Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 13/37

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता, Part इ

Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपम् अनात्मेति न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् रूपानात्मता रूपानात्मतया शून्या / या च रूपानात्मताशून्यता न सा रूपानात्मता / न चान्यत्र रूपानात्मतायाः शून्यता / रूपानात्मतैव शून्यता शून्यतैव रूपानात्मता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपम् अनात्मेति न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनानात्मेति न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् वेदनानात्मता वेदनानात्मतया शून्या या च वेदनानात्मताशून्यता न सा वेदनानात्मता / न चान्यत्र वेदनानात्मतायाः शून्यता / वेदनानात्मतैव शून्यता शून्यतैव वेदनानात्मता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनानात्मेति न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञानात्मेति न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् संज्ञानात्मता संज्ञानात्मतया शून्या / या च संज्ञानात्मताशून्यता न सा संज्ञानात्मता / न चान्यत्र संज्ञानात्मतायाः शून्यता / संज्ञानात्मतैव शून्यता शून्यतैव संज्ञानात्मता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञानात्मेति न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्कारा अनात्मान इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् संस्कारानात्मता संस्कारानात्मतया शून्या /

या च संस्कारानात्मताशून्यता न सा संस्कारानात्मता / न चान्यत्र संस्कारानात्मतायाः शून्यता / संस्कारानात्मतैव शून्यता शून्यतैव संस्कारानात्मता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्कारा अनात्मान इति न स्थातव्यं / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानम् अनात्मेति न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् विज्ञानानात्मता विज्ञानानात्मतया शून्या / या च विज्ञानानात्मताशून्यता न सा विज्ञानानात्मता / न चान्यत्र विज्ञानानात्मतायाः शून्यता / विज्ञानानात्मतैव शून्यता / शून्यतैव विज्ञानानात्मता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानम् अनात्मेति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं शान्तम् इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् रूपशान्तता रूपशान्ततया शून्या / या च रूपशान्तताशून्यता न सा रूपशान्तता / न चान्यत्र रूपशान्ततायाः शून्यता / रूपशान्ततैव शून्यता / शून्यतैव रूपशान्तता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं शान्तम् इति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनाशान्तेति न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् वेदनाशान्तता वेदनाशान्ततया शून्या / या च वेदनाशान्तताशून्यता न सा वेदनाशान्तता / न चान्यत्र वेदनाशान्ततायाः शून्यता / वेदनाशान्ततैव शून्यता / शून्यतैव वेदनाशान्तता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनाशान्तेति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञाशान्तेति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् संज्ञाशान्तता संज्ञाशान्ततया शून्या / या च संज्ञाशान्तताशून्यता न सा संज्ञाशान्तता / न चान्यत्र संज्ञाशान्ततायाः शून्यता / संज्ञाशान्ततैव शून्यता शून्यतैव संज्ञाशान्तता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञाशान्तेति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञाणरमितायां चरता संस्काराः शान्त इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् संस्कारशान्तता संस्कारशान्ततया शून्या / या च संस्कारशान्तताशून्यता न सा संस्कारशान्तता / न चान्यत्र संस्कारशान्ततायाः शून्यता / संस्कारशान्ततैव शून्यता / शून्यतैव संस्कारशान्तता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्काराः शान्त इति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता / विज्ञानं शान्तम् इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् विज्ञानशान्तता विज्ञानशान्ततया शून्या / या च विज्ञानशान्तताशून्यता न सा विज्ञानशान्तता / न चान्यत्र विज्ञानशान्ततायाः शून्यता / विज्ञानशान्ततैव शून्यता / शून्यतैव विज्ञानशान्तता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापरमितायां चरता विज्ञानं शान्तम् इति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं शून्यम् इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् रूपशून्यता रूपशून्यतया शून्या / या च रूपशून्यता न सा रूपशून्यता / न चान्यत्र रूपशून्यतायाः शून्यता / रूपशून्यतैव शून्यता शून्यतैव रूपशून्यता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं शून्यम् इति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनाशून्येति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् वेदनाशून्यता वेदनाशून्यतया शून्या / या च वेदनाशून्यता न सा वेदनाशून्यता / न चान्यत्र वेदनाशून्यतायाः शून्यता / वेदनाशून्यतैव शून्यता शून्यतैव वेदनाशून्यता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनाशून्येति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञाशून्येति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् संज्ञाशून्यता संज्ञाशून्यतया शून्या / या च संज्ञाशून्यता न सा संज्ञाशून्यता / न चान्यत्र संज्ञाशून्यतायाः शून्यता / संज्ञाशून्यतैव शून्यता शून्यतैव संज्ञाशून्यता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञाशून्येति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्काराः शून्या इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् संस्कारशून्यता संस्कारशून्यतया शून्या / या च संस्कारशून्यता न सा संस्कारशून्यता / न चान्यत्र संस्कारशून्यतायाः शून्यता संस्कारशून्यतैव शून्यता / शून्यतैव संस्कारशून्यता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्काराः शून्य इति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानशून्यम् इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् विज्ञानशून्यता विज्ञानशून्यतया शून्या / या च विज्ञानशून्यताशून्यता न सा विज्ञानशून्यता / न चान्यत्र विज्ञानशून्यतायाः शून्यता / विज्ञानशून्यतैव शून्यता शून्यतैव विज्ञानशून्यता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानं शून्यम् इति न स्थावव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपम् आनिमित्तम् इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् रूपानिमित्तता रूपानिमित्ततया शून्या / या च रूपानिमित्तताशून्यता न सा रूपानिमित्तता / न चान्यत्र रूपानिमित्ततायाः शून्यता / रूपानिमित्ततैव शून्यता / शून्यतैव रूपानिमित्तता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताया चरता रूपम् आनिमित्तम् इति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनानिमित्तम् इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् वेदनानिमित्तता वेदनानिमित्ततया शून्या / या च वेदनानिमित्तताशून्यता न सा वेदनानिमित्तता / न चान्यत्र वेदनानिमित्ततायाः शून्यता / वेदनानिमित्ततैव शून्यता / शून्यतैव वेदनानिमित्तता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनानिमित्तम् इति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञानिमित्तम् इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् संज्ञानिमित्तता संज्ञानिमित्ततया शून्या / या च संज्ञानिमित्तताशून्यता न सा संज्ञानिमित्तता / न चान्यत्र संज्ञानिमित्ततायाः शून्यता / संज्ञानिमित्ततैव शून्यता शून्यतैव संज्ञानिमित्तता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञानिमित्तम् इति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्कारा आनिमित्तम् इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि संस्कारानिमित्तता संस्कारानिमित्ततया शून्या / या च संस्कारानिमित्तताशून्यता न सा संस्कारानिमित्तता / न चान्यत्र संस्कारानिमित्ततायाः शून्यता / संस्कारानिमित्ततैव शून्यता / शून्यतैव संस्कारानिमित्तता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन

महासत्त्वेन प्रज्ञापारमितायां चरता संस्कारा आनिमित्तम् इति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानं आनिमित्तम् इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् विज्ञानानिमित्तता विज्ञानानिमित्ततया शून्या / या च विज्ञानानिमित्तताशून्यता न सा विज्ञानानिमित्तता / न चान्यत्र विज्ञानानिमित्ततायाः शून्यता / विज्ञानानिमित्ततैव शून्यता शून्यतैव विज्ञानानिमित्तता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानम् आनिमित्तम् इति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपम् अप्रणिहितम् इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् रूपाप्रणिहितता रूपाप्रणिहिततया शून्या / या च रूपाप्रणिहितताशून्यता न सा रूपाप्रणिहितता / न चान्यत्र रूपाप्रणिहिततायाः शून्यता / रूपाप्रणिहिततैव शून्यता / शून्यतैव रूपाप्रणिहितता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपम् अप्रणिहितम् इति न स्थातव्य / पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरताप्रणिहितेति न स्थावव्यं / तत् कस्य हेतोस् तथा हि भगवन् वेदनाप्रणिहितता वेदनाप्रणिहिततया शून्या / या च वेदनाप्रणिहितताशून्यता न सा वेदनाप्रणिहितता / न चान्यत्र वेदनाप्रणिहिततायाः शून्यता / वेदनाप्रणिहिततैव शून्यता / शून्यतैव वेदनाप्रणिहितता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनाप्रणिहितेति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञाप्रणिहितेति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् संज्ञाप्रणिहिता संज्ञाप्रणिहिततया शून्या / या च संज्ञाप्रणिहितताशून्यता न सा संज्ञाप्रणिहितता / न चान्यत्र संज्ञाप्रणिहिततायाः शून्यता / संज्ञाप्रणिहिततैव शून्यता / शून्यतैव संज्ञाप्रणिहितता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञाप्रणिहितेति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्काराः अप्रणिहिता इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् संस्काराप्रणिहितता संस्काराप्रणिहिततया शून्या / या च संस्काराप्रणिहितताशून्यता न सा संस्काराप्रणिहितता / न चान्यत्र संस्काराप्रणिहिततायाः शून्यता / संस्काराप्रणिहिततैव शून्यता / शून्यतैव संस्काराप्रणिहितता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्कारा अप्रणिहिता इति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानम् अप्रणिहितम् इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् विज्ञानाप्रणिहितता विज्ञानाप्रणिहिततया शून्या / या च विज्ञानाप्रणिहितताशून्यता / न सा विज्ञानाप्रणिहितता / न चान्यत्र विज्ञानाप्रणिहिततायाः शून्यता / विज्ञानाप्रणिहिततैव शून्यता / शून्यतैव विज्ञानाप्रणिहितता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानम् अप्रणिहितम् इति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं विविक्तम् इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् रूपविविक्तता रूपविविक्ततया शून्या / या च रूपविविक्तताशून्यता न सा रूपविविक्तता / न चान्यत्र रूपविविक्ततायाः शून्यता / रूपविविक्ततैव शून्यता शून्यतैव रूपविविक्तता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं विविक्तम् इति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदना विविक्तेति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् वेदनाविविक्तता वेदनाविविक्ततया शून्या / या च वेदनाविविक्तताशून्यता न सा वेदनाविविक्तता / न चान्यत्र वेदनाविविक्ततायाः शून्यता / वेदनाविविक्ततैव शून्यता शून्यतैव वेदनाविविक्तता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदना विविक्तेति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञा विविक्तेति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् संज्ञाविविक्तता संज्ञाविविक्ततया शून्या / या च संज्ञाविविक्तताशून्यता न सा संज्ञाविविक्तता / न चान्यत्र संज्ञाविविक्ततायाः शून्यता / संज्ञाविविक्ततैव शून्यता शून्यतैव संज्ञाविविक्तता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञा विविक्तेति न स्थातव्य्ंअ /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्काराः विविक्तता इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि / भगवन् संस्कारविविक्तता संस्कारविविक्ततया शून्या / या च संस्कारविविक्तताशून्यता न सा संस्कारविविक्तता / न चान्यत्र संस्कारविविक्ततायाः शून्यता / संस्कारविविक्ततैव शून्यता / शून्यतैव संस्कारविविक्तता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्कारा विविक्ता इति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानं विविक्तम् इति न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् विज्ञानविविक्तता विज्ञानविविक्ततया शून्या / या च विज्ञानविविक्तताशून्यता न सा विज्ञानविविक्तता / न चान्यत्र विज्ञानविविक्ततायाः शून्यता / विज्ञानविविक्ततैव शून्यता / शून्यतैव विज्ञानविविक्तता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानं विविक्तम् इति न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता तथतायां न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् तथता तथतया शून्या / या च तथताशून्यता न सा तथता / न चान्यत्र तथतायाः शून्यता / तथतैव शून्यता / शून्यतैव तथता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता तथतायां न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मतायां न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् धर्मता धर्मतया शून्या / या च धर्मताशून्यता न सा धर्मता / न चान्यत्र धर्मतायाः शून्यता / शून्यतैव धर्मता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मतायां न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मधातौ न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् धर्मधातु धर्मधातुना शून्या / या च धर्मधातुशून्यता न स धर्मधातुः / न चान्यत्र धर्मधातोः शून्यता / धर्मधातुर् एव शून्यता / शून्यतैव धर्मधातुः / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मधातौ न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मनियामतयां न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् धर्मनियामता धर्मनियामतया शून्या / या च धर्मनियामताशून्यता न सा धर्मनियामता / न चान्यत्र धर्मनियामतायाः शून्यता / धर्मनियामतैव शून्यता / शून्यतैव धर्मनियामता / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मनियामतायां न स्थातव्यं /

पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता भूतकोट्यां न स्थातव्यं / तत् कस्य हेतोस् तथा हि भगवन् / भूतकोटिर् भूतकोट्या शून्या / या च भूतकोटिशून्यता न सा भूतकोटिः / न चान्यत्र भूतकोट्याः शून्यता / भूतकोटिर् एव शून्यता / शून्यतैव भूतकोटिः / अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता भूतकोट्यां न स्थातव्यं /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन रूपे तिष्ठति / रूपस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन वेदनायां तिष्ठति / वेदनाया अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन संज्ञायां तिष्ठति / संज्ञाभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन संस्कारे तिष्ठति / संस्काराणाम् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन विज्ञाने तिष्ठति / विज्ञानस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां परिगृह्णाति न प्रज्ञापारमितायोगम् आपद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन चक्षुषि तिष्ठति / चक्षुषो ऽभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन श्रोत्रे तिष्ठति / श्रोत्रस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानशेन घ्राणे तिष्ठति / घ्राणस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन जिह्वायां तिष्ठति / स जिह्वाया अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन काये तिष्ठति / स कायस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन मनसि तिष्ठति / स मनसो ऽभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति न प्रज्ञापारमितायोगम् आपद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन रूपे तिष्ठति / स रूपस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन शब्दे तिष्ठति / स शब्दस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन गन्धे तिष्ठति / स गन्धस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन रसे तिष्ठति / स रसस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन स्पर्शे तिष्ठति / स स्पर्शस्याभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन धर्मेषु तिष्ठति / स धर्माणाम् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / तत् कस्य हेतोस् तथा हि / अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगम् आपद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वं प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन चक्षुर्विज्ञाने तिष्ठति / स चक्षुर्विज्ञानस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन श्रोत्रविज्ञाने तिष्ठति / स श्रोत्रविज्ञानस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन घ्राणविज्ञाने तिष्ठति / स घ्राणविज्ञानस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन जिह्वाविज्ञाने तिष्ठति / स जिह्वाविज्ञानस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन कायविज्ञाने तिष्ठति / स कायविज्ञानस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन विज्ञाने तिष्ठति / स मनोविज्ञानस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / तत् कस्य हेतोस् तथा हि अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगम् आपद्यते / अपरिपूरयन् प्रञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन चक्षुःसंस्पर्शे तिष्ठति / स चक्षुःसंस्पर्शस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन श्रोत्रसंस्पर्शे तिष्ठति / स श्रोत्रसंस्पर्शस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन घ्राणसंस्पर्शे तिष्ठति / स घ्राणसंस्पर्शस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन जिह्वासंस्पर्शे तिष्ठति / स जिह्वासंस्पर्शस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन कायसंस्पर्शे तिष्ठति / स कायसंस्पर्शस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन मनःसंस्पर्शे तिष्ठति / स मनःसंस्पर्शस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / तत् कस्य हेतोस् तथा हि अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगम् आपद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन चक्षुःसंस्पर्शजायां वेदनायां तिष्ठति / स चक्षुःसंस्पर्शजाया वेदनाया अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन श्रोत्रसंस्पर्शजायां वेदनायां तिष्ठति / स श्रोत्रसंस्पर्शजाया वेदनाया अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन घ्राणसंपर्शजायां वेदनायां तिष्ठति / स घ्राणसंस्पर्शजाया वेदनाया अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन जिह्वासंस्पर्शजायां वेदनायां तिष्ठति / स जिह्वासंस्पर्शजाया वेदनाया अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन कायसंस्पर्शजायां वेदनायां तिष्ठति / स कायसंस्पर्शजाया वेदनाया अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन मनःसंस्पर्शजायां वेदनायां तिष्ठति / स मनःसंस्पर्शजाया वेदनाया अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन पृथिवीधातौ तिष्ठति / स पृथिवीधातोर् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाब्धातौ तिष्ठति / सो ऽब्धातोर् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन तेजोधातौ तिष्ठति / स तेजोधातोर् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन वायुधातौ तिष्ठति / स वायुधातोर् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाकाशधातौ तिष्ठति / स आकाशधातोर् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन विज्ञानधातौ तिष्ठति / स विज्ञानधातोर् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां परिगृह्णाति / न प्रज्ञापारमितायोगम् आपद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन विद्यायां तिष्ठति / सो ऽविद्याया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन संस्कारेषु तिष्ठति / स संस्काराणाम् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकरगतेन मानसेन नामरूपे तिष्ठति / स नामरूपस्याभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन षडायतने तिष्ठति / स षडायतनस्याभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन स्पर्शे तिष्ठति / स स्पर्शस्याभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवम् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन वेदनायां तिष्ठति / स वेदनाया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन तृष्णायां तिष्ठति / स तृष्णायां अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनोपादाने तिष्ठति /

स उपादानस्याभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन भवे तिष्ठति / स भवस्याभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन जातौ तिष्ठति / स जातेर् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन जरामरणे तिष्ठति / स जरामरणस्याभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति न प्रज्ञापारमितायोगम् आपद्यते / अपरिपूरयन् प्रज्ञापारमितां न नियाति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन दानपारमितायां तिष्ठति / स दानपारमिताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन शीलपारमितायां तिष्ठति / स शीलपारमिताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन क्षान्तिपारमितायां चरति / स क्षान्तिपारमिताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन वीर्यपारमितायां तिष्ठति / स वीर्यपारमिताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन ध्यानपारमितायां तिष्ठति / स ध्यानपारमिताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन प्रज्ञापारमितायां तिष्ठति / स प्रज्ञापारमिताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगम् आपद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाध्यात्मशून्यतायां तिष्ठति / सो ऽध्यात्मशून्यताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कार्ममकारगतेन मानसेन बहिर्धाशून्यतायां तिष्ठति / स बहिर्धाशून्यताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाध्यात्मबहिर्धाशून्यतायां तिष्ठति / सो ऽध्यात्मबहिर्धाशून्यताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन शून्यताशून्यतायां तिष्ठति / स शून्यताशून्यताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन महाशून्यतायां तिष्ठति / स महाशून्यताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन परमार्थशून्यतायां तिष्ठति / स परमार्थशून्यताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन संस्कृतशून्यतायां तिष्ठति / स संस्कृतशून्यताया अभिसंस्कारे चरति /

न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौसालेनाहङ्कारममकारगतेन मानसेनात्यन्तशून्यतायां तिष्ठति / सो ऽत्यन्तसंस्कृताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनानवराग्रशून्यतायां तिष्ठति / सो ऽनवराग्रशून्यताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन प्रकृतिशून्यतायां तिष्ठति / स प्रकृतिशून्यताया अभिसंष्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन सर्वधर्मशून्यतायां तिष्ठति / स सर्वधर्मशून्यताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन स्वलक्षणशून्यतायां तिष्ठति / स स्वलक्षणशून्यताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनानुपलम्भशून्यतायां तिष्ठति / सो ऽनुपलम्भशून्यताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाभावशून्यतायां तिष्ठति /

