Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता, Part इ
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
घ्राणविज्ञानधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत घ्राणविज्ञानधातुर् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / जिह्वाधातुर् इति सुभूते यवद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत जिह्वाधातुर् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / रसधातुर् इति प्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत रसधतुर् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलाभ्यते / जिह्वाविज्ञानधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत जिह्वाविज्ञानधातुर् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / कायधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत कायधातुर् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / स्प्रष्टव्यधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत स्प्रष्टव्यधातुर् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते /
कायविज्ञानधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत कायविज्ञानधातुर् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / मनोधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत मनोधातुर् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / धर्मधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत धर्मधातुर् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / मनोविज्ञानधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत मनोविज्ञान धातुर् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / एवम् एव सुभूते यद् इदम् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति / यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते पोषम् आध्यात्मिक आत्मभाव इति नाम मात्रेण व्यवह्रियते / शीर्षास्थीनीति नाम व्यवह्रियते / ग्रीवास्थीनीति नाम व्यवह्रियते /
स्कन्धास्थीनीति नाम व्यवह्रियते / पृष्ठास्थीनीति व्यवह्रियते / पार्श्वकास्थीनीति व्यवह्रियते / कट्यस्थीनीति नाम व्यवह्रियते / ऊर्वस्थीनीति नाम व्यवह्रियते / जङ्घास्थीनीति नाम व्यवह्रियते / पादास्थीनीति नाम व्यवह्रियते / धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / शीर्षास्थीनीति नाम ग्रीवास्थीनीति नाम बाह्वस्थीनीति नाम पृष्ठास्थीनीति नाम पार्श्वास्थीनीति नाम कट्यस्थीनीति नाम ऊर्वस्थीनीति नाम जङ्गास्थीनीति नाम / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / एवम् एव सुभूते यद् इदम् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते यानीमानि बाह्यानि तृणकाष्ठशाखापत्त्रपलाशानि सर्वान्य् एतानि नानानामधेयैर् व्यवह्रियन्ते तानि च एषाञ् च नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तानि च नामानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते /
एवम् एव सुभूते यद् इदम् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति / बोधिसत्त्वनामेति / यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते अतीतानां बुद्धानां भगवतां यावद् एव नाम मात्रं तिष्ठति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते स्वप्नः प्रतिश्रुत्काप्रतिभासो मायामरीचि उदकचन्द्रस् तथागतनिर्मितः सर्व एते धर्माः प्रज्ञप्तिमात्रं यस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / एवम् एव सुभूते यद् इदम् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति / सर्व एते धर्माः प्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नामसङ्केतप्रज्ञप्त्या वा धर्मप्रज्ञप्त्या च शिक्षितव्यं /
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं नाम नित्यम् इति समनुपश्यति / न रूपं नामानित्यम् इति समनुपश्यति / न रूपं नाम सुखम् इति समनुपश्यति / न रूपं नाम दुःखम् इति समनुपश्यति / न रूपं नामात्मेति समनुपश्यति / न रूपं नामानात्मेति समनुपश्यति / न रूपं नाम शान्तम् इति समनुपश्यति / न रूपं नामाशान्तम् इति समनुपश्यति / न रूपं नाम शून्यम् इति समनुपश्यति / न रूपं नामाशून्यम् इति समनुपश्यति / न रूपं नाम निमित्तम् इति समनुपश्यति / न रूपं नामानिमित्तम् इति समनुपश्यति / न रूपं नाम प्रणिहितम् इति समनुपश्यति / न रूपं नामाप्रणिहितम् इति समनुपश्यति / न रूपं नाम संस्कृतम् इति समनुपश्यति / न रूपं नामासंस्कृतम् इति समनुपश्यति / न रूपं नाम संक्लेशम् इति समनुपश्यति / न रूपं नामासंक्लेशम् इति समनुपश्यति / न रूपं नाम व्यवदानम् इति समनुपश्यति / न रूपं नामोत्पाद इति समनुपश्यति / न रूपं नाम निरोध इति समनुपश्यति / न रूपं नाम विविक्तम् इति समनुपश्यति / न रूपं नामाविविक्तम् इति समनुपश्यति / न रूपं नाम कुशलम् इति समनुपश्यति / न रूपं नामाकुशलम् इति समनुपश्यति / न रूपं नाम सावद्यम् इति समनुपश्यति / न रूपं नाम निरवद्यम् इति समनुपश्यति / न रूपं नाम साश्रवम् इति समनुपश्यति / न रूपं नामानाश्रवम् इति समनुपश्यति / न रूपं नाम संक्लेशम् इति समनुपश्यति / न रूपं नाम निःक्लेशम् इति समनुपश्यति / न रूपं नाम लौकिकम् इति समनुपश्यति / न रूपं नाम लोकोत्तरम् इति समनुपश्यति / न रूपं नाम संसार इति समनुपश्यति / न रूपं नाम निर्वाणम् इति समनुपश्यति /
न वेदनां नाम नित्येति समनुपश्यति / न वेदनां नामानित्येति समनुपश्यति / न वेदनां नाम सुखेति समनुपश्यति / न वेदनां नाम दुःखेति समनुपश्यति / न वेदनां नामात्मेति समनुपश्यति / न वेदनां नामानात्मेति समनुपश्यति / न वेदनां नाम शान्तेति समनुपश्यति / न वेदनां नामाशान्तेति समनुपश्यति / न वेदनां नाम शून्येति समनुपश्यति / न वेदनां नामाशून्येति समनुपश्यति / न वेदनां नाम निमित्तेति समनुपश्यति / न वेदनां नामानिमित्तेति समनुपश्यति / न वेदनां नाम प्रणिहितम् इति समनुपश्यति / न वेदनां नामाप्रणिहितम् इति समनुपश्यति / न वेदनां नाम संस्कृतम् इति समनुपश्यति / न वेदनां नामासंस्कृतम् इति समनुपश्यति / न वेदनां नाम संक्लेशम् इति समनुपश्यति / न वेदनां नाम व्यवदानम् इति समनुपश्यति / न वेदनां नामोत्पाद इति समनुपश्यति / न वेदनां नाम निरोध इति समनुपश्यति / न वेदनां नाम विविक्तेति समनुपश्यति / न वेदना नामाविविक्तेति समनुपश्यति / न वेदनां नाम कुशलेति समनुपश्यति / न वेदनां नामाकुशलेति समनुपश्यति / न वेदनां नाम सावद्येति समनुपश्यति / न वेदनां नामानवद्येति समनुपश्यति / न वेदनां नामसाश्रवेति समनुपश्यति / न वेदनां नामानाश्रवेति समनुपश्यति / न वेदनां नाम संक्लेशेति समनुपश्यति / न वेदनां नाम निःक्लेशेति समनुपश्यति / न वेदना नाम लौकिकेति समनुपश्यति / न वेदनां नाम लोकोत्तरेति समनुपश्यति / न वेदनां नाम संसार इति समनुपश्यति / न वेदनां नाम निर्वाण इति समनुपश्यति /
न संज्ञां नाम नित्येति समनुपश्यति / न संज्ञां नामानित्येति समनुपश्यति / न संज्ञां नाम सुखम् इति समनुपश्यति / न संज्ञां नाम दुःखम् इति समनुपश्यति / न संज्ञां नामात्मेति समनुपश्यति / न संज्ञां नामानात्मेति समनुपश्यति / न संज्ञां नाम शान्तम् इति समनुपश्यति / न संज्ञां नामाशान्तम् इति समनुपश्यति / न संज्ञां नाम शून्येति समनुपश्यति / न संज्ञां नामाशून्येति समनुपश्यति / न संज्ञां नाम निमित्तम् इति समनुपश्यति / न संज्ञां नामानिमित्तम् इति समनुपश्यति / न संज्ञां नाम प्रणिहितम् इति समनुपश्यति / न संज्ञां नामाप्रणिहितम् इति समनुपश्यति / न संज्ञा नामा संस्कृतम् इति समनुपश्यति / न संज्ञां नामासंस्कृतम् इति समनुपश्यति / न संज्ञां नामोत्पाद इति समनुपश्यति / न संज्ञां नाम निरोध इति समनुपश्यति / न संज्ञां नाम संक्लेश इति समनुपश्यति / न संज्ञां नाम व्यवदानम् इति समनुपश्यति / न संज्ञां नाम विविक्तम् इति समनुपश्यति / न संज्ञां नामाविविक्तम् इति समनुपश्यति / न संज्ञा नाम कुशलेति समनुपश्यति / न संज्ञां नामाकुशलेति समनुपश्यति / न संज्ञां नाम सावद्येति समनुपश्यति / न संज्ञां नामानवद्येति समनुपश्यति / न संज्ञां नाम साश्रवेति समनुपश्यति / न संज्ञां नामानाश्रवेति समनुपश्यति / न संज्ञां नाम संक्लेश इति समनुपश्यति / न संज्ञां नाम निःक्लेशेति समनुपश्यति / न संज्ञां नाम लौकिकम् इति समनुपश्यति / न संज्ञां नाम लोकोत्तरेति समनुपश्यति / न संज्ञां नाम संसार इति समनुपश्यति / न संज्ञां नाम निर्वाणम् इति समनुपश्यति /
