Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 6/37

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता, Part इ

Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

न सकृदागामिफलं प्रत्युत्पन्नम् इति युज्यते / नानागामिफलम् अतीतम् इति युज्यते / नानागामिफलम् अनागतम् इति युज्यते / नानागामिफलं प्रत्युत्पन्नम् इति युज्यते / नार्हत्त्वम् अतीतम् इति युज्यते / नार्हत्त्वम् अनागतम् इति युज्यते / नार्हत्त्वं प्रत्युत्पन्नम् इति युज्यते / न प्रत्येकबोधिम् अतीतेति युज्यते / न प्रत्येकबोधिम् अनागतेति युज्यते / न प्रत्येकबोधिं प्रत्युत्पन्नेति युज्यते / न मार्गाकारज्ञताम् अतीतेति युज्यते / न मार्गाकारज्ञताम् अनागतेति युज्यते / न मार्गाकारज्ञतां प्रत्युत्पन्नेति युज्यते / न सर्वाकारज्ञताम् अतीतेति युज्यते / न सर्वाकारज्ञताम् अनागतेति युज्यते / न सर्वाकारज्ञतां प्रत्युत्पन्नेति युज्यते / एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्तः इति वक्तव्यः /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं सारम् इति न दुर्बलम् इति युज्यते / न वेदनां सारेति न दुर्बलेति युज्यते / न संज्ञां सारेति न दुर्बलेति युज्यते / न संस्कारान् सारा इति न दुर्बला इति युज्यते / न विज्ञानं सारम् इति न दुर्बलम् इति युज्यते / न चक्षुः सारम् इति न दुर्बलम् इति युज्यते / न श्रोत्रं सारम् इति न दुर्बलम् इति युज्यते / न घ्राणं सारम् इति न दुर्बलम् इति युज्यते / न जिह्वां सारेति न दुर्बलेति युज्यते / न कायं सारम् इति न दुर्बलम् इति युज्यते / न मनः सारम् इति न दुर्बलम् इति युज्यतै / न रूपं सारम् इति न दुर्बलम् इति युज्यते / न शब्दं सारम् इति न दुर्बलम् इति युज्यते / न गन्धं सारम् इति न दुर्बलम् इति युज्यते / न रसं सारम् इति न दुर्बलम् इति युज्यते / न स्पर्शं सारम् इति न दुर्बलम् इति युज्यते / न धर्मान् सारा इति न दुर्बला इति युज्यते / न चक्षुर्विज्ञानं सारम् इति न दुर्बलम् इति युज्यते / न श्रोत्रविज्ञानं सारम् इति न दुर्बलम् इति युज्यते / न घ्राणविज्ञानं सारम् इति न दुर्बलम् इति युज्यते / न जिह्वाविज्ञानं सारम् इति न दुर्बलम् इति युज्यते / न कायविज्ञानं सारम् इति न दुर्बलम् इति युज्यते / न मनोविज्ञानं सारम् इति न दुर्बलम् इति युज्यते / न चक्षुःसंस्पर्शः सारम् इति न दुर्बलम् इति वा युज्यते / न श्रोत्रसंस्पर्शः सारम् इति न दुर्बलम् इति युज्यते / न घ्राणसंस्पर्शः सारम् इति वा न दुर्बलम् इति वा युज्यते / न जिह्वासंस्पर्शः सारम् इति न दुर्बलम् इति युज्यते / न कायसंस्पर्शः सारम् इति न दुर्बलम् इति युज्यते /

न मनःसंस्पर्शः सारम् इति न दुर्बलम् इति युज्यते / न चक्षुःसंस्पर्शप्रत्यया वेदना सारेति न दुर्बलेति युज्यते / न श्रोत्रसंपर्शप्रत्यया वेदना सारेति न दुर्बलेति युज्यते / न घ्राणसंस्पर्शप्रत्यया वेदना सारेति न दुर्बलेति युज्यते / न जिह्वासंस्पर्शप्रत्यया वेदना सारेति न दुर्बलेति युज्यते / न कायसंस्पर्शप्रत्यया वेदना सारेति न दुर्बलेति युज्यते / न मनःसंस्पर्शप्रत्ययां वेदना सारेति न दुर्बलेति युज्यते / न पृथिवीधातुः सार इति न दुर्बल इति युज्यते / नाब्धातुः सार इति न दुर्बल इति युज्यते / न तेजोधातुः सार इति न दुर्बल इति युज्यते / न वायुधातुः सार इति न दुर्बल इति युज्यते / नाकाशधातुः सार इति न दुर्बल इति युज्यते / न विज्ञानधातुः सार इति न दुर्बल इति युज्यते / नाविद्या सरेति न दुर्बलेति युज्यते / न संस्कारान् सारा इति न दुर्बला इति युज्यते / न विज्ञानं सारम् इति न दुर्बलम् इति युज्यते / न नामरूपं सारम् इति न दुर्बलम् इति युज्यते / न षडायतनं सारम् इति न दुर्बलम् इति युज्यते / न स्पर्शः सार इति न दुर्बल इति युज्यते / न वेदना सारेति न दुर्बलेति युज्यते / न तृष्णा सारेति न दुर्बलेति युज्यते / नोपादानं सारम् इति न दुर्बलम् इति युज्यते / न भवं सारम् इति न दुर्बलम् इति युज्यते / न जातिं सारेति न दुर्बलेति युज्यते / न जरामरणं सारम् इति न दुर्बलम् इति युज्यते / न दानपारमिता सारेति न दुर्बलेति युज्यते / न शीलपारमिता सारेति न दुर्बलेति युज्यते / न क्षान्तिपारमिता सारेति न दुर्बलेति युज्यते / न वीर्यपारमिता सारेति न दुर्बलेति युज्यते / न ध्यानपारमिता सारेति न दुर्बलेति युज्यते /

न प्रज्ञापारमिता सारेति न दुर्बलेति युज्यते / नाध्यात्मशून्यता सारेति न दुर्बलेति युज्यते / न बहिर्धाशून्यता सारेति न दुर्बलेति युज्यते / नाध्यात्मबहिर्धाशून्यता सारेति न दुर्बलेति युज्यते / न शून्यताशून्यता सारेति न दुर्बलेति युज्यते / न महाशून्यता सारेति न दुर्बलेति युज्यते / न परमार्थशून्यता सारेति न दुर्बलेति युज्यते / न संस्कृतशून्यता सारेति न दुर्बलेति युज्यते / नासंस्कृतशून्यता सारेति न दुर्बलेति स युज्यते / नात्यन्तरशून्यता सारेति न दुर्बलेत्ति युज्यते / नानवराग्रशून्यता सारेति न दुर्बलेति युज्यते / नानवकारशून्यता सारेति न दुर्बलेति युज्यते / न प्रकृतिशून्यता सारेति न दुर्बलेति युज्यते / न सर्वधर्मशून्यता सारेति न दुर्बलेति युज्यते / न स्वलक्षणशून्यता सारेति न दुर्बलेति युज्यते / नानुपलम्भशून्यता सारेति न दुर्बलेति युज्यते / नाभावशून्यता सारेति न दुर्बलेति युज्यते / न स्वभावशून्यता सारेति न दुर्बलेति युज्यते / नाभावस्वभावशून्यता सारेति न दुर्बलेति युज्यते / न स्मृत्युपस्थानानि साराणीति न दुर्बलानीति युज्यते / न सम्यक्प्रहाणानि साराणीति न दुर्बलानीति युज्यते / नर्धिपादाः सारा इति

