Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता, Part इ
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
संस्कृतधातौ नाभिनिवेक्ष्यते / असंस्कृतधातौ नाभिनिवेक्ष्यते / दानपारमितायां नाभिनिवेक्ष्यते / शीलपारमितायां नाभिनिवेक्ष्यते / क्षान्तिपारमितायां नाभिनिवेक्ष्यते / वीर्यपारमितायां नाभिनिवेक्ष्यते / ध्यानपारमितायां नाभिनिवेक्ष्यते / प्रज्ञापारमितायां नाभिनिवेक्ष्यते / न नात्यन्ते ऽपि लक्षणे ऽप्य् आसां नाभिनिवेक्ष्यते / बोधिकाये नाभिनिवेक्ष्यते / मांसचक्षुषि नाभिनिवेक्ष्यते / दिव्यचक्षुषि नाभिनिवेक्ष्यते / प्रज्ञाचक्षुषि नाभिनिवेक्ष्यते / धर्मचक्षुषि नाभिनिवेक्ष्यते / बुद्धचक्षुषि नाभिनिवेक्ष्यते / अभिज्ञापारमितायां नाभिनिवेक्ष्यते / अध्यात्मशून्यतायां नाभिनिवेक्ष्यते / बहिर्धाशून्यतायां नाभिनिवेक्ष्यते / अध्यात्मबहिर्धाशून्यतायां नाभिनिवेक्ष्यते / शून्यताशून्यतायां नाभिनिवेक्ष्यते / महाशून्यतायां नाभिनिवेक्ष्यते / परमार्थशून्यतायां नाभिनिवेक्ष्यते / संस्कृतशून्यतायां नाभिनिवेक्ष्यते / असंस्कृतशून्यतायां नाभिनिवेक्ष्यते / अत्यन्तशून्यतायां नाभिनिवेक्ष्यते / अनवराग्रशून्यतायां नाभिनिवेक्ष्यते / अनवकारशून्यतायां नाभिनिवेक्ष्यते / प्रकृतिशून्यतायां नाभिनिवेक्ष्यते / सर्वधर्मशून्यतायां नाभिनिवेक्ष्यते / स्वलक्षणशून्यतायां नाभिनिवेक्ष्यते / अनुपलम्भशून्यतायां नाभिनिवेक्ष्यते / अभावशून्यतायां नाभिनिवेक्ष्यते / स्वभावशून्यतायां नाभिनिवेक्ष्यते / अभावस्वभावशून्यतायां नाभिनिवेक्ष्यते / स्मृत्युपस्थानेषु नाभिनिवेक्ष्यते / सम्यक्प्रहाणेषु नाभिनिवेक्ष्यते / ऋद्धिपादेषु नाभिनिवेक्ष्यते / इन्द्रियेषु नाभिनिवेक्ष्यते / बलेषु नाभिनिवेक्ष्यते / बोध्यङ्गेषु नाभिनिवेक्ष्यते / आर्याष्टाङ्गमार्गेषु नाभिनिवेक्ष्यते / आर्यसत्येषु नाभिनिवेक्ष्यते /
ध्यानेषु नाभिनिवेक्ष्यते / अप्रमाणेषु नाभिनिवेक्ष्यते / आरूप्यसमापत्तिषु नाभिनिवेक्ष्यते / अष्टसु विमोक्षेषु नाभिनिवेक्ष्यते / नवस्व् अनुपूर्वविहारेषु नाभिनिवेक्ष्यते / शून्यतायां नाभिनिवेक्ष्यते / आनिमित्ते नाभिनिवेक्ष्यते / अप्रणिहिते नाभिनिवेक्ष्यते / अभिज्ञासु नाभिनिवेक्ष्यते / समाधिषु नाभिनिवेक्ष्यते / धारणीमुखेषु नाभिनिवेक्ष्यते / दशतथागतबलेषु नाभिनिवेक्ष्यते / चतुर्षु वैशारद्येषु नाभिनिवेक्ष्यते / धर्मधातौ नाभिनिवेक्ष्यते / चतसृषु प्रतिसंवित्सु नाभिनिवेक्ष्यते / महामैत्र्यां नाभिनिवेक्ष्यते / महाकरुणायां नाभिनिवेक्ष्यते / अष्टादशावेणिकबुद्धधर्मेषु नाभिनिवेक्ष्यते / तथतायां नाभिनिवेक्ष्यते / भूतकोट्यां नाभिनिवेक्ष्यते / धर्मधातौ नाभिनिवेक्ष्यते / सत्वपरिपाके नाभिनिवेक्ष्यते / बुद्धक्षेत्रपरिशुद्धौ नाभिनिवेक्ष्यते / उपायकौशले नाभिनिवेक्ष्यते / तत् कस्य हेतोस् तथा हि ते सर्वधर्मा न संविद्यन्ते / यञ् चाभिनिविशेत / येन वाभिनिविशेत / यत्र वाभिनिविशेत /
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽनभिनिविष्टः सर्वधर्मेषु प्रज्ञापारमितायां चरन् दानपारमितायां वर्धते / शीलपारमितायां विवर्धते / क्षान्तिपारमितायां विवर्धते / वीर्यपारमितायां विवर्धते / ध्यानपारमितायां विवर्धते / प्रज्ञापारमितायां विवर्धते / बोधिसत्वन्यामम् अवक्रामत्य् अवैवर्तिकां भूमिम् आक्रामात्य् अभिज्ञाः परिपूर्य बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति / सत्वान् परिपाठयन् बुद्धान् भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् बुद्धक्षेत्रपरिशोधनतायै /
बुद्धानां भगवतां दर्शनायै तांश् च भगवतो दृष्ट्वा यैः कुशलमूलैर् आकाङ्क्षिष्यन्ते / तान् बुद्धान् भगवतः सत्कर्तुं गुरूकर्तुं मानयितुं पूजयितुं तानि वास्य कुशलमूलानि प्रादुर्भविष्यन्ति / तैर् एव कुशलमूलैस् तेषां बुद्धानां भगवताम् अन्तिके प्रादुर्भविष्यन्ति / तेषाञ् च बुद्धानां भगवताम् अन्तिके धर्मं श्रोष्यन्ति / यथा श्रुतश् च स धर्मो न जात्वोच्छेत्स्यते / यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते / धारणीमुखानि च प्रतिलप्स्यते / समाधिमुखानि च प्रतिलप्स्यते /
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नामसङ्केतिकी धर्मप्रज्ञप्तिर् अवबोद्धव्या / यः पुनः सुभूतिर् एवम् आह बोधिसत्त्वो महासत्त्व इति भगवन्न् उच्यते / तत् किं मन्यसे सुभूते रूपं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र रूपाद् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते रूपे बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे रूपम् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते आरूपि बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते वेदना बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र वेदनायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते वेदनायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे वेदनेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अवेदना बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते संज्ञा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र संज्ञाया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे संज्ञायां बोधिसत्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे संज्ञेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते असंज्ञा बोधिसत्त्व इति /
आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते संस्कारा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र संस्कारेभ्यो बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते संस्कारेषु बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे संस्कारा इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते असंस्कारा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते विज्ञानं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र विज्ञानाद् बोधिसत्त्व इति / आह नो हीदं भगवान् / भगवान् आह / तत् किं मन्यसे सुभूते विज्ञाने बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे विज्ञानम् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अविज्ञानो बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते चक्षुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र चक्षुषो बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते चक्षुषि बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे बोधिसत्त्वे चक्षुर् इति / आह नो हीदं भयवन् / भगवान् आह / तत् किं मन्यसे सुभूते अचक्षुर् बोधिसत्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते श्रोत्रं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह /
तत् किं मनसि सुभूते अन्यत्र श्रोत्राद् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते श्रोत्रे बोधिसत्त्व इति / आह नो हीदं भगवन् / तत् किं मन्यसे सुभूते बोधिसत्त्वे श्रोत्रम् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अश्रोत्रो बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते घ्राणं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र घ्राणाद् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते घ्राणे बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽघ्राणो बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते जिह्वा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र जिह्वाया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते जिह्वायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते जिह्वा बोधिसत्त्वेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अजिह्वो बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते कायो बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र कायाद् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते काये बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे