Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 12/37

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता, Part इ

Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अपि तु खलु पुनर् भगवंस् तद् अपि वीर्यपारमितानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / ध्यानपारमिताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् ध्यानपारमिताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि ध्यानपारमिता नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / प्रज्ञापारमिताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् प्रज्ञापारमिताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनस् तद् अपि प्रज्ञापारमिता नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

अध्यात्मशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् अध्यत्मशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् अध्यात्मशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / बहिर्धाशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् बहिर्धाशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि बहिर्धाशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठित / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / अध्यात्मबहिर्धाशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् अध्यात्मबर्हिद्धशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् अध्यात्मबहिर्धाशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / शून्यताशुन्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् शून्यताशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति /

अपि तु खलु पुनर् भगवंस् तद् अपि शून्यताशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / महाशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् महाशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि महाशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / परमार्थशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् परमार्थशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि परमार्थशून्यताया नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / सत्कृतशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् संस्कृतशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि संस्कृतशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

अत्यन्तशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् अत्यन्तशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् अत्यन्तशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / अनवराग्रशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् अनवराग्रशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् अनवराग्रशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / अनवकारशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् अनवकारशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् अनवकारशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / प्रकृतिशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् प्रकृतिशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति /

अपि तु खलु पुनर् भगवंस् तद् अपि प्रकृतिशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / सर्वधर्मशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् सर्वधर्मशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि सर्वधर्मशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / स्वलक्षणशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् स्वलक्षणशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि स्वलक्षणशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

अनुपलम्भशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् अनुपलम्भशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् अनुपलम्भशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / अभावशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् अभावशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् अभावशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / स्वभावशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् स्वभावशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि स्वभावशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / अभावस्वभावशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् अभावस्वभावशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् अभावस्वभावशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

स्मृत्युपस्थानानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् स्मृत्युपस्थानानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि स्मृत्युपस्थाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / सम्यक्प्रहाणानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् सम्यक्प्रहाणानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि सम्यक्प्रहाणनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

ऋद्धिपादानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् ऋद्धिपादानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् ऋद्धिपादनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / इन्द्रियाणाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् इन्द्रियाणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपीन्द्रियनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / बलानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् बलानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि बलनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधैयस्य / बोध्यङ्गानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् बोध्यङ्गानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि बोध्यङ्गनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य /

एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / आर्याष्टाङ्गमार्गस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि सो ऽहं भगवन्न् आर्याष्टाङ्गःमार्गस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् आर्याष्टाङ्गमार्गनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / शून्यताविमोक्षमुखस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् शून्यताविमोक्षमुखस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि शून्यताविमोक्षमुखनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठित / प्रणिहितविमोक्षमुखस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् प्रणिहितविमोक्षमुखस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि प्रणिहितविमोक्षमुखनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तं नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / चतुर्णाम् अपि भगवन् ध्यानानाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि /

सो ऽहं भगवन् चतुर्णां ध्यानानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि ध्याननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / मैत्र्या अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् मैत्र्या आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि मैत्रीनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / करुणाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् करुणाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि करुणानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / मुदिताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् मुदिताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि मुदितानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

उपेक्षाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् उपेक्षाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् उपेक्षा नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / चतसृणाम् अहं भगवन्न् आरूप्यसमापत्तीनाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् आरूप्यसमापत्तिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / बुद्धानुस्मृतेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् बुद्धानुस्मृतेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व

इति / अपि तु खलु पुनर् भगवंस् तद् अपि बुद्धानुस्मृतिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / धर्मानुस्मृतेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् धर्मानुस्मृतेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि धर्मानुस्मृतिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / सङ्घानुस्मृतेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् सङ्घानुस्मृतेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि सङ्घानुस्मृतिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

शीलानुस्मृतेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् शीलानुस्मृतेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् / कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि शीलानुस्मृतिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / त्यागानुस्मृतेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् त्यागानुस्मृतेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि त्यागानुस्मृतिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / कायगतानुस्मृतेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् कायगतानुस्मृतेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि कायगतानुस्मृतिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

उद्वेगानुस्मृतेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् उद्वेगानुस्मृतेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि नोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् उद्वेगानुस्मृतिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / आलापानुस्मृतेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् आलापानुस्मृतेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् आलापानुस्मृतिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / मरणानुस्मृतेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् मरणानुस्मृतेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि मरणानुस्मृतिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / मांसचक्षुषो ऽहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् मांसचक्षुष आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि मांसचक्षुर्नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / दिव्यचक्षुषो ऽहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् दिव्यचक्षुष आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि दिव्यचक्षुर्नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / प्रज्ञाचक्षुषो ऽहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् प्रज्ञाचक्षुष आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि प्रज्ञाचक्षुर्नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / धर्मचक्षुषो ऽहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् धर्मचक्षुष आयं व्ययञ् चानुपलमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि धर्मचक्षुर्नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / बुद्धचक्षुषो ऽहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् बुद्धचक्षुष आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति /

अपि तु खलु पुनर् भगवंस् तद् अपि बुद्धचक्षुर्नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

षण्णाम् अभिज्ञानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् षण्णाम् अभिज्ञानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि षडभिज्ञानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / दशानां तथागतबलानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् दशानां तथागतबलानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि दशतथागतबलनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / चतुर्णां वैशारद्यानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् चतुर्णां वैशारद्यानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि वैशारद्यनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / चतसृणां प्रतिसंविदाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् चतसृणां प्रतिसंविदाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति /

अपि तु खलु पुनर् भगवंस् तद् अपि प्रतिसंविन्नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / महाकरुणाया अहं भगवन्न् आयं व्ययञ् च नोपलधे न समनुपश्यामि / सो ऽहं भगवन् महाकरुणाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि महाकरुणानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / अष्टादशावेणिकबुद्धधर्माणाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् अष्टादशावेणिकबुद्धधर्माणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् अष्टादशावेणिकबुद्धधर्मनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

स्वप्नोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् स्वप्नोपमानां पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् उपादानस्कन्धनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / मायोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भवगन् मायोपमानां पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि उपादानस्कन्धनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / प्रतिश्रुत्कोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् प्रतिश्रुत्कोपमानां पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् उपादानस्कन्धनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / प्रतिभासोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् प्रतिभासोपमानां पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् चानुपलभमानो न समनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् उपादानस्कन्धनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