न दुर्बला इति युज्यते / नेन्द्रियाणि साराणीति न दुर्बलानीति युज्यते / न बलानि साराणीति न दुर्बलानि युज्यते / न बोध्यङ्गानि साराणीति न दुर्बलानीति युज्यते / नार्याष्टाङ्गमार्गः सार इति न दुर्बल इति युज्यते / नार्यसत्यानि साराणीति न दुर्बलानीति युज्यते / न ध्यानानि साराणीति न दुर्बलानीति युज्यते / नाप्रमाणानि साराणीति न दुर्बलानीति युज्यते / नारूप्यसमापत्तीः सारा इति न दुर्बला इति युज्यते / नाष्टौ विमोक्षाः सारा इति न दुर्बला इति युज्यते / न नवानुपूर्वविहारसमापत्तीः सारा इति न दुर्बला इति युज्यते / न शून्यता सारा इति न दुर्बलेति युज्यते / न समाधयः सारा इति न दुर्बला इति युज्यते / नानिमित्तं सारम् इति न दुर्बलम् इति युज्यते / नाप्रणिहितं सारम् इति न दुर्बलम् इति युज्यते / नाभिज्ञाः सारा इति न दुर्बला इति युज्यते / न धारणीमुखानि साराणीति न दुर्बलानीति युज्यते / न दश तथागतबलानि साराणीति न दुर्बलानीति युज्यते / न चत्वारि वैशारद्यानि साराणीति न दुर्बलानीति युज्यते / न चतस्रः प्रतिसंविदः सारा इति न दुर्बला इति युज्यते / न महामैत्री सारेति न दुर्बलेति युज्यते / न महाकरुणा सारेति न दुर्बलेति युज्यते / नाष्टादशावेणिकबुद्धधर्माः सारा इति न दुर्बला इति युज्यते / न श्रोतआपत्तिफलं सारम् इति न दुर्बलम् इति युज्यते / न सकृदागामिफलं सारम् इति न दुर्बलम् इति युज्यते / नानागामिफलं सारम् इति न दुर्बलम् इति युज्यते / नार्हत्त्वं सारम् इति न दुर्बलम् इति युज्यते / न प्रत्येकबोधिं सारेति न दुर्बलेति युज्यते / न मार्गाकारज्ञता सारेति न दुर्बलेति युज्यते / न सर्वाकारज्ञता सारेति न दुर्बलेति युज्यते / एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपम् अस्तीति न नास्तीति युज्यते न वियुज्यते / न वेदनास्तीति न नास्तीति युज्यते न वियुज्यते / न संज्ञास्तीति न नास्तीति युज्यते न वियुज्यते / न संस्कारा अस्तीति न नास्तीति युज्यते न वियुज्यते / न विज्ञानम् अस्तीति न नास्तीति युज्यते न वियुज्यते / न चक्षुर् अस्तीति न नास्तीति युज्यते न वियुज्यते / न श्रोत्रम् अस्तीति न नास्तीति युज्यते न वियुज्यते / न घ्राणम् अस्तीति न नास्तीति युज्यते न वियुज्यते / न जिह्वाम् अस्तीति नास्तीति युज्यते न वियुज्यते / न कायम् अस्तीति न नास्तीति युज्यते न वियुज्यते / न मनो ऽस्तीति न नास्तीति युज्यते न वियुज्यते / न रूपम् अस्तीति न नास्तीति युज्यते न वियुज्यते / न शब्दो ऽस्तीति न नास्तीति युज्यते न वियुज्यते / न गन्धो ऽस्तीति न नास्तीति युज्यते न वियुज्यते / न रसो ऽस्तीति न नास्तीति युज्यते न वियुज्यते / न स्पर्शो ऽस्तीति न नास्तीति युज्यते न वियुज्यते / न धर्मा अस्तीति न नास्तीति युज्यते न वियुज्यते / न चक्षुर्विज्ञानम् अस्तीति न नास्तीति युज्यते न वियुज्यते / न श्रोत्रविज्ञानम् अस्तीति न नास्तीति युज्यते न वियुज्यते / न घ्राणविज्ञानम् अस्तीति न नास्तीति युज्यते न वियुज्यते / न जिह्वाविज्ञानम् अस्तीति न नास्तीति युज्यते न वियुज्यते / न कायविज्ञानम् अस्तीति न नास्तीति युज्यते न वियुज्यते / न मनोविज्ञानम् अस्तीति न नास्तीति युज्यते न वियुज्यते / न चक्षुःसंस्पर्शो ऽस्तीति न नास्तीति युज्यते न वियुज्यते / न श्रोत्रसंस्पर्शो ऽस्तीति न नास्तीति युज्यते न वियुज्यते / न घ्राणसंस्पर्शो ऽस्तीति न नास्तीति युज्यते न वियुज्यते /

न जिह्वासंस्पर्शो ऽस्तीति न नास्तीति युज्यते न वियुज्यते / न कायसंस्पर्शो ऽस्तीति न नास्तीति युज्यते न वियुज्यते / न मनःसंस्पर्शो ऽस्तीति न नास्तीति युज्यते न वियुज्यते / न चक्षुःसंस्पर्शप्रत्यया वेदनास्तीति न नास्तीति युज्यते न वियुज्यते / न श्रोत्रसंस्पर्शप्रत्यया वेदनास्तीति न नास्तीति युज्यते न वियुज्यते / न घ्राणसंस्पर्शप्रत्यया वेदनास्तीति न नास्तीति युज्यते न वियुज्यते / न जिह्वासंस्पर्शप्रत्यया वेदनास्तीति न नास्तीति युज्यते न वियुज्यते / न कायसंस्पर्शप्रत्यया वेदनास्तीति न नास्तीति युज्यते न वियुज्यते / न मनःसंस्पर्शप्रत्यया वेदनास्तीति न नास्तीति युज्यते न वियुज्यते / न पृथिवीधातुर् अस्तीति न नास्तीति युज्यते न वियुज्यते / नाब्धातुर् अस्तीति न नास्तीति युज्यते न वियुज्यते / न तेजोधातुर् अस्तीति न नास्तीति युज्यते न वियुज्यते / न वायुधातुर् अस्तीति न नास्तीति युज्यते न वियुज्यते / नाकाशधातुर् अस्तीति न नास्तीति युज्यते न वियुज्यते / न विज्ञानधातुर् अस्तीति न नास्तीति युज्यते न वियुज्यते / नाविद्यास्तीति न नास्तीति युज्यते न वियुज्यते / न संस्कारा अस्तीति न नास्तीति युज्यते न वियुज्यते / न विज्ञानम् अस्तीति न नास्तीति युज्यते न वियुज्यते / न नामरूपम् अस्तीति न नास्तीति युज्यते न वियुज्यते / न षडायतनम् अस्तीति न नास्तीति युज्यते न वियुज्यते / न स्पर्शो ऽस्तीति न नास्तीति युज्यते न वियुज्यते / न वेदनास्तीति न नास्तीति युज्यते न वियुज्यते / न तृष्णास्तीति न नास्तीति युज्यते न वियुज्यते / नोपादानम् अस्तीति न नास्तीति युज्यते न वियुज्यते / न भवो ऽस्तीति न नास्तीति युज्यते न वियुज्यते /

न जातिर् अस्तीति न नास्तीति युज्यते न वियुज्यते / न जरामरणम् अस्तीति न नास्तीति युज्यते न वियुज्यते / न दानपारमितास्तीति न नास्तीति युज्यते न वियुज्यते / न शीलपारमितास्तीति न नास्तीति युज्यते न वियुज्यते / न क्षान्तिपारमितास्तीति न नास्तीति युज्यते न वियुज्यते / न वीर्यपारमितास्तीति न नास्तीति युज्यते न वियुज्यते / न ध्यानपारमितास्तीति न नास्तीति युज्यते न वियुज्यते / न प्रज्ञापारमितास्तीति न नास्तीति युज्यते न वियुज्यते / नाध्यात्मशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते / न बहिर्धाशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते / नाध्यात्मबहिर्धाशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते / न शून्यताशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते / न महाशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते / न परमार्थशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते / न संस्कृतशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते / नासंस्कृतशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते / नात्यन्तशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते / नानवराग्रशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते / नानवकारशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते / न प्रकृतिशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते / न सर्वधर्मशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते / न स्वलक्षणशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते / नानुपलम्भशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते / नाभावशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते / न स्वभावशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते / नाभावस्वभावशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते /

न स्मृत्युपस्थानान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते / न सम्यक्प्रहाणान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते / नर्धिपादा अस्तीति न नास्तीति युज्यते न वियुज्यते / नेन्द्रियाण्य् अस्तीति न नास्तीति युज्यते न वियुज्यते / न बलान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते / न बोध्यङ्गान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते / नार्याष्टाङ्गमार्गो ऽस्तीति न नास्तीति युज्यते न वियुज्यते / नार्यसत्यान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते / न ध्यानान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते / नाप्रमाणान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते / नारूप्यसमापत्तयो ऽस्तीति न नास्तीति युज्यते न वियुज्यते / नाष्टौ विमोक्षा अस्तीति न नास्तीति युज्यते न वियुज्यते / न नवानुपूर्वविहारसमापत्तयो ऽस्तीति न नास्तीति युज्यते न वियुज्यते / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते / नाभिज्ञाः अस्तीति न नास्तीति युज्यते न वियुज्यते / न समाधयो ऽस्तीति न नास्तीति युज्यते न वियुज्यते / न धारणीमुखान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते / न दश तथागतबलान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते / न चत्वारि वैशारद्यान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते / न चतस्रः प्रतिसंविदो ऽस्तीति न नास्तीति युज्यते न वियुज्यते / न महामैत्र्य् अस्तीति न नास्तीति युज्यते न वियुज्यते / न महाकरुणास्तीति न नास्तीति युज्यते न वियुज्यते / नाष्टादशावेणिकबुद्धधर्मा अस्तीति न नास्तीति युज्यते न वियुज्यते / न श्रोतआपत्तिफलम् अस्तीति न नास्तीति युज्यते न वियुज्यते / न सकृदागामिफलम् अस्तीति न नास्तीति युज्यते न वियुज्यते /

नानागामिफलम् अस्तीति न नास्तीति युज्यते न वियुज्यते / नार्हत्त्वम् अस्तीति न नास्तीति युज्यते न वियुज्यते / न प्रत्येकबोधिर् अस्तीति न नास्तीति युज्यते न वियुज्यते / न मार्गाकारज्ञतास्तीति न नास्तीति युज्यते न वियुज्यते / न सर्वाकारज्ञतास्तीति न नास्तीति युज्यते न वियुज्यते / एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न दानपारमितायाः कृते प्रज्ञापारमितायां चरति / न शीलपारमितायाः कृते प्रज्ञापारमितायां चरति / न क्षान्तिपारमितायाः कृते प्रज्ञापारमितायां चरति / न वीर्यपारमितायाः कृते प्रज्ञापारमितायां चरति / न ध्यानपारमितायाः कृते प्रज्ञापारमितायां चरति / न प्रज्ञापारमितायाः कृते प्रज्ञापारमितायां चरति / नाध्यात्मशून्यतायाः कृते प्रज्ञापारमितायां चरति / न बहिर्धाशून्यतायाः कृते प्रज्ञापारमितायां चरति / नाध्यात्मबहिर्धाशून्यतायाः कृते प्रज्ञापारमितायां चरति / न शून्यताशून्यतायाः कृते प्रज्ञापारमितायां चरति / न महाशून्यतायाः कृते प्रज्ञापारमितायां चरति / न परमार्थशून्यतायाः कृते प्रज्ञापारमितायां चरति / न संस्कृतशून्यतायाः कृते प्रज्ञापारमितायां चरति / नासंस्कृतशून्यतायां कृते प्रज्ञापारमितायां चरति / नात्यन्तशून्यतायाः कृते प्रज्ञापारमितायां चरति / नानवराग्रशून्यतायाः कृते प्रज्ञापारमितायां चरति / नानवकारशून्यतायाः कृते प्रज्ञापारमितायां चरति / न प्रकृतिशून्यतायाः कृते प्रज्ञापारमितायां चरति / न सर्वधर्मशून्यतायाः कृते प्रज्ञापारमितायां चरति / न स्वलक्षणशून्यतायाः कृते प्रज्ञापारमितायां चरति / नानुपलम्भशून्यतायाः कृते प्रज्ञापारमितायां चरति / नाभावशून्यतायाः कृते प्रज्ञापारमितायां चरति / न स्वभावशून्यतायाः कृते प्रज्ञापारमितायां चरति / नाभावस्वभावशून्यतायाः कृते प्रज्ञापारमितायां चरति / नावैवर्त्यभूमेः कृते प्रज्ञापारमितायां चरति / न सत्त्वपरिपाकहेतोः प्रज्ञापारमितायां चरति /