सो ऽभावशून्यताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन स्वभावशून्यतायां तिष्ठति / स स्वभावशून्यताया अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वं प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाभावस्वभावशून्यतायां तिष्ठति / सो ऽभावस्वभावशून्यताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगम् आपद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन स्मृत्युपस्थानेषु तिष्ठति / स स्मृत्युपस्थानानाम् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन सम्यक्प्रहाणेषु तिष्ठति / स सम्यक्प्रहाणानाम् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन ऋद्धिपादेषु तिष्ठति / स ऋद्धिपादानाम् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां / सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनेन्द्रियेषु तिष्ठति / स इन्द्रियाणाम् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन बलेषु तिष्ठति / स बलानाम् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनार्याष्टाङ्गमार्गे तिष्ठति / स आर्याष्टाङ्गमार्गस्याभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनार्यसत्येषु तिष्ठति / स आर्यसत्यानाम् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन ध्यानेषु तिष्ठति / स ध्यानानाम् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाप्रमाणेषु तिष्ठति / सो ऽप्रमाणानाम् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनारूप्यसमापत्तिषु तिष्ठति / स आरूप्यसमापत्तीनाम् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाष्टासु विमोक्षेषु तिष्ठति / स विमोक्षाणाम् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् पज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन नवानुपूर्वविहारसमापत्तिषु तिष्ठति / स नवानुपूर्वविहारसमापत्तीनाम् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु तिष्ठति / स शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाभिज्ञासु तिष्ठति / सो ऽभिज्ञानाम् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्वः प्रज्ञापारमितायां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन समाधिषु तिष्ठति / स समाधीनाम् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन धारणीमुखेषु तिष्ठति / स धारणीमुखानाम् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन दशसु तथागतबलेषु तिष्ठति / स तथागतबलानाम् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन चतुर्षु वैशारद्येषु तिष्ठति / स वैशारद्यानाम् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन चतसृषु प्रतिसंवित्सु तिष्ठति / स प्रतिसंविदाम् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन महाकरुणायां तिष्ठति / स महाकरुणाया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाष्टादशावेणिकबुद्धधर्मेषु तिष्ठति / सो ऽष्टादशावेणिकबुद्धधर्माणाम् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन श्रोतआपत्तिफले तिष्ठति / स श्रोतआपत्तिफलस्याभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन सकृदागामिफले तिष्ठति / स सकृदागामिफलस्याभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनानागामिफले तिष्ठति / सो ऽनागामिफलस्याभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनार्हत्वे तिष्ठति / सो ऽर्हत्वस्याभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन प्रत्येकबोधौ तिष्ठति / स प्रत्येकबोधेर् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन मार्गाकारज्ञतायां तिष्ठति / स मार्गाकारज्ञताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगम् आपद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन सर्वाकारज्ञतायां तिष्ठति / स सर्वाकारज्ञतया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्राज्ञपारमितां न परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन तथतायां तिष्ठति / स तथताया अभिसंष्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनावितथतायां तिष्ठति / सो ऽवितथताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनानन्यतथतायां तिष्ठति / सो ऽनन्यतथताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन धर्मतायां तिष्ठति / स धर्मताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन धर्मधातौ तिष्ठति / स धर्मधातोर् अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन धर्मस्थितितायां तिष्ठति / स धर्मस्थितिताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगम् आपद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन धर्मनियामतायां तिष्ठति / स धर्मनियामताया अभिसंस्कारे चरति / न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन भूतकोटौ तिष्ठति / स भूतकोटेर् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां / तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति / न प्रज्ञापारमितायोगं समापद्यते / अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां /

तत् कस्य हेतोस् तथा हि भगवन् रूपम् अपरिगृहीतं यश् च रूपस्यापरिग्रहो न तद् रूपं प्रकृतिशून्यतानुपादाय / वेदनापरिगृहीता यश् च वेदनाया अपरिग्रहो न सा वेदना प्रकृतिशून्यतानुपादाय / संज्ञापरिगृहीता यश् च संज्ञाया अपरिग्रहो न सा संज्ञा प्रकृतिशून्यतानुपादाय / संस्कारा अपरिगृहीताः यश् च संस्काराणाम् अपरिग्रहो न ते संस्काराः प्रकृतिशून्यतानुपादाय / विज्ञानम् अपरिगृहीतं यश् च विज्ञानस्यापरिग्रहो न तद् विज्ञानं प्रकृतिशून्यतानुपादाय / चक्षुर् अपरिगृहीतं यश् च चक्षुषो ऽपरिग्रहः न तच् चक्षुः प्रकृतिशून्यतानुपादाय / श्रोत्रम् अपरिगृहीतं यश् च श्रोत्रस्यापरिग्रहो न तत् श्रोत्रं प्रकृतिशून्यतानुपादाय / घ्राणम् अपरिगृहीतं यश् च घ्राणस्यापरिग्रहो न तद् घ्राणं प्रकृतिशून्यतानुपादाय / जिह्वापरिगृहीतायश् च जिह्वाया अपरिग्रहो न सा जिह्वा प्रकृतिशून्यतानुपादाय / कायो ऽपरिगृहीतः यश् च कायस्यापरिग्रहो न स कायः प्रकृतिशून्यतानुपादाय / मनो ऽपरिगृहीतं यश् च मनसो ऽपरिग्रहो न तन् मनः प्रकृतिशून्यतानुपादाय / रूपम् अपरिगृहीतं यश् च रूपस्यापरिग्रहो न तद् रूपं प्रकृतिशून्यतानुपादाय / शब्दो ऽपरिगृहीतो यश् च शब्दस्यापरिग्रहो न स शब्दः प्रकृतिशून्यतानुपादाय / गन्धो ऽपरिगृहीतो यश् च गन्धस्यापरिग्रहो न स गन्धः प्रकृतिशून्यतानुपादाय / रसो ऽपरिगृहीतो यश् च रसस्यापरिग्रहो न स रसः प्रकृतिशून्यतानुपादाय / स्पर्शो ऽपरिगृहीतो यश् च स्पर्शस्यापरिग्रहो न स स्पर्शः प्रकृतिशून्यतानुपादाय / धर्मा अपरिगृहीताः यश् च धर्माणाम् अपरिग्रहो न ते धर्माः प्रकृतिशून्यतानुपाद्याय /

