात् त्वं गृहपते करे कपोलं दत्वा चिन्तापरस् तिष्ठसीति; स कथयति: मया षण्णां पुत्राणां निवेशः कृतः; सप्तमस्य सुजातस्य सदृशकुलं चिन्तयामि कतरत् तत् कुलं यतो ऽस्य निवेषं करिष्यामीति; स कथयति: अल्पोत्सुकस् तिष्ठ अहम् अस्य सदृशं कुलं गवेषयामि; कतरस्मिन् देशे? स कथयति; मगधविषयं तावद् गच्छमि; एवं कुरु; स राजगृहं गतः; राजगृहे अन्यतमो गृहपतिर् आढ्यो महाधनो महाभोगो ऽनाथपिण्डदस्य प्रतिरूपः; स तस्य गृहं प्रविष्टो द्वारशालायां स्थित्वा कथयति: स्वस्ति स्वस्तीति; तस्य गृहजनाः कथयन्ति: ब्राह्मण किं प्रार्थयसि? कन्याभिक्षाम्; कस्यार्थाय? श्रावस्त्याम् अनाथपिण्डदो गृहपतिस् तस्य पुत्रः सुजातो नाम्ना; ते कथयन्ति सादृषो ऽस्माकं कुलेन; अपि तु प्रभूतम् अस्माकं

कुलशुल्कम्; (अ 318अ) कियत्प्रभूतम्? शतम् अश्वानां शतं निष्काणां शतम् अश्वतरीरथानां शतं काम्बोजिकानां कन्यानाम् इति; मधुस्कन्धेन (msv iii 137) मानवेनानाथपिण्डदस्य गृहपतेर् अनेनार्थेन लेखो दत्तः: तेनापि वाचयित्वा प्रतीच्छ सर्वं मया देयम् इति; तेन दिवसमुहूर्तयोगेन प्रतीष्टम् ततस् तैः शुचिना प्रणीतेन प्रभूतेनाहारेण संतर्पितो मानवकः शालां गत्वा वासम् उपगतो विषूचितः; अपरिचिता ब्राह्मणाः; स तैर् अशुचिभयाद् बहिर् निष्कासयित्वा च्छोरितः; दैवाद् आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ तं प्रदेशम् आगतौ; स ताभ्यां दृष्टः; ततस् ताभ्यां वंशविदलिकया निर्लिख्य पाण्डुमृत्तिकया उद्वर्त्य स्नापितः; तस्यैव धर्मं देशयित्वा प्रक्रान्तौ; तस्य प्रवाहिका नावतिष्ठते; स तयोर् अन्तिके चित्तम् अभिप्रसाद्य कालगतः; चातुर्महाराजिकेषु देवेषूपपन्नः; स वैश्रवणस्य महाराजस्य सकाशं गत्वा भवनं प्रार्थयते; स कथयति: गच्छ तद् एव ते शिविकाद्वारं भवनम् इति; स तत्र गत्वा नैवासिकः संवृत्तः (शय्-व् 14) विदेहराजेन राज्ञो बिंबिसारस्य हैमवतानां नागानां सातम् अनुप्रेषितम्; तेन राज्ञा प्रसेनजितः कोसलस्य सन्दिष्टम्: मम विदेहराजेन हैमवतानां नागानां शतम् अनुप्रेषितम्; यद्य् अर्थी भवसि प्रेष्य इति अनाथपिण्डदो गृहपतिर् येन राजा प्रसेनजित् कोसलस् तेनोपसंक्रान्तः; उपसंक्रम्य राजानं प्रसेनजितं कोसलम् इदम् अवोचत्: देव मम राजगृहे किंचित् प्रयोजनम्; तत्र गत्वा आगमिष्यामीति; राजा कथयति: शोभनं गच्छ ममापि तस्मात् हस्तिशतम् आनेयं (msv iii 138) तद् अनेष्यसीति; स कथयति: देव यदि मम तत्र प्रयोजनं ःनः भवति

ग्रहीष्यामीति; इहागम्य देवस्य च्त्तग्राहं करिष्यामीति; राजा कथयति: शोभनम् एवं भवत्व् इति

अनाथपिण्डद मेएत्स् थे बुद्ध

ततो ऽनाथपिण्डदो गृहपतिः प्रभूतं कुलशुल्कम् आदाय राजगृहं गतः; स यस्य गृहपतेर् गृहे वासम् उपगतः स गृहपतिः सरात्रम् एवोत्थायान्तर्जनम् आमंत्रयते: उत्तिष्ठार्या उत्तिष्ठ; भद्रमुखाः काष्ठानि पाटयत समितिं प्रज्वालयत; भक्तं पचत; सूपिकं पचत; खाद्यकान्य् उल्लाडयत; प्रतिजागृत मण्डलवाटम् इति; अथानाथपिण्डस्य गृहपतेर् एतद् अभवत्: किं पुनर् अस्य गृहपतेर् आवाहो वा विवाहो वा भविष्यति; राष्ट्रं वानेन भक्तेनोपनिमन्त्रितम्? श्रेणी वा, पूगो वा पर्षदो वा? राजा वानेन मागधः श्रेण्यो बिम्बिसारः भक्तेनोपनिमन्त्रितः; इति विदित्वा तं गृहपतिम् इदम् अवोचत्: किं पुनस् ते गृहपते आवाहो वा भविष्यति, विवाहो वा राष्ट्रं वा त्वया भक्तेनोपनिमन्त्रितं श्रेणी वा पूगो वा पर्षदो वा राजा वा ते मागधः श्रेण्यो बिम्बिसारो भक्तेनोपनिमन्त्रित इति; स कथयति: गृहपते न मे आवाहो भविष्यति न विवाहो वा नापि मया राष्ट्रं भक्तेनोपनिमन्त्रितं, न श्रेणी न पूगो न पर्षदो नापि राजा मागधः श्रेण्यो बिम्बिसारो भक्तेनोपनिमन्त्रितः अपि तु बुद्धप्रमुखो भिक्षुसंघो भक्तेनोपनिमन्त्रित; इति अनाथपैण्डदस्य गृहपतेर् बुद्ध इत्य् अश्रुतपूर्वं घोषं श्रुत्वा सर्वरोमकूपान्य् (अ 318ब्) आहृष्टानि; स आहृष्टरोमकूपस् तं गृहपतिम् इदम् अवोचत्: क एष गृहपते बुद्धो नाम? अस्ति गृहपते श्रमणो (शय्-व् 15) गौतमः शाक्यपुत्रः (msv iii 139) शाक्यकुलात् केशश्मश्रू अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; सो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः; स एष गृहपते बुद्धो नाम; क एष गृहपते सङ्घो नाम? सन्ति गृहपते

क्षत्रियकुलाद् अपि कुलपुत्राः केशश्मश्रू अवतार्य काषायाण्य् वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनागारिकां तम् एव भगवन्तं प्रव्रजितम् अनुप्रव्रजिताः; ब्राह्मणकुलाद् अपि वैश्यकुलाद् अपि शूद्रकुलाद् अपि कुलपुत्राः केआशश्मश्रू अवतार्य काषायाणि वस्त्राणि आच्छाद्य सम्यग् एव श्रद्धया अनागाराद् अनागारिकां तम् एव भगवन्तं प्रव्रजितम् अनुप्रव्रजिताः; स एष गृहपते सङ्घो नाम; ःश्वःः स मया बुद्धप्रमुखो भिक्षुसङ्घो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः; कुत्र गृहपते स भगवान् एतर्हि विहरति? अस्मिन्न् एव राजगृहे शीतवने श्मशाने; लभ्यं गृहपते सो ऽस्माभिर् भगवान् द्रष्टुम्? तेन हि गृहपते आगमय तावत् त्वम्; स्थानम् एतद् विद्यते यद् इहागतं श्वो द्रक्ष्यसि; अनाथपिण्डदो गृहपतिस् तां रात्रिं बुद्धालम्बनया स्मृत्या मिद्धम् अवक्रान्तः; सो ऽप्रभाते प्रभातसंज्ञी येन शिवकद्वारं तेनोप्सङ्क्रान्तः; तेन खलु समयेन शिवकद्वारं रात्र्या द्वौ यामौ विवृतं तिष्ठति; पूर्वकं पश्चिमकं च, माहैव आगन्तुकानां गमिकानां च दूतानां विघ्नो भविष्यतीति; यावत् पश्यति शिवकद्वारं विवृतम् आलोकेन च स्फुटम्; तस्यैतद् अधवत्: नूनं प्रभाता रजनी: तथा हि शिवकद्वारं विवृतं तिष्ठति; इति विदित्वा तेनैव आलोकेन नगरान् निष्क्रान्तः; समनन्तरनिष्क्रान्तस्य चास्य य आलोकः (msv iii 140) सो ऽन्तर्हितः; अन्धकारं प्रादुर्भूतम्; तस्याभूद् भयम्; अभूच् छम्भितत्वं; अभूद् रोमहर्षह्; माहैव कश्चिद् विहेटयेन् मनुष्यो वामनुष्यो वा धूर्तको वा असंप्राप्तम् वा स्यात् प्रभूतं कुलशुल्कम् इति; विदित्वा प्रतिनिवर्तितुकामो मधुस्कन्धस्य देवपुत्रस्य स्थण्डिलं

