Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/37

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता, Part इ

Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

न बलानि नित्यानीति योजयति न बलान्य् अनित्यानीति योजयति / न बोध्यङ्गानि नित्यानीति योजयति न बोध्यङ्गान्य् अनित्यानीति योजयति / नार्याष्टाङ्गमार्गं नित्यम् इति योजयति नार्याष्टाङ्गमार्गम् अनित्यम् इति योजयति / नार्यसत्यानि नित्यानीति योजयति नार्यसत्यान्य् अनित्यानीति योजयति / न ध्यानानि नित्यानीति योजयति न ध्यानान्य् अनित्यानीति योजयति / नाप्रमाणानि नित्यानीति योजयति नाप्रमाणान्य् अनित्यानीति योजयति / नारूप्यसमापत्तीर् नित्या इति योजयति नारूप्यसमापत्तीर् अनित्या इति योजयति / नाष्टौ विमोक्षान् नित्यान् इति योजयति नाष्टौ विमोक्षान् अनित्यान् इति योजयति / न नवानुपूर्वविहारसमापत्तीर् नित्या इति योजयति न नवानुपूर्वविहारसमापत्तीर् अनित्या इति योजयति / न शून्यतां नित्याम् इति योजयति न शून्यताम् अनित्याम् इति योजयति / नानिमित्तं नित्यम् इति योजयति नानिमित्तम् अनित्यम् इति योजयति / नाप्रणिहितं नित्यम् इति योजयति नाप्रणिहितम् अनित्यम् इति योजयति / नाभिज्ञा नित्या इति योजयति नाभिज्ञा अनित्या इति योजयति / न समाधीन् नित्यान् इति योजयति / न समाधीन् अनित्यान् इति योजयति / न धारणीमुखानि नित्यानीति योजयति / न धारणीमुखान्य् अनित्यानीति योजयति / न दश तथागतबलानि नित्यानीति योजयति / न दश तथागतबलान्य् अनित्यानीति योजयति / न चत्वारि वैशारद्यानि नित्यानीति योजयति / न चत्वारि वैशारद्यान्य् अनित्यानीति योजयति / न चतस्रः प्रतिसंविदो नित्या इति योजयति / न चतस्रः प्रतिसंविदो ऽनित्या इति योजयति / न महामैत्रीं नित्याम् इति योजयति / न महामैत्रीम् अनित्याम् इति योजयति / न महाकरुणां नित्याम् इति योजयति / न महाकरुणाम् अनित्याम् इति योजयति /

नाष्टादशावेणिकान् बुद्धधर्मान् नित्यान् इति योजयति / नाष्टादशावेणिकान् बुद्धधर्मान् अनित्यान् इति योजयति / न श्रोत-आपत्तिफलं नित्यम् इति योजयति / न श्रोत-आपत्तिफलम् अनित्यम् इति योजयति / न सकृदागामिफलं नित्यम् इति योजयति / न सकृदागामिफलम् अनित्यम् इति योजयति / नानागामिफलं नित्यम् इति योजयति / नानागामिफलम् अनित्यम् इति योजयति / नार्हत्त्वं नित्यम् इति योजयति / नार्हत्त्वम् अनित्यम् इति योजयति / न प्रत्येकबोधिं नित्यम् इति योजयति / न प्रत्येकबोधिम् अनित्यम् इति योजयति / न मार्गाकारज्ञतां नित्याम् इति योजयति / न मार्गाकारज्ञताम् अनित्याम् इति योजयति / न सर्वाकारज्ञतां नित्याम् इति योजयति / न सर्वाकारज्ञताम् अनित्याम् इति योजयति / एवं चरन् शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं सुखम् इति योजयति / न रूपं दुःखम् इति योजयति / न वेदनां सुखेति योजयति / न वेदनां दुःखेति योजयति / न संज्ञां सुखेति योजयति / न संज्ञां दुःखेति योजयति / न संस्कारान् सुखान् इति योजयति / न संस्कारान् दुःखान् इति योजयति / न विज्ञानं सुखम् इति योजयति / न विज्ञानं दुःखम् इति योजयति / न चक्षुः सुखम् इति योजयति / न चक्षुर् दुःखम् इति योजयति / न श्रोत्रं सुखम् इति योजयति / न श्रोत्रं दुःखम् इति योजयति / न घ्राणं सुखम् इति योजयति / न घ्राणं दुःखम् इति योजयति / न जिह्वां सुखम् इति योजयति / न जिह्वां दुःखम् इति योजयति / न कायं सुखम् इति योजयति / न कायं दुःखम् इति योजयति / न मनः सुखम् इति योजयति / न मनो दुःखम् इति योजयति / न रूपं सुखम् इति योजयति / न रूपं दुःखम् इति योजयति / न शब्दं सुखम् इति योजयति / न शब्दं दुःखम् इति योजयति / न गन्धं सुखम् इति योजयति / न गन्धं दुःखम् इति योजयति / न रसं सुखम् इति योजयति / न रसं दुःखम् इति योजयति / न स्पर्शं सुखम् इति योजयति / न स्पर्शं दुःखम् इति योजयति / न धर्मान् सुखान् इति योजयति / न धर्मान् दुःखान् इति योजयति / न चक्षुर्विज्ञानं सुखम् इति योजयति / न चक्षुर्विज्ञानं दुःखम् इति योजयति / न श्रोत्रविज्ञानं सुखम् इति योजयति / न श्रोत्रविज्ञानं दुःखम् इति योजयति / न घ्राणविज्ञानं सुखम् इति योजयति / न घ्राणविज्ञानं दुःखम् इति योजयति / न जिह्वाविज्ञानं सुखम् इति योजयति /

न जिह्वाविज्ञानं दुःखम् इति योजयति / न कायविज्ञानं सुखम् इति योजयति / न कायविज्ञानं दुःखम् इति योजयति / न मनोविज्ञानं सुखम् इति योजयति / न मनोविज्ञानं दुःखम् इति योजयति / न चक्षुःसंस्पर्शं सुखम् इति योजयति / न चक्षुःसंस्पर्शं दुःखम् इति योजयति / न श्रोत्रसंस्पर्शं सुखम् इति योजयति / न श्रोत्रसंस्पर्शं दुःखम् इति योजयति / न घ्राणसंस्पर्शं सुखम् इति योजयति / न घ्राणसंस्पर्शं दुःखम् इति योजयति / न जिह्वासंस्पर्शं सुखम् इति योजयति / न जिह्वासंस्पर्शं दुःखम् इति योजयति / न कायसंस्पर्शं सुखम् इति योजयति / न कायसंस्पर्शं दुःखम् इति योजयति / न मनःसंस्पर्शं सुखम् इति योजयति / न मनःमंस्पर्शं दुःखम् इति योजयति / न चक्षुःसंस्पर्शप्रत्ययां वेदनां सुखाम् इति योजयति / न चक्षुःसंस्पर्शप्रत्ययां वेदनां दुःखाम् इति योजयति / न श्रोत्रसंस्पर्शप्रत्ययां वेदनां सुखाम् इति योजयति / न श्रोत्रसंस्पर्शप्रत्ययां वेदनां दुःखाम् इति योजयति / न घ्राणसंस्पर्शप्रत्ययां वेदनां सुखाम् इति योजयति / न घ्राणसंस्पर्शप्रत्ययां वेदनां दुःखाम् इति योजयति / न जिह्वासंस्पर्शप्रत्ययां वेदनां सुखाम् इति योजयति / न जिह्वासंस्पर्शप्रत्ययां वेदना दुःखाम् इति योजयति / न कायसंस्पर्शप्रत्ययां वेदनां सुखाम् इति योजयति / न कायसंस्पर्शप्रत्ययां वेदनां दुःखाम् इति योजयति / न मनःसंस्पर्शप्रत्ययां वेदनां सुखाम् इति योजयति / न मनःसंस्पर्शप्रत्ययां वेदनां दुःखाम् इति योजयति / न पृथिवीधातुं सुखम् इति योजयति / न पृथिवीधातुं दुःखम् इति योजपति / नाब्धातुं सुखम् इति योजयति /

नाब्धातुं दुःखम् इति योजयति / न तेजोधातुं सुखम् इति योजयति / न तेजोधातुं दुःखम् इति योजयति / न वायुधातुं सुखम् इति योजयति / न वायुधातुं दुःखम् इति योजवति / नाकाशधातुं सुखम् इति योजयति / नाकाशधातुं दुःखम् इति योजयति / न विज्ञानधातुं सुखम् इति योजयति / न विज्ञानधातुं दुःखम् इति योजयति / नाविद्यां सुखेति योजयति / नाविद्यां दुःखेति योजयति / न संस्कारान् सुखा इति योजयति / न संष्कारान् दुःखा इति योजयति / न विज्ञानं सुखम् इति योजयति / न विज्ञानं दुःखम् इति योजयति / न नामरूपं सुखम् इति योजयति / न नामरूपं दुःखम् इति योजयति / न षडायतनं सुखम् इति योजयति / न षडायतनं दुःखम् इति योजयति / न स्पर्शं सुखम् इति योजयति / न स्पर्शं दुःखम् इति योजयति / न वेदनां सुखेति योजयति / न वेदनां दुःखेति योजयति / न तृष्णां सुखेति योजयति / न तृष्णां दुःखेति योजयति / नोपादानं सुखम् इति योजयति / नोपादानं दुःखम् इति योजयति / न भवं सुखम् इति योजयति / न भवं दुःखम् इति योजयति / न जातिं सुखेति योजयति / न जातिं दुःखेति योजयति / न जरामरणं सुखम् इति योजयति / न जरामरणं दुःखम् इति योजयति / न दानपारमितां सुखेति योजयति / न दानपारमितां दुःखेति योजयति / न शीलपारमितां सुखेति योजयति / न शीलपारमितां दुःखेति योजयति / न क्षान्तिपारमितां सुखेति योजतति / न क्षान्तिपारमितां दुःखेति योजयति / न वीर्यपारमितां सुखेति योजयति / न वीर्यपारमितां दुःखेति योजयति / न ध्यानपारमितां सुखेति योजयति / न ध्यानपारमितां दुःखेति योजयति /

