Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
अभिधर्मसमुच्चयभाष्य
- Thông tin
- GRETIL — N. Tatia: Abhidharmasamuccayabhāṣyam. Patna 1976 (Tibetan Sanskrit Works Series, 17).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
सर्वं हि मार्गसत्यं चतुर्भिः प्रकारैरनुगन्तव्यम् - व्यवस्थानतो विकल्पनतो ऽनुभवतः परिपूरितश्च / तत्र व्यवस्थानत, यथास्वमधिगमनिष्ठाप्राप्ता श्रावकादयस्तत्पृष्ठलब्धेन ज्ञानेन परेषां प्रापणनिमित्तं नामपदव्यञ्जनकायैः मार्गसत्यं व्यवस्थापयन्ति, इत्यपि सत्येषु क्षान्तयो ज्ञानानी त्येवमादि / विकल्पनतः, अभिसमयप्रयुक्ता लौकिकेन यथाव्यवस्थानं विकल्पयतो यदभ्यस्य न्ति / अनुभवतः, तथाभ्यस्यन्तो यामादितो (अभिध्-स्-भ् 78) दर्शनमार्गाख्यां लोकोत्तरां निष्प्रपञ्चावस्थां प्रत्यात्ममनुभवन्ति परिपूरितः तदूर्ध्व यामाश्रयपरिवृत्तिं परिपूर्य [या]वदधिगमनिष्ठां प्राप्नुवन्ति / ते पुनरधिगमनिष्ठाप्राप्तास्तत्पृष्ठलब्धेन ज्ञानेन मार्गसत्यं व्यवस्थापयन्ति / इत्येवमादि तच्च[तु]राकारं मार्गचक्रं पुनः पुनरन्योन्याश्रयेण प्रवर्तत इति वेदितव्यम् //
यदुक्तं विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पद्यत इति तद्दर्शनमार्गमधिकृत्योक्तम्, तत्प्रथमतः सत्येष्वार्यप्रज्ञाचक्षुःस्वभावत्वात् / तत्र धर्मक्षान्तिभिर्विरजः, ताभिः क्लेशरजःप्रहाणात् / धर्मज्ञानैर्विगतमलम्, तेषां प्रहाणतदावरणमलाश्रयोत्पादात् / पुनरनयोरेव क्षान्तिज्ञानावस्थयोर्यथाक्रमं परिज्ञया प्रहाणेन च मार्गस्य विशुद्धतामधिकृत्य विरजो विगतमलं वेदितव्यम् //
दृष्टेत्येवमाद्यापि दर्शनमार्गमेवाधिकृत्य वेदितव्यम्, विनेयानां सत्याभिसमयानन्तरं वचनात् / तत्र धर्मक्षान्तिभिर्दृष्टधर्माः, ताभिस्तत्त्वप्रतिवेधात् / धर्मज्ञानैः प्राप्तधर्माः, तैराश्रयपरिवृत्तिसाक्षात्करणात् / अन्वयक्षान्तिभिर्विदितधर्माः, ताभिरार्यधर्मान्वय एष इति तदुभयसंवेदनात् / अन्वयज्ञानैः पर्यवगाढधर्माः, तैर्यावज्ज्ञेयं परिसमापनात् / सर्वैस्तीर्णकांक्षः सर्वैः क्षान्तिज्ञानैः, लोकोत्तरेण मार्गेण फलाधिगमे सति दीर्घरात्रमभिकांक्षिते स्वाधिगमे ऽसंदेहात् / तीर्णविचिकित्सः परिधिगमे सर्वैरिति वर्तते, पराधिगमे तदवस्थस्यान्येषामपि विशेषाधिगमं प्रति विमत्यभावात् / अपरप्रत्ययो मार्गभावनायां परोपदेशमन्तरेणापि स्वयंकुशलत्वात् / अनन्यनेयो ऽवेत्य प्रसादप्रतिलभेन शास्तुः शासने ऽन्यतीर्थ्यैर्जन्मान्तरे ऽप्यहार्यत्वात् / धर्मेषु वैशारद्यप्राप्तो ऽधिगममारभ्य परिप्रश्नधर्मेषु पापेच्छाभिमानिकवदवलीनचित्तताभावात् //
भावनामार्गो लौकिको मार्गः / तत्र लौकिको मार्गो ध्याना[न्या]रूप्याश्च / (अभिध्-स्-भ् 79) ते पुनर्ध्यानारूप्याः संक्लेशतो व्यवदानतो व्यवस्थानतो विशुद्धितश्च वेदितव्याः //
कथं संक्लेशतः / चत्वार्यव्याकृतमूलानि तृष्णा दृष्टिर्मानो ऽविद्या च, तैः संक्लिष्टचित्तानां क्लिष्टध्यानमुखेन रूपारूप्यावचरसर्वनिवृताव्याकृतक्लेशोपक्लेशावर्तनात् / तत्र तृष्णयास्वादसंक्लेशेन संक्लिश्यते, प्रस्रब्धिसुखास्वादात् / दृष्ट्या दृष्ट्युत्तरध्यायितया संक्लिश्यते, ध्यानं निश्चित्य पूर्वान्तकल्पादिदृष्टिसमुत्थापनात् / मानेन मानोत्तर ध्यायितया संक्लिश्यते, तेन विशेषाधिगमेनोन्नतिगमनात् / अविद्यया विचिकित्सोत्तरध्यायितया संक्लिश्यते, तत्त्वा प्रतिवेधेन मोक्षकामस्य तस्मिन्विशेषाधिगमे मोक्षो न मोक्ष इति विचिकित्सोत्पादनात् //
कथं व्यवदानतः / शुद्धका ध्यानारूप्या लौकिका अपि कुशलत्वात्पर्यवस्थानमलापगतत्वेन व्यवदाता इत्युच्यन्ते //
कथं व्यवस्थानतः / ध्यानानां तावच्चतुर्धा व्यवस्थानम्, अङ्गसमापत्तिमात्रासंज्ञाकरणभेदात् / आरूप्याणां त्रिधाङ्गवर्जैः //
किं पुनरधिकृत्य ध्यानेषु / वितर्कादय एवाङ्गत्वेन व्यवस्थापिताः सत्स्वन्येषु धर्मेषु / तावद्भिः प्रतिपक्षानुशंसतदुभयाश्रयाङ्गपरिसमाप्तेः / प्रथमे तावद्ध्याने वितर्को विचारश्च प्रतिपक्षाङ्गम्, ताभ्यां कामव्यापादविहिंसावितर्कादिप्रहाणात् / प्रीतिः सुखं चानुशंसाङ्गम्, वितर्कविचाराभ्यां प्रतिपक्षिते विपक्षे तद्विवेकजप्रीतिसुखलाभात् / चित्तैकाग्रता तदुभयनिश्रयाङ्गम्, समाधिसंनिश्रयबलेन वितर्कादिप्रवृत्तेरिति / तथा द्वितीये ध्याने ऽध्यात्मसंप्रसादः प्रतिपक्षाङ्गम्, तेन वितर्कविचारप्रतिपक्षणात् / प्रीतिसुखे चित्तैकाग्रता च शेषे अङ्गे पूर्ववत् / तृतीये ध्याने उपेक्षा स्मृतिः संप्रजन्यश्च प्रतिपक्षाङ्गम्, तैः प्रीतिप्रतिपक्षणात् / सुखं चित्तैकाग्रता च शेषे अङ्गे (अभिध्-स्-भ् 80) यथाक्रमम् / चतुर्थे ध्याने उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिश्च प्रतिपक्षाङ्गम्, ताभ्यां सुखप्रतिपक्षणात् / अदुःखासुखा वेदनानुशंसाङ्गम् / चित्तैकाग्रता तदुभयाङ्गमिति //
कथं पुनः प्रथमं ध्यानं समापद्यमानस्य सप्त मनस्कारा भवन्ति / येन समाहितभूमिकेन मनस्कारेण कमेष्वादीनवादिदर्शनेनौदारिकलक्षणं प्रतिसवेदयते / तदभावाच्च प्रथमध्याने शान्तलक्षणम् / अयमुच्यते लक्षणप्रतिसंवेदनीय मनस्कारः, स च श्रुतचिन्ताव्यवकीर्णो वेदितव्यः / तदूर्ध्व श्रुतं चिन्तां चातिक्रम्यैकान्तेन भावनाकारेण तदौदारिकशान्तलक्षणनिमित्तालंबनां शमथविपश्यनां भावयन् पुनः पुनर्यथापर्येषितामौदारिकशान्ततामधिमुच्यते इत्ययमधिमोक्षिकः / तदभ्यासात्तत्प्रथमतः प्रहाणमार्गसहगतो मनस्कारः प्राविवेक्यः, तेनाधिमात्रक्लेशप्रकारप्रहाणात्तत्पक्षदौष्ठुल्यापगमाच्च / स योगी तदूर्ध्व प्रहाणारामो भवति प्रहाणे ऽनुशंसदर्शी परीत्तप्रविवेकप्रीतिसुखसंस्पृष्टः कालेन कालं प्रसदनीयेन मनस्कारेण संप्रहर्षयति यावदेव स्त्यानमिद्धौद्धत्योपशमाय / अयं रतिसंग्राहकः / तस्यैवं सम्यक्प्रयुक्तस्य कुशलपक्षप्रयोगोपस्तब्धत्वात् कामावचरक्लेशपर्यवस्थानासमुदाचारे सति तत्प्रहीणाप्रहीणतावगमार्थ तदुत्पत्त्यनुकूलशुभनिमित्तमनस्कारेण प्रत्यवेक्षणं मीमांसामनस्कारः / तस्यैवं मीमांसाप्रतिपक्षं भावयतः तावत्कालिकयोगेन सर्वकामावचरक्लेशविसंयोगाय प्रथमध्यानप्रयोगपर्यवसानगतः प्रतिपक्षमनस्कारः प्रयोगनिष्ठः / तदनन्तरं मौलप्रथमध्यानसहगतः प्रयोगनिष्ठाफल इति / तत्र लक्षणप्रतिसवेदिना प्रहातव्यं प्राप्तव्यं च सम्यक्परिज्ञाय प्रहाणाय प्राप्तये च चित्तं प्रणिघत्ते / आधिमोक्षिकेन तदर्थ सम्यक्प्रयोगमारभते / प्राविवेक्येनाधिमात्रान् क्लेशान् जहाति /
रतिसंग्राहकेण मध्यं क्लेशप्रकारं जहाति / मीमांसकेन प्राप्तिनिरभिमानतायां चित्तमवस्थापयति / प्रयोगनिष्ठेन मृदुं क्लेशप्रकारं जहाति / प्रयोगनिष्ठाफलेन एषां मनस्काराणां सुभावितानां भावनाफलं प्रत्यनुभवति / यथा प्रथमध्यानसमापत्तये सप्त मनस्कारा एवं यावन्नैवसंज्ञानासंज्ञायतनसमापत्तये यथायोगं योजयितव्याः / औदारिकलक्षणं पुनः सर्वास्वधोभूमिषु यावदाकिंचन्यायतनात् समासेन द्विविधं वेदितव्यम् - दुःखतरविहारिताप्रशान्तविहारितया, अल्पायुस्कतरता च तद्विपर्ययेणोर्ध्वभूमेः शान्तलक्षणं वेदितव्यम् //
मात्राव्यवस्थानं ध्यानानां तावन्मृदुमध्याधिमात्रपरिभावितत्वात् / प्रत्येकं त्रिधा ध्यानोपपत्तिः फलं भवति / तद्यथा ब्रह्मकायिका ब्रह्मपुरोहिता महाब्रह्माणं इत्येवमादि यथापूर्वमुक्तम् / आरूप्येषु तु विमानस्थानान्तरसंनिवेशासंभवादेवमुपपत्ति भेदो न व्यवस्थाप्यते / अपि तु तेषामप्यस्ति मृद्वादिपरिभावितानामुपपत्तावुच्चनीचता आयुरादिविशेषेण, हीनप्रणीतता च क्लिष्टाक्लिष्टताबाहुल्यविशेषेणेति //
संज्ञाकरणव्यवस्थानं चतुर्थध्यानप्रभेदानां समाधीनामसंख्येयान्यचिन्त्यानि च नामानि / तथाहि यावतः प्रथमध्यानसंगृहीतान् समाधीन् बुद्धा भगवन्तो बोधिसत्त्वाश्च महाप्रभावप्राप्ताः समापद्यन्ते, तेषां समाधीनां श्रावकाः प्रत्येकबुद्धाश्च नामान्यपि न जानन्ति / कुतश्चैषां संख्यां ज्ञास्यन्ति समापत्स्यन्ते वा / यथा निर्दिष्टं प्रज्ञापारमितायाम् - "साधितं समाधिशतम्" / एवमन्येष्वपि तेषु तेषु महायानसूत्रेष्विति //
कथं विशुद्धितः / प्रान्तकोटिका ध्यानारूप्या विशुद्धिरित्युच्यते, वैशेषिकगुणाभिनिर्हाराय निकामला[भा]दिभिः कर्मण्यताप्रकर्षनयनात् //