प्रतिबिम्बोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् प्रतिबिम्बोपमानां पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् उपादानस्कन्धनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं माधिष्ठितं / मरीच्युपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् मरीच्युपमानां पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् उपादानस्कन्धनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / दकचन्द्रोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् दकचन्द्रोपमानां पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् उपादानस्कन्धनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं विष्ठितं नाधिष्ठितं / निमित्तकोपमानाम् अहं पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि /

सो ऽहं भगवन् निमित्तकोपमानां पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् उपादानस्कन्धनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / विविक्तस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् विविक्तस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनस् तद् अपि विविक्तनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

शान्तस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् शान्तस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि शान्तनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठित् / अनुत्पादस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् अनुत्पादस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् अनुत्पादनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

अनिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् अनिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् अनिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / अप्रादुर्भावस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् अप्रादुर्भावस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् अप्रादुर्भावनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / अनभिसंस्कारस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् अनभिसंस्कारस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् अनभिसंस्कारनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं माधिष्ठितं / असंक्लेशस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् असंक्लेशस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् असंक्लेशनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / व्यवदानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् व्यवदानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि व्यवदाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

धर्मधातोर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् धर्मधातोर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि धर्मधातुनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तथागतस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् तथागतस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि तथागतनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / भूतकोटेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् भूतकोटेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि भूतकोटिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

धर्मस्थितिताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् धर्मस्थितिताया आयं व्ययञ् चानुपलभमानो ऽसमनुपस्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि धर्मस्थितिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / धर्मनियामताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् धर्मनियामताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि धर्मनियामतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / कुशलाकुशलानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् कुशलाकुशलानां धर्माणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि कुशलाकुशलनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / लौकिकलोकोत्तराणाम् अहं भगवन् धर्माणाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् लौकिकलोकोत्तराणां धर्माणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति /

अपि तु खलु पुनर् भगवंस् तद् अपि लौकिकलोकोत्तरनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / संस्कृतासंस्कृतानाम् अहं भगवन् धर्माणाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् संस्कृतासंस्कृतानां धर्माणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि संस्कृतासंस्कृतनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

साश्रवाणाम् अहं भगवन् धर्माणाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् साश्रवाणां धर्माणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि साश्रवधर्मं नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / अतीतानागतप्रत्युत्पन्नानाम् अहं धर्माणाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन्न् अतीतानागतप्रत्युत्पन्नानां धर्माणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अप्य् अतीतानागतप्रत्युत्पन्नानां धर्माणां नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

अनतीतस्यानागतस्यां प्रत्युत्पन्नस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / किं न तद् इत्य् उच्यते / असंस्कृतं हि नातीतं नानागतं न प्रत्युत्पन्नं / असंस्कृतस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / कतमच् चासंस्कृतं यस्य नोत्पादो न स्थितिर् न भङ्गः भगवतो ऽप्य् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि / पूर्वस्यां दिश्य् अहं भगवन् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि / दक्षिणस्यां दिश्य् अहं भगवन् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि / पश्चिमायां दिश्य् अहं भगवन् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि / उत्तरस्यां दिश्य् अहं भगवन् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि / उत्तरपूर्वस्यां दिश्य् अहं भगवन् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि /

पूर्वदक्षिणस्यां दिश्य् अहं भगवन् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि / दक्षिणपश्चिमायां दिश्य् अहं भगवन् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानाम् आयश् च व्ययञ् च नोपलभे न समनुपश्यामि / पश्चिमोत्तरस्यां दिस्य् अहं भगवम् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि / अधस्ताद् दिश्य् अहं भगवन् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि / उपरिष्टाद् दिश्य् अहं भगवन् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवंस् तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वानाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अवदिष्याम्य् अनुशासिष्यामि / कतमाञ् च प्रज्ञापारमिताम् उपदेक्ष्यामि / अपि तु खलु पुनर् भगवंस् तद् अपि तथागतनामधेयं न स्थितं न विष्ठितं नाथिष्ठितं / तद् अपि संघनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

सर्वधर्मतथताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि / सो ऽहं भगवन् सर्वधर्मतथताया आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति / अपि तु खलु पुनर् भगवंस् तद् अपि सर्वधर्मतथतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं /

यापि भगवन् नामधर्मसंकेतकी धर्मप्रज्ञप्तिर् यद् उत बोधिसत्त्व इति / सा न केनचिद् वचनीया रूपेण वा वेदनया वा संज्ञया वा संस्कारैर् वा विज्ञानेन वा चक्षुषा वा श्रोत्रेण वा घ्राणेन वा जिह्वया वा कायेन वा मनसा वा रूपेण वा शब्देन वा गन्धेन वा रसेन वा स्पर्शेन वा धर्मेण वा / चक्षुर्विज्ञानेन वा श्रोत्रविज्ञानेन वा घ्राणविज्ञानेन वा जिह्वाविज्ञानेन वा कायविज्ञानेन वा मनोविज्ञानेन वा / चक्षुःसंस्पर्शेन वा श्रोत्रसंस्पर्शेन वा घ्राणसंस्पर्शेन वा जिह्वासंस्पर्शेन वा कायसंस्पर्शेन वा मनःसंस्पर्शेन वा / चक्षुःसंस्पर्शप्रत्ययवेदनया वा श्रोत्रसंस्पर्शप्रत्ययवेदनया वा घ्राणसंस्पर्शप्रत्ययवेदनया वा जिह्वासंस्पर्शप्रत्ययवेदनया वा कायसंस्पर्शप्रत्ययवेदनया वा मनःसंस्पर्शप्रत्ययवेदनया वा / पृथिवीधातुना वा अब्धातुना वा तेजोधातुना वा वायुधातुना वा आकाशधातुना वा विज्ञानधातुना वा / अविद्यया वा संस्कारैर् वा विज्ञानेन वा नामरूपेण वा षडायतनेन वा स्पर्शेन वा वेदनया वा तृष्णया वा उपादानेन वा भवेन वा जात्या वा जरामरणेन वा / दानपारमितया वा शीलपारमितया वा क्षान्तिपारमितया वा वीर्यपारमितया वा ध्यानपारमितया वा प्रज्ञापारमितया वा / अध्यात्मशून्यतया वा बहिर्धाशून्यतया वा अध्यात्मबहिर्धाशून्यतया वा / शून्यताशून्यतया वा परमार्थशून्यतया वा / असंस्कृतशून्यतया वा अत्यन्तशून्यतया वा अनवकारशून्यतया वा प्रकृतिशून्यतया वा सर्वधर्मशून्यतया वा स्वलक्षणशून्यतया वा अनुपलम्भशून्यतया वा अभावशून्यतया वा स्वभावशून्यतया वा अभावस्वभावशून्यतया वा /