न प्रज्ञापारमितां सुखेति योजयति / न प्रज्ञापारमितां दुःखेति योजयति / नाध्यात्मशून्यतां सुखेति योजयति / नाध्यात्मशून्यतां दुःखेति योजयति / न बहिर्धाशून्यतां सुखेति योजयति / न बहिर्धाशून्यतां दुःखेति योजयति / नाध्यात्मबहिर्धाशून्यतां सुखेति योजयति / नाध्यात्मबहिर्धाशून्यतां दुःखेति योजयति / न शून्यताशून्यतां सुखेति योजयति / न शून्यताशून्यतां दुःखेति योजयति / न महाशून्यतां सुखेति योजयति / न महाशून्यतां दुःखेति योजयति / न परमार्थशून्यतां सुखेति योजयति / न परमार्थशून्यतां दुःखेति योजयति / न संस्कृतशून्यतां सुखेति योजयति / न संस्कृतशून्यतां दुःखेति योजयति नासंस्कृतशून्यतां सुखेति योजयति / नासंस्कृतशून्यतां दुःखेति योजयति / नात्यन्तशून्यतां सुखेति योजयति / नात्यन्तशून्यतां दुःखेति योजयति / नानवराग्रशून्यतां सुखेति योजयति / नानवराग्रशून्यतां दुःखेति योजयति / नानवकारशून्यतां सुखेति योजयति / नानवकारशून्यतां दुःखेति योजयति / न प्रकृतिशून्यतां सुखेति योजयति / न प्रकृतिशून्यतां दुःखेति योजयति / न सर्वधर्मशून्यतां सुखेति योजयति / न सर्वधर्मशून्यतां दुःखेति योजयति / न स्वलक्षणशून्यतां सुखेति योजयति / न स्वलक्षणशून्यतां दुःखेति योजयति / नानुपलम्भशून्यतां सुखेति योजयति / नानुपलम्भशून्यतां दुःखेति योजयति / नाभावशून्यतां सुक्केति योजयति / नाभावशून्यतां दुःखेति योजयति / न स्वभावशून्यतां सुखेति योजयति / न स्वभावशून्यतां दुःखेति योजयति / नाभावस्वभावशून्यतां सुखेति योजयति / नाभावस्वभावशून्यतां दुःखेति योजयति /

न स्मृत्युपस्थानानि सुखानीति योजयति / न स्मृत्युपस्थानानि दुःखानीति योजयति / न सम्यक्प्रहाणानि सुखानीति योजयति / न सम्यक्प्रहाणानि दुःखानीति योजयति / न ऋद्धिपादान् सुखा इति योजयति / न ऋद्धिपादान् दुःखा इति योजयति / नेन्द्रियाणि सुखानीति योजयति / नेन्द्रियाणि दुःखानीति योजयति / न बलानि सुखानीति योजयति / न बलानि दुःखानीति योजयति / न बोध्यङ्गानि सुखानीति योजयति / न बोध्यङ्गानि दुःखानीति योजयति / नार्याष्टाङ्गमार्गं सुख इति योजयति / नार्याष्टाङ्गमार्ग दुःख इति योजयति / नार्यसत्यानि सुखानीति योजयति / नार्यसत्यानि दुःखानीति योजयति / न ध्यानानि सुखानीति योजयति / न ध्यानानि दुःखानीति योजयति / नाप्रमाणानि सुखानीति योजयति / नाप्रमाणानि दुःखानीति योजयति / नारूप्यसमापत्तीः सुखा इति योजयति / नारूप्यसमापत्तीर् दुःखा इति योजयति / नाष्टौ विमोक्षान् सुखा इति योजयति / नाष्टौ विमोक्षान् दुःखा इति योजयति / न नवानुपूर्वविहारसमापत्तीः सुखा इति योजयति / न नवानुपूर्वविहारसमापत्तीः दुःखा इति योजयति / न शून्यतां सुखेति योजयति / न शून्यतां दुःखेति योजयति / नानिमित्तं सुखम् इति योजयति / नानिमित्तं दुःखम् इति योजयति / नाप्रणिहितं सुखम् इति योजयति / नाप्रणिहितं दुःखम् इति योजयति / नाभिज्ञां सुखेति योजयति / नाभिज्ञां दुःखेति योजयति / न समाधिं सुख इति योजयति / न समाधिं दुःख इति योजयति / न धारणीमुखानि सुखानीति योजयति / न धारणीमुखानि दुःखानीति योजयति / न दश तथागतबलानि सुखानीति योजयति / न दश तथागतबलानि दुःखानीति योजयति /

न चत्वारि वैशारद्यानि सुखानीति योजयति / न चत्वारि वैशारद्यानि दुःखानीति योजयति / न चतस्रः प्रतिसंविदः सुखा इति योजयति / न चतस्रः प्रतिसंविदो दुःखा इति योजयति / न महामैत्रीं सुखेति योजयति / महामैत्रीं दुःखेति योजयति / न महाकरुणां सुखेति योजयति / न महाकरुणां दुःखेति योजयति / नाष्टादशावेणिकान् बुद्धधर्मान् सुखा योजयति / नाष्टादशावेणिकान् बुद्धधर्मान् दुःखा इति योजयति / न श्रोत-आपत्तिफलं सुखम् इति योजयति / न श्रोतआपत्तिफलं दुःखम् इति योजयति / न सकृदागामिफलं सुखम् इति योजयति / न सकृदागामिफलं दुःखम् इति योजयति / नानागामिफलं सुखम् इति योजयति / नानागामिफलं दुःखम् इति योजयति / नार्हत्त्वं सुखम् इति योजयति / नार्हत्त्वं दुःखम् इति योजयति / न प्रत्येकबोधिं सुखम् इति योजयति / न प्रत्येकबोधिं दुःखम् इति योजयति / न मार्गाकारज्ञतां सुखेति योजयति / न मार्गाकारज्ञतां दुःखेति योजयति / न सर्वाकारज्ञतां सुखेति योजयति / न सर्वाकारज्ञतां दुःखेति योजयति / एवं हि शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपम् आत्मेति योजयति / न रूपम् अनात्मेति योजयति / न वेदनाम् आत्मेति योजयति / न वेदनाम् अनात्मेति योजयति / न संज्ञाम् आत्मेति योजयति / न संज्ञाम् अनात्मेति योजयति / न संस्कारान् आत्मान इति योजयति / न संस्कारान् अनात्मान इति योजयति / न विज्ञानम् आत्मेति योजयति / न विज्ञानम् अनात्मेति योजयति / न चक्षुर् आत्मेति योजयति न चक्षुर् अनात्मेति योजयति / न श्रोत्रम् आत्मेति योजयति / न श्रोत्रम् अनात्मेति योजयति / न घ्राणम् आत्मेति योजयति न घ्राणम् अनात्मेति योजयति / न जिह्वाम् आत्मेति योजयति / न जिह्वाम् अनात्मेति योजयति / न कायम् आत्मेति योजयति / न कायम् अनात्मेति योजयति / न मन आत्मेति योजयति / न मनो ऽनात्मेति योजयति / न रूपम् आत्मेति योजयति / न रूपम् अनात्मेति योजयति / न शब्दम् आत्मेति योजयति / न शब्दम् अनात्मेति योजयति / न गन्धम् आत्मेति योजयति / न गन्धम् अनात्मेति योजयति / न रसम् आत्मेति योजयति / न रसम् अनात्मेति योजयति / न स्पर्शम् आत्मेति योजयति / न स्पर्शम् अनात्मेति योजयति / न धर्मान् आत्मान इति योजयति / न धर्मान् अनात्मान इति योजयति / न चक्षुर्विज्ञानम् आत्मेति योजयति / न चक्षुर्विज्ञानम् अनात्मेति योजयति / न श्रोत्रविज्ञानम् आत्मेति योजयति / न श्रोत्रविज्ञानम् अनात्मेति योजयति / न घ्राणविज्ञानम् आत्मेति योजयति / न घ्राणविज्ञानम् अनात्मेति योजयति / न जिह्वाविज्ञानम् आत्मेति योजयति / न जिह्वाविज्ञानम् अनात्मेति योजयति / न कायविज्ञानम् आत्मेति योजयति / न कायविज्ञानम् अनात्मेति योजयति / न मनोविज्ञानम् आत्मेति योजयति /

न मनोविज्ञानाम् अनात्मेति योजयति / न चक्षुःसंस्पर्शम् आत्मेति योजयति / न चक्षुःसंस्पर्शम् अनात्मेति योजयति / न श्रोत्रसंस्पर्शम् आत्मेति योजयति / न श्रोत्रसंस्पर्शम् अनात्मेति योजयति / न घ्राणसंस्पर्शम् आत्मेति योजयति / न घ्राणसंस्पर्शम् अनात्मेति योजयति / न जिह्वासंस्पर्शम् आत्मेति योजयति / न जिह्वासंपर्शम् अनात्मेति योजयति / न कायसंस्पर्शम् आत्मेति योजयति न कायसंस्पर्शम् अनात्मेति योजयति / न मनःसंस्पर्शम् आत्मेति योजयति न मनःसंपर्शम् अनात्मेति योजयति / न चक्षुःसंस्पर्शप्रत्ययां वेदनाम् आत्मेति योजयति न चक्षुःसंस्पर्शप्रत्ययां वेदनाम् अनात्मेति योजयति / न श्रोत्रसंस्पर्शप्रत्ययां वेदनाम् आत्मेति योजयति न श्रोत्रसंस्पर्शप्रत्ययां वेदनाम् अनात्मेति योजयति / न घ्राणसंस्पर्शप्रत्ययां वेदनाम् आत्मेति योजयति न घ्राणसंस्पर्शप्रत्ययां वेदनाम् अनात्मेति योजयति / न जिह्वासंस्पर्शप्रत्ययां वेदनाम् आत्मेति योजयति न जिह्वासंस्पर्शप्रत्ययां वेदनाम् अनात्मेति योजयति / न कायसंस्पर्शप्रत्ययां वेदनाम् आत्मेति योजयति / न कायसंस्पर्शप्रत्ययां वेदनाम् अनात्मेति योजयति / न मनःसंस्पर्शप्रत्ययां वेदनाम् आत्मेति योजयति / न मनःसंस्पर्शप्रत्ययां वेदनाम् अनात्मेति योजयति / न पृथिवीधातुम् आत्मेति योजयति / न पृथिवीधातुम् अनात्मेति योजयति / नाब्धातुम् आत्मेति योजयति / नाब्धातुम् अनात्मेति योजयति / न तेजोधातुम् आत्मेति योजयति / न तेजोधातुम् अनात्मेति योजयति / न वायुधातुम् आत्मेति योजयति / न वायुधातुम् अनात्मेति योजयति / नाकाशधातुम् आत्मेति योजयति / नाकाशधातुम् अनात्मेति योजयति / न विज्ञानधातुम् आत्मेति योजयति /

न विज्ञानधातुम् अनात्मेति योजयति / नाविद्याम् आत्मेति योजयति / नाविद्याम् अनात्मेति योजयति / न संस्कारान् आत्मान इति योजयति / न संस्कारान् अनात्मान इति योजयति / न विज्ञानम् आत्मेति योजयति / न विज्ञानम् अनात्मेति योजयति / न नामरूपम् आत्मेति योजयति / न नामरूपम् अनात्मेति योजयति / न षडायतनम् आत्मेति योजयति / न षडायतनम् अनात्मेति योजयति / न स्पर्शम् आत्मेति योजयति / न स्पर्शम् अनात्मेति योजयति / न वेदनाम् आत्मेति योजयति / न वेदनाम् अनात्मेति योजयति / न तृष्णाम् आत्मेति योजयति / न तृष्णाम् अनात्मेति योजयति / नोपादानम् आत्मेति योज यति / नोपादानम् अनात्मेति योजयति / न भवम् आत्मेति योजयति / न भवम् अनात्मेति योजयति / न जातिम् आत्मेति योजयति / न जातिम् अनात्मेति योजयति / न जरामरणम् आत्मेति योजयति / न जरामरणम् अनात्मेति योजयति / न दानपारमिताम् आत्मेति योजयति / न दानपारमिताम् अनात्मेति योजयति / न शीलपारमिताम् आत्मेति योजयति / न शीलपारमिताम् अनात्मेति योजयति / न क्षान्तिपारमिताम् आत्मेति योजयति / न क्षान्तिपारमिताम् अनात्मेति योजयति / न वीर्यपारमिताम् आत्मेति योजयति / न वीर्यपारमिताम् अनात्मेति योजयति / न ध्यानपारमिताम् आत्मेति योजयति / न ध्यानपारमिताम् अनात्मेति योजयति / न प्रज्ञापारमिताम् आत्मेति योजयति / न प्रज्ञापारमिताम् अनात्मेति योजयति / नाध्यात्मशून्यताम् आत्मेति योजयति / नाध्यात्मशून्यताम् अनात्मेति योजयति / न बहिर्धाशून्यताम् आत्मेति योजयति / न बहिर्धाशून्यताम् अनात्मेति योजयति / नाध्यात्मबहिर्धाशून्यताम् आत्मेति योजयति / नाध्यात्मबहिर्धाशून्यताम् अनात्मेति योजयति /