चक्षुर्विज्ञानम् अपरिगृहीतं यश् च चक्षुर्विज्ञानस्यापरिग्रहो न तत् चक्षुः प्रकृतिशून्यतानुपादाय / ज्ञानम् अपरिगृहीतं यश् च ज्ञानस्यापरिग्रहो न स ज्ञानं प्रकृतिशून्यतानुपादाय / श्रोत्रविज्ञानम् अपरिगृहीतं यश् च श्रोत्रविज्ञानस्यापरिग्रहो न तत् श्रोत्रविज्ञानं प्रकृतिशून्यतानुपादाय / घ्राणविज्ञानम् अपरिगृहीतं यश् च घ्राणविज्ञानस्यापरिग्रहो न तत् घ्राणविज्ञानं प्रकृतिशून्यतानुपादाय / जिह्वाविज्ञानम् अपरिगृहीतं यश् च जिह्वाविज्ञानस्यापरिग्रहो न तत् जिह्वाविज्ञानं प्रकृतिशून्यतानुपादाय / कायविज्ञानम् अपरिगृहीतं यश् च कायविज्ञानस्यापरिग्रहो न तत् कायविज्ञानं प्रकृतिशून्यतानुपादाय / मनोविज्ञानम् अपरिगृहीतं यश् च मनोविज्ञानस्यापरिग्रहो न तन् मनोविज्ञानं प्रकृतिशून्यतानुपादाय / चक्षुःसंस्पर्शो ऽपरिगृहीतो यश् च चक्षुःसंस्पर्शस्यापरिग्रहो न स चक्षुःसंस्पर्शः प्रकृतिशून्यतानुपादाय / श्रोत्रसंस्पर्शो ऽपरिगृहीतो यश् च श्रोत्रसंपर्शस्यापरिग्रहो न स श्रोत्रसंस्पर्शः प्रकृतिशून्यतानुपादाय / घ्राणसंस्पर्शो ऽपरिगृहीतो यश् च घ्राणसंस्पर्शस्यापरिग्रहो न स घ्राणसंस्पर्शः प्रकृतिशून्यतानुपादाय / जिह्वासंस्पर्शो ऽपरिगृहीतो यश् च जिह्वासंस्पर्शस्यापरिग्रहो न स जिह्वासंस्पर्शः प्रकृतिशून्यतानुपादाय / कायसंस्पर्शो ऽपरिगृहीतो यश् च कायसंस्पर्शस्यापरिग्रहो न स कायसंस्पर्शः प्रकृतिशून्यतानुपादाय / मनःसंस्पर्शो ऽपरिगृहीतो यश् च मनःसंस्पर्शस्यापरिग्रहो न स मनःसंस्पर्शः प्रकृतिशून्यतानुपादाय /

चक्षुःसंस्पर्शप्रत्ययवेदनापरिगृहीता / यश् च चक्षुःसंस्पर्शप्रत्ययवेदनाया अपरिग्रहो न सा चक्षुःसंस्पर्शप्रत्ययवेदना प्रकृतिशून्यताम् उपादाय / श्रोत्रसंस्पर्शप्रत्ययवेदनापरिगृहीता / यश् च श्रोत्रसंस्पर्शप्रत्ययवेदनाया अपरिग्रहो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना प्रकृतिशून्यताम् उपादाय / घ्राणसंस्पर्शप्रत्ययवेदनापरिगृहीता / यश् च घ्राणसंस्पर्शप्रत्ययवेदनाया अपरिग्रहः न सा घ्राणसंस्पर्शप्रत्ययवेदना प्रकृतिशून्यताम् उपादाय / जिह्वासंस्पर्शप्रत्ययवेदनापरिगृहीता / यश् च जिह्वासंस्पर्शप्रत्ययवेदनाया अपरिग्रहो न सा जिह्वासंस्पर्शप्रत्ययवेदना प्रकृतिशून्यताम् उपादाय / कायसंस्पर्शप्रत्ययवेदनापरिगृहीता / यश् च कायसंस्पर्शप्रत्ययवेदनाया अपरिग्रहो न सा कायसंस्पर्शप्रत्ययवेदना प्रकृतिशून्यताम् उपादाय / मनःसंस्पर्शप्रत्ययवेदनापरिगृहीता / यश् च मनःसंस्पर्शप्रत्ययवेदनाया अपरिग्रहो न सा मनःसंस्पर्शप्रत्ययवेदना प्रकृतिशून्यताम् उपादाय /

पृथिवीधातुर् अपरिगृहीतः / यश् च पृथिवीधातोर् अपरिग्रहो न स पृथिवीधातुः प्रकृतिशून्यताम् उपादाय / अब्धातुर् अपरिगृहीतो यश् चाब्धातोर् अपरिग्रहो न सो ऽब्धातुः प्रकृतिशून्यताम् उपादाय / तेजोधातुर् अपरिगृहीतो यश् च तेजोधातोर् अपरिग्रहो न स तेजोधातुः प्रकृतिशून्यताम् उपादाय / वायुधातुर् अपरिगृहीतो यश् च वायुधातोर् अपरिग्रहो न स वायुधातुः प्रकृतिशून्यताम् उपादाय / आकाशधातुर् अपरिगृहीतो यश् चाकाशधातोर् अपरिग्रहः न स आकाशधातुः प्रकृतिशून्यताम् उपादाय /

विज्ञानधातुर् अपरिगृहीतो यश् च विज्ञानधातोर् अपरिग्रहो न स विज्ञानधातुः प्रकृतिशून्यताम् उपादाय / अविद्यापरिगृहीता / यश् चाविद्याया अपरिग्रहो न सा अविद्या प्रकृतिशून्यताम् उपादाय / संस्कारा अपरिगृहीता / यश् च संस्काराणाम् अपरिग्रहो न ते संस्काराः प्रकृतिशून्यताम् उपादाय / विज्ञानम् अपरिगृहीतं / यश् च विज्ञानस्यापरिग्रहो न तद् विज्ञानं प्रकृतिशून्यताम् उपादाय / नामरूपम् अपरिगृहीतं / यश् च नामरूपस्यापरिग्रहो न तन् नामरूपं प्रकृतिशून्यताम् उपादाय / षडायतनम् अपरिगृहीतं / यश् च षडायतनस्यापरिग्रहो न तत् षडायतनं प्रकृतिशून्यताम् उपादाय / स्पर्शो ऽपरिगृहीतो यश् च स्पर्शस्यापरिग्रहो न स स्पर्शः प्रकृतिशून्यताम् उपादाय / वेदनापरिगृहीता / यश् च वेदनाया अपरिग्रहो न सा वेदना प्रकृतिशून्यताम् उपादाय / तृष्णापरिगृहीता / यश् च तृष्णाया अपरिग्रहो न सा तृष्णा प्रकृतिशून्यताम् उपादाय / उपादानम् अपरिगृहीतं / यश् चोपादानस्यापरिग्रहो न तद् उपादानं प्रकृतिशून्यताम् उपादाय / भवो ऽपरिगृहीतो यश् च भवस्यापरिग्रहो न स भवः प्रकृतिशून्यताम् उपादाय / जातिर् अपरिगृहीता / यश् च जातेर् अपरिग्रहो न सा जातिः प्रकृतिशून्यताम् उपादाय / जरामरणम् अपरिगृहीतं यश् च जरामरणस्यापरिग्रहो न तत् जरामरणं प्रकृतिशून्यताम् उपादाय /

