Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता, Part इ
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
न संस्कारतथता बोधिसत्त्व इति / नान्यत्र संस्कारतथताया बोधिसत्त्व इति / न संस्कारतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे संस्कारतथतेति / नासंस्कारतथतो बोधिसत्त्व इति /
न विज्ञानतथता बोधिसत्त्व इति / नान्यत्र विज्ञानतथताया बोधिसत्त्व इति / न विज्ञानतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे विज्ञानतथतेति / नाविज्ञानतथतो बोधिसत्त्व इति /
न नामरूपतथता बोधिसत्त्व इति / नान्यत्र नामरूपतथताया बोधिसत्त्व इति / न नामरूपतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे नामरूपतथतेति / नानामरूतथतो बोधिसत्त्व इति /
न षडायतनतथता बोधिसत्त्व इति / नान्यत्र षडायतनतथताया बोधिसत्त्व इति / न षडायतनतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे षडायतनतथतेति / नाषडायतनतथतो बोधिसत्त्व इति /
न स्पर्शतथता बोधिसत्त्व इति / नान्यत्र स्पर्शतथताया बोधिसत्त्व इति / न स्पर्शतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे स्पर्शतथतेति / नास्पर्शतथतो बोधिसत्त्व इति /
न वेदनातथता बोधिसत्त्व इति / नान्यत्र वेदनातथताया बोधिसत्त्व इति / न वेदनातथतायां बोधिसत्त्व इति / न बोधिसत्त्वे वेदनातथतेति / नावेदनातथतो बोधिसत्त्व इति /
न तृष्णातथता बोधिसत्त्व इति / नान्यत्र तृष्णातथताया बोधिसत्त्व इति / न तृष्णातथतायां बोधिसत्व इति / न बोधिसत्त्वे तृष्णातथतेति / नात्रष्णातथतो बोधिसत्त्व इति /
नोपादानतथता बोधिसत्त्व इति / नान्यत्रोपादानतथताया बोधिसत्त्व इति / नोपादानतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे उपादानतथतेति / नानुपादानतथतो बोधिसत्त्व इति /
न भवतथता बोधिसत्त्व इति / नान्यत्र भवतथताया बोधिसत्त्व इति / न भवतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे भवतथतेति / नाभवतथतो बोधिसत्त्व इति /
न जातितथता बोधिसत्त्व इति / नान्यत्र जातितथताया बोधिसत्त्व इति / न जातितथतायां बोधिसत्त्व इति / न बोधिसत्त्वे जातितथतेति / नाजातितथतो बोधिसत्त्व इति /
न जरामरणतथता बोधिसत्त्व इति / नान्यत्र जरामरणतथताया बोधिसत्त्व इति / न जरामरणतथतायां बोधिसत्त्व इति / न बोधिसत्त्वे जरामरणतथतेति / नाजरामरणतथतो बोधिसत्त्व इति /
सुभूतिर् आह / अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो रूपाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र रूपाद् बोधिसत्त्वो भविष्यति / कुतो रूपे बोधिसत्त्वो भविश्यति / कुतो बोधिसत्त्वे रूपं भविश्यति / कुतो ऽरूपो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो वेदनाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र वेदनाया बोधिसत्त्वो भविष्यति / कुतो वेदनायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे वेदना भविष्यति / कुतो ऽवेदनो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः संज्ञाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र संज्ञाया बोधिसत्त्वो भविष्यति / कुतः संज्ञायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे संज्ञा भविष्यति / कुतो ऽसंज्ञो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः संस्काराधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र संस्कारेभ्यो बोधिसत्त्वो भविष्यति / कुतः संस्कारेषु बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे संस्कारा भविष्यन्ति / कुतो ऽसंस्कारो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो विज्ञानाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र विज्ञानाद् बोधिसत्त्वो भविष्यति / कुतो विज्ञाने बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे विज्ञानं भविष्यति / कुतो ऽविज्ञानो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधित्त्वो न संविद्यते नोपलभ्यते / तत् कुतश् चक्षुरधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र चक्षुषो बोधिसत्वो भविष्यति / कुतश् चक्षुषि बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे चक्षुर् भविष्यति / कुतो ऽचक्षुष्को बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः श्रोत्राधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र श्रोत्राद् बोधिसत्त्वो भविष्यति / कुतः श्रोत्रे बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे श्रोत्रं भविष्यति / कुतो ऽश्रोत्रो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्वो न संविद्यते नोपलभ्यते / तत् कुतो घ्रणाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र घ्राणाद् बोधिसत्वो भविष्यति / कुतो घ्राणे बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे घ्राणं भविष्यति / कुतो ऽघ्राणो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्वो न संविद्यते नोपलभ्यते / तत् कुतो जिह्वाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र जिह्वाया बोधिसत्त्वो भविष्यति / कुतो जिह्वायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे जिह्वा भविष्यति / कुतो ऽजिह्वो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः कायाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र कायाद् बोधिसत्त्वो भविस्यति / कुतः काये बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे कायो भविष्यति / कुतो ऽकायो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो मनोधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र मनसो बोधिसत्त्वो भविष्यति / कुतो मनसि बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे मनो भविष्यति / कुतो ऽमनस्को बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो रूपाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र रूपाद् बोधिसत्त्वो भविष्यति / कुतो रूपे बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे रूपं भविष्यति / कुतो ऽरूपो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः शब्दाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र शब्दाद् बोधिसत्त्वो भविष्यति / कुतः शब्दे बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे शब्दो भविष्यति / कुतो ऽशब्दो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो गन्धाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र गन्धाद् बोधिसत्त्वो भविष्यति / कुतो गन्धे बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे गन्धो भविष्यति / कुतो ऽगन्धो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो रसाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र रसाद् बोधिसत्त्वो भविष्यति / कुतो रसे बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे रसो भविष्यति / कुतो ऽरसो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः स्पर्शाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र स्पर्शाद् बोधिसत्त्वो भविष्यति / कुतः स्पर्शे बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे स्पर्शो भविष्यति / कुतो ऽस्पर्शो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो धर्माधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र धर्माद् बोधिसत्त्वो भविष्यति / कुतो धर्मे बोधिसत्त्वो भविस्यति / कुतो बोधिसत्त्वे धर्मो भविष्यति / कुतो ऽधर्मो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतश् चक्षुर्धात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र चक्षुर्धातोर् बोधिसत्त्वो भविष्यति / कुतश् चक्षुर्धातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे चक्षुर्धातुर् भविष्यति / कुतो ऽचक्षुर्धातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो रूपधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र रूपधातोर् बोधिसत्त्वो भविष्यति / कुतो रूपधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे रूपधातुर् भविष्यति / कुतो ऽरूपधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतश् चक्षुर्विज्ञानधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र