Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता, Part इ
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
महाशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / परमार्थशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / संस्कृतशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / असंस्कृतशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अत्यन्तशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अनवराग्रशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अनवकारशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / प्रकृतिशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञपारमितायां शिक्षितव्यं / सर्वधर्मशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / स्वलक्षणशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अनुपलम्भशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अभावशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / स्वभावशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अभावस्वभावशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / चत्वारि स्मृत्युपस्थानानि परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
चत्वारि सम्यक्प्रहाणानि परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / चतुर ऋद्धिपादान् परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पञ्चेन्द्रियाणि परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पञ्च बलानि परिप्युरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / सप्त बोध्यङ्गानि परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / आर्याष्टाङ्गमार्गं परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / चत्वार्य् आर्यसत्यानि परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अष्टौ विमोक्षान् परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / दश तथागतबलानि परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / चत्वारि वैशारद्यानि परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / चतस्रः प्रतिसंविदः परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / महामैत्रीं परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / महाकरुणां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अष्टादशावेणिकान् बुद्धधर्मान् परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / बोध्यङ्गवतिं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् /
यत्र प्रथमध्याननिरोधः समापद्यते / निरोधाद् व्युत्थाय द्वितीयं ध्यानं समापद्यते / द्वितीयात् ध्यानाद् व्युत्थाय निरोधः समापद्यते / निरोधाद् व्युत्थाय तृतीयं ध्यानं समापद्यते / तृतीयात् ध्यानाद् व्युत्थाय निरोधः समापद्यते / निरोधाद् व्युत्थाय चतुर्थं ध्यानं समापद्यते / चतुर्थात् ध्यानाद् व्युत्थाय निरोधः समापद्यते / निरोधाद् व्युत्थाय मैत्रीसमाधिं समापद्यते / मैत्र्याः समाधेर् व्युत्थाय निरोधः समापद्यते / निरोधाद् व्युत्थाय करुणासमाधिं समापद्यते / करुणासमाधेर् व्युत्थाय निरोधः समापद्यते / निरोधाद् व्युत्थाय मुदितासमाधिं समापद्यते / मुदितासमाधेर् व्युत्थाय निरोधः समापद्यते / निरोधाद् व्युत्थायोपेक्षासमाधिं समापद्यते / उपेक्षासमाधेर् व्युत्थाय निरोधः समापद्यते / निरोधाद् व्युत्थायाकाशानन्त्यायतनं समापद्यते / आकाशानन्त्यायतनाद् व्युत्थाय निरोधः समापद्यते / निरोधाद् व्युत्थाय आकिञ्चन्यायतनं समापद्यते / आकिञ्चन्यायतनाद् व्युत्थाय निरोधः समापद्यते / निरोधाद् व्युत्थाय विज्ञानानन्त्यायतनं समापद्यते / विज्ञानानन्त्यायनाद् व्युत्थाय निरोधः समापद्यते / निरोधाद् व्युत्थाय नैवसंज्ञानासंज्ञायतनं समापद्यते / नैवसंज्ञानासंज्ञायतनाद् व्युत्थाय निरोधः समापद्यते / निरोधाद् व्युत्थाय सिंहविक्लम्भितं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / सिंहविक्रीडितं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापार्मितायां शिक्षितव्यं / सर्वधारणीमुखसमाधिमुखानि प्रतिलब्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
शूरङ्गमं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / रत्नमुद्रां समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / चन्द्रप्रभं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / चन्द्रध्वजकेतुं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / सर्वधर्ममुद्रागतं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अवलोकितमुद्रां समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / धर्मधातुनियतं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रञापारमितायां शिक्षितव्यं / नियतध्वजकेतुं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / वज्रोपमं समाधिं समापत्तुकामेन बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / सर्वधर्मप्रवेशमुखं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / समाधिराजं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / राजमुद्रां समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / बलव्यूहं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / समुद्गतं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / सर्वधर्मनिरुक्तिं नियतप्रवेशं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
सर्वधर्मज्ञानाधिवासनप्रवेशं समाधि समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / दशदिग्व्यवलोकितं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / सर्वधारणीमुखमुद्रां समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / सर्वधर्मासंप्रशेषं समाधिं #रेअद् सर्वधर्मासंप्रमोषं समाधिं# समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / सर्वधर्मसमवशरणाकारमुद्रां समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / आकाशस्थानस्थितं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / त्रिमण्डलपरिशुद्धं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अच्युताभिज्ञां समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पात्रगतं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / ध्वजाग्रकेयूरं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / सर्वक्लेशनिर्दहनं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / चतुर्मारबलनिराकरणं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / आकाशासङ्गविमुक्तिनिरुपलेपं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
इति ह्य् एतान्य् अन्यानि च समाधिमुखानि प्रतिलब्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
पुनर् अपरं भगवन् सर्वसत्त्वानाम् अभिप्रायान् परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन कुशलमूलानि परिपूरयितुकामेन यैः कुशलमूलैः परिपूर्णो नापायेषु पतति / न हीनकूलेषूपपद्यते / न श्रावकभूमौ न प्रत्येकबुद्धभूमौ तिष्ठति / न च बोधिसत्त्वो महासत्त्वो मूर्धानं पततीति / प्रज्ञापारमितायां शिक्षितव्यं /