न बुद्धक्षेत्रपरिशोधनार्थं प्रज्ञापारमितायां चरति / न स्मृत्युपस्थानानां कृते प्रज्ञापारमितायां चरति / न सम्यक्प्रहाणानां कृते प्रज्ञापारमितायां चरति / नर्धिपादानां कृते प्रज्ञापारमितायां चरति / नेन्द्रियाणां कृते प्रज्ञापारमितायां चरति / न बलानां कृते प्रज्ञापारमितायां चरति / न बोध्यङ्गानां कृते प्रज्ञापारमितायां चरति / नार्याष्टाङ्गमार्गस्य कृते प्रज्ञापारमितायां चरति / नार्यसत्यानां कृते प्रज्ञापारमितायां चरति / न ध्यानानां कृते प्रज्ञापारमितायां चरति / नाप्रमाणानां कृते प्रज्ञापारमितायां चरति / नारूप्यसमापत्तीनां कृते प्रज्ञापारमितायां चरति / नाष्टानां विमोक्षाणां कृते प्रज्ञापारमितायां चरति / न नवानुपूर्वविहारसमापत्तीनां कृते प्रज्ञापारमितायां चरति / न शून्यतायाः कृते प्रज्ञापारमितायां चरति / नानिमित्तस्य कृते प्रज्ञापारमिताया चरति / नाप्रणिहितस्य कृते प्रज्ञापारमितायां चरति / नाभिज्ञानां कृते प्रज्ञापारमितायां चरति / न समाधीनां कृते प्रज्ञापारमितायां चरति / न धारणीमुखानां कृते प्रज्ञापारमितायां चरति / न दशानां तथागतबलानां कृते प्रज्ञापारमितायां चरति / न चतुर्णां वैशारद्यानां कृते प्रज्ञापारमितायां चरति / न चतसृणां प्रतिसंविदां कृते प्रज्ञापारमितायां चरति / न महामैत्र्याः कृते प्रज्ञापारमितायां चरति / न महाकरुणायाः कृते प्रज्ञापारमितायां चरति / नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां कृते प्रज्ञापारमितायां चरति / न तथतायाः कृते प्रज्ञापारमितायां चरति / न धर्मधातोः कृते प्रज्ञापारमितायां चरति / न भूतकोटेः कृते प्रज्ञापारमितायां चरति /

तत् कस्य हेतोर् न हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति / कस्यचिद् धर्मस्य संभेदं वा नानाकरणं वा विशेषं वा समनुपश्यति / एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः /

न स दिव्यस्य चक्षुषः कृते प्रज्ञापारमितायां चरति / न दिव्यस्य श्रोत्रस्य कृते प्रज्ञापारमितायां चरति / न परचित्तज्ञानस्य कृते प्रज्ञापारमितायां चरति / न पूर्वनिवासानुस्मृतेः कृते प्रज्ञापारमितायां चरति / नर्धिविधेः कृते प्रज्ञापारमितायां चरति / नाश्रवक्षयज्ञानस्य कृते प्रज्ञापारमितायां चरति /

तत् कस्य हेतोः / तथा हि प्रज्ञापारमितायां चरन् न प्रज्ञापारमिताम् एव समनुपश्यति प्राग् एव बोधिसत्त्वः कुत एव सर्वाकारं सर्वाभिज्ञा उपलप्स्यते / एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्करिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि / नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्करिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि / नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्कुरिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि / नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्करिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि / नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्करिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि / नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्करिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि / नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्करिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि / नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्करिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि / नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्करिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि / नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वाधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्करिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि /

न चास्यैवं भवति यत् ते बुद्धा भगवन्तो भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोष्याम्य् अहं / तत्र लोकधातुषु सत्त्वानां चेतसैव चित्तं प्रज्ञस्याम्य् अहं / तेषां पूर्वनिवासम् अनुस्मरिष्याम्य् अहं / दिव्येन चक्षुषा तान् सर्वांश् च्यवमानान् उपपद्यमानान् उपपन्नांश् च द्रक्ष्यामि / अहम् अप्रमेयासंख्येयान् सत्त्वान् परिनिर्वापयिष्यामीति / एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां युक्त इति वक्तव्यः /

एवं खलु शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो मा छिद्रान्वेष्य् अवतारगवेष्य् अवतारं न लभते / यान्य् अपि कानिचिल् लौकिकलोकोत्तराणि करणीयानि तान्य् अपि सर्वाणि प्रदलितानि भवन्ति / अनाभोगेनापरिकल्पितानि ये चास्य केचिल् लौकिकाः क्लेशास् ते सर्वे प्रदलिता भवन्ति / ये च ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति / मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति /

ये च चत्वारो महाराजाः त्रायस्त्रिंशा देवाः यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवो ब्रह्मकायिका देवाः ब्रह्मपुरोहिता देवाः ब्रह्मपार्षद्याः महाब्रह्मणः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्तशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फलाः अवृहाः अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति / ये केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति / तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्वान् मैत्र्या स्फुरति / ये च ते दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति मा श्रावकभूमिं प्रत्येकबुद्धभूमिं वा पतेद् इति /

ये च चत्वारो महाराजास् त्रायस्त्रिंशा देवा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवाः ब्रह्मकायिकाः ब्रह्मपुरोहिताः ब्रह्मपार्षद्याः महाब्रह्माः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्ताशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहा अप्रमाणवृहाः वृहत्फलाः अवृहाः अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति / मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति / ये ऽपि केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् मैत्र्या स्फुरति / ये च ते पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति /

ये च चत्त्वारो महाराजास् त्रायस्त्रिंशा देवा यामाः तुषिताः निर्माणरतयः परनिर्मितवशवर्तिनो देवाः ब्रह्मकायिका देवा ब्रह्मपुरोहिता ब्रह्मपार्षद्याः महाब्रह्मणः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्तशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फला अवृहाः अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति / मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति / ये ऽपि च केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति / तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् मैत्र्या स्फुरति / ये चोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति /

ये च चत्वारो महाराजास् त्रायस्त्रिंशा देवा यामाः तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्मणः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्तशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फलाः अवृहा अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति / मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति / ये ऽपि केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति / तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् मैत्र्या स्फुरति / ये च ते उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धो भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति /

ये च चत्वारो महाराजास् त्रायस्त्रिंशा देवा यामाः तुषिताः निर्माणरतयः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका ब्रह्मपुरोहिताः ब्रह्मपार्षद्या महाभह्मणः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्तशुभाः अप्रमाणशुभाः शुभकृत्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फलाः अवृहाः अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति / मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति / ये ऽपि केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति / तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् मैत्र्या स्फुरति / ये च ते पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति /

ये च चत्वारो महाराजास् त्रायस्त्रिंशा देवा यामाः तुषिताः निर्माणरतयः परनिर्मितवशवर्तिनो देवाः ब्रह्मकायिका ब्रह्मपुरोहिताः ब्रह्मपार्षद्या महाब्रह्मणः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्तरशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फलाः अवृहाः अतपाः सुदृशाः सुदर्शनाः अकनिष्ठास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति / मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति / ये ऽपि केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति / तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् मैत्र्या स्फुरति / ये च ते दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति /

ये च चत्वारो महाराजास् त्रायस्त्रिंशा देवा यामाः तुषिताः निर्माणरतयः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्याः महाब्रह्मणः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्तशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फलाः अवृहाः अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति / मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति / ये ऽपि केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति / तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् मैत्र्या स्फुरति / ये ऽपि च ते पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति / मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति /

ये च चत्वारो महाराजास् त्रायस्त्रिंशा देवा यामाः तुषिताः निर्माणरतयः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्याः महाब्रह्मणः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्तशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फलाः अवृहाः अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति / मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति / ये ऽपि केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति / तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् मैत्र्या स्फुरति / ये ऽपि च ते ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति /

ये च चत्वारो महाराजास् त्रायस्त्रिंशा देवा यामाः तुषिताः निर्माणरतयः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्याः महाब्रह्मणः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्तशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फलाः अवृहाः अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति / मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति / ये ऽपि केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति / तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् मैत्र्या स्फुरति / ये ऽपि च ते उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति /

ये च चत्वारो महाराजास् त्रायस्त्रिंशा देवा यामाः तुषिताः निर्माणरतयः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्याः महाब्रह्मणः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्तशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फलाः अवृहाः अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति / मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति / ये ऽपि केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति / तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् मैत्र्या स्फुरति / एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापार्मितायां युक्त इति वक्तव्यः /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो ऽन्यकृच्छ्रेण धारणीमूखसमाधिमुखानि प्रतिभानप्रतिसंविन्मुखानि वाभिमुखीभवन्ति / सर्वोपपक्त्यायतनेषु च तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयति / तैश् च बुद्धैर् भगवद्भिर् न कदाचिद् विरहितो भवति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवत्य् अस्ति कश्चिद् धर्मो यो धर्मैः सार्धं संयुज्यते वा वियुज्यते वा / समेति वा न समेति वा / तत् कस्य हेतोस् तथा हि स तद् धर्मं न समनुपश्यति यो युज्यते वा वियुज्यते वा / समीयाद् वा न समीयाद् वा / एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति कच्चिद् अहं धर्मधातुम् अभिसंबुध्येयं न वाभिसंबुध्येयं वा / तत् कस्य हेतोस् तथा हि न हि धर्मधातुम् अभिसंबुद्धो नाभिसंबुध्यते नाभिसंभोत्स्यते / एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चिद् धर्मधातुव्यतिरिक्तं समनुपश्यति एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न धर्मधातोर् धर्माणाञ् च नानाकरणं करोति / एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति धर्मधातुं प्रतिविध्येयं / तथा हि न स कञ्चिद् धर्मं समनुपश्यति येन धर्मेण यो धर्मः प्रतिविध्येत / तथा हि स न धर्मधातुं शून्य इति योजयति नाशून्य इति योजयति / एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं शून्यतया योजयति न शून्यतां रूपेण योजयति / न वेदनां शून्यतया योजयति न शून्यतां वेदनया योजयति / न संज्ञां शून्यतया योजयति न शून्यतां संज्ञया योजयति / न संस्कारान् शून्यतया योजयति न शून्यता संस्कारैर् योजयति / न विज्ञानं शून्यतया योजयति न शून्यतां विज्ञानेन योययति / न चक्षुः शून्यतया योजयति न शून्यतां चक्षुषा योजयति / न श्रोत्रं शून्यतया योजयति न शून्यतां श्रोत्रेण योजयति / न घ्राणं शून्यतया योजयति न शून्यतां घ्राणेन योजयति / न जिह्वां शून्यतया योजयति न शून्यतां जिह्वया योजयति / न कायं शून्यतया योजयति न शून्यतां कायेन योजयति / न मनः शून्यतया योजयति न शून्यतां मनसा योजयति / न रूपं शून्यतया योजयति न शून्यतां रूपेण योजयति / न शब्दं शून्यतया योजयति न शून्यतां शब्देन योजयति / न गन्धं शून्यतया योजयति न शून्यतां गन्धेन योजयति / न रसं शून्यतया योजयति न शून्यतां रसेन योजयति / न स्पर्शं शून्यतया योजयति न शून्यतां स्पर्शेन योजयति / न धर्माञ् छून्यतया योजयति न शून्यतां धर्मेण योजयति / न चक्षुर्धातुं शून्यतया योजयति न शून्यतां चक्षुर्धातुना योजयति / न रूपधातुं शून्यतया योजयति न शून्यतां रूपधातुना योजयति / न चक्षुर्विज्ञानधातुं शून्यतया योजयति न शून्यतां चक्षुर्विज्ञानधातुना योजयति / न श्रोत्रधातुं शून्यतया योजयति न शून्यतां श्रोत्रधातुना योजयति / न शब्दधातुं शून्यतया योजयति न शून्यतां शब्दधातुना योजयति /

न श्रोत्रविज्ञानधातुं शून्यतया योजयति न शून्यतां श्रोत्रविज्ञानधातुना योजयति / न घ्राणधातुं शून्यतया योजयति न शून्यतां घ्राणधातुना योजयति / न गन्धधातुं शून्यतया योजयति न शून्यतां गन्धधातुना योजयति / न घ्राणविज्ञानधातुं शून्यतया योजयति न शून्यतां घ्राणविज्ञानधातुना योजयति / न जिह्वाधातुं शून्यतया योजयति न शून्यतां जिह्वाधातुना योजयति / न रसधातुं शून्यतया योजयति न शून्यतां रसधातुना योजयति / न जिह्वाविज्ञानधातुं शून्यतया योजयति न शून्यतां जिह्वाविज्ञानधातुना योजयति / न कायधातुं शून्यतया योजयति न शून्यतां कायधातुना योजयति / न स्प्रष्टव्यधातुं शून्यतया योजयति न शून्यतां स्प्रष्टव्यधातुना योजयति / न कायविज्ञानधातुं शून्यतया योजयति / न शून्यतां कायविज्ञानधातुना योजयति / न मनोधातुं शून्यतया योजयति न शून्यतां मनोधातुना योजयति / न धर्मधातुं शून्यतया योजयति न शून्यतां धर्मधातुना योजयति / न रूपधातुं शून्यतया योजयति न शून्यतां रूपधातुना योजयति / न चक्षुर्विज्ञानधातुं शून्यतया योजयति न शून्यतां चक्षुर्विज्ञानधातुना योजयति / न मनोविज्ञानधातुं शून्यतया योजयति न शून्यतां मनोविज्ञानधातुना योजयति / तत् कस्य हेतोर् एष हि शारद्वतीपुत्र परमो योगो यद् उत शून्यतायोगः शून्यतायां शारद्वतीपुत्र चरन् बोधिसत्त्वो महासत्त्वो न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा पतति / बुद्धक्षेत्रञ् च परिशोधयति सत्त्वांश् च परिपाचयति / क्षिप्रञ् चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते /

ये केचिच् छारद्वतीपुत्र योगाः प्रज्ञापारमितायोगस् तेषाम् अग्र आख्यायते ज्येष्ठ आख्यायते श्रेष्ठ आख्यायते वर आख्यायते प्रवर आख्यायते प्रणीत आख्यायते / तत् कस्य हेतोर् अनुत्तर एष योगो यद् उत प्रज्ञापारमितायोगः शून्यतानिमित्ताप्रणिहितयोगः / एवं युज्यमानः शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो व्याकृतो वक्तव्यः /

आसन्नीभूतश् चानुत्तरायां सम्यक्संबोधौ / एवं युज्यमानः शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ऽप्रमेयासंख्येयानां सत्वानां अर्थं करोतीति / न चास्यैवं भवत्य् अहं प्रज्ञापारमितायां युज्यते वा वियुज्यते वा मां बुद्धा भगवन्तो व्याकरिष्यन्त्य् अहम् आसन्नीभूतो व्याकरणस्य / अहं बुद्धक्षेत्रं परिशोधयिष्याम्य् अहं सत्त्वान् परिपाचयिष्याम्य् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यत धर्मचक्रं प्रवर्तयिष्यामि / तत् कस्य हेतोस् तथा हि / स धर्मधातुं व्यतिरेकीकरोति / न स धर्मधातोः किञ्चिद् अन्यद् धर्मं समनुपश्यति / यः प्रज्ञापारमितायां चरेद् यो वा बुद्धैर् भगवद्भिर् व्याक्रियेत / यो वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्येत / तत् कस्य हेतोस् तथा हि बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न सत्त्वसंज्ञोत्पद्यते / नात्मसंज्ञोत्पद्यते / न जीवसंज्ञोत्पद्यते / न जन्तुसंज्ञोत्पद्यते / न पोषसंज्ञोत्पद्यते / न पुरुषसंज्ञोत्पद्यते / न पुद्गलसंज्ञोत्पद्यते / न मनुजसंज्ञोत्पद्यते / न मानवसंज्ञोत्पद्यते / न कारकसंज्ञोत्पद्यते / न वेदकसंज्ञोत्पद्यते / न जानकसंज्ञोत्पद्यते / न पश्यकसंज्ञोत्पद्यते / तत् कस्य हेतोस् तथा ह्य् अत्यन्तं सत्त्वो नोत्पद्यते न निरुध्यते न हि सत्वस्योत्पादो निरोधः / यस्य च नोत्पादो न निरोधः स व थ प्रज्ञापारमितायां चरिष्यति / एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः सत्त्वानुत्पादतया प्रज्ञापारमितायां चरति / सत्त्वशून्यतया प्रज्ञापारमितायां चरति / सत्त्वानुपलब्ध्या प्रज्ञापारमितायां चरति / सत्त्वविविक्ततया प्रज्ञापारमितायां चरति / सत्त्वप्रकृत्या प्रज्ञापारमितायां चरति / सत्त्वास्वभावतया प्रज्ञापारमितायां चरति / एष शारद्वतीपुत्र बोधिसत्त्वानां महासत्त्वानां परमो योगो यद् उत प्रज्ञापारमितायोगः अयं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो योगो यस् तदन्यान् योगान् अभिभूय तिष्ठति /

अत्र च शारद्वतीपुत्र योगे चरन् बोधिसत्त्वो महासत्त्वो दश तथागतबलान्य् अभिनिर्हरति / चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्रीं महाकरुणाम् अष्टादशावेणिकबुद्धधर्मान् अभिर्निर्हरति / अत्र शारद्वतीपुत्र योगे चरन् बोधिसत्त्वो महासत्त्वो न मात्सर्यचित्तम् उत्पादयति / न दौःशील्यचित्तं न व्यापादचित्तं न कौसीद्यचित्तं न विक्षेपचित्तं न दौष्प्रज्ञचित्तम् उत्पादयति / एवम् उक्ते आयुष्मान् शारद्वतीपुत्रो भगवन्तम् एतद् अवोचत् / यो भगवन् बोधिसत्त्वो महासत्त्वो ऽनेन प्रज्ञापारमितायोगेन विहरति / स कुतश् च्युत्वेहोपपन्नः / इतो वा च्युतः कुत्रोपपत्स्यते /

