Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/2

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

शयनासनवस्तु

Thông tin
GRETIL — R. Gnoli: The Gilgit Manuscript of the Śayanāsanavastu and the Adhikaraṇavastu, Being the 15th and 16th Sections of the Vinaya of the Mūlasarvāstivādin, Roma 1978 (Serie Orientale Roma, 50).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

पात्रचीवरं स्थापयित्वा द्वारं बद्ध्वा ताडकम् आदाय प्रक्रान्तः; अनयेषाम् आरण्यकानां भिक्षूणाम् विघातो जातः; भगवान् आह: प्रकाशे स्थाने आरण्यकानां भिक्षूणां वस्तु स्थापयितव्यम् इति; उपनन्दस्यान्यतमेन गृहपतिना विहारः कारितः; स तत्र न प्रतिवसति; यो भिक्षुर् आगन्तुक आगच्छति तस्मै वस्तु ददाति लाभं त्व् आत्मना गृह्णाति; यावद् अन्यतमस् त्रैचीवरिको भिक्षुर् आगतः; तेनासौ विहारो दृष्टः शून्यः; स पृच्छति, कस्यायं विहारः इति; भिक्षवः कथयन्ति: उपनन्दस्य भिक्षोः; स तेन गत्वा याचितः; स कथयति: अयं विहारः, प्रतिवस; यो ऽत्र लाभः स मम इति; तत्रावस्थितः; तेनासौ विहारो न कदाचित् संमृष्टः, न सुकुमारी गोमयकार्षी न दत्ता; यावद् असौ तस्माद् विहाराद् अपक्रान्तः; अन्यो भिक्षुर् आगतः; सो ऽप्य् उपनन्दस्य सकाशाद् याचित्वा तस्मिन् विहारे ऽवस्थितः; पश्यति तं विहारं संकारपरिपूर्णम्; तेनासौ संमृष्टः संकारं छोरयित्वा संमार्जनीं गृहीत्वैव संकारकुटसमीपे ऽवस्थितः, यावद् अन्यतमेन भिक्षुणा दृष्टः; स कथयति: आयुष्मन् किं त्वं संमार्जनीव्यग्रहस्त एवावतिष्ठसे, नेयं संमार्जनी स्थाप्यत? इति; स कथयति: को ऽप्य् अत्र हस्तरक्षास्थितः, तेन न कदाचित् संमार्जनीपदम् अपि दत्तम् इति; स कथयति: अमुको ऽत्र त्रैचीवरिको (शय्-व् 37) भिक्षुर् अवस्थितः इति; यावत् तेनासौ पिण्डपातम् अटता दृष्ट उपालब्धश् च; स कथयति: उपनन्दो लाभं गृह्णाति अहं तस्य विहारं शोधयामि? इति; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्याम् उत्पत्तौ भगवान् आह: यो लाभं गृह्णाति तेन विहारः संमार्ष्टव्यः इति उक्तं भगवता:

अभ्यतीतकालगतानां दानपतीनाम् नाम्ना दक्षिणा आदेष्टव्या इति; संघस्थविरो ऽभ्यतीतकालगतानां दानपतीनाम् अर्थाय गाथां भाषते; अन्यतमश् च गृहपतिर् विहारम् आगतः; तेनासौ श्रुतः; दक्षिणाम् आदिशत्; स तस्य सकाशम् उपसंक्रान्तः कथयति: आर्य यद्य् अहं विहारं कारयामि ममापि नाम्ना दक्षिणाम् उद्दिशसि इति; स कथयति: कारय सुष्ट्व् आदिशामि इति; यावत् तेन गृहपतिना विहारः कारितः; तत्रानेन न किंचिद् दत्तं; स शून्य एवावस्थितः; यावत् तेन गृहपतिना दृष्टः; स विहारम् आगम्य कथयति: आर्य मदीयो विहारः शून्य अवस्थितः, न तत्र कश्चिद् भिक्षुः प्रतिवसति इति; संघस्थविरः कथयति: भद्रमुख उत्स्वेद्यः; स गृहपतिः कथयति: आर्य ऊषरे जंगले कारितः, कथं उत्स्वेद्यो भवति? गृहपते (अ 327अ) नाहम् एतत् संधाय कथयामि अपि तु तत्र लाभो नास्ति इति; स कथयति: आर्य इदानीं यो मदीये विहारे प्रतिवसति तम् अहं पटेनाच्छादयामि; इति लाभो लभ्यते इति उपनन्देन अनुपूर्वेण स्वभाग इव उद्गृहीतः; सो ऽन्यत्रैव प्रतिवसति; स शून्यस् तिष्ठति, यावद् अन्यतमः पिण्डपातिको चैत्याभिवन्दकः श्रावस्तीम् आगतः; तेनासौ विहारः शून्यो दृष्टः; स भिक्षून् पृच्छति; कस्यायं विहारः इति; तैः समाख्यातम्: सांघिको ऽयं विहारः किं तूपनन्दस्य भिक्षोर् उद्दिष्ट इति; स उपनन्दस्य सकाशम् उपसंक्रान्तः: तवोद्दिष्टो ऽयं विहारो ऽत्र तिष्ठामि इति; स कथयति: एवं कुरुष्व इति; स तत्रावस्थितः; स पिण्डपातिको दक्षो ऽनलसः; तेनासौ प्रतिदिनम् उपलिप्तसंमृष्टं क्रियते; पञ्चानुशंसा संमर्जने; आत्मनश् चित्तं प्रसीदति; परस्य चित्तं (शय्-व् 38) प्रसीदति;