न संस्कारा नाम नित्या इति समनुपश्यति / न संस्कारा नामानित्या इति समनुपश्यति / न संष्कारा नाम सुखा इति समनुपश्यति / न संस्कारा नाम दुःखा इति समनुपश्यति / न संस्कारा नामात्मान इति समनुपश्यति / न संस्कारा नामानत्मान इति समनुपश्यति / न संस्कारा नाम शान्ता इति समनुपश्यति / न संस्कारा नामाशान्ता इति समनुपश्यति / न संस्कारा नाम शून्या इति समनुपश्यति / न संस्कारा नामाशून्या इति समनुपश्यति / न संस्कारा नाम निमित्ता इति समनुपश्यति / न संस्कारा नामानिमित्ता इति समनुपश्यति / न संस्कारा नाम प्रणिहिता इति समनुपश्यति / न संस्कारा नामाप्रणिहिता इति समनुपश्यति / न संस्कारा नाम संस्कृता इति समनुपश्यति / न संस्कारा नामासंस्कृता इति समनुपश्यति / न संस्कारा नामोत्पादा इति समनुपश्यति / न संस्कारा नाम निरोधा इति समनुपश्यति / च संस्कारा नाम संक्लेशा इति समनुपश्यति / न संस्कारा नाम व्यवदाना इति समनुपश्यति / न संस्कारा नाम विविक्ता इति समनुपश्यति / न संस्कारा नामाविविक्ता इति समनुपश्यति / न संस्कारा नाम कुशला इति समनुपश्यति / न संस्कारा नामाकुशला इति समनुपश्यति / न संस्कारा नाम सावद्या इति समनुपश्यति / न संस्कारा नाम निरवद्या इति समनुपश्यति / न संस्कारा नाम साश्रवा इति समनुपश्यति / न संस्कारा नामानाश्रवा इति समनुपश्यति / न संस्कारा नाम संक्लेशा इति समनुपश्यति / न संस्कारा नाम निःक्लेशा इति समनुपश्यति / न संस्कारा नाम लौकिका इति समनुपश्यति / न संस्कारा नाम लोकोत्तरा इति समनुपश्यति / न संस्कारा नाम संसार इति समनुपश्यति / न संस्कारा नाम निर्वाणम् इति समनुपश्यति /
न विज्ञानं नाम नित्यम् इति समनुपश्यति / न विज्ञानं नामानित्यम् इति समनुपश्यति / न विज्ञानं नाम सुखम् इति समनुपश्यति / न विज्ञानं नाम दुःखम् इति समनुपश्यति / न विज्ञानं नामात्मेति समनुपश्यति / न विज्ञानं नामानात्मेति समनुपश्यति / न विज्ञानं नाम शान्तम् इति समनुपश्यति / न विज्ञानं नामाशान्तम् इति समनुपश्यति / न विज्ञानं नाम शून्यम् इति समनुपश्यति / न विज्ञानं नामाशून्यम् इति समनुपश्यति / न विज्ञानं नाम निमित्तम् इति समनुपश्यति / न विज्ञानं नामानिमित्तम् इति समनुपश्यति / न विज्ञानं नाम प्रणिहितम् इति समनुपश्यति / न विज्ञानां नामाप्रणिहितम् इति समनुपश्यति / न विज्ञानं नाम संस्कृतम् इति समनुपश्यति / न विज्ञानं नामासंस्कृतम् इति समनुपश्यति / न विज्ञानं नामोत्पाद इति समनुपश्यति / न विज्ञानं नाम निरोध इति समनुपश्यति / न विज्ञानं नाम संक्लेश इति समनुपश्यति / न विज्ञानं नाम व्यवदानम् इति समनुपश्यति / न विज्ञानं नाम विविक्तम् इति समनुपश्यति / न विज्ञानं नामाविविक्तम् इति समनुपश्यति / न विज्ञानं नाम कुशलम् इति समनुपश्यति / न विज्ञानं नामाकुशलम् इति समनुपश्यति / न विज्ञानं नाम सावद्यम् इति समनुपश्यति / न विज्ञानं नाम निरवद्यम् इति समनुपश्यति / न विज्ञानं नाम साश्रवम् इति समनुपश्यति / न विज्ञानं नामानाश्रवम् इति समनुपश्यति / न विज्ञानं नाम संक्लेश इति समनुपश्यति / न विज्ञानं नाम निःक्लेश इति समनुपश्यति / न विज्ञानं नाम लौकिकम् इति समनुपश्यति / न विज्ञानं नाम लोकोत्तरम् इति समनुपश्यति / न विज्ञानं नाम संसार इति समनुपश्यति / न विज्ञानं नाम निर्वाणम् इति समनुपश्यति /
न चक्षुर् नाम नित्यम् इति समनुपश्यति / न चक्षुर् नामानित्यम् इति समनुपश्यति / न चक्षुर् नाम सुखम् इति समनुपश्यति / न चक्षुर् नाम दुःखम् इति समनुपश्यति / न चक्षुर् नामात्मेति समनुपश्यति / न चक्षुर् नामानात्मेति समनुपश्यति / न चक्षुर् नाम शान्तम् इति समनुपश्यति / न चक्षुर् नामाशान्तम् इति समनुपश्यति / न चक्षुर् नाम शून्यम् इति समनुपश्यति / न चक्षुर् नामाशून्यम् इति समनुपश्यति / न चक्षुर् नाम निमित्तम् इति समनुपश्यति / न चक्षुर् नामानिमित्तम् इति समनुपश्यति / न चक्षुर् नाम प्रणिहितम् इति समनुपश्यति / न चक्षुर् नामाप्रणिहितम् इति समनुपश्यति / न चक्षुर् नाम संस्कृतम् इति समनुपश्यति / न चक्षुर् नामासंस्कृतम् इति समनुपश्यति / न चक्षुर् नामोत्पाद इति समनुपश्यति / न चक्षुर् नाम निरोध इति समनुपश्यति / न चक्षुर् नाम संक्लेशम् इति समनुपश्यति / न चक्षुर् नाम व्यवदानम् इति समनुपश्यति / न चक्षुर् नाम विविक्तम् इति समनुपश्यति / न चक्षुर् नामाविविक्तम् इति समनुपश्यति / न चक्षुर् नाम कुशलम् इति समनुपश्यति / न चक्षुर् नामाकुशलम् इति समनुपश्यति / न चक्षुर् नाम सावद्यम् इति समनुपश्यति / न चक्षुर् नाम निरवद्यम् इति समनुपश्यति / न चक्षुर् नाम साश्रवम् इति समनुपश्यति / न चक्षुर् नामानाश्रवम् इति समनुपश्यति / न चक्षुर् नाम संक्लेशम् इति समनुपश्यति / न चक्षुर् नाम निःक्लेशम् इति समनुपश्यति / न चक्षुर् नाम लौकिकम् इति समनुपश्यति / न चक्षुर् नाम लोकोत्तरम् इति समनुपश्यति / न चक्षुर् नाम संसार इति समनुपश्यति / न चक्षुर् नाम निर्वाणम् इति समनुपश्यति /
न रूपं नाम नित्यम् इति समनुपश्यति / न रूपं नामानित्यम् इति समनुपश्यति / न रूपं नाम सुखम् इति समनुपश्यति / न रूपं नाम दुःखम् इति समनुपश्यति / न रूपं नामात्मेति समनुपश्यति / न रूपं नामानात्मेति समनुपश्यति / न रूपं नाम शान्तम् इति समनुपश्यति / न रूपं नामाशान्तम् इति समनुपश्यति / न रूपं नाम शून्यम् इति समनुपश्यति / न रूपं नामाशून्यम् इति समनुपश्यति / न रूपं नाम निमित्तम् इति समनुपश्यति / न रूपं नामानिमित्तम् इति समनुपश्यति / न रूपं नाम प्रणिहितम् इति समनुपश्यति / न रूपं नामाप्रणिहितम् इति समनुपश्यति / न रूपं नाम संस्कृतम् इति समनुपश्यति / न रूपं नामासंस्कृतम् इति समनुपश्यति / न रूपं नामोत्पाद इति समनुपश्यति / न रूपं नाम निरोध इति समनुपश्यति / न रूपं नाम संक्लेशम् इति समनुपश्यति / न रूपं नाम व्यवदानम् इति समनुपश्यति / न रूपं नाम विविक्तम् इति समनुपश्यति / न रूपं नामाविविक्तम् इति समनुपश्यति / न रूपं नाम कुशलम् इति समनुपश्यति / न रूपं नामाकुशलम् इति समनुपश्यति / न रूपं नाम सावद्यम् इति समनुपश्यति / न रूपं नामानवद्यम् इति समनुपश्यति / न रूपं नाम साश्रवम् इति समनुपश्यति / न रूपं नामानाश्रवम् इति समनुपश्यति / न रूपं नाम संक्लेश इति समनुपश्यति / न रूपं नाम निःक्लेश इति समनुपश्यति / न रूपं नाम लौकिकम् इति समनुपश्यति / च रूपं नाम लोकोत्तरम् इति समनुपश्यति / न रूपं नाम संसार इति समनुपश्यति / न रूपं नाम निर्वाणम् इति समनुपश्यति /
न चक्षुर्विज्ञानं नाम नित्यम् इति समनुपश्यति / न चक्षुर्विज्ञानं नामानित्यम् इति समनुपश्यति / न चक्षुर्विज्ञानं नाम सुखम् इति समनुपश्यति / न चक्षुर्विज्ञानं नाम दुःखम् इति समनुपश्यति / न चक्षुर्विज्ञानं नामात्मेति समनुपश्यति / न चक्षुर्विज्ञानं नामानात्मेति समनुपश्यति / न चक्षुर्विज्ञानं नाम शान्तम् इति समनुपश्यति / न चक्षुर्विज्ञानं नामाशान्तम् इति समनुपष्यति / न चक्षुर्विज्ञानं नाम शून्यम् इति समनुपश्यति / न चक्षुर्विज्ञानं नामाशून्यम् इति समनुपश्यति / न चक्षुर्विज्ञानं नाम निमित्तम् इति समनुपश्यति / न चक्षुर्विज्ञानं नामानिमित्तम् इति समनुपश्यति / न चक्षुर्विज्ञानं नाम प्रणिहितम् इति समनुपश्यति / न चक्षुर्विज्ञानं नामाप्रणिहितम् इति समनुपश्यति / न चक्षुर्विज्ञानं नाम संस्कृतम् इति समनुपश्यति / न चक्षुर्विज्ञानं नामासंस्कृतम् इति समनुपश्यति / न चक्षुर्विज्ञानं नाम संक्लेशम् इति समनुपश्यति / न चक्षुर्विज्ञानं नाम व्यवदानम् इति समनुपश्यति / न चक्षुर्विज्ञानं नामोत्पाद इति समनुपश्यति / न चक्षुर्विज्ञानं नाम निरोध इति समनुपश्यति / न चक्षुर्विज्ञानं नाम विविक्तम् इति समनुपश्यति / न चक्षुर्विज्ञानं नामाविविक्तम् इति समनुपश्यति / न चक्षुर्विज्ञानं नाम कुशलम् इति समनुपश्यति / न चक्षुर्विज्ञानं नामाकुशलम् इति समनुपश्यति / न चक्षुर्विज्ञानं नाम सावद्यम् इति समनुपश्यति / न चक्षुर्विज्ञानं नामानवद्यम् इति समनुपश्यति / न चक्षुर्विज्ञानं नाम साश्रवम् इति समनुपश्यति / न चक्षुर्विज्ञानं नामानाश्रवम् इति समनुपश्यति / न चक्षुर्विज्ञानं नाम संक्लेश इति समनुपश्यति / न चक्षुर्विज्ञानं नाम निःक्लेश इति समनुपश्यति / न चक्षुर्विज्ञानं नाम लौकिकम् इति समनुपश्यति / न चक्षुर्विज्ञानं नाम लोकोत्तरम् इति समनुपश्यति / न चक्षुर्विज्ञानं नाम संसार इति समनुपश्यति / न चक्षुर्विज्ञानं नाम निर्वाणम् इति समनुपश्यति /