लोकोत्तरमार्गो भावनामार्गे ऽष्टौ दुःखा[दिधर्मा]न्वयज्ञानानि यथा दर्शनमार्गे निर्दिष्टानि / तत्संप्रयुक्तश्च समाधिरनागम्यसंगृहीतः प्रथमं ध्यानं यावदाकिंचन्यायतनम् / नैवसंज्ञानासंज्ञायतनमपरिस्फुटं संज्ञाप्रचारतया परमपटुप्रचारस्यार्यमार्गस्यासंनिःश्रयत्वादेकान्तेन लौकिकं वेदितव्यम् / अत एव च तत्संज्ञामान्द्यादालम्बनानिमित्तीकरणार्थेनानिमित्तमित्युच्यते / कुतः पुनरेतत् ज्ञायते नैवसंज्ञानासंज्ञायतने आर्यमार्गो नास्तीति / यस्मादुक्तं भगवता "यावदेव संज्ञासमापत्तिस्तावदाज्ञाप्रतिवेध" इति / निरोधसमापत्तिर्लोकोत्तरा, आर्यमार्गपृष्ठलभ्यत्वात् / मनुष्येष्वभि[नि]र्ह्रियते उत्पाद्यत आदित इत्यर्थः, पूर्वोत्पादितायाः पश्चात्संमुखोभावो मनुष्येषु वा तस्मिन्नेव जन्मनि रूपधातौ वा उपपद्य / कथमारूप्यलाभिनो रूपधातुवीतरागस्यार्यश्रावकस्य रूपधातावुपपतिः / नावश्यं रूपधातुवीतराग एवारूप्यं समापद्यते / अत एवात्र चतुष्कोटिकं भवति - यो रूपवीतरागः सर्वः स आरूप्यशान्तविमोक्षसमापत्ता, यो (अभिध्-स्-भ् 82) वा आरूप्यशान्तविमोक्षसमापत्ता सर्वः स रूपवीतराग इति / प्रथमा कोटिः - अनागम्यं निश्रित्य रूपवीतरागः / द्वितीया कोटिः - चतुर्थध्यानलाभी आर्य आर्योपपत्त्यानर्थी प्रहाणमार्गं निराकृत्य विशेषमार्गं निश्रित्यारूप्यशान्तविमोक्षसमापत्ता / तृतीया कोटिः - स एव वैराग्यार्थी प्रहाणमार्गं निश्रित्यारूप्यशान्तविमोक्षसमापत्ता / चतुर्थी - एतानाकारान् स्थापयित्वा / आरूप्ये षूपपन्नानां कस्मान्न संमुखीभवति / शान्तेन विहारेण विहर्तुकामा आर्या मनुष्येष्वेनामभिनिर्हृत्य संमुखीकुर्वन्ति / आरूप्येषु तूपपन्नास्ते ऽप्रयत्नेनैव वैपाकिकैः परमशान्तैः विमोक्षविहारैर्विहरन्तीत्यतस्तत्संमुखीकरणार्थं न पुनः प्रयत्नमारभन्त इति //
मृदुमध्याधिमात्रो मार्गः प्रत्येकं पुनः मृद्वादिभिस्त्रिभिः प्रकारैर्भित्त्वा नवप्रकारो व्यवस्थाप्यते, भावना हेयानां क्रमेण प्रहाणज्ञापनार्थम् / किं पुनः कारणं मृदुमृदुना मार्गेणाधिमात्रः क्लेशः प्रहीयते / स ह्यत्यर्थः विपन्नह्रीव्यपन्नाप्यालज्जिनः संताने समुदाचरति सूपलक्षश्चासौ सुपरिच्छेदस्तस्मादसौ स्थूलमलवदल्पेनापि प्रतिपक्षेणापनीयते / यस्त्वयं दुष्परिच्छेदसमुदाचारः सूक्ष्मलीनः संताने मृदुमृदुक्लेशः सूक्ष्ममलवन्महता प्रतिपक्षबलेनापनीयत इत्यदो विपक्षप्रकारविपर्ययेण प्रतिपक्षप्रकारव्यवस्थानं वेदितव्यम् //
प्रयोगमार्गो येन मार्गेण भाव्यमानेन प्रत्येकमधिमात्राधिमात्रादिक्लेशप्रकारादिजातिपक्षस्य दौष्ठुल्याङ्गस्यापगमात्क्रमेणाश्रयः परिवर्तते स भावनामार्गे प्रयोगमार्गे इत्युच्यते //
यस्य त्वनन्तरं तत्प्रकारक्लेशजातितत्पक्षदौष्ठुल्यावशेषापगमात्तेन दौष्ठुल्येन निर्दौठुल्य आश्रयः परिवर्तते स आनन्तर्यमार्गः //
विमुक्तिमार्गो येन नामाश्रयपरिवृत्ति प्रत्यात्म[म]नुभवति /
विशेषमार्गस्तदूर्ध्वावशेषक्लेशप्रहाणं कुर्वतो ये प्रयोगानन्तर्यविमुक्तिमार्गाः / अपरः पर्याय ऽविशेषमार्गस्तस्य क्लेशप्रहाणप्रयोगमध्युपेक्ष्य सूत्रादीन् धर्माश्चिन्तयतः, पूर्वचिन्तिताधिगतधर्मप्रत्यवेक्षणाविहारेण वा विहरतः समापत्त्यन्तरं वा समापद्यमानस्य यो मार्गः / पुनरभिज्ञादीन् वैशेषिकान् गुणानभिनिर्हरतस्तैर्वा विहरतो यो मार्गः //
इत्येवं भावनामार्ग विस्तरेण निर्दिश्य तदनुषंगेण मार्गभावना वर्ण्यते /
चतुर्विधा मार्गभावना सम्यक् प्रहाणानधिकृत्य यथायोगम् / तत्र प्रतिलम्भाय भावना प्रतिलम्भभावना, तयालब्धकुशलधर्मप्रतिलम्भात् / निषेवणमेव भावना निषेवणभावना, लब्धकुशलधर्माभ्यसनात् / निर्धावनाय भावना निर्धावनभावना, समुदाचारावस्थाकुशलधर्मनिर्वासनात् / प्रतिपक्षस्य भावना प्रतिपक्षभावना, अनागताकुशलधर्मानुत्पत्तिधर्मतापादनात् //
अपरः पर्यायः - मार्ग उत्पद्यमानः स्वां वासनां स्थापयति[सा]धासना प्रतिलम्भभावना, ततस्तदन्वयानामुत्तप्ततरापत्तेः / अस्यैव मार्गस्य संमुखीभावो ऽभिनिषेवणभावना / तेन स्वविपक्षदौष्ठुल्यनिरोधनान्निर्धावनभावना / आश्रयस्य परिवृत्तत्वादायत्यामनुत्पत्तिधर्मतायामवस्थापनं प्रतिपक्षभावना / पुनः प्रतिपक्षस्य विदूषणादिकः चतुर्विधः प्रभेदो वेदितव्यः / तत्र विदूषणाप्रतिपक्षः सास्रवेषु संस्कारेष्वादीनवदर्शनम्, तेन रोगगण्डादिभिराकारैरुपादानस्कन्धदूषणात् / प्रहाणप्रतिपक्षः प्रयोगानन्तर्यमार्गाः, तैः क्लेशप्रहाणात् / आधारप्रतिपक्षो विमुक्तिमार्गाः, तैः प्रहाणप्राप्तिसंधारणात् / दूरीभावप्रतिपक्षस्तदुपरिमो मार्गः, तेन पूर्वप्रहीणक्लेशदूरीकरणात् //
पुनर्बोधिपक्ष्यादिभेदेनैकादशविधो मार्गो व्यवस्थाप्यते / तद्यथा वस्तुपरीक्षामार्गः स्मृत्युपस्थानानि, आदितस्तेनाशुभादिभिराकारैः कायवेदनाचित्तधर्मवस्तुपरीक्षणात् / (अभिध्-स्-भ् 84) व्यावसायिको मार्गः सम्यक्प्रहाणानि, तथा सर्वाणि वस्तूनि परीक्ष्यानेनावरणप्रहाणाय वीर्यारम्भात् / समाधिपरिकर्ममार्ग ऋद्धिपादाः, तथापरिशोधितावरणस्यानेन छन्दवीर्यचित्तमीमांसामुखैः समाधेः कर्मण्यतापादनात् / अभिसमयप्रयोगिको मार्ग इन्द्रियाणि, तथाकृतसमाधिपरिकर्मणो ऽनेनार्यमार्गसमुदागमायाधिपतिभूतोष्मगतोर्ध्वप्रयोगात् / अभिसमयश्लिष्टो मार्गो बलानि, तथाधिपत्यप्राप्तस्यानेना[न]न्तरं सत्यप्रतिवेधायाश्रद्धादिविपक्षानभिभूतक्षान्त्यग्रधर्मप्रयोगात् / अभिसमयमार्गो बोध्यङ्गानि, तेनादितः प्रत्यात्मं तत्त्वाभिसंबोधात् / विशुद्धिनैर्याणिको मार्ग आर्याष्टाङ्गो मार्गः, तदूर्ध्वं तेन भावनाप्रहातव्यक्लेशप्रहाणाय विशुद्धये निर्याणादिति / अत एवैषां बोधिपक्षाणामेवानुपूर्वी वेदितव्या / निश्रयेन्द्रियभिन्नो मार्गः चतस्रः प्रतिपदः / तत्र दुःखा प्रतिपदनागम्यारूप्यनिश्रिता यथाक्रमं शमथविपश्यनामान्द्यात् / सुखा ध्याननिश्रिता युगनद्धवाहित्वात् / धन्धाभिज्ञा द्वयोरप्यनयोर्दुःखसुखनिश्रययोर्मृद्विन्द्रियाणाम् / क्षिप्राभिज्ञा तयोरेव तीक्ष्णेन्द्रियाणामिति / शिक्षा त्रयपरिशोधनो मार्गः चत्वारि धर्मपदानि / तत्रानभिध्याव्यापादमधिशीलं शिक्षायाः परिशोधनम्, अननुनयाप्रतिघमुखेन शिक्षापदाखण्डनात् / सम्यक्स्मृत्याधिचित्तं शिक्षायाः परिशोधनम्, आलंबनासंमोषे सति चित्तसमाधानात् / सम्यक्समाधिनाधिप्रज्ञं शिक्षायाः परिशोधनम्, समाहितचित्तस्य यथाभूतज्ञानादिति // सर्वगुणाभिनिर्हारको यो मार्गः शमथविपश्यना, ततः सर्वलौकिकलोकोत्तरगुणाभिनिष्पत्तेः / मार्गसंग्रहमार्गस्त्रीणीन्द्रियाणी, तत्रानाज्ञातमाज्ञास्यामीन्द्रियेण प्रयोगदर्शनमार्गयोः संग्रहः, आज्ञेन्द्रियेण भावनामार्गस्य, आज्ञातावीन्द्रियेण निष्ठामार्गस्येति //
पुनर्बोधिपक्ष्याणां धर्माणां पञ्चभिः प्रकारैः व्यवस्थानं वेदितव्यम् - आलम्बनतः स्वभावतः सहायतो भावनातो भावनाफलतश्च //
तत्र स्मृत्युपस्थानानामालंबनं यथाक्रमं कायो वेदना चित्तं धर्माः / किमर्थ पुनरेतदेवमालंबनं व्यवस्थाप्यते / यस्माद्विपर्यस्तबुद्धयो (अभिध्-स्-भ् 85) बालाः प्रायेण सेन्द्रियं कायमाश्रित्य सुखादिमुपभुञ्जाना उपलब्धलक्षणा आत्मरागादिभिः श्रद्धादिभिश्च संक्लिश्यन्ते व्यवदायन्ते चेति विकल्पयन्त्यत आदितः सम्यक्तद्वस्तुलक्षणपरीक्षार्थमेवं चतुर्धालम्बनव्यवस्थानं वेदितव्यम् //
स्वभावतः प्रज्ञा स्मृतिश्च, कायाद्यनुपश्यनावचनात् स्मृत्युपस्थानवचनाच्च यथाक्रमम् //
सहायतस्ताभ्यां संप्रयुक्ताश्चितचैतसिकाः //
भावनाध्यात्मं बहिर्धाध्यात्मबहिर्धा च कायादिषु कायाद्यनुपश्यना //
तत्राध्यात्मं कायश्चक्षुश्रोत्रघ्राणजिह्वाकायेन्द्रियाणि, आध्यात्मिकायतनसंगृहीतत्वात्सत्त्वसंख्यातत्वाच्च / बहिर्धा कायो बहिर्धारूपशब्दगन्धरसस्प्रष्टव्यानि, बाह्यायतनसंगृहीतत्वादसत्त्वसंख्यातत्वाच्च / अध्यात्मबहिर्धा कायश्चक्षुराद्यायतनसंबद्धानि रूपादीन्यायतनानीन्द्रियाधिष्ठानभूतानि, सत्त्वसंख्यातत्वाद्वाह्यायतनसंगृहीतत्वाच्च / पारसंतानिकानि चाध्यात्मिकानि रूपीण्यायतनान्यध्यात्मबहिर्धा कायः, आयतनव्यवस्थां संतानव्यवस्थां च प्रमाणयित्वा //
काये कायस्य सादृश्येन पश्यना काये कायानुपश्यना, विकल्पप्रतिबिम्बकायदर्शनानुसारेण प्रकृतिबिम्बकायावधारणात् //
अध्यात्मं वेदनादयो ऽध्यात्मं कायमुपादायोत्पन्नाः चक्षुराद्यालंबनतया स्वाश्रयोत्पन्ननतया वा / बहिर्धा वेदनादयो बहिर्धा कायमुपादायोत्पन्नाः, रूपाद्यालम्बनतया पराश्रयोत्पन्नतया वा / अध्यात्मबहिर्धा वेदनादयो ध्यात्मबहिर्धाकायमुपादायोत्पन्नाः, स्वसन्तानिकबाह्या[यतना]लम्बनतया पारसंतानिकाध्यात्मिकायतनालंबनतया वा //
चेतसो लीनत्वं विशेषाधिगमप्रत्यात्मपरिभवमुखैः विषादः / परिस्रवपरिखेदो दंशमशकाद्युपद्रवोत्पीडनासहनम् / अल्पमात्रसंतुष्टिः अलं मे तावता कुशलपक्षेणेति प्रतिवारणम् / आपत्तिविप्रतिसारो (अभिध्-स्-भ् 86) ऽभिक्रमप्रतिक्रमादिष्वसंप्रज्ञानचारिणः शिक्षाव्यतिक्रमपूर्वः पश्चात्तापः / निक्षिप्तधुरता प्रमाददोषेण यथारम्भं कुशलपक्षप्रयोगान्तानिर्वाह इति //
फलं यथाक्रमं स्मृत्युपस्थानानां शुचिसुखनित्यात्मविपर्यासप्रहरणम्, अशु[भ]भावना[तः], यत्किंचित् वेदितमिदमत्र दुःखस्येति ज्ञानात्, आश्रयालंबनादिभेदैः प्रतिक्षणं विज्ञानस्यान्यथावगमात्, निर्व्यापारसंक्लेशब्यवदानधर्ममात्रपरीक्षणाच्चेति //
पुनरेषां यथाक्रमं चतुःसत्यावतारः फलम् / कायस्मृत्युपस्थानेन दुःखसत्यमवतरति, संस्कारदुःखतालक्षणेन दौष्ठुल्येन प्रभावितत्वात् कायस्य / तथाहि तत्प्रतिपक्षभूता प्रस्रब्धिः काय एव विशेषेणोत्पद्यत इति / वेदनास्मृत्युपस्थानेन समुदयसत्यमवतरति, सुखादिवेदनाधिष्ठानत्वात् संयोगादितृष्णायाः / चित्तस्मृत्युपस्थानेन निरोधसत्यमवतरति, निरात्मकं विज्ञानमात्रं न भविष्यतीति पश्यत आत्मोच्छेदाशङ्कामुखेन निर्वाणोत्त्रासाभावात् / धर्मस्मृत्युपस्थानेन मार्गसत्यमवतरति, विपक्षधर्मप्रहाणाय प्रतिपक्षधर्मभावनादिति / पुनरेषां कायवेदनाचित्तधर्मविसंयोगः फलं यथाक्रमं वेदितव्यम्, तद्भावनया कायादिपक्षदौष्ठुल्यापगमादिति //