दानपारमितापरिगृहीता / यश् च दानपारमिताया अपरिग्रहो न सा दानपारमिता प्रकृतिशून्यताम् उपादाय / शीलपारमितापरिगृहीता / यश् च शीलपारमिताया अपरिग्रहो न सा शीलपारमिता प्रकृतिशून्यताम् उपादाय / क्षान्तिपारमितापरिगृहीता / यश् च क्षान्तिपारमिताया अपरिग्रहो न सा क्षान्तिपारमिता प्रकृतिशून्यताम् उपादाय / वीर्यपारमितापरिगृहीता / यश् च वीर्यपारमिताया अपरिग्रहो न सा वीर्यपारमिता प्रकृतिशून्यताम् उपादाय / ध्यानपारमितापरिगृहीता / यश् च ध्यानपारमिताया अपरिग्रहो न सा ध्यानपारमिता प्रकृतिशून्यताम् उपादाय / प्रज्ञापारमितापरिगृहीता / यश् च प्रज्ञापारमितायां अपरिग्रहो न सा प्रज्ञापारमिता प्रकृतिशून्यताम् उपादाय /

अध्यात्मशून्यतापरिगृहीता / यश् चाध्यात्मशून्यताया अपरिग्रहो न सा अध्यात्मशून्यता प्रकृतिशून्यताम् उपादाय / बहिर्धाशून्यतापरिगृहीता / यश् च बहिर्धाशून्यताया अपरिग्रहो न सा बहिर्धाशून्यता प्रकृतिशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यतापरिगृहीता / यश् चाध्यात्मबहिर्धाशून्यताया अपरिग्रहो न साध्यात्मबहिर्धाशून्यता प्रकृतिशून्यताम् उपादाय / शून्यताशून्यतापरिगृहीता यश् च शून्यताशून्यताया अपरिग्रहो न सा शून्यताशून्यता / प्रकृतिशून्यताम् उपादाय / महाशून्यतापरिगृहीता / यश् च महाशून्यतायाः अपरिग्रहो न सा महाशून्यता प्रकृतिशून्यताम् उपादाय / परमार्थशून्यतापरिगृहीता / यश् च परमार्थशून्यताया अपरिग्रहो न सा परमार्थशून्यता प्रकृतिशून्यताम् उपादाय / संस्कृतशून्यतापरिगृहीता / यश् च संस्कृतशून्यताया अपरिग्रहो न सा संस्कृतशून्यता प्रकृतिशून्यताम् उपादाय / असंस्कृतशून्यतापरिगृहीता यश् चासंस्कृतशून्यताया अपरिग्रहो न सा संस्कृतशून्यता प्रकृतिशून्यताम् उपादाय / अत्यन्तशून्यतापरिगृहीता यश् चात्यन्तशून्यताया अपरिग्रहो न सा अत्यन्तशून्यता प्रकृतिशून्यताम् उपादाय / अनवराग्रशून्यतापरिगृहीता / यश् चानवराग्रशून्यताया अपरिग्रहो न सानवराग्रशून्यता प्रकृतिशून्यताम् उपादाय / अनवकारशून्यतापरिगृहीता यश् चानवकारशून्यताया अपरिग्रहो न सानवकारशून्यता प्रकृतिशून्यताम् उपादाय / प्रकृतिशून्यतापरिगृहीता / यश् च प्रकृतिशून्यताया अपरिग्रहो न सा प्रकृतिशून्यता प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यतापरिगृहीता / यश् च सर्वधर्मशून्यताया अपरिग्रहो न सा सर्वधर्मशून्यता प्रकृतिशून्यताम् उपादाय / स्वलक्षणशून्यतापरिगृहीता /

यश् च स्वलक्षणशून्यताया अपरिग्रहो न सा स्वलक्षणशून्यता प्रकृतिशून्यताम् उपादाय / अनुपलम्भशून्यतापरिगृहीता यश् चानुपलम्भशून्यताया अपरिग्रहो न सानुपलम्भशून्यता प्रकृतिशून्यताम् उपादाय / अभावशून्यतापरिगृहीता / यश् चाभावशून्यताया अपरिग्रहो न साभावशून्यता प्रकृतिशून्यताम् उपादाय / स्वभावशून्यतापरिगृहीता / यश् च स्वभावशून्यताया अपरिग्रहो न सा स्वभावशून्यता प्रकृतिशून्यताम् उपादाय / अभावस्वभावशून्यतापरिगृहीता यश् चाभावस्वभावशून्यताया अपरिग्रहो न साभावस्वभावशून्यता प्रकृतिशून्यताम् उपादाय /