प्रदक्षिणीकरोति, नमस्करोति च; अथ मधुस्कन्धस्य देवपुत्रस्य एतद् अभवत्: अद्यैवानाथपिण्डदेन गृहपतिना सत्यदर्शनं कर्तव्यम्; अद्यैवायं बुद्धं भगवन्तम् अपास्य अन्यदेवतानमस्कारं करिष्यति; इति विदित्वा यावच्च शिवकद्वारं यवच् च शीतवनं श्मशानम् अत्रान्तराद् उदारेणावभासेनावभास्य अनाथपिण्डदं गृहपतिम् इदम् अवोचत्: अभिक्रम गृहपते, मा प्रतिक्रम; अभिक्रमतस् ते श्रेयो भविष्यति; न प्रतिक्रमतः; तत् कस्य हेतोः? (शय्-व् 16) शतम् अश्वा शतं निष्काः शतम् अश्वतरीरथाः /

नानावित्तस्य संपूर्णाः शतं च वडवारथाः / पदाविहारस्यैकस्य कलां नार्हन्ति षोडशीम् //

अभिक्राम गृहपते, मा प्रतिक्राम; अभिक्रमतस् ते श्रेयो भवति, न प्रतिक्रमतः; तत् कस्य हेतोः? शतं हैमवता नागाः सुवर्णमणिकल्पिताः / ईषादन्ता महाकाया व्यूढवन्तो मतङ्गजाः / पदाविहारस्यैकस्य कलां नार्हन्ति षोडशीम् //

अभिक्राम गृहपते, मा प्रतिक्रम; अभिक्रमतस् (msv iii 141) ते श्रेयो भवति; न प्रतिक्रमतः; तत् कस्य हेतोः? शतं काम्बोजिका कन्याः आमुक्तमणिकुण्डलाः / सुवर्णकेयूरधराः निष्कग्रीवाः स्वलङ्कृताः / पदाविहारस्यैकस्य कलां नार्हन्ति षोडशीम् //

अभिक्राम गृहपते, मा प्रतिक्राम; अभिक्रामतस् ते श्रेयो भवति; न प्रतिक्रामतः; (अ 319अ) अथानाथपिण्डदो गृहपतिस् तं देवपुत्रम् इदम् अवोचत्: कस् त्वम् भद्र्मुख? अहम् अस्मि गृहपते मधुस्कन्धो नाम माणवः; तवैव पुराणो गृहसखा; सो ऽहं शारिपुत्रमौद्गल्यायनयोर् भिक्ष्वोर् अन्तिके चित्तम् अभिप्रसाद्य कालगतश् चातुर्महाराजिकेषु देवेषूपपन्नः, अस्मिन्न् एव शिविकाद्वारे नैवासिकः; तस्माद् अहम् एवं वदामि: अभिक्राम गृहपते मा प्रतिक्राम; अभिक्रामतस् ते श्रेयो भवति, न प्रतिक्रामत इति; अथानाथपिण्डादस्य गृहपतेर् एतद् अभवत्: नावरो बुद्धो भविष्यति, नावरं धर्माख्यानं, यत्रेदानीं देवता अपि औत्सुक्यम् आपद्यन्ते तस्य भगवतो दर्शनाय; इति विदित्वा येन शीतवनं श्मशानं तेनोपसङ्क्रान्तः; तेन खलु समयेन बहिर् विहारस्याभ्यवकाशे भगवान् चङ्क्रमेण चङ्क्रम्यते, यद्भूयसा अनाथपिण्डदं गृहपतिम् आगमयमानः; अद्राक्षीद् अनाथपिण्डदो गृहपतिर् भगवन्तम् दुराद् एव; दृष्ट्वा च पुनर् येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवन्तम् गृहपतिः प्रतिसंमोदनया प्रतिसम्मोदते: (msv iii 142) कच्चिद् भगवान् सुखं शायित इति; अथ भगवांस् तस्यां वेलायां गाथा भाषते; सर्वथा वै सुखं शेते ब्राह्मणः परिनिर्वृतः / (शय्-व् 17) लिप्यते यो न कामैर् हि विप्रमुक्तो निरुपधिः //

छित्वेह सर्वम् आशक्तिन् विनीय हृदयज्वरम् / उपशान्तः सुखं शेते शान्तिप्राप्तेन चेतसा //

अथ भगवान् अनाथपिण्डदं गृहपतिम् आदाय विहारं प्रविश्य प्रज्ञप्त एवासने निषण्णः; अनाथपिण्डदो गृह्पतिर् भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकान्ते निषण्णम् अनाथपिण्डदं गृहपतिं भगवान् धर्म्यया कथया सन्दर्शयति समादापयति समुत्तेजयति, संप्रहर्षयति; यासौ बुद्धानां भगवतां पूर्वकालकरणीया धर्म्या कथा, तद्यथा दानकथा शीलकथा स्वर्गकथा कामानाम् आस्वादादीनवसंक्लेशव्यवदाननैष्क्रम्यप्रविवेक अनुशंसव्यवदानपक्ष्यान् धर्मान् विस्तरेण संप्रकाशयति; यदा चैनं भगवान् अद्राक्षीत् हृष्टचित्तं कल्यचित्तं मुदितचित्तं विनिवरणचित्तं भव्यं प्रतिबलं सामुत्कर्षिकीं धर्मदेशनाम् आज्ञातुम्, तदा यासौ बुद्धानां भगवतां सामुत्कर्षिकी धर्मदेशना तद्यथा दुःखं समुदयो निरोधो मार्गश् चत्वार्य् आर्यसत्यानि विस्तरेण संप्रकाशयति; अथानाथपिण्डदो ग्ःअपतिस् तस्मिन्न् एवासने निषण्णश् चत्वऋय् आर्यसत्यान्य् अभिसमेति; तद्यथा दुःखं समुदयो निरोधो मार्गः; तस्यथा शुद्धं वस्त्रम् अपगतकालकं रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यग् एव रङ्गं प्रतिगृह्णाति, एवम् एवानाथपिण्डदो गृहपतिस् तस्मिन्न् एव आसने निषण्णश् चत्वार्य् आर्यसत्यान्य् अभिसमेति; तद्यथा दुःखं समुदयो निरोधो मार्ग इति; अथानाथपिण्डदो गृहपतिर् दृष्टधर्मा प्राप्तधर्मा विदितधर्मा (msv iii 143) पर्यवगाढधर्मा तीर्णकाङ्क्षो तीर्णविचिकित्सः अपरप्रत्ययो ऽनन्यनेयः शास्तुश् शासने धर्मेषु वैशारद्यप्राप्तः उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा, येन भगवांस् तेनाञ्जलिम् प्रणम्य भगवन्तम् इदम् (अ 319ब्) अवोचत्; अभिक्रान्तो ऽहं भदन्ताभिक्रान्तः; एसो

ऽहं भगवन्तं शरणं गच्छामि; धर्मं च भिक्षुसङ्घं च; उपासकम् मां च धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणागतम् अभिप्रसन्नम्; अथ भगवान् अनाथपिण्डदं गृहपतिम् इदम् आवोचत्: किन्नामा त्वं गृहपते? अहम् अस्मि भदन्त सुदत्तो नाम्ना; अपि त्व् अनाथेभ्यः पिण्डकम् अनुप्रयच्छामि; ततो माम् अनाथपिण्षदो गृहपतिर् अनाथपिण्डदो गृहपतिर् इति जनः सञ्जानीते; कुतोभूमकस् त्वं गृहपते? (शय्-व् 18) अस्ति भदन्त प्राचीनेषु जनपदेषु श्रावस्ती नाम कोसलानां निगमः; तत्राहं प्रतिवसामि

अनाथपिण्डद इन्वितेस् थे बुद्ध तो श्रावस्ती

आगच्छतु भगवान् श्रावस्तीम्; अहं भगवन्तम् उपस्थास्यामि यावज्जीवं चीवरपिण्डपातग्लानप्रत्ययभैषैयपरिष्कारैः सार्धं भिक्षुसङ्घेन; सन्ति गृहपते विहाराः श्रावस्त्याम्? नो भदन्त: यत्र गृहपते विहाराः सन्ति तत्र भिक्षव आगन्तव्यं गन्तव्यं वस्तव्यं मन्यन्ते; आगच्छतु भगवान्; अहं तथा करिष्यामि यथा श्रावस्त्यां विहारा भविष्यन्ति; भिक्षवश् च आगन्तव्यं गन्तव्यं वस्तव्यं मंस्यन्त इति; अधिवासयति भगवान् अनाथपिण्डदस्य गृहपतेस् तूष्णींभावेन; अनाथपिण्डदो गृहपतिर् भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः; ततो ऽस्य यद् राजगृहे कृत्यं वा करणीयं वा तत् सर्वं कृत्वा परिप्राप्य (msv iii 144) पुनर् येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकान्तनिन्षण्णो ऽनाथपिण्डदो गृहपतिर् भगवन्तम् इदम् अवोचत्: अनुप्रयच्छ मे भगवन् भिक्षुं सहायकन् येन सहायकेन श्रावस्त्यां भगवतो ऽर्थाय विहारं कारयामीति; भगवान् संलक्षयति; कतरस्य भिक्षोर् अनाथपिण्डदो गृहपतिः सपरिवारो श्रावस्तीनिवासी च जनकायो विधेयः? पश्यति शारिपुत्रस्य भिक्षोः; तत्र भगवान् आयुष्मन्तम् शारिपुत्रम् आमन्त्रयते: समन्वाहर शारिपुत्र अनाथपिण्डदं गृहपतिं सपरिवारं श्रावस्तीनिवासिनं च जनकायम् इति; अधिवासयत्य् आयुष्मांश् छारिपुत्रो भगवतस् तूष्णींभावेन; अथायुष्मांश् छारिपुत्रो भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्तक्रान्तः