सम्यक्प्रहाणानां प्रथमस्यानुत्पन्नो विपक्ष आलंबनम्, तेनानुत्पन्नपापकाकुशलधर्मानुत्पादाय छन्दजननात् / द्वितीयस्योत्पन्नो विपक्षः / तृतीयस्यानुत्पन्नः प्रतिपक्षः / चतुर्थस्योत्पन्न आलंबनमिति यथासूत्रं योजयितव्यम् /
छन्दं जनयतीत्येवमादिभिः साश्रया वीर्यभावना परिदीपिता / अत्राश्रयश्छन्दः, तत्पूर्वकत्वादुद्योगस्य / यदा शमथादिनिमित्तमनस्कारेण निरपेक्षालंबनं केवलं प्रतिपक्षं भावयति तदा व्यायच्च्झत इत्युच्यते / यदा तुलयोपक्लेशे उत्पन्ने तदपकर्षणार्थ प्रसदनीयादिमनस्कारैः चित्तमुन्नामयति, (अभिध्-स्-भ् 87) औद्धत्योपक्लेशे चोत्पन्ने प्रत्यासंक्षेपमुखेन चित्तं धारयति तदा वीर्यमारभत इत्युच्यते / अत एव लयौद्धत्यापकर्षणोपायसंदर्शनार्थमनन्तरमाह चित्तं प्रगृह्णाति प्रदधातीति /
फलं प्रथमद्वितीययोः सम्यक्प्रहाणयोरशेषविपक्षहानिः, ताभ्यां यथायोगमुत्पन्नानुत्पन्नपापकाकुशलधर्मप्रहाणात् / तृतीयस्य प्रतिपक्षप्रतिलम्भः, तेनानुत्पन्नकुशलधर्मोत्पादनात् / चतुर्थस्य प्रतिपक्षवृद्धिः, तेनोत्पन्नकुशलधर्मविपुलतापादनादिति //
ऋद्धिपादालंबनं निष्पन्नेन समाधिना यत्करणीयमृद्धयादिकं कृत्यम् //
छन्दसमाधिर्यत् सत्कृत्यप्रयोगमागम्य स्पृशति चित्तस्यैकाग्रतां तीव्रेण छन्देन तीव्रेणादरेण प्रयोगः सत्कृत्यप्रयोग इति कृत्वा / वीर्यसमाधिर्यत्सातत्यप्रयोगमागम्य स्पृशति चित्तस्यैकाग्रताम् / तद्वीर्यमित्युच्यते यन्नित्यं प्रयुज्यत एव न कदाचिन्न प्रयुज्यते / चित्तसमाधिर्यत्पूर्वजन्मान्तरे समाधिभावनामागम्यतत्परिपुष्टबीजत्वाच्चित्तस्य स्वरसेन समाध्यनुकूलपरिणामे सति स्पृशति चित्तस्यैकाग्रताम् / अपि खलु ऋद्धिपादाभिनिर्हारयोर्निदर्शनार्थमेव सम्यक्प्रहाणभावनायां छन्दं जनयतीत्येवमादिनिर्देशो वेदितव्यः / चित्तं प्रदधाति प्रगृह्णातीत्येषा चात्र पाठानुपूर्वी वेदितव्या / तत्र चित्तसमाधिर्यच्चितं प्रदधत् स्पृशतीति प्रत्यात्मं चित्तमेव चित्तं धारयन् शमयन्नभिसंक्षिपन्नधिगच्छतीत्यर्थः / मीमांसासमाधिर्यच्चितं प्रगृह्णन्निति धर्मविपश्यनामुखेन चित्तमुत्तापयतीत्यर्थः //
भावना छन्दादीनामष्टानां प्रहाणसंस्काराणामभ्यासः / ते पुनरष्टौ प्रहाणसंस्काराश्चतुर्धा क्रियन्ते / तद्यथा व्यावसायिकश्छन्दव्यायामश्रद्धाः // तत्र छन्दो व्यायामस्याश्रयः / छन्दस्य पुनः श्रद्धा निमित्तम् / तथाहि यो येनार्थी भवति तत्प्राप्त्यर्थ व्यायच्छते / अर्थित्वं च नान्तरेण तदस्ति त्वाद्यभिसंप्रत्यमिति / अनुग्राहिकः प्रस्रब्धिः, तया कायचित्तानुग्रहकरणात् / औपनिबन्धिकः स्मृतिसंप्रजन्ये, आलंबनासंप्रमोषेण चित्तस्यैकाग्रावस्थानात्, तत्प्रमादे च सति परिच्छेदात् यथाक्रमम् / प्रातिपक्षिकश्चेतनोपेक्षे, चित्तप्रग्रहप्रधानाभिसंस्काराभ्यामुत्पन्नलयौद्धत्यपरिवर्जनान्निरुपक्लेशशमथादिनिमित्तानुकरणाच्चेति // (अभिध्-स्-भ् 88)
संक्षेपनिदानं विपश्यनारहितस्य कौसीद्यमुखेन लयः / विक्षेपनिदानमशुभसंज्ञारहितस्यौद्धत्यमुखेन संप्रग्रहः / संक्षेपः स्त्याननिमित्तमुखे नान्तःसंकोचः / विक्षेपः शुभनिमित्तानुसारमुखेन विषयेषु विसारः / आलीनत्वानुकूला भावना प्रत्यवेक्षणानिमित्तं निश्रित्य धर्मविपश्यना / अविक्षेपानुकूलाशुभतः केशादिद्रव्यप्रत्यवेक्षा / तदुभयानुकूलालोकसंज्ञा / एतच्च यथा क्रममधिकृत्योक्तं भगवता - नच मे छन्दो ऽतिलीनो भविष्यति, नातिप्रगृहीतः, नाध्यात्मं संक्षिप्तः न बहिर्धा विक्षिप्तः, पश्चात्पूर्वसंज्ञी भविष्यति ऊर्ध्वमधःसंज्ञी च, विवृतेन चेतसापर्यवनद्धेन सप्रभाससहगतं चित्तं भावयिष्यामि न च मे ऽन्धकारायत्तत्वं भविष्यति चेतस इति /
फलं यथेष्टमृद्धयादिगुणनिष्पादनात् //
इन्द्रियाणां चत्वार्यार्यसत्यान्यालंबनम्, सत्याभिसमयप्रयोगसंगृहीतत्वेन तदाकारत्वात् // फलं तदाधिपत्यादचिरेण कालेन दर्शनमार्गस्योत्पादः तस्मिन्नेव च काले निर्वेधभागीयभजनं च संतानस्य //
बलानामालंबनादिकमिन्द्रियैः समानम् // फले तु विशेषः / तथाह्येषां तच्च यथोक्तम् - आश्रद्व्यादिविपक्षनिर्लेखश्चाधिक इत्यत एवैषां तुल्यानामालंबनस्वभावादिकानामप्यनवमृद्यतार्थविशेषेण बोधिपक्षान्तरत्वम् //
बोध्यङ्गानामालंबनं चतुर्णामार्यसत्यानां यथाभूततेति परमार्थो विशुद्धयालंबनमित्यर्थः / स्वभावः स्मृत्यादयः सप्त धर्माः / तत्र स्मृतिः (अभिध्-स्-भ् 89) संनिश्रयाङ्गम्, उपस्थितस्मृतेः सर्वकुशलधर्माभिलपनात् / धर्मविचयः स्वभावाङ्गम्, संबोधिलक्षणत्वात् / वीर्यं निर्याणाङ्गम्, तेन यावद्गम्यं गमनात् / प्रीतिरनुशंसाङ्गम्, तया संतानप्रीणनात् / प्रस्रब्धिः समाधिरुपेक्षा चासंक्लेशाङ्गम् / तत्र प्रस्रब्ध्या न संक्लिश्यते, तया दौष्ठुल्यस्रावणात् / समाधौ न संक्लिश्यते, तत्र स्थितस्याश्रयपरिवर्तनात् / उपेक्षासंक्लेशः, अभिध्यादौर्मनस्यापगताक्लिष्टावस्थास्वभावत्वात् / भावना स्मृतिसंबोध्यङ्गं भावयति विवेकनिश्रितमित्येवमादिरेभिः चतुर्भिः पदैर्यथाक्रमं चतुःसत्यालंबना बोध्यङ्गभावना परिदीपिता / तथाहि दुःखं दुःखत आलंबमानस्य तद्विवेकान्वेषणाद्दुःखालंबनं विवेकनिश्रितमित्युच्यते / तृष्णालक्षणं दुःखसमुदयं दुःखसमुदयत आलंबमानस्य तद्विरागान्वेषणात्तदालंबनं विरागनिश्रितम् / दुःखनिरोधं दुःखनिरोधत आलंबमानस्य तत्साक्षात्करणान्वेषणात्तदालंबनं निरोधनिश्रितम् / दुःखनिरोधगामिनी प्रतिपद् व्यवसर्ग इत्युच्यते, तया दुःखविसर्जनात् / तां तथालंबमानस्य तद्भावनान्वेषणात्तदालंबनं व्यवसर्गपरिणतमित्युच्यते / फलं दर्शनहेयानां क्लेशानां प्रहाणम्, बोध्यङ्गानां दर्शनमार्गस्वभावत्वात् //
मार्गाङ्गानामालंबनं दर्शनमार्गादुत्तरकालं सैव यथादृष्टानां सत्यानां यथाभूतता / स्वभावः सम्यग्दृष्टयादयो ऽष्टौ धर्माः / तत्र सम्यग्दृष्टिः परिच्छेदाङ्गम्, तया यथानुभवं तत्त्वावधारणात् / सम्यक्संकल्पः परसंप्रापणाङ्गम्, तेन यथाधिगमं व्यवस्थाप्य वाक्समुत्थापनात् / सम्यग्वाक्कर्मान्ताजीवाः परसंप्रत्ययाङ्गम्, तैर्यथाक्रममधिगन्तुः परैदृष्टयादिविशुद्धिनिश्चयनात् / तत्र सम्यग्वाचाधिगमानुरूपप्रश्नव्याकरणसांकथ्यविनिश्चयेनास्य दर्शनविशुद्धिर्विज्ञायते / सम्यक्कर्मान्तेनाभिक्रमप्रतिक्रमादिषु संपन्नचारित्रतया शीलविशुद्धिः सम्यगाजीवेन यथानुज्ञं धर्मेण चीवरादिपर्येषणादाजीवविशुद्धिरिति / सम्यग्व्यायामः क्लेशावरणविशोधनाङ्गम्, तेनाशेष संयोजनप्रहाणात् / सम्यक्स्मृतिरुपक्लेशावरणविशोधनाङ्गम्, (अभिध्-स्-भ् 90) तया सम्यक्शमथादिनिमित्तासंप्रमोषेण लयाद्युपक्लेशानवकाशात् / सम्यक्समाधिर्वैशेषिकगुणावरणविशोधनाङ्गम्, तेनाभिज्ञादिगुणाभिनिर्हरणात् / भावना बोध्यङ्गवत्, तद्यथा सम्यग्दृष्टिं भावयति विवेकनिश्रितामिति विस्तरः / तेषां च पदानामर्थः यथानिर्दिष्टं पुरस्तात्तथानुगन्तव्यः //
प्रतिपदां धर्मपदानां च पूर्ववदर्थनिर्देशो वेदितव्यः दुखा प्रतिपदनागम्यारूप्यनिश्रिता यथाक्रमं शमथविपश्यनामान्धात् / सुखा ध्याननिश्रिता युगनद्धवाहित्वात् धन्धाभिज्ञा द्वयोरप्यनयोर्दुःखसुखनिश्रययोर्मृद्विन्द्रियाणाम् / क्षिप्राभिज्ञा तयोरेव तीक्ष्णेन्द्रियाणामिति //
शमथः नवकारचित्तस्थितिः / तत्र बाह्यालंबनेभ्यः प्रतिसंहृत्या ध्यात्ममविक्षेपापादितश्चित्तस्योपनिबन्धः स्थापना / तस्य चित्तस्यैवमादित उपनिबद्धस्य चलस्यौदारिकस्य तस्मिन्नेवालंबने संततियोगेन सूक्ष्मीकरणेन चाभिसंक्षेपः संस्थापना / तस्य स्मृतिसंप्रमोषाद्वहिर्धा विक्षिप्तस्य पुनः प्रतिसंहरणमवस्थापना / आदित एव तस्य चित्तस्य बहिरविसारायोपस्थितस्मृतितोपस्थापना / पूर्वमेव विक्षेपनिमित्तेषु रूपादिष्वादीनवसंज्ञामधिपति कृत्वा चित्तस्य प्रसरादानं दमनम् / चेतःसंक्षोभकरेषु वितर्कोपक्लेशेष्वादीनवदर्शनेन प्रसरादानं शमनम् / स्मृतिसंप्रमोषाद्वितर्कादिसमुदाचारे सति तदनधिवासना व्युपशमनम् / अभिसंस्कारेण निश्छिद्रनिरन्तरसमाधिप्रवाहावस्थापना एकोतीकरणम् / स्वभ्यस्तत्वादनभिसंस्कारेणानाभोगेन चित्तसमाधिप्रवाहस्याविक्षेपेण प्रवृत्तिः समाधानमिति //
विपश्यना यथापि तद्धर्मान्विचिनोतीत्येवमादिः / तत्र चरितविशोधनमालंबनं कौशल्यालंबनं वा क्लेशविशोधनं वा यावद्भाविकतया (अभिध्-स्-भ् 91) विचिनोति, यथावद्भाविकतया प्रविचिनोति, सविकल्पेनमनस्कारेण प्रज्ञासहगतेन निमित्तीकुर्वन् परिवितर्कयति, संन्तीरयन् परिमीमांसामापद्यत इति //
अपि खलु [शमथ]विपश्यनामागम्य चत्वारो मार्गा इति चत्वारो मार्गोपदेशनामधिकृत्य / तत्र प्रथमः शमथस्य लाभित्वादभिनिषीदन्नेव चित्तं स्थापयति यावत्समाधत्ते, विपश्यानाया अलाभित्वात्तु समाधिं निश्रित्य पश्चात्तथानिषण्णस्तान् धर्मान्विचिनोति यावत्परिमीमांसामापद्यते / द्वितीयो विपर्ययेण वेदितव्यः / तृतीया उभयस्यालाभ्युभयत्र योगं करोति / कथं कृत्वा, श्रुतोद्ग्रहणमुखेन विवश्यनायां योगं करोति तत्पूर्वकं च शमथे / चतुर्थ उभयस्य लाभात् //