स्मृत्युपस्थानैर् वा सम्यक्प्रहाणैर् वा ऋद्धिपादैर् वा इन्द्रियैर् वा बलैर् वा बोध्यङ्गैर् वा आर्याष्टाङ्गमार्गेण वा आर्यसत्यैर् वा ध्यानैर् वा अप्रमाणैर् वा आरूप्यसमापत्तिभिर् वा शून्यतानिमित्ताप्रणिहितविशेषैर् वा तथागतबलैर् वा वैशारद्यैर् वा प्रतिसंविद्भिर् वा महामैत्र्या वा महाकरुणया वा आवेणिकबुद्धधर्मैर् वा यावद् एव धर्मप्रज्ञप्तिः / तथापि नाम भगवन् सप्त इति नाम केनचिद् वचनीयं / मायेति वा नाम केनचिद् वचणीयं प्रतिश्रुत्केति नाम प्रतिभास इति नाम केनचिद् वचनीयं / मरीचिकेति नाम केनचिद् वचनीयं / दकचन्द्र इति केनचिद् वचनीयं / तथागत इति केनचिद् वचनीयं / तद्यथापि नाम भगवन् आकाशम् इति नाम केनचिद् वचनीयं / पृथिवीति नाम केनचिद् वचनीयं / आप इति नाम केनचिद् वचनीयं / तेज इति नाम केनचिद् वचनीयं / वायुर् इति नाम केनचिद् वचनीयं / तथतेति नाम केनचिद् वचनीयं / अवितथतेति नाम केनचिद् वचनीयं /

अनन्यतथतेति नाम न केनचिद् वचनीयं / धर्मतथतेति नाम न केनचिद् वचनीयं / धर्मधातुर् इति न केनचिद् वचनीयं / धर्मस्थितितेति न केनचिद् वचनीयं / भूतकोटिर् इति नाम न केनचिद् वचनीयं / दानपारमितेति नाम न केनचिद् वचनीयं / शीलपारमितेति नाम न केनचिद् वचनीयं / क्षान्तिपारमितेति नाम न केनचिद् वचनीयं / वीर्यपारमितेति नाम न केनचिद् वचनीयं / ध्यानपारमितेति नाम न केनचिद् वचनीयं / प्रज्ञापारमितेति नाम न केनचिद् वचनीयं /

शीलम् इति नाम न केनचिद् वचनीयं / समाधिर् इति नाम न केनचिद् वचनीयं / प्रज्ञेति नाम न केनचिद् वचनीयं / विमुक्तिर् इति नाम न केनचिद् वचनीयं / विमुक्तिज्ञानदर्शनम् इति नाम न केनचिद् वचनीयं / श्रोतआपन्न इति नाम न केनचिद् वचनीयं / श्रोतआपन्नः न केनचिद् वचनीयः / श्रोतआपन्नधर्मा इति नाम न केनचिद् वचनीयः / सकृदागामीति नाम न केनचिद् वचनीयं / सकृदागामिधर्मा इति नाम न केनचिद् वचनीयं / अनागामीति नाम न केनचिद् वचनीयं / अनागामिधर्मा इति नाम न केनचिद् वचनीयं / अर्हन्न् इति नाम न केनचिद् वचनीयं / अर्हद्धर्मा इति नाम न केनचिद् वचनीयं / प्रत्येकबुद्ध इति नाम न केनचिद् वचनीयं / प्रत्येकबुद्धधर्मा इति न केनचिद् वचनीयं / बोधिसत्त्व इति नाम न केनचिद् वचनीयं / बोधिसत्त्वधर्मा इति नाम न केनचिद् वचनीयं / सम्यक्संबुद्ध इति नाम न केनचिद् वचनीयं /

कुशलेन वाकुशलेन वा सावद्येन वा अनवद्येन वा नित्येन वा अनित्येन वा सुखेन वा दुःखेन वा आत्मना वा अनात्मना वा शान्तेन वा अशान्तेन वा विविक्तेन वा अविविक्तेन वा भावेन वा अभावेन वा / इमम् अप्य् अहं भगवन्न् अर्थवशं प्रतीत्यैवं वदाम्य् एतद् एव मे कौकृत्यं स्यात् यो ऽहं सर्वधर्माणाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं कुर्यां यद् उत बोधिसत्त्व इति प्रज्ञापारमितेति वा / अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं नैव स्थितं न विष्ठितं नाधिष्ठितं / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य / एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं / सचेद् बोधिसत्त्वस्य महासत्त्वस्यैवं प्रज्ञापारमितायां भाष्यमाणायाम् एभिर् आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैर् उपदिश्यमानायां चित्तं नावलीयते न संलीयते / न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न सन्त्रासम् आपद्यते नियतं स बोधिसत्त्वो महासत्त्वो ऽवैवर्तिको बोधिसत्त्वभूमौ वेदितव्यः स्थितं इत्य् अस्थानयोगेन /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपे तेन न स्थातव्यं / वेदनायां तेन न स्थातव्यं / संज्ञायां तेन न स्थातव्यं / संस्कारेषु तेन न स्थातव्यं / विज्ञाने तेन न स्थातव्यं / चक्षुंसि तेन न स्थातव्यं / श्रोत्रे तेन न स्थातव्यं / घ्राणे तेन न स्थातव्यं / जिह्वायां तेन न स्थातव्यं / काये तेन न स्थातव्यं / मनसि तेन न स्थातव्यं / रूपे तेन न स्थातव्यं / शब्दे तेन न स्थातव्यं / गन्धे तेन न स्थातव्यं / रसे तेन न स्थातव्यं / स्पर्शे तेन न स्थातव्यं / धर्मेषु तेन न स्थातव्यं / चक्षुर्विज्ञाने तेन न स्थातव्यं / श्रोत्रविज्ञाने तेन न स्थातव्यं / घ्राणविज्ञाने तेन न स्थातव्यं / जिह्वाविज्ञाने तेन न स्थातव्यं / कायविज्ञाने तेन न स्थातव्यं / मनोविज्ञाने तेन न स्थातव्यं / चक्षुःसंस्पर्शे तेन न स्थातव्यं / श्रोत्रसंस्पर्शे तेन न स्थातव्यं / घ्राणसंस्पर्शे तेन न स्थातव्यं / जिह्वासंस्पर्शे तेन न स्थातव्यं / कायसंस्पर्शे तेन न स्थातव्यं / मनःसंस्पर्शे तेन न स्थातव्यं /

