Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता, Part इ
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
स नाध्यात्मञ् चक्षुषस् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा चक्षुषस् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा चक्षुषस् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र चक्षुषस् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं श्रोत्रस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा श्रोत्रस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा श्रोत्रस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र श्रोत्रात् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मं घ्राणस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा घ्राणस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा घ्राणस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र घ्राणात् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं जिह्वायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा जिह्वायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा जिह्वायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र जिह्वायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं कायस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा कायस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा कायस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र कायस्य तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्यं मनसस् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा मनसस् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा मनसस् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र मनमस् तत् ज्ञानं समनुपश्यति स्म / अध्यात्मबहिर्धाशून्यताम् उपादाय /
नाध्यात्मं रूपस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा रूपस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा रूपस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र रूपात् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं शब्दस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा शब्दस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा शब्दस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र शब्दस्य तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं गन्धस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा गन्धस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा गन्धस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र गन्धस्य तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं रसस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा रसस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा रसस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र रसस्य तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं स्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा स्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा स्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र स्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं धर्माणां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा धर्माणां तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा धर्माणां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र धर्मेभ्यस् तत् ज्ञानं समनुपश्यति स्म / अध्यात्मबहिर्धाशून्यताम् उपादाय /
स नाध्यात्मं चक्षुर्विज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा चक्षुर्विज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा चक्षुर्विज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र चक्षुर्विज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं श्रोत्रविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा श्रोत्रविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा श्रोत्रविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र श्रोत्रविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं घ्राणविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा घ्राणविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा घ्राणविज्ञानस्य तत् ज्ञानं न समनुपश्यति स्म / नाप्य् अन्यत्र घ्राणविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं जिह्वाविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा जिह्वाविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा जिह्वाविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र जिह्वाविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं कायविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा कायविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा कायविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र कायविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं विज्ञानस्य तत् मनोविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा मनोविज्ञानस्य तत् ज्ञानं समनुपश्यति / नाध्यात्मबहिर्धा मनोविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र मनोविज्ञानस्य तत् ज्ञानं समनुपश्यति /
नाध्यात्मं चक्षुःसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा चक्षुःसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा चक्षुःसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र चक्षुःसंस्पर्शात् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं श्रोत्रसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा श्रोत्रसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा श्रोत्रसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र श्रोत्रसंस्पर्शात् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं घ्राणसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा घ्राणविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मंबहिर्धा घ्राणसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र घ्राणसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं जिह्वासंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा जिह्वासंस्पर्शस्य तत् ज्ञानं समनुपश्प्यति स्म / नाध्यात्मबर्हिर्धाजिह्वासंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र जिह्वासंस्पर्शात् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं कायसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा कायसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा कायसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र कायसंस्पर्शात् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं मनःसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा मनःसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा मनःसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म /
नाप्य् अन्यत्र मनःसंस्पर्शात् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धाशून्यताम् उपादाय /