न शून्यताशून्यताम् आत्मेति योजयति / न शून्यताशून्यताम् अनात्मेति योजयति / न महाशून्यताम् आत्मेति योजयति / न महाशून्यताम् अनात्मेति योजयति / न परमार्थशून्यताम् आत्मेति योजयति / न परमार्थशून्यताम् अनात्मेति योजयति / न संस्कृतशून्यताम् आत्मेति योजयति / न संस्कृतशून्यताम् अनात्मेति योजयति / नासंस्कृतशून्यताम् आत्मेति योजयति / नासंस्कृतशून्यताम् अनात्मेति योजयति / नात्यन्तशून्यताम् आत्मेति योजयति / नात्यन्तशून्यताम् अनात्मेति योजयति / नानवराग्रशून्यताम् आत्मेति योजयति / नानवराग्रशून्यताम् अनात्मेति योजयति / नानवकारशून्यताम् आत्मेति योजयति / नानवकारशून्यताम् अनात्मेति योजयति / न प्रकृतिशून्यताम् आत्मेति योजयति

/ न प्रकृतिशून्यताम् अनात्मेति योजयति / न सर्वधर्मशून्यताम् आत्मेति योजयति / न सर्वधर्मशून्यताम् अनात्मेति योजयति / न स्वलक्षणशून्यताम् आत्मेति योजयति / न स्वलक्षणशून्यताम् अनात्मेति योजयति / नानुपलम्भशून्यताम् आत्मेति योजयति / नानुपलम्भशून्यताम् अनात्मेति योजयति / नाभावशून्यताम् आत्मेति योजयति / नाभावशून्यताम् अनात्मेति योजयति / न स्वभावशून्यताम् आत्मेति योजयति / न स्वभावशून्यताम् अनात्मेति योजयति / नाभावस्वभावशून्यताम् आत्मेति योजयति / नाभावस्वभावशून्यताम् अनात्मेति योजयति / न स्मृत्युपस्थानान्य् आत्मानीति योजयति / न स्मृत्युपस्थानान्य् अनात्मानीति योजयति / न सम्यक्प्रहाणान्य् आत्मानीति योजयति / न सम्यक्प्रहाणान्य् अनात्मानीति योजयति / न ऋद्धिपादान् आत्मान इति योजयति / न ऋद्धिपादान् अनात्मान इति योजयति / नेन्द्रियाण्य् आत्मानीति योजयति / नेन्द्रियाण्य् अनात्मानीति योजयति / न बलान्य् आत्मानीति योजयति / न बलान्य् अनात्मानीति योजयति / न बोध्यङ्गान्य् आत्मानीति योजयति / न बोध्यङ्गान्य् अनात्मानीति योजयति / नार्याष्टाङ्गमार्गम् आत्मेति योजयति / नार्याष्टाङ्गमार्गम् अनात्मेति योजयति / नार्यसत्यान्य् आत्मानीति योजयति / नार्यसत्यान्य् अनात्मानीति योजयति / न ध्यानान्य् आत्मानीति योजयति / न ध्यानान्य् अनात्मानीति योजयति / नाप्रमाणान्य् आत्मानीति योजयति / नाप्रमाणान्य् अनात्मानीति योजयति / नारूप्यसमापत्तीर् आत्मेति योजयति / नारूप्यसमापत्तीर् अनात्मेति योजयति / नाष्टौ विमोक्षान् आत्मान इति योजयति / नाष्टौ विमोक्षान् अनात्मान इति योजयति / न नवानुपूर्वविहारसमापत्तीर् आत्मेति योजयति / न नवानुपूर्वविहारसमापत्तीर् अनात्मेति योजयति /

न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आत्मानीति योजयति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनात्मानीति योजयति / नाभिज्ञाम् आत्मेति योजयति / नाभिज्ञाम् अनात्मेति योजयति / न समाधीन् आत्मान इति योजयति न समाधीन् अनात्मान इति योजयति / न धारणीमुखान्य् आत्मानीति योजयति / न धारणीमुखान्य् अनात्मानीति योजयति / न दश तथागतबलान्य् आत्मानीति योजयति / न दश तथागतबलान्य् अनात्मानीति योजयति / न वैशारद्यान्य् आत्मानीति योजयति / न वैशारद्यान्य् अनात्मानीति योजयति / न प्रतिसंविद आत्मान इति योजयति / न प्रतिसंविदो ऽनात्मान इति योजयति / न महामैत्रीम् आत्मेति योजयति / न महामैत्रीम् अनात्मेति योजयति / न महाकरुणाम् आत्मेति योजयति / न महाकरुणाम् अनात्मेति योजयति / नाष्टादशावेणिकबुद्धधर्मान् आत्मान इति योजयति / नाष्टादशावेणिकबुद्धधर्मान् अनात्मान इति योजयति / न श्रोतआपत्तिफलम् आत्मेति योजयति / न श्रोतआपत्तिफलम् अनात्मेति योजयति / न सकृदागामिफलम् आत्मेति योजयति / न सकृदागामिफलम् अनात्मेति योजयति / नानागामिफलम् आत्मेति योजयति / नानागामिफलम् अनात्मेति योजयति / नार्हत्त्वम् आत्मेति योजयति / नार्हत्त्वम् अनात्मेति योजयति / न प्रत्येकबोधिम् आत्मेति योजयति / न प्रत्येकबोधिम् अनात्मेति योजयति / न मार्गाकारज्ञताम् आत्मेति योजयति / न मार्गाकारज्ञताम् अमात्मेति योजयति / न सर्वाकारज्ञताम् आत्मेति योजयति / न सर्वाकारज्ञताम् अनात्मेति योजयति / एवं चरन् शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापार्मितायां चरन् न रूपं शान्तम् इति योजयति / न रूपम् अशान्तम् इति योजयति / न वेदनां शान्तेति योजयति / न वेदनाम् अशान्तेति योजयति / न संज्ञां शान्तेति योजयति / न संज्ञाम् अशान्तेति योजयति / न संस्कारान् शान्ता इति योजयति / न संस्कारान् अशान्ता इति योजयति / न विज्ञानं शान्तम् इति योजयति / न विज्ञानम् अशान्तम् इति योजयति / न चक्षुः शान्तम् इति योजयति / न चक्षुर् अशान्तम् इति योजयति / न श्रोत्रं शान्तम् इति योजयति / न श्रोत्रम् अशान्तम् इति योजयति / न घ्राणं शान्तम् इति योजयति / न घ्राणम् अशान्तम् इति योजयति / न जिह्वां शान्तेति योजयति / न जिह्वाम् अशान्तेति योजयति / न कायं शान्तम् इति योजयति / न कायम् अशान्तम् इति योजयति / न मनः शान्तम् इति योजयति / न मनो ऽशान्तम् इति योजयति / न रूपं शान्तम् इति योजयति / न रूपम् अशान्तम् इति योजयति / न शब्दं शान्तम् इति योजयति / न शब्दम् अशान्तम् इति योजयति / न गन्धं शान्तम् इति योजयति / न गन्धम् अशान्तम् इति योजयति / न रसं शान्तम् इति योजयति / न रसम् अशान्तम् इति योजयति / न स्पर्शं शान्तम् इति योजयति / न स्पर्शम् अशान्तम् इति योजयति / न धर्मान् शान्ता इति योजयति / न धर्मान् अशान्ता इति योजयति / न चक्षुर्विज्ञानं शान्तम् इति योजयति / न चक्षुर्विज्ञानम् अशान्तम् इति योजयति / न श्रोत्रविज्ञानं शान्तम् इति योजयति / न श्रोत्रविज्ञानम् अशान्तम् इति योजयति / न घ्राणविज्ञानं शान्तम् इति योजयति / न घ्राणविज्ञानम् अशान्तम् इति योजयति / न जिह्वाविज्ञानं शान्तम् इति योजयति / न जिह्वाविज्ञानम् अशान्तम् इति योजयति /

न कायविज्ञानं शान्तम् इति योजयति / न कायविज्ञानम् अशान्तम् इति योजयति / न मनोविज्ञानं शान्तम् इति योजयति / न मनोविज्ञानम् अशान्तम् इति योजयति / न चक्षुःसंस्पर्शं शान्तम् इति योजयति / न चक्षुःसंस्पर्शम् अशान्तम् इति योजयति / न श्रोत्रसंस्पर्शं शान्तम् इति योजयति / न श्रोत्रसंस्पर्शम् अशान्तम् इति योजयति / न घ्राणसंस्पर्शं शान्तम् इति योजयति / न घ्राणसंस्पर्शम् अशान्तम् इति योजयति / न जिह्वासंस्पर्शं शान्तम् इति योजयति / न जिह्वासंस्पर्शम् अशान्तम् इति योजयति / न कायसंस्पर्शं शान्तम् इति योजयति / न कायसंस्पर्शम् अशान्तम् इति योजयति / न मनःसंस्पर्शं शान्तम् इति योजयति / न मनःसंस्पर्शम् अशान्तम् इति योजयति / न चक्षुःसंस्पर्शप्रत्ययां वेदनां शान्तेति योजयति / न चक्षुःसंस्पर्शप्रत्ययां वेदनाम् अशान्तेति योजयति / न श्रोत्रसंस्पर्शप्रत्ययां वेदनां शान्तेति योजयति / न श्रोत्रसंस्पर्शप्रत्ययां वेदनाम् अशान्तेति योजयति / न घ्राणसंस्पर्शप्रत्ययां वेदनां शान्तेति योजयति / न घ्राणसंस्पर्शप्रत्ययां वेदनाम् अशान्तेति योजयति / न जिह्वासंस्पर्शप्रत्ययां वेदनां शान्तेति योजयति / न जिह्वासंस्पर्शप्रत्ययां वेदनाम् अशान्तेति योजयति / न कायसंस्पर्शप्रत्ययां वेदनां शान्तेति योजयति / न कायसंस्पर्शप्रत्ययां वेदनाम् अशान्तेति योजयति / न मनःसंस्पर्शप्रत्ययां वेदनां शान्तेति योजयति / न मनःसंस्पर्शप्रत्ययां वेदनाम् अशान्तेति योजयति / न पृथिवीधातुं शान्तेति योजयति / न पृथिवीधातुम् अशान्तेति योजयति / नाब्धातुं शान्तेति योजयति / नाब्धातुम् अशान्तेति योजयति / न तेजोधातुं शान्तेति योजयति /

