Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता, Part इ
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
नानवराग्रशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति / नानवकारशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति / न प्रकृतिशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति / न सर्वधर्मशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति / न स्वलक्षणशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति / नानुपलम्भशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति / नाभावशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति / न स्वभावशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति / नाभावस्वभावशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति / स एवं प्रज्ञापारमितायां चरन् न स्मृत्युपस्थानेषु युक्त इति वा अयुक्त इति वा समनुपश्यति / न सम्यक्प्रहाणेषु युक्त इति वा अयुक्त इति वा समनुपश्यति / न ऋद्धिपादेषु युक्त इति वा अयुक्त इति वा समनुपश्यति / नेन्द्रियेषु युक्त इति वा अयुक्त इति वा समनुपश्यति / न बलेषु युक्त इति वा अयुक्त इति वा समनुपश्यति / न बोध्यङ्गेषु युक्त इति वा अयुक्त इति वा समनुपश्यति / न मार्गेषु युक्त इति वा अयुक्त इति वा समनुपश्यति / नार्यसत्येषु युक्त इति वा अयुक्त इति वा समनुश्यति / न ध्यानेषु युक्त इति वा अयुक्त इति वा समनुपश्यति / नाप्रमाणेषु युक्त इति वा अयुक्त इति वा समनुपश्यति / नारूप्यसमापत्तिषु युक्त इति वा अयुक्त इति वा समनुपश्यति / नाष्टविमोक्षेषु युक्त इति वा अयुक्त इति वा समनुपश्यति / न नवानुपूर्वविहारेषु युक्त इति वा अयुक्त इति वा समनुपश्यति / न शून्यतायां समाधौ युक्त इति वा अयुक्त इति वा समनुपश्यति /
नानिमित्ते समाधौ युक्त इति वा अयुक्त इति वा समनुपश्यति / नाप्रणिहिते समाधौ युक्त इति वा अयुक्त इति वा समनुपश्यति / नाभिज्ञासु युक्त इति वा अयुक्त इति वा समनुपश्यति / न सर्वसमाधिषु युक्त इति वा अयुक्त इति वा समनुपश्यति / न सर्वधारणीमुखेषु युक्त इति वा अयुक्त इति वा समनुपश्यति / न दशसु तथागतबलेषु युक्त इति वा अयुक्त इति वा समनुपश्यति / न चतुर्षु वैशारद्येषु युक्त इति वा अयुक्त इति वा समनुपश्यति / न चतसृषु प्रतिसंवित्सु युक्त इति वा अयुक्त इति वा समनुपश्यति / न महामैत्र्यां युक्त इति वा अयुक्त इति वा समनुपश्यति / न महाकरुणायां युक्त इति वा अयुक्त इति वा समनुपश्यति / नाष्टादशावेणिकबुद्धधर्मेषु युक्त इति वा अयुक्त इति वा समनुपश्यति / न श्रोत-आपत्तिफले युक्त इति वा अयुक्त इति वा समनुपश्यति / न सकृदागामिफले युक्त इति वा अयुक्त इति वा समनुपश्यति / नानागामिफले युक्त इति वा अयुक्त इति वा समनुपश्यति / नार्हत्त्वे युक्त इति वा अयुक्त इति वा समनुपश्यति / न प्रत्येकबोधौ युक्त इति वा अयुक्त इति वा समनुपश्यति / न मार्गाकारज्ञतायां युक्त इति वा अयुक्त इति वा समनुपश्यति / न सर्वाकारज्ञतायां युक्त वा अयुक्त इति वा समनुपश्यति / अनेनापि शारीपुत्र पर्यायेण बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः / सर्वधर्मायोगावियोगताम् उपादाय / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न शून्यतां शून्यतया योजयति न वियोजयति / न शून्यतायोगं नानिमित्तेन योजयति न वियोजयति / नानिमित्तयोगं नाप्रणिहितेन योजयति न वियोजयति नाप्रणिहितयोगं /
तत् कस्य हेतोस् तथा हि शून्यतयां न योगो न वियोगः / आनिमित्तं न योगो न वियोगः अप्रणिहितं न योगो न वियोगः / एवं युज्यमानः शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् धर्माणां स्वलक्षणशून्यताम् अवतरन् रूपं न योजयति न वियोजयति न वेदनां योजयति न वियोजयति न संज्ञां योजयति न वियोजयति न संस्कारान् योजयति न वियोजयति / न विज्ञानं योजयति न वियोजयति / न रूपं पूर्वान्तेन योजयति न वियोजयति / तथा हि पूर्वान्तम् एव न समनुपश्यति / न रूपम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न रूपं प्रत्युत्पन्नेन योजयति न वियोजयति / तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न वेदनां पूर्वान्तेन योजयति न वियोजयति / तथा हि पूर्वान्तम् एव न समनुपश्यति / न वेदनाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न संज्ञां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न संज्ञाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न संज्ञां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न संस्कारान् पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न संस्कारान् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति /
न संस्कारान् प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न विज्ञानं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न विज्ञानम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न विज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न चक्षुः पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न चक्षुर् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न चक्षुः प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न श्रोत्रं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न श्रोत्रम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न श्रोत्रं प्रत्युत्पन्नेन योजयति न वियोजयति / तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न घ्राणं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न घ्राणम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न घ्राणं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न जिह्वां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न जिह्वाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न जिह्वां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति /
न कायं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न कायम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न कायं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनपश्यति / न मनः पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न मनो ऽपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न मनः प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न रूपं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न रूपम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न रूपं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न शब्दं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न शब्दम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न शब्दं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न गन्धं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न गन्धम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न गन्धं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न रसं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न रसम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनपश्यति /