अथायुष्माञ् छारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत् / कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो मूर्धानं पतति / एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत् / यद् आयुष्मन् शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ऽनुपायकौशलेन षट्सु पारमितासु चरति / अनुपायकौशलेन शून्यतानिमित्ताप्रणिहितान् समाधीन् आगम्य नैव श्रावकभूमौ पतति / न प्रत्येकबुद्धभूमौ पतति / नैव बोधिसत्त्वन्यामम् अवक्रामेति / अयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्यामः / आह / केन कारणेनायुष्मन् सुभूते अयं बोधिसत्त्वस्य महासत्त्वस्यामः / सुभूतिर् आह / आम इत्य् आयुष्मञ् छारद्वतीपुत्र उच्यते बोधिसत्त्वस्य महासत्त्वस्यामः / धर्मतृष्णाः / आह / कतमा आयुष्मन् सुभूते धर्मतृष्णाः / सुभूतिर् आह / इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं शून्यम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति / वेदनाशून्येत्य् अभिनिविशते ऽधितिष्ठति संजानाति / संज्ञाशून्येत्य् अभिनिविशते ऽधितिष्ठति संजानाति / संस्काराः शून्या इत्य् अभिनिविशते ऽधितिष्ठति संजानाति / विज्ञानं शून्यम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति / इयम् उच्यते आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्यानुलोमिकी धर्मतृष्णा आमः /
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अनित्यम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति / वेदनाम् अनित्येत्य् अभिनिविशते ऽधितिष्ठति संजानाति / संज्ञाम् अनित्येत्य् अभिनिविशते ऽधितिष्ठति संजानाति / संस्कारान् अनित्या इत्य् अभिनिविशते ऽधितिष्ठति संजानाति / विज्ञानम् अनित्यम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति / इयम् उच्यते आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्यानुलोमिकी धर्मतृष्णा आमः //
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः पज्ञापारमितायां चरन् रूपं दुःखम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति / वेदनां दुःखेत्य् अभिनिविशते ऽधितिष्ठति संजानाति / संज्ञां दुःखेत्य् अभिनिविशते ऽधितिष्ठति संजानाति / संस्कारान् दुःखा इत्य् अभिनिविशते ऽधितिष्ठति संजानाति / विज्ञानं दुःखम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति / इयम् उच्यते आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्यानुलोमिकी धर्मतृष्णा आमः /
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अनात्मेत्य् अभिनिविशते ऽधितिष्ठति संजानाति / वेदनाम् अनात्मेत्य् अभिनिविशते ऽधितिष्ठति संजानाति / संज्ञाम् अनात्मेत्य् अभिनिविशते ऽधितिष्ठति संजानाति / संस्कारान् अनात्मान इत्य् अभिनिविशते ऽधितिष्ठति संजानाति / विज्ञानम् अनात्मेत्य् अभिनिविशते ऽधितिष्ठति संजानाति / इयम् उच्यते आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्यानुलोमिकी धर्मतृष्णा आमः /
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् आनिमित्तम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति / वेदनाम् आनिमित्तेत्य् अभिनिविशते ऽधितिष्ठति संजानाति / संज्ञाम् आनिमित्तेत्य् अभिनिविशते ऽधितिष्ठति संजानाति / संस्कारान् आनिमित्तम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति / विज्ञानम् आनिमित्तम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति / इयम् उच्यते आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्यानुलोमिकी धर्मतृणा आमः /
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अप्रणिहितम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति / वेदनाम् अप्रणिहितेत्य् अभिनिविशते ऽधितिष्ठति संजानाति / संज्ञाम् अप्रणिहितेत्य् अभिनिविशते ऽधितिष्ठति संजानाति / संस्कारान् अप्रणिहितम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति / विज्ञानम् अप्रणिहितम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति / इयम् उच्यते आयुष्मन् शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्यानुलोमिकी धर्मतृष्णा आमः /
इदं रूपं प्रहातव्यम् अनेन रूपं प्रहातव्यं / इयं वेदना प्रहातव्या अनेन वेदना प्रहातव्या / इयं संज्ञा प्रहातव्या अनेन संज्ञा प्रहातव्या / इमे संस्काराः प्रहातव्याः / अनेन संस्काराः प्रहातव्याः / इदं विज्ञानं प्रहातव्यम् / अनेन विज्ञानं प्रहातव्यम् इति / इदं दुःखं परिज्ञेयं / अनेन दुःखं परिज्ञेयम् इति / अयं समुदयः प्रहातव्यः / अनेन समुदयः प्रहातव्यः इति / अयं निरोधः साक्षात्कर्तव्यः / अनेन निरोधः साक्षात्कर्तव्यः / अयं मार्गो भावयितव्यः / अनेन मार्गो भावयितव्यः इति / अयं संक्लेशः / इदं व्यवदानम् इति / इमे धर्माः सेवितव्याः / इमे धर्मा न सेवितव्याः / इह बोधिसत्त्वेन महासत्त्वेन चरितव्यम् इह न चरितव्यम् इति / अयं बोधिसत्त्वस्य महासत्त्वस्य मार्गो ऽयं न मार्ग इति / इयं बोधिसत्त्वस्य महासत्त्वस्य शिक्षेयं न शिक्षेति / इयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमितेयं न दानपारमिता / इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितेयं न शीलपारमितेति / इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितेयं न क्षान्तिपारमिता / इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितेयं न वीर्यपारमिता / इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितेयं न ध्यानपारमिता / इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितेयं न प्रज्ञापारमिता / इदं बोधिसत्त्वस्य महासत्त्वस्योपायकौशलम् इदम् अनुपायकौशलम् इति / अथ नोधिसत्त्वस्य महासत्त्वस्य न्यामः /
सचेद् आयुष्मञ् छरद्वतीपुत्र बोधिसात्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् एवम् अभिनिविशते ऽधितिष्ठति संजानाति / अयं बोधिसत्त्वस्य महासत्त्वस्यानुलोमिकी धर्मतृष्णा आमः / आह / कतम आयुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य न्यामः / सुभूतिर् आह / इहायुष्मञ् छारद्वतीपुत्र बोधिसात्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आध्यात्मशून्यतायाम् अध्यात्मबहिर्धाशून्यतां समनुपश्यति / न बहिर्धाशून्यतायां अध्यात्मशून्यतां समनुपश्यति / न बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतां समनुपश्यति / नाध्यात्मशून्यतायां बहिर्धाशून्यतां समनुपश्यति / नाध्यात्मबहिर्धाशून्यतायां शून्यताशून्यतां समनुपश्यति / न शून्यताशून्यतायाम् अध्यात्मबहिर्धाशून्यतां समनुपश्यति / न शून्यताशून्यतायां महाशून्यतां समनुपश्यति / न महाशून्यतायां परमार्थशून्यतां समनुपश्यति / न परमार्थशून्यतायां महाशून्यतां समनुपश्यति / न परमार्थशून्यतायां संस्कृतशून्यतां समनुपश्यति / न संस्कृतशून्यतायां परमार्थशून्यतां समनुपश्यति / न संस्कृतशून्यतायाम् असंस्कृतशून्यतां समनुपश्यति / नासंस्कृतशून्यतायां संस्कृतशून्यतां समनुपश्यति / नासंस्कृतशून्यतायाम् अनवराग्रशून्यतां समनुपश्यति / नानवराग्रशून्यतायाम् असंस्कृतशून्यतां समनुपश्यति / नानवराग्रशून्यतायाम् अनवकारशून्यतां समनुपश्यति / नानवकारशून्यतायाम् अनवराग्रशून्यतां समनुपश्यति / नानवकारशून्यतायाम् अत्यन्तशून्यतां समनुपश्यति / नात्यन्तशून्यतायां प्रकृतिशून्यतां समनुपश्यति / न प्रकृतिशून्यतायाम् अत्यन्तशून्यतां समनुपश्यति /