चक्षुःसंस्पर्शजायां वेदनायां तेन न स्थातव्यं / श्रोत्रसंस्पर्शजायां वेदनायां तेन न स्थातव्यं / घ्राणसंस्पर्शजायां वेदनायां तेन न स्थातव्यं / जिह्वासंस्पर्शजायां वेदनायां तेन न स्थातव्यं / कायसंस्पर्शजायां वेदनायां तेन न स्थातव्यं / मनःसंस्पर्शजायां वेदनायां तेन न स्थातव्यं / पृथिवीधातौ तेन न स्थातव्यं / अब्धातौ तेन न स्थातव्यं / तेजोधातौ तेन न स्थातव्यं / वायुधातौ तेन न स्थातव्यं / आकाशधातौ तेन न स्थातव्यं / विज्ञानधातौ तेन न स्थातव्यं / अविद्यायां तेन न स्थातव्यं / संस्कारेषु तेन न स्थातव्यं / विज्ञाने तेन न स्थातव्यं / नामरूपे तेन न स्थातव्यं / षडायतने तेन न स्थातव्यं / स्पर्शे तेन न स्थातव्यं / वेदनायां तेन न स्थातव्यं / तृष्णायां तेन न स्थातव्यं / उपादाने तेन न स्थातव्यं / जातौ तेन न स्थातव्यं / जरामरणे तेन न स्थातव्यं /

तत् कस्य हेतोस् तथा हि भगवन् रूपं रूपेण शून्यं / या च रूपशून्यता न तद् रूपं न चान्यत्र रूपाच् छून्यता / रूपम् एव शून्यता शून्यतैव रूपं / वेदना वेदनया शून्या / या च वेदनाशून्यता न सा वेदेना / न चान्यत्र वेदनायाः शून्यता / वेदनैव शून्यता / शून्यतैव वेदना / संज्ञा संज्ञया शून्यता / या च संज्ञायाः शून्यता न सा संज्ञा / न चान्यत्र संज्ञायाः शून्यता संज्ञैव शून्यता शून्यतैव संज्ञा / संस्काराः संस्कारैः शून्याः / या च संस्कारशून्यता न त संस्काराः न चान्यत्र संस्कारेभ्यः शून्यतासंस्कारा एव शून्यता शून्यतैव संस्काराः / विज्ञानं विज्ञानेन शून्यं / या च विज्ञानशून्यता तद् विज्ञानं / न चान्यत्र विज्ञानाच् छून्यता विज्ञानम् एव शून्यता शून्यतैव विज्ञानं / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपे तेन न स्थातव्यं / वेदनायां तेन न स्थातव्यं / संज्ञायां तेन न स्थातव्यं / संस्कारेषु तेन न स्थातव्यं / विज्ञाने तेन न स्थातव्यं /

तथा हि भगवन् चक्षुश् चक्षुषा शून्यं / या च चक्षुःशून्यता न तच् चक्षुः न चान्यत्र चक्षुषः शून्यता / चक्षुर् एव शून्यता शून्यतैव चक्षुः / श्रोत्रं श्रोत्रेण शून्यं / या च श्रोत्रशून्यता न तत् श्रोत्रं / न चान्यत्र श्रोत्राच् छून्यता श्रोत्रम् एव शून्यता शून्यतैव श्रोत्रं / घ्राणं घ्राणेन शून्यं / या च घ्राणशून्यता न तद् घ्राणं / न चान्यत्र घ्राणाच् छून्यता / घ्राणम् एव शून्यता शून्यतैव घ्राणं / जिह्वा जिह्वया शून्या / या च जिह्वाशून्यता न सा जिह्वा न चान्यत्र जिह्वायाः शून्यता जिह्वैव शून्यता शून्यतैवं जिह्वा / कायः कायेन शून्यः / या च कायशून्यता न स कायः न चान्यत्र कायाच् छून्यता / काय एव शून्यता शून्यतैव कायः / मनो मनसा शून्यं / या च मनःशून्यता न तन् मनः / न चान्यत्र मनसः शून्यता मन एव शून्यता शून्यतैव मनः / रूपं रूपेण शून्यं / या च रूप्यशून्यता न तद् रूपं / न चान्यत्र रूपाच् छून्यता रूपम् एव शून्यता शून्यतैव रूपं / शब्दः शब्देन शून्यः / या च शब्दशून्यता न स शब्दः / न चान्यत्र शब्दाच् छून्यता / शब्द एव शून्यता शून्यतैव शब्दः / गन्धो गन्धेन शून्यः / या च गन्धशून्यता न स गन्धः / न चान्यत्र गन्धाच् छून्यता गन्ध एव शून्यता शून्यतैव गन्धः / रसो रसेन शून्यः / या च रसशून्यता न रसः / न चान्यत्र रसाच् छून्यता रस एव शून्यता शून्यतैव रसः / स्पर्शः स्पर्शेन शून्यः / या च स्पर्शशून्यता न स स्पर्शः / न चान्यत्र स्पर्शाच् छून्यता स्पर्श एव शून्यता शून्यतैव स्पर्शः / धर्मा धर्मैः शून्याः / या च धर्मशून्यता न ते धर्माः / न चान्यत्र धर्मेभ्येः शून्यता धर्मा एव शून्यता शून्यतैव धर्माः /

चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं / या च चक्षुर्विज्ञानशून्यता न तच् चक्षुर्विज्ञानं / न चान्यत्र चक्षुर्विज्ञानाच् छून्यता / चक्षुर्विज्ञानम् एव शून्यता शून्यतैव चक्षुर्विज्ञानं / श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं / या च श्रोत्रविज्ञानशून्यता न तत् श्रोत्रविज्ञानं / न चान्यत्र श्रोत्रविज्ञानाच् छून्यता / श्रोत्रविज्ञानम् एव शून्यता शून्यतैव श्रोत्रविज्ञानं / घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं / या च घ्राणविज्ञानशून्यता न तद् घ्राणविज्ञानं न चान्यत्र घ्राणविज्ञानाच् छून्यता / घ्राणविज्ञानम् एव शून्यता शून्यतैव घ्राणविज्ञानं / जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं / या च जिह्वाविज्ञानशून्यता न तज् जिह्वाविज्ञानं / न चान्यत्र जिह्वाविज्ञानाच् छून्यता जिह्वाविज्ञानम् एव शून्यता शून्यतैव जिह्वाविज्ञानं / कायविज्ञानं कायविज्ञानेन शून्यं / या च कायविज्ञानशून्यता न तत् कायविज्ञानं / न चान्यत्र कायविज्ञानाच् छून्यता शून्यतैव कायविज्ञानं / मनोविज्ञानं मनोविज्ञानेन शून्यं / या च मनोविज्ञानशून्यता न तन् मनोविज्ञानं / न चान्यत्र मनोविज्ञानाच् छून्यता / मनोविज्ञानम् एव शून्यता शून्यतैव मनोविज्ञानं /

चक्षुःसंस्पर्शः चक्षुःसंस्पर्शेन शून्यः / या च चक्षुःसंस्पर्शशून्यता न स चक्षुःसंस्पर्शः / न चान्यत्र चक्षुःसंस्पर्शाच् छून्यता / चक्षुःसंस्पर्श एव शून्यता शून्यतैव चक्षुःसंस्पर्शः / श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यः / या च श्रोत्रसंस्पर्शशून्यता न स श्रोत्रसंस्पर्शः / स चान्यत्र श्रोत्रसंस्पर्शाच् छून्यता / श्रोत्रसंस्पर्श एव शून्यता शून्यतैव श्रोत्रसंस्पर्शः / घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यः / या च घ्राणसंस्पर्शशून्यता न स घ्राणसंस्पर्शः / न चान्यत्र घ्राणसंस्पर्शाच् छून्यता / घ्राणसंस्पर्श एव शून्यता शून्यतैव घ्राणसंस्पर्शः / जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः / या च जिह्वासंस्पर्शशून्यता न स जिह्वासंस्पर्शः / न चान्यत्र जिह्वासंस्पर्शाच् छून्यता / जिह्वासंस्पर्श एव शून्यता शून्यतैव जिह्वासंस्पर्शः / कायसंस्पर्शः कायसंस्पर्शेन शून्यः / या च कायसंस्पर्शशून्यता न स कायसंस्पर्शः / स चान्यत्र कायसंस्पर्शाच् छून्यता / कायसंस्पर्श एव शून्यता शून्यतैव कायसंस्पर्शः / मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः / या च मनःसंस्पर्शशून्यता न स मनःसंस्पर्शः / न चान्यत्र मनःसंस्पर्शाच् छून्यता / मनःसंस्पर्श एव शून्यता शून्यतैव मनःसंस्पर्शः /

चक्षुःसंस्पर्शप्रत्ययवेदना चक्षुःसंस्पर्शप्रत्ययवेदनया शून्या / या च चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यता न सा चक्षुःसंस्पर्शप्रत्ययवेदना न चान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनायाः शून्यता / चक्षुःसंस्पर्शप्रत्ययवेदनैव शून्यता शून्यतैव चक्षुःसंस्पर्शप्रत्ययवेदना / श्रोत्रसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदनया शून्या / न चान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनायाः शून्यता / श्रोत्रसंस्पर्शप्रत्ययवेदनैव शून्यता शून्यतैव श्रोत्रसंस्पर्शप्रत्ययवेदना / घ्राणसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदनया शून्या / या च घ्राणसंस्पर्शप्रत्ययवेदनाशून्यता न सा घ्राणसंस्पर्शप्रत्ययवेदना न चान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनायाः शून्यता / घ्राणसंस्पर्शप्रत्ययवेदनैव शून्यता शून्यतैव घ्राणासंस्पर्श्प्रत्ययः वेदना / जिह्वासंस्पर्शप्रत्ययवेदना जिह्वासंस्पर्शप्रत्ययवेदनयाशून्या / या च जिह्वासंस्पर्शप्रत्ययवेदनाशून्यता न सा जिह्वासंस्पर्शप्रत्ययवेदना / न चान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनायाः शून्यता / जिह्वासंस्पर्शप्रत्ययवेदनैव शून्यता / शून्यतैव जिह्वासंस्पर्शप्रत्ययवेदना / कायसंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदनया शून्या / या च कायसंस्पर्शप्रत्ययवेदनाशून्यता न सा कायसंस्पर्शप्रत्ययवेदना / न चान्यत्र कायसंस्पर्शप्रत्ययवेदनायाः शून्यता / कायसंस्पर्शप्रत्ययवेदनैव शून्यता / शून्यतैव कायसंस्पर्शप्रत्ययवेदना / मनःसंस्पर्शप्रत्ययवेदना मनःसंस्पर्शप्रत्ययवेदनया शून्या / या च मनःसंस्पर्शप्रत्ययवेदनाशून्यता न सा मनःसंस्पर्शप्रत्ययवेदना / न चान्यत्र मनःसंस्पर्शप्रत्ययवेदनयाः शून्यता / मनःसंस्पर्शप्रत्ययवेदनैव शून्यता / शून्यतैव मनःसंस्पर्शप्रत्ययवेदना /