न चक्षुःसंस्पर्शो नाम नित्य इति समनुपश्यति / न चक्षुःसंस्पर्शो नामानित्य इति समनुपश्यति / न चक्षुःसंस्पर्शो नाम सुखम् इति समनुपश्यति / न चक्षुःसंस्पर्शो नाम दुःखम् इति समनुपश्यति / न चक्षुःसंस्पर्शो नामात्मेति समनुपश्यति / न चक्षुःसंस्पर्शो नामानात्मेति समनुपश्यति / न चक्षुःसंस्पर्शो नाम शान्तम् इति समनुपश्यति / न चक्षुःसंस्पर्शो नामाशान्तम् इति समनुपश्यति / न चक्षुःसंस्पर्शो नाम शून्यम् इति समनुपश्यति / न चक्षुःसंस्पर्शो नामाशून्यम् इति समनुपश्यति / न चक्षुःसंस्पर्शो नाम निमित्त इति समनुपश्यति / न चक्षुःसंस्पर्शो नामानिमित्त इति समनुपश्यति / न चक्षुःसंस्पर्शो नाम प्रणिहितम् इति समनुपश्यति / न चक्षुःसंस्पर्शो नामाप्रणिहितम् इति समनुपश्यति / न चक्षुःसंस्पर्शो नाम संस्कृतम् इति समनुपश्यति / न चक्षुःसंस्पर्शो नामासंस्कृतम् इति समनुपश्यति / न चक्षुःसंस्पर्शो नाम संक्लेश इति समनुपश्यति / न चक्षुःसंस्पर्शो नाम व्यवदानम् इति समनुपश्यति / न चक्षुःसंस्पर्शो नामोत्पाद इति समनुपश्यति / न चक्षुःसंस्पर्शो नाम निरोध इति समनुपश्यति / न चक्षुःसंस्पर्शो नाम विविक्त इति समनुपश्यति / न चक्षुःसंस्पर्शो नामाविविक्तम् इति समनुपश्यति / न चक्षुःसंस्पर्शो नाम कुशल इति समनुपश्यति / न चक्षुःसंस्पर्शो नामाकुशल इति समनुपश्यति / न चक्षुःसंस्पर्शो नाम सावद्यम् इति समनुपश्यति / न चक्षुःसंस्पर्शो नामानवद्य इति समनुपश्यति / न चक्षुःसंस्पर्शो नाम साश्रव इति समनुश्यति / न चक्षुःसंस्पर्शो नामानाश्रव इति समनुपश्यति / न चक्षुःसंस्पर्शो नाम संक्लेश इति समनुपश्यति / न चक्षुःसंस्पर्शो नाम निःक्लेश इति समनुपश्यति / न चक्षुःसंस्पर्शो नाम लौकिक इति समनुपश्यति / न चक्षुःसंस्पर्शो नाम लोकोत्तर इति समनुपश्यति / न चक्षुःसंस्पर्शो नाम संसार इति समनुपश्यति / न चक्षुःसंस्पर्शो नाम निर्वाणम् इति समनुपश्यति /
यद् अपि तच् चक्षूरूपचक्षुःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं दुःखं वा तद् अपि नाम न नित्यम् इति समनुपश्यति / नानित्यम् इति समनुपश्यति / न सुखम् इति समनुपश्यति / न दुःखम् इति समनुपश्यति / नात्मेति समनुपश्यति / नानात्मेति समनुपश्यति / न शान्तम् इति समनुपश्यति / नाशान्तम् इति समनुपश्यति / न शून्यम् इति समनुपश्यति / नाशून्यम् इति समनुपश्यति / न निमित्तम् इति समनुपश्यति / नानिमित्तम् इति समनुपश्यति / न प्रणिहितम् इति समनुपश्यति / नाप्रणिहितम् इति समनुपश्यति / न संस्कृतम् इति समनुपश्यति / नासंस्कृतम् इति समनुपश्यति / न संक्लेशम् इति समनुपश्यति / न व्यवदानम् इति समनुपश्यति / नोत्पाद इति समनुपश्यति / न निरोध इति समनुपश्यति / न विविक्तम् इति समनुपश्यति / नाविविक्तम् इति समनुपश्यति / न कुशलम् इति समनुपश्यति / नाकुशलम् इति समनुपश्यति / न सावद्यम् इति समनुपश्यति / नानवद्यम् इति समनुपश्यति / न साश्रवम् इति समनुपश्यति / नानाश्रवम् इति समनुपश्यति / न संक्लेश इति समनुपश्यति / न निःक्लेश इति समनुपश्यति / न लौकिकम् इति समनुपश्यति / न लोकोत्तरम् इति समनुपश्यति / न संसार इति समनुपश्यति / न निर्वाणम् इति समनुपश्यति /
न श्रोत्रं नाम नित्यम् इति समनुपश्यति / न श्रोत्रं नामानित्यम् इति समनुपश्यति / न श्रोत्रं नाम सुखम् इति समनुपश्यति / न श्रोत्रं नाम दुःखम् इति समनुपश्यति / न श्रोत्रं नामात्मेति समनुपश्यति / न श्रोत्रं नामानात्मेति समनुपश्यति / न श्रोत्रं नाम शान्तम् इति समनुपश्यति / न श्रोत्रं नामाशान्तम् इति समनुपश्यति / न श्रोत्रं नाम शून्यम् इति समनुपश्यति / न श्रोत्रं नामाशून्यम् इति समनुपश्यति / न श्रोत्रं नाम निमित्तम् इति समनुपश्यति / न श्रोत्रं नामानिमित्तम् इति समनुपश्यति / न श्रोत्रं नाम प्रणिहितम् इति समनुपश्यति / न श्रोत्रं नामाप्रणिहितम् इति समनुपश्यति / न श्रोत्रं नाम संस्कृतम् इति समनुपश्यति / न श्रोत्रं नामासंस्कृतम् इति समनुपश्यति / न श्रोत्रं नाम संक्लेशम् इति समनुपश्यति / न श्रोत्रं नाम व्यवदानम् इति समनुपश्यति / न श्रोत्रं नामोत्पाद इति समनुपश्यति / न श्रोत्रं नाम निरोध इति समनुपश्यति / न श्रोत्रं नाम विविक्तम् इति समनुपश्यति / न श्रोत्रं नामाविविक्तम् इति समनुपश्यति / न श्रोत्रं नाम कुशलम् इति समनुपश्यति / न श्रोत्रं नामाकुशलम् इति समनुपश्यति / न श्रोत्रं नाम सावद्यम् इति समनुपश्यति / न श्रोत्रं नामानवद्यम् इति समनुपश्यति / न श्रोत्रं नाम साश्रवम् इति समनुपश्यति / न श्रोत्रं नामानाश्रवम् इति समनुपश्यति / न श्रोत्रं नाम संक्लेश इति समनुपश्यति / न श्रोत्रं नाम निःक्लेश इति समनुपश्यति / न श्रोत्रं नाम लौकिकम् इति समनुपश्यति / न श्रोत्रं नाम लोकोत्तरम् इति समनुपश्यति / न श्रोत्रं नाम संसार इति समनुपश्यति / न श्रोत्रं नाम निर्वाणम् इति समनुपश्यति /
न शब्दो नाम नित्य इति समनुपश्यति / न शब्दो नामानित्य इति समनुपश्यति / न शब्दो नाम सुखम् इति समनुपश्यति / न शब्दो नाम दुःखम् इति समनुपश्यति / न शब्दो नामात्मेति समनुपश्यति / न शब्दो नामानात्मेति समनुपश्यति / न शब्दो नाम शान्तम् इति समनुपश्यति / न शब्दो नामाशान्तम् इति समनुपश्यति / न शब्दो नाम शून्यम् इति समनुपश्यति / न शब्दो नामाशून्यम् इति समनुपश्यति / न शब्दो नाम निमित्तम् इति समनुपश्यति / न शब्दो नामानिमित्तम् इति समनुपश्यति / न शब्दो नाम प्रणिहितम् इति समनुपश्यति / न शब्दो नामाप्रणिहितम् इति समनुपश्यति / न शब्दो नाम संस्कृतम् इति समनुपश्यति / न शब्दो मामासंस्कृतम् इति समनुपश्यति / न शब्दो नाम संक्लेश इति समनुपश्यति / न शब्दो नाम व्यवदानम् इति समनुपश्यति / न शब्दो नामोत्पाद इति समनुपश्यति / न शब्दो नाम निरोध इति समनुपश्यति / न शब्दो नाम विविक्त इति समनुपश्यति / न शब्दो नामाविविक्त इति समनुपश्यति / न शब्दो नाम कुशल इति समनुपश्यति / न शब्दो नामाकुशल इति समनुपश्यति / न शब्दो नाम सावद्यम् इति समनुपश्यति / न शब्दो नामानवद्यम् इति समनुपश्यति / न शब्दो नाम साश्रवम् इति समनुपश्यति / न शब्दो नामानाश्रवम् इति समनुपश्यति / न शब्दो नाम संक्लेश इति समनुपश्यति / न शब्दो नाम निःक्लेश इति समनुपश्यति / न शब्दो नाम लौकिकम् इति समनुपश्यति / न शब्दो नाम लोकोत्तरम् इति समनुपश्यति / न शब्दो नाम संसार इति समनुपश्यति / न शब्दो नाम निर्वाणम् इति समनुपश्यति /
न श्रोत्रविज्ञानं नाम नित्यम् इति समनुपश्यति / न श्रोत्रविज्ञानं नामानित्यम् इति समनुपश्यति / न श्रोत्रविज्ञानं नाम सुखम् इति समनुपश्यति / न श्रोत्रविज्ञानं नाम दुःखम् इति समनुपश्यति / न श्रोत्रविज्ञानं नामात्मेति समनुपश्यति / न श्रोत्रविज्ञानं नामानात्मेति समनुपश्यति / न श्रोत्रविज्ञानं नाम शान्तम् इति समनुपश्यति / न श्रोत्रविज्ञानं नामाशान्तम् इति समनुपश्यति / न श्रोत्रविज्ञानं नाम शून्यम् इति समनुपश्यति / न श्रोत्रविज्ञानं नामाशून्यम् इति समनुपश्यति / न श्रोत्रविज्ञानं नाम निमित्तम् इति समनुपश्यति / न श्रोत्रविज्ञानं नामानिमित्तम् इति समनुपश्यति / न श्रोत्रविज्ञानं नाम प्रणिहितम् इति समनुपश्यति / न श्रोत्रविज्ञानं नामाप्रणिहितम् इति समनुपश्यति / न श्रोत्रविज्ञानं नाम संस्कृतम् इति समनुपश्यति / न श्रोत्रविज्ञानं नामासंस्कृतम् इति समनुपश्यति / न श्रोत्रविज्ञानं नाम संक्लेशम् इति समनुपश्यति / न श्रोत्रविज्ञानं नाम व्यवदानम् इति समनुपश्यति / न श्रोत्रविज्ञानं नामोत्पाद इति समनुपश्यति / न श्रोत्रविज्ञानं नाम निरोध इति समनुपश्यति / न श्रोत्रविज्ञानं नाम विविक्तम् इति समनुपश्यति / न श्रोत्रविज्ञानं नामाविविक्तम् इति समनुपश्यति / न श्रोत्रविज्ञानं नाम कुशलम् इति समनुपश्यति / न श्रोत्रविज्ञानं नामाकुशलम् इति समनुपश्यति / न श्रोत्रविज्ञान नाम सावद्यम् इति समनुपश्यति / न श्रोत्रविज्ञानं नामानवद्यम् इति समनुपश्यति / न श्रोत्रविज्ञानं नाम साश्रव इति समनुपश्यति / न श्रोत्रविज्ञानं नामानाश्रव इति समनुपश्यति / न श्रोत्रविज्ञानं नाम संक्लेश इति समनुपश्यति / न श्रोत्रविज्ञानं नाम निःक्लेश इति समनुपश्यति / न श्रोत्रविज्ञानं नाम लौकिकम् इति समनुपश्यति / न श्रोत्रविज्ञानं नाम लोकोत्तरम् इति समनुपश्यति / न श्रोत्रविज्ञानं नाम संसार इति समनुपश्यति / न श्रोत्रविज्ञानं नाम निर्वाणम् इति समनुपश्यति /