देवता आत्तमनसो भवन्ति; प्रासादिकसंवर्तनीयं कुशलमूलम् उपचिनोति; कायस्य भेदात् सुगतो स्वर्गलोके देवेषूपपद्यत इति; ये तं विहारम् उपलिप्तसंमृष्टं पश्यन्ति ते तस्य गृहपतेर् गत्वा आरोचयन्ति; स श्रुत्वा प्रामोद्यम् उत्पादयति; यावद् अपरेण समयेन स्वयम् एवागतः पश्यति तथैव तं विहारम् उपलिप्तसंमृष्टम्; सो ऽभिप्रसन्नः; तेनासौ पिण्डपातिकः पटेनाच्छादितः; उपनन्देन श्रुतम्; स त्वरितत्वरितं गतः कथयति; पिण्डपातिक ममायं विहार उद्दिष्टः, प्रयच्छ मे पटकम् इति; पिण्डपातिक संलक्षयति: लाभात्मको ऽयं यदि न दास्यामि तथाप्य् अयं बलाद् ग्रहीष्यति मां च विहारान् निष्कासयिष्यति इति; तेन तस्य समर्पितः इति; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्याम् उत्पत्तौ भगवान् आह: यस्य प्रसन्नः प्रसन्नाधिकारं करोति तस्यैव स; उपनन्दस्य तु वार्षिको लाभः इति गुणप्रियो लोकः प्रपीड्य प्रपीड्यात्मानं स पुत्रदारं च; गुणवद्भ्यो दानम् अनुप्रयच्छन्ति श्राद्धा ब्राह्मणगृहपतयः; आरण्यकान् भिक्षून् उपनिमन्त्र्य भोजयन्ति; आरण्यकानां भिक्षूणाम् अन्तर्गृहे भोक्तुं गतानाम् अदत्तादायिकैर् विहारा मुष्यन्ते; भगवान् आह: द्वारं बद्ध्वा कुञ्चिकाम् आदाय प्रक्रमितव्यम् इति; चोरा अदत्तादायिका प्रतिकुञ्चिकया मुषन्ति; भगनान् आह: आरक्षकं भिक्षुं स्थापयित्वा गन्तव्यम्; तस्य पिण्डकेनाविघातः कर्तव्यः इति; अदत्तादायिका अन्यं भिक्षुं गृहीत्वा गच्छन्ति; स कथयति: मुञ्च द्वारम् इति; भगवान् आह; संज्ञा कर्तव्या सज्वरो निर्ज्वर इति; यदि कथयति सज्वर इति न मोक्तव्यम्; अथ कथयति निर्ज्वर इति मोक्तव्यम्; अपि त्व् आरण्यकेन भिक्षुणा

अर्धशाखा उपस्थापयितव्या इति; उक्तं भगवता: आरण्यकेन भिक्षुणा अर्धशाखा उपस्थापयितव्या इति; भिक्षवो न जानीते केदृशी अर्धशाखा इति; भगवान् आह: कुक्कुरो भिक्षवो अर्धशाखा तस्य पात्रशेषं दातव्यम्; आरण्यकैर् भिक्षुभिर् कुक्कुरा उपस्थापिता; ते स्तूपाङ्गणं विहारं च नखरिकाभिर् उपलिखन्ति उच्चारप्रस्रावेण नाशयन्ति; भगवान् आह: कुक्कुरपोषकस्याहं भिक्षवो (शय्-व् 39) भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञापयामि, (अ 327ब्) कुक्कुरपोषकेन भिक्षुणा काल्यम् एवोत्थाय स्तूपाङ्गणं विहारश् च प्रत्यवेक्षितव्यः यन् नखरिकाभिर् उपलिखितं तत् समं कर्तव्यम्; उच्चारप्रस्रावश् छोरयितव्यः, कुक्कुरपोषको भिक्षुर् यथाप्रज्ञप्तान् आसमुदाचारिकान् धर्मान् असमादाय वर्तते, सातिसारो वर्तते

उपनन्दऽस् मिस्देमेअनोउर्स्

आयुष्मान् उपनन्दो ऽन्यतमस्मिन् विहारे संघस्थविरः, यावत् तत्रान्यतमः संघस्थविरः आगतः; उपनन्दः संलक्षयति: मया नामेह विहारे संघस्थविरेण भूत्वा द्वितीयस्थविरेण भवितव्यम्; गच्छाम्य् अन्यं विहारम् इति; सो ऽन्यं विहारं गतः; ततो विहाराद् असौ गतः; तस्मिन् यो द्वितीयस्थविरस्य लाभ स संघस्थविरस्य; स संलक्षयति: इहापि मे एव लाभ इति; तत्रापि मे स एव लाभः, किं विना प्रयोजनेन संघस्थविरत्वं करोमि इति; स पुनस् त्वरितत्वरितम् एव विहारं संप्रस्थितः; अर्धोद्दिष्टशयनासने विहारं प्रविष्टः; स कथयति: यथावृद्धिकया विहारम् उद्दिश इति; भिक्षवो ऽतिक्रान्त इति कृत्वा नोद्दिशन्ति; उपनन्दः कथयति: आयुष्मन्त किं तिष्ठत एव शास्तुः शासनम् अन्तर्धापयत, यथावृद्धिकया उद्दिशत विहारं इति; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; भगवान् आह: यः संघिकेन वा स्तौपिकेन ःवाः करणीयेन गतो भवति तस्य शयनासनं यथावृद्धिकया उद्देष्टव्यम्, अन्यत्र यथागत्या इति (शय्-व् 40) उपनन्द अतिलोभेन द्वयोर् विहारयोर् वर्षा उपगतः उभयवैहारिकं लाभं लप्सयत इति स वृत्तासु वर्षासु लाभं प्रार्थयते नैतस्मिन् लभ्यते नाप्य् अपरस्मिन्; शयनासनोद्द्देशकान् भिक्षून् परिभाषत; एतत् प्रकरणम् भिक्षवो भगवत आरोचयन्ति; भगवान् आह: वर्षोषितो ऽसौ देयो ऽस्य लाभः इति; भिक्षव उभयविहाराभ्याम् अपि प्रयच्छन्ति; भगवान् आह: न तत्रोभयविहाराभ्यां दातव्यम्; एकस्मात् प्रयच्छन्ति; अन्ये भिक्षवो ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति: उहयविहारयोर् वर्षोषितः किमर्थम् एकसमाद् दीयते इति; ःएतत् प्रकरणं भिक्षवो

भगवत आरोचयन्ति; भगवान् आह:ः उभयविहाराभ्याम् अप्य् अर्धार्धं देयम्, न च पुनर् भिक्षुणा द्वयोर् विहारयोर् उपगन्तव्यं; उपगच्छति, सातिसारो भवति अन्यतमेन गृहपतिना द्वौ विहारौ कारितौ, एक आरण्यकानां, दिव्तीयो ग्रामान्तिकानाम्; आचरितम् तस्य गृहप्तेर् वर्षोषितस्य भिक्षुसंघस्य एकैकं भिक्षुं पटेनाच्छादयितुम्; स पटकान् आदाय आरण्यकानां विहारं संप्रस्थितः; उपनन्देन श्रुतम्; आरण्यके विहारे लाभो दीयते इति; तेन नन्दस्य संदिष्टम्; यद्य् अत्र लाभो दीयते तद् ग्रहीष्यसि इत्य् उक्त्वा स त्वरमाणः आरण्यकं विहारं संप्रस्थितः; तेन गृहपतिना दृष्टः; स संलक्षयति: यादृशो ऽस्य पदोद्धातः; गतो ऽयम् आरण्यकं विहारम्, किम् अत्र प्राप्तकालम्, इहैव तावत् ग्रामान्तिकविहारे ददामि; पश्चात् तत्र दास्यामि इति; स प्रतिनिवर्त्य पटकांश् चारयितुम् आरब्धः; नन्देन हस्तः प्रसारितः; गृहपतिना पटको दत्तः; भूयः प्रसारयति; गृहपतिः कथयति: आर्य दत्तस् ते पटकः, किं भूयः प्रसारयसि इति; स कथयति: (अ 328अ) गृहपते उपनन्दस् तव विहारे वर्षोषितः तस्य सन्तकं प्रार्थयामि इति; गृहप्तिः कथयति: ःआर्यः स्वहस्तेन भगवत दानं प्रशस्तम्, स्वहस्तेनैव दास्यामि इति; स लज्जितस् तूष्णीम् अवस्थितः; उपनन्दः संलक्षयति: चिरयत्य् असौ गृहपतिः, ग्रामान्तिकं गमिष्यामि इति विदित्वा ग्रामान्तिकविहारं (शय्-व् 41) गतः नन्दं पृच्छति; आर्य गृहीतो मदीयः पटकः? तेन यथावृत्तं समाख्यातम्; गृहपतिर् अप्य् अन्येन पथा आरण्यकं विहारम् गत्वा पताकांश् चारयित्वा प्रकृआन्तः; ःउपनन्दःः पुनर् आरण्यकं विहारं प्रधावितः, यावत् पटकाश् चारिताः; स

