Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता, Part इ
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
बोधिसत्त्वसंगञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यति / येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वो दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति / धर्मञ् च शृणोति / बोधिसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यति / येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति / धर्मञ् च शृणोति / बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यति / येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वो ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति / धर्मञ् च शृणोति / बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यति / येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति / धर्मञ् च शृणोति / बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यति / येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वो न बुद्धसंज्ञाम् उत्पादयति / न संघसंज्ञाम् उत्पादयति / न श्रावकसंज्ञाम् उत्पादयति / न प्रत्येकबुद्धसंज्ञाम् उत्पादयति / न बोधिसत्त्वसंज्ञाम् उत्पादयति / न बुद्धसंज्ञाम् उत्पादयति / (?) नात्मसंज्ञाम् उत्पादयति / न परसंज्ञाम् उत्पादयति / येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वो दानपारमितायां चरति न दानापारमिताम् उपलभते /
शीलपारमितायां चरति न क्षान्तिपारमितायां चरति न क्षान्तिपारमितायाम् उपलभते / वीर्यपारमितायां चरति न वीर्यपारमिताम् उपलभते / ध्यानपारमितायां चरति न ध्यानपारमिताम् उपलभते / प्रज्ञापारमितायां चरति न प्रज्ञापारमिताम् उपलभते / अध्यात्मशून्यतां भावयति नाध्यात्मशून्यताम् उपलभते / बहिर्धाशून्यतां भावयति न बहिर्धाशून्यताम् उपलभते / अध्यात्मबहिर्धाशून्यतां भावयति नाध्यात्मबहिर्धाशून्यताम् उपलभते / शून्यताशून्यतां भावयति न शून्यताशून्यताम् उपलभते / महाशून्यतां भावयति न महाशून्यताम् उपलभते / परमार्थशून्यतां भावयति न परमार्थशून्यताम् उपलभते / संस्कृतशून्यतां भावयति न संस्कृतशून्यताम् उपलभते / असंस्कृतशून्यतां भावयति नासंस्कृतशून्यताम् उपलभते / अत्यन्तशून्यतां भावयति नात्यन्तशून्यताम् उपलभते / अनवराग्रशून्यतां भावयति नानवराग्रशून्यताम् उपलभते / अनवकारशून्यतां भावयति नानवकारशून्यताम् उपलभते / प्रकृतिशून्यतां भावयति न प्रकृतिशून्यताम् उपलभते / सर्वधर्मशून्यतां भावयति न सर्वधर्मशून्यताम् उपलभते / स्वलक्षणशून्यतां भावयति न स्वलक्षणशून्यताम् उपलभते / अनुपलम्भशून्यतां भावयति नानुपलम्भशून्यताम् उपलभते / अभावशून्यतां भावयति नाभावशून्यताम् उपलभते / स्वभावशून्यतां भावयति न स्वभावशून्यताम् उपलभते / अभावस्वभावशून्यतां भावयति नाभावस्वभावशून्यताम् उपलभते / चत्वारि स्मृत्युपस्थानानि भावयति न स्मृत्युपस्थानान्य् उपलभते / चत्वारि सम्यक्प्रहाणानि भावयति न च सम्यक्प्रहाणान्य् उपलभते /
चतुर ऋद्धिपादान् भावयति नर्धिपादान् उपलभते / पञ्चेन्द्रियाणि भावयति न चेन्द्रियाण्य् उपलभते / पञ्चबलानि भावयति न च बलान्य् उपलभते / सप्त बोध्यङ्गानि भावयति न च बोध्यङ्गान्य् उपलभते / आर्याष्टाङ्गमार्गं भावयति नार्याष्टाङ्गमार्गम् उपलभते / आर्यसत्यानि भावयति न चार्यसत्यान्य् उपलभते / ध्यानानि भावयति न च ध्यानान्य् उपलभते / अप्रमाणानि भावयति न चाप्रमाणान्य् उपलभते / आरूप्यसमापत्तीर् भावयति न चारूप्यसमापत्तीर् उपलभते / अष्टौ विमोक्षान् भावयति न चाष्टौ विमोक्षान् उपलभते / नवानुपूर्वविहारसमापत्तीर् भावयति न च नवानुपूर्वविहारसमापत्तीर् उपलभते / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयति न च शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् उपलभते / अभिज्ञां भावयति न चाभिज्ञाम् उपलभते / समाधीन् भावयति न च समाधीन् उपलभते / धारणीमुखानि भावयति न च धारणीमुखान्य् उपलभते / दश तथागतबलानि भावयति न च तथागतबलान्य् उपलभते / चत्वारि वैशारद्यानि भावयति न च वैशारद्यान्य् उपलभते / चतस्रः प्रतिसंविदो भावयति न च प्रतिसंविद उपलभते / महामैत्रीं भावयति न च महामैत्रीम् उपलभते / महाकरुणां भावयति न च महाकरुणाम् उपलभते / अष्टादशावेणिकान् बुद्धधर्मान् भावयति न चाष्टादशावेणिकान् बुद्धधर्मान् उपलभते / श्रोतआपत्तिफलं भावयति न च श्रोतआपत्तिफलम् उपलभते / सकृदागामिफलं भावयति न च सकृदागामिफलम् उपलभते / अनागामिफलं भावयति न चानागामिफलम् उपलभते / अर्हत्वं भावयति न चार्हत्त्वम् उपलभते /
प्रत्येकबोधिं भावयति न च प्रत्येकबोधिम् उपलभते / मार्गाकारज्ञतां भावयति न च मार्गाकारज्ञताम् उपलभते / सर्वाकारज्ञतां भावयति न च सर्वाकारज्ञताम् उपलभते / इदं बोधिसत्त्वस्य महासत्त्वस्य ज्ञानं / येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वबुद्धधर्मांश् च परिपूरयति सर्वबुद्धधर्मांश् च न समनुपश्यति /
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः पञ्च चक्षूंषि प्रतिलभन्ते / परिशोधयन्ति / कतमानि च पञ्च चक्षूंषि यद् उत मांसचक्षुर् दिव्यं चक्षुः प्रज्ञाचक्षुर् धर्मचक्षुर् बुद्धचक्षुः /
आह कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुष्परिशुद्धिः / भगवान् आह / अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो योजनशतं मांसचक्षुषा पश्यति / अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो द्वियोजनशतं मांसचक्षुषा पश्यति / अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वस् त्रीणि योजनशतानि मांसचक्षुषा पश्यति / अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यश् चत्वारि योजनशतानि मांसचक्षुषा पश्यति / अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यः पञ्च योजनशतानि मांसचक्षुषा पश्यति / अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यः षड् योजनशतानि मांसचक्षुषा पश्यति / अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यः सप्त योजनशतानि मांसचक्षुषा पश्यति / अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यो ऽष्टौ योजनशतानि मांसचक्षुषा पश्यति / अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यो नव योजनशतानि मांसचक्षुषा पश्यति / अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यो दश योजनशतानि मांसचक्षुषा पश्यति / अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यो योजनसहस्रं मांसचक्षुषा पश्यति / अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यो जम्बुद्वीपं मांसचक्षुषा पश्यति / अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यो द्वौ द्वीपौ मांसचक्षुषा पश्यति / अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यः साहस्रं लोकधातुं मांसचक्षुषा पश्यति / अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यो द्विसाहस्रं लोकधातुं मांसचक्षुषा पश्यति / अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यस् त्रिसाहस्रं महासहस्रं लोकधातुं मांसचक्षुषा पश्यति / इयं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुःपरिशुद्धिः /