स्मृत्युपस्थानान्य् अपरिगृहीतानि / यश् च स्मृत्युपस्थानानाम् अपरिग्रहो न तानि स्मृत्युपस्थानानि प्रकृतिशून्यताम् उपादाय / सम्यक्प्रहाणान्य् अपरिगृहीतानि / यश् च सम्यक्प्रहाणानाम् अपरिग्रहो न तानि सम्यक्प्रहाणानि प्रकृतिशून्यताम् उपादाय / ऋद्धिपादा अपरिगृहीता / यश् च ऋद्धिपादानाम् अपरिग्रहो न ते ऋद्धिपादाः प्रकृतिशून्यताम् उपादाय / इन्द्रियाण्य् अपरिगृहीतानि / यश् चेन्द्रियाणाम् अपरिग्रहो न तानीन्द्रियाणि प्रकृतिशून्यताम् उपादाय / बलान्य् अपरिगृहीतानि / यश् च बलानाम् अपरिग्रहो न तानि बलानि प्रकृतिशून्यताम् उपादाय / बोध्यङ्गान्य् अपरिगृहीतानि / यश् च बोध्यङ्गानाम् अपरिग्रहो न तानि बोध्यङ्गानि प्रकृतिशून्यताम् उपादाय / आर्याष्टाङ्गमार्गो ऽपरिगृहीतो यश् चार्याष्टाङ्गमार्गस्यापरिग्रहो न स आर्याष्टाङ्गमार्गः प्रकृतिशून्यताम् उपादाय / आर्यसत्यान्य् अपरिगृहीतानि / यश् चार्यसत्यानाम् अपरिग्रहो न तान्य् आर्यसत्यानि प्रकृतिशून्यताम् उपादाय / ध्यानान्य् अपरिगृहीतानि / यश् च ध्यानानाम् अपरिग्रहो न तानि ध्यानानि प्रकृतिशून्यताम् उपादाय / अप्रमाणान्य् अपरिगृहीतानि / यश् चाप्रमाणानाम् अपरिग्रहो न तान्य् अप्रमाणानि प्रकृतिशून्यताम् उपादाय / आरूप्यसमापत्तयो ऽपरिगृहीता / यश् चारूप्यसमापत्तीनाम् अपरिग्रहो न ता आरूप्यसमापत्तयः प्रकृतिशून्यताम् उपादाय / अष्टविमोक्षा अपरिगृईता यश् च विमोक्षाणाम् अपरिग्रहो न ते विमोक्षाः प्रकृतिशून्यताम् उपादाय / नवानुपूर्वविहारसमापत्तयो ऽपरिगृहीताः / यश् च नवानुपूर्वविहारसमापत्तीनाम् अपरिग्रहो न ता नवानुपूर्वविहारसमापत्तयः प्रकृतिशून्यताम् उपादाय / शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अपरिगृहीतानि /

यश् च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अपरिग्रहो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रकृतिशून्यताम् उपादाय / अभिज्ञाः अपरिगृहीताः यश् चाभिज्ञानाम् अपरिग्रहो न ता अभिज्ञाः प्रकृतिशून्यताम् उपादाय / समाधयो ऽपरिगृहीताः यश् च समाधीनाम् अपरिग्रहो न ते समाधयः प्रकृतिशून्यताम् उपादाय / धारणीमुखान्य् अपरिगृहीतानि / यश् च धारणीमुखानाम् अपरिग्रहो न तानि धारणीमुखानि प्रकृतिशून्यताम् उपादाय / दश तथागतबलान्य् अपरिगृहीतानि / यश् च तथागतबलानाम् अपरिग्रहो न तानि तथागतबलानि प्रकृतिशून्यताम् उपादाय / वैशारद्यान्य् अपरिगृहीतानि यश् च वैशारद्यानाम् अपरिग्रहो न तानि वैशारद्यानि प्रकृतिशून्यताम् उपादाय / चतस्रः प्रतिसंविदो ऽपरिगृहीताः / यश् च चतसृणां प्रतिसंविदाम् अपरिग्रहो न ताः प्रतिसंविदः प्रकृतिशून्यताम् उपादाय / महाकरुणा अपरिगृहीता / यश् च महाकरुणाया अपरिग्रहो न सा महाकरुणा प्रकृतिशून्यताम् उपादाय / अष्टादाशावेणिकबुद्धधर्मा अपरिगृहीताः / यश् चावेणिकबुद्धधर्माणाम् अपरिग्रहो न ते आवेणिकबुद्धधर्माः प्रकृतिशून्याताम् उपादाय / श्रोतआपत्तिफलम् अपरिगृहीतं / यश् च श्रोतआपत्तिफलस्यापरिग्रहो न तत् श्रोतआपत्तिफलं प्रकृतिशून्यताम् उपादाय / सकृदागामिफलम् अपरिगृहीतं / यश् च सकृदागामिफलस्यापरिग्रहो न तत् सकृदागामिफलं प्रकृतिशून्यताम् उपादाय / अनागामिफलम् अपरिगृहीतं / यश् चानागामिफलस्यापरिग्रहो न तद् अनागामिफलं प्रकृतिशून्यताम् उपादाय / अर्हत्त्वम् अपरिगृहीतं / यश् चार्हत्त्वस्यापरिग्रहो न तद् अर्हत्वं प्रकृतिशून्यताम् उपादाय /

प्रत्येकबोधिर् अपरिगृहीता यश् च प्रत्येकबोधेर् अपरिग्रहो न सा प्रत्येकबोधिः प्रकृतिशून्यताम् उपादाय / मार्गाकारज्ञतापरिगृहीता / यश् च मार्गाकारज्ञतायाः अपरिग्रहो न सा मार्गाकारज्ञता प्रकृतिशून्यताम् उपादाय / सर्वाकारज्ञतापरिगृहीता / यश् च सर्वाकारज्ञताया अपरिग्रहो न सा सर्वाकारज्ञता प्रकृतिशून्यताम् उपादाय / तथतापरिगृहीता / यश् च तथताया अपरिग्रहो न सा तथता प्रकृतिशून्यताम् उपादाय / अवितथतापरिगृहीता / यश् चावितथताया अपरिग्रहो न सा अवितथता प्रकृतिशून्यताम् उपादाय / अनन्यतथतापरिगृहीता / यश् चानन्यतथताया अपरिग्रहो न सा अनन्यतथता प्रकृतिशून्यताम् उपादाय / धर्मतापरिगृहीता / यश् च धर्मताया अपरिग्रहो न सा धर्मता प्रकृतिशून्यताम् उपादाय / धर्मधातुर् अपरिगृहीतो यश् च धर्मधातोर् अपरिग्रहो न स धर्मधातुः प्रकृतिशून्यताम् उपादाय / धर्मस्थितिता अपरिगृहीता / यश् च धर्मस्थितिताया अपरिग्रहो न सा धर्मस्थितिता प्रकृतिशून्यताम् उपादाय / धर्मनियामतापरिगृहीता / यश् च धर्मनियामताया अपरिग्रहो न सा धर्मनियामता प्रकृतिशून्यताम् उपादाय / भूतकोटिर् अपरिगृहीता / यत्र भूतकोटेर् अपरिग्रहो न सा भूतकोटिः प्रकृतिशून्यताम् उपादाय / सापि प्रज्ञापारमितापरिगृहीता यश् च प्रज्ञापारमितायाः अपरिग्रहो न सा प्रज्ञापारमिता प्रकृतिशून्यताम् उपादाय /