काय इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते अकायो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते मनो बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र मनसः बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते मनसि बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे मन इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अमनस्को बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते रूपं बोधित्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र रूपाद् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते रूपे बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे रूपम् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अरूपो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते शब्दो बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र शब्दाद् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते शब्दे बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे शब्द इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अशब्दो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते गन्धो बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र गन्धाद् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते गन्धे बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे गन्ध इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अगन्धो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते रसो बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र रसाद् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते रसे बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे रस इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अरसो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते स्पर्शो बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र स्पर्शाद् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते स्पर्शे बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् क मन्यसे सुभूते बोधिसत्त्वे स्पर्श इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अस्पर्शो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते धर्मा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र धर्मेभ्यो बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते धर्मेषु बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे धर्मा इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अधर्मा बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते चक्षुर्धातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र चक्षुर्धातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते चक्षुर्धातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे चक्षुर्धातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अचक्षुर्धातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते रूपधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र रूपधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते रूपधातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे रूपधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अरूपधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते चक्षुर्विज्ञानधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र चक्षुर्विज्ञानधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे चक्षुर्विज्ञानधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अचक्षुर्विज्ञानधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते श्रोत्रधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र श्रोत्रधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते श्रोत्रधातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे श्रोत्रधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अश्रोत्रधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते शब्दधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र शब्दधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते शब्दधातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे शब्दधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अशब्दधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते श्रोत्रविज्ञानधातुर् बोधिसत्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र श्रोत्रविज्ञानधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते श्रोत्रविज्ञानधातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे श्रोत्रविज्ञानधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अश्रोत्रविज्ञानधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते घ्राणधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र घ्राणधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते घ्राणधातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे घ्राणधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अघ्राणधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते गन्धधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र गन्धधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते गन्धधातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे गन्धधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अगन्धधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते घ्राणविज्ञानधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र घ्राणविज्ञानधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते घ्राणविज्ञानधातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे घ्राणविज्ञानधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अघ्राणविज्ञानधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते जिह्वाधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / तत् किं मन्यसे सुभूते ऽन्यत्र जिह्वाधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते जिह्वाधातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे जिह्वाधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अजिह्वाधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते रसधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र रसधातोर् बोधिसत्त्व इति / आह नो हीदं भगवान् / भगवान् आह / तत् किं मन्यसे सुभूते रसधातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे रसधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अरसधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते जिह्वाविज्ञानधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र जिह्वाविज्ञानधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते जिह्वाविज्ञानधातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे जिह्वाविज्ञानधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अजिह्वाविज्ञानधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते कायधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र कायधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते कायधातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे कायधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अकायधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते स्प्रष्टव्यधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र स्प्रष्टव्यधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते स्प्रष्टव्यधातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे स्प्रष्टव्यधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अस्प्रष्टव्यधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते कायविज्ञानधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र कायविज्ञानधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते कायविज्ञानधातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे कायविज्ञानधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अकायविज्ञानधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते मनोधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र मनोधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते मनोधातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे मनोधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अमनोधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते धर्मधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र धर्मधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते धर्मधातौ बोधिसत्त्व इति / आह नो हीदं भमृवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे धर्मधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अधर्मधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते मनोविज्ञानधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र मनोविज्ञानधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते मनोविज्ञानधातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे मनोविज्ञानधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अमनोविज्ञानधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते पृथिवीधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र पृथिवीधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते पृथिवीधातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे पृथिवीधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अपृथिवीधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते ऽब्धातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्राब्धातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽब्धातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोध्विसत्त्वे ऽब्धातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽनब्धातुर् बोधिसत्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते तेजोधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र तेजोधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सूभूते तेजोधातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे तेजोधातुर् इति / आह नो हीदं भगवन् भगवान् आह / तत् किं मन्यसे सुभूते अतेजोधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते वायुधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र वायुधातोर् बोधिसत्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते वायुधातौ बोधिसत्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्वे वायुधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अवायुधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते आकाशधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्राकाशधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते आकाशधातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे आकाशधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अनाकाशधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते विज्ञानधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र विज्ञानधातोर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते विज्ञानधातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे विज्ञानधातुर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अविज्ञानधातुर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते अविद्या बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्राविद्याया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सूभूते अविद्यायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे ऽविद्येति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽनविद्या बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते संस्कारा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र संस्कारेभ्यो बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संस्कारेषु बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते बोधिसत्त्वे संस्कारा इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते असंस्कारो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते विज्ञानं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र विज्ञानाद् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते विज्ञाने बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे विज्ञानम् इति / आह नो हीदं भगवान् / भगवान् आह तत् किं मन्यसे सुभूते अविज्ञानो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते नामरूपं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र नामरूपाद् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते नामरूपे बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे नामरूपम् इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते अनामरूपो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते षडायतनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र षडायतनाद् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते षडायतने बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे षडायतनम् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अषडायतनो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते स्पर्शो बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र स्पर्शाद् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते स्पर्शे बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे स्पर्श इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽस्पर्शो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते वेदना बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र वेदनाया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते वेदनायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे वेदनेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अवेदनो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते तृष्णा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र तृष्णाया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते तृष्णायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे तृष्णेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अतृष्णा बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते उपादानं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्रोपादानाद् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते उपादाने बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे उपादानम् इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते अनुपादानो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते भवो बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र भवाद् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते भवे बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे भव इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अभवो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते जातिर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र जातेर् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते जातौ बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे जातिर् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अजातिर् बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते जरामरणं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र जरामरणाद् बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते जरामरणे बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे जरामरणम् इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अजरामरणो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह तत् किं मन्यसे सुभूते या रूपस्य तथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र रूपतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते रूपतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे रूपतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अरूपतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या वेदनातथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र वेदनातथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते वेदनातथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे वेदनातथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अवेदनातथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या संज्ञातथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र संज्ञातथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते संज्ञातथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे संज्ञातथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते असंज्ञातथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या संस्कारतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र संस्कारतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते संस्कारतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे संस्कारतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते असंस्कारतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या विज्ञानतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र विज्ञानतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते विज्ञानतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे विज्ञानतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अविज्ञानतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या चक्षुस्तथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र चक्षुस्तथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते चक्षुस्तथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे चक्षुस्तथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अचक्षुस्तथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या श्रोत्रस्य तथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र श्रोत्रतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते श्रोत्रतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे श्रोत्रतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अश्रोत्रतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या घ्राणतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते अन्यत्र घ्राणतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते घ्राणतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे घ्राणतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अघ्राणतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या जिह्वातथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र जिह्वातथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते जिह्वातथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे जिह्वातथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अजिह्वातथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या कायतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र कायतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते कायतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे कायतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अकायतथतो बोधिसत्त्व इति / आह नो हीदे भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या मनस्तथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र मनस्तथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते मनस्तथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे मनस्तथता इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अमनस्तथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या रूपतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र रूपतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते रूपतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे रूपतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अरूपतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या शब्दतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते अन्यत्र शब्दतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते शब्दतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे शब्दतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अशब्दतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या गन्धतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र गन्धतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते गन्धतथतायां बोधिसत्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे गन्धतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अगन्धतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या रसतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र रसतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते रसतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे रसतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अरसतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या स्पर्शतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र स्पर्शतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते स्पर्शतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे स्पर्शतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अस्पर्शतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या धर्मतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र धर्मतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते धर्मतथतायां बोधिसत्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे धर्मतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अधर्मतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या चक्षुर्धातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र चक्षुर्धातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते चक्षुर्धातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे चक्षुर्धातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अचक्षुर्धातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या रूपधातुतथता बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र रूपधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते रूपधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे रूपधातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अरूपधातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या चक्षुर्विज्ञानधातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र चक्षुर्विज्ञानधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते चक्षुर्विज्ञानधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे चक्षुर्विज्ञानधातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अचक्षुर्विज्ञानधातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या श्रोत्रधातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र श्रोत्रधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते श्रोत्रधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे श्रोत्रधातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अश्रोत्रधातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या शब्दधातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र शब्दधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते शब्दधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे शब्दधातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अशब्दधातुतथतो बोधिसत्त्व इति / आह नो हीदं बगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या श्रोत्रविज्ञानधातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र श्रोत्रविज्ञानधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते श्रोत्रविज्ञानधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे श्रोत्रविज्ञानधातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अश्रोत्रविज्ञानतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या घ्राणधातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र घ्राणधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते घ्राणधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे घ्राणधातुतथेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अघ्राणधातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या गन्धधातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र गन्धधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते गन्धधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे गन्धधातुतथेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यते सुभूते अगन्धधातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या घ्राणविज्ञानधातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र घ्राणविज्ञानधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते घ्राणविज्ञानधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे घ्राणविज्ञानधातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अघ्राणविज्ञानधातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या जिह्वाधातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र जिह्वाधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते जिह्वाधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे जिह्वाधातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अजिह्वाधातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या रसधातुतथता सा बोधिदत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र रसधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते रसधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे रसधातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अरसधातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या जिह्वाविज्ञानधातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र जिह्वाविज्ञानधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते जिह्वाविज्ञानधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे जिह्वाविज्ञानतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अजिह्वाविज्ञानधातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या कायधातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र कायधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते कायधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे कायधातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अकायधातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या स्प्रष्टव्यधातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र स्प्रष्टव्यधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते स्प्रष्टव्यधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे स्प्रष्टव्यधातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अस्प्रष्टव्यधातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या कायविज्ञानधातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र कायविज्ञानधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते कायविज्ञानधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे कायविज्ञानधातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अकायविज्ञानधातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या मनोधातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र मनोधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते मनोधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे मनोविज्ञानधातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अमनोधातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या धर्मधातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र धर्मधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते धर्मधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे धर्मधातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अधर्मधातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या मनोविज्ञानधातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र मनोविज्ञानधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते मनोविज्ञानधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे मनोविज्ञानधातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अमनोविज्ञानधातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या पृथिवीधातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र पृथिवीधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते पृथिवीधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे पृथिवीधातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अपृथिवीधातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते याब्धातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्राब्धातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽब्धातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे ऽब्धातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽनब्धातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या तेजोधातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र तेजोधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते तेजोधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे तेजोधातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अतेजोधातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या वायुधातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र वायुधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते वायुधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे वायुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अवायुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या आकाशधातुतथतासा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्राकाशधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते आकाशधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे आकाशधातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अनाकाशधातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या विज्ञानधातुतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र