आह / कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य दिव्यचक्षुःपरिक्शुद्धिः / भगवान् आह / यच् छारद्वतीपुत्र चातुर्महाराजकायिकानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यत् त्रायस्त्रिंशानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यद् यामानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यत् तुषितानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यन् निर्माणरतीनां / देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यत् परनिर्मितवशवर्तिनां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यद् ब्रह्मकायिकानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यद् ब्रह्मपुरोहितानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यद् ब्रह्मपार्षद्यानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यन् महाब्रह्मणां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यद् आभानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यत् परीत्ताभानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यद् अप्रमाणाभानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यद् आभास्वराणां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वं प्रजानाति / यच् छुभानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यत् परीत्तशुभानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यद् अप्रमाणशुभानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यच् छुभकृत्स्नानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यद् वृहाणां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यत् परीत्तवृहाणां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यद् अप्रमाणवृहाणां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यत् वृहत्फलानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यद् अवृहाणां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यद् अतपानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यत् सुदृशानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यत् सुदर्शनानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति / यद् अकनिष्ठानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति /
यत् पुनः शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तच् चातुर्महाराजकायिका देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तत् त्रायस्त्रिंशा देवा न जानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् यामा देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तत् तुषिता देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तन् निर्माणरतयो देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तत् परनिर्मितवशवर्तिनो देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् ब्रह्मकायिका देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् ब्रह्मपुरोहिता देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् ब्रह्मपार्षद्या देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तन् महाब्रह्मणो देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् आभा देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तत् परीत्ताभा देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् प्रमाणाभा देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् आभास्वरा देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तच् छुभा देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तत् परीत्तशुभा देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् अप्रमाणशुभा देवा न प्रजानन्ति /
यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तत् शुभकृत्स्ना देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् वृहा देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तत् परीत्तवृहा देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् अप्रमाणवृहा देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् अवृहत्फला देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् अवृहा देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् अतपा देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तत् सुदृशा देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तत् सुदर्शना देवा न प्रजानन्ति / यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् अकनिष्ठा देवा न प्रजानन्ति /
येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वः पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति / येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वो दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति / येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वः पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति / येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वः उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति / येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वः उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति / येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वः पूर्वदक्षिणम्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति / येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वो दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति / येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वः पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति / येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वो ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति / येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वः उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति / इयं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य दिव्यचक्षुःपरिशुद्धिः /
आह / कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञाचक्षुःपरिशुद्धिः / भगवान् आह / येन शारद्वतीपुत्र चक्षुषा समान्वागतो बोधिसत्त्वो महासत्त्वः संस्कृतो ऽसंस्कृतो वा कुशलो वाकुशलो वा सावद्यो वानवद्यो वा संक्लेशो वा निःक्लेशो वा लौकिको वा लोकोत्तरो वा साश्रवो वानाश्रवो वा तद् धर्मं न प्रजानाति / येन प्रज्ञाचक्षुषा न कश्चिद् धर्मो ऽदृष्टो ऽश्रुतो ऽविज्ञातो भवेत् / इयं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञाचक्षुःपरिशुद्धिः /
आह / कतमा बोधिसत्त्वस्य महासत्त्वस्य धर्मचक्षुःपरिशुद्धिः / भगवान् आह / इह शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो धर्मचक्षुषा प्रजानात्य् अयं पुद्गलः श्रद्धानुसारी अयं पुद्गलो धर्मानुसारी अयं पुद्गलः शून्यताविहारी / अस्य पुद्गलस्य शून्यताविमोक्षमुखेन पञ्चेन्द्रियाण्य् उत्पत्स्यन्ते / पञ्चभिर् इन्द्रियैः आनन्तर्यसमाधिं प्रक्ष्यत्य् आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति / विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यन्ति सत्कायदृष्टिं विचिकित्सां शीलव्रतपरामर्शम् / अयम् उच्यते पुद्गलः श्रोतआपन्नः / स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वं करोत्य् अयं पुद्गलः सकृदागामी / स तेनैव मार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणम् आगमिष्यत्य् अयं पुद्गलो ऽनागामी / स तेनैव मार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानौद्धत्यञ् च प्रहास्यत्य् अयं पुद्गलो ऽर्हन् / अयम् आनिमित्तविहारी / अस्य पुद्गलस्य नानिमित्तेन विमोक्षमुखेन पञ्चेन्द्रियाण्य् उत्पत्स्यन्ते / पञ्चभिर् इन्द्रियैर् आनन्तर्यसमाधिं प्रक्ष्यत्य् आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति / विमुक्तिज्ञानम् उत्पादयिष्यति / विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति / सत्कायदृष्टिं विचिकित्सां शीलव्रतपरामर्शम् अयम् उच्यते पुद्गलः श्रोतआपन्नः / स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वं करिष्यत्य् अयं पुद्गलः सकृदागामी / स तेनैव मार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणम् आगमिष्यत्य् अयं पुद्गलो ऽनागामी / स तेनैव मार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानौद्धत्यञ् च प्रहास्यत्य् अयं पुद्गलो ऽर्हन् /