अज्ञातमाज्ञास्यामीन्द्रियं प्रयोगमार्गे निर्वेधभागीयसंगृहीते पञ्चदशसु च दर्शनमार्गचित्तक्षणेषु यदिन्द्रियम्, तद्यथा मनैन्द्रियम्, पञ्च श्रद्धादीनि, अनागम्यादिनिश्रयभेदेन यथासंभवं सुखसौमनस्य दौर्मनस्योपेक्षेन्द्रियाणां चान्यतमम् / दौर्मनस्येन्द्रियं पुनः प्रयोगकाले निर्वेधभागीयपृष्ठेनोत्तरविमोक्षस्पृहासंगृहीतं वेदितव्यम् / तदेतत्संभवतो दशविधमिन्द्रियमनाज्ञातपूर्वस्य तत्त्वस्याज्ञायै प्रवृत्तत्वादनाज्ञातमाज्ञास्यामीन्द्रियमित्युच्यते / एतदेव दशविधमिन्द्रियं षोडशाद्दर्शनमार्गचित्तक्षणाद्यावद्वज्रोपमः समाधिरित्येतस्मिन्शैक्षमार्गे आज्ञेन्द्रियमित्युच्यते, अपूर्वज्ञेयाभावात् / एतदेव पुनर्नवविधमिन्द्रियं दौर्मनस्येन्द्रियवर्जमशैक्षमार्गे आज्ञातावीन्द्रियमित्युच्यते, आज्ञाताविनो ऽर्हत् इन्द्रियमिति कृत्वा //
भावना मार्गाधिकारेणेदमपि वक्ष्यते / ऊर्ध्वभूमिके मार्गे संमुखीभावेन भाव्यमाने ऽसंमुखीभूतान्यप्यधोभूमिकानि कुशलमूलकानि (अभिध्-स्-भ् 92) भावनां गच्छन्ति, तेषु विभुत्वलाभात् / विभुत्वं पुनरुत्तप्तसंमुखीभावेन तशिता वेदितव्या //
निष्ठामार्गः सर्वदौष्ठुल्यानां प्रतिप्रस्रब्धेरिति विस्तरः //
तत्र सर्वदौष्ठुल्यानि चतुर्वितिर्भवन्ति / तद्यथा सर्वत्रगमभिलापदौष्ठुल्यं या चक्षुरादिसर्वधर्मनामाभिनिवेशवासनालयविज्ञाने संनिविष्टानादिकालानुसृता, यासावुच्यते प्रपञ्चवासनेति, यतश्चक्षुरादयो धर्माः सनामाभिनिवेशाः पुनः पुनः प्रवर्तन्त इति / वेदितदौष्ठुल्यं सास्रवाणां वेदनानां वासना / क्लेशदौष्ठुल्यं क्लेशानामनुशयः / कर्मदौष्ठुल्यं सास्रवाणां कर्मणां वासना / विपाकदौष्ठुल्यं विपाकस्या कर्मण्यता / क्लेशावरणदौष्ठुल्यं तीव्रायतक्लेशता / कर्मावरणदौष्ठल्यं मार्गान्तरायिकानन्तर्यादिककर्मावृतता / विपाकावरणदौष्ठुल्यं सत्याभिसमयविधुरनारकाद्यात्म भावप्रतिलम्भः / निवरणदौष्ठुल्यं कुशलपक्षप्रयोगान्तरायिककामछन्दाद्यभिभूतता / वितर्कदौष्ठुल्यं प्रव्रज्याभिरति विबन्धकामवितर्काद्यभिभूतता / आहारदौष्ठुल्यमत्यल्पबहुभोजननेन प्रयोगायोग्यता / मैथुनदौष्ठुल्यं द्वयद्वयसमापत्तिकृता कायचित्तव्यथा / स्वप्नदौष्ठुल्यं मिद्धकृतमाश्रयजाड्यम् / व्याधिदौष्ठुल्यं धातुवैषम्यकृतास्वस्थता / जरादौष्ठुल्यं भूतविपरिणामकृताविधेयता / मरणदौष्ठुल्यं म्रियमाणस्य सर्वेन्द्रियाकुलता / परिश्रमदौष्ठुल्यमतिगमनादिकृतो ऽङ्गमर्दः / दृढदौष्ठुल्यं यथासंभवमेत देवाभिलापदौष्ठुल्यादिकमपरिनिर्वाणवताम् / औदारिकमध्यसूक्ष्मदौष्ठुल्यानि (अभिध्-स्-भ् 93) यथाक्रमं कामरूपारूप्यावचराणि वेदितव्यानि / क्लेशावरणदौष्ठुल्यं श्रावकप्रत्येकबुद्धबोधि[वि]पक्षः / समापत्त्यावरणदौष्ठुल्यं नवा[नु]पूर्वसमापत्त्यभिनिर्हार[वि]पक्षः / ज्ञेयावरणदौष्ठुल्यं सर्वज्ञताविपक्षः / इत्येवमेषां यथायोगं सर्वदौष्ठुल्यानां प्रतिप्रस्रव्धेनिष्ठामार्गः / यथोक्तं - "तस्य चेतोविमुक्तेः पारिपूर्या प्रज्ञाविमुक्तेः पारिपूर्या कायदौष्ठुल्यानां प्रतिप्रस्रब्धेः / स्मृत्या समन्वागमहेतोरेवमस्य प्रथमं द्वारं सुदान्तं भवति सुगुप्तं सुरक्षितं सुसंवृतं सुभाषितम्, यदुत चक्षुर्विज्ञेयेषु रूपेष्वेवं यावन्मनो विज्ञेयेषु धर्मेष्वि"ति //
वज्रोपमः समाधिर्भावनामार्गस्यान्त्या प्रहाणमार्गावस्था वेदितव्या / स च समाधिर्निरन्तरस्तत्प्रवाहरय लौकिकेन मार्गे णान्तराखण्डनात् / दृढः सर्वावरणैरच्छिद्रणात् सर्वावरणभेदितया च सारत्वात् / एकरस इति निर्विकल्पैकरसत्वात् / व्यापी सर्वज्ञेयसामान्यतथतालंबनत्वात् / एतदर्थप्रतिबिम्बनार्थ भगवतोक्तम् - तद्यथा महाशैलः पर्वतो ऽखण्डो ऽच्छिद्रो ऽशुषिर एकधनः सुसंवृत इति //
निरन्तराश्रयपरिवृत्तिविधार्शक्षमार्गलाभिनः / चित्ताश्रयपरिवृत्तिर्धर्मता, चित्तस्य प्रकृतिप्रभास्वरस्याशेषागन्तुकोपक्लेशापगमाद्या परिवृत्तिः, तथतापरिवृत्तिरित्यर्थः / मार्गाश्रयपरिवृतिः पूर्वं लौकिको मार्गो ऽभिसमयकाले लोकोत्तरत्वेन परिवृतः शैक्षश्चोच्यते सावशेषकरणीयत्वात् / यदा तु निर्हताशेषविपक्षो भवति त्रैधातुकवैराग्यात्तदास्य मार्गस्वभावस्याश्रयस्य परिपूर्णा परिवृत्तिर्व्यवस्थाप्यते / दौष्ठुल्याश्रयपरिवृत्तिरालयविज्ञानस्य सर्वक्लेशानुशयापगमेन परिवृत्तिर्वेदितव्या //
क्षये सति, विषये वा तस्मिन् यज्ज्ञानं क्षयज्ञानमेतदुक्तं भवति / निरवशेषं प्रक्षीणे समुदये यज्ज्ञानं तदवस्थस्य हेतुनिरोधालंबनं वा क्षयज्ञानमिति //
तथानुत्पादे सति विषये वा तस्मिन् यज्ज्ञानमनुत्पादज्ञानम् आयत्यां सर्वस्य दुःखस्यात्यन्तमनुत्पत्तिधर्मतायां सत्यां यज्ज्ञानमन्यसत्यालंबनमिति / यद्वा दुःखसत्यानुत्पादालंबनं तदनुत्पादज्ञानमित्यर्थः //
दशाशैक्षा धर्मा अशैक्षाञ्छीलादीन् पञ्च स्कन्धानधिकृत्य / तत्र अशैक्षा सम्यग्वाक्कर्मान्ताजीवा अशैक्षशीलस्कन्धः / (अभिध्-स्-भ् 94) सम्यक्स्मृतिसमाधिः समाधिस्कन्धः / सम्यग्दृष्टिसंकल्पव्यायामाः प्रज्ञास्कन्धः / सम्यग्विमुक्तिर्विमुक्तिस्कन्धः / सम्यग्ज्ञानं विमुक्तिर्ज्ञानदर्शनस्कन्ध इति //
पुनर्मार्गसत्यस्य चत्वार आकाराश्चत्वारि लक्षणानि / तत्र तत्त्वार्थ मार्गयत्यनेति मार्गः / अय[था]भूतानां क्लेशानां प्रतिपक्षत्वात् न्यायः / तत्त्वानवबोधदोषेणानित्यादिविपर्यासैर्विपर्यस्तस्य चित्तस्याविपर्यासे तत्त्वावबोधे प्रतिपादनात्प्रतिपत् / नित्य आत्यन्तिके निःसरणपदे यानान्नैर्याणिक इति //
दुःखादिसत्येष्वनित्यादयः षोडशाकारा लौकिका लोकोत्तराश्च सन्ति / तत्र लौकिका ज्ञेये ऽप्रविष्टाः सावरणाः सविकल्पाश्च, तथताया अप्रतिवेधात् क्लेशानुशयित्वादभिलापमुखेन प्रपञ्चनाच्च यथाक्रमम् / विपर्ययेण लोकोत्तराः सुप्रविष्टा निरावरणाश्च सन्तो निर्विकल्पतया लौकिकेभ्यो विशिष्यन्ते / कथं पुनरेते ऽविकल्पयन्तो ज्ञेयेषु प्रविष्टा भवन्ति / यस्मादेतेषु वर्तमानो ऽनित्यार्थ पश्यति साक्षादनुभवति, न त्वनित्यमिति पश्यत्यभिलापप्रपञ्चमुखेनेति / एवं दुःखादिष्वाकारेषु योजयितव्यम् //
धर्मविनिश्चये धर्मो द्वादशाङ्गं वचोगतम् //
तत्र सूत्रं यदभिप्रेतार्थसूचनाकारेण गद्यभाषितम् / किं पुनः कारणं तथागतस्तमभिप्रेतमर्थ विवृत्यैव न देशयतीत्याह दशानुशंसान् संपश्यंस्तथागतः सूचनाकारेण धर्मं देशयति / सुखं व्यवस्थापयति, दैशिकैर्हि, बहुधा व्यवस्थाप्य प्रापणीयस्यार्थस्य, संक्षिप्याकृच्छ्रेण व्यवस्थापनात् / सुखं देशयति, अल्पेन महतो ऽर्थविस्तरस्य प्रत्यायनात्, तद्यथा स्थापयति संस्थापयतीत्येवमादि / श्रोतापि सुखमुद्गृह्णाति / धर्मगौरवतया क्षिप्रं संभारान् परिपूरयति, भावगम्यो ऽयं धर्म इत्यवगम्य जातास्थस्य तस्मिन् धर्मे आदरमुखेन श्रद्धादिसंभारपरिपूरणात् / आशु धर्मतां प्रतिविध्यति, तथादरप्रयोगिणः प्रज्ञायाः तैक्ष्णीभावात् / रत्नेष्ववेत्य प्रसादं प्रतिलभते, देशनायाः सुव्यवस्थितभावगमेन दैशिकादिष्वभिप्रसादोत्पादात् / परमदृष्टधर्मसुखविहारं स्पृशति, अभिप्रायार्थ तीव्रेण योगेन चिन्तयित्वा लब्धवतः प्रामोद्यविशेषाधिगमात् / सांकथ्यविनिश्चयेन सतां चित्तमाराधयति, गूढार्थविवरणात्, अत एव पण्डितः पण्डित इति संख्यां गच्छति, यशो ऽस्य समन्तान्निश्चरतीत्यर्थः / उभयं चैतत्पश्चिमसभिसमयैको ऽनुशंसो द्रष्टव्यः //
नीतार्थ सूत्रं व्याकरणम् तेन विवृत्याभिसंधिव्याकरणात् //
उदानं यदात्तमनस्केनोदाहृतम् तद्यथा यदा इमे प्रादुर्भवन्ति धर्मा इत्येवमादि //
निदानं यत्किंचिदेव पुद्गलमुद्दिश्य भाषितं सोत्पत्तिकशिक्षा प्रज्ञप्तिकभाषितं वा, तद्यथास्मिन्निदाने ऽस्मिन् प्रकरण इति विस्तरः //
अवदानं सदृष्टान्तकं भाषितम्, तेनार्थव्यवदानादभिव्यञ्जनादित्यर्थः //
वैपुल्यं वैदल्यं वैतुल्यमित्येते महायानस्य पर्यायाः, तदेतत्सप्तविधमहत्त्वयोगान्महत्त्वयानमित्युच्यते / सप्तविधं महत्वम् - आलंबनमहत्त्वं शतसाहस्रिकादिसूत्रापरिमितदेशनाधर्मा लंबनाद्बोधिसत्त्वमार्गस्य / प्रतिपत्तिमहत्त्वं सकलस्वपरार्थप्रतिपत्तेः / ज्ञानमहत्वं पुद्गलधर्मनैरात्म्यज्ञानात् / वीर्यमहत्त्वं त्रिषु महाकल्पासंख्येयेष्वनेकदुष्करशतसहस्रप्रयोगात् / उपायकौशल्यमहत्त्वं संसारनिर्वाणाप्रतिष्ठानात् / प्राप्तिमहत्त्वं वलवैशारद्यावेणिकबुद्धधर्माद्यप्रमेयासंख्येयगुणाधिगमात् / कर्ममहत्त्वं यावत्संसारबोध्यादिसन्दर्शनेन बुद्धकार्यानुष्ठानादिति //
उपदेशो यत्राविपरीतेन धर्मलक्षणेन सूत्रादीनामर्थनिर्देशः /
निदानं सोत्पत्तिकशिक्षाप्रज्ञप्तिभाषितसंगृहीतं विनयपिटकम्, अवदानादिकं तस्य परिवारो वेदितव्यः / अद्भुतधर्माणां बोधिसत्त्वसूत्रपिटके संग्रहणम्, तेषां विशेषेणाचिन्त्योदारप्रभावविशेषयोगात् / उपदेश उभयत्र श्रावकयाने महायाने चाभिधर्मपिटकम् //
सूत्रपिटकव्यवस्थानं विचिकित्सोपक्लेशप्रतिपक्षेण विनेयानामुत्पन्नानुत्पन्नसंशयच्छेदाधिकारेण सूत्रगेयादि देशनात् / विनयपिटकव्यवस्थानमन्तद्वयानुयोगोपक्लेशप्रतिपक्षेण, संनिधिकारपरिभोगादिप्रतिक्षेपात् शतसाहस्रकवस्त्रानुज्ञानाच्च / अन्तद्वयं पुनः कामसुखल्लिकान्त आत्मक्लेमथान्तश्च / अभिधर्मव्यवस्थानं स्वयंदृष्टिपरामर्शोपक्लेशप्रतिपक्षेण, तत्र विस्तरेण धर्मलक्षणस्थापनात् //