चक्षुर्विज्ञानधातोर् बोधिसत्त्वो भविष्यति / कुतश् चक्षुर्विज्ञानधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे चक्षुर्विज्ञानधातुर् भविष्यति / कुतो ऽचक्षुर्विज्ञानधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः श्रोत्रधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र श्रोत्रधातोर् बोधिसत्त्वो भविष्यति / कुतः श्रोत्रधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे श्रोत्रधातुर् भविष्यति / कुतो ऽश्रोत्रधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः शब्दधात्वधिवचनं बोधिसत्त्वो भविय्यति / कुतो ऽन्यत्र शब्दधातोर् बोधिसत्त्वो भविष्यति / कुतः शब्दधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे शब्दधातुर् भविष्यति / कुतो ऽशब्दधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः श्रोत्रविज्ञानधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र श्रोत्रविज्ञानधातोर् बोधिसत्त्वो भविष्यति / कुतः श्रोत्रविज्ञानधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे श्रोत्रविज्ञानधातुर् भविष्यति / कुतो ऽश्रोत्रविज्ञानधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्वो न संविद्यते नोपलभ्यते / तत् कुतो घ्राणधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र घ्राणाधातोर् बोधिसत्त्वो भविष्यति / कुतो घ्राणधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे घ्राणधातुर् भविष्यति / कुतो ऽघ्राणधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो गन्धधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र गन्धधातोर् बोधिसत्त्वो भविष्यति / कुतो गन्धधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे गन्धधातुर् भविष्यति / कुतो ऽगन्धधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो घ्राणविज्ञानधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र घ्राणविज्ञानधातोर् बोधिसत्त्वो भविष्यति / कुतो घ्राणविज्ञानधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे घ्राणविज्ञानधातुर् भविष्यति / कुतो ऽघ्राणविज्ञानधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो जिह्वाधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र जिह्वाधातोर् बोधिसत्त्वो भविष्यति / कुतो जिह्वाधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे जिह्वाधातुर् भविष्यति / कुतो ऽजिह्वाधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलम्यते / तत् कुतो रसधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र रसधातोर् बोधिसत्त्वो भविष्यति / कुतो रसधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे रसधातुर् भविष्यति / कुतो ऽरसधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो जिह्वाविज्ञानधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र जिह्वाविज्ञानधातोर् बोधिसत्त्वो भविष्यति / कुतो जिह्वाविज्ञानधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे जिह्वाविज्ञानधातुर् भविष्यति / कुतो ऽजिह्वाविज्ञानधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः कायधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र कायधातोर् बोधिसत्त्वो भविष्यति / कुतः कायधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे कायधातुर् भविष्यति / कुतो ऽकायधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः स्प्रष्टव्यधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र स्प्रष्टव्यधातोर् बोधिसत्त्वो भविष्यति / कुतः स्प्रष्टव्यधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे स्प्रष्टव्यधातुर् भविष्यति / कुतो ऽस्प्रष्टव्यधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः कायविज्ञानधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र कायविज्ञानधातोर् बोधिसत्त्वो भविष्यति / कुतः कायविज्ञानधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे कायविज्ञानधातुर् भविष्यति / कुतो ऽकायविज्ञानधातुर् भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / कुतो मनोधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र मनोधातोर् बोधिसत्त्वो भविष्यति / कुतो मनोधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे मनोधातुर् भविष्यति / कुतो ऽमनोधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो धर्मधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र धर्मधातोर् बोधिसत्त्वो भविष्यति / कुतो धर्मधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे धर्मधातुर् भविष्यति / कुतो ऽधर्मधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो मनोविज्ञानधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र मनोविज्ञानधातोर् बोधिसत्त्वो भविष्यति / कुतो मनोविज्ञानधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे मनोविज्ञानधातुर् भविष्यति / कुतो ऽमनोविज्ञानधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः पृथिवीधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र पृथिवीधातोर् ब्बोधिसत्त्वो भविष्यति / कुतः पृथिवीधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे पृथिवीधातुर् भविष्यति / कुतो ऽपृथिवीधातुर् भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो ऽब्धात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्राब्धातोर् बोधिसत्त्वो भविष्यति / कुतो ऽब्धातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे ऽब्धातुर् भविष्यति / कुतो ऽनब्धातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतस् तेजोधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र तेजोधातोर् बोधिसत्त्वो भविष्यति / कुतस् तेजोधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे तेजोधातुर् भविष्यति / कुतो ऽतेजोधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो वायुधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र वायुधातोर् बोधिसत्त्वो भविष्यति / कुतो वायुधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे वायुधातुर् भविष्यति / कुतो ऽवायुधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुत आकाशधात्वधिवचनं बोधिसत्त्वो भविष्यति / तत् कुतो ऽन्यत्राकाशधातो बोधिसत्त्वो भविष्यति / कुत आकाशधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे आकाशधातुर् भविष्यति / कुतो ऽनाकाशधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो विज्ञानधात्वधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र विज्ञानधातोर् बोधिसत्त्वो भविष्यति / कुतो विज्ञानधातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे विज्ञानधातुर् भविष्यति / कुतो ऽविज्ञानधातुर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो ऽविद्याधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्रा विद्याया बोधिसत्त्वो भविष्यति / कुतो ऽविद्यायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे ऽविद्या भविष्यति / कुतो ऽनविद्यो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः संस्काराधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र संस्कारेभ्यो बोधिसत्त्वो भविष्यति / कुतः संस्कारेषु बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे संस्कारो भविष्यति / कुतो ऽसंस्कारो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो विज्ञानाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र विज्ञानाद् बोधिसत्त्वो भविष्यति / कुतो विज्ञाने बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे विज्ञानं भविष्यति / कुतो ऽविज्ञानो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो नामरूपाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र नामरूपाद् बोधिसत्त्वो भविष्यति / कुतो नामरूपे बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे नामरूपं भविष्यति / कुतो ऽनामरूपो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः षडायतनाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र षडायतनाद् बोधिसत्त्वो भविष्यति / कुतः षडायतना बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे षडायतनं भविष्यति / कुतो ऽषडायतनो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः स्पर्शाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र स्पर्शाद् बोधिसत्त्वो भविष्यति / कुतः स्पर्शे बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे स्पर्शो भविष्यति / कुतो ऽस्पर्शो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो वेदनाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र वेदनाया बोधिसत्त्वो भविष्यति / कुतो वेदनायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे वेदना भविष्यति / कुतो ऽवेदनो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतस् तृष्णाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र तृष्णाया बोधिसत्त्वो भविष्यति / कुतस् तृष्णायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे तृष्णा भविष्यति / कुतो ऽतृष्णो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुत उपादानाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्रोपादानाद् बोधिसत्त्वो भविष्यति / कुत उपादाने बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे उपादानं भविष्यति / कुतो ऽनुपादानो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो भवाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र भवाद् बोधिसत्त्वो भविष्यति / कुतो भवे बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे भवो भविष्यति / कुतो ऽभवो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो जात्यधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र जातेर् बोधिसत्त्वो भविष्यति / कुतो जातौ बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे जातिर् भविष्यति / कुतो ऽजातिर् बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो जरामरणाधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र जरामरणाद् बोधिसत्त्वो भविष्यति / कुतो जरामरणे बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे जरामरणं भविष्यति / कुतो ऽजरामरणो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो रूपतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र रूपतथताया बोधिसत्त्वो भविष्यति / कुतो रूपतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे रूपतथता भविष्यति / कुतो ऽरूपतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो वेदनातथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र वेदनातथताया बोधिसत्त्वो भविष्यति / कुतो वेदनातथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे वेदनातथता भविष्यति / कुतो ऽवेदनातथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः संज्ञातथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र संज्ञातथताया बोधिसत्त्वो भविष्यति / कुतः संज्ञातथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे संज्ञातथता भविष्यति / कुतो ऽसंज्ञातथतो बोधिसत्त्वो भाविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः संस्काराधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र संस्कारतथताया बोधिसत्त्वो भविष्यति / कुतः संस्कारतथतायां बोधिसत्त्वो भविष्यति / कुतः बोधिसत्त्वे संस्कारतथता भविष्यति / कुतो ऽसंस्कारतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो विज्ञानतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र विज्ञानतथताया बोधिसत्त्वो भविष्यति / कुतो विज्ञानतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे विज्ञानतथता भविष्यति / कुतो ऽविज्ञानतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतश् चक्षुस्तथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र चक्षुस्तथताया बोधिसत्त्वो भविष्यति / कुतश् चक्षुस्तथतायां बोधिसत्त्वो भविव्यति / कुतो बोधिसत्त्वे चक्षुस्तथता भविष्यति / कुतो ऽचक्षुस्तथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः श्रोत्रतथताधिवचनं बोधिसत्त्वो भविश्यति / कुतो ऽन्यत्र श्रोत्रतथताया बोधिसत्त्वो भविष्यति / कुतः श्रोत्रतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे श्रोत्रतथता भविष्यति / कुतो ऽश्रोत्रतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो घ्राणतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र घ्राणतथताया बोधिसत्त्वो भविष्यति / कुतो घ्राणतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे घ्राणतथता भविष्यति / कुतो ऽघ्राणतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो जिह्वातथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र जिह्वातथताया बोधिसत्त्वो भविष्यति / कुतो जिह्वातथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे जिह्वातथता भविष्यति / कुतो ऽजिह्वातथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः कायतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र कायतथताया बोधिसत्त्वो भविष्यति / कुतः कायतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे कायतथता भविष्यति / कुतो ऽकायतथता बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलते / तत् कुतो मनस्तथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र मनस्तथताया बोधिसत्त्वो भविष्यति / कुतो मनस्तथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे मनस्तथता भविष्यति / कुतो ऽमनस्तथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो रूपतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र रूपतथताया बोधिसत्त्वो भविष्यति / कुतो रूपतथतायां बोधिसलो भविष्यति / कुतो बोधिसत्त्वे रूपतथता भविष्यति / कुतो ऽरूपतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः शब्दतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र शब्दतथताया बोधिसत्त्वो भविष्यति / कुतः शब्दतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे शब्दतथता भविष्यति / कुतो ऽशब्दतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो गन्धतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र गन्धतथताया बोधिसत्त्वो भविष्यति / कुतो गन्धतथतायां बोधिसत्त्वो भविव्यति / कुतो बोधिसत्त्वे गन्धतथता भविष्यति / कुतो ऽगन्धतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो रसतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र रसतथताया बोधिसत्त्वो भविष्यति / कुतो रसतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे रसतथता भविष्यति / कुतो ऽरसतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः स्पर्शतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र स्पर्शतथताया बोधिसत्त्वो भविष्यति / कुतः स्पर्शतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे स्पर्शतथता भविष्यति / कुतो ऽस्पर्शतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो धर्मतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र धर्मतथताया बोधिसत्त्वो भविष्यति / कुतो धर्मतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे धर्मतथता भविष्यति / कुतो ऽधर्मतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतश् चक्षुर्धातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र चक्षुर्धातुतथताया बोधिसत्त्वो भविष्यति / कुतश् चक्षुर्धातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे चक्षुर्धातुतथता भविष्यति / कुतो ऽचक्षुर्धातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो रूपधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र रूपधातुतथताया बोधिसत्त्वो भविष्यति / कुतो रूपधातुतथतायां बोधित्त्ववो भविष्यति / कुतो बोधिसत्त्वे रूपधातुतथता भविष्यति / कुतो ऽरूपधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतश् चक्षुर्विज्ञानधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र चक्षुर्विज्ञानधातुतथताया बोधिसत्त्वो भविष्यति / कुतश् चक्षुर्विज्ञानधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे चक्षुर्विज्ञानधातुतथता भविष्यति / कुतो ऽचक्षुर्विज्ञानधातुतथतो बोधिसत्त्वो भविव्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः श्रोत्रधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र श्रोत्रधातुतथताया बोधिसत्त्वो भविष्यति / कुतः श्रोत्रधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे श्रोत्रधातुतथता भविष्यति / कुतो ऽश्रोत्रधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः शब्दधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र शब्दधातुतथताया बोधिसत्त्वो भविष्यति / कुतः शब्दधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे शब्दधातुतथता भविष्यति / कुतो ऽशब्दधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः श्रोत्रविज्ञानधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र श्रोत्रविज्ञानधातुतथताया बोधिसत्त्वो भविष्यति / कुतः श्रोत्रविज्ञानधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे श्रोत्रविज्ञानधातुतथता भविष्यति / कुतो ऽश्रोत्रविज्ञानधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बाधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो घ्राणधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र घ्राणधातुतथताया बोधिसत्त्वो भविष्यति / कुतो घ्राणधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे घ्राणधातुतथता भविष्यति / कुतो ऽघ्राणधातुतथता बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो गन्धधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र गन्धधातुतथताया बोधिसत्त्वो भविष्यति / कुतो गन्धधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे गन्धधातुतथता भविष्यति / कुतो ऽगन्धधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो घ्राणविज्ञानधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र घ्राणविज्ञानधातुतथताया बोधिसत्त्वो भविष्यति / कुतो घ्राणविज्ञानधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे घ्राणविज्ञानधातुतथता भविष्यति / कुतो ऽघ्राणविज्ञानधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो जिह्वाधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र जिह्वाधातुतथताया बोधिसत्त्वो भविष्यति / कुतो जिह्वाधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे जिह्वाधातुतथता भविष्यति / कुतो ऽजिह्वाधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो रसधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र रसधातुतथताया बोधिसत्त्वो भविष्यति / कुतो रसधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे रसधातुतथता भविष्यति / कुतो ऽरसधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो जिह्वाविज्ञानधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र जिह्वाविज्ञानधातुतथताया बोधिसत्त्वो भविष्यति / कुतो जिह्वाविज्ञानधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे जिह्वाविज्ञानधातुतथता भविष्यति / कुतो ऽजिह्वाविज्ञानधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः कायधातुतथताधिवचनं बोधिसत्त्वो भविस्यति / कुतो ऽन्यत्र कायधातुतथताया बोधिसत्त्वो भविष्यति / कुतः कायधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे कायधातुतथता भविष्यति / कुतो ऽकायधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः स्प्रष्टव्यधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र स्प्रष्टव्यधातुतथताया बोधिसत्त्वो भविष्यति / कुतः स्प्रष्टव्यधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे स्प्रष्टव्यधातुतथता भविष्यति / कुतो ऽस्प्रष्टव्यधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः कायविज्ञानधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र कायविज्ञानधातुतथताया बोधिसत्त्वो भविष्यति / कुतः कायविज्ञानधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे कायविज्ञानधातुतथता भविष्यति / कुतो ऽकायविज्ञानधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो मनोधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र मनोधातुतथताया बोधिसत्त्वो भविष्यति / कुतो मनोधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे मनोधातुतथता भविष्यति / कुतो ऽमनोधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो धर्मधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र धर्मधातुतथताया बोधिसत्त्वो भविष्यति / कुतो धर्मधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे धर्मधातुतथता भविष्यति / कुतो ऽधर्मधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो मनोविज्ञानधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र मनोविज्ञानधातुतथताया बोधिसत्त्वो भविष्यति / कुतो मनोविज्ञानधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे मनोविज्ञानधातुतथता भविष्यति / कुतो ऽमनोविज्ञानधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः पृथिवीधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र पृविवीधातुतथताया बोधिसत्त्वो भविष्यति / कुतः पृथिवीधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे पृथिवीधातुतथता भविष्यति / कुतो ऽपृथिवीधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / कुतो ऽब्धातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्राब्धातुतथताया बोधिसत्त्वो भविष्यति / कुतो ऽब्धातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे ऽब्धातुतथता भविष्यति / कुतो ऽनब्धातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतस् तेजोधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र तेजोधातुतथताया बोधिसत्त्वो भविष्यति / कुतस् तेजोधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे तेजोधातुतथता भविष्यति / कुतो ऽतेजोधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो वायुधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र वायुधातुतथताया बोधिसत्त्वो भविष्यति / कुतो वायुधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे वायुधातुतथता भविष्यति / कुतो ऽवायुधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुत आकाशधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्राकाशधातुतथताया बोधिसत्त्वो भविष्यति / कुत आकाशधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे आकाशधातुतथता भविष्यति / कुतो ऽनाकाशधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो विज्ञानधातुतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र विज्ञानधातुतथताया बोधिसत्त्वो भविष्यति / कुतो विज्ञानधातुतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे विज्ञानधातुतथता भविष्यति / कुतो ऽविज्ञानधातुतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो ऽविद्यातथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्राविद्यातथताया बोधिसत्त्वो भविष्यति / कुतो ऽविद्यातथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे ऽविद्यातथता भविष्यति / कुतो ऽनविद्यातथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः संस्कारतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र संस्कारतथताया बोधिसत्त्वो भविष्यति / कुतः संस्कारतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे संस्कारतथता भविष्यति / कुतो ऽसंस्कारतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो विज्ञानतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र विज्ञानतथताया बोधिसत्त्वो भविष्यति / कुतो विज्ञानतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे विज्ञानतथता भविष्यति / कुतो ऽविज्ञानतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो नामरूपतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र नामरूपतथताया बोधिसत्त्वो भविष्यति / कुतो नामरूपतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे नामरूपतथता भविष्यति / कुतो ऽनामरूपतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः षडायतनतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र षडायातनतथताया बोधिसत्त्वो भविष्यति / कुतः षडायतनतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे षडायतनतथता भविव्यति / कुतो ऽषडायतनतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतः स्पर्शतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र स्पर्शतथताया बोधिसत्त्वो भविष्यति / कुतः स्पर्शतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे स्पर्शतथता भविष्यति / कुतो ऽस्पर्शतथतोबोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो वेदनातथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र वेदनातथताया बोधिसत्त्वो भविष्यति / कुतो वेदनातथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे वेदनातथता भविष्यति / कुतो ऽवेदनातथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कूतस् तृष्णातथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र तृष्णातथताया बोधिसत्त्वो भविष्यति / कुतस् तृष्णातथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे तृष्णातथता भविष्यति / कुतो ऽतृष्णातथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुत उपादानतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्रोपादानतथताया बोधिसत्त्वो भविष्यति / कुत उपादानतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे उपादानतथता भविष्यति / कुतो ऽनुपादानतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो भवतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र भवतथताया बोधिसत्त्वो भविष्यति / कुतो भवतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे भवतथता भविष्यति / कुतो ऽभवतथतो बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो जातितथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र जातितथताया बोधिसत्त्वो भविष्यति / कुतो जातितथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे जातितथता भविष्यति / कुतो ऽजतितथतो बोधिसत्त्वो भधिष्यति /
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / तत् कुतो जरामरणतथताधिवचनं बोधिसत्त्वो भविष्यति / कुतो ऽन्यत्र जरामरणतथताया बोधिसत्त्वो भविष्यति / कुतो जरामरणतथतायां बोधिसत्त्वो भविष्यति / कुतो बोधिसत्त्वे जरामरणतथता भविष्यति / कुतो ऽजरामरणतथतो बोधिसत्त्वो भविष्यति /
भगवान् आह / साधु साधु सुभूते एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन सत्त्वानुपलब्धितायां प्रज्ञापारमितानुपलब्धितायां शिक्षितव्यम् / यत् पुनः सुभूतिर् एवम् आह / कतमस्यैतद् धर्मस्याधिवचनं यद् उत बोधिसत्त्व इति / तत् किं मन्यसे सुभूते रूपस्यैतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते वेदनाया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संज्ञाया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संस्काराणाम् एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगावान् आह तत् किं मन्यसे सुभूते विज्ञानस्यैतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते रूपनित्यताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते रूपानित्यताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते वेदनानित्यताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते वेदनानित्यताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संज्ञानित्यताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संज्ञानित्यताया एतद् अधिवचनं आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संस्कारनित्यताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् क मन्यसे सुभू संस्कारानित्यताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते विज्ञाननित्यताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते विज्ञानानित्यताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह तत् किं मन्यसे सुभूते रूपसुखताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते रूपदुःखताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते वेदनासुखताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते वेदनादुःखताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संज्ञासुखताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवम् / भगवान् आह तत् किं मन्यसे सुभूते संज्ञादुःखताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संस्कारसुखताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवम् / भगवान् आह तत् किं मन्यसे सुभूते संस्कारदुःखताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते विज्ञानसुखताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते विज्ञानदुःखताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह तत् किं मन्यसे सुभूते रूपात्मताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते रूपानात्मताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते वेदनात्मताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते वेदनानात्मताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संज्ञात्मताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संज्ञानात्मताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संस्कारात्मताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संस्कारानात्मताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते विज्ञानात्मताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते विज्ञानानात्मताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह तत् किं मन्यसे सुभूते रूपशान्तताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते रूपाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते वेदनाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति / आह नोहिदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते वेदनाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संज्ञाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संज्ञाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते संस्कारशान्तताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संस्कराशान्तताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते विज्ञानशान्तताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते विज्ञानाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह तत् किं मन्यसे सुभूते रूपशून्यताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते रूपाशून्यताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते वेदनाशून्यताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते वेदनाशून्यताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संज्ञाशून्यताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संज्ञाशून्यताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संस्कारशून्यताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संस्काराशून्यताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते विज्ञानशून्यताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते विज्ञानाशून्यताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह तत् किं मन्यसे सुभूते रूपनिमित्तताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते रूपानिमित्तताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते / वेदनानिमित्तताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते वेदनानिमित्तताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संज्ञानिमित्तताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संज्ञानिमित्तताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संस्कारनिमित्तताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संस्कारानिमित्तताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते विज्ञाननिमित्तताया एतद् अधिवचनं बोधिसत्त्व इति आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते विज्ञानानिमित्तताया एतद् अधिवचमं बोधिसत्त्व इति / आह नो हीदं भगवन् /