śāriputra leaves for śrāvastī

अथायुष्मांश् छारिपुत्रस् तस्या एव रात्रेर् अत्ययात् पूर्वाह्णे निवास्य, पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविक्षत्; राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तो यथापरिभुक्तं शयनासनं प्रतिशमय्य, समादाय पात्रचीवरं, येन श्रावस्ती तेन चारिकां प्रक्रान्तः; अथानाथपिण्डदो गृहपतिः प्रभूतं शम्बलम् आदाय एकैकरात्रिनिवासेन श्रावस्तीम् अनुप्राप्तः; स प्रविशन्न् एव श्रावस्तीम् आरामेणारामम् उद्यानेनोद्यानम् उपवनेनोपवनं चङ्क्रमम् अनुचङ्क्रम्यमाणो सुविचरन्न् एवम् आह: कतरः स पृथिवीप्रदेशो भविष्यति श्रावस्त्या नातिदूरे (शय्-व् 19) नात्यासन्ने दिवा अल्पाकीर्णो ऽल्पविलापो रात्राव् अल्पशब्दो ऽल्पनिर्घोषः अल्पदंशमशकवातातपसरीसृपसंस्पर्शः, यत्राहं भगवतो ऽर्थाय विहारं मापयिष्यामीति; अद्राक्षीद् अनाथपिण्डदो गृहपतिः, जेतस्य कुमरस्यारामम् श्रावस्त्या नातिदूरे नात्यासन्ने दिवा अल्पाकीणम् अल्पविलापं रात्राव् अल्पशब्द्ं अल्पनिर्घोषं अल्पदंशमशकवातातपसरीसृपस्पर्शम्; दृष्ट्वा च पुनर् अस्यैतद् अभवत्: अत्राहं भगवतो ऽर्थाय विहारं मापयिष्यामीति; स प्रविशन्न् एव स्वं निवेशनं येन जेतः कुमारस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य जेतं कुमारम् इदम् अवोचत्; अनुप्रयच्छ मे कुमार आरामम्; अहं तत्र भगवतो ऽर्थाय विहारं कारयामि इति; स कथयति; न मे गृहपते स आरामः; किन् तु उद्यानं तन् ममेति; द्विर् अपि त्रिर् अप्य् अनाथपिण्डदो गृहपतिर् जेतं कुमारम् इदम् अवोचत्: अनुप्रयच्छ मे कुमार आरामम्; अहं तत्र भगवतो ऽर्थाय विहारं मापयामीति; अपरित्यक्तो ःगृहपतेः मे आरामाः कोटिसंस्तरेणापि; पुनर् अप्य् अनाथपिण्डदो गृहप्तिर्

जेतं कुमरम् इदम् अवोचत्: कृतार्घो ऽसि कुमार आरामस्य; प्रतीच्छ हिरण्यसुवर्णम्; ममारामः; कः कृतार्घः? त्वं कृतार्घः; तौ कृतार्घो न कृतर्घ इति विवादम् आपन्नौ, येन व्यावहारिकपुरुषास् तेन संप्रस्थिताः; अत्रान्तरे चतुर्णां लोकपालानाम् एतद् अभवत्; अयम् अनाथपिण्डदो गृहपतिर् उद्युक्तो भगवतो ऽर्थाय विहारं विहारं मापयितुम्; साहाय्यम् अस्यानुष्ठेयम् इति; ततो व्यावहारिकपुरुषम् आत्मानम् अभिनिर्माय अर्थाधिकरणे निषण्णाः; अनाथपिण्डदो गृहपतिर् जेतश् च कुमारो व्यावहारिकसकाशम् उपसङ्क्रान्तौ; अथानाथपिण्डको गृहपतिर् व्यावहारिकपुरुषाणाम् एतम् अर्थं विस्तरेण निवेदयति; ते कथयन्ति; कृतार्घो ऽसि कुमार आरामस्य; प्रतीच्छ सुवर्णम्: गृहपत्रे आराम इति; स तूष्णीम् अवस्थितः; अनाथपिण्डदो गृहपतिः शकटैर् भारैः मूटैः पिटकैर् उष्ट्रैर् गोभिर् गर्दभैः प्रभूतं सुवर्णम् अभिनिर्हृत्य, सर्वं जेतवनं संस्तर्तुम् आरब्धः; न परिसमाप्यते; तिष्ठते एवानास्तीर्णः कश्चित् पृथिवीप्रदेशः; ततः अनाथपिण्डदो गृहपतिर् एतम् अर्थं चिन्तयन् मुहूर्तं तूष्णीम् अस्थात्; कतरत् तन् निधानं भविष्यति? नातिस्तोकं, नातिप्रभूतं येन अयम् अनास्तीर्णः पृथिवीप्रदेशः आस्तरिष्यति; न च पुनर् गोपयितव्यो भविष्यतीति; जेतः कुमारः संलक्षयति; नूनम् अनाथपिण्डदस्य गृहपतेर् विप्रतिसारः; कस्माद् आरामकारणाद् इयन्तं महान्तं धनस्कन्धं परित्यजामि; इति विदित्वा अनाथपिण्डदं गृहपतिम् इदम् (शय्-व् 20) अवोचत्; सचेत् ते ह गृहपते विप्रतिसारः प्रतीच्छ सुवर्णम्; ममैवारामः; न मे कुमार विप्रतिसारः; अपि त्व् अहम् एतम् एवार्थम् अनुचिन्तयन् मुहूर्तं तूष्णीम्

अवस्थितः; कतरत् तन् निधानं भविष्यति? नातिस्तोकं नातिप्रभूतं, येनायम् अनास्तीर्णः पृथिवीप्रदेशः आस्तरिष्यति; न च पुनर् गोपयितव्यो भविष्यतीति; अथ जेतस्य कुमारस्य एतद् अभवत्: न बतावरो बुद्धो भविष्यति; नावरं धर्माख्यानम्; यत्रेदानीम् अयं गृहपतिर् आरामकारणाद् इयन्तं महान्तं धनस्कन्धं परित्यजति; इति विदित्वा अनाथपिण्डदं गृहपतिम् इदम् अवोचत्: अनुप्रयच्छ मे गृहपते अनास्तीर्णं पृथिवीप्रदेशम्; अत्राहं भगवतो ऽर्थाय द्वारकोष्ठकं मापयामि; अनाथपिण्डदो गृहपतिर् जेतस्य कुमारस्य अनास्तीर्णं पृथिवीप्रदेशम् अनुप्रयच्छति; यत्र जेतः कुमारो भगवतो ऽर्थाय द्वारकोष्ठकं मापयति

ओब्स्त्रुच्तिओन् ब्य् तीर्थ्यस्

अथानाथपिण्डदो गृहपतिर् भगवतो ऽर्थाय विहारं मापयितुम् आरब्ध इति तीव्रद्वेषपर्याकुलीकृतमनसस् तीर्थ्यास् ते संभूय येनानाथपिण्डदो गृहपतिस् तेनोपसंक्रान्ताः; उपसंक्रम्य कथयन्ति: मा त्वं गृहपते श्रमणस्य गौतमस्य अर्थायात्र विहारं कारय; किं कारणम्? अस्माभिर् नगराणि भाजितानि; श्रमणस्य गौतमस्य राजगृहम्; अस्माकं श्रावस्ती; स कथयति: भाजितानि युष्माभिर् नगराणि, न तु मदीयम् स्वापतेयम्; यस्याभिप्रेतं तस्य धर्मस्कन्धं कारयामीति; ते राज्ञः सकाशं गतः; तत्राप्य् अनाथपिण्डदेन पराजिताः; ध्वाङ्क्षास् तीर्थ्या अविकृतवदनाः कथयन्ति; गृहपते न ते कामकारम् अनुप्रयच्छामः; श्रमणस्य गौतमस्याग्रश्रावकः आगतः; स यद्य् अस्मान् वादेन पराजयते, कारय विहारम् इति; स कथयति: शोभनम्; आर्यशारिपुत्रं तावद् अवलोकयामीति; अथानाथपिण्डदो गृहपतिर् येनायुष्मान् शारिपुत्रः तेनोपसङ्क्रान्तः; उपसङ्क्रम्यायुष्मतः शारिपुत्रस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकन्तनिषण्णो ऽनाथपिण्डदो गृहपतिर् आयुष्मन्तं शारिपुत्रम् इदम् अवोचत्; तीर्थ्या भदन्त शारिपुत्र एवम् आहुः; गृहपते न ते कामकारम् अनुप्रयच्छामः; श्रमणस्य गौतमस्य अग्रश्रावक आगतः; स यद्य् अस्मान् वादेन पराजयते, कारय विहारम् इति; कथम् अत्र प्रतिपत्तव्यम् इति; आयुष्मान् शारिपुत्रः संलक्षयति; किम् एषां सन्ति कानिचित् कुशलमूलानि उत न सन्तीति; पश्यति, सन्ति; कस्यान्तिके प्रतिबद्धानि; ममैव; पुनः संलक्षयति; किम् एतावन्त एव मम प्रतिबद्धा विनेया आहोस्विद् अन्ये ऽपि वादेन विनेयाः सन्तीति; पश्यति, सन्ति; कियच्चिरेण सन्निपतिष्यन्ति; (शय्-व् 24) पश्यति,