स नाध्यात्मं चक्षुःसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा चक्षुःसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा चक्षुःसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं श्रोत्रसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा श्रोत्रसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा श्रोत्रसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं नाप्य् अन्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं घ्राणसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा घ्राणसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्यबहिर्धा घ्राणसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र घ्राणसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं जिह्वासंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा जिह्वासंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / समनुपश्यति स्म / नाध्यात्मबहिर्धा जिह्वासंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र जिह्वासंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं कायसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा कायसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा कायसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र कायसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं मनःसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा मनःसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा मनःसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र मनःसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म / अध्यात्मबहिर्धाशून्यताम् उपादाय /
स नाध्यात्मं पृथिवीधातोस् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा पृथिवीधातोस् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा पृथिवीधातोस् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र पृथिवीधातोस् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् अब्धातोस् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा ब्धातोस् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा ब्धातोस् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्राब्धातोस् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं तेजोधातोस् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा तेजोधातोस् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा तेजोधातोस् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र तेजोधातोस् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं वायुधातोस् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा वायुधातोस् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा वायुधातोस् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र वायुधातोस् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् आकाशधातोस् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा आकाशधातोस् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा आकाशधातोस् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्राकाशधातोस् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं विज्ञानधातोस् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा विज्ञानधातोस् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा विज्ञानधातोस् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र विज्ञानधातोस् तत् ज्ञानं समनुपश्यति स्म / अध्यात्मबहिर्धाशून्यताम् उपादाय /
स नाध्यात्मम् अविद्यायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा विद्यायास् तत् ज्ञानं समनुपश्त्यति स्म / नाध्यात्मबहिर्धा विद्यायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्राविद्यायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं संस्काराणां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा संस्काराणां तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा संस्काराणां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र संस्काराणां तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं विज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा विज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा विज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र विज्ञानस्य तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं नामरूपस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा नामरूपस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा नामरूपस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र नामरूपस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मं षडायतनस्य तत् ज्ञानं समनुप्श्यति स्म / न बहिर्धा षडायतनस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा षडायतनस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र षडायतनस्य तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं स्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा स्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा स्पर्शस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र स्पर्शात् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं वेदनायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा वेदनायास् तत् ज्ञानं समनुपश्यति स्म /
नाध्यात्मबहिर्धा वेदनायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र व्éदनायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं तृष्णायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा तृष्णायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा तृष्णायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र तृष्णायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं भवस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा भवस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा भवस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र भवस्य तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं जातेस् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा जातेस् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा जातेस् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र जातेस् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं जरामरणस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा जरामरणस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा जरामरणस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र जरामरणस्य तत् ज्ञानं समनुपश्यति स्म / अध्यात्मबहिर्धाशून्यताम् उपादाय /
स नाध्यात्मं दानपारमितायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा दानपारमितायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा दानपारमितायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र दानपारमितायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं शीलपारमितायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा शीलपारमितायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा शीलपारमितायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र शीलपारमितायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं क्षान्तिपारमितायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा क्षान्तिपारमितायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा क्षान्तिपारमितायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र क्षान्तिपारमितायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं वीर्यपारमितायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा वीर्यपारमितायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा वीर्यपारमितायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र वीर्यपारमितायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं ध्यानपारमितायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा ध्यानपारमितायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा ध्यानपारमितायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा ध्यानपारमितायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र ध्यानपारमितायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं प्रज्ञापारमितायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा प्रज्ञापारमितायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा प्रज्ञापारमितायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र प्रज्ञापारमितायास् तत् ज्ञानं समनुपश्यति स्म / अध्यात्मबहिर्धाशून्यताम् उपादाय /