न प्रकृतिशून्यतायां सर्वधर्मशून्यतां समनुपश्यति / न सर्वधर्मशून्यतायां प्रकृतिशून्यतां समनुपश्यति / न सर्वधर्मशून्यतायां स्वलक्षणशून्यतां समनुपश्यति / न स्वलक्षणशून्यतायां सर्वधर्मशून्यतां समनुपश्यति / न स्वलक्षणशून्यतायाम् अनुपलम्भशून्यतां समनुपश्यति / नानुपलम्भशून्यतायां स्वलक्षणशून्यतां समनुपश्यति / नानुपलम्भशून्यतायाम् अभावशून्यतां समनुपश्यति / नाभावशून्यतायाम् अनुपलम्भशून्यतां समनुपश्यति / नाभावशून्यतायां स्वभाववशून्यतां समनुपश्यति / न स्वभावशून्यतायाम् अभावशून्यतां समनुपश्यति / न स्वभावशून्यतायाम् अभावस्वभावशून्यतां समनुपश्यति / नाभावस्वभावशून्यतायां सर्वधर्मशून्यतां समनुपश्यति /
एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्वन्यामम् अवक्रामति / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं शिक्षितव्यम् / यथा शिक्षमाणेन रूपं ज्ञातव्यं तेन च न मन्तव्यं / वेदनाज्ञातव्या तया च वेदनया न मन्तव्यं / संज्ञा ज्ञातव्या तया च संज्ञया न मन्तव्यं / संस्कारा ज्ञातव्याः तैश् च संस्कारैर् न मन्तव्यं / विज्ञानं ज्ञातव्यं तेन च विज्ञानेन न मन्तव्यं / चक्षुर् ज्ञातव्यं तेन च चक्षुषा न मन्तव्यं / श्रोत्रं ज्ञातव्यं तेन च श्रोत्रेण न मन्तव्यं / घ्राणं ज्ञातव्यं तेन च घ्राणेन न मन्तव्यं / जिह्वा ज्ञातव्या तया च जिह्वया न मन्तव्यं / कायं ज्ञातव्यं तेन च कायेन न मन्तव्यं / मनो ज्ञातव्यं तेन च मनसा न मन्तव्यं / रूपं ज्ञातव्यं तेन च रूपेण न मन्तव्यं / शब्दो ज्ञातव्यस् तेन च शब्देन न मन्तव्यं / गन्धो ज्ञातव्यस् तेन च गन्धेन न मन्तव्यं / रसो ज्ञातव्यस् तेन च रसेन न मन्तव्यं / स्पर्शो ज्ञातव्यस् तेन च स्पर्शेन न मन्तव्यम् / धर्मा ज्ञातव्यास् तैश् च धर्मैर् न मन्तव्यं / चक्षुर्विज्ञानं ज्ञातव्यं तेन च चक्षुर्विज्ञानेन न मन्तव्यं / श्रोत्रविज्ञानं ज्ञातव्यं तेन च श्रोत्रविज्ञानेन न मन्तव्यं / घ्राणविज्ञानं ज्ञातव्यं तेन च घ्राणविज्ञानेन न मन्तव्यं / जिह्वाविज्ञानं ज्ञातव्यं तेन च जिह्वाविज्ञानेन न मन्तव्यं / कायविज्ञानं ज्ञातव्यं तेन च कायविज्ञानेन न मन्तव्यं / मनोविज्ञानं ज्ञातव्यं तेन च मनोविज्ञानेन न मन्तव्यम् /
चक्षुःसंस्पर्शो ज्ञातव्यस् तेन च चक्षुःसंस्पर्शेन न मन्तव्यं / श्रोत्रसंस्पर्शो ज्ञातव्यस् तेन च श्रोत्रसंस्पर्शेन न मन्तव्यं / घ्राणसंस्पर्शो ज्ञातव्यस् तेन च घ्राणसंस्पर्शेन न मन्तव्यं / जिह्वासंस्पर्शो ज्ञातव्यस् तेन च जिह्वासंस्पर्शेन न मन्तव्यं / कायसंस्पर्शो ज्ञातव्यस् तेन च कायसंस्पर्शेन न मन्तव्यं / मनःसंस्पर्शो ज्ञातव्यस् तेन च मनःसंस्पर्शेन न मन्तव्यं /
चक्षुःसंस्पर्शप्रत्यया वेदना ज्ञातव्या / तया च चक्षुःसंस्पर्शप्रत्ययवेदनया न मन्तव्यं / श्रोत्रसंस्पर्शप्रत्ययवेदना ज्ञातव्या तया च श्रोत्रसंस्पर्शप्रत्ययवेदनया न मन्तव्यं / घ्राणसंस्पर्शप्रत्ययवेदना ज्ञातव्या तया च घ्राणसंस्पर्शप्रत्ययवेदनया न मन्तव्यं / जिह्वासंस्पर्शप्रत्ययवेदना ज्ञातव्या / तया च जिह्वासंस्पर्शप्रत्ययवेदनया न मन्तव्यं / कायसंस्पर्शप्रत्ययवेदना ज्ञातव्या तया च कायसंस्पर्शप्रत्ययवेदनया न मन्तव्यं / मनःसंस्पर्शप्रत्ययवेदना ज्ञातव्या / तया च मनःसंस्पर्शप्रत्ययवेदनया न मन्तव्यम् /
पृथिवीधातुर् ज्ञातव्यस् तेन च पृथिवीधातुना न मन्तव्यं / अब्धातुर् ज्ञातव्यस् तेन चाब्धातुना न मन्तव्यं / तेजोधातुर् ज्ञातव्यस् तेन च तेजोधातुना न मन्तव्यं / वायुधातुर् ज्ञातव्यस् तेन च वायुधातुना न मन्तव्यं / आकाशधातुर् ज्ञातव्यस् तेन चाकाशधातुना न मन्तव्यं / विज्ञानधातुर् ज्ञातव्यस् तेन च विज्ञानधातुना न मन्तव्यं / अविद्या ज्ञातव्या तया चाविद्यया न मन्तव्यं / संस्कारा ज्ञातव्यास् तैश् च संस्कारैर् न मन्तव्यं / विज्ञानं ज्ञातव्यं तेन च विज्ञानेन न मन्तव्यं / नामरूपं ज्ञातव्यं तेन च नामरूपेण न मन्तव्यं / षडायतनं ज्ञातव्यं तेन च षडायतनेन न मन्तव्यं / स्पर्शो ज्ञातव्यस् तेन च स्पर्शेन न मन्तव्यं / वेदना ज्ञातव्या तया च वेदनया न मन्तव्यं / तृष्णा ज्ञातव्या तया च तृष्णया न मन्तव्यं / उपादानं ज्ञातव्यं तेन चोपादानेन न मन्तव्यं / भवो ज्ञातव्यस् तेन च भवेन न मन्तव्यं / जातिर् ज्ञातव्या तया च जात्या न मन्तव्यं / जरामरणं ज्ञातव्यं तेन च जरामरणेन न मन्तव्यं /
दानपारमिता ज्ञातव्या तया च दानपारमितया न मन्तव्यं / शीलपारमिता ज्ञातव्या तया च शीलपारमितया न मन्तव्यं / क्षान्तिपारमिता ज्ञातव्या तया च क्षान्तिपारमितया न मन्तव्यं / वीर्यपारमिता ज्ञातव्या तया च वीर्यपारमितया न मन्तव्यं / ध्यानपारमिता ज्ञातव्या तया च ध्यानपारमितया न मन्तव्यं / प्रज्ञापारमिता ज्ञातव्या तया च प्रज्ञापारमितया न मन्तव्यं /
अध्यात्मशून्यता ज्ञातव्या तया चाध्यात्मशून्यतया न मन्तव्यं / बहिर्धाशून्यता ज्ञातव्या तया च बहिर्धाशून्यतया न मन्तव्यं / अध्यात्मबहिर्धाशून्यता ज्ञातव्या तया चाध्यात्मबहिर्धाशून्यतया न मन्तव्यं / शून्यताशून्यता ज्ञातव्या तया च शून्यताशून्यतया न मन्तव्यं / महाशून्यता ज्ञातव्या तया च महाशून्यतया न मन्तव्यं / परमार्थशून्यता ज्ञातव्या तया च परमार्थशून्यतया न मन्तव्यं / संस्कृतशून्यता ज्ञातव्या तया च संस्कृतशून्यतया न मन्तव्यं / असंस्कृतशून्यता ज्ञातव्या तया चासंस्कृतशून्यतया न मन्तव्यं / अत्यन्तशून्यता ज्ञातव्या तया च अत्यन्तशून्यतया न मन्तव्यं / अनवराग्रशून्यता ज्ञातव्या तया चानवराग्रशून्यतया न मन्तव्यं / अनवकारशून्यता ज्ञातव्या तया चानवकारशून्यतया न मन्तव्यं / अनुपलम्भशून्यता ज्ञातव्या तया चानुपलम्भशून्यतया न मन्तव्यं / अभावशून्यता ज्ञातव्या तया चाभावशून्यतया न मन्तव्यं / स्वभावशून्यता ज्ञातव्या तथा च स्वभावशून्यतया न मन्तव्यं / स्वलक्षणशून्यता ज्ञातव्या तया च स्वलक्षणशून्यतया न मन्तव्यं / अभावस्वभावशून्यता ज्ञातव्या तया चाभावस्वभावशून्यतया न मन्तव्यं /
ध्यानानि ज्ञातव्यानि तैश् च ध्यानैर् न मन्तव्यं / अप्रमाणानि ज्ञातव्यानि तैश् चाप्रमाणैर् न मन्तव्यं / आरूप्यसमापत्तयो ज्ञातव्यास् ताभिश् चारूप्यसमापत्तिभिर् न मन्तव्यं / अभिज्ञाः ज्ञातव्यास् ताभिश् चाभिज्ञाभिर् न मन्तव्यं / पञ्चचक्षूंषि ज्ञातव्यानि तैश् च पञ्चचक्षुर्भिर् न मन्तव्यं / स्मृत्युपस्थानानि ज्ञातव्यानि तैश् च स्मृत्युपस्थानैर् न मन्तव्यं / सम्यक्प्रहाणानि ज्ञातव्यानि तैश् च सम्यक्प्रहाणैर् न मन्तव्यं / ऋद्धिपादा ज्ञातव्यास् तैश् च ऋद्धिपादैर् न मन्तव्यं / इन्द्रियाणि ज्ञातव्यानि तैश् चेन्द्रिर्यैर् न मन्तव्यं / बलानि ज्ञातव्यानि तैश् च बलैर् न मन्तव्यं / बोध्यङ्गानि ज्ञातव्यानि तैश् च बोध्यङ्गैर् न मन्तव्यं / आर्याष्टाङ्गमार्गो ज्ञातव्यस् तेन चार्याष्टाङ्गमार्गेण न मन्तव्यं / आर्यसत्यानि ज्ञातव्यानि तैश् चार्यसत्यैर् न मन्तव्यं / अष्टौ विमोक्षा ज्ञातव्यास् तैश् चाष्टविमोक्षैर् न मन्तव्यं / नवानुपूर्वविहारसमापत्तयो ज्ञातव्यास् ताभिश् च नवभिर् अनुपूर्वविहारसमापत्तिभिर् न मन्तव्यं / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि ज्ञातव्यानि तैश् च शून्यतानिमित्ताप्रणिहितविमोक्षमुखैर् न मन्तव्यं / समाधयो ज्ञातव्यास् तैश् च समाधिभिर् न मन्तव्यं / धारणीमुखानि ज्ञातव्यानि तैश् च धारणीमुखैर् न मन्तव्यं / दशतथागतबलानि ज्ञातव्यानि तैश् च दशतथागतबलैर् न मन्तव्यं / चत्वारि वैशारद्यानि ज्ञातव्यानि तैश् च वैशारद्यैर् न मन्तव्यं / चतस्रः प्रतिसंविदो ज्ञातव्याः ताभिश् च प्रतिसंविद्भिर् न मन्तव्यं / महामैत्री ज्ञातव्या तया च महामैत्र्या न मन्तव्यं / महाकरुणा ज्ञातव्या तया च महाकरुणया न मन्तव्यं / अष्टादशावेणिकबुद्धधर्मा ज्ञातव्यास् तैश् चाष्टादशावेणिकधर्मैर् न मन्तव्यं /