सप्ताहस्यात्ययाद् इति; समन्वाहृत्य कथयति: गृहपते एनं भवतु; किं तु सप्तमे दिवसे; ततो ऽनाथपिण्डदो गृहपतिः प्रीतिप्रामोद्यजातो येन तीर्थ्यास् तेन उपसङ्क्रान्तः; उपसङ्क्रम्य तीर्थ्यान् इदम् अवोचत्; भदन्त आर्यशारिपुत्रः कथत्यति: शोभनम्, एवं भवतु; किं तु सप्तमे दिवसे इति; ते संलक्षयन्ति; द्वाभ्याम् अत्र कारणाभ्याम् भवितव्यम्; अथवासौ निष्पलायितुकामः; अथवा पक्षं समन्वेष्टुकामः; किम् अत्र प्राप्तकालम्; वयम् अपि पक्षं समन्वेषामह इति; ते पक्षं समन्वेष्टुम् आरब्धाः; तैः पक्षम् समन्वेषमानै रक्ताक्षो नाम परिव्राजको दृष्टः; स तैर् उक्तः; त्वम् अस्माकं सब्रह्मचारि; श्रमणस्य गौतमस्याग्रश्रावको ऽस्माभिर् वादेनाहूतः; स पक्षं समन्वेषते; त्वम् अस्माकं साहाय्यं कल्पय; कियता कालेन? इतः सप्तमे दिवसे; शोभनम्, एवं भवतु; यदा युष्माकं सन्निपतो भवति तदा ममारोचयितव्यम्; तीर्थ्याः शङ्कितोद्विग्नमनसो दिवसानुदिवसं पक्षं समन्वेषयन्ते; दिवसांश् च गणयन्ति

तीर्थ्यस् अन्द् शारिपुत्र चोन्तेस्त्

यावत् सप्तमे दिवसे अनाथपिण्डदेन गृहपतिना विस्तीर्णावकाशे पृथिवीप्रदेशे आसनप्रज्ञप्तिः कारिता; आयुष्मतश् च शारिपुत्रस्यार्थाय सिंहासनं प्रज्ञप्तम्; नानादेशन्वासिनस् तीर्थ्याः सन्निपतिताः; श्रावस्तीनिवासी जनकायः अनेकानि च तत्सामतनिवासीनि प्राणिशतसहस्राणि, कानिचित् कुतूहलजातानि, कानिचित् पूर्वकैः कूशलमूलैः संचोद्यमानानि; तत आयुष्मान् शारिपुत्रो ऽनाथपिण्डदेन गृहपतिना सपरिवारेण संपुरस्कृतो वादिमण्डलं प्रविश्य विनेयजनम् अभिसंईक्ष्य स्मितपूर्वं समशान्तेनेर्यापथेन सिंहासनम् अभिरुह्य निषण्णः; सर्वैव सा पर्षद् अवहितचेतस्का आयुष्मन्तम् शारिपुत्रं अभिसमीक्षमाणा निषण्ण्ना

defeat of the tīrthyas

तत आयुष्मान् शारिपुत्रस् तीर्थ्यान् आमन्त्रयामास: भवन्तः किं तावत् करिष्यथ? आहोस्विद् विकरिष्यथ? ते कथयन्ति: वयं कुर्मः: त्वां विकुरु; आयुष्मान् शारिपुत्रः संलक्षयति: यद्य् अहं करिष्यामि; सदेवको ऽपि लोको न शक्ष्यति विकर्तुम्; प्राग् एव रक्ताक्षः परिव्राजकः; इति विदित्वा रक्ताक्षं परिव्राजकम् इदम् अवोचत्: त्वं कुरु, अहं विकरिष्यामीति; स इन्द्रजाले कृतावी; तेन सुपुष्पितः सहकारपादपो निर्मितः; आयुष्मता शारिपुत्रेण तुमुलो वातवर्ष (शय्-व् 22) उत्सृष्टः; येनासौ समूल उत्पाट्य इतश् चामुतश् च विकीर्णो योगिजनानाम् अप्य् अविषयीभूतः; ततद् तेन पद्मिनी निर्मिता; आयुष्मता शारिपुत्रेण कलभहस्ती निर्मितः; तेन सा समन्तान् मर्दिता; तेन सप्तशीर्षो नागो निर्मितः; आयुष्मता शारिपुत्रेण गरुडो निर्मितः; येनासाव् अपहृतः; तेन वेताडो निर्मितः; आयुष्मता शारिपुत्रेण मन्त्रैः कीलितः; कुप्रयुक्तो वेताड आत्मवधाय चेतयते; स तस्यैवोपरि प्रधावितः; ततो ऽसौ भीतस् त्रस्तः संविग्न आहृष्टरोमकूपः आयुष्मतः शारिपुत्रस्य पादयोर् निपतितः; आर्य शारिपुत्र त्रायस्व शरणागतो ऽस्मीति; तत आयुष्मता शारिपुत्रेण मन्त्रा उत्कीलिताः; स वेताडो व्युपशान्तः; तस्यायुष्मता शारिपुत्रेण धर्मो देशितः; स प्रसादजातः कथयति: लभेयाहम् आर्यशारिपुत्र स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्; चरेयम् अहम् आर्यशारिपुत्रस्यान्तिके ब्रह्मचर्यम् इति; आयुष्मता शारिपुत्रेण स प्रव्राजितः उपसंपादितः अववादो दत्तः, तेनोद्यच्छमानेन घटमानेन व्यायच्छमानेन सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्; अर्हन् संवृत्तः; त्रैधातुकवीतरागः समलोष्टकाञ्चन

आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञप्रतिसंवित्प्राप्तो भवलाभलोभपराङ्मुखः; सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः; ततः सा पर्षत् विस्मयोत्फुल्ललोचना संवृत्ता; आयुष्मति शारिपुत्रे ऽभिप्रसन्ना कथयति: महान् आर्यशारिपुत्रेण वादिवृषभो निगृहीतः; इति विदित्वा आयुष्मतः शारिपुत्रस्य मुखे ऽवलोकिकाः संवृत्ताः; तत आयुष्मता शारिपुत्रेण तस्याः पर्षदः आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा अनेकैः सत्वसहस्रैः महान् विशेष आगतः; कैश्चिच् छ्रावकबोधौ चित्तान्य् उत्पादितानि; कैश्चित् प्रत्येकायां बोधौ; कैश्चिद् अनुत्तरायां सम्यक्संबोधौ; कैश्चिच् छरणगमनशिक्षापदानि गृहीतानि; कैश्चित् स्रोतआपत्तिफलं साक्षात्कृतम्; कैश्चित् सकृदागामिफलम्; काइश्चिद् अनागामिफलम्; कैश्चित् प्रव्रज्य सर्वक्लेशसंप्रहाणाड् अर्हत्वं साक्षात्कृतम्; यद्भूयसा सा पर्षत् बुद्धनिम्ना, धर्मप्रवणा, सङ्घप्राग्भारा, व्यवस्थापिता; तीर्थ्याः संलक्षयन्ति; न शक्यम् अस्माभिर् अयं वादे निग्रहीतुम्; उपायसंविधानं कर्तव्यम्; अत्रैव भृतिकया कर्म कुर्मः; ततश् छिद्रं लब्ध्वा बैष्केणैनं प्रघातयाम इति; ते सर्वे संभूय अनाथपिण्डदस्य गृहपतेः सकाशं गत्वा कथयन्ति; गृहपते त्वयास्माकं सर्वाणि वृत्तिपदानि समुच्छिन्नानि; तद् अनुकम्पां कुरु; त्वदीयविहारे भृतिकया कर्म कुर्मः; चिरं वयम् अत्र अवस्थिताः; मा देशपरित्यागं कूर्म इति; अनाथपिण्डदः कथयति: आर्यशारिपुत्रं तावद् अवलोकयामि; स येनायुष्मान् शारिपुत्रस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्यायुष्मन्तं

(शय्-व् 23) शारिपुत्रम् इदम् अवोचत्: ःआर्यः, तीर्थ्याः कथयन्ति, कथयन्ति, अस्माकं त्वया सर्वाणि वृत्तिपदानि समुच्छिन्नानि; तद् अनुकम्पां कुरु; त्वदीये विहारे भृतिकया कर्म कुर्मः; चिरं वयम् अत्रावस्थिताः; म देशपरित्यागं कुर्म इति; आयुष्मांश् छारिपुत्रः समन्वाहर्तुं प्रवृत्तः; किं तेषां सन्ति कानिचित् कुशलमूलानि आहोस्विन् न सन्ति इति पश्यति, सन्ति; कस्यान्तिके प्रतिबद्धानि; ममैवेति; समन्वाहृत्य कथयति: गृहपते एवं भवतु, को ऽत्र विरोध इति; ते तस्मिन् विहारे भृतिकया कर्म कर्तुम् आरब्धाः; आयुष्मता शारिपुत्रेण लतावारिकः पुरुषो रौद्रो निर्मितः; स तत् कर्म कारयितुम् आरब्धः; आयुष्मान् शारिपुप्त्रः तेषां विनयकालं ज्ञात्वा तत्समीपे वृक्षमूलस्याधस्ताच् चङ्क्रम्यमाणस् तिष्ठति; स तैर् दृष्टः; ते संलक्षयन्ति, (अ 322अ) अयम् अस्य कालः प्रघातयितुं प्रविविक्ते तिष्ठतीति; ते तस्य सकाशम् उपसङ्क्रम्य परिवार्य अवस्थिताः; आयुष्मान् शारिपुत्रः संलक्षयति: कीदृशेन चित्तेन एते मत्सकाशम् उपसङ्क्रान्ता इति; यावत् पश्यति वधकचित्तेन; तेनासौ लतावारिको निर्मित उत्सृष्टः; तेन ते ऽभिद्रुता गच्छत कर्म कुरुतेति; ते कथयन्ति: आर्य शारिपुत्र परित्रायस्व; स कथयति: आयुश्मन् गच्छ; विश्राम्यन्तु तावद् इति; ते संलक्षयन्ति; ईदृशो ऽस्त्य् अयं महात्मा; वयम् अस्य वधकचित्ताः; एषो ऽस्माकं मैत्रचित्तः इति विदित्वा अभिप्रसन्नाः; तत आयुष्मता शारिपुत्रेण तेषाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्