स नाध्यात्मम् अध्यात्मशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा अध्यात्मशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा अध्यात्मशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्राध्यात्मशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं बहिर्धा शून्यतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा बहिर्धा शून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा बहिर्धा शून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र बहिर्धा शून्यतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् अध्यात्मबहिर्धा शून्यतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा अध्यात्मबहिर्धा शून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्राध्यात्मबहिर्धा शून्यतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं शून्यतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा शून्यताशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा शून्यताशून्यतायास् तत् ज्ञानं समनुपश्यतिम् स्म / नाप्य् अन्यत्र शून्यताशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं महाशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा महाशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा महाशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र महाशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं परमार्थशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा परमार्थशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा परमार्थशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र परमार्थशून्यतायास् तत् ज्ञानं समनुपश्यति स्म /
स नाध्यात्मं संस्कृतशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा संस्कृतशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा संस्कृतशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र संस्कृतशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् अत्यन्तशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा त्यन्तशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा त्यन्तशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्रात्यन्तशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् अनवराग्रशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा नवराग्रशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा नवराग्रशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्रानवराग्रशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् अनवकारशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा नवकारशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा नवकारशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्रानवकारशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं प्रकृतिशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा प्रकृतिशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा प्रकृतिशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र प्रकृतिशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं सर्वधर्मशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा सर्वधर्मशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा सर्वधर्मशून्यतायास् तत् ज्ञानं समनुपश्यति स्म /
नाप्य् अन्यत्र सर्वधर्मशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं स्वलक्षणशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा स्वलक्षणशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा स्वलक्षणशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र स्वलक्षणशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् अनुपलम्भशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा नुपलम्भशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा नुपलम्भशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्रानुपलम्भशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् अभावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा भावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा भावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्राभावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं स्वभावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा स्वभावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा स्वभावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र स्वभावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् अभावस्वभावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा भावस्वभावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्राभावस्वभावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म /
स नाध्यात्मं स्मृत्युपस्थानानां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा स्मृत्युपस्थानानां तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा स्मृत्युपस्थानानां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र स्मृत्युपस्थानानां तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं सम्यक्प्रहाणां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा सम्यक्प्रहाणानां तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा सम्यक्प्रहाणानां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र सम्यक्प्रहाणानां तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् ऋद्धिपादानां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा ऋद्धिपादानां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र बहिर्धा ऋद्धिपादानां तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् इन्द्रियाणां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा इन्द्रियाणां समनुपश्यति स्म / नाध्यात्मबहिर्धा इन्द्रियाणां तत् ज्ञानं नाप्य् अन्यत्रेन्द्रियाणां तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं बलानां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा बलानां समनुपश्यति स्म / नाध्यात्मबहिर्धा बलानां तत् ज्ञानं समनुसमनुपश्यति स्म / नाप्य् अन्यत्र बलानां तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं बोध्यङ्गानां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा बोध्यङ्गानां तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा बोध्यङ्गानां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र बोध्यङ्गानां तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् आर्याष्टाङ्गमार्गस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा र्याष्टाङ्गमार्गस्य तत् ज्ञानं समनुपश्यति स्म /
नाध्यात्मबहिर्धा र्याष्टाङ्गमार्गस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्रार्याष्टाङ्गमार्गस्य तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् आर्यसत्यानां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा र्यसत्यानां तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा र्यसत्यानां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्रार्यसत्येभ्यस् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं ध्यानानां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा ध्यानानां तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा ध्यानानां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र ध्यानेभ्यस् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् अप्रामाणानां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा प्रमाणानां तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा प्रमाणानां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्राप्रमाणानां तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् आरूप्यसमापत्तीनां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा आरूप्यसमापत्तीनां तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा आरूप्यसमापत्तीनां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्रारूप्यसमापत्तिभ्यस् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं विमोक्षाणां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा विमोक्षाणां तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा विमोक्षाणां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र विमोक्षेभ्यस् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् अनुपूर्वविहारसमापत्तीनां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा पूर्वविहारसमापत्तीनां तत् ज्ञानं समनुपश्यति स्म /