भगवान् आह तत् किं मन्यसे सुभूते रूपप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते रूपाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते वेदनाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते वेदनाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संज्ञाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संज्ञाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संस्कारप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते संस्काराप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते विज्ञानप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह तत् किं मन्यसे सुभूते विज्ञानाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति / आह नो हीदं भगवन् /
अत्यन्ततया भगवन् रूपं न संविद्यते नोपलभ्यते / कुतो रूपाधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् वेदना न संविद्यते नोपलभ्यते / कुतो वेदनाधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् संज्ञा न संविद्यते नोपलभ्यते / कुतः संज्ञाधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / कुतः संस्काराधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते / कुतो विज्ञानाधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् रूपनित्यता न संविद्यते नोपलभ्यते / कुतो रूपनित्यताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् रूपानित्यता न संविद्यते नोपलभ्यते / कुतो रूपानित्यताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् वेदनानित्यता न संविद्यते नोपलभ्यते / कुतो वेदनानित्यताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् वेदनानित्यता न संविद्यते नोपलभ्यते / कुतो वेदनानित्यताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् संज्ञानित्यता न न संविद्यते नोपलभ्यते / कुतः संज्ञानित्यताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् संज्ञानित्यता न संविद्यते नोपलभ्यते / कुतः संज्ञानित्यताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् संस्कारनित्यता न संविद्यते नोपलभ्यते / कुतः संस्कारनित्यताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् संस्कारानित्यता न संविद्यते नोपलभ्यते / कुतः संस्कारानित्यताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् विज्ञाननित्यता न संविद्यते नोपलभ्यते / कुतो विज्ञाननित्यताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् विज्ञानानित्यता न संविद्यते नोपलभ्यते / कुतो विज्ञानानित्यताधिवचनं बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् रूपसुखं न संविद्यते नोपलभ्यते / कुतः रूपसुखाधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् रूपदुःखं न संविद्यते नोपलभ्यते / कुतो रूपदुःखाधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् वेदनासुखं न संविद्यते नोपलभ्यते / कुतो वेदनासुखाधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् वेदनादुःखं न संविद्यते नोपलभ्यते / कुतो वेदनादुःखाधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् संज्ञासुखं न संविद्यते नोपलभ्यते / कुतः संज्ञासुखाधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् संज्ञादुःखं न संविद्यते नोपलभ्यते / कुतः संज्ञादुःखाधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् संस्कारसुखं न संविद्यते नोपलभ्यते / कुतः संस्कारसुखाधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् संस्कारदुःखं न संविद्यते नोपलभ्यते / कुतः संस्कारदुःखाधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् विज्ञानसुखं न संविद्यते नोपलभ्यते / कुतो विज्ञानसुखाधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् विज्ञानदुःखं न संविद्यते नोपलभ्यते / कुतो विज्ञानदुःखाधिवचनं बोधिसलो भविष्यति /
अत्यन्ततया भगवन् रूपात्मा न संविद्यते नोपलभ्यते / कुतो रूपात्माधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् नैरात्म्यं न संविद्यते नोपलभ्यते / कुतो रूपनैरात्म्याधिवचनं बोधिसत्त्वो भविव्यति / अत्यन्ततया भगवन् वेदनात्मा न संविद्यते नोपलभ्यते / कुतो वेदनात्माधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् नैरात्म्यं न संविद्यते नोपलभ्यते / कुतो वेदनानैरात्म्याधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् संज्ञात्मा न संविद्यते नोपलभ्यते / कुतः संज्ञात्माधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् संज्ञानैरात्म्यं न संविद्यते नोपलभ्यते / कुतः संज्ञानैरात्म्याधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् संस्कारात्मा न संविद्यते नोपलभते / कुतः संस्कारात्माधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् संस्कारनैरात्म्यं न संविद्यते नोपलभ्यते / कुतः संस्कारनैरात्म्याधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् विज्ञानात्मा न संविद्यते नोपलभ्यते / कुतो विज्ञानात्माधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् विज्ञाननैरात्म्यं न संविद्यते नोपलभ्यते / कुतो विज्ञाननैरात्म्याधिवचनं बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् शान्तं न विद्यते नोपलभ्यते / कुतो रूपशान्ताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् अशान्तं न संविद्यते नोपलभ्यते / कुतो रूपाशान्ताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् शान्तं न संविद्यते नोपलभ्यते / कुतो वेदनाशान्ताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् अशान्तं न संविद्यते नोपलभ्यते / कुतो ऽवेदनाशान्ताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् शान्तं न संविद्यते नोपलभ्यते / कुतः संज्ञाशान्ताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् अशान्तं न संविद्यते नोपलभ्यते / कुतः संज्ञाशान्ताधिवचनं बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् शान्तं न संविद्यते नोपलभ्यते / कुतः संस्कारशान्ताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् अशान्तं न संविद्यते नोपलहते / कुतः संस्काराशान्ताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् शान्तं न संविद्यते नोपलभ्यते / कुतः विज्ञानशान्ताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् अशान्तं न संविद्यते नोपलभ्यते / कुतो विज्ञानाशान्ताधिवचनं बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवान् शून्यं न संविद्यते नोपलभ्यते / कुतो रूपशून्याधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् अशून्यं न संविद्यते नोपलभ्यते / कुतो वेदनाशून्याधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् अशून्यं न संविद्यते नोपलभ्यते / कुतो वेदनाशून्याधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् शून्यं न संविद्यते नोपलभ्यते / कुतः संज्ञाशून्याधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् अशून्यं न संविद्यते नोपलभ्यते / कुतो संज्ञाशून्याधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् शून्यं न संविद्यते नोपलभ्यते / कुतः संस्कारशून्याधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् अशून्यं न संविद्यते नोपलभ्यते / कुतः संस्काराशून्याधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् शून्यं न संविद्यते नोपलभ्यते / कुतो विज्ञानशून्याधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् अशून्यं न संविद्यते नोपलभ्यते / कुतो विज्ञानाशून्याधिवचनं बोधिसत्त्वो भविष्यति /