न श्रोत्रसंस्पर्शो नाम नित्य इति समनुपश्यति / न श्रोत्रसंस्पर्शो नामानित्य इति समनुपश्यति / न श्रोत्रसंस्पर्शो नाम सुख इति समनुपश्यति / न श्रोत्रसंस्पर्शो नाम दुःख इति समनुपश्यति / न श्रोत्रसंस्पर्शो नामात्मेति समनुपश्यति / न श्रोत्रसंस्पर्शो नामानात्मेति समनुपश्यति / न श्रोत्रसंस्पर्शो नाम शून्य इति समनुपश्यति / न श्रोत्रसंस्पर्शो नामाशून्य इति समनुपश्यति / न श्रोत्रसंस्पर्शो नाम निमित्तम् इति समनुपश्यति / न श्रोत्रसंस्पर्शो नामानिमित्तम् इति समनुपश्यति / न श्रोत्रसंस्पर्शो नाम प्रणिहित इति समनुपश्यति / न श्रोत्रसंस्पर्शो नामाप्रणिहित इति समनुपश्यति / न श्रोत्रसंस्पर्शो नाम संस्कृत इति समनुपश्यति / न श्रोत्रसंस्पर्शो नामासंस्कृत इति समनुपश्यति / न श्रोत्रसंस्पर्शो नाम संक्लेश इति समनुपश्यति / न श्रोत्रसंस्पर्शो नाम व्यवदानम् इति समनुपश्यति / न श्रोत्रसंस्पर्शो नामोत्पाद इति समनुपश्यति / न श्रोत्रसंस्पर्शो नाम निरोध इति समनुपश्यति / न श्रोत्रसंस्पर्शो नाम विविक्त इति समनुपश्यति / न श्रोत्रसंस्पर्शो नामाविविक्त इति समनुपश्यति / न श्रोत्रसंस्पर्शो नाम कुशल इति समनुपश्यति / न श्रोत्रसंस्पर्शो नामाकुशल इति समनुपश्यति / न श्रोत्रसंस्पर्शो नाम सावद्य इति समनुपश्यति / न श्रोत्रसंस्पर्शो नामानवद्य इति समनुपश्यति / न श्रोत्रसंस्पर्शो नाम साश्रव इति समनुपश्यति / न श्रोत्रसंस्पर्शो नामानाश्रव इति समनुपश्यति / न श्रोत्रसंस्पर्शो नाम संक्लेश इति समनुपश्यति / न श्रोत्रसंस्पर्शो नाम निःक्लेश इति समनुपश्यति / न श्रोत्रसंस्पर्शो नाम लौकिक इति समनुपश्यति / न श्रोत्रसंस्पर्शो नाम लोकोत्तर इति समनुपश्यति / न श्रोत्रसंस्पर्शो नाम संसार इति समनुपश्यति / न श्रोत्रसंस्पर्शो नाम निर्वाणम् इति समनुपश्यति /
यद् अपि तच् छ्रोत्रशब्दश्रोत्रविज्ञानश्रोत्रसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं दुःखं वा अदुःखासुखं वा तद् अपि नाम न नित्यम् इति समनुपश्यति / नानित्यम् इति समनुपश्यति / न सुखम् इति समनुपश्यति / न दुःखम् इति समनुपश्यति / नात्मेति समनुपश्यति / नानात्मेति समनुपश्यति / न शान्तम् इति समनुपश्यति / नाशान्तम् इति समनुपश्यति / न शून्यम् इति समनुपश्यति / नाशून्यम् इति समनुपश्यति / न निमित्तम् इति समनुपश्यपति / नानिमित्तम् इति समनुपश्यति / न प्रणिहितम् इति समनुपश्यति / नाप्रणिहितम् इति समनुपश्यति / न संस्कृतम् इति समनुपश्यति / नासंस्कृतम् इति समनुपश्यति / न संक्लेशम् इति समनुपश्यति / न व्यवदानम् इति समनुपश्यति / नोत्पाद इति समनुपश्यति / न निरोध इति समनुपश्यति / न विविक्तम् इति समनुपश्यति / नाविविक्तम् इति समनुपश्यति / न कुशलम् इति समनुपश्यति / नाकुशलम् इति समनुपश्यति / न सावद्यम् इति समनुपश्यति / नानवद्यम् इति समनुपश्यति / न साश्रावम् इति समनुपश्यति / नानाश्रवम् इति समनुपश्यति / न संक्लेश इति समनुपश्यति / न निःक्लेश इति समनुपश्यति / न लौकिकम् इति समनुपश्यति / न लोकोत्तरम् इति समनुपश्यति / न संसार इति समनुपश्यति / न निर्वाणम् इति समनुपश्यति /
न घ्राणं नाम नित्यम् इति समनुपश्यति / न घ्राणं नामानित्यम् इति समनुपश्मति / न घ्राणं नाम सुखम् इति समनुपश्यति / न घ्राणं नाम दुःखम् इति समनुपश्यति / न घ्राणं नामात्मेति समनुपश्यति / न घ्राणं नामानात्मेति समनुपश्यति / न घ्राणं नाम शून्यम् इति समनुपश्यति / न घ्राणं नामाशून्यम् इति समनुपश्यति / न घ्राणं नाम निमित्तम् इति समनुपश्यति / न घ्राणं नामानिमित्तम् इति समनुपश्यति / न घ्राणं नाम प्रणिहितम् इति समनुपश्यति / न घ्राणं नामाप्रणिहितम् इति समनुपश्यति / न घ्राणं नाम संस्कृतम् इति समनुपश्यति / न घ्राणं नामासंस्कृतम् इति समनुपश्यति / न घ्राणं नाम संक्लेश इति समनुपश्यति / न घ्राणं नाम व्यवदानम् इति समनुपश्यति / न घ्राणं नामोत्पाद इति समनुपश्यति / न घ्राणं नाम निरोध इति समनुपश्यति / न घ्राणं नाम विविक्तम् इति समनुपश्यति / न घ्राणं नामाविविक्तम् इति समनुपश्यति / न घ्राणं नाम कुशलम् इति समनुपश्यति / न घ्राणं नामाकुशलम् इति समनुपश्यति / न घ्राणं नाम सावद्यम् इति समनुपश्यति / न घ्राणं नामानवद्यम् इति समनुपश्यति / न घ्राण नाम साश्रवम् इति समनुपश्यति / न घ्राणं नामानाश्रवम् इति समनुपश्यति / न घ्राणं नाम संक्लेश इति समनुपश्यति / न घ्राणं नाम निःक्लेश इति समनुपश्यति / न घ्राणं नाम लौकिकम् इति समनुपश्यति / न घ्राणं नाम लोकोत्तरम् इति समनुपश्यति / न घ्राणं नाम संसार इति समनुपश्यति / न घ्राणं नाम निर्वाणम् इति समनुपश्यति /
न गन्धो नाम नित्य इति समनुपश्यति / न गन्धो नामानित्यम् इति समनुपश्यति / न गन्धो नाम सुखम् इति समनुपश्यति / न गन्धो नाम दुःखम् इति समनुपश्यति / न गन्धो नामात्मेति समनुपश्यति / न गन्धो नामानात्मेति समनुपश्यति / न गन्धो नाम शान्त इति समनुपश्यति / न गन्धो नामाशान्त इति समनुपश्यति / न गन्धो नाम शून्य इति समनुपश्यति / न गन्धो नामाशून्य इति समनुपश्यति / न गन्धो नाम निमित्त इति समनुपश्यति / न गन्धो नामानिमित्त इति समनुपश्यति / न गन्धो नाम प्रणिहितम् इति समनुपश्यति / न गन्धो नामाप्रणिहितम् इति समनुपश्यति / न गन्धो नाम संस्कृतम् इति समनुपश्यति / न गन्धो नामासंस्कृतम् इति समनुपश्यति / न गन्धो नाम संक्लेश इति समनुपश्यति / न गन्धो नाम व्यवदानम् इति समनुपश्यति / न गन्धो नामोत्पाद इति समनुपश्यति / न गन्धो नाम निरोध इति समनुपश्यति / न गन्धो नाम विविक्त इति समनुपश्यति / न गन्धो नामाविविक्त इति समनुपश्यति / न गन्धो नाम कुशलम् इति समनुपश्यति / न गन्धो नामाकुशलम् इति समनुपश्यति / न गन्धो नाम सावद्यम् इति समनुपश्यति / न गन्धो नामानवद्यम् इति समनुपश्यति / न गन्धो नाम साश्रव इति समनुपश्यति / न गन्धो नामानाश्रव इति समनुपश्यति / न गन्धो नाम संक्लेश इति समनुपश्यति / न गन्धो नाम निःक्लेश इति समनुपश्यति / न गन्धो नाम लौकिक इति समनुपश्यति / न गन्धो नाम लोकोत्तर इति समनुपश्यति / न गन्धो नाम संसार इति समनुपश्यति / न गन्धो नाम निर्वाणम् इति समनुपश्यति /
न घ्राणविज्ञानं नित्यम् इति समनुपश्यति / न घ्राणविज्ञानम् अनित्यम् इति समनुपश्यति / न घ्राणविज्ञानं नाम सुखम् इति समनुपश्यति / न घ्राणविज्ञानं नाम दुःखम् इति समनुपश्यति / न घ्राणविज्ञानं नामात्मेति समनुपश्यति / न घ्राणविज्ञानं नामानात्मेति समनुपश्यति / न घ्राणविज्ञानं नाम शान्तम् इति समनुपश्यति / न घ्राणविज्ञानं नामाशान्तम् इति समनुपश्यति / न घ्राणविज्ञानं नाम शून्यम् इति समनुपश्यति / न घ्राणविज्ञानं नामाशून्यम् इति समनुपश्यति / न घ्राणविज्ञानं नाम निमित्तम् इति समनुपश्यति / न घ्राणविज्ञानं नामानिमित्तम् इति समनुपश्यति / न घ्राणविज्ञानं नाम प्रणिहितम् इति समनुपश्यति / न घ्राणविज्ञानं नामाप्रणिहितम् इति समनुपश्यति / न घ्राणविज्ञानं नाम संस्कृतम् इति समनुपश्यति / न घ्राणविज्ञानं नामासंस्कृतम् इति समनुपश्यति / न घ्राणविज्ञानं नाम संक्लेशम् इति समनुपश्यति / न घ्राणविज्ञानं नाम व्यवदानम् इति समनुपश्यति / न घ्राणविज्ञानं नामोत्पाद इति समनुपश्यति / न घ्राणविज्ञानं नाम निरोध इति समनुपश्यति / न घ्राणविज्ञानं नाम विविक्तम् इति समनुपश्यति / न घ्राणविज्ञानं नामाविविक्तम् इति समनुपश्यति / न घ्राणविज्ञानं नाम कुशलम् इति समनुपश्यति / न घ्राणविज्ञानं नामाकुशलम् इति समनुपश्यति / न घ्राणविज्ञानं नाम सावद्यम् इति समनुपश्यति / न घ्राणविज्ञानं नामानवद्यम् इति समनुपश्यति / न घ्राणविज्ञानं नाम साश्रवम् इति समनुपश्यति / न घ्राणविज्ञानं नामानाश्रवम् इति समनुपश्यति / न घ्राणविज्ञानं नाम संक्लेश इति समनुपश्यति / न घ्राणविज्ञानं नाम निःक्लेश इति समनुपश्यति / न घ्राणविज्ञानं नाम लौकिकम् इति समनुपश्यति / न घ्राणविज्ञानं नाम लोकोत्तरम् इति समनुपश्यति / न घ्राणविज्ञानं नाम संसार इति समनुपश्यति / न घ्राणविज्ञानं नाम निर्वाणम् इति समनुपश्यति /