conversion of the tīrthyas

ते दृष्टसत्याः: लभेमहि वयं शारिपुत्र स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्; चरेम वयं भदन्तशारिपुत्रस्यान्तिके ब्रह्मचर्यम् इति; ते आयुष्मता शारिपुत्रेण प्रव्राजिता उपसंपादिताः; अववादो दत्तः; तैर् युज्यमानैर्, घटमानैर्, व्यायच्छमानैर् इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम् इत्य् अर्हन्तः संवृत्ताः; त्रैधातुकवीतरागाः समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखाः सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्याश् च संवृत्ताः (शय्-व् 24)

construction of vihāras

तत्र आयुष्मता शरिपुत्रेण विहारसूत्रम् एकान्ते गृहीतम्; अनाथपिण्डदेनापि गृहपतिना एकान्ते गृहीतम्; आयुष्मान् शारिपुत्रः स्मितं प्राविष्कर्तुम् आरब्धः; अनातपिण्डदो गृहपतिः कथयति: नाहेत्वप्रत्ययम् आर्य्शारिपुत्र तथागता वा तथागतश्रावका वा स्मितं प्राविष्कुर्वन्ति; कः आर्यशारिपुत्र हेतुः? कः प्रत्ययः स्मितस्य प्राविष्करणाय? एनम् एतद् गृहपते, एवम् एतत्; नाहेत्वप्रय्त्ययं तथागता वा तथागतश्रावका वा स्मितं प्राविष्कुर्वन्ति; त्वया चेह सूत्रं गृहीतम्; तुषिते देवनिकाये सौवर्णम् भवनम् अभिनिर्वृत्तम्; ततो ऽनाथपिण्डदो गृहपतिर् विस्मयोत्फुल्ललोचनः कथयति: आर्यशारिपुत्र यद्य् एवं, तेन हि पुनः सूत्रं प्रसारय भूयस्या मात्रया; चित्तम् अभिप्रसादयामीति; आयुष्मता शारिपुत्रेण तत् सूत्रम् गृहीतम्; अनाथपिण्डदेन गृहपतिना भुयस्या मात्रया तीव्रेण प्रसादवेगेन चित्तम् अभिप्रसादितम्; येन प्रसादजातेन समनन्तरम् एव तत् सौवर्णं भवनं चतूरत्नमयं संवृत्तम्; आयुष्मता चास्य शारिपुत्रेण निवेदितम्; ततो ऽनाथपिण्डदेन गृहपतिना उत्तरोत्तरप्रवृद्धपुण्यसन्ततिना षोडशमहल्लिका विहारा मापिताः; षष्टिश् (अ 322ब्) च कुटिकावस्तूनि; षोडशमहल्लिकान् विहारान् मापयित्वा षष्टिं च कुटिकावस्तूनि सर्वोपकरणैः पूरयित्वा येनायुष्मान् शारिपुत्रस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्यायुष्मन्तं शारिपुत्रम् इदम् अवोचत्: कियत्प्रमाणैर् आर्यशारिपुत्र प्रयाणकैर् भगवान् अध्वानं गच्छति? तद्यथा गृहपते राजा चक्रवर्ती; कियत्प्रमाणै राजा चक्रवर्ती? दशक्रोशकैर् गृहपते राजा चक्रवर्ती प्रयाणकैर् अध्वानं गच्छति; ततो ऽनाथपिण्डदेन गृहपतिना यावच् च श्रावस्ती यावच् च राजगृहम् अत्रान्तराद् वासकान् परिसङ्ख्याय परिक्रमणका मापिताः; दानशला कारिता; कालारोचकः पुरुषः स्थापितः; छत्रध्वजपताकाशोभिताश् चन्दनवारिपरिषिक्ताः सुरभिधूपघटिकोपनिबद्धास् तोरणाः कारिताः; कालिकानि यामिकानि च भैषज्यान्य् उपस्थापितानि

मेस्सेन्गेर् तो बुद्ध

ततः संभृतसंभारो ऽन्यतमं पुरुषम् आमन्त्रयते: एहि त्वं भोः पुरुष; येन भगवांस् तेनोपसङ्क्राम; उपसङ्क्रम्यास्माकं वचनेन भगवतः पादौ वन्दित्वा अल्पाबाधतां च पृच्छ अल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं च अनवद्यतां च स्पार्शविहारतां च; एवं च वद; आगच्छतु भगवान् श्रवस्तीम्; अहं भगवन्तम् उपस्थास्यामि यावज्जीवं (शय्-व् 25) चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसङ्घेन ःइतिः; एवम् आर्य इति स पुरुषो ऽनाथपिण्डदस्य गृहपतेः प्रतिश्रुत्य येन राजगृहं तेन संप्रस्थितः; अनुपूर्वेण राजगृहम् अनुप्राप्तः; ततो मार्गश्रमं प्रतिविनोद्य येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात्; एकान्तस्थितः स पुरुषो भगवन्तम् इदम् अवोचत्: अनाथपिण्डदो भदन्त गृहपतिर् भगवतः पादौ शिरसा वन्दते; पूर्ववद् यावत् स्पर्शविहारतां च; सुखी भवतु भोः पुरुष अनाथपिण्डदो गृहपतिस् त्वं च; अनाथपिण्डदो भदन्त गृहपतिर् एवम् आह: आगच्छतु भगवान् श्रवस्तीम्; अहं भगवन्तम् उपस्थास्यामि यावज्जीवं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसङ्घेनेति; अधिवासयति भगवांस् तस्य पुरुषस्य तूष्णींभावेन; अथ स पुरुषो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः

बुद्ध अर्रिवेस् अत् श्रावस्ती

ततो भगवान् दान्तो दान्तपरिवारः, शान्तो शान्तपरिवारः, मुक्तो मुक्तपरिवारः, आश्वस्त आश्वस्तपरिवारः, विनीतो विनीतपरिवारः, अर्हन्न् अर्हत्परिवारः, वीतरागो वीतरागपरिवारः, प्रासादिकः प्रासादिकपरिवारः; ऋषभ इव गोगणपरिवृतः, गज इव कलभपरिवृतः, सिंह इव दंष्ट्रिगणपरिवृतः, हंस इव हंसगणपरिव्तः, सुपर्णीव पक्षिगणपरिवृतो, विप्र इव शिष्यगणपरिवृतः सुवैद्य (अ 323अ) इवातुरगणपरिवृतः शूर इव योधगणपरिवृतः देशिक इवाध्वगगणपरिवृतः सार्थवाह इव वणिग्गणपरिवृतः श्रेष्ठीव परिजनपरिवृतः कोट्टराज इव मन्त्रिगणपरिवृतः चक्रवर्तीव पुत्रसहस्रपरिवृतः चन्द्र इव नक्षत्रगणपरिवृतः सूर्य इव राश्मिसहस्रपरिवृतः धृतराष्ट्र इव गन्धर्वगणपरिवृतः विरूढक इव कुम्भाण्डगणपरिवृतः विरूपाक्ष इव नागगणपरिवृतो धनद इव यक्षगणपरिवृतो वेमचित्रीवासुरगणपरिवृतः, शक्र इव तृदशगणपरिवृतो ब्रह्मेव ब्रह्मकायपरिवृतः स्तिमित इव जलनिधिः सजल इव जलधरो विमद इव गजपतिः सुदान्तैर् इन्द्रियैर् असंक्षोभितेर्यापथप्रचारो द्वात्रिंशता महापुरुषलक्षणैह्, समलंकृतो ऽशीत्यनुव्यञ्जनैर् विराजितगात्रो व्यामप्रभालंकृतमूर्तिः सूर्यसहसरातिरेकप्रभो जङ्गम इव रत्नपर्वत समन्ततोभद्रको (शय्-व् 26) दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च समन्वागतो भिक्षुसंघेन अनाथपिण्डदेन च गृहपतिना च सपरिवारेण श्रावस्तीनिवासिना च जनकायेन अनेकैश् च देवताशतसहस्रैर् अनुगम्यमानः श्रावस्तीं नगरीं अनुप्राप्तः; यदा ःचः भगवता श्रावस्तीं