अत्यन्ततया निमित्तं न संविद्यते नोपलभते / कुतो रूपनिमित्ताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् निमित्तं न संविद्यते नोपलभ्यते / कुतो रूपानिमित्ताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् निमित्तं न संविद्यते नोपलभ्यते / कुतो वेदनानिमित्ताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् निमित्तं न संविद्यते नोपलभ्यते / कुतो वेदनानिमित्ताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् निमित्तं न संविद्यते नोपलभ्यते / कुतः संज्ञानिमित्ताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् निमित्तं न संविद्यते न संविद्यते नोपलभ्यते / कुतो रूपाशून्याधिवचनं बोधिसत्त्वो भविष्यति / कुतः संज्ञानिमित्ताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् निमित्तं न संविद्यते नोपलभ्यते / कुतः संस्कारनिमित्ताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् निमित्तं न संविद्यते नोपलभ्यते / कुतः संस्कारानिमित्ताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् निमित्तं न संविद्यते नोपलभ्यते / कुतो विज्ञाननिमित्ताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् निमित्तं न संविद्यते नोपलभ्यते / कुतो विज्ञानानिमित्ताधिवचनं बोधिसत्त्वो भविष्यति /
अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते / कुतो रूपप्रणिहिताधिवचनं बोधिसत्त्वो भविध्यति / अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते / कुतो रूपाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते / कुतो वेदनाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते / कुतो वेदनाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते / कुतः संज्ञाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते / कुतः संज्ञाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते / कुतः संस्कारप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते / कुतः संस्काराप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते / कुतो विज्ञानप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति / अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते / कुतो विज्ञानाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति /
भगवान् आह / साधु साधु सुभूते एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपाधिवचनम् अनुपलम्भमानेन वेदनाधिवचनम् अनुपलम्भमानेन संज्ञाधिवचनम् अनुपलम्भमानेन संस्काराधिवचनम् अनुपलम्भमानेन विज्ञानाधिवचनम् अनुपलम्भमानेन / रूपनित्याधिवचनम् अनुपलम्भमानेन रूपानित्याधिवचनम् अनुपलम्भमानेन वेदनानित्याधिवचनम् अनुपलम्भमानेन वेदनानित्याधिवचनम् अनुपलम्भमानेन संज्ञानित्याधिवचनम् अनुपलम्भमानेन संज्ञानित्याधिवचनम् अनुपलम्भमानेन संस्कारनित्याधिवचनम् अनुपलम्भमानेन संस्कारानित्याधिवचनम् अनुपलम्भमानेन विज्ञाननित्याधिवचनम् अनुपलम्भमानेन विज्ञानानित्याधिवचनम् अनुपलम्भमानेन / रूपसुखाधिवचनम् अनुपलम्भमानेन रूपदुःखाधिवचनम् अनुपलम्भमानेन वेदनासुखाधिवचनम् अनुपलम्भमानेन वेदनादुःखाधिवचनम् अनुपलम्भमानेन / संज्ञासुखाधिवचनम् अनुपलम्भमानेन संज्ञादुःखाधिवचनम् अनुपलम्भमानेन संस्कारसुखाधिवचनम् अनुपलम्भमानेन संस्कारदुःखाधिवचनम् अनुपलम्भमानेन विज्ञानसुखाधिवचनम् अनुपलम्भमानेन विज्ञानदुःखाधिवचनम् अनुपलम्भनामेन /
रूपात्माधिवचनम् अनुपलम्भमानेन रूपानात्माधिवचनम् अनुपलम्भमानेन वेदनात्माधिवचनम् अनुपलम्भमानेन वेदनानात्माधिवचनम् अनुपलम्भमानेन संज्ञात्माधिवचनम् अनुपलम्भमानेन संज्ञानात्माधिवचनम् अनुपलम्भमानेन संस्कारात्माधिवचनम् अनुपलम्भमानेन संस्कारानात्माधिवचनम् अनुपलम्भमानेन विज्ञानात्माधिवचनम् अनुपलम्भमानेन विज्ञानानात्माधिवरनम् अनुपलम्भमानेन रूपशान्ताधिवचनम् अनुपलम्भमानेन रूपाशान्ताधिवचनम् अनुपलम्भमानेन वेदनाशान्ताधिवचनम् अनुपलम्भमानेन वेदनाशान्ताधिवचनम् अनुपलम्भमानेन संज्ञाशान्ताधिवचनम् अनुपलम्भमानेन संज्ञाशान्ताधिवचनम् अनुपलम्भमानेन संस्कारशान्ताधिवचनम् अनुपलम्भमानेन संस्काराशान्ताधिवचनम् अनुपलम्भमानेन विज्ञानशान्ताधिवचनम् अनुपलम्भमानेन विज्ञानाशान्ताधिवचनम् अनुपलम्भमानेन रूपशून्याधिवचनम् अनुपलम्भमानेन रूपाशून्याधिवचनम् अनुपलम्भमानेन वेदनाशून्याधिवचनम् अनुपलम्भमानेन वेदनाशून्याधिवचनम् अनुपलम्भमानेन संज्ञाशून्याधिवचनम् अनुपलम्भमानेन संज्ञाशून्याधिवचनम् अनुपलम्भमानेन संस्कारशून्याधिवचनम् अनुपलम्भमानेन संस्काराशून्याधिवचनम् अनुपलम्भमानेन विज्ञानशून्याधिवचनम् अनुपलम्भमानेन विज्ञानाशून्याधिवचनम् अनुपलम्भमानेन / रूपनिमित्ताधिवचनम् अनुपलम्भमानेन रूपानिमित्ताधिवचनम् अनुपलम्भमानेन वेदनानिमित्ताधिवचनम् अनुपलम्भमानेन वेदनानिमित्ताधिवचनम् अनुपलम्भमानेन /
संज्ञानिमित्ताधिवचनम् अनुपलम्भमानेन संज्ञानिमित्ताधिवचनम् अनुपलम्भमानेन संस्कारानिमित्ताधिवचनम् अनुपलम्भमानेन संस्कारानिमित्ताधिवचनम् अनुपलम्भमानेन विज्ञाननिमित्ताधिवचनम् अनुपलम्भमानेन विज्ञाननिमित्ताधिवचनम् अनुपलम्भमानेन रूपप्रण्हिताधिवचनम् अनुपलम्भमानेन रूपाप्रणिहिताधिवचनम् अनुपलम्भनेन वेदनाप्रणिहिताधिवचनम् अनुपलम्भमानेन वेदनाप्रणिहिताधिवचनम् अनुपलम्भमानेन संज्ञाप्रणिहिताधिवचनम् अनुपलम्भमानेन संज्ञाप्रणिहिताधिवचनम् अनुपलम्भमानेन संस्कारप्रणिहिताधिवचनम् अनुपलम्भमानेन संस्काराप्रणिहिताधिवचनम् अनुपलम्भमानेन विज्ञानप्रणिहिताधिवचनम् अनुपलम्भमानेन विज्ञानाप्रणिहिताधिवचनम् अनुपलम्भमानेन प्रज्ञापारमितायां शिक्षितव्यम् /
यत् पुनः सुभूते वदसि नाहं धर्मं समनुपश्यामि यद् उत बोधिसत्त्व इति / न सुभूते धर्मो धर्मधातुं समनुपश्यति / न संज्ञाधातुर् धर्मधातुं समनुपश्यति / न धर्मधातुः संज्ञाधातुं समनुपश्यति / न संस्कारधातुर् धर्मधातुं समनुपश्यति / न धर्मधातुः संस्कारधातुं समनुपश्यति / न विज्ञानधातुर् धर्मधातुं समनुपश्यति / न धर्मधातुर् विज्ञानधातुं समनुपश्यति / न चक्षुर्धातुर् धर्मधातुं समनुपश्यति / न धर्मधातुश् चक्षुर्धातुं समनुपश्यति / न श्रोत्रधातुर् धर्मधातुं समनुपश्यति / न धर्मधातुः श्रोत्रधातुं समनुपश्यति / न घ्राणधातुर् धर्मधातुं समनुपश्यति / न धर्मधातुर् घ्राणधातुं समनुपश्यति / न जिह्वाधातुर् धर्मधातुं समनुपश्यति / न धर्मधातुर् जिह्वाधातुं समनुपश्यति / न कायधातुर् धर्मधातुं समनुपश्यति / न धर्मधातुः कायधातुं समनुपश्यति / न मनोधातुर् धर्मधातुं समनुपश्यति / न धर्मधातुर् मनोधातुं समनुपश्यति /
न सुभूते संस्कृतधातुर् असंस्कृतधातुं समनुपश्यति / नासंस्कृतधातुः संस्कृतधातुं समनुपश्यति / न च संस्कृतधातुव्यतिरेकेणासंस्कृतं शक्यं प्रज्ञपयितुं / नासंस्कृतव्यतिरेकेन संस्कृतधातुः शक्यः प्रज्ञपयितुं / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चिद् धर्मं समनुपश्यति / असमनुपश्यन् नोत्त्रस्यति / न सन्त्रस्यति न सन्त्रासम् आपद्यते / न वास्य कस्मिंश्चिद् धर्मे चित्तम् अवलीयते / न विप्रतिसारीभवति मानसं / तत् कस्य हेतोस् तथा हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं समनुपश्यति / वेदनां न समनुपश्यति / संज्ञां न समनुपश्यति / संस्कारान् न समनुपश्यति / विज्ञानं न समनुपश्यति / चक्षुर् न समनुपश्येत / श्रोत्रं न समनुपश्यति / घ्राणं न समनुपश्यति / जिह्वां न समनुपश्यति / कायं न समनुपश्यति / मनो न समनुपश्यति / रूपं न समनुपश्यति / शब्दं न समनुपश्यति / गन्धं न समनुपश्यति / रसं न समनुपश्यति / स्पर्शं न समनुपश्यति / धर्मं न समनुपश्यति / पृथिवीधातुं न समनुपश्यति / अब्धातुं न समनुपश्यति / तेजोधातुं न समनुपश्यति / वायुधातुं न समनुपश्यति / आकाशधातुं न समनुपश्यति / विज्ञानधातुं न समनुपश्यति / अविद्यां न समनुपश्यति / संस्कारान् न समनुपश्यति / विज्ञानं न समनुपश्यति / नामरूपं न समनुपश्यति / षडायतनं न समनुपश्यति / स्पर्शं न समनुपश्यति / वेदनां न समनुपश्यति / तृष्णां न समनुपश्यति / उपादानं न समनुपश्यति / भवं न समनुपश्यति / जातिं न समनुपश्यति /