न घ्राणसंस्पर्शो नाम नित्य इति समनुपश्यति / न घ्राणसंस्पर्शो नामानित्य इति समनुपश्यति / न घ्राणसंस्पर्शो नाम सुखम् इति समनुपश्यति / न घ्राणसंस्पर्शो नाम दुःखम् इति समनुपश्यति / न घ्राणसंस्पर्शो नामात्मेति समनुपश्यति / न घ्राणसंस्पर्शो नामानात्मेति समनुपश्यति / न घ्राणसंस्पर्शो नाम शान्त इति समनुपश्यति / न घ्राणसंस्पर्शो नामाशान्त इति समनुपश्यति / न घ्राणसंस्पर्शो नाम शून्य इति समनुपश्यति / न घ्राणसंस्पर्शो नामाशून्य इति समनुपश्यति / न घ्राणसंस्पर्शो नाम निमित्त इति समनुपश्यति / न घ्राणसंस्पर्शो नामानिमित्त इति समनुपश्यति / न घ्राणसंस्पर्शो नाम प्रणिहित इति समनुपश्यति / न घ्राणसंस्पर्शो नामाप्रणिहित इति समनुपश्यति / न घ्राणसंस्पर्शो नाम संस्कृत इति समनुपश्यति / न घ्राणसंस्पर्शो नामासंस्कृत इति समनुपश्यति / न घ्राणसंस्पर्शो नाम संक्लेश इति समनुपश्यति / न घ्राणसंस्पर्शो नाम व्यवदानम् इति समनुपश्यति / न घ्राणसंस्पर्शो नामोत्पाद इति समनुपश्यति / न घ्राणसंस्पर्शो नाम निरोध इति समनुपश्यति / न घ्राणसंस्पर्शो नाम विविक्त इति समनुपश्यति / न घ्राणसंस्पर्शो नामाविविक्त इति समनुपश्यति / न घ्राणसंस्पर्शो नाम कुशल इति समनुपश्यति / न घ्राणसंस्पर्शो नामाकुशल इति समनुपश्यति / न घ्राणसंस्पर्शो नाम सावद्य इति समनुपश्यति / न घ्राणसंस्पर्शो नामानवद्य इति समनुपश्यति / न घ्राणसंस्पर्शो नाम साश्रव इति समनुपश्यति / न घ्राणसंस्पर्शो नामानाश्रव इति समनुपश्यति / न घ्राणसंपर्शो नाम संक्लेश इति समनुपश्यति / न घ्राणसंस्पर्शो नाम निःक्लेश इति समनुपश्यति / न घ्राणसंस्पर्शो नाम लौकिक इति समनुपश्यति / न घ्राणसंस्पर्शो नाम लोकोत्तर इति समनुपश्यति / न घ्राणसंस्पर्शो नाम संसार इति समनुपश्यति / न घ्राणसंस्पर्शो नाम निर्वाणम् इति समनुपश्यति /
यद् अपि तद्घ्राणगन्धघ्राणविज्ञानघ्राणसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाम न नित्यम् इति समनुपश्यति / नानित्यम् इति समनुपश्यति / न सुखम् इति समनुपश्यति / न दुःखम् इति समनुपश्यति / नात्मेति समनुपश्यति / नानात्मेति समनुपश्यति / न शान्त इति समनुपश्यति / नाशान्त इति समनुपश्यति / न शून्य इति समनुपश्यति / नाशून्य इति समनुपश्यति / न निमित्त इति समनुपश्यति / नानिमित्त इति समनुपश्यति / न प्रणिहित इति समनुपश्यति / नाप्रणिहित इति समनुपश्यति / न संस्कृत इति समनुपश्यति / नासंस्कृत समनुपश्यति / न संक्लेश इति समनुश्यति / न व्यवदानम् इति समनुपश्यति / नोत्पाद इति समनुपश्यति / न निरोध इति समनुपश्यति / न विविक्त इति समनुपश्यति / नाविविक्त इति समनुपश्यति / न कुशल इति समनुपश्यति / नाकुशल इति समनुपश्यति / न सावद्य इति समनुपश्यति / नानवद्य इति समनुपश्यति / न साश्रव इति समनुपश्यति / नानाश्रव इति समनुपश्यति / न संक्लेश इति समनुपश्यति / न निःक्लेश इति समनुपश्यति / न लौकिक इति समनुपश्यति / न लोकोत्तर इति समनुपश्यति / न संसार इति समनुपश्यति / न निर्वाणम् इति समनुपश्यति /
न जिह्वां नाम नित्येति समनुपश्यति / न जिह्वां नामानित्येति समनुपश्यति / न जिह्वां नाम सुखेति समनुपश्यति / न जिह्वां नाम दुःखेति समनुपश्यति / न जिह्वां नामात्मेति समनुपश्यति / न जिह्वां नामानात्मेति समनुपश्यति / न जिह्वां नाम शान्तेति समनुपश्यति / न जिह्वा नामाशन्तेति समनुपश्यति / न जिह्वां नाम शून्येति समनुपश्यति / न जिह्वां नामाशून्येति समनुपश्यति / न जिह्वां नाम निमित्तेति समनुपश्यति / न जिह्वां नामानिमित्तेति समनुपश्यति / न जिह्वां नाम प्रणिहितेति समनुपश्यति / न जिह्वां नामाप्रणिहितेति समनुपश्यति / न जिह्वां नाम संस्कृतेति समनुपश्यति / न जिह्वां नामासंस्कृतेति समनुपश्यति / न जिह्वां नाम संक्लेश इति समनुपश्यति / न जिह्वां नाम व्यवदानेति समनुपश्यति / न जिह्वां नामोत्पाद इति समनुपश्यति / न जिह्वां नाम निरोध इति समनुपश्यति / न जिह्वां नाम विविक्तेति समनुपश्यति / न जिह्वां नामाविविक्तेति समनुपश्यति / न जिह्वां नाम कुशलेति समनुपश्यति / न जिह्वां नामाकुशलेति समनुपश्यति / न जिह्वां नाम सावद्येति समनुपश्यति / न जिह्वां नामानवद्येति समनुपश्यति / न जिह्वां नामसाश्रवेति समनुपश्यति / न जिह्वां नामानाश्रवेति समनुपश्यति / न जिह्वा नाम संक्लेश इति समनुपश्यति / न जिह्वां नाम निःक्लेश इति समनुपश्यति / न जिह्वा नाम लौकिकेति समनुपश्यति / न जिह्वां नाम लोकोत्तरेति समनुपश्यति / न जिह्वां नाम संसार इति समनुपश्यति / न जिह्वां नाम निर्वाणम् इति समनुपश्यति /
न रसो नाम नित्य इति समनुपश्यति / न रसो नामानित्य इति समनुपश्यति / न रसो नाम सुख इति समनुपश्यति / न रसो नाम दुःख इति समनुपश्यति / न रसो नामात्मेति समनुपश्यति / न रसो नामानात्मेति समनुपश्यति / न रसो नाम शान्त इति समनुपश्यति / न रसो नामाशान्त इति समनुपश्यति / न रसो नाम शून्य इति समनुपश्यति / न रसो नामाशून्य इति समनुपश्यति / न रसो नाम निमित्त इति समनुपश्यति / न रसो नामानिमित्त इति समनुपश्यति / न रसो नाम प्रणिहित इति समनुपश्यति / न रसो नामाप्रणिहित इति समनुपश्यति / न रसो नाम संस्कृत इति समनुपश्यति / न रसो नामासंस्कृत इति समनुपश्यति / न रसो नाम संक्लेश इति समनुपश्यति / न रसो नाम व्यवदान इति समनुपश्यति / न रसो नामोत्पाद इति समनुपश्यति / न रसो नाम निरोध इति समनुपश्यति / न रसो नाम विविक्त इति समनुपश्यति / न रसो नामाविविक्त इति समनुपश्यति / न रसो नाम कुशल इति समनुपश्यति / न रसो नामाकुशल इति समनुपश्यति / न रसो नाम सावद्य इति समनुपश्यति / न रसो नामानवद्य इति समनुपश्यति / न रसो नाम साश्रव इति समनुपश्यति / न रसो नामानाश्रव इति समनुपश्यति / न रसो नाम संक्लेश इति समनुपश्यति / न रसो नाम निःक्लेश इति समनुपश्यति / न रसो नाम लौकिक इति समनुपश्यति / न रसो नाम लोकोत्तर इति समनुपश्यति / न रसो नाम संसार इति समनुपश्यति / न रसो नाम निर्वाणम् इति समनुपश्यति /
न जिह्वाविज्ञानं नाम नित्यम् इति समनुपश्यति / न जिह्वाविज्ञानं नामानित्यम् इति समनुपश्यति / न जिह्वाविज्ञानं नाम सुखम् इति समनुपश्यति / न जिह्वाविज्ञानं नाम दुःखम् इति समनुपश्यति / न जिह्वाविज्ञानं नामात्मेति समनुपश्यति / न जिह्वाविज्ञानं नामानात्मेति समनुपश्यति / न जिह्वाविज्ञानं नाम शान्तम् इति समनुपश्यति / न जिह्वाविज्ञानं नामाशान्तम् इति समनुपश्यति / न जिह्वाविज्ञानं नाम शून्यम् इति समनुपश्यति / न जिह्वाविज्ञानं नामाशून्यम् इति समनुपश्यति / न जिह्वाविज्ञानं नाम निमित्तम् इति समनुपश्यति / न जिह्वाविज्ञानं नामानिमित्तम् इति समनुपश्यति / न जिह्वाविज्ञानं नाम प्रणिहितम् इति समनुपश्यति / न जिह्वाविज्ञानं नामाप्रणिहितम् इति समनुपश्यति / न जिह्वाविज्ञानं नाम संस्कृतम् इति समनुपश्यति / न जिह्वाविज्ञानं नामासंस्कृतम् इति समनुपश्यति / न जिह्वाविज्ञानं नाम संक्लेश इति समनुपश्यति / न जिह्वाविज्ञानं नाम व्यवदानम् इति समनुपश्यति / न जिह्वाविज्ञानं नामोत्पाद इति समनुपश्यति / न जिह्वाविज्ञानं नाम निरोध इति समनुपश्यति / न जिह्वाविज्ञानं नाम विविक्तम् इति समनुपश्यति / न जिह्वाविज्ञानं नामाविविक्तम् इति समनुपश्यति / न जिह्वाविज्ञानं नाम कुशलम् इति समनुपश्यति / न जिह्वाविज्ञानं नामाकुशलम् इति समनुपश्यति / न जिह्वाविज्ञानं नाम सावद्यम् इति समनुपश्यति / न जिह्वाविज्ञानं नामानवद्यम् इति समनुपश्यति / न जिह्वाविज्ञानं नाम साश्रवम् इति समनुपश्यति / न जिह्वाविज्ञानं नामानाश्रवम् इति समनुपश्यति / न जिह्वाविज्ञानं नाम संक्लेश इति समनुपश्यति / न जिह्वाविज्ञानं नाम निःक्लेश इति समनुपश्यति / न जिह्वाविज्ञानं नाम लौकिकम् इति समनुपश्यति / न जिह्वाविज्ञानं नाम लोकोत्तर इति समनुपश्यति / न जिह्वाविज्ञनं नाम संसार इति समनुपश्यति / न जिह्वाविज्ञानं नाम निर्वाणम् इति समनुपश्यति /