पुनः सूत्रपिटकं निश्रित्य विनेयाः शिक्षात्रये व्युत्पद्यन्ते, तत्र तस्य विस्तरेणोद्भावितत्वात् / विनयं निश्रित्याधिशीलमधिचित्तं शिक्षां निष्पादयन्ति, तत्र प्रातिमोक्षसंवरशिक्षामार्गोपदेशनिश्रयेण शीलपरिशोधनात्तत्परिशुद्धिकृताविप्रतिसाराद्यानुपूर्व्या च चित्तसमाधानात् / अभिधर्मनिश्रित्याधिप्रज्ञं शिक्षां निष्पादयन्ति, तत्र विस्तरेण धर्मप्रविचयोपायोपदेशादिति अतो ऽपि पिटकत्रयव्यवस्थानम् //
पुनः सूत्रपिटकं निश्रित्य ग्रन्थार्थव्युत्पत्तिः / विनयं निश्रित्य तदुभयसाक्षात्क्रिया, शिक्षाप्रतिपत्तिप्रभावि[त]त्वाद्विनयस्य / ततो धर्मार्थयोः साक्षात्क्रियायाः पदस्थानमित्युच्यते आश्रयार्थेन / अभिधर्मं निश्रित्य परस्परं सांकथ्यविनिश्चयकृतेन धर्मसंभोगेन स्पर्शविहारो भवति, तत्र बहुप्रकारं धर्माणां स्वलक्षणादिधर्मताया व्युत्पादनात् //
एतान्येव त्रीणि पिटकानि चतुरशीतिधर्मस्कन्धसहस्राणि भवन्ति, श्रावकयानाधिकारेण यानि स्थविरानन्देनोद्गृहीतानि // किं पुनरेकस्य धर्मस्कन्ध[स्य] परिमाणम् / दशशतसंख्यो धर्मस्कन्धः सहस्रसंख्य इत्यर्थः / यद्येवं सहस्रसंख्य इत्येवं कि नोच्यते / साहस्रिकैकस्कन्धव्यवस्थाने प्रयोजनज्ञापनार्थम् / तथाह्येकादिवृद्धया दशसंख्या शतसंख्या सहस्रादिसंख्याः / तद्दशशतसंख्या उपनिषदो द्रष्टव्याः / तद्यथा दश शतानि सहस्रम्, शतं सहस्राणां शतसहस्रम्, शतं शतसहस्राणां कोटिरित्येवं सर्वासूत्तरासु संख्यास्ववश्यमनयोः दशशतसंख्ययोरन्यतरोपनिषद्भवति / अत एते एव समस्य दशशतान्येको धर्मस्कन्धो व्यवस्थाप्यते / अनया च गणनया चतुरशीतिधर्मस्कन्धसहस्राण्यष्टौ कोट्यः चत्वारिशच्च लक्षा भवन्ति //
स एष पिटकत्रयसंगृहीतो धर्मः कस्य गोचरः / श्रुतमयादीनां चित्तचैतसिकानां गोचर आलंबनमित्यर्थः /
एतत्प्रसंगेन सालंबनादिलक्षणानां चित्तचैतसिकानां धर्ममारभ्यालंबनादिकं व्यवस्थाप्यते / तत्र धर्मे तेषां किमालंबनम् / सूत्रादि नामपदव्यञ्जनकायसंगृहीता (अभिध्-स्-भ् 98) सूत्रादिदेशनेत्यर्थः / आकारः, यान् स्कन्धादीनर्थ प्रकारानारभ्य सा देशना, तदाकारास्ते चित्तचैतसिका वेदितव्याः / आश्रयः परविज्ञप्तिस्मृतिर्वासना च / तत्र देशनाकाले परविज्ञप्तिराश्रयो यो ऽसावुच्यते परतो घोषत इति तत उत्तरकालं स्मृतिराश्रयो यथाश्रुतमनुस्मृत्याभ्यसनात् / तत उत्तरकालं वासनाश्रयस्तदनुस्मृतिमन्तरेणापि पश्चादभ्यासभावनाबलेन प्रतिभासनादिति / संप्रयोगः चित्तचैतसिकानामन्योन्यसहायभावेन सूत्राद्यालंबने स्कन्धादिप्रतिसंयुक्तार्थाकारैः संप्रतिपत्तिः //
qharme ālaṃbana prabhedo vyāpyālaṃbanādikaścaturvidhaḥ /
व्याप्यालंबनं पुनः सविकल्पप्रतिबिम्बादिभेदेन चतुर्बिधम् / तत्र अधिमुक्तिमनस्कार एकान्तलौकिको यो मनस्कारः / तत्त्वमनस्कारो लोकोत्तरस्तत्पृष्ठलब्धश्च / यावद्भाविकतया धर्माणामेतावन्ति सर्वधर्मवस्तुनि यज्ज्ञेयव्यवस्थानम् तद्यथा स्कन्धधात्वायतनानि / यथावद्भाविकतया एभिः प्रकारैः सुज्ञेयमिति / तद्यथा सत्यमुखेन तान्येव स्कन्धधात्वायतनानि यथासंभवं दुःखतोज्ञेयानि यावन्मार्गतः / आकारमुखेनैकैकं सत्यं चतुर्भिराकारैर्ज्ञेयम्, अविशेषतश्च सर्वाणि तथताकारेण / धर्मोद्दानाधिकारेण वानित्यतः सर्वसंस्कारा ज्ञेया यावच्छान्ततो निर्वाणम् / विमोक्षाधिकारेण वा शून्यतो यावदनिमित्त[त] इति // कार्यपरिनिष्पत्तिराश्रयपरिनिष्पत्तिः, परिनिवृत्ताश्रयस्याविपरीतालंबनसंप्रख्यानात् / यथावद्भाविकताया निर्दशे षोडशप्रकारा उक्तास्त्रयश्च विमोक्षाकाराः तेषां चान्योन्यसंग्रहः / कथ कृत्वा / षोडशानामाकाराणां द्वौ शून्यताकारौ - शून्याकारानात्माकारश्च / षडप्रणिहिताकाराः - अनित्याकारा दुःखाकारो हेतुसमुदयप्रभवप्रत्ययाकाराश्च, तैस्त्रैधातुके ऽप्रणिधानात् / अष्टाविनिमित्ताकाराः शेषाः निरोधमार्गयोर्निमित्तीकर्तुमशक्यत्वात् //
चरितविशोधनमालंबनं रागचरितादीनामशुभादि, तेनोत्सदरागाद्युपशमनात् //
अविद्यादयो धर्माः संस्कारादीन्धर्मानभिष्यन्दयन्ति, न ह्येषां निर्हेतुक उत्पादो नापीश्वरादिविषमहेतुक इति यज्ज्ञानमिदं प्रतीत्यसमुत्पादकौशल्यम् / (अभिध्-स्-भ् 99) धर्ममात्रहेतुकत्वे ऽपि सत्यनुरूपाद्धेतोरनुरूपस्यैव फलस्योत्पत्तिः, तद्यथा सुचरितस्येष्टो विपाको दुश्चरितस्यानिष्ट इत्येवमादि यज्ज्ञानमिदं स्थानास्थानकौशल्यं वेदितव्यम् //
क्लेशविशोधनमालंबनं लौकिकमार्गाधिकारेणाधऊर्ध्वभूमीनामौदारिकशान्तता, तेन पर्यवस्थानविष्कम्भणात् / लोकोत्तरमार्गाधिकारेण समासतस्तथता, व्यासेन चत्वार्यार्यसत्यानि, तेनानुशयसमुद्घातात् //
सूत्रादिधर्मविचाराणां संब्नधेन चतस्रो युक्तयो वर्ण्यन्ते, ताभिस्तद्विचारणात् // तत्र अपेक्षायुक्तिर्या संस्काराणामुत्पत्तौ प्रत्ययापेक्षा, तद्यथाङ्कुरस्योत्पत्तौ बीजोदकक्षेत्राण्यपेक्ष्यन्ते, विज्ञानस्येन्द्रियार्थमनस्कारा इत्येवमादि / कार्यकारणयुक्तिस्तद्यथा चक्षुरादीनां चक्षुर्विज्ञानाद्याश्रयभावः रूपादीनामालंबनभावः, चक्षुर्विज्ञानादीनां रूपादिप्रतिविज्ञापनम्, सुवर्णकारादीनां च शिल्पिनां सुवर्णादिघटनमित्येवमादि / उपपत्तिसाधनयुक्तिस्वभावविशेषसंगृहीतस्य साध्यस्यार्थस्य प्रत्यक्षादिप्रमाणाविरुद्धः प्रतिज्ञाद्युपदेशः / धर्मतायुक्तिस्तद्यथाग्निना दाहः, उदकेन क्लेद इत्येवमादिका प्रसिद्धा धर्माणां धर्मता / यथोक्तं चक्षुः समृद्धं शून्यं नित्येन यावदात्मीयेन / तत्कस्य हेतोः / प्रकृतिरस्यैषेति //
नामपर्येषणा नामकायादीनां प्रज्ञप्तिसत्त्वादपरिनिष्पन्नमेषां स्वलक्षणमिति या विचारणा / वस्तुपर्येषणा स्कन्धादीनां तथापरिनिष्पत्तिर्यथा नामकायादिभिरभिलप्यन्त इति या संतीरणा परीक्षणेत्यर्थः / स्वभावप्रज्ञप्तिपर्येषणा याभिधानाभिधेयसंबन्धे स्वभावप्रज्ञप्तिमात्रस्य व्यवहारनिमित्तत्वेन संतीरणा / अभिधानाभिधेयसंबन्धः / पुनरन्योन्यसंप्रत्ययनिमित्तत्वम् / तथाहि व्युत्पन्नव्यवहारस्याभिधानमात्रं श्रुत्वा तदभिधेये संप्रत्यय उत्पद्यते स्मृतिमुखेन, अभिधेयं वा पुनरुपलभ्य तदभिधाने / इत्येवंविधे संबन्धे प्रसिद्धे चक्षुरित्येवमादिस्वलक्षणप्रज्ञप्तिमात्रं तदाख्यामासपिण्डादिव्यवहारस्य निमित्तं भवतीति या परीक्षेयमुच्यते स्वभावप्रज्ञप्तिपर्येषणा / विशेषप्रज्ञप्तिपर्येषणा या तथैवाभिधानाभिधेयसंबन्धे (अभिध्-स्-भ् 100) नित्यानित्योत्तरानुत्तररूप्यसनिदर्शनानिदर्शनतादिविशेषलक्षणप्रज्ञप्तिमात्रस्य व्यवहारनिमित्तता संतीरणा //
चत्वारि यथाभूतपरिज्ञानानि यथापर्येषितानि नामाद्यनुपलब्धिज्ञानानि //
समाधिप्रयुक्तस्य योगभूमिः पञ्चाकाराधारादिः / तत्र आधारो यादृशं बाहुश्रुत्यं शमथविपश्यनयोः प्रतिष्ठा भवत्यालंबनयोगेन तदाधार इत्युच्यते / तत्पुनः संभृतसंभारस्य सत्याभिसमयमधिकृत्योद्गृहीतं यत्सूत्रादिकं श्रुतम् / आधानं तदालंबनो योनिशोमनस्कारः, तेन तस्मिन् बाहुश्रुत्ये ऽविपरीतार्थचित्ताकारेण चित्ताकरणात् / आदर्शस्तद्बाहुश्रुत्यालंबनः सहनिमित्तेन समाधिः, ज्ञेयवस्तुसभागप्रतिबिम्बाकार इत्यर्थः / आदर्शत्वं पुनरस्य तेन ज्ञेयबिम्बपरीक्षणाद्वेदितव्यम् / आलोको ग्राह्यग्राहकानुपलब्धिज्ञानं दर्शनमार्गसंगृहीतं प्रत्यक्षवृत्तित्वादिति / कथं च पुनः बोधिसत्त्व एकस्यां यौगभूमौ प्रयुक्तो नोपलम्भं स्पृशति संभृतपुण्यज्ञान संभारो बोधिसत्त्वः कल्पासंख्येयनिर्यातस्तथाप्रतिवेधानुकूलं श्रुतं योनिशोमनसिकुर्वन् समाधिं निष्पादयति / स एवं समाहिते चित्ते यज्ज्ञेयप्रतिबिम्बं, निश्रित्य ध्यायति तत्तस्मात्समाहिताच्चित्तादनन्यदिति संपश्यंस्तस्मिन् प्रतिबिम्बे विषयसंज्ञां व्यावर्त्य तदाकारं स्वसंज्ञामात्रमवधारयति / तदा चासौ स्वचित्तमात्रावस्थानादध्यात्म स्थितचित्तो भवन् सर्वथा ग्राह्यभावं प्रतिवेदयते / ततश्च ग्राह्याभावाद्ग्राहकमपि न परिनिष्पन्नमिति तस्याप्यभावं परिवेदयते / ततः प्रत्यात्मं तदुभयस्वभावोपलम्भापगतमनुपलम्भमधिगच्छति / एतदेव चाधिकृत्योक्तं भगवता प्रतिबिम्बं मनः पश्यन्निति विस्तरः / आश्रयः आश्रयपरिवृत्तिः, दौष्ठुल्यापगमात्परिशुद्ध आश्रय इत्यर्थः / सा चेयं योगभूमिर्हेतुतः फलतश्च निर्दिष्टा वेदितव्या / तत्राधारादिभिश्चतुर्भिर्हेतुनिर्देशः पश्चिमेनैकेन फलनिर्देश इति //
यदुक्तं स्थविरानन्देन - पञ्चभिरायुष्मञ्छारिपुत्रधर्मैः समन्वागतो भिक्षुर्लघु च गृह्णातीत्यत्र सूत्रे तैरेव पञ्चभिर्धर्मैर्लघुग्रहणादीनि चत्वारि यथायोगं वेदितव्यानि / चत्वारि कथं कृत्वा / धर्मकुशलो लघु गृह्णाति बाहुश्रुत्यात्प्रायेण भिन्नपदव्यञ्जनतया / अर्थकुशलो बहु गृह्णाति, अभिधर्मादिलक्षणज्ञत्वात्, स्कन्धधात्वादिकथावस्त्वधिकारेण प्रभूतग्रन्थसंकलनतः / व्यञ्जनकुशलो निरुक्तिकुलश्च सूद्गृहीतं गृह्णाति, सुनिरुक्तव्यञ्जनज्ञत्वादात्मात्मेति जनपदनिरुक्तिमनभिनिविश्यानुव्यवहारज्ञत्वाच्च ग्रन्थार्थयोरविपरोतग्रहणतः / पूर्वान्तापरान्तानुसंधिकुशल उद्गृहीतं न नाशयति, पूर्वमुद्गहीतान्धर्मान्निश्रित्य पश्चान्निःसर्तव्यमिति बुद्धाभिसंधिज्ञत्वादधिगमेन तत्सारादानतः //