नाध्यात्मबहिर्धा पूर्वविहारसमापत्तीनां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्रापूर्वविहारसमापत्तिभ्यस् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् अभिज्ञानां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धाभिज्ञानां तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धाभिज्ञानां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्राभिज्ञाभ्यस् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं समाधीनां तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा समाधीनां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र समाधिभ्यस् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं धारणीमुखानां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा धारणीमुखानां तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा धारणीमुखानां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र धारणीमुखेभ्यस् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं दशानां तथागतबलानां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा दशानां तथागतबलानां तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा दशानां तथागतबलानां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र दशतथागतबलेभ्यस् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं वैशारद्यानां तत् ज्ञानं समनुपश्यति स्म /
न बहिर्धा वैशारद्यानां तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा वैशारद्यानां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र वैशारद्येभ्यस् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं प्रतिसंविदां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा प्रतिसंविदां तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा प्रतिसंविदां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र प्रतिसंविदां तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं महाकरुणायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा महाकरुणायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा महाकरुणायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र महाकरुणायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् आवेणिकबुद्धधर्माणां तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा आवेणिकबुद्धधर्माणां तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा आवेणिकबुद्धधर्माणां तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्रावेणिकबुद्धधर्माणां तत् ज्ञानं समनुपश्यति स्म / अध्यात्मबहिर्धाशून्यताम् उपादाय /
स नाध्यात्मं श्रोतआपत्तिफलस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा श्रोतआपत्तिफलस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा श्रोतआपत्तिफलस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र श्रोतआपत्तिफलस्य तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं सकृदागामिफलस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा सकृदागामिफलस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा सकृदागामिफलस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र सकृदागामिफलस्य तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् अनागामिफलस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा नागामिफलस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा नागामिफलस्य तत् ज्ञानं समम्पश्यति स्म / नाप्य् अन्यत्रानागामिफलस्य तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् अर्हत्वस्य तत् ज्ञानं समनुपश्यति स्म / न बहिर्धार्हत्वस्य तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धार्हत्वस्य तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्रार्हत्वस्य तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं प्रत्येकबोधेस् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा प्रत्येकबोधेस् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा प्रत्येकबोधेस् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र प्रत्येकबोधेस् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं मार्गाकारज्ञतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा मार्गाकारज्ञतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा मार्गाकारज्ञतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र मार्गाकारज्ञतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं सर्वाकारज्ञतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा सर्वाकारज्ञतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा सर्वाकारज्ञतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र सर्वाकारज्ञतायास् तत् ज्ञानं समनुपश्यति स्म / अध्यात्मबहिर्धाशून्यताम् उपादाय /
स नाध्यात्मं तथतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा तथतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा तथतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र तथतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् अवितथतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा वितथतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा वितथतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्रावितथतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मम् अनन्यतथतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा नन्यतथतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा नन्यतथतायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्रानन्यतथतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं धर्मतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा धर्मतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा धर्मतायास् तत् ज्ञानं समनुपश्फति स्म / नाप्य् अन्यत्र धर्मतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं धर्मधातोस् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा धर्मधातोस् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मधर्मधातोस् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र धर्मधातोस् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं धर्मस्थितितायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा धर्मस्थितितायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा धर्मस्थितितायास् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र धर्मस्थितितायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं धर्मनियामतायास् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा धर्मानियामतायास् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा धर्मनियामतायास् तत् ज्ञानं समनुपश्यति स्म / स नाध्यात्मं भूतकोटेस् तत् ज्ञानं समनुपश्यति स्म / न बहिर्धा भूतकोटेस् तत् ज्ञानं समनुपश्यति स्म / नाध्यात्मबहिर्धा भूतकोटेस् तत् ज्ञानं समनुपश्यति स्म / नाप्य् अन्यत्र भूत्कोटेस् तत् ज्ञानं समनुपश्यति स्म / अध्यात्मबहिर्धाशून्यताम् उपादाय /