नगरीं प्रविषता साभिसंस्कारं नगरेन्द्रकीले दक्षिणपादो न्यस्तः तदा षड्विकारं पृथिवीकम्पो जातः; इयं महापृथिवी चलति संचलति संप्रचलति; व्यथते प्रव्यथते संप्रव्यथते; पूर्वो दिग्भाग उन्नमति पाश्चिमो ऽवनमति; पश्चिम उन्नमति पूर्वो ऽवनमति; दक्षिण उन्नमति उत्तरो ऽवनमति; उत्तर उन्नमति दक्षिणो ऽवनमति; अन्त उन्नमति; मध्यो ऽवनमति; मध्य उन्नमति अन्तो ऽवनमति; सर्वश् चायं लोक उदारेणावभासेन स्फुटः संवृत्तः सार्धं लोकान्तरिकाभिर् अन्तरीक्षे च देवदुन्दुभयस् ताडिता गगनतलस्था देवता भगवत उपरिष्टाद् दिव्यान्य् उत्पलानि क्षेप्तुम् आरब्धाः पद्मानि कुमुदानि पुण्डरिकान्य् अगरुचूर्णानि कुङ्कुमचूर्णानि तमालपत्राणि दिव्यानि मान्दरकाणि पुष्पाणि क्षिपन्ति चैलविक्षेपांश् चाकार्षुः

effects felt following buddha's arrival

भगवतः पुरप्रवेशे इमान्य् एवंविधान्य् आश्चर्याण्य् अभुवन् अपराणि च; संक्षिप्तानि विशालीभवन्ति नीचान्य् उच्चानि भवन्ति उच्चानि च समानि भवन्ति हस्तिनः क्रोशन्ति अश्वा ह्रेषन्ते ऋषभा नर्दन्ते गृहगतानि विविधानि वादित्रबाण्डानि स्वयं नदन्ति; अन्धाश् चक्षूंषि प्रतिलभन्ते बधिराः श्रोत्रं मूकाः प्रव्याहरणसमर्था भवन्ति; परिशिष्टेन्द्रियविकला इन्द्रियाणि प्रतिलभन्ते; मद्यमदाक्षिप्ता विमदीभवन्ति; विषपायिता निर्विषीभवन्ति; अन्योन्यवैरिणो मैत्रीं प्रतिलभन्ते; गुर्विण्यः स्वस्तिना प्रसूयन्ते; बन्धनबद्धा मुच्यन्ते; अधना धनानि प्रतिलभन्ते: इमानि चान्यनि ःचः भगवतः पुरप्रवेशे अद्भुतशतसहस्राणि प्रादुर्भवन्ति

थे जेतवन

ततो भगवान् एवंविधेन महता सत्कारेण श्रावस्तीं प्रविष्टः; प्रविश्य पुरस्ताद् भिक्षुसंघस्य (अ 323ब्) प्रज्ञप्त एवासने निषन्नः; अथानाथपिण्डदो गृहपतिः सुहृत्सम्बन्धिबान्धवजनपरिवृतः सौवर्णं (शय्-व् 27) भृंगारम् आदाय वारिधारां पातयितुम् आरब्धः; सा न प्रपतति; अथानाथपिण्डदो गाहपतिर् दुर्मनाः संलक्षयति; मा मया कानिचित् सापक्षालानि कर्माणि कृतानि स्युः इति; भगवान् आह: न त्वया गृहपते कानिचित् सापक्षालानि कर्माणि कृतान्य् अपि त्व् एतस्मिन् प्रदेशे स्थितेन त्वया पूर्वकानां सम्यक्संबुद्धानाम् अयं प्रदेशो निर्यातितः; अन्यस्मिन् प्रदेशे स्थित्वा पातय; तेन ःअन्यस्मिन् प्रदेशे स्थित्वाः पातिता; भगवान् पञ्चाङ्गोपेतेन स्वरेण स्वयम् एव जेतवनम् उद्घोषयति; उद्घोष्यमाणे जेतवने जेतः कुमारः संलक्षयति; अहो बत भगवान् ममापि तत्प्रथमतरं नामोद्ग्रहणं कुर्याद् इति; भगवता जेतस्य कुमारस्य चेतसा चित्तम् आज्ञाय तत्प्रथमत उद्ग्रहणं कृतम्; इदं भिक्षवो जेतवनम् अनाथपिण्डदस्यारामः इति; श्रुत्वा जेतः कुमारो ऽतिवाभिप्रसन्नः मम भगवता तत्प्रथमतो नामोद्ग्रहणं कृतम् इति; तेन प्रीतिप्रामोद्यजातेन सर्वेणैव तेन द्रव्यजातेन भगवतो ऽर्थाय चतूरत्नमयं द्वारकोष्ठकं कारितम्; तथा संगीतकारैर् अपि स्थविरैः सूत्र उपनिबद्धम् भगवान् श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे इति

previous births of anāthapiṇḍada at the time of the seven buddhas

भिक्षवः संशयजातः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कुत्र भदन्तानाथपिण्डदेन गृहपतिनायं पृथिवीप्रदेशः पूर्वकाणां सम्यक्संबुद्धानां निर्यातितपूर्वः? इति; भगवान् आह; भूतपूर्वं भिक्षव एकनवते कल्पे विपाश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; ःसः द्वाषष्टिभिक्षुअसहस्रपरिवृतः इमं प्रदेशम् अनुप्राप्तः; तेन खलु समयेनास्यां श्रावस्त्यां तिष्यो नाम गृहपतिर् अभूत्; तेनायं प्रदेशः षट्क्रोशहिरण्यसुवर्णेनास्तीर्य राजकुमारस्यान्तिकात् क्रीत्वा विपश्यिनः सम्यक्संबुद्धस्य निर्यातितः; तस्यैवान्तिके प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्सात्कृतम्; तिष्यस्य गृहपतेर् भागिनेयः तत्संपर्काद् विपश्यिनि तथागते ऽत्यर्थम् अभिप्रसन्नः; तेन विपश्यिनः सम्यक्संबुद्धस्य (शय्-व् 28) केशनखस्तूपः कारितह्; स संलक्षयति: को ऽसाव् उपायः स्याद् येनाहम् एतं रात्रौ दिवा चानावृतं पाश्येयम् इति तस्यान्तेवसिना समुद्रतीरस्थेनावभासात्मकं मणिरत्नं प्रावृतम् अनुप्रेषितम्; तेनासौ तस्मिन् चैत्ये समारोपितं; तदनुभावाद् असौ तं केशनखस्तूपं दिवा रात्रौ चानावृतं पश्यति; ततः प्रसादजातेन प्रणिधानं कृतं: यथायं पृथिवीप्रदेशो मम मातुलेन कुमारस्यान्तिकात् क्रीत्वा हिरण्यसुवर्णेनास्तीर्य विपश्यिनः सम्यक्संबुद्धस्य निर्यातितः; एवम् अहम् इमम् पृथिवीप्रदेशं हिरण्यसुवर्णेनास्तीर्य सप्तानां सम्यक्संबुद्धानां निर्यातयेयम्; यश् च तेषाम् अपश्चिमक तस्याहम् अन्तिके प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कुर्याम् इति किं मन्यध्वे

भिक्षवः? यो ऽसौ तस्य गृहपतेर् (अ 324अ) भागिनेय एष एवासाव् अनाथपिण्डदो गृहप्तिस् तेन कालेन तेन समयेन ततो ऽर्वाग् एकत्रिंशतिमे कल्पे शिखी नाम सास्ता लोक उत्पन्नः पूर्ववद् यावद् हुद्धो भगवान्; ःसः षष्टिभिक्षुसहस्रपरिवार इमं प्रदेशम् अनुप्राप्तः; तेन क्यलु पुनः समयेन पुष्यो नाम गृहप्तिर् अभूत्; तेनायं पृथिवीप्रदेशो अर्धतृतीयान् कोशान् मणिभिर् आस्तीर्य कुमारस्यान्तिकान् निष्क्रीय शिखिनः सम्यक्संबुद्धस्य सश्रावकसंघस्य निर्यातितः; स्यात् खलु युष्माकं भिक्षवो ऽन्यतमः स तेन कालेन तेन समयेन पुष्यो नाम ग्र्हपतिर् अभूद् इति? न खल्व् एवं द्रष्टव्यम्, अपि त्व् एष एवासाव् अनाथपिण्डदो गृहप्तिस् तेन कालेन तेन समयेन ततो ऽर्वक् तस्मिन्न् एवैकत्रिंशतिमे कल्पे विश्वभुङ् नाम शास्ता लोक उत्पन्नः पूर्ववद् यावद् बुद्धो भगवान्; स षाष्टिभिक्षुसहस्रपरिवारः इमं प्रदेशम् अनुप्राप्तः; तेन खलु समयेन माघुर् नाम गृहपतिर् अभूत्; तेनायं प्रदेशो द्वौ क्रोशौ मुक्तिकाभिर् आस्तीर्य कुमारस्यान्तिकान् निष्क्रीय विश्वभुजः सम्यक्संबुद्धस्य सश्रावकसंघस्य निर्यातितः; स्यात् खलु युष्माकन् भिक्षवो ऽन्यतमः (शय्-व् 29) स तेन कालेन तेन समयेन माघुर् माघुर् नाम गृहपतिर् अभूद् इति? न खल्व् एवं द्रष्टव्यम् अपि त्व् एष एवासाव् अनाथपिण्डदो गृहपतिस् तेन कालेन तेन समयेन ततो ऽर्वाग् अस्मिन् भद्रके कल्पे क्रकुत्सुन्दो नाम शास्ता लोक उत्पन्नः पूर्ववद् यावद् बुद्धो भगवान्; स चत्वारिंशद्भिक्षुसहस्रपरिवार इमम् प्रदेशम् अनुप्राप्तः; तेन खलु समयेन भवदत्तो नाम गृहपतिर् अभूत्; तेनाप्य् अयं प्रादेशो गोभिः पूरयित्वा कुमारस्यान्तिकान् निष्क्रीय