भगवान् आह / यः शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ऽनेन प्रज्ञापारमितायोगेन विहरति सो ऽन्येभ्यो बुद्धक्षेत्रेभ्यश् च्युत्वेहोपपन्नो वेदितव्यः / तुषितेभ्यो देवनिकायेभ्यो मनुष्येभ्यो वा च्युत्वेहोपपन्नो वेदितव्यः / तत्र शारद्वतीपुत्र यो ऽयं बोधिसत्त्वो महासत्त्वो ऽन्येभ्यो बुद्धक्षेत्रेभ्यश् च्युत्वेहोपपन्नः / एष क्षिप्रम् इमं योगं समापद्यते / यद् उत प्रज्ञापारमितायोगं / अस्य जातिव्यतिवृत्तस्यापीमे गम्भीरा धर्मा अभिमुखीभवन्ति / पश्चात् प्रज्ञापारमितायोगं समापद्यते / यत्र यत्र च बुद्धक्षेत्रेषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति तत्र तत्रोपपद्यते / तांश् च तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयति / तत्र शारद्वतीपुत्र यो ऽयं बोधिसत्त्वो महासत्त्वस् तुषितेभ्यो देवनिकायेभ्यश् च्युत्वेहोपपन्नो वेदितव्यः / स खल्व् एकजातिप्रतिबद्धास् तस्याविप्रनष्टा भवति षट्पारमिता / अत्रान्तर्गतानि भवन्ति सर्वधारणीमुखसमाधिमुखानि / यः पुनः शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो मनुष्येभ्यश् च्युत्वा मनुष्याणाम् एव सभागताया उपपद्यते / तस्य बोधिसत्त्वस्य महासत्त्वस्यावैवर्तिकं बोधिसत्त्वं महासत्त्वं स्थापयित्वा धन्यानीन्द्रियाणि भवन्ति / न च क्षिप्रम् इमं प्रज्ञापारमितायोग समापद्यते / बुद्धक्षेत्रात् च्युतो बुद्धक्षेत्रं संक्रमिष्यति यत्र बुद्धा भवगन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति / न च कदाचिद् अपि बुद्धैर् भगवद्भिर् विरहितो भविष्यति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा अनुपायकुशलाः प्रथमं ध्यानं समापद्यन्ते / द्वितीयं ध्यानं समापद्यन्ते / तृतीयं ध्यानं समापद्यन्ते / चतुर्थं ध्यानं समापद्यन्ते / षट्पारमितासु चरन्ति / ते ध्यानप्रतिलम्भेन दीर्घायुष्केषु देवेषूपपद्यन्ते / सचेत् पुनर् मानुष्यं प्रतिलम्भं लब्धा बुद्धान् भगवत आरागयन्ति / तेषां धन्वानीन्द्रियाणि भवन्ति न तीक्ष्णानि /

अस्ति पुनः शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा ध्यानानि समापद्यन्ते प्रज्ञापारमितायां चरन्ति ते चानुपायकुशलाः ध्यानान्य् उत्सृजन्ति / ते पुनर् एव कामधाताव् उपपद्यन्ते / तेषाम् अपि शारद्वतीपुत्र बोधिसत्त्वानां महासत्त्वानां धन्वानीन्द्रियाणि भवन्ति / न तीक्ष्णानि / अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रथमं ध्यानं समापद्यन्ते / द्वितीयं ध्यानं समापद्यन्ते / तृतीयं ध्यानं समापद्यन्ते / चतुर्थं ध्यानं समापद्यन्ते / मैत्रीं समापद्यन्ते / करुणां समापद्यन्ते / मुदितां समापद्यन्ते / उपेक्षां समापद्यन्ते / आकाशानन्त्यायतनं समापद्यन्ते / विज्ञानानन्त्यायतनं समापद्यन्ते / आकिञ्चन्यायतनं समापद्यन्ते / नैवसंज्ञानासंज्ञायतनं समापद्यन्ते / चत्त्वारि स्मृत्युपस्थानानि समापद्यन्ते / चत्वारि सम्यक्प्रहाणानि समापद्यन्ते / चतुर ऋद्धिपादान् समापद्यन्ते / पञ्चेन्द्रियाणि समापद्यन्ते / पञ्च बलानि समापद्यन्ते / सप्त बोध्यङ्गानि समापद्यन्ते / आर्याष्टाङ्गमार्गं समापद्यन्ते / महाकरुणां समापद्यन्ते / महाकरुणाः सन्त उपायकौशलेन / न ध्यानवसेनोपपद्यन्ते / न ब्राह्मविहारवसेन / नारूप्यसमापत्तिवसेनोपपद्यन्ते / तत्र पुनर् उपपद्यन्ते यत्र बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति / ते पुनः प्रज्ञापारमितायोगेनाविरहिता इहैव भद्रकल्पे ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते /

अस्ति पुनः शारद्वतीपुत्र बोधिसत्त्वाः महासत्त्वाः प्रथमं ध्यानं समापद्यन्ते / द्वितीयं ध्यानं समापद्यन्ते / तृतीयं ध्यानं समापद्यन्ते / चतुर्थं ध्यानं समापद्यन्ते / मैत्रीं समापद्यन्ते / महाकरुणां समापद्यन्ते / मुदितां समापद्यन्ते / उपेक्षां समापद्यन्ते / आकाशानन्त्यायतनं समापद्यन्ते / विज्ञानानन्त्यायतनं समापद्यन्ते / आकिञ्चन्यायतनं समापद्यन्ते / नैवसंज्ञानासंज्ञायतनं समापद्यन्ते / ते चोपायकौशलेन ध्यानसमाधिसमापत्तिवसेनोपपद्यन्ते / ते पुनर् एवेह कामधाताव् उपपद्यन्ते / क्षत्रियमहाशालकुलेषूपपद्यन्ते / ब्राह्मणमहाशालकुलेषूपपद्यन्ते / गृहपतिमहाशालकुलेषूपपद्यन्ते सत्त्वपरिपाकाय न पुनर् भवाभिलाषात् /