अत्र पर्यायेण श्रेणिकः परिव्राजको ऽधिमुक्त्येः सो ऽत्राधिमुच्य श्रद्धानुसारी सर्वाकारज्ञताज्ञानेनावतीर्णो धर्मतां प्रमाणीकृत्य सर्वधर्मानुपलब्धिताम् उपादाय / स एवम् अधिमुक्तस् तेन न कश्चिद् धर्मः परिगृहीतः / अनिमित्तमनसिकारताम् उपादाय / नाप्य् अनेन कश्चिद् धर्म उपलब्धो ऽयं परिगृह्णीयाद् अधिमुच्येद् वा सर्वधर्माग्रहानुत्सर्गताम् उपादाय / स निर्वाण नापि न मन्यते स्म सर्वधर्मम् अवनताम् उपादाय / इयम् अपि भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता / अपारपारगमनताम् उपादाय / यद् रूपं न परिगृह्णाति / वेदनां न परिगृह्णाति / संज्ञां न परिगृह्णाति / संस्कारा न परिगृह्णाति / विज्ञानं न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / चक्षुर् न परिगृह्णाति / श्रोत्रं न परिगृह्णाति / घ्राणं न परिगृह्णाति / जिह्वां न परिगृह्णाति / कायं न परिगृह्णाति / मनो न परिगृह्णाति / सर्वधर्मा न परिगृहीतताम् उपादाय / रूपं न परिगृह्णाति / शब्दं न परिगृह्णाति / गन्धं न परिगृह्णाति / रसं न परिगृह्णाति / स्पर्शं न परिगृह्णाति / सर्वधर्मान् न परिगृह्णाति / धर्मान् न परिगृह्णाति / सर्वधर्मा न परिगृहीताम् उपादाय / चक्षुर्विज्ञानं न परिगृह्णाति / श्रोत्रविज्ञानं न परिगृह्णाति / घ्राणविज्ञानं न परिगृह्णाति / जिह्वाविज्ञानं न परिगृह्णाति / कायविज्ञानं न परिगृह्णाति / मनोविज्ञानं न परिगृह्णाति / सर्वधर्मा न परिगृहीतताम् उपादाय / चक्षुःसंस्पर्शं न परिगृह्णाति / श्रोत्रसंस्पर्शं न परिगृह्णाति / घ्राणसंस्पर्शं न परिगृह्णाति / जिह्वासंस्पर्शं न परिगृह्णाति / कायसंस्पर्शं न परिगृह्णाति / मनःसंस्पर्शं न परिगृह्णाति / सर्वधर्मा न परिगृहीतताम् उपादाय / चक्षुःसंस्पर्शप्रत्ययवेदनां न परिगृह्णाति / श्रोत्रसंस्पर्शप्रत्ययवेदनां न परिगृह्णाति / घ्राणसंस्पर्शप्रत्ययवेदनां न परिगृह्णाति / जिह्वासंस्पर्शप्रत्ययवेदनां न परिगृह्णाति / कायसंस्पर्शप्रत्ययवेदनां न परिगृह्णाति / मनःसंस्पर्शप्रत्ययवेदनां न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय /
पृथिवीधातुं न परिगृह्णाति / अब्धातुं न परिगृह्णाति / तेजोधातुं न परिगृह्णाति / वायुधातुं न परिगृह्णाति / आकाशधातुं न परिगृह्णाति / विज्ञानधातुं न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / अविद्यां न परिगृह्णाति / संस्कारा न परिगृह्णाति / विज्ञानं न परिगृह्णाति / नामरूपं न परिगृह्णाति / षडायतनं न परिगृह्णाति / स्पर्शं न परिगृह्णाति / वेदनां न परिगृह्णाति / तृष्णां न परिगृह्णाति / उपादानं न परिगृह्णाति / भवं न परिगृह्णाति / जातिं न परिगृह्णाति / जरामरणं न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / दानपारमितां न परिगृह्णाति / शीलपारमितां न परिगृह्णाति / क्षान्तिपारमितां न परिगृह्णाति / वीर्यपारमितां न परिगृह्णाति / ध्यानपारमितां न परिगृह्णाति / प्रज्ञापारमितां न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / अध्यात्मशून्यतां न परिगृह्णाति / बहिर्धाशून्यतां न परिगृह्णाति / अध्यात्मबहिर्धाशून्यतां न परिगृह्णाति / शून्यताशून्यतां न परिगृह्णाति / महाशून्यतां न परिगृह्णाति / परमार्थशून्यतां न परिगृह्णाति / संस्कृतशून्यतां न परिगृह्णाति / असंस्कृतशून्यतां न परिगृह्णाति / अत्यन्तशून्यतां न परिगृह्णाति / अनवराग्रशून्यतां न परिगृह्णाति / अनवकारशून्यतां न परिगृह्णाति / प्रकृतिशून्यतां न परिगृह्णाति / सर्वधर्मशून्यतां न परिगृह्णाति / स्वलक्षणशून्यतां न परिगृह्णाति / अनुपलम्भशून्यतां न परिगृह्णाति / अभावशून्यतां न परिगृह्णाति / स्वभावशून्यतां न परिगृह्णाति / अभावस्वभावशून्यतां न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय /
स्मृत्युपस्थानानि न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / सम्यक्प्रहाणानि न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / ऋद्धिपादान् न परिगृहाति / सर्वधर्मापरिगृहीतताम् उपादाय / इन्द्रियाणि न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / बलानि न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / बोध्यङ्गानि न परिगृहाति / सर्वधर्मापरिगृहीतताम् उपादाय / आर्याष्टाङ्गमार्गं न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / आर्यसत्यानि न परिगृहीतानि / सर्वधर्मापरिगृहीतताम् उपादाय / ध्यानानि न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / अप्रमाणानि न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / आरूप्यसमापत्तीर् न परिगृहाति / सर्वधर्मापरिगृहीतताम् उपादाय / अष्टाविमोक्षान् न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / नवानुपूर्वविहारसमापत्तीर् न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न परिगृहीतानि / सर्वधर्मापरिगृहीतताम् उपादाय / अभिज्ञा न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / समाधीन् न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / धारणीमुखानि न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / दश तथागतबलानि न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / चत्वारि वैशारद्यानि न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / तिस्रः प्रतिसंविदो न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / महाकरुणां न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / आवेणिकबुद्धधर्मा न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय /
श्रोतआपत्तिफलं न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / सकृदागामिफलं न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / अनागामिफलं न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / अर्हत्वं न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / प्रत्येकबोधिं न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / मार्गाकारज्ञतां न परिगृह्णाति / सर्वाधर्मापरिगृहीतताम् उपादाय / सर्वाकारज्ञतां न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / तथतां न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / अवितथता न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / अनन्यतथतां न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / धर्मतां न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / धर्मधातुं न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / धर्मस्थितितां न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / धर्मनियामतां न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / भूतकोटिं न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय /
परान्तरा परिनिर्वात्य् अपरिपूर्णैः प्रणिधानैर् अपरिपूर्णैश् चतुर्भिः स्मृत्युपस्थानैर् अपरिपूर्णैश् चतुर्भिः सम्यक्प्रहाणैर् अपरिपूणैश् चतुर्भिः ऋद्धिपादैर् अपरिपूर्णैः पञ्चभिर् इन्द्रियैर् अपरिपूर्णैः पञ्चभिर् बलैर् अपरिपूर्णैः सप्तभिर् बोध्यङ्गैर् अपरिपूर्णैर् नार्याष्टाङ्गमार्गेण / अपरिपूर्णैश् चतुर्भिर् आर्यसत्यैर् अपरिपूर्णैश् चतुर्भिर् ध्यानैर् अपरिपूर्णैश् चतुर्भिः प्रमाणैर् अपरिपूर्णाभिश् चतसृभिर् आरूप्यसमापत्तिर् अपरिपूर्णैर् अष्टाभिर् विमोक्षैर् अपरिपूर्णाभिर् नवभिर् अनुपूर्वविहारसमापत्तिभिर् अपरिपूर्णैः शून्यतानिमित्ताप्रणिहितविमोक्षमुखैर् अपरिपूर्णाभिर् अभिज्ञाभिर् अपरिपूर्णैः समाधिभिर् अपरिपूणैर् धारणीमुखैर् अपरिपूर्णैर् दशभिस् तथागतबलैर् अपरिपूणैश् चतुर्भिर् वैशारद्यैर् अपरिपूर्णाभिश् चतसृभिः प्रतिसंविद्भिर् अपरिपूर्णया महाकरुणया / अपरिपूर्णैर् अष्टादशभिर् आवेणिकबुद्धधर्मैः /