न तेजोधातुम् अशान्तेति योजयति / न वायुधातुं शान्तेति योजयति / न वायुधातुम् अशान्तेति योजयति / नाकाशधातुं शान्त इति योजयति / नाकाशधातुम् अशान्त इति योजयति / न विज्ञानधातुं शान्त इति योजयति / न विज्ञानधातुम् अशान्त इति योजयति / नाविद्यां शान्तेति योजयति / नाविद्याम् अशान्तेति योजयति / न संस्कारान् शान्ता इति योजयति / न संस्कारान् अशान्ता इति योजयति / न विज्ञानं शान्तम् इति योजयति / न विज्ञानम् अशान्तम् इति योजयति / न नामरूपं शान्तम् इति योजयति न नामरूपम् अशान्तम् इति योजयति / न षडायतनं शान्तम् इति योजयति न षडायतनम् अशान्तम् इति योजयति / न स्पर्शं शान्तम् इति योजयति न स्पर्शम् अशान्तम् इति योजयति / न वेदनां शान्तेति योजयति न वेदनाम् अशान्तेति योजयति / न तृष्णां शान्तेति योजयति न तृष्णाम् अशान्तेति योजयति / नोपादानं शान्तम् इति योजयति नोपादानम् अशान्तम् इति योजयति / न भवं शान्तम् इति योजयति न भवम् अशान्तम् इति योजयति / न जातिं शान्तेति योजयति न जातिम् अशान्तेति योजयति / न जरामरणं शान्तम् इति योजयति न जरामरणम् अशान्तम् इति योजयति / न दानपारमितां शान्तेति योजयति न दानपारमिताम् अशान्तेति योजयति / न शीलपारमितां शान्तेति योजयति न शीलपारमिताम् अशान्तेति योजयति / न क्षान्तिपारमितां शान्तेति योजयति न क्षान्तिपारमिताम् अशान्तेति योजयति न वीर्यपारमितां शान्तेति योजयति न वीर्यपारमिताम् अशान्तेति योजयति / न ध्यानपारमितां शान्तेति योजयति / न ध्यानपारमिताम् अशान्तेति योजयति / न प्रज्ञापारमितां शान्तेति योजयति / न प्रज्ञापारमिताम् अशान्तेति योजयति / नाध्यात्मशून्यतां शान्तेति योजयति /

नाध्यात्मशून्यताम् अशान्तेति योजयति / न बहिर्धाशून्यतां शान्तेति योजयति / न बहिर्धाशून्यताम् अशान्तेति योजयति / नाध्यात्मबहिर्धाशून्यतां शान्तेति योजयति / नाध्यात्मबहिर्धाशून्यताम् अशान्तेति योजयति / न शून्यताशून्यतां शान्तेति योजयति / न शून्यताशून्यताम् अशान्तेति योजयति / न महाशून्यतां शान्तेति योजयति / न महाशून्यताम् अशान्तेति योजयति / न परमार्थशून्यतां शान्तेति योजयति / न परमार्थशून्यताम् अशान्तेति योजयति / न संस्कृतशून्यतां शान्तेति योजयति / न संस्कृतशून्यताम् अशान्तेति योजयति / नासंस्कृतशून्यतां शान्तेति योजयति / नासंस्कृतशून्यताम् अशान्तेति योजयति / नात्यन्तशून्यतां शान्तेति योजयति / नात्यन्तशून्यताम् अशान्तेति योजयति / नानवराग्रशून्यतां शान्तेति योजयति / नानवराग्रशून्यताम् अशान्तेति योजयति / नानवकारशून्यतां शान्तेति योजयति / नानवकारशून्यताम् अशान्तेति योजयति / न प्रकृतिशून्यतां शान्तेति योजयति / न प्रकृतिशून्यताम् अशान्तेति योजयति / न सर्वधर्मशून्यतां शान्तेति योजयति / न सर्वधर्मशून्यताम् अशान्तेति योजयति / न स्वलक्षणशून्यतां शान्तेति योजयति न / स्वलक्षणशून्यताम् अशान्तेति योजयति / नानुपलम्भशून्यतां शान्तेति योजयति / नानुपलम्भशून्यताम् अशान्तेति योजयति / नाभावशून्यतां शान्तेति योजयति / नाभावशून्यताम् अशान्तेति योजयति / न स्वभावशून्यतां शान्तेति योजयति / न स्वभावशून्यताम् अशान्तेति योजयति / नाभावस्वभावशून्यतां शान्तेति योजयति / नाभावस्वभावशून्यताम् अशान्तेति योजयति / न स्मृत्युपस्थानानि शान्तानीति योजयति / न स्मृत्युपस्थानान्य् अशान्तानीति योजयति /

न सम्यक्प्रहाणानि शान्तानीति / योजयति न सम्यक्प्रहाणान्य् अशान्तानीति योजयति / न ऋद्धिपादान् शान्ता इति योजयति / न ऋद्धिपादान् अशान्ता इति योजयति / नेन्द्रियाणि शान्तानीति योजयति / नेन्द्रियाण्य् अशान्तानीति योजयति / न बलानि शान्तानीति योजयति / न बलान्य् अशान्तानीति योजयति / न बोध्यङ्गानि शान्तानीति योजयति / न बोध्यङ्गान्य् अशान्तानीति योजयति / नार्याष्टाङ्गमार्गं शान्तम् इति योजयति / नार्याष्टाङ्गमार्गम् अशान्तम् इति योजयति / न ध्यानानि शान्तानीति योजयति / न ध्यानान्य् अशान्तानीति योजयति / नाप्रमाणानि शान्तानीति योजयति / नाप्रमाणान्य् अशान्तानीति योजयति / नारूप्यसमापत्तीः शान्ता इति योजयति / नारूप्यसमापत्तीर् अशान्ता इति योजयति / न विमोक्षान् शान्ता इति योजयति / न विमोक्षान् अशान्ता इति योजयति / न नवानुपूर्वविहारसमापत्तीः शान्ता इति योजयति / न नावानुपूर्वविहारसमापत्तीर् अशान्ता इति योजयति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानीति येजयति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अशान्तानीति योजयति / नाभिज्ञाः शान्ता इति योजयति / नाभिज्ञा अशान्ता इति योजयति / न समाधीन् शान्ता इति योजयति / न समाधीन् अशान्ता इति योजयति / न धारणीमुखानि शान्तानीति योजयति / न धारणीमुखान्य् अशान्तानीति योजयति / न दश तथागतबलानि शान्तानीति योजयति / न दश तथागतबलान्य् अशान्तानीति योजयति / न चत्वारि वैशारद्यानि शान्तानीति योजयति / न चत्वारि वैशारद्यान्य् अशन्तानीति योजयति / न चतस्रः प्रतिसंविदः शान्ता इति योजयति / न चतस्रः प्रतिसंविदो ऽशान्ता इति योजयति / न महामैत्रीं शान्तेति योजयति / न महामैत्रीम् अशान्तेति यो जयति /

न महाकरुणां शान्तेति योजयति / न महाकरुणाम् अशान्तेति योजयति / नाष्टादशावेणिकान् बुद्धधर्मान् शान्ता इति योजयति / नाष्टादशावेणिकान् बुद्धधर्मान् अशान्ता इति योजयति / न श्रोत-आपत्तिफलं शान्तम् इति योजयति / न श्रोत-आपत्तिफलम् अशान्तम् इति योजयति / न सकृदागमिफलं शान्तम् इति योजयति न सकृद्गामिफलम् अशान्तम् इति योजयति / नानागामिफलं शान्तम् इति योजयति नानागमिमिफलम् अशान्तम् इति योजयति / नार्हत्त्वं शान्तम् इति योजयति नार्हत्त्वम् अशान्तम् इति योजयति / च प्रत्येकबोधिं शान्त इति योजयति न प्रत्येकबोधिम् अशान्त इति योजयति / न मार्गाकारज्ञतां शान्तेति योजयति / न मार्गाकारज्ञताम् अशान्तेति योजयति / न सर्वाकारज्ञतां शान्तेति योजयति / न सर्वाकारज्ञताम् अशन्तेति योजयति / एवं चरन् शारद्वतीपुत्र बोधिसत्त्वो महासत्वः प्रजापारमितायां युक्त इति वक्तव्यः /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युज्यमानो न रूपं शून्यम् इति वाशून्यम् इति वा युज्यते / न वेदनां शून्यम् इति वाशून्यम् इति वा युज्यते / न संज्ञां शून्यम् इति वाशून्यम् इति वा युज्यते / न संस्काराः शून्या इति वाशून्या इति वा युज्यते / न विज्ञानं शून्यम् इति वाशून्यम् इति वा युज्यते / न चक्षुः शून्यम् इति वाशून्यम् इति वा युज्यते / न श्रोत्रं शून्यम् इति वाशून्यम् इति वा युज्यते / न घ्राणं शून्यम् इति वाशून्यम् इति वा युज्यते / न जिह्वां शून्यम् इति वाशून्यम् इति वा युज्यतै / न कायं शून्यम् इति वाशून्यम् इति वा युज्यते / न मनः शून्यम् इति वाशून्यम् इति वा युज्यते / न रूपं शून्यम् इति वाशून्यम् इति वा युज्यत / न शब्दं शून्यम् इति वाशून्यम् इति वा युज्यते / न गन्धं शून्यम् इति वाशून्यम् इति वा युज्यते / न रसं शून्यम् इति वाशून्यम् इति वा युज्यते / न स्पर्शं शून्यम् इति वाशून्यम् इति वा युज्यते / न धर्मान् शून्या इति वाशून्या इति वा युज्यते / न चक्षुर्विज्ञानं शून्यम् इति वाशून्यम् इति वा युज्यते / न श्रोत्रविज्ञानं शून्यम् इति वाशून्यम् इति वा युज्यते / न घ्राणविज्ञानं शून्यम् इति वाशून्यम् इति वा युज्यते / न जिह्वाविज्ञानं शून्यम् इति वाशून्यम् इति वा युज्यते / न कायविज्ञानं शून्यम् इति वाशून्यम् इति वा युज्यते / न मनोविज्ञानं शून्यम् इति वाशून्यम् इति वा युज्यते / न चक्षुःसंस्पर्शं शून्यम् इति वाशून्यम् इति वा युज्यते / न श्रोत्रसंस्पर्शं शून्यम् इति वाशून्यम् इति वा युज्यते / न घ्राणसंस्पर्शं शून्यम् इति वाशून्यम् इति वा युज्यते / न जिह्वासंस्पर्शं शून्यम् इति वाशून्यम् इति वा युज्यते / न कायसंपर्शं शून्यम् इति वाशून्यम् इति वा युज्यते /