धर्मविहारी भिक्षुर्धर्मविहारि भिक्षुरिति भदन्तोच्यत इत्यत्र सूत्रे भगवता समस्तेन श्रुतचिन्ताभावनाविहारेण धर्मविहारो भवति, नान्यतरप्रयोगमात्रेणेति संदर्शितम् / तत्र पर्याप्तिस्वाध्यायदेशनाबहुला वितर्कणा बहुलाश्चेत्यनेन केवलं श्रुतचिन्ताप्रयुक्ता न भावनाप्रयुक्ता योगादिरिञ्चनादतो [न] धर्मविहारिणो व्यवस्थाप्यन्ते / यो ऽपि कश्चिच्छ्रुतचिन्तामनागम्य केवलं भावनाप्रयुक्तः स्यात्सो ऽपि न धर्मविहारी व्यवस्थाप्यते / तत एव तावद्धर्मविहारिणं भिक्षुमारभ्य इह तु भिक्षुर्द्धर्मं पर्याप्नोति सूत्रं गेयमिति विस्तरेणोक्त्वा पश्चादाह न रिञ्चति योगमित्येवमादि, यथा विज्ञायेत श्रुतं चिन्तां भावनां चागम्य तदुभयविहारेण धर्मविहारीति / न रिञ्चति योगमित्येवमादिना समाधिप्रयोगासंतुष्टिभ्यां भावनामयं संदर्शितम् / समाधिप्रयोगः (अभिध्-स्-भ् 102) पुनर्द्विविधः संदर्शितः सातत्यसत्कृत्यप्रयोगसंगृहीतश्च न रिञ्चति योगमित्यनेन, अविपरीत[प्र]योगसंगृहीतश्च न रिञ्चति मनस्कारमित्यनेन / असंतुष्टिर्न रिञ्चत्यध्यात्मचेतः शमथमित्यनेन संदर्शिता, तदनास्वादनादुत्तरशमथप्रयोगाच्चास्यारिञ्चनं वेदितव्यम् //
केन कारणेन वैपुल्यं सूत्रान्तरे बोधिसत्त्वपारमितापिटकमित्युच्यते / तत्र पारमितानां संख्यानिर्देशाद्यावदन्योन्यविनिश्चयनाच्च //
तत्र संख्या द्विविधा, गणनासंख्या तन्मात्रसंख्या च / षट्पारमिता इति गणनासंख्या / सर्वाकारयोर्वोधिसत्त्वाभ्युदयनिःश्रेयसमार्गयोस्तिसृभिस्तिसृभिश्च संग्रहात् षडेवपारमिता न भूयस्यो नाल्पोयस्य इतीयं तन्मात्रसंख्या //
त्रिविधो ऽभ्युदयो महाभोगता महात्मता महापक्षता च / तत्र दानपारमिताया महाभोगता फलम् / शीलपारमिताया महात्मता फलम्, शीलेन सुगतात्मभावसंपत्तिप्रतिलम्भात् / क्षान्तिपारमिताया महापक्षता फलम्, क्षान्त्या सर्वजनाभिगमनोयताप्रतिलम्भादिति //
त्रिविधो निःश्रेयसमार्गः - क्लेशमभिभूय कुशलपक्षप्रयोगोपायः, सत्त्वपरिपाचनोपायः, बुद्धधर्मसमुदानयनोपायश्च, एषामन्यतरेणापि विना बोधिसत्त्वस्य निःश्रेयसानुपपत्तेः / तत्र सत्त्वपरिपाचनोपायो ध्यानपारमिता, तत्संनिश्रयेणाभिज्ञाभिः सत्त्वपरिपाचनात् //
पुनरप्रतिष्ठितनिर्वाणोपायतः षडेव पारमिताः / बोधिसत्त्वेन हि निर्वाणप्रतिष्ठाविपर्ययेण संसारे ऽभ्युदयः परिग्रहीतव्यः / संसारप्रतिष्ठाविपर्ययेण तस्मिन्नसंक्लेष्टव्यम् / अतस्तिस्रो ऽभ्युदयलाभोपायास्तिस्रस्तदसंक्लेशोपाया यथायोगं पूर्वानुसारेणैव वेदितव्याः / असंक्लेशोपाये तु वीर्येण प्रतिपक्षभावना, ध्यानेन क्लेशविष्कम्भणम्, प्रज्ञया क्लेशानुशयसमुद्घात इति //
सर्वानुग्रहतां क्लेशप्रतिपक्षतां चोपा[दा]येत्यपरः पर्यायः / तत्र दानेन बोधिसत्त्वः सत्त्वानुपकरणोपसंहारानुग्रहेणानुगृह्णाति / शीलेन विघातोत्पीडाविहेठाकरणेनानुगृह्णाति, यथाक्रमं भोगकायचित्तोपघातानुपसंहारात् / क्षान्त्या विघातोत्पीडाविहेठामर्षणेनानुगृह्णाति, परेभ्य आत्मनो भोगाद्युपघातसहनात् / आभिस्तिसृभिरनुगृह्णाति // वीर्येणाविष्कम्भितक्लेशो ऽपि कुशलपक्षे (अभिध्-स्-भ् 103) प्रयुज्यते / ध्यानेन क्लेशं विष्कम्भयति / प्रज्ञयानुशयं समुद्घातयति / इमास्तिस्रः क्लेशप्रतिपक्षा वेदितव्या //
तत्र पारमितालक्षणम् / बोधिसत्त्वस्य दानपारमिता कतमा / यद्बोधिसत्त्वस्य बोधिसत्त्वधर्मतायां व्यवस्थितस्य बोधिचित्तं निश्रित्य करुणापुरःसरेण चेतसा सर्वास्तिपरित्यागे कायवाङ्मनस्कर्म / एवं च कृत्वा दानपारमितायाः लक्षणं गोत्रतः प्रणिधानत आशयतो वस्तुतः स्वभावतश्च निर्दिष्टं वेदितव्यम् / तद्यथा बोधिसत्त्वधर्मता गोत्रम्, बोधिचित्तं प्रणिधानम्, करुणापुरःसरं चेत आशयः, सर्वास्तिपरित्यागो वस्तु, कायवाङ्मनस्कर्मस्वभाव इत्येवं यावत् प्रज्ञापारमिता विस्तरेण वेदितव्याः / अयं तु विशेषः / शीलक्षान्तिवीर्यपारमितासु यथाक्रमं सर्वसंवरसमादानानुरक्षायां सर्वापकारदुःखमर्षणाधिवासनायां सर्वकुशलधर्मसमुदानयनतायां यत्कायवाङ्मनस्कर्मेति वेदितव्यम् / ध्यानपारमितायां सर्वाकारकायवाङ्मनस्कर्मविभुत्वे सर्वाकारा चेतसः स्थितिरिति / प्रज्ञापारमिता[यां] सर्वाकारकायवाङ्मनस्कर्मविभुत्वे यः सर्वाकारो धर्मप्रविचय इति वक्तव्यम् / शेषं दानवदेव सर्वं वेदितव्यम् //
पुनर्यद्दानं सर्वज्ञतामारभ्य सर्वज्ञतायै संवर्तते सर्वज्ञतां परिगृह्णाति सर्वज्ञताकृत्यं च करोति तद्दानपारिमितेत्युच्यते / एतानि पुनश्चत्वारि पदानि यथाक्रममारम्भतो वासनातः कायतो निस्यन्दतश्च वेदितव्यानि / तत्रारम्भतः सर्वज्ञतामारभ्योत्पन्नोत्पन्नस्य तत्र परिणामनात् / तदेव पुनर्दानं संतति वासयते, यत आयत्यां सर्वज्ञतायै संवर्तते / तदेव यदा परिपूर्णं भवति तदा धर्मकायपरिनिष्पादनयोगेन सर्वज्ञतां परिगृह्णाति / तत उत्तरकालं सांभोगिकर्नर्माणिककायनिस्यन्दमुखेन सर्वज्ञताकृत्यं करोति / एवं यावत्प्रज्ञापारमिता वेदितव्याः //
अनुक्रमः / उत्तरोत्तरसंनिश्रयतामुपादाय दानपारमितयाध्यात्मिकबाह्यसर्ववस्तुपरित्यागाभ्यासात्कायजीवितनिरपेक्षो बोधिसत्त्वो महान्तमपि भोगस्कन्धं प्रहाय शीलसमादानं करोति / शीलानुरक्षी - आक्रुष्टेन मया न प्रत्याक्रोष्टव्यम् - इत्येवमादिभिः प्रकारैः क्षमो भवति / क्षमः शीतादीनाम्, तन्निदानं प्रयोगास्रसनादारब्धवीर्या भवति / (अभिध्-स्-भ् 104) आरब्धवीर्यः प्रयोगनिष्ठाफलाधिगमादध्यानं संपादयति / संपन्नध्यानश्च समाहितचित्तो यथाभूतज्ञानाल्लोकोत्तरां प्रज्ञां प्रतिलभत इति //
पुनरुत्तरोत्तराधारतः, शीलं दानस्याधार एवं यावत्प्रज्ञा ध्यानस्य / तथाहि शीलवतो दानं विशुद्धं भवति, दानेनानुगृहीतस्य शीलेन पघाताकरणतः / एवमस्य प्रतिग्राहकस्य बोधिसत्त्वेन विहेठाविरहितोपकरणसुखोपसंहाराच्छीलबलेन दानपारमिता विशुद्धिर्वेदितव्या / एवं क्षमिणः शीलविशुद्धिः, परापकारैः शिक्षापदाखण्डनात् / आरब्धवीर्यस्य क्षान्तिविशुद्धिः, उत्साहबलेनोत्पत्य संसारमभ्युपगतवतो ऽकृच्छ्रेण सत्त्वविप्रतिपत्तिदुःखस[ह]नात् / ध्यायिनी वीर्यविशुद्धिः, सह सुखेन सौमनस्येन सर्वकुशलधर्मप्रयोगात् / प्रज्ञावतो ध्यानविशुद्धिः, बहुप्रकारान्धर्मान्विपश्यत्यध्यात्मं शमथतः समाध्यभिवृद्धेः, नास्ति ध्यानमप्रज्ञस्येति गाथायां वचनादिति //
यथौदारिकश्चापरो ऽनुक्रमो वेदितव्यः / सर्वौदारिकं हि दानमतः प्रथमतो व्यवस्थाप्यते / तदनन्तरं क्षान्त्यादिभ्यः शीलमौदारिकमेवं यावत्प्रज्ञाया ध्यानमौदारिकम् / सर्वसूक्ष्मा तु प्रज्ञा, अतः सर्वपश्चाद्व्यवस्थाप्यत इति //
निर्वचनम् / केन कारणेन दानं दानपारमितेत्युच्यते / महद्दानं निर्दोषं निर्मलं दानपारमितेत्युच्यते / तत्र महद्दानं सर्वप्रकाराध्यात्मिकबाह्यवस्तु दानतो दीर्घकालदानतश्च / निर्दोषं विषमपर्येष्टयादिविवर्जितत्वात् निर्मलं मात्सर्यविपक्षप्रहाणात् / यथोक्तं दानपारमितामारभ्यार्याक्षयमतिनिर्देशसूत्रे निर्मलं सवासनविपक्षप्रहाणात् / तदनया त्रिविधया परमतया दानपारमितेत्यभिद्योतितं भवति / त्रिविधा परमता - स्वभावपरमता सहपरिचयेन, उपायपरमता, फलपरमता च / परिचयः पुनर्दीर्घकालदानतो वेदितव्यः / एवं यावत्प्रज्ञापारमिता वेदितव्या / शीलादीनां पुनर्निर्दोषत्वमा त्मसमारोपवर्जितत्वादिभिर्यथायोगम्, तदक्षयमतिसूत्रेषु द्रष्टव्यम् //
पुनर्द्वादशविधेन परमत्वेन योगात्पारमितेत्युच्यते / द्वादशविधं पुनः परमत्वम् - औदार्यपरमत्वं सर्वलोकसम्पत्त्यनर्थित्वादुत्कृ[ष्ट]त्वाच्च / आयतत्वपरमत्वं त्रिकल्पासंख्येयपरिभावनात् / अधिकारपरमत्वं सर्वसत्त्वार्थक्रियाधिकारप्रवृत्तत्वात् / अक्षयत्वपरमत्वं महाबोधिपरिणामनयात्यन्तमपर्यादानात् / नैरन्तर्यपरमत्वमात्मपरसमताधिमोक्षात्सर्वसत्त्वदानादिभिः (अभिध्-स्-भ् 105) पारमितापरिपूरणात् / अकृच्छ्रत्वपरमत्वमनुमोदनामात्रेण परदानादीनां पारमितापरिपूरणात् / विभुत्वपरमत्वं गगनगञ्जसमाध्यादिभिर्दानादिपरिपूरणात् / परिग्रहपरमत्वं निर्विकल्पज्ञातपरिगृहीतत्वात् / आरम्भपरमत्वमधिमुक्तिचर्याभूमावधिमात्रायां क्षान्तौ / प्रतिलम्भपरमत्वं प्रथमायां भूमौ / निस्यन्दपरमत्वं तदन्यास्वष्टासु / निष्पत्तिपरमत्वं दशम्यां भूमौ ताथागत्यां च बोधिसत्त्वपरिनिष्पत्त्या बुद्धपरिनिष्पत्त्या चेति //
पुनः परमैरीहिता इताश्चेति पारमिताः, बुद्धबोधिसत्त्वैश्चेष्टिता गताश्चेत्यर्थः //
पुनर्ज्ञेयपारंगताः पारमिताः, बुद्धत्वे प्रतिष्ठिता इत्यर्थः /
पुनः परानात्मानं च परमामीति तारयन्तोति पारमिताः, परानात्मानं च दुःखार्णवमतिक्रामन्तीत्यर्थः // इदं तावत्साधारणं निर्वचनम् //