न जिह्वासंस्पर्शो नाम नित्य इति समनुपश्यति / न जिह्वासंस्पर्शो नामानित्य इति समनुपश्यति / न जिह्वासंस्पर्शो नाम सुख इति समनुपश्यति / न जिह्वासंस्पर्शो नाम दुःख इति समनुपश्यति / न जिह्वासंस्पर्शो नामात्मेति समनुपश्यति / न जिह्वासंस्पर्शो नामानात्मेति समनुपश्यति / न जिह्वासंस्पर्शो नाम शान्त इति समनुपश्यति / न जिह्वासंस्पर्शो नामाशान्त इति समनुपश्यति / न जिह्वासंस्पर्शो नाम शून्य इति समनुपश्यति / न जिह्वासंस्पर्शो नामाशून्य इति समनुपश्यति / न जिह्वासंस्पर्शो नाम निमित्त इति समनुपश्यति / न जिह्वासंस्पर्शो नामानिमित्त इति समनुपश्यति / न जिह्वासंस्पर्शो नाम प्रणिहित इति समनुपशसति / न जिह्वासंस्पर्शो नामाप्रणिहित इति समनुपश्यति / न जिह्वासंस्पर्शो नाम संस्कृत इति समनुपश्यति / न जिह्वासंस्पर्शो नामासंस्कृत इति समनुपश्यति / न जिह्वासंस्पर्शो नाम संक्लेश इति समनुपश्यति / न जिह्वासंस्पर्शो नाम व्यवदानम् इति समनुपश्यति / न जिह्वासंस्पर्शो नामोत्पाद इति समनुपश्यति / न जिह्वासंस्पर्शो नाम निरोध इति समनुपश्यति / न जिह्वासंस्पर्शो नाम विविक्त इति समनुपश्यति / न जिह्वासंस्पर्शो नामाविविक्त इति समनुपश्यति / न जिह्वासंस्पर्शो नाम कुशल इति समनुपश्यति / न जिह्वासंस्पर्शो नामाकुशल इति समनुपश्यति / न जिह्वासंस्पर्शो नाम सावद्य इति समनुपश्यति / न जिह्वासंस्पर्शो नामानवद्य इति समनुपश्यति / न जिह्वासंस्पर्शो नाम साश्रव इति समनुपश्यति / न जिह्वासंस्पर्शो नामानाश्रव इति समनुपश्यति / न जिह्वासंस्पर्शो नाम संक्लेश इति समनुपश्यति / न जिह्वासंस्पर्शो नाम निःक्लेश इति समनुपश्यति / न जिह्वासंस्पर्शो नाम लौकिक इति समनुपश्यति / न जिह्वासंस्पर्शो नाम लोकोत्तर इति समनुपश्यति / न जिह्वासंस्पर्शो नाम संसार इति समनुपश्यति / न जिह्वासंस्पर्शो नाम निर्वाणम् इति समनुपश्यति /
यद् अपि जिह्वारसजिह्वाविज्ञानजिह्वासंस्पर्शाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाम न नित्यम् इति समनुपश्यति / नानित्यम् इति समनुपश्यति / न सुखम् इति समनुपश्यति / न दुःखम् इति समनुपश्यति / नात्मेति समनुपश्यति / नानात्मेति समनुपश्यति / न शान्तम् इति समनुपश्यति / नाशान्तम् इति समनुपश्यति / न शून्यम् इति समनुपश्यति / नाशून्यम् इति समनुपश्यति / न निमित्तम् इति समनुपश्यति / नानिमित्तम् इति समनुपश्यति / न प्रणिहितम् इति समनुपश्यति / नाप्रणिहितम् इति समनुपश्यति / न संस्कृतम् इति समनुपश्यति / नासंस्कृतम् इति समनुपश्यति / न संक्लेशम् इति समनुपश्यति / न व्यवदानाम् इति समनुपश्यति / नोत्पापद इति समनुपश्यति / न निरोध इति समनुपश्यति / न विविक्तम् इति समनुपश्यति / नाविविक्तम् इति समनुपश्यति / न कुशलम् इति समनुपश्यति / नाकुशलम् इति समनुपश्यति / न सावद्यम् इति समनुपश्यति / नानवद्यम् इति समनुपश्यति / न साश्रवम् इति समनुपश्यति / नानाश्रवम् इति समनुपश्यति / न संक्लेशम् इति समनुपश्यति / न निःक्लेशम् इति समनुपश्यति / न लौकिकम् इति समनुपश्यति / न लोकोत्तरम् इति समनुपश्यति / न संसार इति समनुपश्यति / न निर्वाणम् इति समनुपश्यति /
न कायं नाम नित्यम् इति समनुपश्यति / न कायं नामानित्यम् इति समनुपश्यति / न कायं नाम सुखम् इति समनुपश्यति / न कायं नाम दुःखम् इति समनुपश्यति / न कायं नामात्मेति समनुपश्यति / न कायं नामानात्मेति समनुपश्यति / न कायं नाम शान्तम् इति समनुपश्यति / न कायं नामाशान्तम् इति समनुपश्यति / न कायं नाम शून्यम् इति समनुपश्यति / न कायं नामाशून्यम् इति समनुपश्यति / न कायं नाम निमित्तम् इति समनुपश्यति / न कार्यं नामानिमित्तम् इति समनुपश्यति / न कायं नाम प्रणिहितम् इति समनुपश्यति / न कायं नामाप्रणिहितम् इति समनुपश्यति / न कायं नाम संस्कृतम् इति समनुपश्यति / न कायं नामासंस्कृतम् इति समनुपश्यति / न कायं नाम संक्लेशम् इति समनुपश्यति / न कायं नाम व्यवदानम् इति समनुपश्यति / न कायं नामोत्पाद समनुपश्यति / न कायं नाम निरोध इति समनुपश्यति / न कायं नाम विविक्तम् इति समनुपश्यति / न कायं नामाविविक्तम् इति समनुपश्यति / न कायं नाम कुशलम् इति समनुपश्यति / न कायं नामाकुशलम् इति समनुपश्यति / न कायं नाम सावद्यम् इति समनुपश्यति / न कायं नामानवद्यम् इति समनुपश्यति / न कायं नाम साश्रवम् इति समनुपश्यति / न कायं नामानाश्रवम् इति समनुपश्यति / न कायं नाम संक्लेशम् इति समनुपश्यति / न कायं नाम निःक्लेशम् इति समनुपश्यति / न कायं नाम लौकिकम् इति समनुपश्यति / न कायं नाम लोकोत्तरम् इति समनुपश्यति / न कायं नाम संसार इति समनुपश्यति / न कायं नाम निर्वाणम् इति समनुपश्यति /
न स्प्रष्टव्यं नाम नित्यम् इति समनुपश्यति / न स्प्रष्टव्यं नामानित्यम् इति समनुपश्यति / न स्प्रष्टव्यं नाम सुखम् इति समनुपश्यति / न स्प्रष्टव्यं नाम दुःखम् इति समनुपश्यति / न स्प्रष्टव्यं नामात्मेति समनुपश्यति / न स्प्रष्टव्यं नामानात्मेति समनुपश्यति / न स्प्रष्टव्यं नाम शान्तम् इति समनुपश्यति / न स्प्रष्टव्यं नामाशान्तम् इति समनुपश्यति / न स्प्रष्टव्यं नाम शून्यम् इति समनुपश्यति / न स्प्रष्टव्यं नामाशून्यम् इति समनुपश्यति / न स्प्रष्टव्यं नाम निमित्तम् इति समनुपश्यति / न स्प्रष्टव्यं नामानिमित्तम् इति समनुपश्यति / न स्प्रष्टव्यं नाम प्रणिहितम् इति समनुपश्यति / न स्प्रष्टव्यं नामाप्रणिहितम् इति समनुपश्यति / न स्प्रष्टव्यं नाम संस्कृतम् इति समनुपश्यति / न स्प्रष्टवं नामासंस्कृतम् इति समनुपश्यति / न स्प्रष्टव्यं नाम संक्लेशम् इति समनुपश्यति / न स्प्रष्टव्यं नाम व्यवदानम् इति समनुपश्यति / न स्प्रष्टव्यं नामोत्पाद इति समनुपश्यति / न स्प्रष्टव्यं नाम निरोध इति समनुपश्यति / न स्प्रष्टव्यं नाम विविक्तम् इति समनुपश्यति / न स्प्रष्टव्यं नामाविविक्तम् इति समनुपश्यति / न स्प्रष्टव्यं नाम कुशलम् इति समनुपश्यति / न स्प्रष्टव्यं नामाकुशलम् इति समनुपश्यति / न स्प्रष्टव्यं नाम सावद्यम् इति समनुपश्यति / न स्प्रष्टव्यं नामानवद्यम् इति समनुपश्यति / न स्प्रष्टव्यं नाम साश्रवम् इति समनुपश्यति / न स्प्रष्टव्यं नामानाश्रवम् इति समनुपश्यति / न स्प्रष्टव्यं नाम संक्लेश इति समनुपश्यति / न स्प्रष्टव्यं नाम निःक्लेश इति समनुपश्यति / न स्प्रष्टव्यं नाम लौकिकम् इति समनुपश्यति / न स्प्रष्टव्यं नाम लोकोत्तरम् इति समनुपश्यति / न स्प्रष्टव्यं नाम संसार इति समनुपश्यति / न स्प्रष्टव्यं नाम निर्वाणम् इति समनुपश्यति /
न कायविज्ञानं नाम नित्यम् इति समनुपश्यति / न कायविज्ञानं नामानित्यम् इति समनुपश्यति / न कायविज्ञानं नाम सुखम् इति समनुपश्यति / न कायविज्ञानं नाम दुःखम् इति समनुपश्यति / न कायविज्ञानं नामात्मेति समनुपश्यति / न कायविज्ञानं नामानात्मेति समनुपश्यति / न कायविज्ञानं नाम शान्तम् इति समनुपश्यति / न कायविज्ञानं नामाशान्तम् इति समनुपश्यति / न कायविज्ञानं नाम शून्यम् इति समनुपश्यति / न कायविज्ञानं नामाशून्यम् इति समनुपश्यति / न कायविज्ञानं नाम निमित्तम् इति समनुपश्यति / न कायविज्ञानं नामानिमित्तम् इति समनुपश्यति / न कायविज्ञानं नाम प्रणिहितम् इति समनुपश्यति / न कायविज्ञानं नामाप्रणिहितम् इति समनुपश्यति / न कायविज्ञानं नाम संस्कृतम् इति समनुपश्यति / न कायविज्ञानं नामासंस्कृतम् इति समनुपश्यति / न कायविज्ञानं नाम संक्लेशम् इति समनुपश्यति / न कायविज्ञानं नाम व्यवदानम् इति समनुपश्यति / न कायविज्ञानं नामोत्पाद इति समनुपश्यति / न कायविज्ञानं नाम विविक्तम् इति समनुपश्यति / न कायविज्ञानं नामाविविक्तम् इति समनुपश्यति / न कायविज्ञानं नाम कुशलम् इति समनुपश्यति / न कायविज्ञानं नामाकुशलम् इति समनुपश्यति / न कायविज्ञानं नाम सावद्यम् इति समनुपश्यति / न कायविज्ञानं नामानवद्यम् इति समनुपश्यति / न कायविज्ञानं नाम साश्रवम् इति समनुपश्यति / न कायविज्ञानं नामानाश्रवम् इति समनुपश्यति / न कायविज्ञानं नाम संक्लेशम् इति समनुपश्यति / न कायविज्ञानं नाम निःक्लेशम् इति समनुपश्यति / न कायविज्ञानं नाम लौकिकम् इति समनुपश्यति / न कायविज्ञानं नाम लोकोत्तरम् इति समनुपश्यति / न कायविज्ञानं नाम संसार इति समनुपश्यति / न कायविज्ञानं नाम निर्वाणम् इति समनुपश्यति /