न मनःसंस्पर्शं शून्यम् इति वाशून्यम् इति वा युज्यते / न चक्षुःसंस्पर्शप्रत्ययां वेदनां शून्येति वाशून्येति वा युज्यते / न श्रोत्रसंस्पर्शप्रत्ययां वेदनां शून्येति वाशून्येति वा युज्यते / न घ्राणसंस्पर्शप्रत्ययां वेदनां शून्येति वाशून्येति वा युज्यते / न जिह्वासंस्पर्शप्रत्ययां वेदनां शून्येति वाशून्येति वा युज्यते / न कायसंस्पर्शप्रत्ययां वेदनां शून्येति वाशून्येति वा युज्यते / न मनःसंस्पर्शप्रत्ययां वेदनां शून्येति वाशून्येति वा युज्यते / न पृथिवीधातुं शून्यम् इति वाशून्यम् इति वा युज्यते / नाब्धातुं शून्यम् इति वाशून्यम् इति वा युज्यते / न तेजोधातुं शून्यम् इति वाशून्यम् इति वा युज्यते / न वायुधातुं शून्यम् इति वाशून्यम् इति वा युज्यते / नाकाशधातुं शून्यम् इति वाशून्यम् इति वा युज्यते / न विज्ञानधातुं शून्य इति वाशून्य इति वा युज्यते / नाविद्यां शून्येति वाशून्येति वा युज्यते / न संस्कारान् शून्या इति वाशून्या इति वा युज्यते / न विज्ञानं शून्यम् इति वाशून्यम् इति वा युज्यते / न नामरूपं शून्यम् इति वाशून्यम् इति वा युज्यते / न षडायतनं शून्यम् इति वाशून्यम् इति वा युज्यते / न स्पर्शं शून्यम् इति वाशून्यम् इति वा युज्यत / न वेदनां शून्येति वाशून्येति वा युज्यते / न तृष्णां शून्येति वाशून्येति वा युज्यते / नोपादानं शून्यम् इति वाशून्यम् इति वा युज्यते / न भवं शून्य इति वाशून्य इति वा युज्यते / न जातिं शून्येति वाशून्येति वा युज्यते / न जरामरणं शून्यम् इति वाशून्यम् इति वा युज्यते / न दानपारमितां शून्येति वाशून्येति वा युज्यते / न शीलपारमितां शून्येति वाशून्येति वा युज्यत / न क्षान्तिपारमितां शून्येति वाशून्येति वा युज्यते /

न वीर्यपारमितां शून्येति वाशून्येति वा युज्यते / न ध्यानपारमितां शून्येति वाशून्येति वा युज्यते / न प्रज्ञापारमितां शून्येति वाशून्येति वा युज्यते / नान्यात्मशून्यतां शून्येति वाशून्येति वा युज्यते / न बहिर्धाशून्यतां शून्येति वाशून्येति वा युज्यते / नाध्यात्मबहिर्धाशून्यतां शून्येति वाशून्येति वा युज्यते / न शून्यताशून्यतां शून्येति वाशून्येति वा युज्यते / न महाशून्यतां शून्येति वाशून्येति वा युज्यते / न परमार्थशून्यतां शून्येति वाशून्येति वा युज्यते / न संस्कृतशून्यतां शून्येति वाशून्येति वा युज्यते / नासंस्कृतशून्यतां शून्येति वाशून्येति वा युज्यते / नात्यन्तशून्यतां शून्येति वाशून्येति वा युज्यते / नानवराग्रशून्यतां शून्येति वाशून्येति वा युज्यते / नानवकारशून्यतां शून्येति वाशून्येति वा युज्यते / न प्रकृतिशून्यतां शून्येति वाशून्येति वा युज्यते / न सर्वधर्मशून्यतां शून्येति वाशून्येति वा युज्यते / न स्वलक्षणशून्यतां शून्येति वाशून्येति वा युज्यते / नानुपलम्भशून्यतां शून्येति वाशून्येति वा युज्यते / नाभावशून्यतां शून्येति वाशून्येति वा युज्यते / न स्वभावशून्यतां शून्येति वाशून्येति वा युज्यते / नाभावस्वभावशून्यतां शून्येति वाशून्येति वा युज्यते / न स्मृत्युपथानानि शून्यानीति वाशून्यानीति वा युज्यते / न सम्यक्प्रहाणानि शून्यानीति वाशून्यानीति वा युज्यते / नर्धिपादान् शून्या इति वाशून्या इति वा युज्यते / नेन्द्रियाणि शून्यानीति वाशून्यानीति वा युज्यते / न बलानि शून्यानीति वाशून्यानीति वा युज्यते / न बोध्यङ्गानि शून्यानीति वाशून्यानीति वा युज्यते / नार्याष्टाङ्गमार्गं शून्य इति वाशून्य इति वा युज्यते / नार्यसत्यानि शून्यानीति वाशून्यानीति वा युज्यते /

न ध्यानानि शून्यानीति वाशून्यानीति वा युज्यते / नाप्रमाणानि शून्यानीति वाशून्यानीति वा युज्यते / नारूप्यसमापत्तीः शून्या इति वाशून्या इति वा युज्यते / नाष्टौ विमोक्षान् शून्या इति वाशून्या इति वा युज्यते / न नवानुपूर्वविहारसमापत्तीः शून्या इति वाशून्या इति वा युज्यते / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यानीति वाशून्यानीति वा युज्यते / नाभिज्ञाः शून्या इति वा अशून्या इति वा युज्यते / न समाधीन् शून्या इति वाशून्या इति वा युज्यते / न धारणीमुखानि शून्यानीति वाशून्यानीति वा युज्यते / न तथागतबलानि शून्यानीति वाशून्यानीति वा युज्यते / न वैशारद्यानि शून्यानीति वाशून्यानीति वा युज्यते / न प्रतिसंविदः शून्या इति वाशून्या इति वा युज्यते / न महामैत्रीं शून्येति वाशून्येति वा युज्यते / न महाकरुणां शून्येति वाशून्येति वा युज्यते / नावेणिकबुद्धधर्मान् शून्या इति वाशून्या इति वा युज्यते / न श्रोत-आपत्तिफलं शून्यम् इति वाशून्यम् इति वा युज्यते / न सकृदागामिफलं शून्यम् इति वाशून्यम् इति वा युज्यते / नानागामिफलं शून्यम् इति वाशून्यम् इति वा युज्यते / नार्हत्त्वं शून्यम् इति वाशून्यम् इति वा युज्यते / न प्रत्येकबोधिं शून्य इति वाशून्य इति वा युज्यते / न सर्वज्ञतां शून्येति वाशून्येति वा युज्यते / न मार्गाकारज्ञतां शून्येति वाशून्येति वा युज्यते / न सर्वाकारज्ञतां शून्येति वाशून्येति वा युज्यते / एवं चरन् शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न वेदनां निमित्तेति वानिमित्तेति वा युज्यते / न संज्ञां निमित्तेति वानिमित्तेति वा युज्यते / न संस्कारान् निमित्ता इति वानिमित्ता इति वा युज्यते / न विज्ञानं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न चक्षुर्निमित्तम् इति वानिमित्तम् इति वा युज्यते / न श्रोत्रं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न घ्राणं निमित्तम् इति वा अनिमित्तम् इति वा युज्यते / न जिह्वां निमित्तम् इति वानिमित्तम् इति वा युज्यते / न कायं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न मनोनिमित्तम् इति वानिमित्तम् इति वा युज्यते / न रूपं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न शब्दं निमित्त इति वानिमित्त इति वा युज्यते / न गन्धं निमित्त इति वानिमित्त इति वा युज्यते / न रसं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न स्पर्शं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न धर्मान् निमित्ता इति वानिमित्ता इति वा युज्यते / न चक्षुर्विज्ञानं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न श्रोत्रविज्ञानं निमित्तम् इति वा अनिमित्तम् इति वा युज्यते / न घ्राणविज्ञानं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न जिह्वाविज्ञानं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न कायविज्ञानं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न मनोविज्ञानं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न चक्षुःसंस्पर्शं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न श्रोत्रसंस्पर्शं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न घ्राणसंस्पर्शं निमित्तम् इति वानिमित्तम् इति वा युज्यते /

न जिह्वासंस्पर्शं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न कायसंस्पर्शं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न मनःसंस्पर्शं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न चक्षुःसंस्पर्शप्रत्ययां वेदनां निमित्तेति वानिमित्तेति वा युज्यते / न श्रोत्रसंस्पर्शप्रत्ययां वेदनां निमित्तेति वानिमित्तेति वा युज्यते / न घ्राणसंस्पर्शप्रत्ययां वेदनां निमित्तेति वानिमित्तेति वा युज्यते / न जिह्वासंस्पर्शप्रत्ययां वेदनां निमित्तेति वानिमित्तेति वा युज्यते / न कायसंस्पर्शप्रत्ययां वेदनां निमित्तेति वानिमित्तेति वा युज्यते / न मनःसंस्पर्शप्रत्ययां वेदनां निमित्तेति वा अनिमित्तेति वा युज्यते / न पृथिवीधातुं निमित्तम् इति वानिमित्तम् इति वा युज्यते / नाब्धातुं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न तेजोधातुं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न वायुधातुं निमित्तम् इति वानिमित्तम् इति वा युज्यते / नाकाशधातुं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न विज्ञानधातुं निमित्तम् इति वानिमित्तम् इति वा युज्यते / नाविद्यां निमित्तेति वानिमित्तेति वा युज्यते / न संस्कारान् निमित्ता इति वानिमित्ता इति वा युज्यते / न विज्ञानं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न नामरूपं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न षडायतनं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न स्पर्शं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न वेदनां निमित्तेति वानिमित्तेति वा युज्यते / न तृष्णां निमित्तेति वानिमित्तेति वा युज्यते / नोपादानं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न भवं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न जातिं निमित्तेति वानिमित्तेति वा युज्यते /

न जरामरणं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न दानपारमितां निमित्तेति वानिमित्तेति वा युज्यते / न शीलपारमितां निमित्तेति वानिमित्तेति वा युज्यते / न क्षान्तिपारमितां निमित्तेति वानिमित्तेति वा युज्यते / न वीर्यपारमितां निमित्तेति वानिमित्तेति वा युज्यते / न ध्यानपारमितां निमित्तेति वानिमित्तेति वा युज्यते / न प्रज्ञापारमितां निमित्तेति वानिमित्तेति वा युज्यते / नाध्यात्मशून्यतां निमित्तेति वानिमित्तेति वा युज्यते / न बहिर्धाशून्यतां निमित्तेति वानिमित्तेति वा युज्यते / नाध्यात्मबहिर्धाशून्यतां निमित्तेति वानिमित्तेति वा युज्यते / न शून्यताशून्यतां निमित्तेति वानिमित्तेति वा युज्यते / न महाशून्यतां निमित्तेति वानिमित्तेति वा युज्यते / न परमार्थशून्यतां निमित्तेति वानिमित्तेति वा युज्यते / न संस्कृतशून्यतां निमित्तेति वानिमित्तेति वा युज्यते / नासंस्कृतशून्यतां निमित्तेति वानिमित्तेति वा युज्यते / नात्यन्तशून्यतां निमित्तेति वानिमित्तेति वा युज्यते / नानवराग्रशून्यतां निमित्तेति वानिमित्तेति वा युज्यते / नानवकारशून्यतां निमित्तेति वानिमित्तेति वा युज्यते / न प्रकृतिशून्यतां निमित्तेति वानिमित्तेति वा युज्यते / न सर्वधर्मशून्यतां निमित्तेति वानिमित्तेति वा युज्यते / न स्वलक्षणशून्यतां निमित्तेति वानिमित्तेति वा युज्यते / नानुपलम्भशून्यतां निमित्तेति वानिमित्तेति वा युज्यते / नाभावशून्यतां निमित्तेति वानिमित्तेति वा युज्यते / न स्वभावशून्यतां निमित्तेति वानिमित्तेति वा युज्यते / नाभावस्वभावशून्यतां निमित्तेति वानिमित्तेति वा युज्यते / न स्मृत्युपस्थानानि निमित्तानीति वानिमित्तानीति वा युज्यते / न सम्यक्प्रहाणानि निमित्तानीति वानिमित्तानीति वा युज्यते /