अयम् अप्रणिहितविहारी अस्य पुद्गलस्यान् प्रणितेन विमोक्षमुखेन पञ्चेन्द्रियाण्य् उत्पत्स्यन्ते / पञ्चभिर् इन्द्रियैर् आनन्तर्यसमाधिं प्रक्ष्यन्ति / आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति / विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति / सत्कायदृष्टिं विचिकित्सां शीलव्रतपरामर्शम् अयम् उच्यते पुद्गलः श्रोतआपन्नः / स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वं करिष्यत्य् अयं पुद्गलः सकृदागामी / स तेनैव मार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणम् आगमिष्यत्य् अयं पुद्गलो ऽनागामी / स तेनैव मार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानौद्धत्यञ् च प्रहास्यत्य् अयं पुद्गलो ऽर्हन् / इयं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य धर्मचक्षुःपरिशुद्धिः /
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो जानाति / यत् कञ्चित् समुदयधर्मं सर्वं तं निरोधधर्मेति विदित्वा श्रद्धादीनि पञ्चेन्द्रियाणि प्राप्नोतीयं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य धर्मचक्षुःपरिशुद्धिः /
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो धर्मचक्षुषा जानात्य् अयं प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्वो दानपारमितायां चरति / शीलपारमितायां चरति / क्षान्तिपारमितायां चरति / वीर्यपारमितायां चरति / ध्यानपारमितायां चरति / प्रज्ञापारमितायां चरति / ततः श्रद्धेन्द्रियेण वीर्येन्द्रियेण समन्वागत उपायकौशलेन सञ्चिन्त्यात्मभावं परिग्रहीष्यति / कुशलमूलोपलम्भेन चायं बोधिसत्त्वो महासत्त्वः क्षत्रियमहाशालकुलेषूपपत्स्यन्ते / ब्राह्मणमहाशालकुलेषूपपत्स्यन्ते / गृहपतिमहाशालकुलेषूपपत्स्यन्ते / चातुर्महाराजकायिकेषु देवेषूपपत्स्यन्ते / त्रायस्त्रिंशेषु देवेषूपपत्स्यन्ते / यामेषु देवेषूपपत्स्यन्ते / तुषितेषु देवेषूपपत्स्यन्ते / निर्माणरतिषु देवेषूपपत्स्यन्ते / परनिर्मितवशवर्तिषु देवेषूपपत्स्यते / स तत्र स्थित्वा सत्त्वान् परिपाचयिष्यति सर्वसुखोपधानेन च तान् प्रत्युपस्थास्यति / बुद्धक्षेत्रञ् च परिशोधयिष्यति / तथागतांश् चार्हतः सम्यक्संबुद्धान् आरागयिष्यति सत्करिष्यति / गुरूकरिष्यति / मानयिष्यति / पूजयिष्यति / न च श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतिष्यति / अयं बोधिसत्त्वो महासत्वो न निवर्तते यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते / इदम् अपि शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं धर्मचक्षुः /
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो जानात्य् अयं बोधिसत्त्वो महासत्त्वो व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ / अयं न व्याकृतः / अयं नियतः / अयम् अनियतः / इमे व्याकरिष्यन्ति / इमे न व्याकरिष्यन्ति / इमे अवैवर्तिकाः इन्द्रियलब्धाः / इमे नावैवर्तिकानेन्द्रियप्रतिलब्धाः / अस्याभिज्ञाः परिपूर्णाः / अस्य न परिपूर्णाः / अयं बोधिसत्त्वो महासत्त्वो ऽभिज्ञाभिः परिपूर्णाभिः पूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयति / पर्युपास्ते / सत्करोति / गुरूकरोति / मानयति / पूजयति / दक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयति / पर्युपास्ते / सत्करोति / गुरूकरोति / मानयति / पूजयति / पश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयति / पर्युपास्ते / सत्करोति / गुरूकरोति / मानयति / पूजयति / उत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयति / पर्युपास्ते / सत्करोति / गुरूकरोति / मानयति / पूजयति / उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयति / पर्युपास्ते / सत्करोति / गुरूकरोति / मानयति / पूजयति / पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयति / पर्युपास्ते / सत्करोति / गुरूकरोति / मानयति / पूजयति / दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयति / पर्युपास्ते /
सत्करोति / गुरूकरोति / मानयति / पूजयति / पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयति / पर्युपास्ते / सत्करोति / गुरूकरोति / मानयति / पूजयति / अधस्ताद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयति / पर्युपास्ते / सत्करोति / मानयति / पूजयति / उपरिष्टाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयति / पर्युपास्ते / सत्करोति / मानयति / पूजयति / अयम् अभिज्ञाः प्रतिलप्स्यन्ते अयं न प्रतिलप्स्यते / अयं क्षान्तिं प्रतिलब्धो ऽयं न क्षान्तिं प्रतिलब्धः / अयम् इन्द्रियप्रतिलब्धो ऽयं नेन्द्रियप्रतिलब्धः / अस्य बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं बुद्धक्षेत्रं भविष्यति / अस्य बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रं न परिशुद्धं भविष्यति / अयं बोधिसत्त्वो महासत्त्वो महाप्रणिधानो ऽयं न महाप्रणिधानः / अनेन सत्त्वाः परिपाचिताः अनेन सत्त्वा न परिपाचिताः / अस्य बोधिसत्त्वस्य महासत्त्वस्य दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते / अस्य न वर्णं भाषन्ते / इमे बोधिसत्त्वा महासत्त्वाः बुद्धानां भगवताम् आसत्त्वस्यायिनो भविष्यन्ति / इमे नासत्त्वस्थायिनः / अस्य बोधिसत्त्वस्य महासत्त्वस्य बोधिप्राप्तस्यायुर् अपरिमितं भविष्यति / अस्य परिमितं / अस्य प्रभाघोषो भिक्षुसंघश् चापरिमितो भविष्यति / अस्य परिमितः / अस्य बोधिसत्त्वस्यानुत्तरां सम्यक्संबुद्धस्य बोधिसत्त्वसंघो भविष्यति / अस्य न भविष्यति / अयं दुष्करं चरिष्यत्य् अयं न चरिष्यति /
अयं चरमभविको ऽयं न चरमभविकः / अयं बोधिमण्डे निषत्स्यति नायं निषत्स्यति / एषां बोधिसत्त्वानां महासत्त्वानां मारा भविष्यन्ति / नैषां भविष्यन्ति / एवं खलु शारद्वतीपुत्र बोधिसत्त्वानां महासत्त्वानां परिशुद्धं धर्मचक्षुः /
आह कतमं पुनर् भगवन् बोधिसत्वस्य महासत्त्वस्य परिशुद्धं बुद्धचक्षुः / भगवान् आह / यच् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो बोधिचित्तानुत्तरं वज्रोपमं समाधिं समापद्य सर्वाकारज्ञताम् अनुप्राप्नोति / दशभिस् तथागतबलैः समन्वागतो भवति / चतुभिर् वैशारद्यैः समन्वागतो भवति / अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः समन्वागतो भवति / महामैत्र्या समन्वागतो भवति / महाकरुणया समन्वागतो भवति / महामुदितया समन्वागतो भवति / महोपेक्षया समन्वागतो भवति / अनावरणेन च बुद्धविमोक्षेण समन्वागतो भवति / तद् अस्य चक्षुर् येन चक्षुषा बोधिसत्त्वेन महासत्त्वेन सर्वाकारं नास्ति किञ्चिद् अदृष्टम् अश्रुतम् अमतम् अविज्ञातं / इदं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य परिशुद्धं बुद्धचक्षुः /
एव शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन पञ्च चक्षूंषि परिशोधयितुकामेन प्रतिलब्धुकामेन च षट्सु पारमितासु योगः करणीयः / तत् कस्य हेतोः / तथा हि / शारद्वतीपुत्र षट्सु पारमितासु सर्वकुशलधर्मा अन्तर्गताः सर्वश्रावकधर्माश् च / सर्वप्रत्येकबुद्धधर्माश् च / ये खलु ते शारद्वतीपुत्र सम्यग् वदन्तो वदेयुः सर्वकुशलधर्मसंग्रह इति प्रज्ञापारमितान् ते सम्यग् वदन्तो वदेयुः / तत् कस्य हेतोः / जनयित्री शारद्वतीपुत्र प्रज्ञापारमितैषां पञ्चानां चक्षुषां / एषु च पञ्चसु चक्षुषु बोधिसत्त्वा महसत्त्वाः शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते / अस्यां शारद्वतीपुत्र प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वो ऽभिज्ञापारमितां प्रतिलभते / सो ऽनेकविधम् ऋद्धिविधिं प्रत्यनुभवति / इमाम् एव पृथिवीं कम्पयत्य् एको ऽपि भूत्वा बहुधा भवति / बहुधापि भूत्वा एको भवति / आविर्भवति तिरोभावम् अपि प्रत्यनुभवति / तिरः कुड्यं तिरः प्राकारं तिरः पर्वतम् अप्य् असंज्ञां कायेन गच्छति / तद्यथापि नामाकाशे पर्यंकेन क्रामति / तद्यथापि नाम शकुनिः पृथिव्याम् अप्य् उन्मज्जति न निमज्जनं करोति / तद्यथापि नामोदके ऽनुदके ऽप्य् अभियानेन गच्छति / तद्यथापि नाम पृथिव्यां धूमायते प्रज्वलत्य् अपि / तद्यथापि नाम महान् अग्निस्कन्धः / इमाव् अपि सूर्याचन्द्रमसाव् एवं महर्धिकाव् एवं महानुभावाव् एवं महेशाख्यौ पाणिना परामार्ष्ट्वा ब्रह्मलोकं कायेन वशं वर्तयति तया चर्ध्या न मन्यते / तथा हि समृद्धिं नोपलभते यया मन्येत स्वभावशून्यताम् उपादाय स्वभावानुत्पादताम् उपादाय / स चेतनाम् अपि नोत्पादयति /