अस्ति शारद्वतीपुत्र बोधिसत्त्वाः महासत्त्वाः प्रथमं ध्यानं समापद्यन्ते / द्वितीयं ध्यानं समापद्यन्ते / तृतीयं ध्यानं समापद्यन्ते / चतुर्थं ध्यानं समापद्यन्ते / मैत्रीं समापद्यन्ते / करुणां समापद्यन्ते / मुदितां समापद्यन्ते / उपेक्षां समापद्यन्ते / आकाशानन्त्यायतनं समापद्यन्ते / विज्ञानानन्त्यायतनं समापद्यन्ते / आकिञ्चन्यायतनं समापद्यन्ते / नैवसंज्ञानासंज्ञायतनं समापद्यन्ते / उपायकौशलवसेन न ध्यानसमाधिसमापत्तिवसेनोपपद्यन्ते / ते चातुर्महाराजकायिकानां देवानां सभागतायां उपपपद्यन्ते / त्रायस्त्रिंशानां देवानां सभागतायां उपपद्यन्ते / यामानां देवानां सभागतायां उपपद्यन्ते / तुषितानां देवानां सभागतायां उपपद्यन्ते / निर्माणरतीनां देवानां सभागतायां उपपद्यन्ते / परनिर्मितवशवर्तिनां देवानां सभागतायां उपपद्यन्ते / तत्र स्थित्वा सत्त्वान् परिपाचयन्ति बुद्धक्षेत्रञ् च परिशोधयन्ति / बुद्धांश् च भगवत आरागयन्ति / अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः उपायकौशलेन प्रथमं ध्यानं समापद्यन्ते / द्वितीयं ध्यानं समापद्यन्ते / तृतीयं ध्यानं समापद्यन्त / चतुर्थं ध्यानं समापद्यन्ते / मैत्रीं समापद्यन्ते / करुणां समापद्यन्ते / मुदितां समापद्यन्ते / उपेक्षां समापद्यन्ते / आकाशानन्त्यायतनं समापद्यन्ते / विज्ञानानन्त्यायतनं समापद्यन्ते / आकिञ्चन्यायतनं समापद्यन्ते / नैवसंज्ञानासंज्ञायतनं समापद्यन्ते / त इतश् च्युत्वा ब्रह्मलोक उपपद्यन्ते तत्र ब्रह्मणो भवन्ति / महाब्रह्मणः / अभिभुवो दशशतवर्षवर्तिनस् तेषां सत्त्वानाम् अग्र्या वरा प्रवरा वरिष्टास् ते तत्र स्थित्वा बुद्धक्षेत्रेण बुद्धषेत्रं संक्रामन्ति / यथा तथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिम् अभिषम्बुध्य धर्मचक्रं प्रवर्तयन्ति / ते तांस् तथागतान् अर्हतः सम्यक्संबुद्धान् अध्येषन्ते धर्माचक्रप्रवर्तनाय /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः एकजातिप्रतिबद्धाः / प्रज्ञापारमितायां चरन्त उपायकौशलेन प्रथमं ध्यानं समापद्यन्ते / द्वितीयं ध्यानं समापद्यन्ते / तृतीयं ध्यानं समापद्यन्ते / चतुर्थं ध्यानं समापद्यन्ते / मैत्रीं समापद्यन्ते / करुणां समापद्यन्ते / मुदितां समापद्यन्ते / उपेक्षां समापद्यन्ते / आकाशानन्त्यायतनसमापत्तिं समापद्यन्ते / विज्ञानानन्त्यायतनसमापत्तिं समापद्यन्ते / आकिञ्चन्यायतनसमापत्तिं समापद्यन्ते / नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्यन्ते / चत्वारि स्मृत्युपस्थानानि भावयन्ति / चत्वारि सम्यक्प्रहाणानि भावयन्ति / पञ्चेन्द्रियाणि भावयन्ति / सप्त बोध्यङ्गानि भावयन्ति / आर्याष्टाङ्गमार्गं भावयन्ति / शून्यतानिमित्ताप्रणिहितान् समाधीन् समापद्यन्ते / न च तेषां वसेनोपपद्यन्ते / ते संमुखीभूतान् बुद्धान् भगवत आराग्र्य तत्र ब्रह्मचर्यं चरित्वा तुषितानां देवानां सभागतायां उपपद्यन्ते / ते तत्र यावद् आयुः स्थित्वा अहीनेन्द्रियाः स्मृताः संप्रजानन्तो ऽनेकैर् देवकोटीनियुतशतसहस्रे परिवृताः पुरस्कृताः इहोपपत्तिं दर्शयित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मचक्रं प्रवर्तयन्ति नानाबुद्धक्षेत्रेषु /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनस् ते कामधाताव् उपपद्यन्ते / नारूप्यधाताव् उपपद्यन्ते / ते बुद्धक्षत्रेण बुद्धक्षेत्रं संक्रामन्ति / तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कुर्वन्तो गुरूकुर्वन्तो मानयन्तः पूजयन्तः /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनस् ते ताभिर् अभिज्ञाभिर् विक्रीडन्तो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति / यत्र बुद्धक्षेत्रे न श्रावकयानस्य न प्रत्येकबुद्धयानस्य शब्दो ऽपि प्रज्ञायते ऽन्यत्र बुद्धयानात् /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनस् ते ताभिर् अभिज्ञाभिर् विक्रीडमाना बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति / यत्र बुद्धक्षेत्रेष्व् अपरिनिर्मितम् आयुष्प्रमाणं सत्त्वानां /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनस् ते लोकधातुं संक्रामन्ति / यत्र न बुद्धशब्दो न धर्मशब्दो न संघशब्दस् ते तत्र गत्वा बुद्धस्य वर्णं भाषन्ते धर्मस्य संघस्य वर्णं भाषन्ते ते च सत्त्वास् तेन बुद्धशब्देन संघशब्देन चित्तानि प्रसाद्य यत्र बुद्धा भगवन्तस् तत्रोपपद्यन्ते /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादम् उपादाय चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां पञ्चानाम् अभिज्ञानां लाभिनश् चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानां आर्याष्टाङ्गस्य मार्गस्य दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदां महामैत्र्याः महाकरुणायाः अष्टादशावेणिकबुद्धधर्माणां लाभिनस् ते न कदाचित् कामधाताव् उपपद्यन्ते / न रूपधाताव् उपपद्यन्ते / नारूप्यधाताव् उपपद्यन्ते / तत्र च सत्त्वानाम् अर्थं कुर्वन्ति /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षट्पारमितासु चरन्तः प्रथमचित्तोत्पादेनैव बोधिसत्त्वन्यामम् अवक्रामन्त्य् अवैवर्तिकभूमिं वानुप्राप्नुवन्ति /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादेनैवानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते / अभिसंबुध्य सधर्मचक्रं प्रवर्त्याप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अर्थं कृत्वानुपधिशेषे निर्वाणधातौ परिनिर्वान्ति / तेषां परिनिर्वृतानां कल्पं वा कल्पावशेषं वा सद्धर्मस् तिष्ठति /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादेनैव प्रज्ञापारमितायोगं समापद्यन्ते / ते ऽनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति / बुद्धानां भगवतां दर्शनाय सत्त्वपरिपाचनाय बुद्धक्षेत्रपरिशोधनाय / अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तश् चतुर्णां ध्यानानां लाभिनश् चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां लाभिनस् ते तानि ध्यानाप्रमाणारूप्यसमापत्तीर् अनेकविधं विक्रीडन्ति / यद् उत प्रथमं ध्यानं समापद्यन्ते ततः प्रथमध्यानाद् व्युत्थाय निरोधसमापत्तिं समापद्यन्ते / निरोधसमापत्तेर् व्युत्थाय द्वितीयं ध्यानं समापद्यन्ते द्वितीयाद् ध्यानाद् व्युत्थाय निरोधसमापत्तिं समापद्यन्ते / निरोधसमापत्तेर् व्युत्थाय तृतीयं ध्यानं समापद्यन्ते / तृतीयाद् ध्यानाद् व्युत्थाय निरोधसमापत्तिं समापद्यन्ते / निरोधसमापत्तेर् व्युत्थाय चतुर्थं ध्यानं समापद्यन्ते / चतुर्थाद् ध्यानाद् व्युत्थाय निरोधसमापत्तिं समापद्यन्ते / निरोधसमापत्तेर् व्युत्थायाकाशानन्त्यायतनं समापद्यन्ते / आकाशानन्त्यायतनाद् व्युत्थाय निरोधसमापत्तिं समापद्यन्ते / निरोधसमापत्तेर् व्युत्थाय विज्ञानानन्त्यायतनं समापद्यन्ते / विज्ञानानन्त्यायतनाद् व्युत्थाय निरोधसमापत्तिं समापद्यन्ते / निरोधसमापत्तेर् व्युत्थायाकिञ्चन्यायतनं समापद्यन्ते / आकिञ्चन्यायतनाद् व्युत्थाय निरोधसमापत्तिं समापद्यन्ते / निरोधसमापत्तेर् व्युत्थाय नैवसंज्ञानासंज्ञायतनं समापद्यन्ते / नैवसंज्ञानासंज्ञायतनाद् व्युत्थाय निरोधसमापत्तिं समापद्यन्ते / एवं खलु शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायाञ् चरन्त उपायकौशलेन समान्वागता इमानि ध्यानानि अप्रमाणानि च समाधिसमापत्तीश् च विष्कद्य समापद्यन्ते /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाश् चतुर्णां स्मृत्युपस्थानानां लाभिनश् चतुर्णां सम्यक्प्रहाणानां लाभिनश् चतुर्णाम् ऋद्धिपादानां लाभिनः पञ्चानाम् इन्द्रियाणां लाभिनः पञ्चानां बलानां लाभिनः सप्तानां बोध्यङ्गानां लाभिनः आर्याष्टाङ्गमार्गस्य लाभिनः चतुर्णाम् आर्यसत्यानां लाभिनः ध्यानानां लाभिनः चतुर्णाम् अप्रमाणानां लाभिनश् चतसृणाम् आरूप्यसमापत्तीनां लाभिनः अष्टानां विमोक्षाणां लाभिनः नवानाम् अनुपूर्वविहारसमापत्तीनां लाभिनः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लाभिनः अभिज्ञानां लाभिनः समाधीनां लाभिनः धारणीमुखानां लाभिनः दशानां तथागतबलानां लाभिनः चतुर्णां वैशारद्यानां लाभिनः चतसृणां प्रतिसंविदां लाभिनः अष्टादशानाम् आवेणिकबुद्धधर्माणां लाभिनः त्रयाणां विमोक्षमुखानां लाभिनः न च श्रोत-आपत्तिफलम् अनुप्राप्नुवन्ति / न सकृदागामिफलम् अनुप्राप्नुवन्ति / नानागामिफलम् अनुप्राप्नुवन्ति / नार्हत्त्वम् अनुप्राप्नुवन्ति / न प्रत्येकबोधिम् अनुप्राप्नुवन्ति / प्रज्ञापारमितायां चरन्त उपायकौशलेन परिगृहीताः आर्याष्टाङ्गमर्गं सत्त्वेभ्य उपदर्शयन्ति येन ते सत्त्वाः श्रोतआपत्तिफलम् अनुप्राप्नुवन्ति / सकृदागामिफलम् अनुप्राप्नुवन्ति / अनागामिफलम् अनुप्राप्नुवन्ति / अर्हत्त्वम् अनुप्राप्नुवन्ति / प्रत्येकबोधिम् अनुप्राप्नुवन्ति / यच् छारद्वतीपुत्र श्रावकप्रत्येकबुद्धानां फलप्राप्तिज्ञानं सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः / इमे शारद्वतीपुत्र बोधिसत्त्वमहासत्त्वा अवैवर्तिका वेदितव्या / ये ऽनया प्रज्ञापारमितयैवं विहरन्ति /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा ये षट्पारमिता सुस्थित्वा तुषितभवनं शोधयन्ति / ते खलु पुनः शारद्वतीपुत्र बोधिसत्वा महासत्त्वाः भद्रकल्पिका वेदितव्याः /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तश् चतुर्णां ध्यानानां लाभिनश् चतुर्णाम् अप्रमाणानां लाभिनश् चतसृणाम् आरूप्यसमापत्तीनां लाभिनः सप्तत्रिंशतां बोधिपक्षाणां धर्माणां लाभिनः षण्णाम् अभिज्ञानां लाभिनो दशतथागतबलानां लाभिनश् चतुर्णां वैशारद्यानां लाभिनश् चतसृणां प्रतिसंविदां लाभिनः अष्टादशावेणिकबुद्धधर्माणां लाभिनः ते ऽत्रानुबोधाय चरन्ति चतुर्णां सत्यानां न च सत्यानि प्रतिविध्यन्ति / ते खलु पुनः शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा एकजातिप्रतिबद्धा वेदितव्याः /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा षट्सु पारमितासु चरन्तो लोकधातोर् लोकधातुं संक्रामन्ति / तत्र सत्त्वान् बोधौ समादापयन्ति / बुद्धक्षेत्रञ् च परिशोधयन्ति / ते खलु पुनः शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः अप्रमेयैर् असंख्येयैः कल्पैर् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु स्थित्वा नित्यम् उद्युक्ताः सत्त्वानां कृते / ते न कदाचिद् अनर्थोपसंहिता वचम् आभाषन्ते / नाप्य् अनर्थोपसंहितं कायवाङमनस्कर्म कुर्वन्ति /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु स्थित्वा स तत्रोद्युक्ताः सत्त्वानां कृते बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति / सत्त्वानां त्रीन् अपायपथां छिद्यन्तः /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु स्थित्वा दानपारमितायां पुरस्कृत्य सर्वसत्त्वानां सर्वसुखोपधानम् उपसंहरन्ति / अन्नम् अन्नार्थिकेभ्यः पानं पानार्थिकेभ्यः यानं यानार्थिकेभ्यः पुष्पं पुष्पार्थिकेभ्यः गन्धं गन्धार्थिकेभ्यः माल्यं माल्यार्थिकेभ्यः विलेपनं विलेपनार्थिकेभ्यः शय्यासनं शय्यासनार्थिकेभ्यः वस्त्रं वस्त्रार्थिकेभ्यः आभरणम् आभरणार्थिकेभ्यः प्राजीविकं प्राजीविकार्थिकेभ्यः उपाश्रयम् उपाश्रयार्थिकेभ्यः कल्पिकजीवितपरिष्कारान् उपसंहरन्ति /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः ये षट्पारमितासु स्थित्वा शीलपारमितां पुरस्कृत्य सत्त्वान् कायवाङ्मनःसंवरे प्रतिष्ठापयन्ति / अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा ये षट्सु पारमितासु स्थित्वा क्षान्तिपारमितां पुरस्कृत्याक्रोधव्यापादे सत्त्वान् प्रतिष्ठापयन्ति /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा ये षट्सु पारमितासु स्थित्वा वीर्यपारमितां पुरस्कृत्य सर्वकुशलधर्माभियोगे सत्त्वान् प्रतिष्ठापयन्ति /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः ये षट्सु पारमितासु स्थित्वा ध्यानपारमितां पुरस्कृत्य शमथैकाग्रतायां कामविवेके च सत्त्वान् प्रतिष्ठापयन्ति /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः ये षट्सु पारमितासु स्थित्वा प्रज्ञापारमितां पुरस्कृत्य यादृश एव तथागतविग्रहस् तादृशम् आत्मभावम् अभिनिर्माय नैरयिकाणां सत्त्वानां तिर्यग्योनिगतानां सत्त्वानां यामलौकिकानां सत्त्वानां सर्वदुर्गतिसमतिक्रमाय धर्मं देशयन्ति /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः ये षट्सु पारमितासु स्थित्वा यादृशो बुद्धविग्रहस् तादृशम् आत्मभावम् अभिनिर्माय पूर्वस्यान् दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति / तथागतान् पर्युपासन्ते धर्मञ् च शृण्वन्ति / बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्युहांश् च पश्यन्ति / ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पाद्यन्त्य् एकजातिप्रतिबद्धाश् च बोधिसत्त्वा महासत्त्वास् तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते /

दक्षिणस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति / तथागतान् पर्युपासन्ते धर्मञ् च शृण्वन्ति / बोधिसत्त्वसङ्घञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यन्ति / ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पादयन्त्य् एकजातिप्रतिलब्धाश् च बोधिसत्त्वा महासत्त्वास् तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते / पश्चिमायां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति / तथागतान् पर्युपासन्ते / धर्मञ् च शृण्वन्ति बोधिसत्त्वसङ्घञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यन्ति / ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पादयन्त्य् एकजातिप्रतिबद्धाश् च बोधिसत्त्वा महासत्त्वाः तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते / उत्तरस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति / तथागतान् पर्युपासन्ते / धर्मञ् च शृण्वन्ति बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यन्ति / ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पादयन्त्य् एकजातिप्रतिलब्धाश् च बोधिसत्त्वा महासत्त्वाः तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते / उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति / तथागातान् पर्युपासन्ते / धर्मञ् च शृण्वन्ति बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यन्ति / ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पादयन्ति /

एकजातिप्रतिलब्धाश् च बोधिसत्त्वा महासत्त्वास् तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते / पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति / तथागतान् पर्युपासन्ते / धर्मञ् च शृण्वन्ति / बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यन्ति / ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पादयन्ति / एकजातिप्रतिलब्धाश् च बोधिसत्त्वा महासत्त्वाः तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते / दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति / तथागतान् पर्युपासन्ते धर्मं शृण्वन्ति बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यन्ति / ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पादयन्ति / एकजातिप्रतिलब्धाश् च बोधिसत्त्वा महासत्त्वास् तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते / पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति / तथागतान् पर्युपासन्ते / धर्मञ् च शृण्वन्ति / बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहां पश्यन्ति / ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पादयन्ति / एकजातिप्रतिलब्धाश् च बोधिसत्त्वा महासत्त्वाः तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते / अधस्ताद् दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति / तथागतान् पर्युपासन्ते / धर्मञ् च शृण्वन्ति / बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहाश् च पश्यन्ति /

ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पादयन्ति / एकजातिप्रतिलब्धाश् च बोधिसत्त्वा महासत्त्वाः तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते / उपरिष्टाद् दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति / तथागतान् पर्युपासन्ते / धर्मञ् च शृण्वन्ति / बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यन्ति / ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पादयन्त्य् एकजातिप्रतिलब्धाश् च बोधिसत्त्वा महासत्त्वास् तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु चरन्तो द्वात्रिंशता महापुरुषलक्षणैः समन्वागता भूत्वा उत्तप्तैर् अपरिशुद्धैश् चेन्द्रियैः समन्वागता भवन्ति / तैस् तैः परिशुद्धैर् आत्मभावैर् बहुजनस्य प्रीतिप्रसादं जनयन्ति / ते च बहुजनस्य प्रियाश् च भवन्ति / मनापाश् च ते सत्त्वास् तेनैव चित्तप्रसादकुशलमूलेनानुपूर्वेण त्रिभिर् यानैः परिनिर्वान्ति / एवं खलु शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता कायपरिशुद्धौ शिक्षितव्यं / वाक्यपरिशुद्धौ शिक्षितव्यं / मनःपरिशुद्धौ शिक्षितव्यं /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु चरन्तः उत्तप्तानीन्द्रियाणि प्रतिलभन्ते तैर् उत्तप्तैर् इन्द्रियैर् आत्मानम् उत्कर्षयन्ति न परान् पंसयन्ति /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां शीलपारमितायाञ् च स्थित्वा न कदाचिद् दारिद्र्यं गच्छन्ति / न दुर्गतिविनिपातं प्रपतन्ति / यावन् नावैवर्तिकभूमिम् अनुप्राप्नुवन्ति /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादम् उपादाय दशकुशलान् कर्मपथान् न जातूत्सृजन्ति / यावन् नावैवर्तिकभूमिम् अनुप्राप्नुवन्ति /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः दानपारमितायां शीलपारमितायाञ् च स्थित्वा राजानो भवन्ति चक्रवर्तिनः / ते दशकुशलेषु कर्मपथेषु सत्त्वान् प्रतिष्ठापयन्ति / दानेन च प्रियवद्यतया सत्त्वान् संगृह्णन्ति /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा दानपारमितायां शीलपारमितायाञ् च स्थित्वानेकानि चक्रवर्तिराज्यानि परिगृह्णन्त्य् अनेकानि चक्रवर्तिराज्यशतसहस्राणि कारयन्ति / तत्र च स्थित्वानेकानि बुद्धकोटीशतसहस्रान्य् आरागयन्ति / तांश् च बुद्धान् भगवतः सत्कुर्वन्ति गुरूकुर्वन्ति मानयन्ति पूजयन्ति सर्वोपकरणैः सर्वपूजाभिश् च /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु स्थित्वा सत्वानां मिथ्यादृष्टितम् अष्ठानां धर्मावभासं कुर्वन्ति / आत्मना च तेन धर्मावभासेन न कदाचिद् विरहिता भवन्ति / यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते / अयं शारद्वतीपुत्र बोधिसत्त्वानां महासत्त्वानाम् उदयो बुद्धधर्मेषु / तस्मात् तर्हि शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सावद्यानां कायवाङ्मनस्कर्मणाम् अवकाशो न दातव्यः / एवम् उक्ते आयुश्माञ् छारद्वतीपुत्रो भगवन्तम् एतद् अवोचत् / कतमं भगवन् बोधिसत्त्वस्य महासत्त्वस्य सावद्यं कायकर्म सावद्यं वाक्कर्म सावद्यं मनःकर्मा / भगवान् आह / यदा शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्यैवं भवति / अयं कायो येन कायारम्भ कुर्यां / इयं वाग्यया वागारम्भं कुर्यां / इदं मनो येन मनआरम्भं कुर्यां / अयं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य सावद्यकायवाङ्मनःकर्मारम्भः / न हि शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायम् उपलभते / न वाचम् उपलभते / न चित्तम् उपलभते / येन कायेन यया वाचा येन मनसा मात्सर्यचित्तम् उत्पादयेत् दौःशील्यचित्तं व्यापादचित्तं कौशीद्यचित्तं विक्षेपचित्तं दौष्प्रज्ञचित्तम् उत्पादयेत् नैवं शारद्वतीपुत्र वेदितव्यम् / यद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायदौष्ठुल्यम् उत्पादयेत् वाग्दौष्ठुल्यम् उत्पादयेत् मनोदौष्ठुल्यम् उत्पादयेत् नेदं स्थानं विद्यते / तत् कस्य हेतोस् तथा हि शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वाः षट्सु पारमितासु चरन् कायदौष्ठुल्यं शोधयति वाग्दौष्ठुल्यं शोधयति मनोदौष्ठुल्यं शोधयति / इदं बोधिसत्त्वस्य महासत्त्वस्यानवद्यं कायकर्म अनवद्यं वाक्कर्म अनवद्यं मनस्कर्म / आह कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः कायदौष्ठुल्यं शोधयति वाग्दौष्ठुल्यं शोधयति मनोदौष्ठुल्यं शोधयति / भगवान् आह यदा शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो न कायम् उपलभते न वाचम् उपलभते न चित्तम् उपलभते / एवं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः कायदौष्ठुल्यं शोधयति वाग्दौष्ठुल्यं शोधयति मनोदौष्ठुल्यं शोधयति /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय दशकुशलान् कर्मपथान् समादाय वर्तते / न श्रावकचित्तं वा प्रत्येकबुद्धचित्तं वोत्पादयति / सततसमितञ् चास्य सर्वसत्त्वेषु महाकरुणाचित्तं प्रत्युपस्थितं भवति / एवं बोधिसत्त्वस्य महासत्त्वस्य कायदौष्ठुल्यं वाग्दौष्ठुल्यं मनोदौष्ठुल्यं परिशुद्धम् इति वदामि /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तो बोधिसत्त्वमार्गं परिशोधयमानाः दानपारमितायां चरन्ति / शीलपारमितायां चरन्ति / क्षान्तिपारमितायां चरन्ति / वीर्यपारमितायां चरन्ति / ध्यानपारमितायां चरन्ति / आह कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः / भगवान् आह / यदा शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कायम् उपलभते / न वाचम् उपलभते / न चित्तम् उपलभते / न दानपारमिताम् उपलभते / न शीलपारमिताम् उपलभते / न क्षान्तिपारमिताम् उपलभते / न वीर्यपारमिताम् उपलभते / न ध्यानपारमिताम् उपलभते / न प्रज्ञापारमिताम् उपलभते / न श्रावकयानम् उपलभते / न प्रत्येकयानम् उपलभते / न सम्यक्संबुद्धयानम् उपलभते / अयं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः / यद् उत सर्वधर्मान् उपलम्भतो अनायूहानियूहता / अनेन शारद्वतीपुत्र मार्गेण बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु चरन्तो गच्छन्ति / ते न शक्यो केनचिद् अवमर्दितुं / आह कथं चरन्तो भगवन् बोधिसत्त्वा महासत्त्वाः अनवमर्द्या भवन्ति / भगवान् आह / यदा बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु चरन्तो न रूपं मन्यन्ते न वेदनां मन्यन्ते न संज्ञां मन्यन्ते न संस्कारान् मन्यन्ते न विज्ञामं मन्यन्ते चक्षूरूपम् अपि न मन्यन्ते / श्रोत्रशब्दान् अपि न मन्यन्ते / घ्राणगन्धान् अपि न मन्यन्ते / जिह्वारसान् अपि न मन्यन्ते / कायस्पर्शान् अपि न मन्यन्ते / मनोधर्मान् अपि न मन्यन्ते / पृथिवीधातुं न मन्यन्ते / अब्धातुं न मन्यन्ते / तेजोधातुं न मन्यन्ते /