उभयविहारयोर् अप्य् अतिलोभेन लाभात् परिभ्रष्टः; स शोचति क्लाम्यति परिदेवते भिक्षवः संशयजाताः सर्वशंषयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त उपनन्द अतिलोभेन पटकात् परिभ्रष्टह्; भगवान् आह: न भिक्षव एतर्हि यथातीते ऽप्य् अध्वन्य् अनेन अतिलोभात् भक्तच्छेदः कृतः; तच् छ्रूयताम्

the story of the dog vhich was too greedy (being a previous birth of upananda)

भूतपूर्वं भिक्षवो नद्या उभयकूले द्वौ विहारौ, एकः संघलाभिकानाम्, द्वितीयो पिण्डपातिकानाम्; यावद् अन्यतमः कुक्कुरः गण्डीशब्दप्रतिसंवेदी; स गण्डीशब्दं श्रुत्वा संघलाभिकानां विहारं गच्छति; तस्य ते भिक्षवः पात्रशेषं प्रयच्छन्ति; स तं परिभुज्य पिण्डपातिकानां विहारं गच्छति, तत्रापि पात्रशेषं भुक्त्वा यथेष्टं गच्छति; यावद् अपरेण समयेन पिण्डपातिकानाम् औपपादुकानां लाभः संपन्नः; तैस् सानुकालं गण्डी दत्ता; स गण्डीकुक्कुरः गण्डीशब्दं श्रुत्वा नदीम् उत्तर्तुम् आरब्धः; मध्यं गतस्यास्य संघलाभिकानां विहारे गण्डी दत्ता; स भग्नोत्साहो प्रतिनिवर्तितुम् आरब्धः; स्रोतसा दूरम् ऊढ उभयपरिभ्रष्टः किं मन्यध्वे भिक्षवः? यो ऽसौ गण्डीकुक्कुरः तेन कालेन तेन समयेन एष एवासाव् उपनन्दः; तदाप्य् अयम् अतिलोभेन उभयपरिभ्रष्टह्; एतर्ह्य् अप्य् अतिलोभेन उभयपरिभ्रष्टः; तस्मात् तर्हि भिक्षवो न भिक्षुणा अतिलोभः कर्तव्यः; करोति, सातिसारो भवति (शय्-व् 42)

उद्दानम् कलहो ग्लानपर्याप्ति रात्रिकालश् च काशिषु / वृक्षस्थण्डिलशाद्वलं भाजकानां च संवृतिः //

precautions to take against quarrelsome monks

आयुष्मान् उपालिर् बुद्धं भगवन्तं पृच्छति; यथापितद् भिक्षवः शृण्वन्ति भिक्षवः आगच्छन्ति कलहकारका ःभण्डनकारका विग्रहकारकाः विवादकारका आधिकरणिका ते ऽस्मांश् चोदयिष्यन्ति स्मारयिष्यन्ति अलज्जितेन वा वैतरिकेण वा इति; तैः तेषां कथं प्रतिपत्तव्यम्? नैवासिकैर् उपालि भिक्षुभिः कलहकारिकान् भिक्षून् आगच्छतः श्रुत्वा त्रयः शयनासनोद्देशकाः कर्तव्याः, षट् शयनासनग्राहकाः; त्रयः शयनासनोद्देशकाः कतमे? हैमन्तिको ग्रैष्मिको वार्षकश् च; षट् शयनासनग्राहकाः कतमे? सर्वो विहार उद्देष्टव्यः सर्वो विहारसामन्तकः ःसर्वः परिगणःः सर्वः परिगणसामन्तकः सर्व आराम सर्व आरामसामन्तकः: यदि कथयति विहारम् उद्दिशत इति वक्तव्यम् उद्दिष्टो ऽयम्, विहारसामन्तकम् उद्दिशत एषो ऽप्य् उद्द्दिष्टः, परिगणम् उद्दिशत एषो (अ 328ब्) ऽप्य् उद्दिष्टः परिगणसामन्तकम् उद्दिशत एषो ऽप्य् उद्दिष्टः, आरामम् उद्दिशत एषो ऽप्य् उद्दिष्टः, आरामसामन्तकम् उद्दिशत एषो ऽप्य् उद्दिष्टः; ते अलयना अप्रतिष्ठिताः कंचिद् दोषं जनयिष्यन्ति; ततः पश्चाद् गतवेगैः गतप्रत्यर्थिकैः गतप्रत्यमित्रैः यथावृद्धिकया (शय्-व् 43) शयनासनम् उद्देष्टव्यम्; उक्तं भगवता: यथावृद्धिकया शयनासनम् उद्देष्टव्यम् इति