विज्ञानधातुतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते विज्ञानधातुतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे विज्ञानधातुतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अविज्ञानधातुतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते याविद्यातथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्राविद्यातथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अविद्यातथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे अविद्यातथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अनविद्यातथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या संस्कारतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र संस्कारतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते संस्कारतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे संस्कारतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते असंस्कारतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या विज्ञानतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र विज्ञानतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते विज्ञानतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे विज्ञानतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अविज्ञानतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या नामरूपतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र नामरूपतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते नामरूपतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे नामरूपतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अनामरूपतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या षडायतनतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / तत् किं मन्यसे सुभूते अन्यत्र षडायतनतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते षडायतनतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे षडायतनतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अषडायतनतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या स्पर्शतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र स्पर्शतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते स्पर्शतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे स्पर्शतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अस्पर्शतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या वेदनातथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र वेदनातथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यवे सुभूते वेदनातथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे वेदनातथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अवेदनातथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या तृष्णातथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र तृष्णातथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते तृष्णातथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे तृष्णातथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अतृष्णातथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या उपादानतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्रोपादानतथताया बोधिसत्त्व इति / आहं नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते उपादानतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे उपादानतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अनुपादानतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या भवतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र भवतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते भवतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे भवतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अभवतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या जातितथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अन्यत्र जातितथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते जातितथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे जातितथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अजातितथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते या जरामरणतथता सा बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत्र जरामरणतथताया बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते जरामरणतथतायां बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते बोधिसत्त्वे जरामरणतथतेति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते अजरामरणतथतो बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते अर्थवशं संपश्यन्न् एवं वदसि /
न रूपां बोधिसत्त्व इति / नान्यत्र रूपाद् बोधिसत्त्व इति / न रूपे बोधिसत्त्व इति / न बोधिसत्त्वे रूपम् इति / नारूपो बोधिसत्त्व इति / न वेदना बोधिसत्त्व इति / नान्यत्र वेदनाया बोधिसत्त्व इति / न वेदनायां बोधिसत्त्व इति / न बोधिसत्त्वे वेदनेति / नावेदनो बोधिसत्त्व इति / न संज्ञा बोधिसत्त्व इति / नान्यत्र संज्ञाया बोधिसत्त्व इति / न संज्ञायां बोधिसत्त्व इति / न बोधिसत्त्वे संज्ञेति / नासंज्ञो बोधिसत्त्व इति / न संस्कारा बोधिसत्त्व इति / नान्यत्र संस्कारेभ्यो बोधिसत्त्व इति / न संस्कारेषु बोधिसत्त्व इति / नासंस्कारो बोधिसत्त्व इति / न विज्ञानं बोधिसत्त्व इति / नान्यत्र विज्ञानाद् बोधिसत्त्व इति / न विज्ञाने बोधिसत्त्व इति / नाविज्ञानो बोधिसत्त्व इति /
न चक्षूर् बोधिसत्त्व इति / नान्यत्र चक्षुषो बोधिसत्त्व इति / न चक्षुषि बोधिसत्त्व इति / न बोधिसत्त्वे चक्षुर् इति / नाचक्षुर् बोधिसत्त्व इति / न श्रोत्रं बोधिसत्त्व इति / नान्यत्र श्रोत्राद् बोधिसत्त्व इति / न श्रोत्रे बोधिसत्त्व इति / न बोधिसत्त्वे श्रोत्रम् इति / नाश्रोत्रो बोधिसत्त्व इति / न घ्राणं बोधिसत्त्व इति / नान्यत्र घ्राणाद् बोधिसत्त्व इति / न घ्राणे बोधिसत्त्व इति / न बोधिसत्त्वे घ्राणम् इति / नाघ्राणो बोधिसत्त्व इति / न जिह्वा बोधिसत्त्व इति / नान्यत्र जिह्वाया बोधिसत्त्व इति / न जिह्वायां बोधिसत्त्व इति / न बोधिसत्त्वे जिह्वेति / नाजिह्वो बोधिसत्त्व इति / न कायो बोधिसत्त्व इति / नान्यत्र कायाद् बोधिसत्त्व इति / न काये बोधिसत्त्व इति / न बोधिसत्त्वे काय इति / नाकायो बोधिसत्त्व इति / न मनो बोधिसत्त्व इति / नान्यत्र मनसो बोधिसत्त्व इति / न मनसि बोधिसत्त्व इति / न बोधिसत्त्वे मन इति / नामनो बोधिसत्त्व इति /
न रूपं बोधिसत्त्व इति / नान्यत्र रूपाद् बोधिसत्त्व इति / न रूपे बोधिसत्त्व इति / न बोधिसत्त्वे रूपम् इति / नारूपो बोधिसत्त्व इति / न शब्दो बोधिसत्त्व इति / नान्यत्र शब्दाद् बोधिसत्त्व इति / न शब्दे बोधिसत्त्व इति / न बोधिसत्त्वे शब्द इति / नाशब्दो बोधिसत्त्व इति / न गन्धो बोधिसत्त्व इति / नान्यत्र गन्धाद् बोधिसत्त्व इति / न गन्धे बोधिसत्त्व इति / न बोधिसत्त्वे गन्ध इति / नागन्धो बोधिसत्त्व इति / न रसो बोधिसत्त्व इति / नान्यत्र रसाद् बोधिसत्त्व इति / न रसे बोधिसत्त्व इति / न बोधिसत्त्वे रस इति / नारसो बोधिसत्त्व इति / न स्पर्शो बोधिसत्त्व इति / नान्यत्र स्पर्शाद् बोधिसत्त्व इति / न स्पर्शे बोधिसत्त्व इति / न बोधिसत्त्वे स्पर्श इति / नास्पर्शो बोधिसत्त्व इति / न धर्मो बोधिसत्त्व इति / नान्यत्र धर्मेभ्यो बोधिसत्त्व इति / न धर्मेषु बोधिसत्त्व इति / न बोधिसत्त्वे धर्मा इति / नाधर्मो बोधिसत्त्व इति / न चक्षुर्धातुर् बोधिसत्त्व इति / नान्यत्र चक्षुर्धातोर् बोधिसत्त्व इति / न चक्षुर्धातौ बोधिसत्त्व इति / न बोधिसत्त्वे चक्षुर्धातुर् इति / नाचक्षुर्धातुर् बोधिसत्त्व इति / न रूपधातुर् बोधिसत्त्व इति / नान्यत्र रूपधातोर् बोधिसत्त्व इति / न रूपधातौ बोधिसत्त्व इति / न बोधिसत्त्वे रूपधातुर् इति / नारूपधातुर् बोधिसत्त्व इति / न चक्षुर्विज्ञानधातुर् बोधिसत्त्व इति / नान्यत्र चक्षुर्विज्ञानधातोर् बोधिसत्त्व इति / न चक्षुर्विज्ञानधातौ बोधिसत्त्व इति / न बोधिसत्त्वे चक्षुर्विज्ञानधातुर् इति / नाचक्षुर्विज्ञानधातुर् बोधिसत्त्व इति / न श्रोत्रधातुर् बोधिसत्त्व इति / नान्यत्र श्रोत्रधातोर् बोधिसत्त्व इति /