न कायसंस्पर्शं नाम नित्यम् इति समनुपश्यति / न कायसंस्पर्शं नामानित्यम् इति समनुपश्यति / न कायसंस्पर्शं नाम सुखम् इति समनुपश्यति / न कायसंस्पर्शं नाम दुःखम् इति समनुपश्यति / न कायसंस्पर्शं नामात्मेति समनुपश्यति / न कायसंस्पर्शं नामानात्मेति समनुपश्यति / न कायसंस्पर्शं नाम शान्तम् इति समनुपश्यति / न कायसंस्पर्शं नामाशान्तम् इति समनुपश्यति / न कायसंस्पर्शं नाम शून्यम् इति समनुपश्यति / न कायसंस्पर्शं नामाशून्यम् इति समनुपश्यति / न कायसंस्पर्शं नाम निमित्तम् इति समनुपश्यति / न कायसंस्पर्शं नामानिमित्तम् इति समनुपश्यति / न कायसंस्पर्शं नाम प्रणिहितम् इति समनुपश्यति / न कायसंस्पर्शं नामाप्रणिहितम् इति समनुपश्यति / न कायसंस्पर्शं नाम संस्कृतम् इति समनुपश्यति / न कायसंस्पर्शं नामासंस्कृतम् इति समनुपश्यति / न कायसंस्पर्शं नाम संक्लेशम् इति समनुपश्यति / न कायसंस्पर्शं नाम व्यवदानम् इति समनुपश्यति / न कायसंस्पर्शं नामोत्पाद इति समनुपश्यति / न कायसंस्पर्शं नाम निरोध इति समनुपश्यति / न कायसंस्पर्शं नाम विविक्तम् इति समनुपश्यति / न कायसंस्पर्शं नामाविविक्तम् इति समनुपश्यति / न कायसंस्पर्शं नाम कुशलम् इति समनुपश्यति / न कायसंस्पर्शें नामाकुशलम् इति समनुपश्यति / न कायसंस्पर्शं नाम सावद्यम् इति समनुपश्यति / न कायसंस्पर्शं नामानवद्यम् इति समनुपश्यति / न कायसंस्पर्शं नाम साश्रवम् इति समनुपश्यति / न कायसंस्पर्शं नामानाश्रवम् इति समनुपश्यति / न कायसंस्पर्शं नाम संक्लेशम् इति समनुपश्यति / न कायसंस्पर्शं नाम निःक्लेशम् इति समनुपश्यति / न कायसंस्पर्शं नाम लौकिकम् इति समनुपश्यति / न कायसंस्पर्शं नाम लोकोत्तरम् इति समनुपश्यति / न कायसंस्पर्शं नाम संसार इति समनुपश्यति / न कायसंस्पर्शं नाम निर्वाणम् इति समनुपश्यति /
यद् अपि तत् कायस्प्रष्टव्यकायविज्ञानकायसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं दुःखं वा अदुःखासुखं वा / तद् अपि नाम न नित्यम् इति समनुपश्यति / नानित्यम् इति समनुपश्यति / सुखम् इति न समनुपश्यति / दुःखम् इति न समनुपश्यति / नात्मेति समनुपश्यति / नानात्मेति समनुपश्यति / न शान्तम् इति समनुपश्यति / नाशान्त म् इति समनुपश्यति / न शून्यम् इति समनुपश्यति / नाशून्यम् इति समनुपश्यति / न निमित्तम् इति समनुपश्यति / नानिमित्तम् इति समनुपश्यति / न प्रणिहितम् इति समनुपश्यति / नाप्रणिहितम् इति समनुपश्यति / न संस्कृतम् इति समनुपशाति / नासंस्कृतम् इति समनुपश्यति / न संक्लेश इति समनुपश्यति / न व्यवदानम् इति समनुपश्यति / नोत्पादम् इति समनुपश्यति / न निरोधम् इति समनुपश्यति / न विविक्तम् इति समनुपश्यति / न कुशलम् इति समनुपश्यति / नाकुशलम् इति समनुपश्यति / न सावद्यम् इति समनुपश्यति / नानवद्यम् इति समनुपश्यति / न साश्रवम् इति समनुपश्यति / नानाश्रवम् इति समनुपश्यति / न संक्लेशम् इति समनुपश्यति / न निःक्लेशम् इति समनुपश्यति / न लौकिकम् इति समनुपश्यति / न लोकोत्तरम् इति समनुपश्यति / न संसारम् इति समनुपश्यति / न निर्वाणम् इति समनुपश्यति /
न मनो नाम नित्यम् इति समनुपश्यति / न मनो नामानित्यम् इति समनुपश्यति / न मनो नाम सुखम् इति समनुपश्यति / न मनो नाम दुःखम् इति समनुपश्यति / न ममो नामात्मेति समनुपश्यति / न मनो नामानात्मेति समनुपश्यति / न मनो नाम शान्तम् इति समनुपश्यति / न मनो नामाशान्तम् इति समनुपश्यति / न मनो नाम शून्यम् इति समनुपश्यति / न मनो नामाशून्यम् इति समनुपश्यति / न मनो नाम निमित्तम् इति समनुपश्यति / न मनो नामानिमित्तम् इति समनुपश्यति / न मनो नाम प्रणिहितम् इति समनुपश्यति / न मनो नामाप्रणिहितम् इति समनुपश्यति / न मनो नाम संस्कृतम् इति समनुपश्यति / न मनो नामासंस्कृतम् इति समनुपश्यति / न मनो नाम संक्लेशम् इति समनुपश्यति / न मनो नाम व्यवदानम् इति समनुपश्यति / न मनो नामोत्पाद इति समनुपश्यति / न ममो नाम निरोध इति समनुपश्यति / न मनो नाम विविक्तम् इति समनुपश्यति / न मनो नामाविविक्तम् इति समनुपश्यति / न मनो नाम कुशलम् इति समनुपश्यति / न मनो नामाकुशलम् इति समनुपश्यति / न मनो नाम सावद्यम् इति समनुपश्यति / न मनो नामानवद्यम् इति समनुपश्यति / न मनो नाम साश्रवम् इति समनुपश्यति / न मनो नामानाश्रवम् इति समनुपश्यति / न मनो नाम संक्लेशम् इति समनुपश्यति / न मनो नाम निःक्लेशम् इति समनुपश्यति / न मनो नाम लौकिकम् इति समनुपश्यति / न मनो नाम लोकोत्तरम् इति समनुपश्यति / न मनो नाम संसारम् इति समनुपश्यति / न मनो नाम निर्वाणम् इति समनुपश्यति /
न धर्मान् नाम नित्या इति समनुपश्यति / न धर्मान् नामानित्या इति समनुपश्यति / न धर्मान् नाम सुखा इति समनुपश्यति / न धर्मान् नाम दुःखा इति समनुपश्यति / न धर्मान् नामात्मान इति समनुपश्यति / न धर्मान् नामानात्मान इति समनुपश्यति / न धर्मान् नाम शान्ता इति समनुपश्यति / न धर्मान् नामाशान्ता इति समनुपश्यति / न धर्मान् नाम शून्या इति समनुपश्यति / न धर्मान् नामाशून्या इति समनुपश्मति / न धर्मान् नाम निमित्ता इति समनुपश्यति / न धर्मान् नामानिमित्ता इति समनुपश्यति / न धर्मान् नाम प्रणिहिता इति समनुपश्यति / न धर्मान् नामाप्रणिहिता इति समनुपश्यति / न धर्मान् नाम संस्कृता इति समनुपश्यति / न धर्मान् नामासंस्कृता इति समनुपश्यति / न धर्मान् नाम संक्लेशा इति समनुपश्यति / न धर्मान् नाम व्यवदाना इति समनुपश्यति / न धर्मान् नामोत्पादा इति समनुपश्यति / न धर्मान् नामा निरोधा इति समनुपश्यति / न धर्मान् नाम विविक्ता इति समनुपश्यति / न धर्मान् नामाविविक्ता इति समनुपश्यति / न धर्मान् नाम कुशला इति समनुपश्यति / न धर्मान् नामाकुशला इति समनुपश्यति / न धर्मान् नाम सावद्या इति समनुपश्यति / न धर्मान् नामानवद्या इति समनुपश्यति / न धर्मान् नाम साश्रवा इति समनुपश्यति / न धर्मान् नामानाश्रवा इति समनुपश्यति / न धर्मान् नाम संक्लेशा इति समनुपश्यति / न धर्मान् नाम निःक्लेशा इति समनुपश्यति / न धर्मान् नाम लौकिका इति समनुपश्यति / न धर्मान् नाम लोकोत्तरा इति समनुपश्यति / न धर्मान् नाम संसारा समनुपश्यति / न धर्मान् नाम निर्वाणा इति समनुपश्यति /
न मनोविज्ञानं नाम नित्यम् इति समनुपश्यति / न मनोविज्ञानं नामानित्यम् इति समनुपश्यति / न मनोविज्ञानं नाम सुखम् इति समनुपश्यति / न मनोविज्ञानं नाम दुःखम् इति समनुपश्यति / न मनोविज्ञानं नामात्मेति समनुपश्यति / न मनोविज्ञानं नामानात्मेति समनुपश्यति / न मनोविज्ञानं नाम शान्तम् इति समनुपश्यति / न मनोविज्ञानं नामाशान्तम् इति समनुपश्यति / न मनोविज्ञानं नाम शून्यम् इति समनुपश्यति / न मनोविज्ञानं नामाशून्यम् इति समनुपश्यति / न मनोविज्ञानं नाम निमित्तम् इति समनुपश्यति / न मनोविज्ञानं नामानिमित्तम् इति समनुपश्यति / न मनोविज्ञानं नाम प्रणिहितम् इति समनुपश्यति / न मनोविज्ञानं नामाप्रणिहितम् इति समनुपश्यति / न मनोविज्ञानं नाम संस्कृतम् इति समनुपश्यति / न मनोविज्ञानं नामासंस्कृतम् ति समनुपश्यति / न मनोविज्ञानं नाम संक्लेशम् इति समनुपश्यति / न मनोविज्ञानं नाम व्यवदानम् इति समनुपश्यति / न मनोविज्ञानं नामोत्पादम् इति समनुपश्यति / न मनोविज्ञानं नाम निरोधम् इति समनुपश्यति / न मनोविज्ञानं नाम विविक्तम् इति समनुपश्यति / न मनोविज्ञानं नामाविविक्तम् इति समनुपश्यति / न मनोविज्ञानं नाम कुशलम् इति समनुपश्यति / न मनोविज्ञानं नामाकुशलम् इति समनुपश्यति / न मनोविज्ञानं नाम सावद्यम् इति समनुपश्यति / न मनोविज्ञानं नामानवद्यम् इति समनुपश्यति / न मनोविज्ञानं नाम साश्रवम् इति समनुपश्यति / न मनोविज्ञानं नामानाश्रवम् इति समनुपश्यति / न मनोविज्ञानं नाम संक्लेशम् इति समनुपश्यति / न मनोविज्ञानं नाम निःक्लेशम् इति समनुपश्यति / न मनोविज्ञानं नाम लौकिकम् इति समनुपश्यति / न मनोविज्ञानं नाम लोकोत्तरम् इति समनुपश्यति / न मनोविज्ञानं नाम संसारम् इति समनुपश्यति / न मनोविज्ञानं नाम निर्वाणम् इति समनुपश्यति /
न मनःसंस्पर्शं नाम नित्यम् इति समनुपश्यति / न मनःसंस्पर्शं नामानित्यम् इति समनुपश्यति / न मनःसंस्पर्शं नाम सुखम् इति समनुपश्यति / न मनःसंस्पर्शं नाम दुःखम् इति समनुपश्यति / न मनःसंस्पर्शं नामात्मेति समनुपश्यति / न मनःसंस्पर्शं नामानात्मेति समनुपश्यति / न मनःसंस्पर्शं नाम शान्तम् इति समनुपश्यति / न मनःसंस्पर्शं नामाशान्तम् इति समनुपश्यति / न मनःसंस्पर्शं नाम शून्यम् इति समनुपश्यति / न मनःसंस्पर्शं नामाशून्यम् इति समनुपश्यति / न मनःसंस्पर्शं नाम निमित्तम् इति समनुपश्यति / न मनःसंस्पर्शं नामानिमित्तम् इति समनुपश्यति / न मनःसंस्पर्शं नाम प्रणिहितम् इति समनुपश्यति / न मनःसंस्पर्शं नामाप्रणिहितम् इति समनुपश्यति / न मनःसंस्पर्शं नाम संस्कृतम् इति समनुपश्यति / न मनःसंस्पर्शं नामासंस्कृतम् इति समनुपश्यति / न मनःसंस्पर्शं नाम संक्लेशम् इति समनुपश्यति / न मनःसंस्पर्शं नाम व्यवदानम् इति समनुपश्यति / न मनःसंस्पर्शं नामोत्पाद इति समनुपश्यति / न मनःसंस्पर्शं नाम निरोध इति समनुपश्यति / न मनःसंस्पर्शं नाम विविक्तम् इति समनुपश्यति / न मनःसंस्पर्शं नामाविविक्तम् इति समनुपश्यति / न मनःसंस्पर्शं नाम कुशलम् इति समनुपश्यति / न मनःसंस्पर्शं नामाकुशलम् इति समनुपश्यति / न मनःसंस्पर्शं नाम सावद्यम् इति समनुपश्यति / न मनःसंस्पर्शं नामानवद्यम् इति समनुपश्यति / न मनःसंस्पर्शं नाम साश्रवम् इति समनुपश्यति / न मनःसंस्पर्शं नामानाश्रवम् इति समनुपश्यति / न मनःसंस्पर्शं नाम संक्लेशम् इति समनुपश्यति / न मनःसंस्पर्शं नाम निःक्लेशम् इति समनुपश्यति / न मनःसंस्पर्शं नाम लौकिकम् इति समनुपश्यति / न मनःसंस्पर्शं नाम लोकोत्तरम् इति समनुपश्यति / न मनःसंस्पर्शं नाम संसार इति समनुपश्यति / न मनःसंस्पर्शं नाम निर्वाणम् इति समनुपश्यति /