पृथिवीधातुः पृथिवीधातुना शून्यः / या च पृथिवीधातुशून्यता न स पृथिवीधातुः / न चान्यत्र पृथिवीधातोः शून्यता / पृथिवीधातुर् एव शून्यता शून्यतैव पृथिवीधातुः / अब्धातुर् अब्धातुना शून्यः या चाब्धातुशून्यता न सो ऽब्धातुः / न चान्यत्राब्धातोः शून्यता / अब्धातुर् एव शून्यता शून्यतैवाब्धातुः / तेजोधातुस् तेजधातुना शून्यः / या च तेजोधातुशून्यता न स तेजोधातुः / न चान्यत्र तेजोधातोः शून्यता / तेजोधातुर् एव शून्यता शून्यतैव तेजोधातुः / वायुधातुर् वायुधातुना शून्यः / या च वायुधातुशून्यता न स वायुधातुः / न चान्यत्र वायुधातोः शून्यता / वायुधातुर् एव शून्यता शून्यतैव वायुधातुः / आकाशधातुर् आकाशधातुना शून्यः / या चाकाशधातुशून्यता न स आकाशधातुः / न चान्यत्राकाशधातोः शून्यता / आकाशधातुर् एव शून्यता / शून्यतैवाकाशधातुः / विज्ञानधातुर् विज्ञानधातुना शून्यः / या च विज्ञानधातुशून्यता न स विज्ञानधातुः / न चान्यत्र विज्ञानधातोः शून्यता / विज्ञानधातुर् एव शून्यता शून्यतैव विज्ञानधातुः / अविद्या भगवन्न् अविद्यया शून्या / या चाविद्याशून्यता न साविद्या / न चान्यत्राविद्यायाः शून्यता / अविद्यैव शून्यता शून्यतैवाविद्या / संस्काराः संस्कारैः शून्याः / या च संस्कारशून्यता न ते संस्काराः / न चान्यत्र संस्कारेभ्यः शून्यता / संस्कारा एव शून्यता / शून्यतैव संस्कारा / विज्ञानं विज्ञानेन शून्यं / या च विज्ञानशून्यता न तद् विज्ञानं / न चान्यत्र विज्ञानाच् छून्यता / विज्ञानम् एव शून्यता शून्यतैव विज्ञानं /

नामरूपं नामरूपेण शून्यं / या च नामरूपशून्यता न तन् नामरूपं / न चान्यत्र नामरूपाच् छून्यता / नामरूपम् एव शून्यता शून्यतैव नामरूपं / षडायतनं षडायतनेन शून्यं / या च षडायतनशून्यता न तत् षडायतनं / न चान्यत्र षडायतनाच् छून्यता / षडायतनम् एव शून्यता शून्यतैव षडायतनं / स्पर्शः स्पर्शेन शून्यः / या च स्पर्शशून्यता न स स्पर्शः / न चान्यत्र स्पर्शाच् छून्यता / स्पर्श एव शून्यता शून्यतैव स्पर्शः / वेदना वेदनया शून्या / या च वेदनाशून्यता न सा वेदना / न चान्यत्र वेदना शून्यता / वेदनैव शून्यता शून्यतैव वेदना / तृष्णा तृष्णया शून्या / या च तृष्णाशून्या न सा तृष्णा / न चान्यत्र तृष्णायाः शून्यता / तृष्णैव शून्यता शून्यतैव तृष्णा / उपादानम् उपादानेन शून्यं या चोपादानशून्यता न तद् उपादानं / न चान्यत्रोपादानाच् छून्यता / उपादानम् एव शून्यता शून्यतैवोपादानं / भवो भवेन शून्यः / या च भवशून्यता न स भवः / न चान्यत्र भवाच् छून्यता / भव एव शून्यता शून्यतैव भवः / जातिर् जात्या शून्या / या च जातिशून्यता न सा जातिः / न चान्यत्र जातेः शून्यता / जातिर् एव शून्यता शून्यतैव जातिः / जरामरणं जरामरणेन शून्यं / या च जरामरणशून्यता न तत् जरामरणं / न चान्यत्र जरामरणाच् छून्यता / जरामरणम् एव शून्यता शून्यतैव जरामरण /

अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अविद्यायां न स्थातव्यं / संस्कारेषु न स्थातव्यं / विज्ञाने न स्थातव्यं / नामरूपे न स्थातव्यं / षडायतने न स्थातव्यं / स्पर्शे न स्थातव्यं / वेदनायां न स्थातव्यं / तृष्णायां न स्थातव्यं / उपादाने न स्थातव्यं / जरामरणे न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता दानपारमितायां न स्थातव्यं / तत् कस्य हेतोस् तथा हि दानपारमिता दानपारमितया शून्या / या च दानपारमिताशून्यता न सा दानपारमिता / न चान्यत्र दानपारमितायाः शून्यता / दानपारमितैव शून्याता शून्यतैव दानपारमिता / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता शीलपारमितायां न स्थातव्यं / तत् कस्य हेतोस् तथा हि / शीलपारमिता शीलपारमितया शून्या / या च शीलपारमिताशून्यता न सा शीलपारमिता / न चान्यत्र शीलपारमितायाः शून्यता / शीलपारमितैव शून्यता शून्यतैव शीलपारमिता / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता क्षान्तिपारमितायां न स्थातव्यं / तत् कस्य हेतोस् तथा हि / क्षान्तिपारमिता क्षान्तिपारमितया शून्या / या च क्षान्तिपारमिताशून्यता न सा क्षान्तिपारमिता / न चान्यत्र क्षान्तिपारमितायाः शून्यता / क्षान्तिपारमितैव शून्यता शून्यतैव क्षान्तिपारमिता / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वीर्यपारमितायां न स्थातव्यं / तत् कस्य हेतोस् तथा हि / वीर्यपारमिता वीर्यपारमितया शून्या / या च वीर्यपारमिताशून्यता न सा वीर्यपारमिता / न चान्यत्र वीर्यपारमितायाः शून्यता / वीर्यपारमितैव शून्यता शून्यतैव वीर्यपारमिता / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता ध्यानपारमितायां न स्थातव्यं / तत् कस्य हेतोस् तथा हि / ध्यानपारमिता ध्यानपारमितया शून्या / या च ध्यानपारमिताशून्यता न सा ध्यानपारमिता / न चान्यत्र ध्यानपारमितायाः शून्यता / ध्यानपारमितैव शून्यता शून्यतैव ध्यानपारमिता / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रज्ञापारमितायां न स्थातव्यं / तत् कस्य हेतोस् तथा हि / प्रज्ञापारमिता प्रज्ञापारमितया शून्या / या च प्रज्ञापारमिताशून्यता न सा प्रज्ञापारमिता / न चान्यत्र प्रज्ञापारमितायाः शून्यता / प्रज्ञापारमितैव शून्यता शून्यतैव प्रज्ञापारमिता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता षट्षु पारमितासु न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता चतुर्षु स्मृत्युपस्थानेषु न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि / या च भगवन् स्मृत्युपस्थानशून्यता न तानि स्मृत्युपस्थानानि / न चान्यत्र स्मृत्युपस्थानेभ्यः शून्यता / स्मृत्युपस्थानान्य् एव शून्यता शून्यतैव स्मृत्युपस्थानानि / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारतायां चरता स्मृत्युपस्थानेषु न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सम्यक्प्रहाणेषु न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि / या च सम्यक्प्रहाणशून्यता न तानि सम्यक्प्रहाणानि / न चान्यत्र सम्यक्प्रहाणेभ्यः शून्यता सम्यक्प्रहाणान्य् एव शून्यता शून्यतैव सम्यक्प्रहाणानि / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सम्यक्प्रहाणेषु न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता ऋद्धिपादेषु न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन्न् ऋद्धिपादाः ऋद्धिपादैः शून्याः / या च ऋद्धिपादशून्यता न ते ऋद्धिपादाः / न चान्यत्र ऋद्धिपादेभ्यः शून्यता / ऋद्धिपादा एव शून्यता शून्यतैव ऋद्धिपादाः / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता ऋद्धिपादेषु न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता इन्द्रियेषु न स्थातव्यं / तत् कस्य हेतोस् तथा हि /