न श्रोत्रधातौ बोधिसत्त्व इति / न बोधिसत्त्वे श्रोत्रधातुर् इति / नाश्रोत्रधातुर् बोधिसत्त्व इति / न शब्दधातुर् बोधिसत्त्व इति / नान्यत्र शब्दधातोर् बोधिसत्त्व इति / न शब्दधातौ बोधिसत्त्व इति / न बोधिसत्त्वे शब्दधातुर् इति / नाशब्दधातुर् बोधिसत्त्व इति / न श्रोत्रविज्ञानधातुर् बोधिसत्त्व इति / नान्यत्र श्रोत्रविज्ञानधातोर् बोधिसत्त्व इति / न श्रोत्रविज्ञानधातौ बोधिसत्त्व इति / न बोधिसत्त्वे श्रोत्रविज्ञानधातुर् इति / नाश्रोत्रविज्ञानधातुर् बोधिसत्त्व इति / न घ्राणधातुर् बोधिसत्त्व इति / नान्यत्र घ्राणधातोर् बोधिसत्त्व इति / न घ्राणधातौ बोधिसत्त्व इति / न बोधिसत्त्वे घ्राणधातुर् इति / नाघ्राणधातुर् बोधिसत्त्व इति / न गन्धधातुर् बोधिसत्त्व इति / नान्यत्र गन्धधातोर् बोधिसत्त्व इति / न गन्धधातौ बोधिसत्त्व इति / न बोधिसत्त्वे गन्धधातुर् इति / नागन्धधातुर् बोधिसत्त्व इति / न घ्राणविज्ञानधातुर् बोधिसत्त्व इति / नान्यत्र घ्राणविज्ञानधातोर् बोधिसत्त्व इति / न घ्राणविज्ञानधातौ बोधिसत्त्व इति / न बोधिसत्त्वे घ्राणविज्ञानधातुर् इति / नाघ्राणविज्ञानधातुर् बोधिसत्त्व इति / न जिह्वाधातुर् बोधिसत्त्व इति / नान्यत्र जिह्वाधातोर् बोधिसत्त्व इति / न जिह्वाधातौ बोधिसत्त्व इति / न बोधिसत्त्वे जिह्वाधातुर् इति / नाजिह्वाधातुर् बोधिसत्त्व इति / न रसधातुर् बोधिसत्त्व इति / नान्यत्र रसधातोर् बोधिसत्त्व इति / न रसधातौ बोधिसत्त्व इति / न बोधिसत्त्वे रसधातुर् इति / नारसधातुर् बोधिसत्त्व इति / न जिह्वाविज्ञानधातुर् बोधिसत्त्व इति / नान्यत्र जिह्वाविज्ञानधातोर् बोधिसत्त्व इति /
न जिह्वाविज्ञानधातौ बोधिसत्त्व इति / न बोधिसत्त्वे जिह्वाविज्ञानधातुर् इति / नाजिह्वाविज्ञानधातुर् बोधिसत्त्व इति / न कायधातुर् बोधिसत्त्व इति / नान्यत्र कायधातोर् बोधिसत्त्व इति / न कायधातौ बोधिसत्त्व इति / न बोधिसत्त्वे कायधातुर् इति / नाकायधातुर् बोधिसत्त्व इति / न स्प्रष्टव्यधातुर् बोधिसत्त्व इति / नान्यत्र स्प्रष्टव्यधातोर् बोधिसत्त्व इति / न स्प्रष्टव्यधातौ बोधिसत्त्व इति / न बोधिसत्त्वे स्प्रष्टव्यधातुर् इति / नास्प्रष्टव्यधातुर् बोधिसत्त्व इति / न कायविज्ञानधातुर् बोधिसत्त्व इति / नान्यत्र कायविज्ञानधातोर् बोधिसत्त्व इति / न कायविज्ञानधातौ बोधिसत्त्व इति / न बोधिसत्त्वे कायविज्ञानधातुर् इति / नाकायविज्ञानधातुर् बोधिसत्त्व इति / न मनोधातुर् बोधिसत्त्व इति / नान्यत्र मनोधातोर् बोधिसत्त्व इति / न मनोधातौ बोधिसत्त्व इति / न बोधिसत्त्वे मनोधातुर् इति / नामनोधातुर् बोधिसत्त्व इति / न धर्मधातुर् बोधिसत्त्व इति / नान्यत्र धर्मधातोर् बोधिसत्त्व इति / न धर्मधातौ बोधिसत्त्व इति / न बोधिसत्त्वे धर्मधातुर् इति / नाधर्मधातुर् बोधिसत्त्व इति / न मनोविज्ञानधातुर् बोधिसत्त्व इति / नान्यत्र मनोविज्ञानधातोर् बोधिसत्त्व इति / न मनोविज्ञानधातौ बोधिसत्त्व इति / नामनोविज्ञानधातुर् बोधिसत्त्व इति /
न पृथिवीधातुर् बोधिसत्त्व इति / नान्यत्र पृथिवीधातोर् बोधिसत्त्व इति / न पृथिवीधातौ बोधिसत्त्व इति / न बोधिसत्त्वे पृथिवीधातुर् इति / नापृथिवीधातुर् बोधिसत्त्व इति / नाब्धातुर् बोधिसत्त्व इति / नान्यत्राब्धातोर् बोधिसत्त्व इति / नाब्धातौ बोधिसत्त्व इति / न बोधिसत्त्वे ऽब्धातुर् इति / नानब्धातुर् बोधिसत्त्व इति / न तेजोधातुर् बोधिसत्त्व इति / नान्यत्र तेजोधातोर् बोधिसत्त्व इति / न तेजोधातौ बोधिसत्त्व इति / न बोधिसत्त्वे तेजोधातुर् इति / नातेजोधातुर् बोधिसत्त्व इति / न वायुधातुर् बोधिसत्त्व इति / नान्यत्र वायुधातोर् बोधिसत्त्व इति / न वायुधातौ बोधिसत्त्व इति / न बोधिसत्त्वे वायुधातुर् इति / नावायुधातुर् बोधिसत्त्व इति / नाकाशधातुर् बोधिसत्त्व इति / नान्यत्राकाशधातोर् बोधिसत्त्व इति / नाकाशधातौ बोधिसत्त्व इति / न बोधिसत्त्वे आकाशधातुर् इति / नानाकाशधातुर् बोधिसत्त्व इति /
न विज्ञानधातुर् बोधिसत्त्व इति / नान्यत्र विज्ञानधातोर् बोधिसत्त्व इति / न विज्ञानधातौ बोधिसत्त्व इति / न बोधिसत्त्वे विज्ञानधातुर् इति / नाविज्ञानधातुर् बोधिसत्त्व इति / नाविद्या बोधिसत्त्व इति / नान्यत्राविद्याया बोधिसत्त्व इति / नाविद्यायां बोधिसत्त्व इति / न बोधिसत्त्वे ऽविद्येति / नानविद्यो बोधिसत्त्व इति / न संस्कारा बोधिसत्त्व इति / नान्यत्र संस्कारेभ्यो बोधिसत्त्व इति / न संस्कारेषु बोधिसत्त्व इति / न बोधिसत्त्वे संस्कारा इति / नासंस्कारो बोधिसत्त्व इति / न विज्ञानं बोधिसत्त्व इति / नान्यत्र विज्ञानाद् बोधिसत्त्व इति / न विज्ञाने बोधिसत्त्व इति / न बोधिसत्त्वे विज्ञानम् इति / नाविज्ञानो बोधिसत्त्व इति / न नामरूपं बोधिसत्त्व इति / नान्यत्र नामरूपाद् बोधिसत्त्व इति / न नामरूपे बोधिसत्त्व इति / न बोधिसत्त्वे नामरूपम् इति / नानामरूपो बोधिसत्त्व इति / न षडायतनं बोधिसत्त्व इति / नान्यत्र षडायतनाद् बोधिसत्त्व इति / न षडायतने बोधिसत्त्व इति / न बोधिसत्त्वे षडायतनम् इति / नाषडायतनो बोधिसत्त्व इति / न स्पर्शो बोधिसत्त्व इति / नान्यत्र स्पर्शाद् बोधिसत्त्व इति / न स्पर्शे बोधिसत्त्व इति / न बोधिसत्त्वे स्पर्श इति / नास्पर्शो बोधिसत्त्व इति / न वेदना बोधिसत्त्व इति / नान्यत्र वेदनाया बोधिसत्त्व इति / न वेदनायां बोधिसत्त्व इति / न बोधिसत्त्वे वेदनेति / नावेदनो बोधिसत्त्व इति / न तृष्णा बोधिसत्त्व इति / नान्यत्र तृष्णाया बोधिसत्त्व इति / न तृष्णायां बोधिसत्त्व इति / न बोधिसत्त्वे तृष्णेति / नातृष्णो बोधिसत्त्व इति / नोपादानं बोधिसत्त्व इति / नान्यत्रोपादानाद् बोधिसत्त्व इति / नोपादाने बोधिसत्त्व इति /
न बोधिसत्त्वे उपादानम् इति / नानुपादानो बोधिसत्त्व इति / न भवो बोधिसत्त्व इति / नान्यत्र भवाद् बोधिसत्त्व इति / न भवे बोधिसत्त्व इति / न बोधिसत्त्वे भव इति / नाभवो बोधिसत्त्व इति / न जातिर् बोधिसत्त्व इति / नान्यत्र जातेर् बोधिसत्त्व इति / न जातौ बोधिसत्त्व इति / न बोधिसत्त्वे जातिर् इति / नाजातिर् बोधिसत्त्व इति / न जरामरणं बोधिसत्त्व इति / नान्यत्र जरामरणाद् बोधिसत्त्व इति / न जरामरणे बोधिसत्त्व इति / न बोधिसत्त्वे जरामरणम् इति / नाजरामरणो बोधिसत्त्व इति / न रूपतथता बोधिसत्त्व इति / नान्यत्र रूपतथताया बोधिसत्त्व इति / न रूपतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे रूपतथतेति / नारूपतथतो बोधिसत्त्व इति / न वेदनातथता बोधिसत्त्व इति / नान्यत्र वेदनातथताया बोधिसत्त्व इति / न वेदनातथतायां बोधिसत्त्व इति / न बोधिसत्त्वे वेदनातथतेति / नावेदनातथतो बोधिसत्त्व इति / न संज्ञातथता बोधिसत्त्व इति / नान्यत्र संज्ञातथतायाः बोधिसत्त्व इति / न संज्ञातथतायां बोधिसत्त्व इति / न बोधिसत्त्वे संज्ञातथतेति / नासंज्ञातथतो बोधिसत्त्व इति / न संस्कारतथता बोधिसत्त्व इति / नान्यत्र संस्कारतथताया बोधिसत्त्व इति / न संस्कारतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे संस्कारतथतेति / नासंस्कारतथतो बोधिसत्त्व इति / न विज्ञानतथता बोधिसत्त्व इति / नान्यत्र विज्ञानतथताया बोधिसत्त्व इति / न विज्ञानतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे विज्ञानतथतेति / नाविज्ञानतथतो बोधिसत्त्व इति /