ऋद्ध्या वा ऋद्ध्यभिनिर्हारेण वान्यत्र सर्वज्ञतामनसिकारात् / एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ऋद्धिविधिसाक्षात्क्रियाभिज्ञाज्ञानम् अभिनिर्हरति / स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तमानुष्यकेनोभयाञ् छब्दान् शृणोति यद् उत दिव्यान् वा मानुष्यकान् वा / न च तेन दिव्येन श्रोत्रधातुना मन्यते अहं शब्दान् शृणोमीति / तथा हि स श्रोत्रं शब्दांश् च नोपलभते स्वभावशून्यताम् उपादाय स्वभावानुत्पादताम् उपादाय / स चेतनाम् अपि नोत्पादयति दिव्यश्रोत्रधाताव् अन्यत्र सर्वज्ञतामनसिकारात् / एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यश्रोत्रधातुसाक्षात्क्रियाभिज्ञाज्ञानम् अभिनिर्हरति / स परसत्त्वानां परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति / स सरागचित्तं न रागचित्तम् इति यथाभूतं प्रजानाति / स विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति / सदोषचित्तं सदोषचित्तम् इति यथाभूतं प्रजानाति / विगतदोषं चित्तं विगतदोषं चित्तम् इति यथाभूतं प्रजानाति / समोहं चित्तं समोहं चित्तम् इति यथाभूतं प्रजानाति / विगतमोहं चित्तं विगतमोहं चित्तम् इति यथाभूतं प्रजानाति / सतृष्णाचित्तं सतृष्णाचित्तम् इति यथाभूतं प्रजानाति / विगततृष्णं चित्तं विगततृष्णं चित्तम् इति यथाभूतं प्रजानाति / सोपादानं चित्तं सोपादानं चित्तम् इति यथाभूतं प्रजानाति / अनुपादानं चित्तम् अनुपादानं चित्तम् इति यथाभूतं प्रजानाति / विक्षिप्तचित्तं विक्षिप्तचित्तम् इति यथाभूतं प्रजानाति / परीत्तं चित्तं परीत्तं चित्तम् इति यथाभूतं प्रजानाति /
विपुलं चित्तं विपुलं चित्तम् इति यथाभूतं प्रजानाति / महद्गतं चित्तं महद्गतं चित्तम् इति यथाभूतं प्रजानाति / अप्रमाणं चित्तम् अप्रमाणं चित्तम् इति यथाभूतं प्रजानाति / समाहितं चित्तं समाहितं चित्तम् इति यथाभूतं प्रजानाति / असमाहितं चित्तम् असमाहितं चित्तम् इति यथाभूतं प्रजानाति / विविक्तं चित्तं विविक्तं चित्तम् इति यथाभूतं प्रजानाति / अविविक्तं चित्तम् अविविक्तं चित्तम् इति यथाभूतं प्रजानाति / साश्रवं चित्तं साश्रवं चित्तम् इति यथाभूतं प्रजानाति / अनाश्रवं चित्तम् अनाश्रवं चित्तम् इति यथाभूतं प्रजानाति / साङ्गणं चित्तं साङ्गणं चित्तम् इति यथाभूतं प्रजानाति / अनङ्गणं चित्तम् अनङ्गणं चित्तम् इति यथाभूतं प्रजानाति / सोत्तरं चित्तं सोत्तरं चित्तम् इति यथाभूतं प्रजानाति / अनुत्तरं चित्तम् अनुत्तरं चित्तम् इति यथाभूतं प्रजानाति / तेन च परचित्तज्ञानेन न मन्यते / तथा हि तच् चित्तम् अचित्तम् अचिन्त्यताम् उपादाय / सो ऽहं प्रजानामीति न मन्यते / तथा हि स तच् चित्तं नोपलभते येन मन्येत स्वभावशून्यताम् उपादाय / स्वभावविविक्तताम् उपादाय / स्वभावानुत्पादताम् उपादाय / स चित्तज्ञानचेतनाम् अपि नोत्पादयति / न चित्तज्ञानाभिनिर्हारचेतनाम् अन्यत्र सर्वज्ञतामनसिकारात् / एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्वचित्तचरितसाक्षात्क्रियाभिज्ञाज्ञानम् अभिनिर्हरति / सो ऽनेकविधपूर्वनिवासानुस्मृतिसाक्षात्क्रियाभिज्ञाज्ञानम् अभिनिर्हरति / एकम् अपि चित्तम् अनुस्मरति यावच् चित्तशतम् अप्य् अनुस्मरति / एकम् अपि दिवसम् अनुस्मरति यावद् द्विसशतम् अप्य् अनुस्मरति /
एकम् अपि मासम् अनुस्मरति यावन् मासशतम् अप्य् अनुस्मरति / एकम् अपि वर्षम् अनुस्मरति यावद् वर्षशतम् अप्य् अनुस्मरति / एकम् अपि कल्पम् अनुस्मरति यावत् कल्पशतम् अप्य् अनुस्मरति / यावद् अनेकान्य् अपि कल्पशतान्य् अनुस्मरति / अनेकान्य् अपि कल्पसहस्राण्य् अनुस्मरति / अनेकान्य् अपि कल्पशतसहस्राण्य् अनुस्मरति / अनेकान्य् अपि कल्पकोटीनियुतशतसहस्राण्य् अनुस्मरति /
अत्राहम् एवनामैवंगोत्र एवजातिर् एवमाहार एवंचिरस्थितिकः एवमायुःपर्यन्तः सो ऽहं ततश् चुतः सन्न् अत्रोपपन्नः / यावत् ततश् चुत इहोपपन्नः इति / साकारं सोद्देशं सनिदर्शम् आत्मनः परेषाञ् चानेकविधं पूर्वनिवासम् अनुस्मरति / तेन च पूर्वनिवासानुस्मृतिसाक्षात्क्रियाभिज्ञाज्ञानेन न मन्यते / तथा हि तज् ज्ञानम् अज्ञानम् अचिन्त्यताम् उपादाय / सो ऽहं प्रजानामीति न मन्यते / तथा हि स तद् एव ज्ञानं नोपलभते येन मन्येत / स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय / स्वभावानुत्पादताम् उपादाय स चेतनाम् अपि नोत्पादयति / अनुस्मृतिज्ञानेनान्यत्र सर्वज्ञतामनसिकारात् / एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पूर्वनिवासानुस्मृतिसाक्षात्क्रियाभिज्ञाज्ञानम् अभिनिर्हरति / स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सत्त्वान् पश्यति / च्यवमानान् उपपद्यमानान् सुवर्णान् दुर्वर्णान् हीनान् प्रणीतान् सुगतान् दुर्गतान् यथाकर्मोपगतान् सत्त्वान् विजानाति / अमी भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागताः वाग्दुश्चरितेन समन्वागताः मनोदुश्चरितेन समन्वागताः / आर्यानाम् अपवादकाः मिथ्यादृष्टयस् तद्धेतोस् तत्प्रत्ययं कायस्य भेदाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते / अमी पुनर् भवन्तः कायसुचरितेन समन्वागताः वाक्सुचरितेन समन्वागताः मनःसुचरितेन समन्वागताः आर्यानाम् अनपवादकाः सम्यग्दृष्टयस् तद्धेतोस् तत्प्रत्ययं कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते इति समन्ताद् दशसु दिक्षु सर्वलोकधातुषु धर्मधातुपरमे लोके आकाशधातुपर्यवसाने षड्गतिकानां च्युतोपपादं यथाभूतं प्रजानाति /
तेन च न मन्यते / तथा हि तच् चक्षुर् अचक्षुर् अचिन्त्यताम् उपादाय / सो ऽहं पश्यामीति न मन्यते / तथा हि स तद् एव चक्षुर् नोपलभते येन मन्येत / स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावानुत्पादताम् उपादाय / स दिव्यचक्षुश्चेतनाम् अपि नोत्पादयति / न दिव्यचक्षुरभिनिर्हारचेतनाम् अन्यत्र सर्वाकारज्ञतामनसिकारात् / एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् दिव्यचक्षुःसाक्षात्क्रियाभिज्ञाज्ञानम् अभिनिर्हरति / न च श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वानुप्राप्नोति / न किञ्चिद् धर्मं पश्यति यो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / स तयाभिज्ञया वज्रोपमं समाधिम् अधिगम्य सर्ववासनानुसन्धि क्लेशप्रहाणं कुरुते / न च तयाश्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञया मन्यते / तथा हि तज्ज्ञानम् अज्ञानम् अचिन्त्यभृत् / अहं प्रजानामीति न मन्यते / तथा हि स ताम् एवाश्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञां नोपलभते / यया मन्येत / स्वभावशून्यताम् उपादाय / स्वभावविविक्तताम् उपादाय / स्वभावानुत्पादताम् उपादाय / स आश्रवक्षयज्ञानचेतनाम् अपि नोत्पादयति / नाश्रवक्षयसाक्षात्क्रियाभिज्ञाज्ञानाभिनिर्हारचेतनाम् अन्यत्र सर्वाकारज्ञतामनसिकारात् / एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स आश्रवक्षयसाक्षात्क्रियाभिज्ञाज्ञानम् अभिनिर्हरति / एवञ् च पुनः शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् षड् अभिज्ञाः परिपूरयति / वर्धते ऽनुत्तरया सम्यक्संबोध्या /
सन्ति शारद्वतीपुत्र बोधिसत्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तो दानपारमितायां स्थित्वा सर्वाकारज्ञतायाः पन्थानं शोधयन्ति / अत्यन्तशून्यतया अनवगृहीतचित्तताम् उपादाय / सन्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः ये प्रज्ञापारमितायां चरन्तः शीलपारमितायां स्थित्वा सर्वाकारज्ञतायाः पन्थानं शोधयन्ति / अत्यन्तशून्यतया आपत्त्यनध्यापत्तिताम् उपादाय / सन्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा ये प्रज्ञापारमितायां चरन्तः क्षान्तिपारमितायां स्थित्वा सर्वाकारज्ञतायाः पन्थानं शोधयन्त्य् अत्यन्तशून्यतया अक्षोभणताम् उपादाय / सन्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः ये प्रज्ञापारमितायां चरन्तः वीर्यपारमितायां स्थित्वा सर्वाकारज्ञतायाः पन्थानं शोधयन्त्य् अत्यन्तशून्यतया कायिकचेतसिकवीर्यास्रंसनताम् उपादाय / सन्ति शारद्वतीपुत्र बाधिसत्त्वा महासत्त्वाः ये प्रज्ञापारमितायां चरन्तो ध्यानपारमितायां स्थित्वा सर्वाकारज्ञतायाः पन्थानं शोधयन्त्य् अत्यन्तशून्यतया अविक्षिप्तचित्तताम् उपादाय / सन्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः ये प्रज्ञापारमितायां चरन्तः प्रज्ञापारमितायां स्थित्वा सर्वाकारज्ञतायाः पन्थानं शोधयन्त्य् अत्यन्तशून्यतया दौःप्रज्ञचित्तानुपलब्धिताम् उपादाय / एवं शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः षट्सु पारमितासु स्थित्वा सर्वाकारज्ञतायाः पन्थानं शोधयन्त्य् अत्यन्तशून्यतया अनागमनागमनताम् उपादाय / अपरिग्रहताम् उपादाय / दानं परिग्रहताम् उपादाय प्रज्ञप्यते / शीलम् अशुचिताम् उपादाय प्रज्ञप्यते / क्षान्तिं क्षोभणताम् उपादाय प्रज्ञप्यते / वीर्यं कुसीदताम् उपादाय प्रज्ञप्यते /