जरामरणं न समनुपश्यति / रागं न समनुपश्यति / द्वेषं न समनुपश्यति / मोहं न समनुपश्यति / आत्मानं न समनुपश्यति / सत्वं न समनुपश्यति / जीवं न समनुपश्यति / जन्तुं न समनुपश्यति / पोषं न समनुपश्यति / पुरुषं न समनुपश्यति / मनुजं न समनुपश्यति / मानवं न समनुपश्यति / कारकं न समनुपश्यति / कारापकं न समनुपश्यति / वेदकं न समनुपश्यति / वेदयितृकं न समनुपश्यति / जानकं न समनुपशयति / पश्यकं न समनुपश्यति / कामधातुं न समनुपश्यति / रूपधातुं न समनुपश्यति / आरूप्यधातुं न समनुपश्यति / श्रावकचित्तं न समनुपश्यति / प्रत्येकबुद्धचित्तं न समनुपश्यति / बोधिचित्तं न समनुपश्ग्नति / श्रावकधर्मान् न समनुपश्यति / प्रत्येकबुद्धं न समनुपश्यति / प्रत्येकबुद्धधर्मान् न समनुपश्यति / बोधिसत्त्वं न समनुपश्यति / बोधिसत्त्वधर्मान् न समनुपश्यति / बुद्धं न समनुपश्यति / बुद्धधर्मान् न समनुपश्यति / बोधिं न समनुपश्यति / यावत् सर्वधर्मान् लौकिकलोकोत्तरान् न समनुपश्यति / स सर्वधर्मान् न समनुपश्यति / न सन्त्रस्यति / न सन्त्रासम् आपद्यते /
आह केन कारणेन भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः सर्वधर्मेषु चित्तं नावलीयते / न संलीयते / भगवान् आह / तथा हि सुभूते बोधिसत्त्वो महासत्त्वश् चित्तचैतसिकान् धर्मान् नोपलभते न समनुपश्यति / अनेन कारणेन सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः सर्वेषु धर्मेषु चित्तं नावलीयते / न संलीयते / आह / कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य मनो न सन्त्रासम् आपद्यते / भगवान् आह / तथा हि सुभूते बोधिसत्त्वो महासत्त्वो मनश् च मनोधातुञ् च नोपलभते / न समनुपश्यति / एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य मनो न सन्त्रासम् आपद्यते / एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं / सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् तां प्रज्ञापारमितां नोपलभते तञ् च बोधिसत्त्वं नोपलभते / तच् च बोधिसत्त्वनाम नोपलभते / एवम् एव बोधिसत्त्वस्याववादः / एषैवानुशासनी /
शतसाहसस्र्याः प्राज्ञापारमिताया द्वितीयः परिवर्तः // (श्sP_1.2)
अथ तृतीयपरिवर्तः /
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् / रूपं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / वेदनां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / संज्ञां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / संस्कारान् भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / विज्ञानं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / चक्षुर् भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / श्रोत्रं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / घ्राणं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / जिह्वां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / कायं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / मनो भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / रूपं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / शब्दं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / गन्धं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / रसं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / स्पर्शं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / धर्मान् भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् /
चक्षुर्विज्ञानं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / श्रोत्रविज्ञानं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / घ्राणविज्ञानं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / जिह्वाविज्ञानं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / कायविज्ञानं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / मनोविज्ञानं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
चक्षुःसंस्पर्शं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / श्रोत्रसंस्पर्शं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / घ्राणसंस्पर्शं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / जिह्वासंस्पर्शं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / कायसंस्पर्शं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / मनःसंस्पर्शं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् /
चक्षुःसंस्पर्शजां वेदनां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / श्रोत्रसंस्पर्शजां वेदनां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / घ्राणसंस्पर्शजां वेदनां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / जिह्वासंस्पर्शजां वेदनां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / कायसंस्पर्शजां वेदनां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / मनःसंस्पर्शजां वेदनां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अविद्यां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / संस्कारान् भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / विज्ञानं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / नामरूपं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / षडायतनं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / स्पर्शं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / वेदनां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / तृष्णां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / उपादानं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / भवं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / जातिं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासान् भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
रागं प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / द्वेषं प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / मोहं प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / सत्कायदृष्टिं प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / विचिकित्सां प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / शीलव्रतपरामर्शं प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / कामरागव्यापादं प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / कामरागं प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अरूपरागं प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / संयोजनानि प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अनुशयान् प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पर्युत्थानानि प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / चतुर आहारान् प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / चतुरो योगान् प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / चतुर ओघान् प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / चतुरो ग्रन्थान् प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / चत्वार्य् उपादानानि प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / चतुरो विप्रयासान् प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / दशाकुशलान् कर्मपथान् प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
दशकुशलान् कर्मपथान् परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / चत्वारि ध्यानानि परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / चत्वार्य् अप्रमाणानि परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / चतस्रः आरूप्यसमापत्तीः परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पञ्चाभिज्ञाः परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / दानपारमितां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / शीलपारमितां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / क्षान्तिपारमितां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / वीर्यपारमितां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / ध्यानपारमितां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / प्रज्ञापारमितां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अध्यात्मशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / बहिर्धाशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अध्यात्मबहिर्धाशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / शून्यताशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