the care of the sick monks and upananda's mischief again

यावद् एको भिक्षुर् ग्लानः; तस्य वृद्धतरक भिक्षुर् अगतः; यथावृद्धिकया तत्सन्तकं लयनम् उद्दिष्टम्; स सर्वनवकिअः; तस्यान्यलयनं न प्रापद्यते; स तेन भिक्षुणाभिहितः; आयुष्मन् ममैतल् लयनम् उद्दिष्टम्, निर्गच्छ इति; स कथयति: ग्लानो ऽहम्, यावत् स्वस्तीभवामि; निष्ठुर् असौ भिक्षुः; स तेन पुष्करिण्यां निष्कास्य स्थापितः; यावद् ब्राह्मणगृहपतयो विहारम् आगताः; द्रष्टुकामैस् तैर् असौ भिक्षुर् दृष्टः; ते कथयन्ति: आर्या किम् अयं भिक्षुः कालगतः? भद्रमुखा, नायम् कालगतः; अथ कस्माद् अत्र स्थापितः? अस्य वृद्धतरको भ्जिक्षुर् आगतः, एतत्सन्तकं लयनं तस्योद्दिष्टम्; तेनायं निष्कास्येह स्थापितः; आर्या वयम् आगारिकाः सन्तो ऽनुरक्षणया ग्लानगृहान् ःनः निष्कासयामः, यूयं प्रव्रजिताः, कारुणिकश् च युष्माकं शास्ता, तत् कथं ग्लानं निष्कासयथ? ते ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्याम् उत्पत्तौ भगवान् आह: तस्मात् तर्हि भिक्षवो ग्लानस्य भिक्षोर् वस्तुपरिहारो दातव्यः इति; उक्तं भगवता: ग्लानस्य भिक्षोर् वस्तुपरिहारो देयः इति आयुष्मन् उपनन्द हुम् इति कृत्वा तूष्णीम् अवस्थितः; यावद् षड्भिर् सप्तभिर् वा दिवसैः शयनासनम् उद्देक्ष्यति इति पादे व्रणपट्टकं बद्ध्वावस्थितः; शयनासनोद्देशकैर् भिक्षुभिर् ग्लान इति कृत्वा तत्सन्तकं लयनं उद्दिष्टम्; स उद्दिष्टेषु शयनासनेषु व्रणपट्टकं मुक्त्वावस्थितः; ततस् स ग्लानावलोककैर् भिक्षुभिर् पृष्टः किं स्थविरस्य पादः स्वस्थीभूतः इति; स कथयति: नानूक्तं भगवता सर्वसंस्कारा अनित्या इति; तत् किं मम (शय्-व् 44) व्याधिर् नित्यो भविष्यति? ते कथयन्ति: शीघ्रं स्थविर स्वस्थीभूतः, ह कल्पग्लानः इति; स कथयति: किम् इच्छथ मां जीर्णलयने प्रक्षेप्तुम् इति; अल्पाथा भिक्षवो ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति: कथम् इदानीं भिक्षव अग्लाना एव वस्तुपरिहारं स्वीकुर्वन्ति? एतत् प्रकरणम् भिक्षवो भगवत आरोचयन्ति; अस्याम् उत्पत्तौ भगवान् आह: तस्मात् तर्हि भिक्षवो कल्पग्लानस्य वस्तुपरिहारो ऽदेयः, नापि तेन स्वीकर्तव्यः, करोति, सातिसारो भवति

the various blessings of the men who master the vinaya: the six pentads

पञ्चिकानां पिण्डोद्दानम् पुरःकृतश् च स्वं शीलम् असंसक्तम् अथापिच / आलोकजाता उत्पत्तिर् आन्तरायिकम् एव च //

आपत्तिः पश्चिमं कृत्वा पिण्डोद्दानसमुद्धृतम् / अन्तरोद्दानम् पुरःकृत्यम् अपरं च चाभ्यन्तरं च परेषाम् / बहुजनहिताय कृत्वा प्रथमा भवति पञ्चिका //

भगवता सूत्रं (अ 329अ) मातृका च देवमनुष्येषु प्रतिष्ठापिते, सूत्रं नागेषु; विनयस् तु ःगम्भीरोः गम्भीरावभासो दुर्दृशो दुरवबोधो बहुसंधिर् लोकाक्षरप्रतिसंयुक्तः; भिक्षवो विनयं गम्भीरत्वात् बहुसंधिकत्वात् लोकाक्षरप्रतिसंयुक्तत्वाच् च नोत्सहन्ते पठितुम्; धर्मता चैषा येनाङ्गेन शासनं परिहीयते तस्य बुद्धा भगवन्तो ऽत्यर्थं वर्णम् भाषन्ते; तत्र भगवान् भिक्षून् आमन्त्रयते स्म; पञ्च मे भिक्षवो आनुशंसा विनयधरपुद्गले; कतमे पञ्च? पुरस्कृतो भवति चतसृणां पर्षदाम्: (शय्-व् 45) अपराप्रतिबद्धास्य भवत्य् अववादानुशासनी; अतीतानागतप्रत्युत्पन्नानां सम्यक्संबुद्धानाम् अभ्यन्तरकोशधरो भवति; परेषां श्रमणब्राह्मणानाम् मूर्धानं आसाद्य तिष्ठति; बहुजनहिताय बहुजनसुखाय च प्रतिपन्नो भवति सद्धर्मस्थितये

अन्तरोद्दानम् स्वशीलम् अभिगमनं कौकृत्यं विशारदश् च / सह धर्मेण कृत्वा द्वितीया भवति पञ्चिका //

अप्रे पञ्चानुशंसा विनयधरे पुद्गले; ःकतमे पञ्च?ः स्वो ऽस्य शीलस्कन्धः सुगुप्तो भवति सुगोपितः; अभिगमनीयो भवति चतसृणां पर्षदाम्; कौकृत्यप्रसृतानां पुद्गलानां प्रतिशरणभूतो भवति; विशारद्ः संघमध्ये विहरति; प्रत्यर्थिनः स्वसद्धर्मे गृह्णाति

अन्तरोद्दानम् असंसक्तम् अर्थनिश्चयः शिक्षापदान्य् अथापि / चास्त्व् आलोकद्वयं चैव तृतीया भवति पञ्चिका //

अपरे पञ्चानुशंसा विनयधरे पुद्गले; कतमे पञ्च? असंसक्तम् अर्थम् उद्धरति; सुविनिश्चितो भवति अर्थविनिश्चये; शिक्षापदान्य् अस्य सुगृहीतानि भवन्ति; आलोकजातेन चेतसा बहुलं विहरति; पश्चिमाया जनताया आलोकं करोति

उद्दानम् आलोकाभासप्रभासश् च अल्पोत्सुको ऽशून्यकेन च / अपरे पञ्चानुशंसा विनयधरे पुद्गले; कतमे पञ्च? आलोकजाता (शय्-व् 46) मे दिक् ख्याति अवभासजाता प्रभासजाता, अल्पोत्सुको ऽहं तस्यां दिशि विहरामि, अशून्या च मे दिक् ख्याति यस्यां दिशि विनयधरः पुद्गलः प्रतिवसति

ःउद्दानम् उत्पत्तिर् अथ प्रज्ञप्तिर् अनुप्रज्ञप्तिर् एव च / प्रतिक्षेपो ऽभ्यनुज्ञा च सैव पञ्चमा पञ्चिका //ः

अपरे पञ्चानुशंसा विनयधरे पुद्गले; कथमे पञ्च? उप्तत्तिं जानाति, प्रज्ञप्तिम् ःजानातिः, अनुप्रज्ञप्तिं जानाति, प्रतिक्षेपं जानाति, अभ्यनुज्ञां जानाति

ःउद्दानम्ः ................................... ................................... अपरे पञ्चानुशंसा विनयधरे पुद्गले; कतमे पञ्च? अन्तरायिकं जानाति, अनन्तरायिकां जानाति, अववदति, अनुशास्ति; प्रतिबलो भवति सार्धंविहार्यन्तेवासिकानां निश्रयं ग्राहयितुम्