एवं खलु भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रकृतिशून्याः सर्वधर्मा व्युपपरीक्षितव्याः / तथा परीक्षितव्या यथा न क्वचिद् धर्मेषु मनसो व्यवचारो भवेत् / इदं बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्मापरिगृहीतं नाम समाधिमण्डलं विपुलं पुरस्कृतम् अप्रमाणनियतम् असंहार्यम् असाधारणं सर्वश्रावकप्रत्येकबुद्धैः / यत्र समाधिमण्डले विहरन् बोधिसत्त्वो महासत्त्वो निर्यास्यति सर्वाकारज्ञतायाः / सापि सर्वाकारज्ञतापरिगृहीता अध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

तत् कस्य हेतोर् न हि सा निमित्ततो वक्तव्या / तथा हि निमित्तुः क्लेशतः / कतरन् निमित्तम् इति / रूपं निमित्तं संज्ञा निमित्तं संस्कारनिमित्तं विज्ञानं निमित्तं चक्षुर् निमित्तं श्रोत्रं निमित्तं घ्राणं निमित्तं जिह्वा निमित्तं कायो निमित्तं मनो निमित्तं / रूपं निमित्तं शब्दो निमित्तं गन्धो निमित्तं रसो निमित्तं / स्पर्शो निमित्तं / धर्मा निमित्तं / चक्षुर्विज्ञानं निमित्तं श्रोत्रविज्ञानं निमित्तं / घ्राणविज्ञामं निमित्तं जिह्वाविज्ञानं निमित्तं कायविज्ञानं निमित्तं मनोविज्ञानं निमित्तं / चक्षुःसंस्पर्शजावेदना निमित्तं / श्रोत्रसंस्पर्शजावेदना निमित्तं / घ्राणसंस्पर्शजावेदना निमित्तं / जिह्वासंस्पर्शजावेदना निमित्तं / कायसंस्पर्शजावेदना निमित्तं / मनःसंस्पर्शजावेदना निमित्तं / पृथिवीधातुर् निमित्तं / अब्धातुर् निमित्तं / तेजोधातुर् निमित्तं / वायुधातुर् निमित्तं / आकाशधातुर् निमित्तं / विज्ञानधातुर् निमित्तं / अविद्या निमित्तं / संस्कारा निमित्तं / नामरूपं निमित्तं / षडायतनं निमित्तं / वेदना निमित्तं / तृष्णा निमित्तं / उपादानं निमित्तं / भवो निमित्तं / जरामरणं निमित्तं / दानपारमिता निमित्तं / शीलपारमिता निमित्तं / क्षान्तिपारमिता निमित्तं / वीर्यपारमिता निमित्तं / ध्यानपारमिता निमित्तं / प्रज्ञापारमिता निमित्तं / अध्यात्मशून्यता निमित्तं / बहिर्धाशून्यता निमित्तं / अध्यात्मबहिर्धाशून्यता निमित्तं / शून्यताशून्यता निमित्तं / महाशून्यता निमित्तं / परमार्थशून्यता निमित्तं / संस्कृतशून्यता निमित्तं / असंस्कृतशून्यता निमित्तं / अत्यन्तशून्यता निमित्तं / अनवराग्रशून्यता निमित्तं / अनवकारशून्यता निमित्तं /

प्रकृतिशून्यता निमित्तं / सर्वधर्मशून्यता निमित्तं / स्वलक्षणशून्यता निमित्तं / अनुपलम्भशून्यता निमित्तं / अभावशून्यता निमित्तं / स्वभावशून्यता निमित्तं / अभावस्वभावशून्यता निमित्तं / आर्याष्टाङ्गमार्गो निमित्तं / आर्यसत्यानि निमित्तं / ध्यानानि निमित्तं / अप्रमाणानि निमित्तं / आरूप्यसमापत्तयो निमित्तं / अष्टौ विमोक्षा निमित्तं / नवानुपूर्वविहारसमापत्तयो निमित्तं / शून्यता निमित्तं / प्रणिहितं निमित्तं / अभिज्ञा निमित्तं / समाधयो निमित्तं / धारणीमुखानि निमित्तं / दश तथागतबलानि निमित्तं / चत्वारि वैशारद्यानि निमित्तं / चतस्रः प्रतिसंविदो निमित्तं / महाकरुणा निमित्तं / अष्टादशावेणिका बुद्धधर्मा निमित्तं / अक्षराणि निमित्तानि / एको दाहरो निमित्तं / व्युदाहरो निमित्तं / पृथग्दाहरो निमित्तं /

अयम् उच्यते क्लेशः सचेत् स निमित्तत उदग्रहीतव्यो भविष्यत्वेवे ऽश्रेणिकः परिव्राजकः श्रद्धां प्रतिलप्स्यते / नात्र सर्वज्ञज्ञाने / कतमा श्रद्धा यद् उत प्रज्ञापारमितायाः अभिश्रद्धधानतावकल्पनता अधिमुच्यनता प्रत्ययनता चित्तता तुलना व्युपपरीक्षणता / तच् च न निमित्तयोगेन / एवम् आनिमित्तानिमित्तानुग्रहीतव्या / श्रेणिकः पुनः परिव्राजको ऽत्र सर्वज्ञाने ऽधिमुच्य श्रद्धानुसारी प्रादेशिकेन ज्ञानेनावतीर्णः / सो ऽवतीर्य न रूपं परिगृहीतवान् / न वेदनां परिगृहीतवान् / न संज्ञां परिगृहीतवान् / न संस्कारान् परिगृहीतवान् / न विज्ञानं परिगृहीतवान् / तथा हि स्वलक्षणशून्येषु सर्वधर्मेषु परिग्राहकं नोपलब्धा / तत् कस्य हेतोस् तथा हि नाध्यात्मप्राप्त्यभिसमयतस् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धाप्रात्यभिसमयतस् तत् ज्ञानं समनुपश्यति स्म नाध्यात्मबहिर्धाप्राप्त्यभिसमयतस् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्रप्राप्त्यभिसमयतस् तत् ज्ञानं समनुपश्यति स्म / तत् कस्य हेतोस् तथा हि स तद् धर्मं न समनुपश्यति स्म / येन प्रजानीयात् यो वा प्रजानीयात् / यद् वा प्रजानीयात् / नाध्यात्मरूपस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धारूपस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धारूपस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्ररूपात् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मवेदनायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धावेदनायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धावेदनायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्रवेदनायास् तत् ज्ञानं समनुपश्यति स्म /

नाध्यात्मसंज्ञायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धासंज्ञायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धासंज्ञायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्रसंज्ञायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मसंस्काराणां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धासंस्काराणां तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धासंस्काराणां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्रसंस्कारेभ्यः तत् ज्ञानं समनुपस्यति स्म / नाध्यात्मविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धाविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धाविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्रविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / अध्यात्मबहिर्धाशून्यताम् उपादाय /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.