न रसं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न स्पर्शं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनपश्यति / न स्पर्शम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न स्पर्शं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न धर्मं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न धर्मम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न धर्मं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न चक्षुर्विज्ञानं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न चक्षुर्विज्ञानम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न चक्षुर्विज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न श्रोत्रविज्ञानं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न श्रोत्रविज्ञानम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न श्रोत्रविज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न घ्राणविज्ञानं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न घ्राणविज्ञानम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति /
न घ्राणविज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न जिह्वाविज्ञानं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न जिह्वाविज्ञानम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न जिह्वाविज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न कायविज्ञानं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न कायविज्ञानम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न कायविज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न मनोविज्ञानं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न मनोविज्ञानम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न मनोविज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न चक्षुःसंस्पर्शं पूर्वान्तेन योजयति न विजोयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न चक्षुःसंस्पर्शम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न चक्षुःसंस्पर्शं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न श्रोत्रसंस्पर्शं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न श्रोत्रसंस्पर्शम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न श्रोत्रसंस्पर्शं प्रत्युत्पन्नेन योजयति न वियोजयति
तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न घ्राणसंस्पर्शं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न घ्राणसंस्पर्शम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न घ्राणसंस्पर्शं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न जिह्वासंस्पर्शं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न जिह्वासंस्पर्शम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न जिह्वासंस्पर्शं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न कायसंस्पर्शं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न कायसंस्पर्शम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न कायसंस्पर्शं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न मनःसंस्पर्शं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न मनःसंस्पर्शम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न मनःसंस्पर्शं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न चक्षुःसंस्पर्शजां वेदनां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न चक्षुःसंस्पर्शजां वेदनाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति /
न चक्षुःसंस्पर्शजां वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न श्रोत्रसंस्पर्शजां वेदनां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न श्रोत्रसंस्पर्शजां वेदनाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न श्रोत्रसंस्पर्शजां वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न घ्राणसंस्पर्शजां वेदनां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न घ्राणसंस्पर्शजां वेदनाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न घ्राणसंस्पर्शजां वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न जिह्वासंस्पर्शजां वेदनां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न जिह्वासंस्पर्शजां वेदनाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न जिह्वासंस्पर्शजां वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न कायसंस्पर्शजां वेदनां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न कायसंस्पर्शजां वेदनाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न कायसंस्पर्शजां वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति /
न मनःसंस्पर्शजां वेदनां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न मनःसंस्पर्शजां वेदनाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न मनःसंस्पर्शजां वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न पृथिवीधातुं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न पृथिवीधातुम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न पृथिवीधातुं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नाब्धातुं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नाब्धातुम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नाब्धातुं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न तेजोधातुं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न तेजोधातुम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न तेजोधातुं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न वायुधातुं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न वायुधातुम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न वायुधातुं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति /
नाकाशधातुं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नाकाशधातुम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नाकाशधातुं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पपन्नम् एव न समनुपश्यति / न विज्ञानधातुं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न विज्ञानधातुम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न विज्ञानधातुं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नाविद्यां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नाविद्याम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नाविद्यां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न संस्कारान् पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न संस्कारान् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न संस्कारान् प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न विज्ञानं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न विज्ञानम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न विज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न नामरूपं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति /
न नामरूपम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न नामरूपं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न षडायतनं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न षडायतनम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न षडायतनं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न स्पर्शं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न स्पर्शम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न स्पर्शं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न वेदनां पूर्वान्तेन योजयति न वियोजयति
तथा हि पूर्वान्तम् एव न समनुपश्यति / न वेदनाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न तृष्णां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न तृष्णाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न तृष्णां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नोपादानं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नोपादानम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नोपादानं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न भवं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न भवम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न भवं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न जातिं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न जातिम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न जातिं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न जरामरणं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न जरामरणम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति /
न जरामरणं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न दानपारमितां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न दानपारमिताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न दानपारमितां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न शीलपारमितां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न शीलपारमिताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न शीलपारमितां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न क्षान्तिपारमितां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न क्षान्तिपारमिताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न क्षान्तिपारमितां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न वीर्यपारमितां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न वीर्यपारमिताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न वीर्यपारमितां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न ध्यानपारमितां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न ध्यानपारमिताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति /
न ध्यानपारमितां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न प्रज्ञापारमितां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न प्रज्ञापारमिताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न प्रज्ञापारमितां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नाध्यात्मशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नाध्यात्मशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नाध्यात्मशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न बहिर्धाशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न बहिर्धाशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न बहिर्धाशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नाध्यात्मबहिर्धाशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नाध्यात्मबहिर्धाशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नाध्यात्मबहिर्धाशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न शून्यताशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न शून्यताशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति /
न शून्यताशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न महाशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न महाशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न महाशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न परमार्थशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न परमार्थशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न परमार्थशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न संस्कृतशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न संस्कृतशून्यताम् अपरान्तेन योजयति न वियोजयति तथा हि अपरान्तम् एव न समनुपश्यति / न संस्कृतशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न संस्कृतशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न संस्कृतशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न संस्कृतशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नात्यन्तशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नात्यन्तशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति /
नात्यन्तशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नानवराग्रशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नानवराग्रशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नानवराग्रशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नानवकारशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नानवकारशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नानवकारशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न प्रकृतिशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न प्रकृतिशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न प्रकृतिशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न सर्वधर्मशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न सर्वधर्मशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न सर्वधर्मशून्यतां प्रतुत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न स्वलक्षणशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न स्वलक्षणशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति /
न स्वलक्षणशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नानुपलम्भशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नानुपलम्भशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नानुपलम्भशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नाभावशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नाभावशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नाभावशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न स्वभावशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न स्वभावशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न स्वभावशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नाभावस्वभावशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नाभावस्वभावशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नाभावस्वभावशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न स्मृत्युपस्थानानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न स्मृत्युपस्थानान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति /
न स्मृत्युपस्थानानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न सम्यक्प्रहाणानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न सम्यक्प्रहाणान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न सम्यक्प्रहाणानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न ऋद्धिपादान् पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न ऋद्धिपादान् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न ऋद्धिपादान् प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नेन्द्रियाणि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नेन्द्रियाण्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नेन्द्रियाणि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि पत्यत्पन्नम् एव न समनुपश्यति / न बलानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न बलान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न बलानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न बोध्यङ्गानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न बोध्यङ्गान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न बोध्यङ्गानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति /
नार्याष्टाङ्गमार्गं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नार्याष्टाङ्गमार्गम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नार्याष्टाङ्गमार्गं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नार्यसत्यानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नार्यसत्यान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नार्यसत्यानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न ध्यानानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न ध्यानान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न ध्यानानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नाप्रमाणानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नाप्रमाणान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नाप्रमाणानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नारूप्यसमापत्तिं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नारूप्यसमापत्तिम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नारूप्यसमापत्तिं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नाष्टौ विमोक्षान् पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति /
नाष्टौ विमोक्षान् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नाष्टौ विमोक्षान् प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न नवानुपूर्वविहारसमापत्तीः पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न नवानुपूर्वविहारसमापत्तीर् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न नवानुपूर्वविहारसमापत्तीः प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नाभिज्ञाः पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नाभिज्ञा अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नाभिज्ञाः प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न समाधीन् पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न समाधीन् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न समाधीन् प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति /
न धारणीमुखानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न धारणीमुखान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न धारणीमुखानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न दश तथागतबलानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न दश तथागतबलान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न दश तथागतबलानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न चत्वारि वैशारद्यानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न चत्वारि वैशारद्यान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न चत्वारि वैशारद्यानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न चतस्रः प्रतिसंविदः पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न चतस्रः प्रतिसंविदो ऽपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न चतस्रः प्रतिसंविदः प्रत्युत्पन्नेन योजयति न वियोजयति / तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न महामैत्रीं पूर्वान्तेन वोजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न महामैत्रीम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति /
न महामैत्रीं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न महाकरुणां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न महाकरुणाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न महाकरुणां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नाष्टादशावेणिकान् बुद्धधर्मान् पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नाष्टादशावेणिकान् बुद्धधर्मान् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नाष्टादशावेणिकान् बुद्धधर्मान् प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न श्रोतआपत्तिफलं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न श्रोतआपत्तिफलम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न श्रोतआपत्तिफलं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न सकृदागामिफलं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न सकृदागामिफलम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न सकृदागामिफलं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नानागामिफलं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नानागामिफलम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति /
नानागामिफलं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / नार्हत्त्वं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / नार्हत्त्वम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / नार्हत्त्वं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न प्रत्येकबोधिं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव समनुपश्यति / न प्रत्येकबोधिम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न प्रत्येकबोधिं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न मार्गाकारज्ञतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न मार्गाकारज्ञताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न मार्गाकारज्ञतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / न सर्वाकारज्ञतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति / न सर्वाकारज्ञताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति / न सर्वाकारज्ञतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / एवं युज्यमानः शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न पूर्वान्तम् अपरान्तेन योजयति न वियोजयति /
नापरान्तं पूर्वान्तेन योजयति न वियोजयति / न पूर्वान्तम् अपरान्तं वा प्रत्युत्पन्नेन योजयति न वियोजयति अध्वसमानताम् उपादाय / एवं युक्तः शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताया चरन्न् एवं युज्यते यथा युज्यमानेन सर्वज्ञताम् अतीतेन योजयति न वियोजयति तथा ह्य् अतीतम् एव न समनुपश्यति / असमनुपश्यन् कथं सर्वज्ञताम् अतीतेन योजयिष्यति वियोजयिष्यति वा / न सर्वज्ञताम् अनागतेन योजयति न वियोजयति तथा ह्य् अनागतम् एव न समनुपश्यति असमनुपश्यन् कथं सर्वज्ञताम् अनागतेन योजयिष्यति वियोजयिष्यति वा / न सर्वज्ञतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति / असमनुपश्यन् कथं सर्वज्ञतां प्रत्युत्पन्नेन योजयिष्यति वियोजयिष्यति वा / एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वा वक्तव्यः / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं सर्वज्ञतया योजयति न वियोजयति तथा हि रूपम् एव न समनुपश्यति असमनुपश्यन् कथं रूपं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न वेदनां सर्वज्ञतया योजयति न वियोजयति तथा हि वेदनाम् एव न समनुपश्यति असमनुपश्यन् कथं वेदनां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न संज्ञां सर्वज्ञतया योजयति न वियोजयति तथा हि संज्ञाम् एव न समनुपश्यति / असमनुपश्यन् कथं संज्ञां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा /
न संस्कारान् सर्वज्ञतया योजयति न वियोजयति तथा हि संस्कारान् एव न समनुपश्यति / असमनुपश्यन् कथं संस्कारान् सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न विज्ञानं सर्वज्ञतया योजयति न वियोजयति तथा हि विज्ञानम् एव न समनुपश्यति / असमनुपश्यन् कथं विज्ञानं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा /
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न चक्षुः सर्वज्ञतया योजयति न वियोजयति / तथा हि चक्षुर् एव न समनुपश्यति / असमनुपश्यन् कथं चक्षुः सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न श्रोत्रं सर्वज्ञतया योजयति न वियोजयति तथा हि श्रोत्रम् एव न समनुपश्यति / असमनुपश्यन् कथं श्रोत्रं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न घ्राणं सर्वज्ञतया योजयति न वियोजयति तथा हि घ्राणम् एव न समनुपश्यति / असमनुपश्यन् कथं घ्राणं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न जिह्वां सर्वज्ञतया योजयति न वियोजयति तथा हि जिह्वाम् एव न समनुपश्यति / असमनुपश्यन् कथं जिह्वां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न कायं सर्वज्ञतया योजयति न वियोजयति तथा हि कायम् एव न समनुपश्यति / असमनुपश्यन् कथं कायं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न मनः सर्वज्ञतया योजयति न वियोजयति तथा हि मन एव न समनुपश्यति / असमनुपश्यन् कथं मनः सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा /
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं सर्वज्ञतया योजयति न वियोजयति तथा हि रूपम् एव न समनुपश्यति / असमनुपश्यन् कथं रूपं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न शब्दं सर्वज्ञतया योजयति न वियोजयति तथा हि शब्दम् एव न समनुपश्यति / असमनुपश्यन् कथं शब्दं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न गन्धं सर्वज्ञतया योजयति न वियोजयति तथा हि गन्धम् एव न समनुपश्यति / असमनुपश्यन् कथं गन्धं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न रसं सर्वज्ञतया योजयति न वियोजयति तथा हि रसम् एव न समनुपश्यति / असमनुपश्यन् कथं रसं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न स्पर्शं सर्वज्ञतया योजयति न वियोजयति तथा हि स्पर्शम् एव न समनुपश्यति / असमनुपश्यन् कथं स्पर्शं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न धर्मान् सर्वज्ञतया योजयति न वियोजयति तथा हि धर्मान् एव न समनुपश्यति / असमनुपश्यन् कथं धर्मान् सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा /
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न चक्षुर्धातुं सर्वज्ञतया योजयति न वियोजयति तथा हि चक्षुर्धातुम् एव न समनुपश्यति / असमनुपश्यन् कथं चक्षुर्धातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न रूपधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि रूपधातुम् एव न समनुपश्यति / असमनुपश्यन् कथं रूपधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा न चक्षुर्विज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि चक्षुर्विज्ञानधातुम् एव न समनुपश्यति / असमनुपश्यन् कथं चक्षुर्विज्ञानधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न श्रोत्रधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि श्रोत्रधातुम् एव न समनुपश्यति / असमनुपश्यन् कथं श्रोत्रधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न शब्दधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि शब्दधातुम् एव न समनुपश्यति / असमनुपश्यन् कथं शब्दधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न श्रोत्रविज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि श्रोत्रविज्ञानधातुम् एव न समनुपश्यति / असमनुपश्यन् कथं श्रोत्रविज्ञानधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न घ्राणधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि घ्राणधातुम् एव न समनुपश्यति / असमनुपश्यन् कथं घ्राणधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न गन्धधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि गन्धधातुम् एव न समनुपश्यति /