ःउद्दानम्ः .................................. .................................. अपरे पञ्चानुशंसा विअनयधरे पुद्गले; कतमे पञ्च? आपत्तिं जानाति, अनापत्तिं जानाति, गुर्वीं जानाति, प्रातिमोक्षसूत्रोद्देशो ऽस्य विस्तरेणोद्दिष्टो भवति (शय्-व् 47)

upālin is the foremost amidst them who master and know the vinaya. the teaching of the vinaya

भगवता विनयस्य वर्णो भाषित इति स्थविरस्थविरा भिक्षवः सोत्साहा विनयं पठितुम् आरह्धाः; तेन खलु समयेनायुष्मान् उपाली अग्रो ऽभूद् विनयनिदानसमुत्पत्तिकुशलानाम्; स्थविरस्थविरा भिक्षवो विनयं पर्यवाप्नुवन्ति इति सत्कृत्योद्देष्टुम् आरब्धः; स उत्पाण्डुको जातः कृशालको दुर्बलको म्लानो प्राप्तकायः; जानका पृच्छका (अ 329ब्) बुद्धा भगवन्तः, जानन्तः पृच्छन्ति, अजानन्तो न पृच्छन्ति, काले पृच्छन्ति, कालातिक्रान्तं न पृच्छन्ति, अर्थोपसंहितं पृच्छन्ति, अनर्थोपसंहितं न पृच्छन्ति; सेतुसमुद्घातो बुद्धानाम् भगवताम् अनर्थोपसंहितायां पृच्छायाम्; तत्र कालज्ञा बुद्धा भगवन्त अर्थोपसंहितायां पृच्च्छायाम्; पृच्छति बुद्धो भगवान् आयुष्मन्तम् आनन्दं: कस्माद् आनन्द उपाली भिक्षुर् उत्पाण्डूत्पाण्डुकः कृशालको दुर्बलको म्लानो प्राप्तकाय इति; स कथयति: भगवता विनयस्य वर्णो भाषितः यत् कृत्वा स्थविरस्थविरा भिक्षवः सोत्साहा विनयं पठितुम् आरब्धाः; आयुष्मान् उपाली स्थविरस्थविरा भिक्षवः सगौरवा विनयम् पर्यवाप्नुवन्ति इति सत्कृत्योद्देष्टुम् आरब्धः; तेनासाव् उत्पाण्डूत्पाण्डुकः कृशालको ःदुर्बलकोः म्लानो प्राप्तकाय इति; अस्याम् उत्पत्तौ भगवान् आह: उद्देशदायकस्याहं ःभिक्षवोः भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञापयामि; उद्देशदायकेना भिक्षुणा चतुर्भिर् आर्यपथैर् उद्देशो दातव्यः; चङ्क्रम्यमाणेन तिष्ठता निषन्नेन निपन्नेन च; उद्देशग्राहकेन भिक्षुणा तृभिर् आर्यपथैर् उद्देशो ग्रहीतव्यः; उद्देशग्राहको भिक्षुर् उद्देशदायकस्य भिक्षोः सचेत् चाङ्क्रम्यमाणस्यागच्छति नवकश् (शय्-व् 48) च भवति तेन सामीचीं कृत्वा धातुसाम्यं पृष्ट्वा कायम् अवनाम्य

ऋजुकचित्तेन सगौरवेण पदपरिहाणिकया उद्देशो ग्रहीतव्यः; अथ वृद्धतरको भवति, तेन धातुसाम्यं पृष्ट्वा कायम् अवनाम्य ऋजुकचित्तेन सगौरवेण पदपरिहाणिकगा उद्देशो ग्रहीतव्यः; सचेत् तिष्ठत आगच्छति नवकश् च भवति तेन सामीचीं कृत्वा धातुसाम्यं पृष्ट्वा उत्कुटुकेन कृत्वा नीचतरके वा आसने निषद्य ऋजुकचित्तेन सगौरवेणोद्देशो ग्रहीतव्यः; अथ वृद्धो भवति तेन धातुसाम्यं पृष्ट्वा उत्कुटुकेन स्थित्वा नीचतरके वा आसने निषद्य ऋजुकचित्तेन सगौरवेण उद्देशो ग्रहीतव्यः; यथा तिष्ठत एवं निषण्णस्य निपन्नस्य च योजयितव्यम्: उद्देशदायकेन भिक्षुणा स्वभ्यस्तं सुपरिचितं निःसंधिग्धं च कृत्वा उद्देशो दातव्यः; उद्देशग्राहकेनापि सुपरिपृष्टम् सूद्गृहीतं निःसंदिग्धं च कृत्वा उद्देशो ग्रहीतव्यः; उद्देशदायको भिक्षुर् उद्देशग्राहकश् च यथाप्रज्ञप्तान् आसमुदाचारिकान् धर्मान् न समादाय वर्तते, सातिसारो भवति

the mischief of the six monks

षड्वर्गिका भिक्षवो जनपदचारिकां चरन्तो रात्रौ विहारं संप्राप्ता यथसंस्तुतिकया भिक्षुभिः प्रतिशामिताः; ते कथयन्ति: आयुष्मन्तः किं तिष्ठथ शयनासनोद्देशकं शब्दयत; ते कथयन्ति: किमर्थम्? शयनासनम् उद्देष्टुम्; ते कथयन्ति: शयनासनं सुखं स्वप्ताः प्रभातायां रजन्याम् उद्दिष्ययिष्यथ इति; ते पर्यवस्थिता कथयन्ति: यूयं तिष्ठत एव शास्तुः शासनम् अन्तर्धापयत; यद्य् अस्ति कौकृत्यम् उद्दिषत यथावृद्दिहिकया (शय्-व् 49) शयनासनम्; वाग्बलिनस् ते; शयनासनोद्देशकेन संत्रस्तेनोद्दिष्टम्; षड्वर्गिका वृद्धान्ते शयनासनं गृहीत्वा शयिताः; यावन् नवका उद्दिश्यन्ते तावत् प्रभाता रजनी; षड्वर्गिका लघ्व् लघ्व् एवोत्थाय कथयन्ति: आयुष्मन्तो गृह्णीत शयनासनम् (अ 330अ), गच्छाम इति; ते भिक्षुभिर् उच्यन्ते: आयुष्मन्तो युष्माभिर् एकरात्रस्यार्थाय कृत्स्नां रात्रिं भिक्षुसंघो विहेठितः अहो बत यूयम् इहैव तिष्ठत; ते कथयन्ति: नन्दोपनन्द श्रावस्तीम् गच्छामः सवातला एत इति कृत्वा प्रक्रान्ताः; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्याम् उत्पत्तौ भगवान् आह: तस्मात् तर्हि भिक्षवो न रात्रौ शयनासनम् उद्देष्टव्यम्; यदि रात्राव् आगच्छन्ति यथासंस्तुतिकया प्रतिश्रामयितव्या