न चक्षुस्तथता बोधिसत्त्व इति / नान्यत्र चक्षुस्तथताया बोधिसत्त्व इति / न चक्षुस्तथतायां बोधिसत्त्व इति / न बोधिसत्त्वे चक्षुस्तथतेति / नाचक्षुस्तथतो बोधिसत्त्व इति / न श्रोत्रतथता बोधिसत्त्व इति / नान्यत्र श्रोत्रतथताया बोधिसत्त्व इति / न श्रोत्रतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे श्रोत्रतथतेति / नाश्रोत्रतथतो बोधिसत्त्व इति / न घ्राणतथता बोधिसत्त्व इति / नान्यत्र घ्राणतथताया बोधिसत्त्व इति / न घ्राणतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे घ्राणतथतेति / नाघ्राणतथतो बोधिसत्त्व इति / न जिह्वातथता बोधिसत्त्व इति / नान्यत्र जिह्वातथताया बोधिसत्त्व इति / न जिह्वातथतायां बोधिसत्त्व इति / न बोधिसत्त्वे जिह्वातथतेति / नाजिह्वातथतो बोधिसत्त्व इति / न कायतथता बोधिसत्त्व इति / नान्यत्र कायतथताया बोधिसत्त्व इति / न कायतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे कायतथतेति / नाकायतथतो बोधिसत्त्व इति / न मनस्तथता बोधिसत्त्व इति / नान्यत्र मनस्तथताया बोधिसत्त्व इति / न मनस्तथतायां नोधिसत्त्व इति / न बोधिसत्त्वे मनस्तथतेति / नामनस्तथतो बोधिसत्त्व इति /
न रूपतथता बोधिसत्व इति / नान्यत्र रूपतथताया बोधिसत्त्व इति / न रूपतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे रूपतथतेति / नारूपतथतो बोधिसत्त्व इति / न शब्दतथता बोधिसत्त्व इति / नान्यत्र शब्दतथताया बोधिसत्व इति / न शब्दतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे शब्दतथतेति / नाशब्दतथतो बोधिसत्त्व इति / न गन्धतथता बोधिसत्त्व इति / नान्यत्र गन्धतथताया बोधिसत्त्व इति / न गन्धतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे गन्धतथतेति / नागन्धतथतो बोधिसत्त्व इति / न रसतथता बोधिसत्त्व इति / नान्यत्र रसतथताया बोधिसत्त्व इति / न रसतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे रसतथतेति / नारसतथतो बोधिसत्त्व इति / न स्पर्शतथता बोधिसत्त्व इति / नान्यत्र स्पर्शतथताया बोधिसत्त्व इति / न स्पर्शतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे स्पर्शतथतेति / नास्पर्शतथतो बोधिसत्त्व इति / न धर्मतथता बोधिसत्त्व इति / नान्यत्र धर्मतथताया बोधिसत्त्व इति / न धर्मतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे धर्मतथतेति / नाधर्मतथतो बोधिसत्त्व इति /
न चक्षुर्धातुतथता बोधिसत्त्व इति / नान्यत्र चक्षुर्धातुतथताया बोधिसत्त्व इति / न चक्षुर्धातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे चक्षुर्धातुतथतेति / नाचक्षुर्धातुतथतो बोधिसत्त्व इति / न रूपधातुतथता बोधिसत्त्व इति / नान्यत्र रूपधातुतथताया बोधिसत्त्व इति / न रूपधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे रूपधातुतथतेति / नारूपधातुतथतो बोधिसत्त्व इति /
न चक्षुर्विज्ञानधातुतथता बोधिसत्त्व इति / नान्यत्र चक्षुर्विज्ञानधातुतथताया बोधिसत्त्व इति / न चक्षुर्विज्ञानधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे चक्षुर्विज्ञानधातुतथतेति / नाचक्षुर्विज्ञानधातुतथतो बोधिसत्त्व इति / न श्रोत्रधातुतथता बोधिसत्त्व इति / नान्यत्र श्रोत्रधातुतथताया बोधिसत्त्व इति / न श्रोत्रधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे श्रोत्रधातुतथतेति / नाश्रोत्रधातुतथतो बोधिसत्त्व इति / न शब्दधातुतथता बोधिसत्त्व इति / नान्यत्र शब्दधातुतथताया बोधिसत्त्व इति / न शब्दधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे शब्दधातुतथतेति / नाशब्दधातुतथतो बोधिसत्त्व इति / न श्रोत्रविज्ञानधातुतथता बोधिसत्त्व इति / नान्यत्र श्रोत्रविज्ञानधातुतथताया बोधिसत्त्व इति / न श्रोत्रविज्ञानधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे श्रोत्रविज्ञानधातुतथतेति / नाश्रोत्रविज्ञानधातुतथतो बोधिसत्त्व इति / न घ्राणधातुतथता बोधिसत्त्व इति / नान्यत्र घ्राणधातुतथताया बोधिसत्त्व इति / न घ्राणधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे घ्राणधातुतथतेति / नाघ्राणधातुतथतो बोधिसत्त्व इति / न गन्धधातुतथता बोधिसत्त्व इति / नान्यत्र गन्धधातुतथताया बोधिसत्त्व इति / न गन्धधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे गन्धधातुतथतेति / नागन्धधातुतथतो बोधिसत्त्व इति /
न घ्राणविज्ञानधातुतथता बोधिसत्त्व इति / नान्यत्र घ्राणविज्ञानधातुतथताया बोधिसत्त्व इति / न घ्राणविज्ञानधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे घ्राणविज्ञानधातुतथतेति / नाघ्राणविज्ञानधातुतथतो बोधिसत्त्व इति /
न जिह्वाधातुतथता बोधिसत्त्व इति / नान्यत्र जिह्वाधातुतथताया बोधिसत्त्व इति / न जिह्वाधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे जिह्वाधातुतथतेति / नाजिह्वाधातुतथतो बोधिसत्त्व इति /
न रसधातुतथता बोधिसत्त्व इति / नान्यत्र रसधातुतथताया बोधिसत्त्व इति / न रसधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे रसधातुतथतेति / नारसधातुतथतो बोधिसत्त्व इति /
न जिह्वाविज्ञानधातुतथता बोधिसत्त्व इति / नान्यत्र जिह्वाविज्ञानधातुतथताया बोधिसत्त्व इति / न जिह्वाविज्ञानधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे जिह्वाविञ्जानधातुतथतेति / नाजिह्वाविज्ञानधातुतथतो बोधिसत्त्व इति /
न कायधातुतथता बोधिसत्त्व इति / नान्यत्र कायधातुतथताया बोधिसत्त्व इति / न कायधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे कायधातुतथेति / नाकायधातुतथतो बोधिसत्त्व इति /
न स्प्रष्टव्यधातुतथता बोधिसत्त्व इति / नान्यत्र स्प्रष्टव्यधातुतथताया बोधिसत्त्व इति / न स्प्रष्टव्यधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे स्प्रष्टव्यधातुतथतेति / नास्प्रष्टव्यधातुतथतो बोधिसत्त्व इति /
न कायविज्ञानधातुतथता बोधिसत्त्व इति / नान्यत्र कायविज्ञानधातुतथताया बोधिसत्त्व इति / न कायविज्ञानधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे कायविज्ञानधातुतथतेति / नाकायविज्ञानधातुतथतो बोधिसत्त्व इति /
न मनोधातुतथता बोधिसत्त्व इति / नान्यत्र मनोधातुतथताया बोधिसत्त्व इति / न मनोधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे मनोधातुतथतेति / नामनोधातुतथतो बोधिसत्त्व इति /
न धर्मधातुतथता बोधिसत्त्व इति / नान्यत्र धर्मधातुतथताया बोधिसत्त्व इति / न धर्मधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे धर्मधातुतथतेति / नाधर्मधातुतथतो बोधिसत्त्व इति /
न मनोविज्ञानधातुतथता बोधिसत्त्व इति / नान्यत्र मनोविज्ञानधातुतथताया बोधिसत्त्व इति / न मनोविज्ञानधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे मनोविज्ञानधातुतथतेति / नामनोविज्ञानधातुतथतो बोधिसत्त्व इति /
न पृथिवीधातुतथता बोधिसत्त्व इति / नान्यत्र पृथिवीधातुतथताया बोधिसत्त्व इति / न पृथिवीधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे पृथिवीधातुतथतेति / नापृथिवीधातुतथतो बोधिसत्त्व इति /
नाब्धातुतथता बोधिसत्त्व इति / नान्यत्राब्धातुतथताया बोधिसत्त्व इति / नाब्धातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे ऽब्धातुतथतेति / नानब्धातुतथतो बोधिसत्त्व इति /
न तेजोधातुतथता बोधिसत्त्व इति / नान्यत्र तेजोधातुतथताया बोधिसत्त्व इति / न तेजोधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे तेजोधातुतथतेति / नातेजोधातुतथतो बोधिसत्त्व इति /
न वायुधातुतथता बोधिसत्त्व इति / नान्यत्र वायुधातुतथताया बोधिसत्त्व इति / न वायुधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे वायुधातुतथतेति / नावायुधातुतथतो बोधिसत्त्व इति /
नाकाशधातुतथता बोधिसत्त्व इति / नान्यत्राकाशधातुतथताया बोधिसत्त्व इति / नाकाशधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे आकाशधातुतथतेति / नानाकाशधातुतथतो बोधिसत्त्व इति /
न विज्ञानधातुतथता बोधिसत्त्व इति / नान्यत्र विज्ञानधातुतथताया बोधिसत्त्व इति / न विज्ञानधातुतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे विज्ञानधातुतथेति / नाविज्ञानधातुतथतो बोधिसत्व इति /
नाविद्यातथता बोधिसत्त्व इति / नान्यत्राविद्यातथताया बोधिसत्त्व इति / नाविद्यातथतायां बोधिसत्त्व इति / न बोधिसत्त्वे ऽविद्यातथतेति / नाविद्यातथतो बोधिसत्त्व इति /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