असमनुपश्यन् कथं गन्धधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न घ्राणविज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि घ्राणविज्ञानधातुम् एव न समनुपश्यति / असमनुपश्यन् कथं घ्राणविज्ञानधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न जिह्वाधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि जिह्वाधातुम् एव न समनुपश्यति / असमनुपश्यन् कथं जिह्वाधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न रसधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि रसधातुम् एव न समनुपश्यति / असमनुपश्यन् कथं रसधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न जिह्वाविज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि जिह्वाविज्ञानधातुम् एव न समनुपश्यति / असमनुपश्यन् कथं जिह्वाविज्ञानधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न कायधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि कायधातुम् एव न समनुपश्यति / असमनुपश्यन् कथं कायधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न स्प्रष्टव्यधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि स्प्रष्टव्यधातुम् एव न समनुपश्यति / असमनुपश्यन् कथं स्प्रष्टव्यधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न कायविज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि कायविज्ञानधातुम् एव न समनुपश्यति / असमनुपश्यन् कथं कायविज्ञानधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न मनोधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि मनोधातुम् एव न समनुपश्यति /
असमनुपश्यन् कथं मनोधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न धर्मधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि धर्मधातुम् एव न समनुपश्यति / असमनुपश्यन् कथं धर्मधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न मनोविज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि मनोविज्ञानधातुम् एव न समनुपश्यति / असमनुपश्यन् कथं मनोविज्ञानधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न पृथिवीधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि पृथिवीधातुम् एव न समनुपश्यति / असमनुपश्यन् कथं पृथिवीधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / नाब्धातुं सर्वज्ञतया योजयति न वियोजयति तथा ह्य् अब्धातुम् एव न समनुपश्यति / असमनुपश्यन् कथम् अब्धातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न तेजोधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि तेजोधातुम् एव न समनुपश्यति / असमनुपश्यन् कथं तेजोधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा न वायुधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि वायुधातुम् एव न समनुपश्यति / असमनुपश्यन् कथं वायुधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / नाकाशधातुं सर्वज्ञतया योजयति न वियोजयति तथा ह्य् आकाशधातुम् एव न समनुपश्यति / असमनुपश्यन् कथम् आकाशधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न विज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि विज्ञानधातुम् एव न समनुपश्यति / असमनुपश्यन् कथं विज्ञानधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा /
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नाविद्यां सर्वज्ञतया योजयति न वियोजयति तथा ह्य् अविद्याम् एव न समनुपश्यति / असमनुपश्यन् कथम् अविद्या सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न संस्कारान् सर्वज्ञतया योजयति न वियोजयति तथा हि संस्कारान् एव न समनुपश्यति असमनुपश्यन् कथं संस्कारान् सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न नामरूपं सर्वज्ञतया योजयति न वियोजयति तथा हि नामरूपम् एव न समनुपश्यति / असमनुपश्यन् कथं नामरूपं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न षडायतनं सर्वज्ञतया योजयति न वियोजयति तथा हि षडायतनम् एव न समनुपश्यति / असमनुपश्यन् कथं षडायतनं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न स्पर्शं सर्वज्ञतया योजयति न वियोजयति तथा हि स्पर्शम् एव न समनुपश्यति / असमनुपश्यन् कथं स्पर्शं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न वेदनां सर्वज्ञतया योजयति न वियोजयति तथा हि वेदनाम् एव न समनुपश्यति / असमनुपश्यन् कथं वेदनां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न तृष्णां सर्वज्ञतया योजयति न वियोजयति तथा हि तृष्णाम् एव न समनुपश्यति / असमनुपश्यन् कथं तृष्णां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / नोपादानं सर्वज्ञतया योजयति न वियोजयति तथा ह्य् उपादानम् एव न समनुपश्यति / असमनुपश्यन् कथम् उपादानं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न भवं सर्वज्ञतया योजयति न वियोजयति तथा हि भवम् एव न समनुपश्यति /
असमनुपश्यन् कथं भवं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न जातिं सर्वज्ञतया योजयति न वियोजयति तथा हि जातिम् एव न समनुपश्यति / असमनुपश्यन् कथं जातिं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न जरामरणं सर्वज्ञतया योजयति न वियोजयति / तथा हि जरामरणम् एव न समनुपश्यति / असमनुपश्यन् कथं जरामरणं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा /
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न दानपारमितां सर्वज्ञतया योजयति न वियोजयति तथा हि दानपारमिताम् एव न समनुपश्यति / असमनुपश्यन् कथं दानपारमितां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / शीलपारमितां सर्वज्ञतया योजयति न वियोजयति तथा हि शीलपारमिताम् एव न समनुपश्यति / असमनुपश्यन् कथं शीलपारमितां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न क्षान्तिपारमितां सर्वज्ञतया योजयति न वियोजयति तथा हि क्षान्तिपारमिताम् एव न समनुपश्यति / असमनुपश्यन् कथं क्षान्तिपारमितां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न वीर्यपारमितां सर्वज्ञतया योजयति न वियोजयति तथा हि वीर्यपारमिताम् एव न समनुपश्यति / असमनुपश्यन् कथं वीर्यपारमितां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न ध्यानपारमितां सर्वज्ञतया योजयति न वियोजयति तथा हि ध्यानपारमिताम् एव न समनुपश्यति / असमनुपश्यन् कथं ध्यानपारमितां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न प्रज्ञापारमितां सर्वज्ञतया योजयति न वियोजयति तथा हि प्रज्ञापारमिताम् एव न समनुपश्यति / असमनुपश्यन् कथं प्रज्ञापारमितां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / नाध्यात्मशून्यतां सर्वज्ञतया योजयति न वियोजयति तथा ह्य् अध्यात्मशून्यताम् एव न समनुपश्यति / असमनुपश्यन् कथम् अध्यात्मशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न बहिर्धाशून्यतां सर्वज्ञतया योजयति न वियोजयति तथा हि बहिर्धाशून्यताम् एव न समनुपश्यति /