क्रकुत्सुन्दस्य सम्यक्संबुद्धस्य सश्रवकसंघस्य निर्यातितः; स्यात् खलु युष्माकं भिक्षवो ऽन्यतमः स तेन कालेन तेन समयेन भवदत्तो नाम गृथपतिर् अभूद् इति? न खल्व् एवं द्रष्टव्यम्, अपि त्व् एष एवासाव् अनाथपिण्डदो गृहपतिस् तेन कालेन तेन समयेन ततो ऽर्वाग् अस्मिन्न् एव भद्रके कल्पे त्रिंषद्वर्षसहस्रायुषि प्रजायां कनकमुनिर् नाम शास्ता लोक उदपादि पूर्ववद् यावद् बुद्धो भगवान्; स त्रिंशद्भिक्षुसहस्रपरिवारः इमं प्रदेशम् अनुप्राप्तः; तेन खलु समयेन बृहस्पतिर् नाम गृहपतिर् अभूत्; तेनाप्य् अयं प्रदेशः पट्टैर् आस्तीर्य कुमारस्यान्तिकान् निष्क्रीय निष्क्रीय कनकमुनेः सम्यक्संबुद्धस्य सश्रावकसंघस्य निर्यातिताः; स्यात् खलु ःयुष्माकंः भिक्षवो ऽन्यतमः स तेन कालेन तेन समयेन बृहस्पतिर् नाम गृहपतिर् अभूद् इति? न खल्व् एवं द्रष्टव्यम्; अपि त्व् एस एवासाव् अनाथपिण्डदो गृहपतिस् तेन कालेन तेन समयेन ततो ऽर्वाग् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि पूर्ववद् यावद् बुद्धो भगवान्: स विंशतिसहस्रपरिवारः इमं प्रदेशम् अनुप्राप्तः; तेन खलु समयेन आषाढो नाम गृहपतिर् अभूत्; तेनाप्य् अयं पृथिवीप्रदेशो अर्धक्रोषं सौवर्णैर् यावैर् आस्तीर्य (अ 324ब्) कुमारस्यान्तिकान् निष्क्रीय काश्यपस्य सम्यक्संबुद्धस्य सश्रावकसंघस्य निर्यातितः ; स्यात् खलु युष्माकं भिक्षवो अन्यतमः स तेन कालेन तेन समयेन आषाढो नाम गृहपतिर् अह्बूद् इति: न खल्व् एवं द्रष्टव्यम्, अपि त्व् एष एवासाव् अनाथपिण्डदो गृहपतिस् तेन कालेन तेन समयेन (शय्-व् 30) एतर्ह्य् अप्य् अहं भिक्षवः शास्ता लोक

उत्पन्नस् तथागतो ऽर्हन् सम्यक्संबुद्धः विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यशरथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; अहम् अप्य् अर्धत्रयोदशशतप्रिवार इमं प्रदेशम् अनुप्राप्तः; एतर्ह्य् अप्य् अनाथपिण्डदेन गृहपतिना षोडशलाङ्गलावक्ताकोटै संस्तरेण संस्तीर्य जेतस्य कुमारस्यान्तिकान् निष्क्रीय मम सश्रावकसंघस्य निर्यातितः भविष्यति भिक्षवो ऽनागते ऽप्य् अशीतिवर्षसहस्रायुषि प्रजायां मैत्रेयो नाम शास्ता षण्णवत्यर्हत्कोटीसहस्रपरिवार इमं प्रदेशम् आगमिष्यति; तेन खलु समयेन सुधनो नाम गृहपतिर् उद्भविष्यति; सो ऽपीमं प्रदेशं त्रीणि योजनानि हिरण्यसुवर्णेनास्तीर्य कुमारस्यान्तिकान् निष्क्रीय मैत्रेयस्य सश्रावकसंघस्य निर्यातयिष्यति; तस्यैव शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्करिष्यति; स्यात् खलु युष्माकं भिक्षवो ऽन्यतमः स तेन कालेन तेन समयेन सुधनो नाम गृहप्तिर् अभूद् इति? न खल्व् एवं द्रष्टव्यम्, अपि त्व् एष एवासाव् अनाथपिण्डदो गृहपतिः सुधनो नाम ग्र्हपतिर् उद्भविष्यति

anāthapiṇḍada has the power to see absconded treasures, no matter whether close or far away

अथानाथपिण्डदो गृहपतिर् निधीन् पश्यति स्वामिकान् अप्य् अस्वामिकान् अपि स्थलगतान् अपि जलगतान् अपि ये ऽपि दूरे ये ऽप्य् अन्तिके; सामन्तकेन शब्दो निसृत अनाथपिण्डदो गृहप्तिर् निधीन् पश्यति सस्वामिकान् ःअपिः अस्वामिकान् अपि स्थलगतान् अपि जलगतान् अपि ये ऽपि दूरे ये ऽप्य् अन्तिके इति; तेन खलु समयेन संबहुलानां नानातीर्थिकश्रमणब्राह्मणचरकपरिव्राजकानां कुतूहलशालायां संनिषण्णानां संनिपतितानाम् अयम् एवंरूपो ऽभूद् अन्तराकथासमुदाहारः; कतमेन भवन्तो लक्षणेन समन्वागतो ऽनाथपिण्डदो गृहपतिर् निधीन् पश्यति सस्वामिकान् अप्य् अस्वामिकान् अपि स्थलगतान् अपि जलगतान् अपि ये ऽपि दूरे ये ऽप्य् (शय्-व् 31) अन्तिके? तेन खलु समयेन उपगुर् नाम माणव तस्याम् एव पर्षदि संनिसण्णो ऽभूत् संनिपतितः; स कथयति: अल्पोत्सुका यूयं भवन्तो भवन्तु; अहं विचार्य भवताम् कथयिष्यामि येन लक्षणेन समन्वागतो ऽनाथपिण्डदो गृहपतिर् निधीन् पश्यति सस्वामिकान् अप्य् अस्वमिकान् अपि स्थलगतान् अपि जलगतान् अपि ये ऽपि दूरे ये ऽप्य् अन्तिके इति; सो ऽनाथपिण्डदस्य गृहपतेश् चारविहारान्वेषतत्परः पृष्ठतः पृष्ठतः समनुबद्धो यावद् अपरेण समयेनानाथपिण्डदो गृहपतिर् नद्याम् अजिरवत्यां स्नात्वा उत्तीर्णः; तस्य तेन पृष्ठेन तलप्रहारो दत्तः; अनाथपिण्डदो गृहपतिः पश्यन्न् एव तूष्णीम् अवस्थितः; स कथयति: (अ 325अ) विज्ञातो ऽसि गृहपते क्षान्तिसौरत्यसमन्वागतः त्वम् येन निधीन् पश्यसि सस्वामिकान् अप्य् अस्वामिकान् अपि स्थलगतान् अपि जलगतान् अपि ये ऽपि दूरे ये ऽप्य् अन्तिके इति; तेन तीर्थ्यानाम् आरोचितम्; तीर्त्यैर् अपि विकत्थमानैः समन्ताद् आरोचितम्; सामन्तेन शब्दो

विसृतः; अथानाथपिण्डदो गृहपतिः क्षान्तिसौरत्यसमन्वागतः येन निधीन् पश्यति सस्वामिकान् अप्य् अस्वामिकान् अपि स्थलगतान् अपि जलगतान् अपि ये ऽपि दूरे ये ऽप्य् अन्तिके इति; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; भगवान् आह; तीर्थ्यकोटिशतसहस्रेणापि भिक्षवो न सुकरम् आज्ञातुं येन लक्षणेन समन्वागतो ऽनाथपिण्डदो गृहपतिर् निधीन् पश्यति अपि तु रत्नचित्रान्तकोशो ऽनाथपिण्डदो गृहप्तिर् हिरण्येश्वरश् च येन निधीन् पश्यति सस्वामिकान् अप्य् अस्वामिकान् अपि स्थलगतान् अपि जलगतान् अपि ये ऽपि दूरे ये ऽप्य् अन्तिके भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदान्त अनाथपिण्डदेन गृहपतिना कर्म कृतं यस्य कर्मणो विपाकेन रत्नचित्रान्तकोशो हिरन्येश्वरश् च संवृत्तः? भगवान् आह: अनाथपिण्डदेनैव भिक्षवो गृहपतिना कर्माणि कृत्यान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; अनाथपिण्डदेन गृहपतिना कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति; न भिक्षवः कर्माणि कृतन्य् उपचितानि बाह्ये पृथिवीधातौ ःविपच्यन्तेः नाब्धातौ न तेजोधातौ न वायुधाताव् अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि / सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् //

(शय्-व् 32)

the story of the pratyekabuddha (concerning a previous life of anāthapiṇḍada)

भूतपूर्वं भिक्षवो अन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवस्त्य् आढ्यो महाधनो महाभोगो विस्तीर्णविशालप्रतिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी; स संप्राप्ते वसन्तकालसमये संपुष्पितेषु हंसक्रौञ्चमयूरशुकसारिकाकोकिलजीवजीवकनिर्घोषिते वनषण्डे सान्तर्जनेन उद्यानभूमिं निर्गतः; असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य; यावद् अन्यतरो प्रत्येकबुद्धो जनपदचारिकां चरंस् तं कर्वटकम् अनुप्राप्तः; स तस्मिन् उद्याने ऽन्यतरस्मिन् प्रदेशे स्थितः; उद्यानपालेन पुरुषेण तस्य गृहपतेर् निवेदितम्; अथामुष्मिन् प्रदेशे शान्तात्मा प्रव्रजितो ऽवतिष्ठते इति; तस्य श्रुत्वा सौमनस्यम् उत्पन्नम्; भाग्य् अहं यस्य मे उद्याने तादृशः प्रव्रजितो ऽवस्थितः इति प्रसादजातस् तद्दर्शनाय संप्रस्थितः; स महात्मा निरुपधिशेषम् निर्वाणधातुं प्रविश्य परिनिर्वृतः; ततस् तेन गृहपतिना सुहृत्संबन्धिबान्धवान्तर्जनसहीयेन महता सत्कारेण ध्यापितः; सा (अ 325अ) चिता क्षीरेण निर्वापिता; तान्य् अस्थीनि स्फटिकमये कुम्भे रत्नैर् व्यामिश्र्य प्रक्षिप्तानि; तान्य् अन्तःस्थान्य् अवभासन्ते शब्दं च कुर्वन्ति; ततस् तेन पादयोर् निपत्य प्रणिधानं कृतम्; यथा तस्यास्थीनि रत्नमिश्राण्य् अत्यर्थं भासन्ते शब्दं च कुर्वन्ति एवम् एवाहम् अनेन कुशलमूलेन रत्नचित्रान्तकोशः स्यां हिरण्येश्वरश् च इति किं मन्यध्वे भिक्षवः? यो ऽसौ गृहपतिः तेन कालेन तेन समयेन एष एवासाव् अनाथपिण्डदो गृहपतिः; यद् अनेन प्रत्येकबुद्धे कारां कृत्वा प्रणिधानं कृतं यच् च तिष्यस्य गृहपतेस् भागिनेयेन सता विपश्यिनः सम्यक्संबुद्धस्य केशनखस्तूपे अवभासात्मके मणिर् आरोपितः तस्य कर्मणो विपाकेन रत्नचित्रान्त्रकोशो हिरण्येश्वरश् च संवृत्तः; इति हि भिक्षव एकान्तकृष्णानां कर्मणां एकान्तकृष्णो विपाकः एकान्तशुक्लानाम् एकान्तशुक्लो व्यतिमिश्राणाम् व्यतिमिश्रः; तस्मात् तर्हि भिक्षवः एवं शिक्षितव्यम् यत् (शय्-व् 33) कृष्णाणि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः इत्य् एवं वो भिक्षवः शिक्षिताव्यम्