प्रत्येकं पुनर्दायकदारिद्रयापनयताद्दानम्, दाहापनयनाद्वा प्रतिग्राहकानाम् // शान्तेन्द्रियालम्भनाच्छुभगतिलीयनाच्छैत्यालयाच्च शीलं यथाक्रममिन्द्रियेषु गुप्तद्वारतावाहनात् सुगतिगमनहेतुभावनादविप्रतिसाराद्यानुपूर्व्या यावन्निर्वाणाश्रयत्वादिति / क्रोधक्षारतिरस्करणात् क्षतिचित्तागतितिरस्करणात् क्षेमाविष्करणाच्च क्षतिनां क्षान्तिः / क्षतिचित्तं पुनर्येनाप कारिणां प्रत्यपकारः क्रियते तस्यागतस्यानया विलोपनं तिरस्करणं वेदितव्यम् / क्षतमेषां वैरं विद्यत इति क्षतिनस्तेषामभयप्रकाशनं क्षेमस्याविष्करणं वेदितव्यम् / वधवृद्धोहायोगाद्वोर्यम् / तत्र वधायेहाकुशलधर्मविगमाय द्वाभ्यां सम्यक्प्रहाणाभ्याम्, वृद्धये ईहा कुशलधर्मसमुदागमाय द्वाभ्यां सम्यक्प्रहाणाभ्यां च / धारणयमनसंयमनविनयननयनाद्ध्यानम् / तत्र धारणामालंबने चित्तस्य, यमनं विक्षेपतः, संयमनं चित्तस्य, विनयनं पर्यवस्थानानां विष्कम्भणम्, नयनं विभुत्वस्य प्रापणं वेदितव्यम् / परप्रणीतज्ञानात् (अभिध्-स्-भ् 106) प्रत्यात्मज्ञानात् प्रकारज्ञानात् शमप्राप्तिगुणप्रकर्षज्ञानाच्च प्रज्ञा / तत्र परप्रणीतज्ञानं परतो घोषान्वया योनिशोमनस्कारसंप्रयुक्ता प्रज्ञा, प्रत्यात्मज्ञानं लोकोत्तरा, प्रकारज्ञानं लोकोत्तरपृष्ठलब्धा, शमप्राप्तये ज्ञानं भावनामार्गे क्लेशप्रतिपक्षभूता, गुणप्रकर्षाय ज्ञानं वैशेषिकगुणाभिनिर्हाराय प्रज्ञा वेदितव्या //
भावना पञ्चविधा, उपधिसंनिश्रिता यावद्विभुत्वसंनिश्रिता //
तत्रोपधिसंनिश्रिता चतुराकारा / हेतुसंनिश्रिता यो गोत्रबलेन पारमितासु प्रतिपत्त्यभ्यासः विपाकसंनिश्रिता य आत्मभावसंपत्तिबलेन / प्राणिधानसंनिश्रिता यः पूर्वप्रणिधानबलेन / प्रतिसंख्यानबलसंनिश्रिता यः प्रज्ञाबलेन पारमितासु प्रतिपत्त्यभ्यासः //
मनस्कारसंनिश्रिता पारमिताभावना चतुराकारा / अधिमुक्तिमनस्कारेण सर्वपारमिताप्रतिसंयुक्त सूत्रान्तमधिमुच्यमानस्य / आस्वादनामनस्कारेण लब्धाः पारमिताः, आस्वादयतो गुणदर्शनयोगेन / अनुमोदनामनस्कारेण सर्वलोकधातुषु सर्वसत्त्वानां दानादिकमनुमोदमानस्य / अभिनन्दनामनस्कारेणात्मनः सत्त्वानां चानागतं पारमिताविशेषमभिनन्दमानस्य //
आशयसंनिश्रिता पारमिताभावना षडाकारा - अतृप्ताशयेन वैपुल्याशयेन मुदिताशयेनोपकराशयेन निर्लेपाशयेन कल्याणाशयेन च / तत्र बोधिसत्त्वस्य दाने ऽतृप्ताशयो यद्बोधिसत्त्वस्यैकक्षणे गङ्गानदीवालिकासमान्लोकधातून् सप्तरत्नपरिपूर्णान् प्रतिपादयतो गङ्गानदीवालिकासमांश्चात्मभावनेवं प्रतिक्षणं गङ्गानदीवालिकासमान् कल्पान् प्रतिपादयतः / यथा चैकसत्त्वस्यैवं यावान् सत्त्वधातुरनुत्तरायां सम्यक्संबोधौ परिपाचितव्यः / तमनेन पर्यायेण प्रतिपादयेदतृप्त एव बोधिसत्त्वस्य दानाशय इति / य एवंरूपं आशयो ऽयं बोधिसत्त्वस्य दाने ऽतृप्ताशयः / न च बोधिसत्त्व एवंरूपां दानपरंपरां क्षणमात्रमपि हापयति विच्छिनत्त्याबोधिमण्डनिषदनादिति / य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने विपुलाशयः / मुदिततरश्च बोधिसत्त्वो (अभिध्-स्-भ् 107) भवति तान्सत्त्वांस्तथा दानेनानुगृह्णन्, न च ते सत्त्वास्तेन दानेनानुगृह्यमाणा इति / य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने मुदिताशयः / उपकरतरांश्च बोधिसत्त्वस्तान् सत्त्वानात्मनः समनुपश्यति येषां तथा दानेनोपकरोति नात्मानम्, तेषामनुत्तरसम्यक्संबोध्युपस्तम्भतामुषा[दा]य इति / य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने उपकराशयः / न च बोधिसत्त्वः सत्त्वेषु तथा विपुलमपि दानमयं पुण्यमभिसंस्कृत्य प्रतिकारेण वार्थी भवति विपाकेन वेति / य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दानपारमिताभावनायां निर्लेपाशयः / यद्बोधिसत्त्वस्तथा विपुलस्यापि दानस्कन्धस्य विपाकं सत्त्वेष्वेवाभिनन्दति नात्मनः, सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीति / य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दानपारमिताभावनायां कल्याणाशयः /
तत्र बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामतृप्ताशयः, यद्बोधिसत्त्वो गङ्गानदीवालिकासमेष्वात्मभावेषु गङ्गानदीवालिकासमकल्पायुःप्रमाणेषु सर्वोपकरणनिरन्तरविघाती त्रिसाहस्रमहासाहस्रे लोकधातावाग्निपरिपूर्णे चतुर्विधमीर्यापथं कल्पयन्नेकं शीलपारमिताक्षणं यावत्प्रज्ञापारमिताक्षणं भावयेत्, एतेन पर्यायेण यावच्छीलस्कन्धो यावत्प्रज्ञास्कन्धो येनानुत्तरां सम्यक्संबोधिमभिसंबुध्यते, शीलस्कन्धं यावत्प्रज्ञास्कन्धं भावयेत्, अतृप्त एवं बोधिसत्त्वस्य शीलपारमिताभावनायामाशयो यावत्प्रज्ञापारमिताभावना[या]माशय इति / य एवंरूप आशयो ऽयं बोधिसत्त्व[स्य] शीलपारमिताभावनायामतृप्ताशयो यावत्प्रज्ञापारमितायां भावनायाम् / यद्बोधिसत्त्वस्तां शीलपारमिताभावनापरंपरां यावत्प्रज्ञापारमिताभावनापरंपरमा बोधिमण्डनिषदनान्न भ्रंशयति न विच्छिनत्तीति / य एवंरूप आशायो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां विपुलाशयः / मुदिततरश्च बोधिसत्त्वो भवति तया शीलपारमिताभावनया यावत्प्रज्ञापारमिताभावनया सत्त्वाननुगृह्णन्, न त्वेव ते सत्त्वा अनुगृह्यमाणा इति / य एवंरूपआशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां मुदिताशयः / उपकरतरांश्च स बोधिसत्त्वस्तान् सत्त्वानात्मनः समनुपश्यति येषां तथा शीलपारमिताभावनया यावत्प्रज्ञापारमिताभावनया उपकराति नात्मानम्, तेषामनुत्तरां सम्यक्संबोध्युपस्तम्भतासु पादायेति / य एवरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामुपकराशयः /
न च बोधिसत्त्वस्तथा विपुलमपि शीलपारमितामयं यावत्प्रज्ञापारमितामयं पुण्यमभिसंस्कृत्य तस्य प्रतिकारेण (अभिध्-स्-भ् 108) वार्थी भवति विपाकेन वेति / य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमितायां यावत्प्रज्ञापारमितायां निर्लेपाशयः / तत्र यद्बोधिसत्त्व एवं शीलपारमिताभावनामयस्य यावत्प्रज्ञापारमिताभावनामयस्य पुण्यस्कन्धस्य विपाकं सत्त्वेष्वेवाभिनन्दति नात्मनः, सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीति / य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमितायां भावनायां यावत्प्रज्ञापारमिताभावनायां कल्याणाशयः //
उपायसंनिश्रिता पारमिताभावना त्रयाकारा निर्विकल्पेन ज्ञानेन त्रिमण्डलपरिशुद्धिप्रत्यवेक्षणतामुपादाय / तथाहि स [उ]पायः सर्वमनस्काराणामभिनिष्पत्तये //
विभुत्वसंनिश्रिता पारमिताभावना त्रयाकारा कायविभुत्वतः, चर्याविभुत्वतः देशनाविभुत्वश्च / तत्र कायविभुत्वं ताथागतौ द्वौ कायौ द्रष्टव्यौ स्वाभाविकः सांभोगिकश्च / तत्र चर्याविभुत्वं नैर्माणिकः कायो द्रष्टव्यो येन सर्वाकारां सर्वसत्त्वानां सहधार्मिकचर्यां दर्शयति / देशना विभुत्वं षट्पारमितासर्वाकारदेशनायामव्याघाततः //
प्रभेदतो ऽष्टादशभिरुपस्तम्भैः षण्णां पारमितानां प्रभेदो वेदितव्यः / अष्टादशोपस्तम्भाः - कायोपस्तम्भः, चित्तोपस्तम्भः, कुशलोपस्तम्भः, सुगत्युपस्तम्भः, बोध्युपस्तम्भः, करुणोपस्तम्भः, सत्त्वापरित्यागोपस्तम्भः, हीनचित्तपरित्यागोपस्तम्भः / अनुत्पत्तिकधर्मक्षान्त्युपस्तम्भः कुशलमूलप्रयोगोपस्तम्भः, कुशलमूलसमुदागमोपस्तम्भः, कुशलमूलाक्षयतोपस्तम्भः, अपरिखेदोपस्तम्भः, सर्वचिन्तितार्थसमृद्धयुपस्तम्भः, गणपरिकर्षणोपस्तम्भः, भूमिप्रवेशोपस्तम्भः, बुद्धधर्मसमुदानयनोपस्तम्भः, बुद्धकृत्यानुष्ठानोपस्तम्भश्च //
प्रत्येकं दानादीनां त्रैविघ्यात् त्रिभिस्त्रिभिरुपस्तम्भैर्यथाक्रमं संग्रहो वेदितव्यः / तत्र त्रिविधं दानम् - अभयदानं धर्मदानमामिषदानं च / त्रिविधं शीलम् - संवरशीलं कुशलधर्मसंग्राहकं शीलं सत्त्वार्थक्रियाशीलं च / त्रिविधा (अभिध्-स्-भ् 109) क्षान्तिः - अपकारमर्षणक्षान्तिर्दुःखाधिवासनाक्षान्तिर्धर्मनिध्यानक्षान्तिश्च / त्रिविधं वीर्यम् - संनाहवीर्यं प्रयोगवीर्यं सत्त्वार्थक्रियावीर्यं च / त्रिविधं ध्यानम् - दृष्टधर्मसुखाविहाराय ध्यानमभिज्ञानिर्हाराय ध्यानं सत्त्वार्थक्रियायै च ध्यानम् / त्रिविधा प्रज्ञा - संवृत्यालंबना परमार्थालंबना सत्त्वार्थालम्बना च //
तत्रामिषदानं कायोपस्तम्भः, अन्नपानाद्युपकरणैः प्रतिग्राहकाश्रयानुग्रहणात् / अभयदानं चित्तोपस्तम्भः दौर्मनस्यविशेषा[प]गमाय चेतस आश्वासाय संहारात् / इत्येवमन्यदपि योज्यम् //
हीनचित्तं पुनर्बोधिसत्त्वस्य संसारदुःखपरिखेदितया श्रावकप्रत्येकबुद्धचित्तम्, तत्परित्यागोपस्तम्भो दुःखाधिवासनक्षान्तिर्वेदितव्या //
कुशलमूलाक्षयता सर्वसत्त्वेषु क्रियार्थाधिकारितया यावत्सारं निरुपधिशेषे ऽपि निर्वाणधातावपरित्यागः, तदुपस्तम्भः सत्त्वार्थक्रियायं वीर्यं वेदितव्यम् //
गणपरिकर्षणं कर्मं अधिगमं निश्रित्य विनेयानामसमाहितस्य चित्तस्य समाधानाय समाहितस्य वा चित्तस्य विमोक्षायाववादानुशासनोप्रदानम्, तदुपस्तम्भः सत्त्वार्थक्रियायै ध्यानम् //
भूमिप्रवेशो यया देशनया धर्माधिमुक्तिपूर्विकयासंभारपरिपूर्याप्रमुदितां भूमिं प्रविशति, तदुपस्तम्भः संवृतिसत्यालंबना प्रज्ञा //
शेषं सुयोज्यत्वान्न योजितम् //