समाधिर् असमाहितम् उपादाय प्रज्ञप्यते / प्रज्ञां दुःप्रज्ञताम् उपादाय प्रज्ञप्यते / स तीर्ण इति न मन्यते / अतीर्ण इति न मन्यते / स दाता इति न मन्यते / अदाता इति न मन्यते / शीलवान् इति न मन्यते / दुःशील इति न मन्यते / क्षान्तिं संपन्न इति न मन्यते / क्रोधन इति न मन्यते / आरब्धवीर्य इति न मन्यते / कुसीद इति न मन्यते / समाहित इति न मन्यते / असमाहित इति न मन्यते / प्राज्ञ इति न मन्यते / दुःप्रज्ञ इति न मन्यते / आक्रुष्ट इति न मन्यते / वन्दित इति न मन्यते / सत्कृत इति न मन्यते / असत्कृत इति न मन्यते / तत् कस्य हेतोः / न हि शारद्वतीपुत्र अनुत्पाद आक्रुष्टो वेति मन्यते वन्दितो वेति मन्यते / सत्कृतो वेति मन्यते / असत्कृतो वेति मन्यते / तत् कस्य हेतोः / तथा हि प्रज्ञापारमिता सर्वम् अन्यतां समुच्छिनत्ति / इह शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो ये गुणा भवन्ति / तेन श्रावकप्रत्येकबुद्धानां संविद्यन्ते / स इमान् गुणान् परिपूरयन् सत्त्वांश् च परिपारयन्ति / बुद्धक्षेत्रञ् च परिशोधयन्ति / सर्वाकारज्ञताञ् चानुप्राप्नोति /
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्वानाम् अन्तिके समचित्तताम् उत्पाद्यति / सर्वसत्त्वानाम् अन्तिके समचित्तताम् उत्पाद्य सर्वधर्मसमतां प्रतिलभते / स सर्वधर्मसमतां प्रतिलभ्य सर्वसत्त्वान् सर्वधर्मसमतायां प्रतिष्ठापयति / स दृष्ट एव धर्मे बुद्धानां भगवतां प्रियो भवति / मनापश् च / सर्वबोधिसत्त्वानाञ् च सर्वश्रावकाणाञ् च प्रत्येकबुद्धानाञ् च प्रियो भवति / मनापश् च / स यत्र यत्रोपपद्यमान उपपद्यते तत्र तत्र न जातु चक्षुषा अमनापाणि रूपाणि पश्यति / न श्रोत्रेणामनापान् शब्दान् शृणोति / न घ्राणेनामनापान् गन्धान् जिघ्रति / न जिह्वयामनापान् रसान् आस्वादयति / न कायेनामनापान् स्पर्शान् स्पृशति / न मनसामनापान् धर्मान् विजानाति / एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वं प्रज्ञापारमितायां चरन् न परिहीयते ऽनुत्तरायाः सम्यक्संबोधेः /
अस्मिन् खलु पुनः प्रज्ञापारमितानिर्देशे निर्दिश्यमाने त्रीणि भिक्षुशतानि यथाप्रावृतैश् चीवरैर् भगवन्तम् अभिच्छादयन्ति स्म / अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयन्ति स्म / अथ खलु भगवांस् तस्यां वेलायां स्मितं प्रादुरकार्षीत् / अथायुष्मान् आनन्द उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत् / को भगवन् हेतुः कः प्रत्ययः स्मितस्याविष्करणे / नाहेतुकं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितम् आविष्कुर्वन्ति / एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत् / एतान्य् आनन्द त्रीणि भिक्षुशतानि एकषष्टे कल्पे महाकेतुनामानस् तथागता अर्हन्तः सम्यक्संबुद्धाः लोके उत्पत्स्यन्ते / तारकोपमे कल्पे त एत इतश् च्युताः समाना अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे उपपत्स्यन्ते / षष्ट्या च देवपुत्र सहस्रैः कामावचरैर् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादितानि / तानि च मैत्रेयं तथागतम् अर्हन्तं सम्यक्संबुद्धम् आरागयिष्यन्ति / तत्रैव च ब्रह्मचर्यं चरिष्यन्ति / स च मैत्रेयस् तथागतस् तान् व्याकरिष्यत्य् अनुत्तरायां सम्यक्संबोधाव् इति / अथ बुद्धानुभावेन तस्मिन् समये ताश् चतस्रः पर्षद इति निषन्ना एव पूर्वस्यां दिशि बुद्धसहस्रं पश्यन्ति स्म / दक्षिणस्यां दिशि बुद्धसहस्रं पश्यन्ति स्म / पश्चिमायां दिशि बुद्धसहस्रं पश्यन्ति स्म / उत्तरस्यान् दिशि बुद्धसहस्रं पश्यन्ति स्म / उत्तरपूर्वस्यान् दिशि बुद्धसहस्रं पश्यन्ति स्म / पूर्वदक्षिणस्यान् दिशि बुद्धसहस्रं पश्यन्ति स्म /
दक्षिणपश्चिमायान् दिशि बुद्धसहस्रं पश्यन्ति स्म / पश्चिमोत्तरस्यान् दिशि बुद्धसहस्रं पश्यन्ति स्म / अधस्ताद् दिशि बुद्धसहस्रं पश्यन्ति स्म / उपरिष्टाद् दिशि बुद्धसहस्रं पश्यन्ति स्म / न च तान् बुद्धक्षेत्रगुणव्यूहान् इह सहायां लोकधातौ पश्यन्ति स्म / यान् बुद्धक्षेत्रगुणव्यूहांस् तेषां बुद्धानां भगवतां तेषु लोकधातुषु पश्यन्ति स्म / अथ ततः पर्षदो दशप्राणिसहस्राणि प्रणिधानम् अकार्षुः / वयं कर्म तथा करिष्यामो येन कर्मणा कृतेनात्र बुद्धक्षेत्रेषूपपत्स्याम इति / अथ भगवांस् तेषां कुलपुत्राणां आशयं विदित्वा स्मितं प्रादुरकार्षीत् /
अथायुष्मान् आनन्द उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत् / को भगवन् हेतुः कः प्रत्ययः स्मितस्याविष्करणे / नाहेतु नाप्रत्ययं बुद्धा भगवन्तः स्मितम् आविष्कुर्वन्ति / भगवान् आह / पश्यसि त्वम् आनन्देमानि दश प्राणिसहस्राणि / आह / पश्यामि भगवन् / भगवान् आह / एतान्य् आनन्द दश प्राणिसहस्राणि इतश् च्युत्वा तत्र बुद्धक्षेत्रेषूत्पत्स्यन्ते / न च जातु विरहिता भविष्यन्ति तथागतैर् अर्हद्भिः सम्यक्संबुद्धैस् ततः पश्चाद् व्यूहराजनामानस् तथागता अर्हन्तः सम्यक्संबुद्धा लोके भविष्यन्ति / अथायुष्मान् शारद्वतीपुत्र आयुष्मांश् च महामौद्गल्यायन आयुष्मांश् च सुभूतिर् आयुष्मांश् च पूर्णो मैत्रायणीपुत्र आयुष्मांश् च महाकाश्यप एते चान्ये च संबहुला अभिज्ञाताभिज्ञाता भिक्षवो बोधिसत्त्वाश् च महासत्त्वा भिक्षुभिक्षुण्युपासकोपासिकाश् च भगवन्तम् एतद् अवोचन् / महापारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता / उदारपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता / अग्र्यपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता / विशिष्टपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता / वरपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता / प्रवरपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता / प्रणीतपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता /
अनुत्तरपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता / निरुत्तरपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता / असमपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता / असमसमपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता / असदृशपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता / अनुपमपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता / आकाशपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता / स्वलक्षणशून्यतापारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता / सर्वधर्मशून्यतापारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता / अभावस्वभावशून्यतापारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता / सर्वगुणपरिपूरिपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता / सर्वगुणसमन्वागतपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता / अनवमृद्यपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता /
अत्र हि भगवन् प्रज्ञापारमितायां चरद्भिर् बोधिसत्त्वैर् महासत्त्वैर् असमसमन् दानं दत्तं दीयते दास्यते / तेनासमसमदानपारमिता परिपूरिता परिपूर्यते परिपूरयिष्यते / तेनासमसम आत्मभावः प्रतिलब्धः प्रतिलभ्यते प्रतिलप्स्यते / तेनासमसमस्य धर्मस्य लाभिनो जाता भवन्ति भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः /
अत्र भगवन् प्रज्ञापारमितायां चरद्भिर् बोधिसत्त्वैर् महासत्त्वैर् असमसमं शीलं रक्षितं रक्षन्ति रक्षिष्यन्ति / तेनासमसमशीलपारमिता परिपूरिता परिपूर्यते परिपूरयिष्यते / तेनासमसम आत्मभावः प्रतिलब्धः प्रतिलभ्यते प्रतिलप्स्यते / तेनासमसमस्य धर्मस्य लाभिनो जाता भवन्ति भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः /
अत्र भगवन् प्रज्ञापारमितायां चरद्भिर् बोधिसत्त्वैर् महासत्त्वैर् असमसमक्षान्तिर् भाविता भाव्यते भाविष्यते / तेनासमसमा क्षान्तिपारमिता परिपूरिता परिपूर्यते परिपूरिष्यते / तेनासमसम आत्मलाभः प्रतिलब्धः प्रतिलभ्यते प्रतिलप्स्यते / तेनासमसमस्य धर्मस्य लाभिनो जाता भवन्ति भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः /
अत्र भगवन् प्रज्ञापारमितायां चरद्भिर् बोधिसत्त्वैर् महासत्त्वैर् असमसमं वीर्यम् आरब्धं आरभ्यते आरप्स्यते / तेनासमसमा वीर्यपारमिता परिपूरिता परिपूर्यते परिपूरिष्यते / तेनासमसम आत्मभावः प्रतिलब्धः प्रतिलभ्यते प्रतिलप्स्यते / तेनासमसमस्य धर्मस्य लाभिनो जाता भवन्ति भविष्यन्ति / यद् उतानुत्तरायाः सम्यक्संबोधेः /
अत्र भगवन् प्रज्ञापारमितायां चरद्भिर् बोधिसत्त्वैर् महासत्त्वैर् असमसमानि ध्यानानि उत्पादितानि उत्पाद्यन्ते उत्पादयिष्यन्ते / तेनासमसमा ध्यानपारमिता परिपूरिता परिपूर्यते परिपूरयिष्यते / तेनासममम आत्मभावः प्रतिलब्धः प्रतिलभ्यते प्रतिलप्स्यते / तेनासमसमस्य धर्मस्य लाभिनो जाता भवन्ति भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः /
अत्र भगवन् प्रज्ञापारमितायां चरद्भिर् बोधिसत्त्वैर् महासत्त्वैर् असमसमा प्रज्ञा भाविता भाव्यते भाविष्यते / तेनासमममा प्रज्ञापारमिता परिपूरिता परिपूर्यते परिपूरिष्यते / तेनासमसम आत्मभावः प्रतिलब्धः प्रतिलभ्यते प्रतिलप्स्यते / तेनासमसमस्य धर्मस्य लाभिनो जाता भवन्ति भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः /
अत्रैव भगवन् प्रज्ञापारमितायां चरन् अममममस्य रूपस्य लाभी जातः असमसमाया वेदनाया लाभी जातः असमसमायाः संज्ञाया लाभी जातः असमममानां संस्काराणां लाभी जातः / असमसमस्य विज्ञानस्य लाभी जातः / असमसमां बोधिम् अभिसंबुध्यासमसमं धर्मचक्रं प्रवर्तितवान् /
अतीता अपि बुद्धा भगवन्तो ऽत्रैव प्रज्ञापारमितायां चरन्तो ऽसमममस्य रूपस्य लाभिनो जाताः / असमममाया वेदनाया लाभिनो जाताः / असमसमायाः संज्ञाया लाभिनो जाताः असमसमानां संस्काराणां लाभिनो जाताः / असमसमस्य विज्ञानस्य लाभिनो जाताः / असमसमां बोधिम् अभिसंबुध्यासमसमं धर्मचक्रं प्रवर्तितवन्तः /
अनागता अपि बुद्धा भगवन्तो ऽत्रैव प्रज्ञापारमितायां चरन्तो ऽसमसमस्य रूपस्य लाभिनो जाताः भविष्यन्ति / असमसमाया वेदनाया लाभिनो भविष्यन्ति / असमसमायाः संज्ञाया लाभिनो भविष्यन्ति / असमसमानां संस्काराणां लाभिनो भविष्यन्ति / असमसमस्य विज्ञानस्य लाभिनो भविष्यन्ति / असमसमां बोधिम् अभिसंबुध्यासमसमं धर्मचक्रं प्रवर्तयिष्यन्ति /
प्रत्युत्पन्ना अपि बुद्धा भगवन्तो ऽत्रैव प्रज्ञापारमितायां चरन्तो ऽसमसमस्य रूपस्य लाभिनो भवन्ति / असमसमाया वेदनाया लाभिनो भवन्ति / असमसमायाः संज्ञाया लाभिनो भवन्ति / असमसमानां संस्काराणां लाभिनो भवन्ति / असमसमस्य विज्ञानस्य लाभिनो भवन्ति / असमसमां बोधिम् अभिसंबुध्यासमसमं धर्मचक्रं प्रवर्तयिष्यन्ति /
तस्मात् तर्हि भगवन् बोधिसत्त्वैर् महासत्त्वैः सर्वधर्माणां पारंगन्तुकामैः प्रज्ञापारमितायां योगः करणीयः / नमस्करणीयास् ते भगवन् बोधिसत्त्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन ये ऽत्र प्रज्ञापारमितायां चरन्ति /
एवम् उक्ते भगवांस् तान् संबहुलान् महाश्रावकान् तांश् च बोधिसत्त्वान् महासत्त्वान् एतद् अवोचत् / एवम् एतत् कुलपुत्रा एवम् एतत् यथा तथा, यथा वदथ, नमस्करणीयास् ते बोधिसत्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन ये ऽत्र प्रज्ञापारमितायां चरन्ति / तत् कस्य हेतोः बोधिसत्त्वं हि कुलपुत्रा महासत्त्वम् आगम्य मनुष्यलोकस्य लोके प्रादुर्भावो भवति / देवलोकस्य लोके प्रादुर्भावो भवति / क्षत्रियमहाशालकुलानां लोके प्रादुर्भावो भवति / ब्राह्मणमहाशालकुलानां लोके प्रादुर्भावो भवति / गृहपतिमहाशालकुलानां लोके प्रादुर् भावो भवति / राज्ञां चक्रवर्तिनां लोके प्रादुर्भावो भवति / चातुर्महाराजकायिकानां देवानां लोके प्रादुर्भावो भवति / त्रायस्त्रिंशानां देवानां लोके प्रादुर्भावो भवति / यामानां देवानां लोके प्रादुर्भावो भवति / तुषितानां देवानां लोके प्रादुर्भावो भवति / निर्माणरतीनां देवानां लोके प्रादुर्भावो भवति / परनिर्मितवशवर्तिनां देवानां लोके प्रादुर्भावो भवति / ब्राह्मकायिकानां देवानां लोके प्रादुर्भावो भवति / ब्रह्मपुरोहितानां देवानां लोके प्रादुर्भावो भवति / ब्रह्मपार्षद्यानां देवानां लोके प्रादुर्भावो भवति / महाब्रह्मणां देवानां लोके प्रादुर्भावो भवति / आभानां देवानां लोके प्रादुर्भावो भवति / परीत्ताभानां देवानां लोके प्रादुर्भावो भवति / अप्रमाणाभानां देवानां लोके प्रादुर्भावो भवति / आभास्वराणां देवानां लोके प्रादुर्भावो भवति / शुभानां देवानां लोके प्रादुर्भावो भवति / परीत्तशुभानां देवानां लोके प्रादुर्भावो भवति / अप्रमाणशुभानां देवानां लोके प्रादुर्भावो भवति / शुभकृत्स्नानां देवानां लोके प्रादुर्भावो भवति /
वृहाणां देवानां लोके प्रादुर्भावो भवति / परीत्तवृहाणां देवानां लोके प्रादुर्भावो भवति / अप्रमाणवृहाणां देवानां लोके प्रादुर्भावो भवति / वृहत्फलानां देवानां लोके प्रादुर्भावो भवति / अवृहाणां देवानां लोके प्रादुर्भावो भवति / अतपानां देवानां लोके प्रादुर्भावो भवति / सुदृशानां देवानां लोके प्रादुर्भावो भवति / सुदर्शनानां देवानां लोके प्रादुर्भावो भवति / अकनिष्ठानां देवानां लोके प्रादुर्भावो भवति / श्रोतआपन्नानां लोके प्रादुर्भावो भवति / सकृदागामिनां लोके प्रादुर्भावो भवति / अनागामिनां लोके प्रादुर्भावो भवति / अर्हतां लोके प्रादुभावो भवति / प्रत्येकबुद्धानां लोके प्रादुर्भावो भवति / बोधिसत्त्वानां महासत्त्वानां लोके प्रादुर्भावो भवति / तथागतानाम् अर्हतां सम्यक्संबुद्धानां लोके प्रादुर्भावो भवति / बोधिसत्त्वं हि कुलपुत्रा महासत्त्वम् आगम्य अन्नस्य पानस्य यानस्य वस्त्राणां शय्यासनोपाश्रयप्राजीविकस्य मणिमुक्ताशङ्खशिलाप्रवालरजतजातरूपस्य लोके प्रादुर्भावो भवति / यावन्ति कुलपुत्राः सत्त्वानां सुखोपधानानि दिव्यानि च मानुषाणि च विसंयोगसुखञ् च सर्वन् तत् कुलपुत्रा बोधिसत्त्वं महासत्त्वम् आगम्य / तत् कस्य हेतोर् बोधिसत्त्वो हि कुलपुत्रा बोधिसत्त्वचारिकां चरन् षट्सु पारमितासु स्थित्वा आत्मना च दानं ददाति परांश् च दाने नियोजयति / आत्मना च शीलं रक्षति परांश् च शीले नियोजयति / आत्मना च क्षान्तिं भावयति / परांश् च क्षान्त्यां नियोजयति / आत्मना च वीर्यम् आरभते परांश् च वीर्ये नियोजयति / आत्मना ध्यानान्य् उत्पादयति परांश् च ध्याने नियोजयति /
आत्मना च प्रज्ञां भावयति परांश् च प्रज्ञाभावनायां नियोजयति / बोधिसत्त्वं महासत्त्वम् आगम्य सत्त्वाः षट्सु पारमितासु चरन्ति / ते षट्सु पारमितासु चरन्त, सत्त्वाः लौकिकलोकोत्तराः संपत्तीर् अनुप्राप्नुवन्ति / तस्मात् तर्हि कुलपुत्राः बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानां हितसुखाय प्रतिपन्नो भवति /
अथ भगवांस् तस्यां वेलायां जिह्वेन्द्रियं मुखान् निर्णमय्य इमं त्रिसाहस्रमहासाहस्रं लोकधातुं स्फुरति स्म /
अथ खलु ततो जिह्वेन्द्रियात् अनेकवर्णा नानावर्णा अर्चिषो निश्चरन्ति स्म / निश्चार्य पूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म / दक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म / पश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म / उत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म / उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म / पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म / दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म / पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म / अधस्ताद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म / उपरिष्टाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म /