अन्तरोद्दानम्

तिष्यः पुष्यश् च माघुश् च भवदत्तो बृहस्पतिः / आषाढश् च सुदत्तश् च सुधनो भवति पश्चिमम् //

हिरण्यं च सुवर्णं च मणिमुक्ता तृतीयकम् / गोभिः पटैर् यवैः कोटिर् हिरण्येन समुच्छ्रिता //

दिस्चिप्लिनर्य् प्रेस्च्रिप्तिओन्स्

yadānāthapiṇḍadena gṛhapatinā koṭīsaṃstareṇa saṃstīrya jetasya kumārasya sakāśān niṣkrīya buddhapramukhāya bhikṣusaṃghāya niryātitaṃ tadā nānādeśanivāsinaḥ śrāddhāś caityābhivandakā śrāvastīṃ gacchanti; teṣāṃ kecid abhiprasannāḥ kathayanti: ārya vayam apy āryasaṃghāya jetavane kiṃcid vastu kārayema -für kārayāma?- iti; bhikṣavaḥ kathayanti: mūlyena bhūmiṃ krītvā kārayata; ārya kiyatā mūlyena dīyate iti; iyatā hiraṇyena; ārya kuto 'smākam etāvad bhavati; tathāpi tu yady etasmin pradeśe labhāmahe kārayāma iti etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; bhagavān āha: gṛhapatir avalokayitavyaḥ; yady anujānīte kārayitavyam iti; bhikṣubhir anāthapiṇḍado gṛhapatir avalokitaḥ; sa kathayati; māmāgamya śrāddhā brāhmaṇagṛhapatayaḥ saṃghasyārthāya puṇyakriyāvastu kurvanti anujānāmi; pudgalasya kurvanti nānujānāmi iti etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; bhagavān āha; tasmād anujānāmi saṃghasyārthāya kārayitavyam; pudgalasyārthāya dānapatir avalokayitavyaḥ; yady anujānīte kārayitavyam; nānujānīte, na kārayitavyam iti āgantukā bhikṣavaḥ caityavandakā śrāvastīm āgatāḥ; te yathāsaṃstutikayā bhikṣūṇāṃ sakāśe 'vatīrṇāḥ; anyeṣāṃ saṃstutikā (śay-v 34) na santi te vihanyante; asyām utpattau bhagavān āha: āgantukānām arthāya anuddiṣṭaṃ vastu sthāpayitavyam iti; anyatamasmin karvaṭake vihāraḥ; tatra bhikṣavo (a 326a) varṣā upagataḥ; yāvat tasmin karvaṭake 'ntarvarṣe bhayam utpannam; tannivāsino bhikṣavaḥ saṃtrastā apravāritāḥ santaḥ śrāvastīm āgatāḥ; te bhikṣubhiḥ pratiśrāmitāḥ

मार्गश्रमे प्रतिविनोदिते कथयन्ति: आयुष्मन्तः शयनासनम् उद्दिशथ इति; ते ऽन्तर्वर्षम् इति कृत्वा नोद्दिशन्ति; आगन्तुका भिक्षव अवध्यायन्ति क्षिपन्ति विवाचयन्ति; कथम् इदानीं यूयम् आयुष्मन्तः स्थितस्य एव शास्तुः शासनम् अन्तर्धापयथ; यद्य् अस्ति वो कौकृत्यं यथावृद्धिकया प्रयच्छत शयनासनम् इति; तथापि ते नोद्दिशन्ति; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्याम् उत्पत्तौ भगवान् आह: तस्माद् अनुजानामि भङ्गिकभग्नकानां भिक्षूणाम् अर्थाय द्वितीया वर्षोपनायिका कर्तव्या इति; भिक्षवो न जानते: कथं कर्तव्या इति; भगवान् आह: त्रैमासिकी प्रवारणा कर्तव्या श्रावणमासे तु द्वितीया वर्षोपनायिका कर्तव्या इति; उक्तं भगवता: भङ्गिभग्नकानां भिक्षूणाम् अर्थाय द्वितीया वर्षोपनायिका कर्तव्या इति यावद् अपरे ऽपि भङ्गिभग्नका भिक्षवः श्रावस्तीम् आगताः; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; भगवान् आह: भङ्गिभग्नकान् मया भिक्षवो भिक्षून् आगम्य द्वितीया वर्षोपनायिका प्रज्ञप्ता, न तृतीया; भङ्गिभग्नकास् तु भिक्षवः यथासंस्तुतिकया विश्रामयितव्याः; भिक्षवः तान् कर्मादानं कारयन्ति; भगवान् आह: न ते कर्मादानं कारयितव्याः इति; भिक्षवस् तेषां लाभम् अनुप्रयच्छन्ति; भगवान् आह: न तेषां लाभो देयह्; भिक्षव आमिषलाभम् अपि नानुप्रयच्छन्ति; भगवान् आह: आमिषलाभस् तेषां नो तु वस्त्रलाभ इति (शय्-व् 35) ष्राद्धैः प्रभूता विहाराः कारिताः; श्रावस्त्याम् अल्पा भिक्षव वर्षा उपगताः; ते शून्यकास् तिष्ठन्ति; दानपतीनां परिभोगान्वयं पुण्यं न भवति; वातपुत्रैश् चावास्यन्ते; भगवाण् आह: सर्वे उद्देष्टव्याः प्रत्येकम् एकैकस्य द्वौ

त्रयश् चत्वारो वा यथाप्रमाणतः सर्वे परिभोक्तव्याः, क्वचित् पूर्वाह्णे स्थातव्यम्, क्वचिन् मध्याह्ने, क्वचिद् अपराह्णे, क्वचिद् रात्रौ वस्तव्यम् इति; भिक्षवस् ते पुनः कर्म न कुर्वन्ति प्रलुभ्यन्ते; भगवान् आह: दानपतिर् उत्साहयितव्यः; स वै संपद्यत इत्य् एवं कुशलम्, नो चेत् संपद्यते सांघिकेन प्रतिसंस्तर्तव्याः; न चेत् शक्यते यावतां शक्यते तावतां संस्कारः कर्तव्यः, अन्ये व्युपेक्षितव्याः इति यदा भगवतः वैस्तारिकं संवृत्तं तदा बहवो भिक्षवः श्रावस्तीम् आगताः; ते लयने निर्विहन्यन्ते; भगवान् आह: द्वयोस् त्रयाणाम् चोद्देष्टव्यम् अन्ततः सर्वेषां सामान्येन निषदनप्रामाणिकम् उद्देष्टव्यम् उदकस्थालकस्थानपानीयभैषज्यदन्तकाष्ठपात्रस्थानं वर्जयित्वा; सामीची च परस्परम् उपचारस् तु सामान्य एव नोद्देष्टव्य इति उक्तं भगवता; एकान्य् अरण्यानि वृक्षमूलानि शून्यागाराणि पर्वतकन्दरगिरिगुहपलालपुञ्जाभ्यवकाशश्मशानवनप्रस्थानि (शय्-व् 36) प्रान्तानि शयनासनानि ध्यायत, भिक्षवः, मा प्रमाद्यत, मा पश्चाद् विप्रतिसारिणो (अ 326ब्) भूत इति; आरण्यकत्वस्य च बहुधा वर्णो भाषितः तदा केचिद् भिक्षव आरण्यकत्वं समादाय अरण्ये ऽध्यवस्थिताः; ते तत्र चोरैः मुष्यन्ते; मुषिताः सन्तः ब्राह्मणगृहपतिकुलेभ्यश् चीवरार्थं पर्येष्टिम् आपद्यमानाः रिंचन्त्य् उद्देशं पाठम् स्वाध्यायं योगं मनसिकारम्; एतत् प्रकरणम् भिक्षवो भगवत आरोचयन्ति; अस्याम् उत्पत्तौ भगवान् आह: आरण्यकानां भिक्षूणाम् अर्थाय वस्तु स्थापयितव्यम् इति; उक्तं भगवता: आरण्यकानां भिक्षूणाम् अर्थाय वस्तु स्थापयितव्यम् इति; भिक्षव अप्रकाशे स्थापयन्ति; आरण्यको भिक्षुः

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.