दिस्चिप्लिनर्य् प्रेस्च्रिप्तिओन्स्

जनपदाद् भिक्षुश् चैत्यवन्दकः श्रावस्तीम् आगतः; स तत्रागोचरकुशलः काल्यम् एवोत्थाय भगवत्सकाशम् उपसंक्रान्तः भगवतः पादाभिवन्दनं कृत्वा स्थविरस्थविराणां च भिक्षूणां श्रावस्तीं पिण्डाय प्राविक्षत्; तस्य पिण्डाय चरतः प्राप्तवेला; तत्रैव कुड्यमूलम् निश्रित्य भक्तकृत्यं कर्तुम् आरब्धः; अनाथपिण्डदश् च तेन पथा चैत्याभिवन्दकः संप्रस्थितः; स तेन दृष्ट उक्तश् च: आर्य समन्तप्रासादिके शासने प्रव्रज्य किम् आराटिकां करोषि इति; स कथयति: आयुष्मन् कात्राराटिका, न पश्यसि वेलाम् आसन्नाम् इति; स कथयति: मदीयं गृहं कस्मान् न गतः इति; किं नाम त्वम्; अनाथपिण्डदः; अस्ति मया श्रुतं तेषु (शय्-व् 50) तेषु सूत्रेष्व् अनाथपिण्डदो गृहपतिर् अनाथपिण्डदो गृहपतिर् इति, नाहम् त्वा जाने नापि गृहम्; अनाथपिण्डदो गृहपतिः संलक्षयति: अप्रकृतिज्ञो ऽयं भिक्षुर् दूरागतः, ध्रुवं न मां वेत्ति ःनापि मम गृहम्ः; किम् अत्र प्राप्तकालं भगवन्तम् आलोकयामि यावच् च श्रावस्ती यावच् च जेतवनम् अत्रान्तरात् परिक्रमणकां कारयामि इति विदित्वा येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकान्तनिषण्णो ऽनाथपिण्डदो गृहपतिर् ब्व्हगवन्तम् इदम् अवोचत्: आगन्तुका भदन्त भिक्षव अगोचरकुशला पिण्डपातम् अटन्तः कालातिक्रमतया कुड्यमूलं निश्रित्य भक्तकृत्यं कुर्वन्ति; अश्रद्धा अनेनाङ्गेनार्यकान् ध्वंसयिस्यन्ति; तद् यदि भगवान् अनुजानीयाद् अहं यावच् च श्रावस्ती यावच् च जेतवनं अत्रान्तरात् परिक्रमणकां कारयेयम् इति; यस्य यत्र वेला भविष्यति स तत्र पिण्डपातं परिभोक्ष्यते इति; भगवान् आह: तस्माद्

गृहपते ऽनुजानामि कारय इति; तेन यावच् च श्रावस्ती यावच् च जेतवनम् अत्रान्तरात् परिक्रमणका कारिता; यस्य भिक्षोर् यत्र वेला भवति स तत्र भक्तकृत्यं करोति अपरेषां भिक्षूणां पानीयविघातो भवति; अनाथपिण्डदेन गृहपतिना तत्र कूपः कारितः त्रिकटुकस्य त्रिफलायाश् च शकटभार उत्क्षिप्तः; तत् पानीयं स्वादु संपन्नं सर्वलोकप्रख्यातम्; जनकायः श्रुत्वा आगतः; भिक्षवो वारयन्ति; श्रावस्तीनिवासिनः: आर्या वयं युष्माकं सर्वोपकरणैः प्रत्युपस्थितः, यूयं सर्वलोकसाधारणम् पानीयं वारयथ इति; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; भगवान् आह: न निवारयितव्या इति; मातृग्रामो भिक्षूणां पानीयं याचते; भिक्षवो नानुप्रयच्छन्ति; (अ 330ब्) भगवान् आह: दातव्यम्; उक्तं भगवता: मातृग्रामं समन्तपाशं मारबन्धनम् इति; भिक्षवः पानीयम् अनुप्रयच्छन्तो मातृग्रामे संरज्यन्ते; यावद् अन्यतरा स्त्री रूपयौवनसंपन्ना तरुणकस्य भिक्षोर् अन्तिके ऽत्यर्थम् अवेक्षावती (शय्-व् 50) तत् पानीयं याचते; यो ऽपि तस्याम् अवेक्षावान् प्रतिबन्धचित्तः; निवार्यमाणो ऽप्य् अच्छिन्नधारया ददाति एवं सापि निरीक्षते, पिबति, बत पानीयं विषमम् गतम्, कालगता; अक्पार्था भिक्षवो ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्याम् उत्पत्तौ भगवान् आह: या स्त्रीर् भिक्षोर् अन्तिके अवेक्षावती भवति प्रतिबद्धचित्ता भवति तस्या स्वयं न दातव्यम्; न च मातृग्रामस्य अच्छिन्नया धारया पानीयं दातव्यम्; अन्तरान्तरा वारिधारा च्छेत्तव्या वक्तव्या वा अञ्जलिं पूरयित्वा पिब इति, अन्यथा सातिसारः तेन खलु समयेन ये ऽग्रपिण्डपातं

जेतवने प्रतिपादयन्ति ते तत्रैव दातुम् आरब्धाः; षड्वर्गिकैः श्रुतम्; ते परिक्रमणिकां गत्वावस्थिताः; येन आनीयते अगरपिण्डपातस् तं पृच्छन्ति; यदि पायसो भवति पात्रम् उपनामयन्ति; अथ पानीयपेया भवति, कथयन्ति: महर्धिकः संघः, संघः स महानुभावः, संघायानुप्रयच्छत, एवं खण्डखाद्यकादि योजयितव्यम्; अल्पार्था भिक्षवो ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति; एतत् प्रकरणम् भिक्षवो भगवत आरोचयन्ति; अस्याम् उत्पत्तौ भगवान् आह: न भिक्षुणा परकीये लाभे संनिपतितव्यम्: संनिपतति, सातिसारो भवति; उक्तं भगवता: न भिक्षुणा परकीये लाभे संनिपतितव्यम् इति भिक्षवः केनचित् करणीयेन विहारान्तरं गच्छन्ति; तेषां तत्र गतानां वेला आसन्ना भवति; कौकृत्यान् न परिभुञ्जते; एतत् प्रकरणम् भिक्षवो भगवत आरोचयन्ति; अस्याम् उत्पत्तौ भगवान् आह: संचिन्त्य न गन्तव्यम् अन्यथा गतानां यदि वेला भवति भोक्तव्यम्, नात्र कौक्ट्र्त्यं करणीयम् इति (शय्-व् 52) सकृच्छ्रः कालो वर्तते; भिक्षवो विहारान्तरं गताः; ते तत्र भिक्षून् भुञ्जानां दृष्ट्वा पुनर् आकांक्षन्ते भोक्तुम्; ःकौकृत्यान्ः न परिभुञ्जन्ते; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्याम् उत्पत्तौ भगवान् आह; यन् न गृहीतं पूर्वविहारे तच् चेद् अपरिमितं चार्यते ग्रहीतव्यम्; अथ भिक्षुप्रामाण्यं कृतं भवति न ग्रहीतव्यम्; गृह्णाति, सातिसारो भवति