एवं खलु आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता तेनापि बोधिचित्तेन न मन्तव्यं / असमसमचित्तेन न मन्तव्यं / उदारचित्तेन न मन्तव्यं / तत् कस्य हेतोस् तथा हि तच् चित्तम् अचित्तं प्रकृतिश् चित्तस्य प्रभास्वरता / आह / का पुनर् आयुष्मन् सुभूते चित्तस्य प्रकृतिप्रभास्वरता / सुभूतिर् आह / यदायुष्मञ् छारद्वतीपुत्र चित्तं न रागेण संयुक्तं न विसंयुक्तं न संयोजनैः संयुक्तं न विसंयुक्तं / न दृष्टिकृतैः संयुक्तं न विसंयुक्तं / न श्रावकचित्तेन संयुक्तं न विसंयुक्तं / न प्रत्येकबुद्धचित्तेन संयुक्तं न विसंयुक्तं / इयम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य चित्तस्य प्रकृतिप्रभास्वरता / आह / किं पुनर् आयुष्मन् सुभूते अस्ति तच् चित्तं यच् चित्तम् अचित्तं / सुभूतिर् आह / किं पुनर् आयुष्मन् शारद्वतीपुत्र या अचित्तता तत्रास्तिता या अस्तिता वा नास्तिता वा न संविद्यते नोपलभ्यते / आह नो हीदं आयुष्मन् सुभूते / सुभूतिर् आह / सचेद् आयुष्मञ् छारद्वतीपुत्र तत्रास्तिता या अस्तिता वा नास्तिता वा न संविद्यते नोपलभ्यते / अपि नु युक्तस् ते एष पर्यनुयोगो यदायुष्मञ् छारद्वतीपुत्र एवम् आहास्ति तच् चित्तम् अचित्तम् इति / आह / का पुनर् आयुष्मन् सुभूते अचित्तता / सुभूतिर् आह / अविकारा अविवाल्पा आयुष्मञ् छारद्वतीपुत्राचित्तता याः सर्वधर्माणां तथता / इयम् उच्यते अचिन्त्या अचित्तता / आह / किं पुनर् आयुष्मन् सुभूते यथैव चित्तम् अविकारम् अविकल्पं तथैव रूपम् अप्य् अविकारम् अविकल्पं तथैव वेदनाप्य् अविकारा अविकल्पा / तथैव संज्ञाप्य् अविकारा अविकल्पा / तथैव संस्कारा अप्य् अविकारा अविकल्पाः / तथैव विज्ञानम् अप्य् अविकारम् अविकल्पम् /
यथैव चित्तम् अविकारम् अविकल्पं तथैव चक्षुर् अप्य् अविकारम् अविकल्पं / तथैव श्रोत्रम् अप्य् अविकारम् अविकल्पं / तथैव घ्राणम् अप्य् अविकारम् अप्य् अविकल्पं / तथैव जिह्वाप्य् अविकारा अविकल्पा / तथैव कायो ऽप्य् अविकारो ऽविकल्पः / तथैव मनो ऽप्य् अविकारम् अविकल्पं / तथैव चित्तम् अविकारम् अविकल्पं / तथैव रूपम् अप्य् अविकारम् अविकल्पं / तथैव शब्दो ऽप्य् अविकारो ऽविकल्पः / तथैव गन्धो ऽप्य् अविकारो ऽविकल्पः / तथैव रसो ऽप्य् अविकारो ऽविकल्पः / तथैव स्पर्शो ऽप्य् अविकारो ऽविकल्पः / तथैव धर्मा अप्य् अविकारा अविकल्पा / तथैव चित्तम् अप्य् अविकारम् अविकल्पं / तथैव चक्षुर्धातुर् अप्य् अविकारो ऽविकल्पः / तथैव रूपधातुर् अप्य् अविकारो ऽविकल्पः / तथैव चक्षुर्विज्ञानधातुर् अप्य् अविकारो ऽविकल्पः / तथैव श्रोत्रधातुर् अप्य् अविकारो ऽविकल्पः / तथैव शब्दधातुर् अप्य् अविकारो ऽविकल्पः / तथैव श्रोत्रविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः / तथैव घ्राणधातुर् अप्य् अविकारो ऽविकल्पः / तथैव गन्धधातुर् अप्य् अविकारो ऽविकल्पः / तथैव घ्राणविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः / तथैव जिह्वाधातुर् अप्य् अविकारो ऽविकल्पः / तथैव रसधातुर् अप्य् अविकारो ऽविकल्पः / तथैव जिह्वाविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः / तथैव कायधातुर् अप्य् अविकारो ऽविकल्पः / तथैव स्प्रष्टव्यधातुर् अप्य् अविकारो ऽविकल्पः / तथैव कायविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः / तथैव मनोधातुर् अप्य् अविकारो ऽविकल्पः / तथैव धर्मधातुर् अप्य् अविकारो ऽविकल्पः / तथैव मनोविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः /
यथैव चित्तम् अविकारम् अविकल्पं / तथैवाविद्या प्य् अविकाराविकल्पा / तथैव संस्कारा अप्य् अविकारा अविकल्पाः / तथैव विज्ञानम् अप्य विकारम् अविकल्पं / तथैव नामरूपम् अप्य् अविकारम् अविकल्पं / तथैव षडायतनम् अप्य् अविकारम् अविकल्पं / तथैव स्पर्शो ऽप्य् अविकारो ऽविकल्पः / तथैव वेदनाप्य् अविकारा अविकल्पा / तथैव तृष्णाप्य् अविकारा अविकल्पा / तथैवोपादानम् अप्य् अविकारम् अविकल्पं / तथैव भवो ऽप्य् अविकारो ऽविकल्पः / तथैव जातिर् अप्य् अविकारा अविकल्पा / तथैव जरामरणम् अप्य् अविकारम् अविकल्पं /
यथैव चित्तम् अविकारम् अविकल्पं / तथैव दानपारमिताप्य् अविकाराविकल्पा / तथैव शीलपारमिताप्य् अविकाराविकल्पा / तथैव क्षान्तिपारमिताप्य् अविकाराविकल्पा / तथैव वीर्यपारमिताप्य् अविकाराविकल्पा / तथैव ध्यानपारमिताप्य् अविकाराविकल्पा / तथैव प्रज्ञापारमिताप्य् अविकाराविकल्पा /
यथैव चित्तम् अविकारम् अविकल्पं / तथैवाध्यात्मशून्यताप्य् अविकाराविकल्पा / तथैव बहिर्धाशून्यताप्य् अविकाराविकल्पा / तथैवाध्यात्मबहिर्धाशून्यताप्य् अविकाराविकल्पा / तथैव शून्याशून्यताप्य् अविकाराविकल्पा / तथैव महाशून्यताप्य् अविकाराविकल्पा / तथैव परामार्थशून्यताप्य् अविकाराविकल्पा / तथैव संस्कृतशून्यताप्य् अविकाराविकल्पा / तथैवात्यन्तशून्यताप्य् अविकाराविकल्पा / तथैवानवराग्रशून्यताप्य् अविकाराविकल्पा / तथैवानवकारशून्यताप्य् अविकाराविकल्पा / तथैव प्रकृतिशून्यताप्य् अविकाराविकल्पा / तथैव सर्वधर्मशून्यताप्य् अविकाराविकल्पा / तथैव स्वलक्षणशून्यताप्य् अविकाराविकल्पा / तथवानुपलम्भशून्यताप्य् अविकाराविकल्पा / तथैवाभावशून्यताप्य् अविकाराविकल्पा / तथैव स्वभावशून्यताप्य् अविकाराविकल्पा / तथैवाभावस्वभावशून्यताप्य् अविकाराविकल्पा /
यथैव चित्तम् अविकारम् अविकल्पं / तथैव स्मृत्युपस्थानान्य् अविकाराण्य् अविकल्पानि / तथैव सम्यक्प्रहाणान्य् अविकाराण्य् अविकल्पानि / तथैव ऋद्धिपादा अप्य् अविकारा अविकल्पाः / तथैवेन्द्रियाण्य् अविकाराण्य् अविकल्पानि / तथैव ध्यानान्य् अविकाराण्य् अविकल्पानि / तथैव बोध्यङ्गान्य् अविकाराण्य् अविकल्पानि / तथैवार्याष्टाङ्गमार्गो ऽप्य् अविकारो ऽविकल्पः / तथैवार्यसत्यान्य् अविकाराण्य् अविकल्पानि / तथैव ध्यानान्य् अविकाराण्य् अविकल्पानि / तथैवाप्रमाणान्य् अविकाराण्य् अविकल्पानि / तथैवारूप्यसमापत्तयो ऽप्य् अविकाराः अविकल्पाः / तथैवाष्टौ विमोक्षा अप्य् अविकारा अविकल्पा / तथैव नवानुपूर्वविहारसमापत्तयो ऽप्य् अविकारा अविकल्पाः / तथैव शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अविकाराण्य् अविकल्पानि / तथैवाभिज्ञाप्य् अविकारा अविकल्पा / तथैव समाधयो ऽप्य् अविकाराः अविकल्पाः / तथैव धारणीमुखान्य् अविकाराण्य् अविकल्पानि / तथैव दश तथागतबलान्य् अविकाराण्य् अविकल्पानि / तथैव वैशारद्यान्य् अविकाराण्य् अविकल्पानि / तथैव चतस्रः प्रतिसंविदो ऽप्य् अविकारा अविकल्पाः / तथैव महामैत्र्य् अप्य् अविकाराविकल्पा / तथैव महाकरुणाप्य् अविकाराविकल्पा / तथैवाष्टादशावेनिकबुद्धधर्मा अप्य् अविकारा अविकल्पाः /