नर्धिपादान् निमित्तान् इति वानिमित्तान् इति वा युज्यते / नेन्द्रियाणि निमित्तानीति वानिमित्तानीति वा युज्यते / न बलानि निमित्तानीति वानिमित्तानीति वा युज्यते / न बोध्यङ्गानि निमित्तानीति वानिमित्तानीति वा युज्यते / नार्याष्टाङ्गमार्गं निमित्तम् इति वानिमित्तम् इति वा युज्यते / नार्यसत्यानि निमित्तानीति वानिमित्तानीति वा युज्यते / न ध्यानानि निमित्तानीति वानिमित्तानीति वा युज्यते / नाप्रमाणानि निमित्तानीति वानिमित्तानीति वा युज्यते / नारूप्यसमापत्तीर् निमित्ता इति वानिमित्ता इति वा युज्यते / न विमोक्षान् निमित्ता इति वानिमित्ता इति वा युज्यते / न नवानुपूर्वविहारसमापत्तीर् निमित्ता इति वानिमित्ता इति वा युज्यते / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि निमित्तानीति वानिमित्तानीति वा युज्यते / नाभिज्ञा निमित्ता इति वानिमित्ता इति वा युज्यते / न समाधीन् निमित्ता इति वानिमित्ता इति वा युज्यते / न धारणीमुखानि निमित्तानीति वानिमित्तानीति वा युज्यते / न तथागतबलानि निमित्तानीति वानिमित्तानीति वा युज्यते / न वैशारद्यानि निमित्तानीति वानिमित्तानीति वा युज्यते / न प्रतिसंविदो निमित्ता इति वानिमित्ता इति वा युज्यते / न महामैत्रीं निमित्तेति वानिमित्तेति वा युज्यते / न महाकरुणां निमित्तेति वानिमित्तेति वा युज्यते / नाष्टादशावेणिकबुद्धधर्मान् निमित्ता इति वानिमित्ता इति वा युज्यते / न श्रोतआपत्तिफलं निमित्तम् इति वानिमित्तम् इति वा युज्यत / न सकृदागामिफलं निमित्तम् इति वानिमित्तम् इति वा युज्यते / नानागामिफलं निमित्तम् इति वानिमित्तम् इति वा युज्यते / नार्हत्त्वं निमित्तम् इति वानिमित्तम् इति वा युज्यते / न प्रत्येकबोधिं निमित्तम् इति वानिमित्तम् इति वा युज्यते /

न सर्वज्ञतां निमित्तेति वानिमित्तेति वा युज्यते / न मार्गाकारज्ञतां निमित्तेति वानिमित्तेति वा युज्यते / न सर्वाकारज्ञतां निमित्तेति वानिमित्तेति वा युज्यते / एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न वेदनां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न संज्ञां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न संस्कारान् प्रणिहिता इति वाप्रणिहिता इति वा युज्यते / न विज्ञानं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न चक्षुः प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न श्रोत्रं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न घ्राणं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न जिह्वां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न कायं प्रणिहित इति वाप्रणिहित इति वा युज्यत / न मनः प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न रूपं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न शब्दं प्रणिहित इति वाप्रणिहित इति वा युज्यते / न गन्धं प्रणिहित इति वाप्रणिहित इति वा युज्यते / न रसं प्रणिहित इति वाप्रणिहित इति वा युज्यते / न स्पर्शं प्रणिहित इति वाप्रणिहित इति वा युज्यते / न धर्मान् प्रणिहिता इति वाप्रणिहिता इति वा युज्यते / न चक्षुर्विज्ञानं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यत / न श्रोत्रविज्ञानं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न घ्राणविज्ञानं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न जिह्वाविज्ञानं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न कायविज्ञानं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न मनोविज्ञानं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न चक्षुःसंस्पर्शं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न श्रोत्रसंस्पर्शं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते /

न घ्राण्संस्पर्शं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न जिह्वासंस्पर्शं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न कायसंस्पर्शं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न मनःसंस्पर्शं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न चक्षुःसंस्पर्शप्रत्ययां वेदनां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न श्रोत्रसंस्पर्शप्रत्ययां वेदनां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न घ्राणसंस्पर्शप्रत्ययां वेदनां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न जिह्वासंस्पर्शप्रत्ययां वेदनां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न कायसंस्पर्शप्रत्ययां वेदनां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न मनःसंस्पर्शप्रत्ययां वेदनां प्रणिहितेति वाप्रणिहितति वा युज्यते / न पृथिवीधातुं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / नाब्धातुं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न तेजोधातुं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न वायुधातुं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / नाकाशधातुं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न विज्ञानधातुं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / नाविद्यां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न संस्कारान् प्रणिहिता इति वाप्रणिहिता इति वा युज्यते / न विज्ञानं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न नामरूपं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न षडायतनं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न स्पर्शं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न वेदना प्रणिहितेति वाप्रणिहितेति वा युज्यते / न तृष्णा प्रणिहितेति वाप्रणिहितेति वा युज्यते /

नोपादानं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न भवं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न जातिं प्रणिहितेति वाप्रणिहितेति वा युज्यते / न जरामरणं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न दानपारमितां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न शीलपारमितां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न क्षान्तिपारमितां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न वीर्यपारमितां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न ध्यानपारमितां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न प्रज्ञापारमितां प्रणिहितेति वाप्रणिहितेति वा युज्यते / नाध्यात्मशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न बहिर्धाशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते / नाध्यात्मबहिर्धाशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न शून्यताशून्यता प्रणिहितेति वाप्रणिहितेति वा युज्यते / न महाशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न परमार्थशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न संस्कृतशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते / नासंस्कृतशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते / नात्यन्तशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते / नानवराग्रशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते / नानवकारशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न प्रकृतिशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न सर्वधर्मशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न स्वलक्षणशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते / नानुपलम्भशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते /

नाभावशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न स्वभावशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते / नाभावस्वभावशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न स्मृत्युपस्थानानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते / न सम्यक्प्रहाणानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते / नर्धिपादान् प्रणिहिता इति वाप्रणिहिता इति वा युज्यते / नेन्द्रियाणि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते / न बलानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते / न बोध्यङ्गानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते / न मार्गं प्रणिहित इति वाप्रणिहित इति वा युज्यते / नार्यसत्यानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते / न ध्यानानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते / नाप्रमाणानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते / नारूप्यसमापत्तीः प्रणिहिता इति वाप्रणिहिता इति वा युज्यते / नाष्टौ विमोक्षान् प्रणिहिता इति वाप्रणिहिता इति वा युज्यते / न नवानुपूर्वविहारसमापत्तीः प्रणिहिता इति वाप्रणिहिता इति वा युज्यते / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते / नाभिज्ञाः प्रणिहिता इति वाप्रणिहिता इति वा युज्यते / न समाधीन् प्रणिहिता इति वाप्रणिहिता इति वा युज्यते / न धारणीमुखानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते / न तथागतबलानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते / न वैशारद्यानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते / न प्रतिसंविदः प्रणिहिता इति वाप्रणिहिता इति वा युज्यते / न महामैत्रीं प्रणिहितेति वाप्रणिहितेति वा युज्यते / न महाकरुणां प्रणिहितेति वाप्रणिहितेति वा युज्यते /

नाष्टादशावेणिकान् बुद्धधर्मान् प्रणिहिता इति वाप्रणिहिता इति वा युज्यते / न श्रोतआपत्तिफलं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न सकृदागामिफलं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / नानागामिफलं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / नार्हत्त्वं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते / न प्रत्येकबोधिं प्रणिहित इति वाप्रणिहित इति वा युज्यते / न सर्वज्ञतां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न मार्गाकारज्ञतां प्रणिहितेति वाप्रणिहितेति वा युज्यते / न सर्वाकारज्ञतां प्रणिहितेति वाप्रणिहितेति वा युज्यते / एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपम् उत्पद्यते इति वा निरुध्यते इति वा युज्यते / न वेदनाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न संज्ञाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न संस्कारान् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / न विज्ञानम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न चक्षुर् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न श्रोत्रम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न घ्राणम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न जिह्वाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न कायम् उत्पद्यत वा निरुध्यत इति वा युज्यते / न मन उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न रूपम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न शब्दम् उत्पद्यत इति वा निरुध्यत वा युज्यते / न गन्धम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न रसम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न स्पर्शम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न धर्मान् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / न चक्षुर्विज्ञानम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न श्रोत्रविज्ञानम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न घ्राणविज्ञानम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न जिह्वाविज्ञानम् उत्पद्यत इति वा निरुध्यत वा युज्यते / न कायविज्ञानम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न मनोविज्ञानम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न चक्षुःसंस्पर्शम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते /

न श्रोत्रसंस्पर्शम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न घ्राणसंस्पर्शम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न जिह्वासंस्पर्शम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न काम्संस्पर्शम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न मनःसंस्पर्शम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न चक्षुःसंस्पर्शप्रत्ययां वेदनाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न श्रोत्रसंस्पर्शप्रत्ययां वेदनाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न घ्राणसंस्पर्शप्रत्ययां वेदनाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न जिह्वासंस्पर्शप्रत्ययां वेदनाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न कायसंस्पर्शप्रत्ययां वेदनाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न मनःसंस्पर्शप्रत्ययां वेदनाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न पृथिवीधातुम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / नाब्धातुम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न तेजोधातुम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न वायुधातुम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / नाकाशधातुम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न विज्ञानधातुम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / नाविद्याम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न संस्कारान् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / न विज्ञानम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न नामरूपम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न षडायतनम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते /

न स्पर्शम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न वेदनाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न तृष्णाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / नोपादानम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न भवम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न जातिम् उत्पद्यत वा निरुध्यत इति वा युज्यते / न जरामरणम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न दानपारमिताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न शीलपारमिताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न क्षान्तिपारमिताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न वीर्यपारमिताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न ध्यानपारमिताम् उत्पद्यत वा निरुध्यत इति वा युज्यते / न प्रज्ञापारमिताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / नाध्यात्मशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न बहिर्धाशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / नाध्यात्मबहिर्धाशून्यताम् उत्पद्यत इति वा निरुध्यत वा युज्यते / न शून्यताशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न महाशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न परमार्थशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न संस्कृतशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / नासंस्कृतशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / नात्यन्तशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / नानवराग्रशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / नानवकारशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते /

न प्रकृतिशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न सर्वधर्मशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न स्वलक्षणशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / नानुपलम्भशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यत / नाभावशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न स्वभावशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / नाभावस्वभावशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न स्मृत्युपस्थानान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / न सम्यक्प्रहाणान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / नर्धिपादान् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / नेन्द्रियाण्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / न बलान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / न बोध्यङ्गान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / नार्याष्टाङ्गमार्गम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / नार्यसत्यान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / न ध्यानान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / नाप्रमाणान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / नारूप्यसमापत्तीः उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / नाष्टौ विमोक्षान् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / न नवानुपूर्वविहारसमापत्तीः उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / नाभिज्ञा उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / न समाधीन् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते /

न धारणीमुखान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / न तथागतबलान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / न वैशारद्यान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / न प्रतिसंविदः उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / न महामैत्रीम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न महाकरुणाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / नावेणिकबुद्धधर्मान् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते / न श्रोतआपत्तिफलम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न सकृदागामिफलम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / नानागामिफलम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / नार्हत्त्वम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न प्रत्येकबोधिम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न मार्गाकारज्ञताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / न सर्वाकारज्ञताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते / एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः /

पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपम् अतीतम् इति युज्यते / न रूपम् अनागतम् इति युज्यते / न रूपं प्रत्युत्पन्नम् इति युज्यते / न वेदनाम् अतीतेति युज्यते / न वेदनाम् अनागतेति युज्यते / न वेदनां प्रत्युत्पन्नेति युज्यते / न संज्ञाम् अतीतेति युज्यते / न संज्ञाम् अनागतेति युज्यते / न संज्ञां प्रत्युत्पन्नेति युज्यते / न संस्कारान् अतीता इति युज्यते / न संस्कारान् अनागता इति युज्यते / न संस्कारान् प्रत्युत्पन्ना इति युज्यते / न विज्ञानम् अतीतम् इति युज्यते / न विज्ञानम् अनागतम् इति युज्यते / न विज्ञानं प्रत्युत्पन्नम् इति युज्यते / न चक्षुर् अतीतम् इति युज्यते / न चक्षुर् अनागतम् इति युज्यते / न चक्षुः प्रत्युत्पन्नम् इति युज्यते / न श्रोत्रम् अतीतम् इति युज्यते / न श्रोत्रम् अनागतम् इति युज्यते / न श्रोत्रं प्रत्युत्पन्नम् इति युज्यते / न घ्राणम् अतीतम् इति युज्यते / न घ्राणम् अनागतम् इति युज्यते / न घ्राणं प्रत्युत्पन्नम् इति युज्यते / न जिह्वाम् अतीतेति युज्यते / न जिह्वाम् अनागतेति युज्यते / न जिह्वां प्रत्युत्पन्नेति युज्यते / न कायम् अतीतम् इति युज्यते / न कायम् अनागतम् इति युज्यते / न कायं प्रत्युत्पन्नम् इति युज्यते / न मनो ऽतीतम् इति युज्यते / न मनो ऽनागतम् इति युज्यते / न मनः प्रत्युत्पन्नम् इति युज्यते / न रूपम् अतीतम् इति युज्यते / न रूपम् अनागतम् इति युज्यते / न रूपं प्रत्युत्पन्नम् इति युज्यते / न शब्दम् अतीतम् इति युज्यते / न शब्दम् अनागतम् इति युज्यते / न शब्दं प्रत्युत्पन्नम् इति युज्यते / न गन्धम् अतीतम् इति युज्यते / न गन्धम् अनागतम् इति युज्यते / न गन्धं प्रत्युत्पन्नम् इति युज्यते /

न रसम् अतीतम् इति युज्यते / न रसम् अनागतम् इति युज्यते / न रसं प्रत्युत्पन्नम् इति युज्यते / न स्पर्शम् अतीतम् इति युज्यते / न स्पर्शम् अनागतम् इति युज्यते / न स्पर्शं प्रत्युत्पन्नम् इति युज्यते / न धर्मान् अतीता इति युज्यते / न धर्मान् अनागता इति युज्यते / न धर्मान् प्रत्युत्पन्ना इति युज्यते / न चक्षुर्विज्ञानम् अतीतम् इति युज्यते / न चक्षुर्विज्ञानम् अनागतम् इति युज्यते / न चक्षुर्विज्ञानं प्रत्युत्पन्नम् इति युज्यते / न श्रोत्रविज्ञानम् अतीतम् इति युज्यते / न श्रोत्रविज्ञानम् अनागतम् इति युज्यते / न श्रोत्रविज्ञानं प्रत्युत्पन्नम् इति युज्यते / न घ्राणविज्ञानम् अतीतम् इति युज्यते / न घ्राणविज्ञानम् अनागतम् इति युज्यते / न घ्राणविज्ञानं प्रत्युत्पन्नम् इति युज्यते / न जिह्वाविज्ञानम् अतीतम् इति युज्यते / न जिह्वाविज्ञानम् अनागतम् इति युज्यते / न जिह्वाविज्ञानं प्रत्युत्पन्नम् इति युज्यते / न कायविज्ञानम् अतीतम् इति युज्यते / न कायविज्ञानम् अनागतम् इति युज्यते / न कायविज्ञानं प्रत्युत्पन्नम् इति युज्यते / न मनोविज्ञानम् अतीतम् इति युज्यते / न मनोविज्ञानम् अनागतम् इति युज्यते / न मनोविज्ञानं प्रत्युत्पन्नम् इति युज्यते / न चक्षुःसंस्पर्शम् अतीतम् इति युज्यते / न चक्षुःसंस्पर्शम् अनागतम् इति युज्यते / न चक्षुःसंस्पर्शं प्रत्युत्पन्नम् इति युज्यते / न श्रोत्रसंस्पर्शम् अतीतम् इति युज्यते / न श्रोत्रसंस्पर्शम् अनागतम् इति युज्यते / न श्रोत्रसंस्पर्शं प्रत्युत्पन्नम् इति युज्यते / न घ्राणसंस्पर्शम् अतीतम् इति युज्यते / न घ्राणसंस्पर्शम् अनागतम् इति युज्यते / न घ्राणसंस्पर्शं प्रत्युत्पन्नम् इति युज्यते / न जिह्वासंस्पर्शम् अतीतम् इति युज्यते /

न जिह्वासंस्पर्शम् अनागतम् इति युज्यते / न जिह्वासंस्पर्शं प्रत्युत्पन्नम् इति युज्यते / न कायसंपर्शम् अतीतम् इति युज्यते / न कायसंस्पर्शम् अनागतम् इति युज्यते / न कायसंस्पर्शं प्रत्युत्पन्नम् इति युज्यते / न मनःसंस्पर्शम् अतीतम् इति युज्यते / न मनःसंस्पर्शम् अनागतम् इति युज्यते / न मनःसंस्पर्शं प्रत्युत्पन्नम् इति युज्यते / न चक्षुःसंस्पर्शप्रत्ययां वेदनाम् अतीतेति युज्यते / न चक्षुःसंस्पर्शप्रत्ययां वेदनाम् अनागतेति युज्यते / न चक्षुःसंस्पर्शप्रत्ययां वेदनां प्रत्युत्पन्नेति युव्यते / न श्रोत्रसंस्पर्शप्रत्ययां वेदनाम् अतीतेति युज्यते / न श्रोत्रसंस्पर्शप्रत्ययां वेदनाम् अनागतेति युज्यते / न श्रोत्रसंस्पर्शप्रत्ययां वेदनां प्रत्युत्पन्नेति युज्यते / न घ्राणसंस्पर्शप्रत्ययां वेदनाम् अतीतेति युज्यते / न घ्राणसंस्पर्शप्रत्ययां वेदनाम् अनागतेति युज्यते / न घ्राणसंस्पर्शप्रत्ययां वेदनां प्रत्युत्पन्नेति युज्यते / न जिह्वासंस्पर्शप्रत्ययां वेदनाम् अतीतेति युज्यते / न जिह्वासंस्पर्शप्रत्ययां वेदनाम् अनागतेति युज्यते / न जिह्वासंस्पर्शप्रत्ययां वेदनां प्रत्युत्पन्नेति युज्यते / न कायसंस्पर्शप्रत्ययां वेदनाम् अतीतेति युज्यते / न कायसंस्पर्शप्रत्ययां वेदनाम् अनागतेति युज्यते / न कायसंस्पर्शप्रत्ययां वेदनां प्रत्युत्पन्न इति युज्यते / न मनसंस्पर्शप्रत्ययां वेदनाम् अतीतेति युज्यते / न मनःसंस्पर्शप्रत्ययां वेदनाम् अनागतेति युज्यते / न मनःसंस्पर्शप्रत्ययां वेदनां प्रत्युत्पन्नेति युज्यते / न पृथिवीधातुम् अतीत इति युज्यते / न पृथिवीधातुम् अनागत इति युज्यते / न पृथिवीधातुं प्रत्युत्पन्न इति युज्यते /

नाब्धातुम् अतीत इति युज्यते / नाब्धातुम् अनागत इति युज्यते / नाब्धातुं प्रत्युत्पन्न इति युज्यते / न तेजोधातुम् अतीत इति ते / न तेजोधातुम् अनागत इति युज्यते / न तेजोधातुं प्रत्युत्पन्न इति युज्यते / न वायुधातुम् अतीत इति युज्यते / न वायुधातुम् अनागत इति युज्यते / न वायुधातुं प्रत्युत्पन्न इति युज्यते / नाकाशधातुम् अतीत इति युज्यते / नाकाशधातुम् अनागत इति युज्यते / नाकाशधातुं प्रत्युत्पन्न इति युज्यते / न विज्ञानधातुम् अतीत इति युज्यते / न विज्ञानधातुम् अनागत इति युज्यते / न विज्ञानधातुं प्रत्युत्पन्न इति युज्यते / नाविद्याम् अतीतेति युज्यते / नाविद्याम् अनागतेति युज्यते / नाविद्यां प्रत्युत्पन्नेति युज्यते / न संस्कारान् अतीता इति युज्यते / न संस्कारान् अनागता इति युज्यते / न संस्कारान् प्रत्युत्पन्ना इति युज्यते / न विज्ञानम् अतीतम् इति युज्यते / न विज्ञानम् अनागतम् इति युज्यते / न विज्ञानं प्रत्युत्पन्नम् इति युज्यते / न नामरूपम् अतीतम् इति युज्यते / न नामरूपम् अनागतम् इति युज्यते / न नामरूपं प्रत्युत्पन्नम् इति युज्यते / न षडायतनम् अतीतम् इति युज्यते / न षडायतनम् अनागतम् इति युज्यते / न षडायतनं प्रत्युत्पन्नम् इति युज्यते / न स्पर्शम् अतीतम् इति युज्यते / न स्पर्शम् अनागतम् इति युज्यते / न स्पर्शं प्रत्युत्पन्नम् इति युज्यते / न वेदनाम् अतीतेति युज्यते / न वेदनाम् अनागतेति युज्यते / न वेदनां प्रत्युत्पन्नेति युज्यते / न तृष्णाम् अतीतेति युज्यते / न तृष्णाम् अनागतेति युज्यते / न तृष्णां प्रत्युत्पन्नेति युज्यते / नोपादानम् अतीतम् इति युज्यते / नोपादानम् अनागतम् इति युज्यते / नोपादानं प्रत्युत्पन्नम् इति युज्यते /