भगवन्न् इन्द्रियाणीन्द्रियैः शून्यानि या च भगवन्न् इन्द्रियशून्यता न तानीन्द्रियाणि / न चान्यत्रेन्द्रियेभ्यः शून्यता इन्द्रियाण्य् एव शून्यता शून्यतैवेन्द्रियाणि / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता इन्द्रियेषु न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता पञ्चसु बलेषु न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् बलानि बलैः शून्यानि या च भगवन् बलशून्यता न तानि बलानि / न चान्यत्र बलेभ्यः शून्यता / बलान्य् एव शून्यता शून्यतैव बलानि / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता बलेषु न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सप्तसु बोध्यङ्गेषु न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् बोध्यङ्गानि बोध्यङ्गैः शून्यानि / या च भगवन् बोध्यङ्गशून्यता न तानि बोध्यङ्गानि / न चान्यत्र बोध्यङ्गेभ्यः शून्यता / बोध्यङ्गान्य् एव शून्यता शून्यतैव बोध्यङ्गानि / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सप्तसु बोध्यङ्गेषु न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता आर्याष्टाङ्गमार्गे न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् मार्गो मार्गेण शून्यः / या च भगवन् मार्गशून्यता न स मार्गः न चान्यत्र मार्गाच् छून्यता मार्गा एव शून्यता शून्यतैव मार्गः / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता मार्गे न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता चतुर्ष्व् आर्यसत्येषु न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन्न् आर्यसत्यानि आर्यसत्यैः शून्यानि या च भगवन्न् आर्यसत्यशून्यता न तान्य् आर्यसत्यानि न चान्यत्रार्यसत्येभ्यः शून्यता / आर्यसत्यान्य् एव शून्यता शून्यतैवार्यसत्यानि / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता आर्यसत्येषु न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता ध्यानेषु न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् ध्यानानि ध्यानैः शून्यानि / या च ध्यानशून्यता न तानि ध्यानानि / न चान्यत्र ध्यानेभ्यः शून्यता / ध्यानान्य् एव शून्यता /

शून्यतैव ध्यानानि / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता ध्यानेषु न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता चतुर्ष्व् अप्रमाणेषु न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन्न् अप्रमाणानि प्रमाणैः शून्यानि या च भगवन्न् अप्रमाणशून्यता न तान्य् अप्रमाणानि / न चान्यत्राप्रमाणेभ्यः शून्यता अप्रमाणान्य् एव शून्यता शून्यतैवाप्रमाणानि / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अप्रमाणेषु न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता चतुर्ष्व् आरूप्यसमापत्तिषु न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन्न् आरूप्यसमापत्तय आरूप्यसमापत्तिभिः शून्याः / या च भगवन्न् आरूप्यसमापत्तिशून्यता न ता आरूप्यसमापत्तयः / न चान्यत्रारूप्यसमापत्तिभ्यः शून्यता आरूप्यसमापत्तय एव शून्यता शून्यतैवारूप्यसमापत्तयः / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता आरूप्यसमापत्तिषु न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरताष्टासु विमोक्षेषु न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् विमोक्षा विमोक्षैः शून्याः / या च भगवन् विमोक्षशून्यता न ते विमोक्षाः / न चान्यत्र विमोक्षेभ्यः शून्यता विमोक्षा एव शून्यता शून्यतैव विमोक्षाः / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विमोक्षेषु न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नवस्व् अनुपूर्वविहारसमापत्तिषु न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन्न् अनुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तिभिः शून्याः / या च भगवन्न् अनुपूर्वविहारसमापत्तिशून्यता न ता अनुपूर्वविहारसमापत्तयः / न चान्यत्रानुपूर्वविहारसमापत्तिभ्यः शून्यता अनुपूर्वविहारसमापत्तय एव शून्यता शून्यतैवानुपूर्वविहारसमापत्तयः / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अनुपूर्वविहारसमापत्तिषु न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता शून्यतानिमित्ताप्रणिहितेषु न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखैः शून्यानि / या च भगवन् शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यता न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि / न चान्यत्रशून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यः शून्यता शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एव शून्यता शून्यतैव शून्यतानिमित्ताप्राणिहितविमोक्षमुखानि /

अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता दशतथागतबलेषु न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवंस् तथागतबलानि तथागतबलैः शून्यानि / या च भगवंस् तथागतबलशून्यता न तानि तथागतबलानि / न चान्यत्र तथागतबलेभ्यः शून्यता / तथागतबलान्य् एव शून्यता शून्यतैव तथागतबलानि / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता तथागतबलेषु न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता चतुर्षु वैशारद्येषु न स्थातव्यं / तत् कस्य हेतोस् ताथा हि / भगवन् वैशारद्यानि वैशारद्यैः शून्यानि / या च भगवन् वैशारद्यशून्यता न तानि वैशारद्यानि / न चान्यत्र वैशारद्येभ्यः शून्यता / वैशारद्यान्य् एव शून्यता शून्यतैव वैशारद्यानि / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वैशारद्येषु न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता चतसृषु प्रतिसंवित्सु न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् प्रतिसंविदः प्रतिसंविद्भिः शून्याः / या च प्रतिसंविच्छून्यता न ताः प्रतिसंविदः / न चान्यत्र प्रतिसंविद्भ्यः शून्यता प्रतिसंविद एव शून्यता / शून्यतैव प्रतिसंविदः / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रतिसंवित्सु न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता महाकरुणायां न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् महाकरुणा महाकरुण्या शून्या / या च महाकरुणाशून्यता न सा महाकरुणा / न चान्यत्र महाकरुणायाः शून्यता / महाकरुणैव शून्यता, शून्यतैव महाकरुणा / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता महाकरुणायां न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अष्टादशावेणिकबुद्धधर्मे न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् आवेणिकबुद्धधर्माः आवेणिकबुद्धधर्मैः शून्याः / या च भगवन्न् आवेणिकबुद्धधर्मशून्यता न ते आवेणिकबुद्धधर्माः / न चान्यत्रावेणिकबुद्धधर्मेभ्यः शून्यता / आवेणिकबुद्धधर्मा एव शून्यता शून्यतैवावेणिकबुद्धधर्माः / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता आवेणिकबुद्धधर्मेषु न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरताक्षरेषु न स्थातव्यं / एकोदाहारेषु न स्थातव्यं / पृथगुव्युदाहारे न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन्न् अक्षरान्य् अक्षरैः शून्या या चाक्षरशून्यता न तान्य् अक्षाराणि / न चान्यत्राक्षरेभ्यः शून्यता अक्षराण्य् एव शून्यता / शून्यतैवाक्षराणि / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अक्षरेषु न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञासु न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन्न् अभिज्ञा अभिज्ञाभिः शून्या / या चाभिज्ञाशून्यता न ता अभिज्ञाः / न चान्यत्राभिज्ञाभ्यः शून्यता अभिज्ञा एव शून्यता शून्यतैवाभिज्ञा / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञासु न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सर्वसमाधिमुखेषु न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् सर्वसमाधिमुखानि सर्वसमाधिमुखैः शून्यानि / या च समाधिमुखशून्यता न तानि समाधिमुखानि / न चान्यत्र समाधिमुखेभ्यः शून्यता / समाधिमुखान्य् एव शून्यता शून्यतैव समाधिमुखानि / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सर्वसमाधिमुखेषु न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सर्वधारणीमुखेषु न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् धारणीमुखानि धारणीमुखैः शून्यानि / या च धारणीमुखशून्यता न तानि धारणीमुखानि / न चान्यत्र धारणीमुखेभ्यः शून्यता / धारणीमुखान्य् एव शून्यता शून्यतैव धारणीमुखानि / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धारणीमुखेषु न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपम् अनित्यम् इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् रूपानित्यता रूपानित्यतया शून्या / या च रूपानित्यताशून्यता न सा रूपानित्यता / न चान्यत्र रूपानित्यायाः शून्यता / रूपानित्यतैव शून्यता / शून्यतैव रूपानित्यता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपानित्यतायां न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनानित्येति न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् वेदनानित्यता वेदनानित्यतया शून्या / या च वेदनानित्यताशून्यता न सा वेदनानित्यता / न चान्यत्र वेदनानित्यतायाः शून्यता / वेदनानित्यतैव शून्यता शून्यतैव वेदनानित्यता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनानित्यतायां न स्थातव्यं / तेन प्रज्ञापारमितायां चरता संज्ञानित्येति न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् संज्ञानित्यता संज्ञानित्यतया शून्या / या च संज्ञानित्यताशून्यता न सा संज्ञानित्यता / न चान्यत्र संज्ञानित्यतायाः शून्यता / संज्ञानित्यतैव शून्यता शून्यतैव संज्ञानित्यता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञानित्येति न स्थातव्यं / तेन प्रज्ञापारमितायां चरता संस्कारा अनित्या इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् संस्कारानित्यता संस्कारानित्यतया शून्या / या च संस्कारानित्यताशून्यता न सा संस्कारानित्यता / संस्कारानित्यतैव शून्यता शून्यतैव संस्कारानित्यता /

अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्कार अनित्या इति न स्थातव्यं / तेन प्रज्ञापारमितायां चरता विज्ञानम् अनित्यम् इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् विज्ञानानित्यता विज्ञानानित्यतया शून्या / या च भगवन् विज्ञानानित्यताशून्यता न सा विज्ञानानित्यता / न चान्यत्र विज्ञानानित्यतायाः शून्यता / विज्ञानानित्यतैव शून्यता शून्यतैव विज्ञानानित्यता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानम् अनित्यम् इति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं दुःखम् इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि रूपदुःखता रूपदुःखतया शून्यता / या च रूपदुःखताशून्यता न सा रूपदुःखता / न चान्यत्र रूपदुःखतायाः शून्यता / रूपदुःखतैव शून्यता शून्यतैव रूपदुःखता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपदुःखतायां न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदना दुःखेति न स्थाथव्यं / तत् कस्य हेतोस् तथा हि / भगवन् वेदनादुःखता वेदनादुःखतया शून्या / या च वेदनादुःखताशून्यता न सा वेदनादुःखता / न चान्यत्र वेदनादुःखतायाः शून्यता / वेदना दुःखतैव शून्यता शून्यतैव वेदनादुःखता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनादुःखतायां न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञा दुःखेति न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् संज्ञादुःखता संज्ञादुःखतया शून्या / या च संज्ञादुःखताशून्यता न सा संज्ञादुःखता / न चान्यत्र संज्ञादुःखतायाः शून्यता / संज्ञादुःखतैव शून्यता शून्यतैव संज्ञादुःखता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञादुःखतायां न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्कारा दुःखा इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् संस्कारदुःखता संस्कारदुःखतया शून्या /

या च संस्कारदुःखताशून्यता न सा संस्कारदुःखता / न चान्यत्र संस्कारदुःखतायाः शून्यता / संस्कारदुःखतैव शून्यता शून्यतैव संस्कारदुःखता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्कारदुःखतायां न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानं दुःखम् इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् विज्ञानदुःखता विज्ञानदुःखतया शून्या / या च विज्ञानदुःखताशून्यता न सा विज्ञानदुःखता / न चान्यत्र विज्ञानदुःखतायाः शून्यता / विज्ञानदुःखतैव शून्यता शून्यतैव विज्ञानदुःखता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानदुःखतायां न स्थातव्यं /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.