अथ खलु पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म / कस्यायं भगवन्न् अनुभावो येनेमे लोकधातवः एवं महतावभासेन स्फुटाः / ते बुद्धा भगवन्तो ऽवोचन् / एष कुलपुत्राः पश्चिमे दिग्भागे सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनेमं जिह्वेन्द्रियं निर्णमय्य गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनतायै / दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म / कस्यायं भगवन्न् अनुभावो येनेमे लोकधातव एवं महतावभासेन स्फुटाः / ते बुद्धा भगवन्तो ऽवोचन् / एष कुलपुत्रा उत्तरे दिग्भागे सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनेमे जिह्वेन्द्रियं निर्णमय्य गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः / यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनतायै / पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म / कस्यायं भगवन्न् अनुभावो येनेने लोकधातव एवं महतावभासेन स्फुटाः / ते बुद्धा भगवन्तो ऽवोचन् /
एष कुलपुत्रा पूर्वस्मिन् दिग्भागे सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनेमं जिह्वेन्द्रियं निर्णमय्य गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः / यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनतायै / उत्तरस्मिन् दिग्भागे गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म / कस्यायं भगवन्न् अनुभावो येनेमे लोकधातव एवं महतावभासेन स्फुटाः / ते बुद्धा भगवन्तो ऽवोचन् / एष कुलपुत्रा दक्षिणे दिग्भागे सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनेमं जिह्वेन्द्रियं निर्णमय्य गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः / यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनतायै / उत्तरपूर्वस्मिन् दिग्भागे गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म / कस्यायं भगवन्न् अनुभावो येनेमे लोकधातव एवं महतावभासेन स्फुटाः / ते बुद्धा भगवन्तो ऽवोचन् / एष कुलपुत्रा दक्षिणपश्चिमे दिग्भागे सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनेमं जिह्वेन्द्रियं निर्णमय्य गङ्गानदौवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः / यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनतायै /
पूर्वदक्षिणस्मिन् दिग्भागे गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म / कस्यायं भगवन्न् अनुभावो येनेमे लोकधातव एवं महतावभासेन स्फुटाः / ते बुद्धा भगवन्तो ऽवोचन् / एष कुलपुत्राः पश्चिमोत्तरे दिग्भागे सहा नाम लोकधातुस् तत्र शाकमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनेमं जिह्वेन्द्रियं निर्णमय्य गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः / यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनतायै / दक्षिणपश्चिमे दिग्भागे गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म / कस्यायं भगवन्न् अनुभावो येनेमे लोकधातव एवं महतावभासेन स्फुटाः / ते बुद्धा भगवन्तो ऽवोचन् / एष कुलपुत्रा उत्तरपूर्वे दिग्भागे सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनेमं जिह्वेन्द्रियं निर्णमय्य गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः / यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनतायै / पश्चिमोत्तरे दिग्भागे गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म / कस्यायं भगवन्न् अनुभावो येनेमे लोकधातव एवं महतावभासेन स्फुटाः / ते बुद्धा भगवन्तो ऽवोचन् /
एष कुलपुत्राः पूर्वदक्षिणे दिग्भागे सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यहसंबुद्धस् तेनेमं जिह्वेन्द्रियं निर्णमय्य गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः / यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनतायै / अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म / कस्यायं भगवन्न् अनुभावो येनेमे लोकधातव एवं महतावभासेन स्फुटाः / ते बुद्धा भगवन्तो ऽवोचन् / एष कुलपुत्रा उपरिष्टाद् दिग्भागे सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनेमं जिह्वेन्द्रियं निर्णमय्य गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः / यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनतायै / उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेणेषु बुद्धान् भगवतः परिपृच्छन्ति स्म / कस्यायं भगवन्न् अनुभावो येनेमे लोकधातव एवं महतावभासेन स्फुटाः / ते बुद्धा भगवन्तो ऽवोचन् / एष कुलपुत्रा अधस्ताद् दिग्भागे सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनेमं जिह्वेन्द्रियं निर्णमय्य गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः / यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनताय /
अथ खलु ते बोधिसत्त्वा महासत्त्वास् तान् बुद्धान् भगवत एवम् आहुः / तत्र वयं भगवन् गमिष्यामस् तस्य भगवतः शाक्यमुनेस् तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय / तेषाञ् च दशदिक्सन्निपतितानां बोधिसत्त्वानां महासत्त्वानां दर्शनाय / तस्याश् च प्रज्ञापारमितायाः श्रवणाय / ते बुद्धा भगवन्त एवम् आहुः / यस्येदानीं कुलपुत्राः कालं मन्यध्वे / अथ ते बोधिसत्त्वा महासत्त्वा दशभ्यो दिग्भ्यस् तेषां तथागतानाम् अर्हतां सम्यक्संबुद्धानां पादाञ् छिरोभिर् वन्दित्वा सप्तकृत्वः प्रदक्षिणीकृत्यानेकैः प्रकारान् छत्त्रध्वजपताकाः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवराणि सुवर्णरूप्यपुष्पाणि च गृहीत्वा महत्या तूर्यताडावचरसंगीत्या येन भगवाञ् छाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामन्ति स्म / अथ चातुर्महाराजकायिका देवास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्मणः आभाः परीत्ताभाः अप्रमाणाभा आभास्वराः शुभाः परीत्तशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फलाः / शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवा दिव्यानि पुष्पमाल्यविलेपनधूपचूर्णानि दिव्यान्य् उत्पलपद्मपुण्डरीकानि दिव्यानि मान्दारमहामान्दारकेशरतमालपत्त्राणि गृहीत्वा येन भगवाञ् छाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामन्ति स्म /
अथ ते बोधिसत्त्वा महासत्त्वास् ते च देवास् ताभिः पुष्पमाल्य गन्धविलेपनचूर्णचीवरच्छत्त्रध्वजपताकाभिर् भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्समबुद्धम् अवकिरन्ति स्माभ्यवकिरन्ति स्म / अभिप्राकिरन्ति स्म / अथ तानि पुष्पादीन्य् उपरिवैहायसम् अभ्युद्गम्यास्मिंस् त्रिसाहस्रे महासाहस्रे लोकधातौ पुष्पकूटाकारः संस्थितो ऽभूत् / चतुरस्रश् चतुःस्थूणसमो भागशः सुविभक्तो रमणीयो मनोरमः / अथ ततः पर्षदः प्राणिकोटीनियुतशतसहस्रान्य् उत्थायासनेभ्यो येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत् / वयम् अपि भगवन्न् अनागते ऽध्वन्य् एवं रूपाणां धर्माणां लाभिनो भवेमः / यथा रूपाणां तथागतो ऽर्हन् सम्यक्संबुद्धः / एवम् एव श्रावकसंघं परिहारः मे / एवञ् च पर्षदि धर्मं देशयामः / यथा तथागत एतर्हि धर्मं देशयति / अथ भगवांस् तेषाम् अध्याशयं विदित्वा सर्वधर्माणाञ् चानुत्पादायानिरोधायानभिसंस्कारायाप्रादुर्भावाय / क्षान्तिं विदित्वा स्मितं प्रादुरकार्षीत् / अथायुष्मान् आनन्द उत्थायासनाद् एकांशम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत् / को भगवन् हेतुः कः प्रत्ययः स्मितस्याविष्करणे नाहेतुकं नाप्रत्ययं बुद्धा भगवन्तः स्मितम् आविष्कुर्वन्ति / भगवान् आह / इत आनन्द पर्षदः प्राणिकोटीनियुतशतसहस्रैर् अनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा / एते चानागते ऽध्वन्य् अष्टषष्त्या कल्पकोटीभिर् बोध्यङ्गापुष्यनामापस् तथागता अर्हन्तः सम्यक्संबुद्धा लोके भविष्यन्ति पुष्पाकरे कल्पे /
इति शतसाहस्रिकाः प्रज्ञापारमितायाः प्रथमः परिवर्तः // (श्sP_1.1)
अथ द्वितीयपरिवर्तः /