तत् कस्य हेतोस् तथा हि तानि प्रणिधानान्य् अप्रणिधानानि / तत् स्मृत्युपस्थानान्य् अस्मृत्युपस्थानानि / सम्यक्प्रहाणान्य् असम्यक्प्रहाणानि / ऋद्धिपादा अनृद्धिपादाः / इन्द्रियाण्य् अनिन्द्रियाणि / बलान्य् अबलानि / बोध्यङ्गान्य् अबोध्यङ्गानि / आर्याष्टाङ्गमार्गो ऽनार्यष्टाङ्गमार्गः / आर्यसत्यान्य् अनार्यसत्यानि / ध्यानान्य् अध्यानानि / अप्रमाणान्य् अनप्रमाणानि / आरूप्यसमापत्तयो ऽनारूप्यसमापत्तयः / अष्टौ विमोक्षा अविमोक्षा / नवानुपूर्वविहारसमापत्तयो ऽनवानुपूर्वविहारसमापत्तयः / शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अशून्यतानिमित्ताप्रणिहितविमोक्षमुखानि / अभिज्ञाः अनभिज्ञाः / समाधयो ऽसमाधयः / धारणीमुखान्य् अधारणीमुखानि / तथागतबलान्य् अतथागतबलानि / वैशारद्यान्य् अवैशारद्यानि / प्रतिसंविदो ऽप्रतिसंविदः / महाकरुणा अमहाकरुणा / आवेणिकबुद्धधर्माः अनावेणिकबुद्धधर्माः / इयं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता / यद् रूपं न परिगृह्णाति / वेदनां न परिगृह्णाति / संज्ञां न परिगृह्णाति / संस्कारा न परिगृह्णाति / विज्ञानं न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / चक्षुर् न परिगृह्णाति / श्रोत्रं न परिगृह्णाति / घ्राणं न परिगृह्णाति / जिह्वां न परिगृहाति / कायं न परिगृह्णाति / मनो न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / रूपं न परिगृह्णाति / शब्दं न परिगृहाति / गन्धं न परिगृह्णाति / रसं न परिगृह्णाति / स्पर्शं न परिगृह्णाति / धर्मा न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / चक्षुर्विज्ञानं न परिगृह्णाति / श्रोत्रविज्ञानं न परिगृह्णाति / घ्राणविज्ञानं न परिगृह्णाति / जिह्वाविज्ञानं न परिगृहाति /
कायविज्ञानं न परिगृह्णाति / मनोविज्ञानं न परिगृह्णाति / सर्वधर्मापरिगृहीतिताम् उपादाय / चक्षुःसंस्पर्शं न परिगृह्णाति / श्रोत्रसंस्पर्शं न परिगृह्णाति / घ्राणसंस्पर्शं न परिगृह्णाति / जिह्वासंस्पर्शं न परिगृह्णाति / कायसंस्पर्शं न परिगृह्णाति / मनःसंस्पर्शं न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / चक्षुःसंस्पर्शं प्रत्ययवेदनां न परिगृह्णाति / श्रोत्रसंस्पर्शं प्रत्ययवेदनां न परिगृह्णाति / घ्राणसंस्पर्शं प्रत्ययवेदनां न परिगृह्णाति / जिह्वासंस्पर्शप्रत्ययवेदनां न परिगृह्णाति / कायसंस्पर्शप्रत्ययवेदनां न परिगृह्णाति / मनःसंस्पर्शप्रत्ययवेदनां न परिगृहाति / सर्वधर्मापरिगृहीतताम् उपादाय / पृथिवीधातुं न परिगृह्णाति / अब्धातुं न परिगृह्णाति / तेजोधातुं न परिगृह्णाति / वायुधातुं न परिगृह्णाति / आकाशधातुं न परिगृह्णाति / विज्ञानधातुं न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / अविद्यां न परिगृह्णाति / संस्कारा न परिगृह्णाति / विज्ञानं न परिगृह्णाति / नामरूपं न परिगृह्णाति / षडायतनं न परिगृह्णाति / स्पर्शं न परिगृह्णाति / तृष्णां न परिगृह्णाति / उपादानं न परिगृह्णाति / भवं न परिगृह्णाति / जातिं न परिगृह्णाति / जरामरणं न परिगृह्णाति / सर्वधर्मा न परिगृहीतताम् उपादाय /
दानपारमितां न परिगृह्णाति / शीलपारमितां न परिगृह्णाति / वीर्यपारमितां न परिगृह्णाति / ध्यानपारमितां न परिगृहाति / प्रज्ञापारमितां न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय /
अध्यात्मशून्यतां न परिगृह्णाति / बहिर्धाशून्यतां न परिगृह्णाति / अध्यात्मबहिर्धाशून्यतां न परिगृह्णाति / शून्यताशून्यतां न परिगृह्णाति / महाशून्यतां न परिगृह्णाति / परमार्थशून्यतां न परिगृह्णाति / संस्कृतशून्यतां न परिगृहाति / असंस्कृतशून्यतां न परिगृह्णाति / अत्यन्तशून्यतां न परिगृह्णाति / अनवराग्रशून्यतां न परिगृह्णाति / अनवकारशून्यतां न परिगृहाति / प्रकृतिशून्यतां न परिगृह्णाति / सर्वधर्मशून्यतां न परिगृह्णाति / स्वलक्षणशून्यतां न परिगृह्णाति / अनुपलम्भशून्यतां न परिगृह्णाति / अभावशून्यतां न परिगृह्णाति / स्वभावशून्यतां न परिगृह्णाति / अभावस्वभावशून्यतां स परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाद्य / स्मृत्युपस्थानानि न परिगृह्णाति / सम्यक्प्रहाणानि न परिगृह्णाति / ऋद्धिपादान् न परिगृह्णाति / इन्द्रियाणि न परिगृह्णाति / बलानि न परिगृह्णाति / बोध्यङ्गानि न परिगृह्णाति / आर्याष्टाङ्गमार्गं न परिगृह्णाति / ध्यानानि न परिगृह्णाति / अप्रमाणानि न परिगृह्णाति / आरूप्यसमापत्तिर् न परिगृह्णाति / अष्टौ विमोक्षान् न परिगृह्णाति / नवानुपूर्वविहारसमापत्तिर् न परिगृह्णाति / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न परिगृह्णाति / अभिज्ञा न परिगृह्णाति / समाधीन् न परिगृह्णाति / धारणीमुखानि न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय /
दश तथागतबलानि न परिगृह्णाति / चत्वारि वैशारद्यानि न परिगृह्णाति / चतस्रः प्रतिसंविदो न परिगृह्णाति / महाकरुणां न परिगृह्णाति / अष्टादशावेणिकान् बुद्धधर्मान् न परिगृह्णाति / सर्वधर्मापरिगृहीतिताम् उपादाय / श्रोतआपत्तिफलं न परिगृह्णाति / सकृदागामिफलं न परिगृह्णाति / अनागामिफलं न परिगृह्णाति / अर्हत्त्वं न परिगृह्णाति / प्रत्येकबोधिं न परिगृह्णाति / मार्गाकारज्ञतां न परिगृह्णाति / सर्वाकारज्ञतां न परिगृह्णाति / सर्वधर्मापरिगृहीतताम् उपादाय / तथतां न परिगृह्णाति / अवितथतां न परिगृह्णाति / अनन्यतथतां न परिगृह्णाति / धर्मतां न परिगृह्णाति / धर्मस्थितितां च परिगृह्णाति / धर्मनियामतां न परिगृह्णाति / भूतकोटिं न परिगृह्णाति / सर्वाधर्मापरिगृहीतताम् उपादाय /
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं व्युपपरीक्षितव्यं / कतमैषा प्रज्ञापारमिता / कस्यैषा प्रज्ञापारमिता / किम् एता प्रज्ञापारमिता / केनैषा प्रज्ञापारमिता इति / सचेत् पुनर् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवम् उपनिध्याति / तत् किं यो धर्मो न संविद्यते नोपलभ्यते सा प्रज्ञापारमितेति स चरति प्रज्ञापारमितायां /
अथ खल्व् आयुष्मन् शारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत् / कतमै आयुष्मन् सुभूते धर्मान् संविद्यते नोपलभ्यते / सुभूतिर् आह / प्रज्ञापारमितायुष्मन् शारद्वतीपुत्र न संविद्यते नोपलभ्यते / ध्यानपारमिता न संविद्यते नोपलभ्यते / वीर्यपारमिता न संविद्यते नोपलभ्यते / क्षान्तिपारमिता न संविद्यते नोपलभ्यते / शीलपारमिता न संविद्यते नोपलभ्यते / दानपारमिता न संविद्यते नोपलभ्यते / अध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय / रूपम् आयुष्मञ् शारद्वतीपुत्र न संविद्यते नोपलभ्यते / संज्ञा न संविद्यते नोपलभ्यते / संस्कारा न संविद्यन्ते नोपलभ्यन्ते / विज्ञानं न संविद्यते नोपलभ्यते / अध्यात्मशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /
चक्षुर् आयुष्मञ् छारद्वतीपुत्र न संविद्यते नोपलभ्यते / श्रोत्रं न संविद्यते नोपलभ्यते / घ्राणं न संविद्यते नोपलभ्यते / जिह्वां न संविद्यते नोपलभ्यते / कायो न संविद्यते नोपलभ्यते / मनो न संविद्यते नोपलभ्यते / अध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /
रूपम् आयुष्मञ् छारद्वतीपुत्र न संविद्यते नोपलभ्यते / शब्दो न संविद्यते नोपलभ्यते / गन्धो न संविद्यते नोपलभ्यते / रसो न संविद्यते नोपलभ्यते / स्पर्शो न संविद्यते नोपलभ्यते / धर्मा न संविद्यते नोपलभ्यते / अध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र न संविद्यते नोपलभ्यते / श्रोत्रविज्ञानं न संविद्यते नोपलभ्यते / घ्राणविज्ञानं न संविद्यते नोपलभ्यते / जिह्वाविज्ञानं न संविद्यते नोपलभ्यते / कायविज्ञानं न संविद्यते नोपलभ्यते / मनोविज्ञानं न संविद्यते नोपलभ्यते / अध्यात्मशून्यताम् उपादाय / बहिर्धाशून्याताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र न संविद्यते नोपलभ्यते / श्रोत्रसंस्पर्शो न संविद्यते नोपलभ्यते / घ्राणसंस्पर्शो न संविद्यते नोपलभ्यते / जिह्वासंस्पर्शो न संविद्यते नोपलभ्यते / कायसंस्पर्शो न संविद्यते नोपलभ्यते / मनःसंस्पर्शो न संविद्यते नोपलभ्यते / अध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र न संविद्यते नोपलभ्यते / श्रोत्रसंस्पर्शप्रत्ययवेदना न संविद्यते नोपलभ्यते / घ्राणसंस्पर्शप्रत्ययवेदना न संविद्यते नोपलभ्यते / जिह्वासंस्पर्शप्रत्ययवेदना न संविद्यते नोपलभ्यते / कायसंस्पर्शप्रत्ययवेदना न संविद्यते नोपलभ्यते / मनःसंस्पर्शप्रत्ययवेदना न संविद्यते नोपलभ्यते / अध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र न संविद्यते नोपलभ्यते / अब्धातुर् न संविद्यते नोपलभ्यते / तेजोधातुर् न संविद्यते नोपलभ्यते / वायुधातुर् न संविद्यते नोपलभ्यते / आकाशधातुर् न संविद्यते नोपलभ्यते / विज्ञानधतुर् न संविद्यते नोपलभ्यते / अध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /
अविद्यायुष्मञ् छारद्वतीपुत्र न संविद्यते नोपलभ्यते / संस्कारा न संविद्यते नोपलभ्यते / विज्ञानं न संविद्यते नोपलभ्यते / षडायतनं न संविद्यते नोपलभ्यते / स्पर्शो न संविद्यते नोपलभ्यते / वेदना न संविद्यते नोपलभ्यते / तृष्णा न संविद्यते नोपलभ्यते / उपादानं न संविद्यते नोपलभ्यते / भवो न संविद्यते नोपलभ्यते / जातिर् न संविद्यते नोपलभ्यते / जरामरणं न संविद्यते नोपलभ्यते / अध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /
दानपारमितायुष्मञ् छारद्वतीपुत्र न संविद्यते नोपलभ्यते / शीलपारमितायुष्मञ् छारद्वतीपुत्र न संविद्यते नोपलभ्यते / क्षान्तिपारमिता न संविद्यते नोपलभ्यते / वीर्यपारमिता न संविद्यते नोपलभ्यते / ध्यानपारमिता न संविद्यते नोपलभ्यते / प्रज्ञापारमिता न संविद्यते नोपलभ्यते / अध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र न संविद्यते नोपलभ्यन्ते / सम्यक्प्रहाणानि न संविद्यन्ते नोपलभ्यन्ते / ऋद्धिपादा न संविद्यन्ते नोपलभ्यन्ते / इन्द्रियाणि न संविद्यन्ते नोपलभ्यन्ते / बलानि न संविद्यन्ते नोपलभ्यन्ते / बोध्यङ्गानि न संविद्यन्ते नोपलभ्यन्ते / आर्याष्टाङ्गमार्गो न संविद्यते नोपलभ्यते / अध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /
आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र न संविद्यन्ते नोपलभ्यन्ते / ध्यानानि न संविद्यन्ते नोपलभ्यन्ते / अप्रमाणानि न संविद्यन्ते नोपलभ्यन्ते / आरूप्यसमापत्तयो न संविद्यन्ते नोपलभ्यन्ते / अष्टौ विमोक्षा न संविद्यन्ते नोपलभ्यन्ते / नवानुपूर्वविहारसमापत्तयो न संविद्यन्ते नोपलभ्यन्ते / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न संविद्यन्ते नोपलभ्यन्ते / अभिज्ञा न संविद्यन्ते नोपलभ्यन्ते / समाधयो न संविद्यन्ते नोपलभ्यन्ते / धारणीमुखानि न संविद्यन्ते नोपलभ्यन्ते / अध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /
दश तथागतबलान्य् आयुष्मञ् छारद्वतीपुत्र न संविद्यन्ते नोपलभ्यन्ते / चत्वारि वैशारद्यानि न संविद्यन्ते नोपलभ्यन्ते / चतस्रः प्रतिसंविदो न संविद्यन्ते नोपलभ्यन्ते / महाकरुणा न संविद्यते नोपलभ्यते / अष्टादशावेणिकबुद्धधर्मा न संविद्यन्ते नोपलभ्यन्ते / अध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /
श्रोतआपत्तिफलं न संविद्यते नोपलभ्यते / सकृदागामिफलं न संविद्यते नोपलभ्यते / अनागामिफलं न संविद्यते नोपलभ्यते / अर्हत्त्वं न संविद्यते नोपलभ्यते / प्रत्येकबोधिर् न संविद्यते नोपलभ्यते / मार्गाकारज्ञता न संविद्यते नोपलभ्यते / सर्वाकारज्ञता न संविद्यते नोपलभ्यते / अध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /
तथता आयुष्मञ् छारद्वतीपुत्र न संविद्यते नोपलभ्यते / अवितथता न संविद्यते नोपलभ्यते / अनन्यतथता न संविद्यते नोपलभ्यते / धर्मता न संविद्यते नोपलभ्यते / धर्मधातुर् न संविद्यते नोपलभ्यते / धर्मस्थितिता न संविद्यते नोपलभ्यते / धर्मनियामता न संविद्यते नोपलभ्यते / भूतकोटिर् न संविद्यते नोपलभ्यते / अध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /
श्रोतआपत्तयो ऽप्य् आयुष्मञ् छारद्वतीपुत्र न संविद्यते नोपलभ्यते / सकृदागामिनो न संविद्यन्ते नोपलभ्यन्ते / अनागामिनो न संविद्यन्ते नोपलभ्यन्ते / अर्हन्तो न संविद्यन्ते नोपलभ्यन्ते / प्रत्येकबुद्धो न संविद्यते नोपलभ्यते / बोधिसत्त्वो ऽपि न संविद्यते नोपलभ्यते / बुद्धो ऽप्य् आयुष्मञ् छारद्वतीपुत्र न संविद्यते नोपलभ्यते / अध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /
अध्यात्मशून्यताप्य् आयुष्मञ् छारद्वतीपुत्र न संविद्यते नोपलभ्यते / अध्यात्मशून्यतानुपलब्धिताम् उपादाय / बहिर्धाशून्यतापि न संविद्यते नोपलभ्यते / बहिर्धाशून्यतानुपलब्धिताम् उपादाय / अध्यात्मबहिर्धाशून्यतापि न संविद्यते नोपलभ्यते / अध्यात्मबहिर्धाशून्यतानुपलब्धिताम् उपादाय / शून्यताशून्यतापि न संविद्यते नोपलभ्यते / शून्यताशून्यतानुपलब्धिताम् उपादाय / महाशून्यतापि न संविद्यते नोपलभ्यते / महाशून्यतानुपलब्धिताम् उपादाय / परमार्थशून्यतापि न संविद्यते नोपलभ्यते / परमार्थशून्यतानुपलब्धिताम् उपादाय / संस्कृतशून्यतापि न संविद्यते नोपलभ्यते / संस्कृतशून्यतानुपलब्धिताम् उपादाय / असंस्कृतशून्यतापि न संविद्यते नोपलभ्यते / असंस्कृतशून्यतानुपलब्धिताम् उपादाय / अत्यन्तशून्यतापि न संविद्यते नोपलभ्यते / अत्यन्तशून्यतानुपलब्धिताम् उपादाय / अनवराग्रशून्यतापि न संविद्यते नोपलभ्यते / अनवराग्रशून्यतानुपलब्धिताम् उपादाय / अनवकारशून्यतापि न संविद्यते नोपलभ्यते / अनवकारशून्यतानुपलब्धिताम् उपादाय / प्रकृतिशून्यतापि न संविद्यते नोपलभ्यते / प्रकृतिशून्यतानुपलब्धिताम् उपादाय / सर्वधर्माशून्यतापि न संविद्यते नोपलभ्यते / सर्वधर्मशून्यतानुपलब्धिताम् उपादाय / स्वलक्षणशून्यतापि न संविद्यते नोपलभ्यते / स्वलक्षणशून्यतानुपलब्धिताम् उपादाय / अनुपलम्भशून्यतापि न संविद्यते नोपलभ्यते / अनुपलम्भशून्यतानुपलब्धिताम् उपादाय / अभावशून्यतापि न संविद्यते नोपलभ्यते / अभावशून्यतानुपलब्धिताम् उपादाय / स्वभावशून्यतापि न संविद्यते नोपलभ्यते / स्वभावशून्यतानुपलब्धिताम् उपादाय / अभावस्वभावशून्यतापि न संविद्यते नोपलभ्यते / अभावस्वभावशून्यतानुपलब्धिताम् उपादाय /
सचेत् पुनः शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवम् उपपरीक्षति / एवम् उपनिध्याति / एवञ् चोपपरीक्षमाणस्यैवम् उपनिध्यायतश् चित्तं नावलीयते न संलीयते नोत्त्रस्यति न संत्रासम् आपद्यते /
अविरहितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां वेदितव्यः / आह / केन कारणेन सुभूते बोधिसत्त्वो महासत्त्वो ऽविरहितः प्रज्ञापारमितया वेदितव्यः / सुभूतिर् आह / रूपम् आयुष्मञ् छारद्वतीपुत्र विरहितं रूपस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / वेदना विरहिता वेदनास्वभावेन तां बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / संज्ञा विरहिता संज्ञास्वभावेन तां बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / संस्कारा विरहिताः संस्कारस्वभावेन तान् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / विज्ञानं विरहितं विज्ञानस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति /
चक्षुर् आयुष्मञ् छारद्वतीपुत्र विरहितं चक्षुः स्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / श्रोत्रं विरहितं श्रोत्रस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / घ्राणं विरहितं घ्राणस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / जिह्वा विरहिता जिह्वास्वभावेन तां बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / कायो विरहितः कायस्वभावेन तं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां यथाभूतं प्रजानाति / मनो विरहितं मनःस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् चरन् यथाभूतं प्रजानाति /
रूपम् आयुष्मञ् छारद्वतीपुत्र विरहितं रूपस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / शब्दो विरहितः शब्दस्वभावेन तं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / गन्धो विरहितः गन्धस्वभावेन तं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / रसो विरहिता रसस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / स्पर्शो विरहितः स्पर्शस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / धर्मा विरहिताः धर्मस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति /
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र विरहितं चक्षूर्विज्ञानं स्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / श्रोत्रविज्ञानं विरहितं श्रोत्रविज्ञानस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / घ्राणविज्ञानं विरहितं घ्राणविज्ञानस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / जिह्वाविज्ञानं विरहितं जिह्वाविज्ञानस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / कायविज्ञानं विरहितं कायविज्ञानस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / मनोविज्ञानं विरहितं मनोविज्ञानस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति /
चक्षुःसंस्पर्श आयुष्मञ् छारद्ववतीपुत्र विरहितश् चक्षुःसंस्पर्शस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / श्रोत्रसंस्पर्शो विरहितः श्रोत्रसंस्पर्शस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / घ्राणसंस्पर्शो विरहितो घ्राणसंस्पर्शस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / जिह्वासंस्पर्शो विरहितो जिह्वासंस्पर्शस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / कायसंस्पर्शो विरहितः कायसंस्पर्शस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / मनःसंस्पर्शो विरहितो मनःसंस्पर्शस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति /
चक्षुःसंस्पर्शप्रत्ययवेदना विरहिता चक्षुःसंस्पर्शप्रत्ययवेदनास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारीमेतायां चरन् यथाभूतं प्रजानाति / श्रोत्रसंस्पर्शप्रत्ययवेदना विरहिता श्रोत्रसंस्पर्शप्रत्ययवेदनास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / घ्राणसंस्पर्शप्रत्ययवेदना विरहिता घ्राणसंस्पर्शप्रत्ययवेदनास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / जिह्वासंस्पर्शप्रत्ययवेदना विरहिता जिह्वासंस्पर्शप्रत्ययवेदनास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / कायसंस्पर्शप्रत्ययवेदना विरहिता कायसंस्पर्शप्रत्ययवेदनास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / मनःसंस्पर्शप्रत्ययवेदना विरहिता मनःसंस्पर्शप्रत्ययवेदनास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति /
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र विरहितः पृथिवीधातुस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / अब्धातुर् विरहितो ऽब्धातुस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / तेजोधातुर् विरहितस् तेजोधातुस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / वायुधातुर् विरहितो वायुधातुस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / आकाशधातुर् विरहित आकाशधातुस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / विज्ञानधातुर् विरहितो विज्ञानधातुस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति /
अविद्या आयुष्मञ् छारद्वतीपुत्र विरहिताविद्यास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / संस्कारा विरहिता संस्कारस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / विज्ञानं विरहितं विज्ञानस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / नामरूपं विरहितं नामरूपस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / षडायतनं विरहितं षडायतनस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / तृष्णा विरहिता तृष्णास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / उपादानं विरहितम् उपादानस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / भवो विरहितो भवस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / जातिर् विरहिता जातिस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / जरामरणं विरहितं जरामरणस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति /
दानपारमितायुष्मञ् छारद्वतीपुत्र विरहिता दानपारमितास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / शीलपारमिता विरहिता शीलपारमितास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / क्षान्तिपारमिता विरहिता क्षान्तिपारमितास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / वीर्यपारमिता विरहिता वीर्यपारमितास्वभावेन तद् बोधिसत्त्वो महाभक्तः प्रज्ञापारमितायां चरन् तथाभूतं प्रजानाति / ध्यानपारमिता विरहिता ध्यानपारमितास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / प्रज्ञापारमिता विरहिता प्रज्ञापारमितास्वभावेन तद् बोधिसत्त्वो महासत्व प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति /
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र विरहिताध्यात्मशून्यतास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / बहिर्धाशून्यताविरहिता बहिर्धाशून्यतास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / अध्यात्मबहिर्धाशून्यता विरहिता अध्यात्मबहिर्धाशून्यतास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / शून्यताशून्यता विरहिता शून्यताशून्यतास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / महाशून्यता विरहिता महाशून्यतास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / परमार्थशून्यता विरहिता परमार्थशून्यतास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / संस्कृतशून्यता विरहिता संस्कृतशून्यतास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / असंस्कृतशून्यता विरहितासंस्कृतशून्यतास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / अत्यन्तशून्यता विरहिता अत्यन्तशून्यतास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / अनवराग्रशून्यता विरहिता अनवराग्रशून्यतास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / अनवकारशून्यता विरहिता अनवकारशून्यतास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति /
प्रकृतिशून्यता विरहिता प्रकृतिशून्यतास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / सर्वधर्मशून्यता विरहिता सर्वधर्मशून्यतास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / स्वलक्षणशून्यता विरहिता स्वलक्षणशून्यतास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / अनुपलम्भशून्यता विरहितानुपलम्भशून्यतास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / अभावशून्यता विरहिताभावशून्यतास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / स्वभावशून्यता विरहिता स्वभावशून्यतास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / अभावस्वभावशून्यता विरहिताभावस्वभावशून्यतास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति /
चत्वारि स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र विरहितानि स्मृत्युपस्थानस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / चत्वारि सम्यक्प्रहाणानि विरहितानि सम्यक्प्रहाणस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / चत्वार ऋद्धिपादा विरहिताः ऋद्धिपादस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / पञ्चेन्द्रियाणि विरहितानि इन्द्रियस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरम् यथाभूतं प्रजानाति / पञ्च बलानि विरहितानि बलस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / सप्त बोध्यङ्गानि विरहितानि बोध्यङ्गस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / आर्याष्टाङ्गमार्गो विरहितः आर्याष्टाङ्गमार्गस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / चत्वार्य् आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र विरहितान्य् आर्यसत्यस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / चत्वारि ध्यानानि विरहितानि ध्यानस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / चत्वार्य् अप्रमाणानि विरहितान्य् अप्रमाणस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / चतस्र आरूप्यसमापत्तयो विरहिता आरूप्यसमापत्तिस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति /
अष्टौ विमोक्षा विरहिता विमोक्षस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानति / नवानुपूर्वविहारसमापत्तयो विरहिता अनुपूर्वविहारसमापत्तिस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि विरहितानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / अभिज्ञा विरहिता अभिज्ञास्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / समाधयो विरहिताः समाधिस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति / धारणीमुखानि विरहितानि धारणीमुखस्वभावेन तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथाभूतं प्रजानाति /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