वायुधातुं न मन्यन्ते / आकाशधातुं न मन्यन्ते / विज्ञानधातुं न मन्यन्ते / चक्षुर्धातुं न मन्यन्ते / रूपधातुं न मन्यन्ते / चक्षुर्विज्ञानधातुं न मन्यन्ते / श्रोत्रधातुं न मन्यन्ते / शब्दधातुं न मन्यन्ते / श्रोत्रविज्ञानधातुं न मन्यन्ते / घ्राणधातुं न मन्यन्ते / गन्धधातुं न मन्यन्ते / घ्राणविज्ञानधातुं न मन्यन्ते / जिह्वाधातुं न मन्यन्ते / रसधातुं न मन्यन्ते / जिह्वाविज्ञानधातुं न मन्यन्ते / कायधातुं न मन्यन्ते / स्प्रष्टव्यधातुं न मन्यन्ते / कायविज्ञानधातुं न मन्यन्ते / मनोधातुं न मन्यन्ते / धर्मधातुं न मन्यन्ते / मनोविज्ञानधातुं न मन्यन्ते / प्रतीत्यसमुत्पादं न मन्यन्ते / दानं न मन्यन्ते / शीलं न मन्यन्ते / क्षान्तिं न मन्यन्ते / वीर्यं न मन्यन्ते / ध्यानं न मन्यन्ते / प्रज्ञां न मन्यन्ते / अध्यात्मशून्यतां न मन्यन्ते / बहिर्धाशून्यतां न मन्यन्ते / अध्यात्मबहिर्धाशून्यतां न मन्यन्ते / शून्यताशून्यतां न मन्यन्ते / महाशून्यतां न मन्यन्ते / परमार्थशून्यतां न मन्यन्ते / संस्कृतशून्यतां न मन्यन्ते / असंस्कृतशून्यतां न मन्यन्ते / अत्यन्तशून्यतां न मन्यन्ते / अनवराग्रशून्यतां न मन्यन्ते / अनवकारशून्यतां न मन्यन्ते / प्रकृतिशून्यतां न मन्यन्ते / सर्वधर्मशून्यतां न मन्यन्ते / स्वलक्षणशून्यतां न मन्यन्ते / अनुपलम्भशून्यतां न मन्यन्ते / अभावशून्यतां न मन्यन्ते / स्वभावशून्यतां न मन्यन्ते / अभावस्वभावशून्यतां न मन्यन्ते / चत्वारि स्मृत्युपस्थानानि न मन्यन्ते / चत्वारि सम्यक्प्रहाणानि न मन्यन्ते / चतुर ऋद्धिपादान् न मन्यन्ते / पञ्चेन्द्रियाणि न मन्यन्ते /

सप्त बोध्यङ्गानि न मन्यन्ते / आर्याष्टाङ्गमार्गं न मन्यन्ते / चत्वार्य् आर्यसत्यानि न मन्यन्ते / चत्वारि ध्यानानि न मन्यन्ते / चत्वार्य् अप्रमाणानि न मन्यन्ते / चतस्र आरूप्यसमापत्तीर् न मन्यन्ते / अष्टौ विमोक्षान् न मन्यन्ते / नवानुपूर्वविहारसमापत्तीर् न मन्यन्ते / शून्यतां न मन्यन्ते / आनिमित्तं न मन्यन्ते / अप्रणिहितं न मन्यन्ते / अभिज्ञां न मन्यन्ते / धारणीमुखानि न मन्यन्ते / दश तथागतबलानि न मन्यन्ते / चत्वारि वैशारद्यानि न मन्यन्ते / चतस्रः प्रतिसंविदो न मन्यन्ते / महामैत्रीं न मन्यन्ते / महाकरुणां न मन्यन्ते / अष्टादशावेणिकान् बद्धधर्मान् न मन्यन्ते / श्रोतआपत्तिफलं न मन्यन्ते / सकृदागामिफलं न मन्यन्ते / अनागामिफलं न मन्यन्ते / अर्हत्त्वं न मन्यन्ते / प्रत्येकबोधिं न मन्यन्ते / मार्गाकारज्ञतां न मन्यन्ते / सर्वाकारज्ञतां न मन्यन्ते / अनुत्तरां सम्यक्संबोधिं न मन्यन्ते / संसारं न मन्यन्ते / निर्वाणं न मन्यन्ते / एवं खलु शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षड्भिः पारमिताभिर् विवर्धन्ते / न च केनचिद् अवमर्द्यन्ते /

अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु स्थित्वा सर्वज्ञज्ञानं परिपूरयन्ति / येन ज्ञानेन समन्वागता न जात्वपायेषूपपद्यन्ते / न मनुष्यदारिद्र्यम् अनुभवन्ति / न तथारूपम् आत्मभावं परिगृह्णन्ति येनात्मभावेन निन्दनीया भवन्ति सदेवमानुषासुरस्य लोकस्य / अथायुष्माञ् छारद्वतीपुत्रो भगवन्तम् एतद् अवोचत् / कतमं भगवन् बोधिसत्त्वस्य महासत्त्वस्य सर्वज्ञज्ञानं येन ज्ञानेन समन्वागता बोधिसत्त्वा महासत्त्वा न जात्वपायेषूपपद्यन्ते / न मनुष्यदारिद्र्यम् अनुभवन्ति / न तथारूपम् आत्मभावं परिगृह्णन्ति येनात्मभावेन निन्दनीयो भवति सदेवमानुषासुरस्य लोकस्य /

भगवान् आह / येन शारद्वतीपुत्र ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति / धर्मञ् च शृणोति बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यति / येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वो दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति / धर्मञ् च श्र्णोति बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यति / येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति / धर्मञ् च शृणोति / बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहाश् च पश्यति / येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गादीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति / धर्मञ् च शृणोति / बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यति / येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्व उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति / धर्मञ् च शृणोति / बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यति / ये न ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वो दक्षिणपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति / धर्मञ् च शृणोति /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.