पुनः प्रभेदः सप्त दानामि - मूलदानं गोत्रावस्थस्य बोधिसत्त्वस्य दानपारमिता, गोत्रमात्रं निश्रित्य दानात् / आधानदानं चित्तोत्पादावस्थस्य, प्रणिधानसमादानं निश्रित्य दानात् / अनुग्रहदानं स्वपरार्थप्रत्यवस्थस्य / अनवग्रहदानं तत्त्वार्थपरीक्षावस्थस्य, दायकादिविकल्पाभिनिवेशावग्राहाभावात् / निष्परिग्रहदानं प्रभावावस्थस्य, विना वाह्येनोपकरणपरिग्रहेण गगनगञ्जादिसमाधिभिराकाशे पाणिं संचार्य यथेष्टं रत्नादिवर्षणात् / प्रत्यर्हदानं परिपाकावस्थस्य, यथाविनेयानुरूपं दानात् / महादानं परमबोध्यवस्थस्य, निरुत्तरत्वात् / एवं यावत्प्रज्ञा यथायोगं वेदितव्यम् //
संग्रहः दानादभिर्बोधिसत्त्वभूमिसंग्रहार्थेन, तत्रेदमुदाहरणमात्रं पारमितादिभिः / गोत्रसंग्रहो दानपारमितादिगोत्रं लिङ्गतो ऽनुगन्तव्यम् / चित्तोत्पादसंग्रहो विशिष्टचित्तोत्पादसं[ग्र]हणात् / द्विविधो हि चित्तोत्पादः - अविशिष्टो विशिष्टश्च / तत्राविशिष्टो ऽहो वताहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयेति / विशिष्ट एवं दानपारमितां परिपूरयेयं यावत्प्रज्ञापारमितामिति / तदनेन विशिष्टेन चित्तोत्पादेन पारमितानां संग्रहो वेदितव्यः, तासां कारणभावात् / स्वपरार्थसंग्रहो यद्दानेनैश्वर्य परिगृहणात्ययं स्वार्थः, यत्पुनः परानुपकरणोपसंहारेणानुगृह्णात्ययं स्वार्थः एवमवशिष्टाभिः संग्रहो वेदितव्यः / परमार्थसंग्रहः - धर्मधातुमारभ्य, तथताया दानादिसामान्यलक्ष[ण]त्वात् / ज्ञानसंभारमारभ्य, सर्वज्ञताभाजनतापादनात् / ज्ञानपरिग्रहमारभ्य सर्वज्ञतापरिनिष्पादनात् / ज्ञानानुपरिवर्ततामारभ्य, पञ्चानां प्रज्ञापारमितानुपरिवर्तनात् / ज्ञानलक्षणमारभ्य, प्रज्ञापारमिताः सम्यग्ज्ञानस्वभावत्वात् / इत्येवं तथतासम्यज्ज्ञानस्वभावतः परमार्थो दानादिभिः संगृहीतो वेदितव्यः / एतेनोदाहरणमात्रेण शेषः संग्रहो वेदितव्यः //
विपक्षो दानादीनां यथाक्रमं मात्सर्यदौःशील्ये क्रोधकौशीद्ये विक्षेपदौःप्रज्ञे / अपि खलु यावन्तः कुशला धर्माः पारमिताभिः संगृहीतास्तेषां यो विपक्षो ज्ञेयावरणं च स तासां विपक्षो वेदितव्यः //
अनुशंसः पञ्चविधफलाधिकारेणाप्रमेयो वेदितव्यः / तद्यथा यथास्वमासां विपक्षप्रहाणं विसंयोगफलम् / दृष्टे धर्मे स्वपरानुग्रहणं पुरुषकारफलम् / आयत्यामुत्तरात्तरविशिष्टत्तरतमोत्पत्तिर्निष्यन्दफलम् / महाबोधिरधिपतिफलम् / महाभोगता सुगतिगमनमवराभेदसुखसौमनस्य बहुलता सत्त्वाधिपपत्यमव्याबाध्यात्मभावता महेशाख्यता च यथाक्रमं दानादीनां विपाकफलं वेदितव्यम् //
अन्योन्यविनिश्चयस्त्रिविधः - प्रायोगिकः, प्राभेदिकः, प्रभिद्यसांदर्शिकश्च //
तत्र प्रायोगिकः दानप्रयोगे सर्वासां वृत्तिरूपलभ्यते / तद्यथाध्यात्मिकं बाह्यं वस्तुपरित्यजनतः दानप्रयोगः / तत्र यः परित्यागः स दानपारमिता / तत्रैव या मैत्रचित्तस्य परत्रविघातोत्पीडाविहेठसंवरणता सा शीलपारमिता / तत्रैव योपरोधविघातखेदमर्षणता सा क्षान्तिपारमिता / तत्रैव या भूयो भूयश्चित्तस्योत्सहनता सा वीर्यपारमिता / तत्रैव या चित्तस्यैकाग्रता कुशलाद्बहिरविसरणता सा ध्यानपारमिता / तत्रैव या यथावद्धेतु फलसुगृहीतता दृष्ट्यपरामर्षणता सा प्रज्ञापारमिता / एवं यावत्प्रज्ञापारमितायां यथायोगं योजयितव्यमुभयदानं सर्वज्ञज्ञानमिति कृत्वा //
तत्र प्राभेदिकः स्वभावप्रभेदेन, अनुकारप्रभेदेन च / तत्र दानादीनां स्वभावो यथाक्रमं विसर्गः संवरो मर्षणाभ्युत्साहश्चितस्थितिः प्रविचयश्च / तत्र दानादिप्रयोगेषु तदन्यपारमितानामनुवृत्तिः पूर्ववत् / तत्र दानादीनामुपयोगः समादापना वर्णवादिता सुमनोज्ञता च / तत्र दानादीनां रोपणा या परसंताने प्रतिष्ठापना / तदत्र दानपारमितामिषदानम्, तदन्याः पञ्चाभयदानम्, सर्वाः सद्धर्मदानं परसंताने रोपणात् //
तत्र प्रभिद्यसांदर्शिक एकावचारकादिभिः / तद्यथा या दानपारमिता शीलपारमितापि सा, या वा शीलपारमिता दानपारमितापि सा, पश्चात्पादकः - या यावच्छीलपारमिता दानपारमितापि सा, स्याद्दानपारमिता न शीलपारमिता शीलपारमितयासंगृहीता या दानपारमिता / एवं यावत्यज्ञापारमितयासंगृहीता दानपारमिता पश्चात्पादकैर्योजयितव्या / यद्दानं सर्वा सा पारमिता, या दानपारमिता सर्वं तद्दानमिति चतुष्कोटिकम् / स्याद्दानं न पारमिता यन्न महोबोधिपरिणामितम् / स्यात् पारमिता न दानं शीलादयो महाबोधिपरिणामिताः / स्याद्दानं च पारमिता च (अभिध्-स्-भ् 112) बोधिपरिणामितानि दानादीनि / स्यान्न दानं न पारमिता उक्तविनिर्मुक्ता धर्माः / एवं यावत्प्रज्ञापारमितामारभ्य चतुष्कोटिकं प्रत्येकं योजयितव्यम् / यो दानं समाचरति सर्वो ऽसौ दानपारमितान्वयं पुण्यं प्रसवतीति चतुष्कोटिकम् / प्रथमा कोटिः - महाबोध्यपरिणामितं दानं समाचरति / द्वितीया कोटिः - दानपारमितां यां समादापनवर्णभाषणसुमनोज्ञताभिः / तृतीया कोटिः - महाबोधिपरिणामितेन दानेन / चतुर्थी कोटिः - एतानाकारान् स्थापयित्वा / एवं यावत्प्रज्ञापारमितामारभ्य प्रत्येकं चतुष्कोटिकं योजयितव्यम् //
विशेषतो वैपुल्ये औदार्यगाम्भीर्यदेशना तत्फलस्य सर्वज्ञत्वस्य परमोदारगम्भीरत्वात्फलानुरूप्येण हेतुनिर्देशो द्रष्टव्यः //
एकत्यानां तदनधिमोक्षे त्रासः बोधिसत्त्वगोत्रवैकल्यं प्रकृत्या हीनचित्ततया गाम्भीर्यौदार्यदेशनां नाधिमोक्तुं शक्नुवन्ति / सत्यपि तद्गोत्रत्वे महाबोधिमारभ्य प्रणिधानादीनां कुशलमूलादीनामनवरोपणात्, सत्यपि तदवरोपणे महायानप्रतिक्षेपकसत्त्वपरिगृहीतत्वादिति / अधिमुच्यमानानामप्येकत्यानामनिर्याणं नीतार्थ सूत्रम[न]न्विष्य स्वयं दृष्टिपरामर्षस्थायितया यथारुतमर्थाभिनिवेशात / तद्यथा सर्वधर्मनिःस्वभावतावचनात् सर्वलक्षणेन सर्वभावापवादिनः / एवमन्ये ऽपि यथारुतार्थाभिनिवेशिनो महायाने न निर्यान्तोतिवेदितव्यं नानाभिप्रायभाषितत्वात् महायानस्येति / इदं च संधायोक्तं भगवता महाधर्मादर्शे धर्मपर्याये - बोधिसत्त्वस्य यथारुतमयोनिशो धर्मान् विचिन्वतो ऽष्टाविंशतिरसद्दृष्टय उत्पद्यन्ते //
अष्टाविंशतिरसद्दृष्टयः कतमाः / निमित्तदृष्टिर्यावदभिमानदृष्टिश्च / तत्र निस्वभावाः सर्वधर्मा अनुत्पन्ना इत्येवमादिकं महायाने रुतमुपलभ्य तदभिसंध्यकुशलाः यथारुतमेवास्यार्थमधिमुच्यमाना अभाव एवायं भगवता देशितः सर्वधर्माणामनुत्पाद एवेत्यभावादिनिमित्तमभिनिविशन्ते सैषां भवति निमित्तदृष्टिः / त एवमभावादिनिमित्तमभिनिविशमानास्त्रीन्स्वभावानवदन्ते परिकल्पितं स्वभावं परतन्त्रं परिनिष्पन्नं च / तत्रायं परिकल्पितः स्वभावो यद्रूपमिति वा यावन्निर्वाणामिति वाभिलापप्रज्ञप्तिमात्रभभूतो निःशरीरार्थो यद्बाला रूपादिलक्षणं समारोपत्तः परिकल्पयन्ति / तत्रायं परतन्त्रः स्वभावा यत्तदेवाभूतपरिकल्पमात्रम् / तत्रायं परिनिष्पन्नः स्वभावो यत्सर्वधर्माणां तत्त्वं (अभिध्-स्-भ् 113) तथता / तदपवादाकारास्तिस्रो दृष्टयो भवन्ति - प्रज्ञप्त्यपवाददृष्टिः परिकल्पापवाददृष्टिस्तत्त्वापवाददृष्टिश्च / त एवं सर्वथा सर्वधर्मानपवदमानास्तस्या अपवाददृष्टेः प्रतिष्ठापनार्थं कांचिदेव युक्तिं परिगृह्णन्ति, ये ऽपि नीतार्थाः सूत्रान्ता निरभिलापधर्मताद्योतकास्तानपि सर्वान् स्वदृष्टयानुलोम्येन परिणामयन्ति / ते एव द्वे दृष्टो भवतः परिग्रहदृष्टिः परिणतिदृष्टिश्च / ते पुनरेवंदृष्टयो भवन्ति - य एतामीदृशीं दृष्टिं निश्रित्य कुशलमकुशलं वा समाचरति स निरवद्य एव भवति निर्दोषः सर्वमेवास्य तत्कल्याणतां याति, पूर्वोपचिताच्चावरणात्स निःसरतोत्येवमेषां द्वे दृष्टी अनवद्यतादृष्टिर्निःसरणदृष्टिश्च /
ते चैवं स्वदृष्टावभिनिविष्टास्तद् दृष्टिविपर्ययेण स्कन्धादिधर्मव्यवस्थापकं श्रावकपिटकमवजानन्ति, ये च तामपवाददृष्टिमनधिमुक्ताः श्रावकयानीयास्तान् प्रद्विषन्ति / ते एते द्वे दृष्टी भवतो ऽवज्ञादृष्टिः प्रकोपदृष्टिश्च / स्वदृष्ट्यनुसारेण चैते यथावच्छून्यतानिमित्ताप्रणिहितानि व्यवस्थापयमाना अतल्लक्षणे तल्लक्षणसंज्ञिनो विपरीतमेषां लक्षणं व्यवस्थापयन्ति, एवंचित्ताश्च भवन्ति - यस्यामीदृश्यां धर्मतायामवतरन्त्यवतारयन्ति वा सर्वे ते ऽप्रमेयं पुण्यं प्रसवन्तीत्येवमेते दृष्टी विपरीतदृष्टिः प्रसवदृष्टिश्च / यदा पुनस्ते तां दृष्टिमारभ्य परंरनुयुज्यन्ते तदा न किंचित्स्वयमिच्छन्त्यभ्युपगन्तुम्, छलजातिभ्यां च पराननुयुञ्जन्ते / ते एते अनभ्युपगमदृष्टिः कुसृतिदृष्टिश्च / ते चैवमभिमानिनो भवन्ति - य एवं प्रतिपद्यन्ते [ते] सम्यग्बुद्धान् भगवतः पूजयन्ति सत्कुर्वन्तीत्येषां सत्कारदृष्टिः / अविपरीतधर्मताकुशलैश्च तता दृष्टेर्विवेच्यमानाः सूपपन्नया प्रसिद्धया युक्तया प्रत्यायमाना अपि तां दृष्टिं न कथंचित् परित्यजन्ति, एतदेव तथ्यं मिथ्यान्यदित्येषा दृढमूढतादृष्टिः / एतासां च यथानिर्दिष्टानां दृष्टीनां यद्वासनादौष्ठुल्यं सा मूलदृष्टिः / एत एव च सप्तदशदृष्टयो दोषोद्भावनामुखेनावशिष्टाभिः दृष्टिभिः पुनर्निदिश्यन्ते / तद्यथा दृष्टावदृष्टदृष्टि निमित्तदृष्टिरित्युच्यते, अभावादिनिमित्ताभिनिवेशिन एव सतः सर्वनिमित्तानभिनिवेशसज्ञित्वात् / प्रज्ञप्त्यपवाददृष्टिः परिकल्पापवाददृष्टिस्तत्त्वापवाददृष्टिश्च प्रयोगनिराकरणदृष्टिः, सर्वापवादिनो व्यायामनिः सामर्थ्यसंज्ञित्वात् /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