nefarious doings of the monks aśvaka and punarvasuka

अथ भगवान् काशिषु जनपदेषु चारिकान् चरन् किटागिरिम् अनुप्राप्तः; तेन खलु समयेन किटागिराव् अश्वकपुनर्वसुकौ भिक्षू प्रतिवसतः; ताभ्यां श्रुतं: भगवान् काशिषु जनपदेषु चारिकां चरित्वा इहागमिष्यति सार्धं भिक्षुसंघेन इति; श्रुत्वा च पुनः संलक्षयतः: भिक्षवो ऽस्मान् शास्तुः संनिधौ चोदयिष्यन्ति ःस्मारयिष्यन्तिः अलज्जितेन वा वैतरिकेण वा; यन् नु वयं भगवतो ऽर्थाय महल्लकं विहारं स्थापयित्वा भिक्षून् आरभ्य त्रीन् शयनासनोद्देशकान् कारयेम, षट् शयनासनग्राहकान्; त्रयः शयनासनोद्देशलाः कतमे? हैमन्तिको ग्रैष्मिको (अ 331अ) वर्षिकश् च; षट् शयनासनग्रहकाः कतमे? सर्वो विहार उद्देष्टव्यः, सर्वो विहारसामन्तकः, सर्वः परिगणः, सर्वः परिगणसामन्तकः, सर्व आरामः सर्वः आरामसामन्तकः; यदि कथयन्ति विहारम् उद्दिशतेति वक्तव्या उद्दिष्टो ऽयम्; परिगणम् उद्दिशत एषोद्दिष्टः; विहारसामन्तकम् उद्दिशत एषो ऽप्य् उद्दिष्ट; आरामम् उद्दिशत एषो ऽप्य् उद्दिष्टः; आरामसामन्तकम् उद्दिशत एषो ऽप्य् उद्दिष्टः; ते अलयना अप्रतिष्ठिता नास्मान् चोदयिष्यन्ति स्मारयिष्यन्ति अलज्जितेन वा वैतरिकेण वा; ताभ्यां त्रयः शयनासनोद्देशका कारिताः, षाट् शयनासनग्राहकाः; (शय्-व् 53) यावद् भगवान् किटागिरिम् अनुप्राप्तः; ताभ्यां भगवतः पूर्वकल्पित एव विहारः; भिक्षवः कथयन्ति: आयुष्मन्तौ शयनासनम् उद्दिशतां विहारं च; कथयतः: पूर्वोद्दिष्टको विहारः; परिगणम् उद्दिषत; सो ऽप्य् उद्दिष्टः; विहारसामन्तकम् उद्दिशत; सो ऽप्य् उद्दिष्टः; परिगणसामन्तकम् उद्दिशत; सो ऽप्य् उद्दिष्टकः; आरामम् उद्दिशत; सो ऽप्य् उद्दिष्टकः; आरामसामन्तकम् उद्दिशत; सो ऽप्य्

उद्दिष्टकः; यतस् तौ सर्वावस्थौ नोद्दिशतः ततो ऽन्ते आरामस्योच्चशब्दो महाशब्दो जातः; जानका पृच्छका बुद्धा भगवन्तो जानन्तः पृच्छन्ति, अजानन्तो न पृच्छन्ति; काले पृच्छन्ति; कालातिक्रान्तं न पृच्छन्ति, अर्थोपसंहितं पृच्छन्ति, अनर्थोपसंहितं न पृच्छन्ति, सेतुसमुद्घातो बुद्धानां भगवताम् अनर्थोपसंहितायां पृच्छायां; तत्र कालज्ञा बुद्धा भगवन्तः अर्थोपसंहितायां पृच्छायाम्; पृच्छति बुद्धो भगवान् आयुष्मन्तन् आनन्दम्; किम् एष आनन्द अन्ते आरामस्य उच्चशब्दो महाशब्दो जातः महाजनकायस्य च निर्घोषः? स कथयति: अश्वकपुनर्वसुकाभ्याम् ःभिक्षूभ्यांः भिक्षून् आरभ्या त्रयः शयनासनोद्देशकाः कृताः, षट् शयनासनग्राहकाः; भिक्षवः शयनासनं न लभन्ते; तेनायम् अन्ते आरामस्य उच्चशब्दो महाशब्दो महाजनकायस्य च निर्घोषः; भगवान् आह: कलहकारकान् आनन्द मया भिक्षून् संधाय त्रयः शयनासनोद्देशकाः षट् शयनासनग्राहकाः कृताः, नो ऽत्र प्रकृतिस्थकानाम्; तस्मान् न भिक्षुभिः प्रकृतिस्थकान् भिक्षून् आरभ्य त्रयः शयनासनोद्देशकाः कर्तव्याः षट् शयनासनग्राहकाः; कुर्वन्ति, सातिसारा भवन्ति

the mischief of the six monks again

भगवान् कोशलेषु जनपदेषु चारिकान् चरन् अन्यतरस्मिन् अग्रामके ऽरण्यायतने रात्रिवासम् उपगतः सार्धं भिक्षुसंघेन; षड्वर्गिकैर् भगवतो ऽर्थाय एकं शोभनवृक्षं स्थापयित्वा (शय्-व् 54) अन्ये शोभनवृक्षा आत्मना गृहीताः; स्थविरस्थविराणां भिक्षूणां कोटरवृक्षा प्राप्ताः; राज्ञा प्रसेनजिता कोशलेन श्रुतम्; स चतुरङ्गेन बलकायेन प्रत्युद्गतः; स भगवतः पादाभिवन्दनं कृत्वा स्थविरस्थविरान् पर्येषते; यावत् पश्यति षड्वर्गिकान् शोभनेषु वृक्षेस्व् अवस्थापितान्; स्थविरस्थविरान् कोटरवृक्षेषु; स हुम् इति कृत्वा येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः; एकान्तनिषण्णो राजा प्रसेनजित् कोशलो (अ 331ब्) भगवन्तम् इदम् अवोचत्: अहम् अस्मि भदन्त राजा क्षत्रियो मूर्धाभिषिक्तः प्रभुः सर्वविषयोद्भवानां रत्नानाम्; सर्वं प्रणीतवस्तु तन् मम; ःयद्ः अवशिष्टम् यथार्हं तद् देवीनां कुमाराणाम् अमात्यानाम् बटबलाग्रस्य; भगवान् अप्य् उत्तरो धर्मराजा, आर्यकौण्डिन्यशारिपुत्रमौद्गल्यायनकाश्यपरेवतप्रभृतयो महाश्रावका कोटरवृक्षेष्व् अवस्थिताः; षड्वर्गिकास् तु शोभनवृक्षेषु; अहो बत भगवान् वृक्षान् अपि यथावृद्धिकया प्रज्ञपयेद् अनुकम्पाम् आदाय इति; अधिवासयति भगवान् राज्ञः प्रसेनजितः कोशलस्य तूष्णींभावेन; अथ राजा प्रसेनजित् कोशलो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा उत्थायास्नात् प्रक्रान्तः; अस्याम् उत्पत्तौ भगवान् आह: तस्मात् तर्हि भिक्षवो वृक्षा अपि यथावृद्धिकया उद्देष्टव्या स्थण्डिलान्य् अपि शाद्वलान्य् अपि इति; उक्तं भगवता: वृक्षा अपि यथावृद्धिकया उद्देष्टव्या