यद् अपि तन् मनो धर्ममनोविज्ञानमनःसंस्पर्शप्रत्ययाद् उत्पद्यते / वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाम न नित्यम् इति समनुपश्यति / नानित्यम् इति समनुपश्यति / न सुखम् इति समनुपश्यति / न दुःखम् इति समनुपश्यति / नात्मेति समनुपश्यति / नानात्मति समनुपश्यति / न शान्तम् इति समनुपश्यति / नाशान्तम् इति समनुपश्यति / न शून्यम् इति समनुपश्यति नाशून्यम् इति समनुपश्यति / न निमित्तम् इति समनुपश्यति नानिमित्तम् इति समनुपश्यति / न प्रणिहितम् इति समनुपश्यति / नाप्रणिहितम् इति समनुपश्यति / न संस्कृतम् इति समनुपश्यति / नासंस्कृतम् इति समनुपश्यति / न संक्लेशम् इति समनुपश्यति / न व्यवदानम् इति समनुपश्यति / नोत्पादम् इति समनुपश्यति / न निरोध इति समनुपश्यति / न विविक्तम् इति समनुपश्यति / नाविविक्तम् इति समनुपश्यति / न कुशलम् इति समनुपश्यति / नाकुशलम् इति समनुपश्यति / न सावद्यम् इति समनुपश्यति / नानवद्यम् इति समनुपश्यति / न साश्रवम् इति समनुपश्यति / नानाश्रवम् इति समनुपश्यति / न संक्लेश इति समनुपश्यति / न निःक्लेश इति समनुपश्यति / न लौकिकम् इति समनुपश्यति / न लोकोत्तरम् इति समनुपश्यति / न संसारम् इति समनुपश्यति / न निर्वाणम् इति समनुपश्यति /
तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरंस् ताञ् च प्रज्ञापारमितां तञ् च बोधिसत्त्वं तच् च बोधिसत्त्वनाम न संस्कृतधातौ समनुपश्यति / नासंस्कृतधातौ समनुपश्यति / तत् कस्य हेतोस् तथा हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितानाम न समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति / न सम्यक्प्रहाणभावनायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
नर्धिपादभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
नेन्द्रियभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च बोधिसत्त्वं समनुपश्यति / न च बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
अध्यात्मशून्यताभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
बहिर्धाशून्यताभावनताय प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपशूरति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
अध्यात्मबहिर्धाशून्यताभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
शून्यताशून्यताभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
महाशून्यताभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
परमार्थशून्यताभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम पश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
संस्कृतशून्यताभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
अत्यन्तशून्यताभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम पश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
अनवराग्रशून्यताभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
अनवकारशून्यताभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
प्रकृतिशून्यताभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
सर्वधर्मशून्यताभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
स्वलक्षणशून्यताभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
अनुपलम्भशून्यताभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
अभावशून्यताभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
स्वभावशून्यताभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
अभावस्वभावशून्यताभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
स्मृत्युपस्थानभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
आर्यसत्यभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
ध्यानभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
अप्रमाणभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
आरूप्यसमापत्तिभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
अष्टविमोक्षभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
नवानुपूर्वविहारसमापत्तिभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
शून्यताविमोक्षमुखभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
आनिमित्तविमोक्षभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
अप्रणिहितविमोक्षभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
अभिज्ञाभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
समाधिभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / स बुद्धनाम समनुपश्यति /
धारणीमुखभावनतायै प्रज्ञापरमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपसयति /
दशतथागतबलभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
चतुर्वैशारद्यभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
प्रतिसंविद्भावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति /
आवेणिकबुद्धधर्मभावनतायै प्रज्ञापारमितायां चरति / न च प्रज्ञापारमितां समनुपश्यति / न च प्रज्ञापारमितानाम समनुपश्यति / न बोधिसत्त्वं समनुपश्यति / न बोधिसत्त्वनाम समनुपश्यति / न बुद्धं समनुपश्यति / न बुद्धनाम समनुपश्यति / अन्यत्र सर्वाकारज्ञतामनसिकारात् /
तेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्माणां धर्मलक्षणं सुप्रतिविद्धं भवति / यच् च धर्माणां धर्मलक्षणं तन् न संक्लिश्यते न व्यवदायते / एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नामसङ्केतिकी धर्मप्रज्ञप्तिर् अवबोद्धव्या / स नामसङ्केतिकीं धर्माणां प्रज्ञप्तिम् अवबुध्य न रूपम् अभिनिवेक्ष्यते / न वेदनाम् अभिनिवेक्ष्यते / न संस्कारान् अभिनिवेक्ष्यते / न विज्ञानम् अभिनिवेक्ष्यते / न चक्षुर् अभिनिवेक्ष्यते / न रूपम् अभिनिवेक्ष्यते / न चक्षुर्विज्ञानम् अभिनिवेक्ष्यते / न चक्षुःसंस्पर्शम् अभिनिवेक्ष्यते / यद् अपि तच्चक्षुरूपचक्षुर्विज्ञानचक्षुःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते / न श्रोत्रम् अभिनिवेक्ष्यते / न शब्दम् अभिनिवेक्ष्यते / न श्रोत्रविज्ञानम् अभिनिवेक्ष्यते / न श्रोत्रसंस्पर्शम् अभिनिवेक्ष्यते / यद् अपि तच्छ्रोत्रशब्दश्रोत्रविज्ञानश्रोत्रसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते / न घ्राणम् अभिनिवेक्ष्यते / न गन्धान् अभिनिवेक्ष्यते / न घ्राणविज्ञानम् अभिनिवेक्ष्यते / न घ्राणसंस्पर्शम् अभिनिवेक्ष्यते / यद् अपि घ्राणगन्धघ्राणविज्ञानघ्राणसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते / न जिह्वाम् अभिनिवेक्ष्यते / न रसान् अभिनिवेक्ष्यते / न जिह्वाविज्ञानम् अभिनिवेक्ष्यते / न जिह्वासंस्पर्शम् अभिनिवेक्ष्यते /
यद् अपि तज्जिह्वारसजिह्वाविज्ञानजिह्वासंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा असुखादुःखं तद् अपि नाभिनिवेक्ष्यते / न कायम् अभिनिवेक्ष्यते / न स्प्रष्टव्यम् अभिनिवेक्ष्यते / न कायविज्ञानम् अभिनिवेक्ष्यते / न कायसंस्पर्शम् अभिनिवेक्ष्यते / यद् अपि तत्कायस्प्रष्टव्यकायविज्ञानकायसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते / न मनो ऽभिनिवेक्ष्यते / न धर्मान् अभिनिवेक्ष्यते / न मनोविज्ञानम् अभिनिवेक्ष्यते / न मनःसंस्पर्शम् अभिनिवेक्ष्यते / यद् अपि तन्मनोधर्ममनोविज्ञामनःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