न भवम् अतीतम् इति युज्यते / न भवम् अनागतम् इति युज्यते / न भवं प्रत्युत्पन्नम् इति युज्यते / न जातिम् अतीतेति युज्यते / स जातिम् अनागतेति युज्यते / न जातिं प्रत्युत्पन्नेति युज्यते / न जरामरणम् अतीतम् इति युज्यते / न जरामरणम् अनागतम् इति युज्यते / न जरामरणं प्रत्युत्पन्नम् इति युज्यते / न दानपारमिताम् अतीतेति

युज्यते / न दानपारमिताम् अनागतेति युज्यते / न दानपारमितां प्रत्युत्पन्नेति युज्यते / न शीलपारमिताम् अतीतेति युज्यते / न शीलपारमिताम् अनागतेति युज्यते / न शीलपारमितां प्रत्युत्पन्नेति युज्यते / न क्षान्तिपारमिताम् अतीतेति युज्यते / न क्षान्तिपारमिताम् अनागतेति युज्यते / न क्षान्तिपारमितां प्रत्युत्पन्नेति युज्यते / न वीर्यपारमिताम् अतीतेति युज्यते / न वीर्यपारमिताम् अनागतेति युज्यते / न वीर्यपारमितां प्रत्युत्पन्नेति युज्यते / न ध्यानपारमिताम् अतीतेति युज्यते / न ध्यानपारमिताम् अनागतेति युज्यते / न ध्यानपारमितां प्रत्युत्पन्नेति युज्यते / न प्रज्ञापारमिताम् अतीतेति युज्यते / न प्रज्ञापारमिताम् अनागतेति युज्यते / न प्रज्ञापारमितां प्रत्युत्पन्नेति युज्यते / नाध्यात्मशून्यताम् अतीतेति युज्यते / नाध्यात्मशून्यताम् अनागतेति युज्यते / नाध्यात्मशून्यतां प्रत्युत्पन्नेति युज्यते / न बहिर्धाशून्यताम् अतीतेति युज्यते / न बहिर्धाशून्यताम् अनागतेति युज्यते / न बहिर्धाशून्यतां प्रत्युत्पन्नेति युज्यते / नाध्यात्मबहिर्धाशून्यताम् अतीतेति युज्यते / नाध्यात्मबहिर्धाशून्यताम् अनागतेति युज्यते / नाध्यात्मबहिर्धाशून्यतां प्रत्युत्पन्नेति युज्यते / न शून्यताशून्यताम् अतीतेति युज्यते / न शून्यताशून्यताम् अनागतेति युज्यते / न शून्यताशून्यतां प्रत्युत्पन्नेति युज्यते / न महाशून्यताम् अतीतेति युज्यते न महाशून्यताम् अनागतेति युज्यते / न महाशून्यतां प्रत्युत्पन्नेति युज्यते / न परमार्थशून्यताम् अतीतेति युज्यते / न परमार्थशून्यताम् अनागतेति युज्यते / न परमार्थशून्यतां प्रत्युत्पन्नेति युज्यते / न संस्कृतशून्यताम् अतीतेति युज्यते / न संस्कृतशून्यताम् अनागतेति युज्यते /

न संस्कृतशून्यतां प्रत्युत्पन्नेति युज्यते / नासंस्कृतशून्यताम् अतीतेति युज्यते / नासंस्कृतशून्यताम् अनागतेति युज्यते / नासंस्कृतशून्यतां प्रत्युत्पन्नेति युज्यते / नात्यन्तशून्यताम् अतीतेति युज्यते / नात्यन्तशून्यताम् अनागतेति युज्यते / नात्यन्तशून्यतां प्रत्युत्पन्नेति युज्यते / नानवराग्रशून्यताम् अतीतेति युज्यते / नानवराग्रशून्यताम् अनागतेति युज्यते / नानवराग्रशून्यतां प्रत्युत्पन्नेति युज्यते / नानवकारशून्यताम् अतीतेति युज्यते / नानवकारशून्यताम् अनागतेति युज्यते / नानवकारशून्यतां प्रत्युत्पन्नेति युज्यते / न प्रकृतिशून्यताम् अतीतेति युज्यते / न प्रकृतिशून्यताम् अनागतेति युज्यते / न प्रकृतिशून्यतां प्रत्युत्पन्नेति युज्यते / न सर्वधर्मशून्यताम् अतीतेति युज्यते / न सर्वधर्मशून्यताम् अनागतेति युज्यते / न सर्वधर्मशून्यतां प्रत्युत्पन्नेति युज्यते / न स्वलक्षणशून्यताम् अतीतेति युज्यते / न स्वलक्षणशून्यताम् अनागतेति युज्यते / न स्वलक्षणशून्यतां प्रत्युत्पन्नेति युज्यते / नानुपलम्भशून्यताम् अतीतेति युज्यते / नानुपलम्भशून्यताम् अनागतेति युज्यते / नानुपलम्भशून्यतां प्रत्युत्पन्नेति युज्यते / नाभावशून्यताम् अतीतेति युज्यते / नाभावशून्यताम् अनागतेति युज्यते / नाभावशून्यतां प्रत्युत्पन्नेति युज्यते / न स्वभावशून्यताम् अतीतेति युज्यते / न स्वभावशून्यताम् अनागतेति युज्यते / न स्वभावशून्यतां प्रत्युत्पन्नेति युज्यते / नाभावस्वभावशून्यताम् अतीतेति युज्यते / नाभावस्वभावशून्यताम् अनागतेति युज्यते / नाभावस्वभावशून्यतां प्रत्युत्पन्नेति युज्यते / न स्मृत्युपस्थानान्य् अतीतानीति युज्यते / न स्मृत्युपस्थानान्य् अनागतानीति युज्यते /

न स्मृत्युपस्थानानि प्रत्युत्पन्नानीति युज्यते / न सम्यक्प्रहाणान्य् अतीतानीति युज्यते / न सम्यक्प्रहाणान्य् अनागतानीति युज्यते / न सम्यक्प्रहाणानि प्रत्युत्पन्नानीति युज्यते / नर्धिपादान् अतीता इति युज्यते / नर्धिपादान् अनागता इति युज्यते / नर्धिपादान् प्रत्युत्पन्ना इति युज्यते / नेन्द्रियाण्य् अतीतानीति युज्यते / नेन्द्रियाण्य् अनागतानीति युज्यते / नेन्द्रियाणि प्रत्युत्पन्नानीति युज्यते / न बलान्य् अतीतानीति युज्यते / न बलान्य् अनागतानीति युज्यते / न बलानि प्रत्युत्पन्नानीति युज्यते / न बोध्यङ्गान्य् अतीतानीति युज्यते / न बोध्यङ्गान्य् अनागतानीति युज्यते / न बोध्यङ्गानि प्रत्युत्पन्नानीति युज्यते / नार्याष्टाङ्गमार्गम् अतीत इति युज्यते / नार्याष्टाङ्गमार्गम् अनागत इति युज्यते / नार्याष्टाङ्गमार्गं प्रत्युत्पन्न इति युज्यते / नार्यसत्यान्य् अतीतानीति युज्यते / नार्यसत्यान्य् अनागतानीति युज्यते / नार्यसत्यानि प्रत्युत्पन्नानीति युज्यते / न ध्यानान्य् अतीतानीति युज्यते / न ध्यानान्य् अनागतानीति युज्यते / न ध्यानानि प्रत्युत्पन्नानीति युज्यते / नाप्रमाणान्य् अतीतानीति युज्यते / नाप्रमाणान्य् अनागतानीति युज्यते / नाप्रमाणानि प्रत्युत्पन्नानीति युज्यते / नारूप्यसमापत्तीर् अतीता इति युज्यते / नारूप्यसमापत्तीर् अनागता इति युज्यते / नारूप्यसमापत्तीः प्रत्युत्पन्ना इति युज्यते / नाष्टौ विमोक्षान् अतीता इति युज्यते / नाष्टौ विमोक्षान् अनागता इति युज्यते / नाष्टौ विमोक्षान् प्रत्युत्पन्ना इति युज्यते / न नवानुपूर्वविहारसमापत्तीर् अतीता इति युज्यते / न नवानुपूर्वविहारसमापत्तीर् अनागता इति युज्यते / न नवानुपूर्वविहारसमापत्तीः प्रत्यूत्पन्ना इति युज्यते / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अतीतानीति युज्यते /

न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनागतानीति युज्यते / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रत्युत्पन्नानीति युज्यते / नाभिज्ञा अतीता इति युज्यते / नाभिज्ञा अनागता इति युज्यते / नाभिज्ञाः प्रत्युत्पन्ना इति युज्यते / न समाधीन् अतीता इति युज्यते / न समाधीन् अनागता इति युज्यते / न समाधीन् प्रत्युत्पन्ना इति युज्यते / न धारणीमुखान्य् अतीतानीति युज्यते / न धारणीमुखान्य् अनागतानीति युज्यते / न धारणीमुखानि प्रत्युत्पन्नानीति युज्यते / न दश तथागतबलान्य् अतीतानीति युज्यते / न दश तथागतबलान्य् अनागतानीति युज्यते / न दश तथागतबलानि प्रत्युत्पन्नानीति युज्यते / न चत्वारि वैशारद्यान्य् अतीतानीति युज्यते / न चत्वारि वैशारद्यान्य् अनागतानीति युज्यते / न चत्वारि वैशारद्यानि प्रत्युत्पन्नानीति युज्यते / न चतस्रः प्रतिसंविदो ऽतीता इति युज्यते / न चतस्रः प्रतिसंविदो ऽनागता इति युज्यते / न चतरवः प्रतिसंविदः प्रत्युत्पन्ना इति युज्यते / न महामैत्रीम् अतीतेति युज्यते / न महामैत्रीम् अनागतेति युज्यते / न महामैत्रीं प्रत्युत्पन्नेति युज्यते / न महाकरुणाम् अतीतेति युज्यते / न महाकरुणाम् अनागतेति युज्य्गते / न महाकरुणां प्रत्युत्पन्नेति युज्यते / नाष्टादशावेणिकबुद्धधर्मान् अतीता इति युज्यते / नाष्टादशावेणिकबुद्धधर्मान् अनागता इति युज्यते / नाष्टादशावेणिकबुद्धधर्मान् प्रत्युत्पन्ना इति युज्यते / न श्रोतआपत्तिफलम् अतीतम् इति युज्यते / न श्रोतआपत्तिफलम् अनागतम् इति युज्यते / न श्रोतआपत्तिफलं प्रत्युत्पन्नम् इति युज्यते / न सकृदागामिफलम् अतीतम् इति युज्यते / न सकृदागामिफलम् अनागतम् इति युज्यते /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.