यथैव चित्तम् अचित्तम् अविकारम् अविकल्पं / तथैव श्रोतआपत्तिफलम् अप्य् अविकारम् अविकल्पं / तथैव सकृदागामिफलम् अप्य् अविकारम् अविकल्पं / तथैवानागामिफलम् अप्य् अविकारम् अविकल्पं / तथैवार्हत्वम् अप्य् अविकारम् अविकल्पं / तथैव प्रत्येकबोधिर् अप्य् अविकाराविकल्पा / तथैव मार्गाकारज्ञताप्य् अविकाराविकल्पा / तथैव सर्वाकारज्ञताप्य् अविकाराविकल्पा /
सुभूतिर् आह / एवम् एतद् आयुष्मञ् छारद्वतीपुत्र यथैव चित्तम् अचित्तम् अविकारम् अविकल्पं / तथैव चक्षुर् अप्य् अविकारम् अविकल्पं / तथैव श्रोत्रम् अप्य् अविकारम् अविकल्पं / तथैव घ्राणम् अप्य् अविकारम् अविकल्पं / तथैव जिह्वाप्य् अविकाराविकल्पा / तथैव कायो ऽप्य् अविकारो ऽविकल्पः / तथैव मनो ऽप्य् अविकारम् अविकल्पं /
यथैव चित्तम् अचित्तम् अविकारम् अविकल्पं / तथैव रूपम् अप्य् अविकरम् अविकल्पं / तथैव शब्दो ऽप्य् अविकारो ऽविकल्पः / तथैव गन्धो ऽप्य् अविकारो ऽविकल्पः / तथैव रसो ऽप्य् अविकारो ऽविकल्पः / तथैव स्पर्शो ऽप्य् अविकारो ऽविकल्पः / तथैव धर्मा अप्य् अविकारा अविकल्पा /
यथैव चित्तम् अचित्तम् अविकारम् अविकल्पं / तथैव चक्षुर्धातुर् अप्य् अविकारो ऽविकल्पः / तथैव रूपधातुर् अप्य् अविकारो ऽविकल्पः / तथैव चक्षुर्विज्ञानधातुर् अप्य् अविकारो ऽविकल्पः / तथैव श्रोत्रधातुर् अप्य् अविकारो ऽविकल्पः / तथैव शब्दधातुर् अप्य् अविकारो ऽविकल्पः / तथैव श्रोत्रविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः / तथैव घ्राणधातुर् अप्य् अविकारो ऽविकल्पः / तथैव गन्धधातुर् अप्य् अविकारो ऽविकल्पः / तथैव घ्राणविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः / तथैव जिह्वाधातुर् अविकारो ऽविकल्पः / तथैव रसधातुर् अप्य् अविकारो ऽविकल्पः / तथैव जिह्वाविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः / तथैव कायधातुर् अप्य् अविकारो ऽविकल्पः / तथैव स्प्रष्टव्यधातुर् अप्य् अविकारो ऽविकल्पः / तथैव कायविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः / तथैव मनोधातुर् अप्य् अविकारो ऽविकल्पः / तथैव धर्मधातुर् अप्य् अविकारो ऽविकल्पः / तथैव मनोविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः /
यथैव चित्तम् अचित्तम् अविकारम् अविकल्पं / तथैवाविद्याप्य् अविकाराविकल्पा / तथैव संस्कारा अप्य् अविकारा अविकल्पाः / तथैव विज्ञानम् अप्य् अविकारम् अविकल्पं / तथैव नामरूपम् अप्य् अविकारम् अविकल्पं / तथैव षडायतनम् अप्य् अविकारम् अविकल्पं / तथैव स्पर्शो ऽप्य् अविकारो ऽविकल्पः / तथैव वेदनाप्य् अविकाराविकल्पा / तथैव तृष्णाप्य् अविकाराविकल्पा / तथैवोपादानम् अप्य् अविकारम् अविकल्पं / तथैव भवो ऽप्य् अविकारो ऽविकल्पः / तथैव जातिर् अप्य् अविकाराविकल्पा / तथैव जरामरणम् अप्य् अविकारम् अविकल्पं / तथैव दानपारमिताप्य् अविकाराविकल्पा / तथैव शीलपारमिताप्य् अविकाराविकल्पा / तथैव क्षान्तिपारमिताप्य् अविकाराविकल्पा / तथैव वीर्यपारमिताप्य् अविकाराविकल्पा / तथैव ध्यानपारमिताप्य् अविकाराविकल्पा / तथैव प्रज्ञापारमिताप्य् अविकाराविकल्पा /
यथैव चित्तम् अचित्तम् अविकारम् अविकल्पं / तथैवाध्यात्मशून्युताप्य् अविकाराविकल्पा / तथैव बहिर्धाशून्यताप्य् अविकाराविकल्पा / तथैवाध्यात्मबहिर्धाशून्यताप्य् अविकाराविकल्पा / तथैव शून्यताशून्यताप्य् अविकाराविकल्पा / तथैव महाशून्यताप्य् अविकाराविकल्पा / तथैव परमार्थशून्यताप्य् अविकाराविकल्पा / तथैव संस्कृतशून्याताप्य् अविकाराविकल्पा / तथैवासंस्कृतशून्यताप्य् अविकाराविकल्पा / तथैवात्यन्तशून्यताप्य् अविकाराविकल्पा / तथैवानवराग्रशून्यताप्य् अविकाराविकल्पा / तथैवानवकारशून्यताप्य् अविकाराविकल्पा / तथैव प्रकृतिशून्यताप्य् अविकाराविकल्पा / तथैव सर्वधर्मशून्यताप्य् अविकाराविकल्पा / तथैव स्वलक्षणशून्यताप्य् अविकाराविकल्पा / तथैवानुपलम्भशून्यताप्य् अविकाराविकल्पा / तथैवाभावशून्यताप्य् अविकाराविकल्पा / तथैव स्वभावशून्यताप्य् अविकाराविकल्पा / तथैवाभावस्वभावशून्यताप्य् अविकाराविकल्पा /
यथैव चित्तम् अचित्तम् अविकारम् अविकल्पं / तथैव स्मृत्युपस्थानान्य् अप्य् अविकाराण्य् अविकल्पानि / तथैव सम्यक्प्रहाणान्य् अप्य् अविकाराण्य् अविकल्पानि / तथैवर्धिपादा अप्य् अविकारा अविकल्पा / तथैवेन्द्रियाण्य् अप्य् अविकाराण्य् अविकल्पानि / तथैव बोध्यङ्गान्य् अप्य् अविकाराण्य् अविकल्पानि / तथैवार्याष्टाङ्गमार्गो ऽप्य् अविकारो ऽविकल्पः / तथैवार्यसत्यान्य् अविकाराण्य् अविकल्पानि / तथैव ध्यानान्य् अप्य् अविकाराण्य् अविकल्पानि / तथैवाप्रमाणान्य् अप्य् अविकाराण्य् अविकल्पानि / तथैवारूप्यसमापत्तयो ऽप्य् अविकारा अविकल्पा / तथैवाष्टौ विमोक्षा अप्य् अविकारा अविकल्पा / तथैवानुपूर्वाविहारसमापत्तयो ऽप्य् अविकाराः अविकल्पाः / तथैव शून्यतानिमित्ताप्राणिहितविमोक्षमुखान्य् अप्य् अविकाराण्य् अविकल्पानि / तथैवाभिज्ञा अप्य् अविकारा अविकल्पा / तथैव समाधयो ऽप्य् अविकारा अविकल्पाः / तथैव धारणीमुखान्य् अप्य् अविकाराण्य् अविकल्पानि / तथैव महामैत्र्य् अविकारा अविकल्पा / तथैव महाकरुणाप्य् अविकाराविकल्पा / तथैव दश तथागतबलान्य् अप्य् अविकाराण्य् अविकल्पानि / तथैव चत्वारि वैशारद्यान्य् अप्य् अविकाराण्य् अविकल्पानि / तथैव चतस्रः प्रतिसंविदो ऽप्य् अविकारा अविकल्पा / तथैवाष्टादशावेणिकबुद्धधर्मा अप्य् अविकारा अविकल्पा /
यथैव चित्तम् अचित्तम् अविकारम् अविकल्पं / तथैव श्रोतआपत्तिफलम् अप्य् अविकारम् अविकल्पं / तथैव सकृदागामिफलम् अप्य् अविकारम् अविकल्पं / तथैवानागामिफलम् अप्य् अविकारम् अविकल्पं / तथैवार्हत्वम् अप्य् अविकारम् अविकल्पं / तथैव प्रत्येकबोधिर् अप्य् अविकाराविकल्पा / तथैव मार्गाकारज्ञताप्य् अविकाराविकल्पा / तथैव सर्वाकारज्ञताप्य् अविकाराविकल्पा / तथैव सर्वज्ञताप्य् अविकाराविकल्पा /
अथायुष्माञ् छारद्वतीपुत्रः आयुष्मते सुभूतये साधुकारम् अदात् / साधु साधु आयुष्मन् सुभूते / यथापि नाम त्वं भगवतः पुत्र औरसो मुखतो जातो धर्मजो धर्मनिर्मितो धर्मदायादो नामिषदायादः / प्रत्यक्षचक्षुर् धर्मेषु कायसाक्षी / यथापि तद् अरण्यविहारिणां श्रावकाणां अग्र्यतायां भगवता निर्दिष्टस्यायम् उपदेशः / एवम् आयुष्मन् सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अतो बोधिसत्त्वो महासत्त्वो ऽवैवर्तिक उपपरीक्षितव्यः / अविरहितश् च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां वेदितव्यः / श्रावकभूमाव् अपि शिक्षितुकामेनायुष्मन् सुभूते बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता प्रयत्रतः श्रोतव्या ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसि कर्तव्या / प्रत्येकबुद्धभूमाव् अपि शिक्षितुकामेनायुष्मन् सुभूते बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्या ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसि कर्तव्या / बोधिसत्त्वभूमाव् अपि शिक्षितुकामेनायुष्मन् सुभूते बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्या ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसि कर्तव्या / बुद्धभूमाव् अपि शिक्षितुकामेनायुष्मन् सुभूते बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्या ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसि कर्तव्या / तत् कस्य हेतोः / अत्र हि प्रज्ञापारमितायां विस्तरेण त्रीणि यानान्य् उपदिशन्ते यत्र बोधिसत्त्वैः श्रावकैः प्रत्येकबुद्धैश् च सततसमितं शिक्षितव्यं //