अथ भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयते / प्रतिभातु ते सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताम् आरभ्य धार्मीं कथां कर्तुं कथं बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां निर्यायुर् इति / अथ तेषां बोधिसत्त्वानां महासत्त्वानां तेषाञ् च महाश्रावकाणां तेषाञ् च देवपुत्राणाम् एतद् अभूत् किं पुनर् आयुष्मान् सुभूतिस् तावत् केन प्रज्ञाप्रतिभानबलाधानसत्वाहेन बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमिताम् उपदेक्ष्यति / अथ वा बुद्धानुभावेनेति / अथायुष्मां सुभूतिर् बुद्धानुभावेन तेषां बोधिसत्त्वानां महासत्त्वानां तेषाञ् च महाश्रावकाणां तेषाञ् च देवपुत्राणां चेतसैव चेतः परितर्कम् आज्ञायायुष्मन्तं शारद्वतीपुत्रम् आमन्त्रयते स्म / यत् किञ्चिद् आयुष्मञ् छारद्वतीपुत्र भगवतः श्रावका भाषन्ते ऽभिलपन्त्य् उदीरयन्ति / सर्वः स तथागतस्य पुरुषकारः / यश् च तथागतेन धर्मो देशितः सर्वः स धर्मतया अविरुद्धः / तत् ते कुलपुत्रास् तत्र धर्मदेशनायां शिक्षमाणास् तां धर्मतां साक्षात्कुर्वन्ति / तथागत एवैष शारद्वतीपुत्रोपाययोगेन बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमिताम् उपदेक्ष्यत्य् अविषयो ऽत्रायुष्मञ् छारद्वतीपुत्र सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमिताम् उपदेष्टुं / अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् / बोधिसत्त्वा महासत्त्वा इति भगवन्न् उच्यते / कतमस्यैतद् धर्मस्याधिवचनं यद् उत बोधिसत्त्व इति प्रज्ञापारमितेति वा / नाहं भगवंस् तं धर्मं समनुपश्यामि / यद् उत बोधिसत्त्व इति प्रज्ञापारमितेति वा /
सो ऽहं भगवंस् तञ् च बोधिसत्त्वं ताञ् च प्रज्ञापारमितां तच् च बोधिसत्त्वनामासमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि / एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत् / नाममात्रम् इदं सुभूते यद् उत प्रज्ञापारमिता च बोधिसत्त्वश् च बोधिसत्त्वनाम च / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते सत्त्वः सत्त्व इति नाम तच् च प्रज्ञप्तिमात्रं / यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते जीवो जीव इति नाम तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते जन्तुर् जन्तुर् इति नाम तच् च प्रज्ञप्तिमात्रं तच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते पोषः पोष इति नाम तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते पुरुषः पुरुष इति नाम तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते /
तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते पुद्गलः पुद्गल इति नाम तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते मनुजो मनुज इति नाम तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते मानवो मानव इति नाम तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते कारकः कारक इति नाम / तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते कारयिता कारयितेति नाम तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते उत्थापकः उत्थापक इति नाम तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते /
तद्यथापि नाम सुभूते समुत्थापकः समुत्थापक इति नाम तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते वेदको वेदक इति नाम / तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते वेदयितृको वेदयितृक इति नाम / तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते जानको जानक इति नाम / तच् च नाम प्रज्ञप्तिमात्रं / यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते पश्यकः पश्यक इति नाम / तच् च नाम प्रज्ञप्तिमात्रं / यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / एवम् एव सुभूते या च प्रज्ञापारमिता यश् च बोधिसत्त्वो यच् च बोधिसत्त्वनाम सर्वम् एतत् प्रज्ञप्तिमात्रं / यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते /
तद्यथापि नाम सुभूते यो ऽयम् आध्यात्मिक आत्मभावो रूपम् इति नाम यावद् एव धर्मप्रज्ञप्तिमात्रं तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते येयम् आध्यात्मिकी वेदनेति नाम यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्यं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते येयम् आध्यात्मिकी संज्ञेति नाम यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते य इमे आध्यात्मिकाः संस्कारा इति नाम यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / तद्यथापि नाम सुभूते यद् इदम् आध्यात्मिकं विज्ञानम् इति नाम यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / एवम् एव सुभूते प्रज्ञापारमिता च बोधिसत्त्वश् च बोधिसत्त्वनाम च सर्वम् एतत् धर्मप्रज्ञप्तिमात्रं तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते /
तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / चक्षुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत चक्षुर् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / श्रोत्रम् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम्
एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत श्रोत्रम् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / घ्राणम् इति सुभूते यावद् एव प्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत घ्राणम् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / जिह्वेति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत जिह्वेति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / काय इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत काय इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्ये / मन इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत मन इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / रूपम् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत रूपम् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / शब्द इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत शब्द इति /
तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / गन्ध इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत गन्ध इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / रस इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत रस इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / स्पर्श इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत स्पर्श इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / धर्मं इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत धर्मं इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / चक्षुर्धातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत चक्षुर्धातुर् इरि / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / रूपधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत रूपधातुर् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते /
चक्षुर्विज्ञानधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत चक्षुर्विज्ञानधातुर् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / श्रोत्रधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत श्रोत्रधातुर् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / शब्दधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत शब्दधातुर् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / श्रोत्रविज्ञानधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत श्रोत्रविज्ञानधातुर् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / घ्राणधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत घ्राणधातुर् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / गन्धधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते / यद् उत गन्धधातुर् इति / तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