स्थण्डिलानि शाद्वलान्य् अपि इति भिक्षवः स्वयम् एवोद्दिशन्ति; भगवान् आह: विहारोद्देशको भिक्षुः संमन्तव्यः; भिक्षवो ऽविशेषेण संमन्यन्ते; भगवान् आह: पञ्चभिर् धर्मैः समन्वागतो विहारोद्देशको भिक्षुर् असंमतो न संमन्तव्यः, संमतश् चावकाशयितव्यः; कतमैः पञ्चभिः? छन्दाद् गच्छति द्वेषान् मोहाद् भयाद् गच्छति उद्दिष्टानुद्दिष्टविहारं न जानाति; एभिः पञ्चभिर् धर्मैः समन्वागतः विहारोद्देशको ऽसंमतो न संमन्तव्यः, संमतश् चावकाशयितव्यः; (शय्-व् 54) पञ्चभिस् तु धर्मैः समन्वागतो विहारोद्देशकः असंमतः संमन्तव्यः, संमतश् च नावकाशयितव्यः; कतमैः पञ्चभिः? न छन्दाद् गच्छति न द्वेषान् न भयान् न मोहाद् गच्छति उद्दिष्टानुधिष्टं च जानाति; एभिः पञ्चभिर् धर्मैः समन्वागतो विहारोद्देशकः असंमतश् च संमन्तव्यः, संमतश् च नावकाशयितव्यः एवं च पुनः संमन्तव्यः: शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्ठवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते पूर्ववद् यावद् उत्साहयितव्यः; उत्सहसे त्वम् एवंनामा संघस्य विहारान् उद्देष्टुम् इति; सचेद् उत्सहते ःतेन वक्तव्यम् उत्सहे इति; ततः पश्चाद्ः एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्; शृणोतु भदन्ताः संघः, अयं एवंनामा विहारोद्देशको भिक्षुर् उत्सहते संघस्य विहारान् उद्देष्टुम्; सचेत् संघस्य प्राप्तकालं क्षमेत, अनुजानीयट् संघो यत् संघ एवंनामानं विहारोद्देशकम् संमन्येत इत्य् एषा ज्ञाप्तिः; कर्म कर्तव्यम्; शृणोतु भदन्ताः संघः, अयम् एवंनामा विहारोद्देशको भिक्षुः उत्सहते संघस्य विहारान् उद्देष्टुम् तत् संघ एवंनामानं विहारोद्देशकं

भिक्षुं संमन्यते; येषाम् आयुष्मताम् क्षमते एवंनामानं विहारोद्देशकं भिक्षुं संमन्तुम् तेत् तूष्णीम्; न क्षमते, भाषन्ता; संमतः संघेन एवंनामा विहारोद्देशको भिक्षुः; क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम्; एवम् एतद् धारयामि; यथा विहारोद्देशकः एवं भक्तोद्देशकः यवागूचारदः खाद्यकभाजकः यत्किंचिच्चारकः भाण्डगोपकः चीवरगोपकः ःचीवरभाजकःः वर्षाशाटिगोपकः वर्षाशाटीभाजकः प्रेषकः; पञ्चभिर् (शय्-व् 56) धर्मैः समन्वागतः प्रासादवारिको भिक्षुर् असंमतो न संमन्तव्यः, ःसंम्न्तश् चावकाशयितव्यःः; कतमैः पञ्चभिः? छन्दाद् गच्छति द्वेषान् मोहाद् भयाद् गच्छति, प्रासादिकाप्रासादिकं च न जानाती; पञ्चभिस् तु धर्मैः समन्वागतः प्रासादवारिको भिक्षुर् असंमत संमन्तव्यः, संमतश् चानवकाशयितव्यः; कतमैः पञ्चभिः? न छन्दाद् गच्छति, न द्वेषान् न मोहान् न भयाद् गच्छति प्रासादिकाप्रासादिकं च जानाति

उद्दानम् विहारभक्तोद्देशको यवागूखाद्यकेन च / यत्किंचिद् भण्डगोपकश् चीवरद्वयम् एव च //

वर्षाशाटी च गोपश् च भाजकः प्रेषकस् तथा / प्रासादवारिकश् चैव पुद्गला द्वाद्श स्मृताः //

शयनासनवस्तु समाप्तम्

index of the english titles in the śayanāsanavastu: old monks are entitled to veneration old house-holders, etc., are not entitled to veneration4 the story of the francoline, the hare, the monkey and the elephant the buddha eulogises the order by age the institution of vihāras the story of anāthapiṇḍada: his birth and wonders anāthapiṇḍada invites the buddha anāthapiṇḍada invites the buddha to śrāvastī śāriputra leaves for śrāvasti obstruction by tīrthyas tīthyas and śāriputra contest defeat of the tīthyas conversion of the tīthyas construction of the vihāras messenger to buddha buddha arrives to śrāvastī effects felt following buddha's arrival the jetavana previous births of anāthapiṇḍada at the time of the seven buddhas anāthapiṇḍada has the power to see absconded treasures, no matter whether close or far away the story of the pratyekabuddha (concerning a previous life of anāthapiṇḍada) disciplinary presciptions upananda's misdemeanours the story of the dog which was too greedy (being a previous birth of upananda) precautions to take against quarrelsome monks the care fo the sick monks and upananda's mischief again the various blessings of the men who master the vinaya: the six pentads upāli is the foremost amidst them who master and know the vinaya. the teaching of the vinaya. the teaching of the vinaya the mischief of the six monks disciplinary presciptions nefarious doings of the monks aśvaka and punarvasuka the mischief of the six monks again

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.