शतसाहस्र्यां प्रज्ञापारमितायां तृतीयः परिवर्तः // (श्sP_1.3)
अथ चतुर्थपरिवर्तः /
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् / यो ऽहं भगवन् बोधिसत्त्वं प्रज्ञापारमितां न विन्दामि नोपलभते / सो ऽहं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमिताञ् चाविन्दन्न् अनुपलभमानः कतमं बोधिसत्त्वं महासत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि / एतद् एव मे भगवन् कौकृत्यं स्याद् यो ऽहं सर्वधर्माणाम् आयं व्ययञ् चानुपलभमानो नामधेयमात्रेणायव्ययं कुर्यात् / यद् उत बोधिसत्त्व इति प्रज्ञापारमितेति वा / अपि नु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितम् /
रूपस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् रूपस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्य कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / वेदनाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् वेदनाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / वेदनाया संज्ञाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् संज्ञाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवन्स् तद् अपि संज्ञानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / संस्काराणाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि // सो ऽहं भगवन् संस्काराणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भवन्स् तद् अपि संस्कारनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नमधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / विज्ञानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् विज्ञानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि यद् उत बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /
चक्षुषो ऽहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवंश् चक्षुष आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि यद् उत बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि चक्षुर्नामधेयं न स्थिथं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / श्रोत्रस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यति / सो ऽहं भगवन् श्रोत्रस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि यद् उत बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि श्रोत्रनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / घ्राणस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् घ्राणस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् घ्राणनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / जिह्वाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् जिह्वाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य /
एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / कायस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् कायस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / मनसो ऽहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् मनस आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /
रूपस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् रूपस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् / तत् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि रूपनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / शब्दस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् शब्दस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / गन्धस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् गन्धस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि गन्धनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / रसस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् रसस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य /
एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / स्पर्शस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् स्पर्शस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् / कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि स्पर्शनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / धर्माणाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् धर्माणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् / कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /
चक्षुर्विज्ञानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् चक्षुर्विज्ञानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् / कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि चक्षुर्विज्ञाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / श्रोत्रविज्ञानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् श्रोत्रविज्ञानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् / कस्य नामधेयं करिष्यामि बोधिसत्त्य इति / अपि तु खलु पुनर् भगवंस् तद् अपि श्रोत्रविज्ञाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / घ्राणविज्ञानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् घ्राणविज्ञानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् / कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि घ्राणविज्ञाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / जिह्वाविज्ञानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् जिह्वाविज्ञानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् / कस्य नामधेयं करिष्यामि बोधिसत्त्व इति /
अपि तु खलु पुनर् भगवंस् तद् अपि जिह्वाविज्ञाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / कायविज्ञानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् कायविज्ञानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि कायविज्ञाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं च स्थितं न विष्ठितं नाधिष्ठितं / मनोविज्ञानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् मनोविज्ञानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि मनोविज्ञाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /
चक्षुःसंस्पर्शस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् चक्षुःसंस्पर्शस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि चक्षुःसंस्पर्शनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / श्रोत्रसंस्पर्शस्याहं भगवन्न् आयं व्ययश् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् श्रोत्रसंस्पर्शस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि श्रोत्रसंस्पर्शनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / घ्राणसंस्पर्शस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् घ्राणसंस्पर्शस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि घ्राणसंस्पर्शनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / जिह्वासंस्पर्शस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् जिह्वासंस्पर्शस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति /
अपि तु खलु पुनर् भगवंस् तद् अपि जिह्वासंस्पर्शनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / कायसंस्पर्शस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् कायसंस्पर्शस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि कायसंस्पर्शनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / मनःसंस्पर्शस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् मनःसंस्पर्शस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि मनःसंस्पर्शनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /
चक्षुःसंस्पर्शजाया वेदनायाहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवंश् चक्षुःसंस्पर्शजावेदनाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि चक्षुःसंस्पर्शजावेदनानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / श्रोत्रसंस्पर्शजावेदनाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् श्रोत्रसंस्पर्शजावेदनाया आयं व्ययञ् चानुपलभमानो ऽसमनुपस्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि श्रोत्रसंस्पर्शजावेदनानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / घ्राणसंस्पर्शजावेदनाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् घ्राणसंस्पर्शजावेदनाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि घ्राणसंस्पर्शजावेदनानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / जिह्वासंस्पर्शजावेदनाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि /
सो ऽहं भगवन् जिह्वासंस्पर्शजावेदनाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि जिह्वासंस्पर्शजावेदनानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / कायसंस्पर्शजाया वेदनाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् कायसंस्पर्शजावेदनाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि कायसंस्पर्शजावेदनानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / मनःसंस्पर्शजावेदनाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् मनःसंस्पर्शजावेदनाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि मनःसंस्पर्शजावेदनानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /
पृथिवीधातोर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् पृथिवीधातोर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि पृथिवीधातुनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / अब्धातोर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् अब्धातोर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि अब्धातुनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तेजोधातोर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवंस् तेजोधातोर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति अपि तु खलु पुनर् भगवंस् तद् अपि तेजोधातुनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / वायुधातोर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् वायुधातोर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि वायुधातुनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / आकाशधातोर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् आकाशधातोर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् आकाशधातुनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /
विज्ञानधातोर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् विज्ञानधातोर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि विज्ञानधातुनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / अविद्याया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् अविद्याया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् अविद्यानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / संस्काराणाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् संस्काराणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि संस्कारनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /
विज्ञानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् विज्ञानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि विज्ञाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / नामरूपस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् नामरूपस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि नामरूपनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / षडायतनस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् षडायतनस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि षडायतननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / स्पर्शस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् स्पर्शस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि स्पर्शनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य /
एवं तन् नामधेयं म स्थितं न विष्ठितं नाथिष्ठितं / वेदनायाहं भगवन्न् आयं व्ययञ् च नोपलभे स समनुपश्यामि / सो ऽहं भगवन् वेदनाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि वेदनानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तृष्णाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवंस् तृष्णाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि तृष्णानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /
उपादानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् उपादानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि उपादाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / जातेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् जातेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि जातिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / जरामरणस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् जरामरणस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि जरामरणनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / अविद्यानिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् अविद्यानिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि अविद्यानिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /
तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / संस्कारनिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् संस्कारनिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि संस्कारनिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / विज्ञाननिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् विज्ञाननिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि विज्ञाननिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / नामरूपनिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् नामरूपनिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि नामरूपनिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / षडायतननिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि /
सो ऽहं भगवन् षडायतननिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि षडायतननिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / स्पर्शनिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् स्पर्शनिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि स्पर्शनिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / वेदनानिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् वेदनानिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि वेदनानिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तृष्णानिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् तृष्णानिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि तृष्णानिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य /
एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / उपादाननिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् उपादाननिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् उपादाननिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / भवनिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् भवनिरोधस्यायं व्ययञ् चानुपलमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि भवनिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / जातिनिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् जातिनिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि जातिनिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / जरामरणनिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् जरामरणनिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति /
अपि तु खलु पुनर् भगवंस् तद् अपि जरामरणनिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /
रागस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि रागनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / द्वेषस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् द्वेषस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि द्वेषनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / मोहस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् मोहस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि मोहनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं तत् कस्य हेतोः अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /
दृष्टिगतानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् दृष्टिगतानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि दृष्टिगतनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / आत्मनो ऽहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् आत्मन आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् आत्मनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / सत्त्वस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् सत्त्वस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि सत्त्वनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / जीवस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् जीवस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि जीवनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य /
एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / जन्तोर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् जन्तोर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि जन्तुनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / सर्वं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / पोषस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् पोषस्यायं व्ययञ् चानुपलभमानो ऽसमनुपस्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि पोषनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / पुरुषस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् पुरुषस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि पुरुषनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / पुद्गलस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् पुद्गलस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि पुद्गलनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /
तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / मनुजस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् मनुजस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि मनुजनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /
मानवस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् मानवस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि मानवनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / कारकस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् कारकस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि कारकनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / वेदकस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् वेदकस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति/ अपि तु खलु पुनर् भगवंस् तद् अपि वेदकनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /
जानकस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् जानकस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि जानकनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / पश्यकस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् पश्यकस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि पश्यकनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /
दानपारमिताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् दानपारमिताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि दानपारमितानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / शीलपारमिताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् शीलपारमिताया आयं व्यायञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि शीलपारमिता नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / क्षान्तिपारमिताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् क्षान्तिपारमिताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि क्षान्तिपारमितानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / वीर्यपारमिताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् वीर्यपारमिताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