असमनुपश्यन् कथं बहिर्धाशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / नाध्यात्मबहिर्धाशून्यतां सर्वज्ञतया योजयति न वियोजयति तथा ह्य् अध्यात्मबहिर्धाशून्यताम् एव न समनुपश्यति / असमनुपश्यन् कथम् अध्यात्मबहिर्धाशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न शून्यताशून्यतां सर्वज्ञतया योजयति न वियोजयति तथा हि शून्यताशून्यताम् एव न समनुपश्यति / असमनुपश्यन् कथं शून्यताशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न महाशून्यतां सर्वज्ञतया योजयति न वियोजयति तथा हि महाशून्यताम् एव न समनुपश्यति / असमनुपश्यन् कथं महाशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न परमार्थशून्यतां सर्वज्ञतया योजयति न वियोजयति तथा हि परमार्थशून्यताम् एव न समनुपश्यति / असमनुपश्यन् कथं परमार्थशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न संस्कृतशून्यतां सर्वज्ञतया योजयति न वियोजयति तथा हि संस्कृतशून्यताम् एव न समनुपश्यति / असमनुपश्यन् कथं संस्कृतशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / नासंस्कृतशून्यतां सर्वज्ञतया योजयति न वियोजयति तथा ह्य् असंस्कृतशून्यताम् एव न समनुपश्यति / असमनुपश्यन् कथम् असंस्कृतशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / नात्यन्तशून्यतां सर्वज्ञतया योजयति न वियोजयति तथा ह्य् अत्यन्तशून्यताम् एव न समनुपश्यति / असमनुपश्यन् कथम् अत्यन्तशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / नानवराग्रशून्यतां सर्वज्ञतया योजयति न वियोजयति /
तथा ह्य् अनवराग्राशून्यताम् एव न समनुपश्यति / असमनुपश्यन् कथम् अनवराग्रशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / नानवकारशून्यतां सर्वज्ञतया योजयति न वियोजयति / तथा ह्य् अनवकारशून्यताम् एव न समनुपश्यति / असमनुपश्यन् कथम् अनवकारशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न प्रकृतिशून्यतां सर्वज्ञतया योजयति न वियोजयति / तथा हि प्रकृतिशून्यताम् एव न समनुपश्यति / असमनुपश्यन् कथं प्रकृतिशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न सर्वधर्मशून्यतां सर्वज्ञतया योजयति न वियोजयति / तथा हि सर्वधर्मशून्यताम् एव न समनुपश्यति / असमनुपश्यन् कथं सर्वधर्मशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न स्वलक्षणशून्यतां सर्वज्ञतया योजद्यति न वियोजयति / तथा हि स्वलक्षणशून्यताम् एव न समनुपश्यति / असमनुपश्यन् कथं स्वलक्षणशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / नानुपलम्भशून्यतां सर्वज्ञतया योजयति न वियोजयति / तथा ह्य् अनुपलम्भशून्यताम् एव न समनुपश्यति / असमनुपश्यन् कथम् अनुपलम्भशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / नाभावशून्यतां सर्वज्ञतया योजयति न वियोजयति / तथा ह्य् अभावशून्यताम् एव न समनुपश्यति / असमनुपश्यन् कथम् अभावशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न स्वभावशून्यतां सर्वज्ञतया योजयति न वियोजयति / तथा हि स्वभावशून्यताम् एव न समनुपश्यति / असमनुपश्यन् कथं स्वभावशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा /
नाभावस्वभावशून्यतां सर्वज्ञतया योजयति न वियोजयति / तथा ह्य् अभावस्वभावशून्यताम् एव न समनुपश्यति / असमनुपश्यन् कथम् अभावस्वभावशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न स्मृत्युपस्थानानि सर्वज्ञतया योजयति न वियोजयति / तथा हि स्मृत्युपस्थानान्य् एव न समनुपश्यति / असमनुपश्यन् कथं स्मृत्युपस्थानानि सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न सम्यक्प्रहाणानि सर्वज्ञतया योजयति न वियोजयति / तथा हि सम्यक्प्रहाणान्य् एव न समनुपश्यति / असमनुपश्यन् कथं सम्यक्प्रहाणानि सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न ऋद्धिपादान् सर्वज्ञतया योजयति न वियोजयति / तथा ह्य् ऋद्धिपादान् एव न समनुपश्यति / असमनुपश्यन् कथम् ऋद्धिपादान् सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / नेन्द्रियाणि सर्वज्ञतया योजयति न वियोजयति / तथा हीन्द्रियाण्य् एव न समनुपश्यति / असमनुपश्यन् कथम् इन्द्रियाणि सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न बलानि सर्वज्ञतया योजयति न वियोजयति / तथा हि बलान्य् एव न समनुपश्यति / असमनुपश्यन् कथं बलानि सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न बोध्यङ्गानि सर्वज्ञतया योजयति
न वियोजयति / तथा हि बोध्यङ्गान्य् एव न समनुपश्यति / असमनुपश्यन् कथं बोध्यङ्गानि सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न मार्गं सर्वज्ञतया योजयति न वियोजयति / तथा हि मार्गम् एव न समनुपश्यति / असमनुपश्यन् कथं मार्गे सर्वज्ञतया योजयिष्यति वियोययिष्यति वा / नार्यसत्यानि सर्वज्ञतया योजयति न वियोजयति / तथा ह्य् आर्यसत्यान्य् एव न समनुपश्यति / असमनुपश्यन् कथम् आर्यसत्यानि सर्वज्ञतया योजयिश्यति वियोजयिष्यति वा / न ध्यानानि सर्वज्ञतया योजयति न वियोजयति / तथा हि ध्यानान्य् एव न समनुपश्यति / असमनुपश्यन् कथं ध्यानानि सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / नाप्रमाणानि सर्वज्ञतया योजयति न वियोजयति / तथा ह्य् अप्रमाणान्य् एव न समनुपश्यति / असमनुपश्यन् कथम् अप्रमाणानि सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / नारूप्यसमापत्तीः सर्वज्ञतया योजयति न वियोजयति / तथ ह्य् आरूप्यसमापत्तीर् एव न समनुपश्यति / असमनुपश्यन् कथम् आरूप्यसमापत्तीः सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न विमोक्षान् सर्वज्ञतया योजयति न वियोजयति / तथा हि विमोक्षान् एव न समनुपश्यति / समनुपश्यन् कथं विमोक्षान् सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / नवानुपूर्वाविहारसमापत्तीः सर्वज्ञतया योजयति न वियोजयति / तथा हि नवानुपूर्वविहारसमापत्तीर् एव न समनुपश्यति / असमनुपश्यन् कथं नवानुपूर्वविहारसमापत्तीः सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न शून्यतां सर्वज्ञतया योजयति न वियोजयति / तथा हि शून्यताम् एव न समनुपश्यति /
असमनुपश्यन् कथं शून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / नानिमित्तं सर्वज्ञतया योजयति न वियोजयति / तथा ह्य् आनिमित्तम् एव न समनुपश्यति / असमनुपश्यन् कथं आनिमित्तं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / नाप्रणिहितं सर्वज्ञतया योजयति न वियोजयति / तथा ह्य् अप्रणिहितम् एव न समनुपश्यति / असमनुपश्यन् कथम् अप्रणिहितं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / नाभिज्ञां सर्वज्ञतया योजयति न वियोजयति / तथा ह्य् अभिज्ञाम् एव न समनुपश्यति / असमनुपश्यन् कथम् अभिज्ञां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न समाधिं सर्वज्ञतया योजयति न वियोजयति / तथा हि समाधिम् एव न समनुपश्यति / असमनुपश्यन् कथं समाधिं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न धारणीमुखानि सर्वज्ञतया योजयति न वियोजयति / तथा हि धारणीमुखान्य् एव न समनुपश्यति / असमनुपश्यन् कथं धारणीमुखानि सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न दश तथागतबलानि सर्वज्ञतया योजयति न वियोजयति / तथा हि दश तथागतबलान्य् एव न समनुपश्यति / असमनुपश्यन् कथं दश तथागतबलानि सर्वज्ञतया योजयिस्यति वियोजयिष्यति वा / न वैशारद्यानि सर्वज्ञतया योजयति न वियोजयति / तथा हि वैशारद्यान्य् एव न समनुपश्यति / असमनुपश्यन् कथं वैशारद्यानि सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न प्रतिसंविदः सर्वज्ञतया योजयति न वियोजयति / तथा हि प्रतिसंविद एव न समनुपश्यति / असमनुपश्यन् कथं प्रतिसंविदः सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा /
न महामैत्रीं सर्वज्ञतया योजयति न वियोजयति / तथा हि महामैत्रीम् एव न समनुपश्यति / असमनुपश्यन् कथं महामैत्रीं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / न महाकरुणां सर्वज्ञतया योजयति न वियोजयति / तथा हि महाकरुणाम् एव न समनुपश्यति / असमनुपश्यन् कथं महाकरुणां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / नाष्टादशावेणिकान् बुद्धधर्मान् सर्वज्ञतया योजयति न वियोजयति / तथा ह्य् अष्टादशावेणिकान् बुद्धधर्मान् एव न समनुपश्यति / असमनुपश्यन् कथम् अष्टादशावेणिकान् बुद्धधर्मान् सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा / एवं युज्यमानः शारद्वतीपुत्र, बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः /
पुनर् अपरं शारद्वतीपुत्र, बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न बुद्धं सर्वज्ञतया योजयति न वियोजयति, न सर्वज्ञतां बुद्धेन योजयति न वियोजयति / तथा हि बुद्धम् एव न समनुपश्यति, सर्वज्ञताम् एव न समनुपश्यति / असमनुपश्यन् कथं बुद्धं सर्वज्ञतया सर्वज्ञतां वा बुद्धेन योजयिष्यति वियोजयिष्यति वा / न बोधिं सर्वज्ञतया योजयति न वियोजयति, न बोध्या सर्वज्ञतां योजयति न वियोजयति / तथा हि बोधिम् एव न समनुपश्यति सर्वज्ञताम् एव न समनुपश्यति / असमनुपश्यन् कथं बोधिं सर्वज्ञतया सर्वज्ञतां वा बोध्या योजयिष्यति वियोजयिष्यति वा / एवं हि शारद्वतीपुत्र, बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः /
पुनर् अपरं शारद्वतीपुत्र, बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं भाव इति योजयति न रूपम् अभाव इति योजयाति / न वेदनां भाव इति योजयति न वेदनाम् अभाव इति योजयति / न संज्ञां भाव इति योजयति न संज्ञाम् अभाव इति योजयति / न संस्कारान् भाव इति योजयति न संस्कारान् अभाव इति योजयति / न विज्ञानं भाव इति योजयति न विज्ञानम् अभाव इति योजयति / न चक्षुर् भाव इति योजयति न चक्षुर् अभाव इति योजयति / न श्रोत्रं भाव इति योजयति न श्रोत्रम् अभाव इति योजयति / न घ्राणं भाव इति योजयति न घ्राणम् अभाव इति योजयति / न जिह्वां भाव इति योजयति न जिह्वाम् अभाव इति योजयति / न कायं भाव इति योजयति न कायम् अभाव इति योजयति / न मनो भाव इति योजयति न मनो ऽभाव इति योजयति / न रूपं भाव इति योजयति न रूपम् अभाव इति योजयति / न शब्दं भाव इति योजयति न शब्दम् अभाव इति योजयति / न गन्धं भाव इति योजयति न गन्धम् अभाव इति योजयति / न रसं भाव इति योजयति न रसम् अभाव इति योजयति / न स्पर्शं भाव इति योजयति न स्पर्शम् अभाव इति योजयति / न धर्मान् भाव इति योजयति न धर्मान् अभाव इति योजयति / न चक्षुर्विज्ञानं भाव इति योजयति न चक्षुर्विज्ञानम् अभावजति योजयति / न श्रोत्रविज्ञानं भाव इति योजयति न श्रोत्रविज्ञानम् अभाव इति योजयति / न घ्राणविज्ञानं भाव इति योजयति न घ्राणविज्ञानम् अभाव इति योजयति / न जिह्वाविज्ञानं भाव इति योजयति न जिह्वाविज्ञानम् अभाव इति योजयति /
न कायविज्ञानं भाव इति योजयति न कायविज्ञानम् अभाव इति योजयति / न मनोविज्ञानं भाव इति योजयति न मनोविज्ञानम् अभाव इति योजयति / न चक्षुःसंस्पर्शं भाव इति योजयति न चक्षुःसंस्पर्शम् अभाव इति योजयति / न श्रोत्रसंस्पर्शं भाव इति योजयति न श्रोत्रसंस्पर्शम् अभाव इति योजयति / न घ्राणसंस्पर्शं भाव इति योजयति न घ्राणसंस्पर्शम् अभाव इति योजयति / न जिह्वासंस्पर्शं भाव इति योजयति न जिह्वासंस्पर्शम् अभाव इति योजयति / न कायसंस्पर्शं भाव इति योजयति न कायसंस्पर्शम् अभाव इति योजयति / न मनःसंस्पर्शं भाव इति योजयति न मनःसंस्पर्शम् अभाव इति योजयति / न चक्षुःसंस्पर्शप्रत्ययां वेदनां भाव इति योजयति न चक्षुःसंस्पर्शप्रत्ययां वेदनाम् अभाव इति योजयति / न श्रोत्रसंस्पर्शप्रत्ययां वेदनां भाव इति योजयति न श्रोत्रसंस्पर्शप्रत्ययां वेदनाम् अभाव इति योजयति / न घ्राणसंस्पर्शप्रत्ययां वेदनां भाव इति योजयति न घ्राणसंस्पर्शप्रत्ययां वेदनाम् अभाव इति योजयति / न जिह्वासंस्पर्शप्रत्यया वेदनां भाव इति योजयति न जिह्वासंस्पर्शप्रत्ययां वेदनाम् अभाव इति योजयति / न कायसंस्पर्शप्रत्ययां वेदनां भाव इति योजयति न कायसंस्पर्शप्रत्ययां वेदनाम् अभाव इति योजयति / न मनःसंस्पर्शप्रत्ययां वेदनां भाव इति योजयति न मनःसंस्पर्शप्रत्ययां वेदनाम् अभाव इति योजयति / न पृथिवीधातुं भाव इति योजयति न पृथिवीधातुम् अभाव इति योजयति / नाब्धातुं भाव इति योजयति नाब्धातुम् अभाव इति योजयति / न तेजोधातुं भाव इति योजयति न तेजोधातुम् अभाव इति योजयति /
न वायुधातुं भाव इति योजयति न वायुधातुम् अभाव इति योजयति / नाकाशधातुं भाव इति योजयति नाकाशधातुम् अभाव इति योजयति / न विज्ञानधातुं भाव इति योजयति न विज्ञानधातुम् अभाव इति योजयति / नाविद्यां भाव इति योजयति नाविद्याम् अभाव इति योजयति / न संस्कारान् भाव इति योजयति न संस्कारान् अभाव इति योजयति / न विज्ञानं भाव इति योजयति न विज्ञानम् अभाव इति योजयति / न नामरूपं भाव इति योजयति न नामरूपम् अभाव इति योजयति / न षडायतनं भाव इति योजयति न षडायतनम् अभाव इति योजयति / न स्पर्शं भाव इति योजयति न स्पर्शम् अभाव इति योजयति / न वेदनां भाव इति योजयति न वेदनाम् अभाव इति योजयति / न तृष्णां भाव इति योजयति न तृष्णाम् अभाव इति योजयति / नोपादानं भाव इति योजयति नोपादानम् अभाव इति योजयति / न भवं भाव इति योजयति न भवम् अभाव इति योजयति / न जातिं भाव इति योजयति न जातिम् अभाव इति योजयति / न जरामरणं भाव इति योजयति न जरामरणम् अभाव इति योजयति / न दानपारमितां भाव इति योजयति न दानपारमिताम् अभाव इति योजयति / न शीलपारमितां भाव इति योजयति न शीलपारमिताम् अभाव इति योजयति / न क्षान्तिपारमितां भाव इति योजयति न क्षान्तिपारमिताम् अभाव इति योजयति / न वीर्यपारमितां भाव इति योजयति न वीर्यपारमिताम् अभाव इति योजयति / न ध्यानपारमितां भाव इति योजयति न ध्यानपारमिताम् अभाव इति योजयति / न प्रज्ञापारमितां भाव इति योजयति न प्रज्ञापारमिताम् अभाव इति योजयति /
नाध्यात्मशून्यतां भाव इति योजयति नाध्यात्मशून्यताम् अभाव इति योजयति / न बहिर्धाशून्यतां भाव इति योजयति न बहिर्धाशून्यताम् अभाव इति योजयति / नाध्यात्मबहिर्धाशून्यतां भाव योजयति नाध्यात्मबहिर्धाशून्यताम् अभाव इति योजयति / न शून्यताशून्यातां भाव इति योजयति न शून्यताशून्यतां भाव इति योजयति / न महाशून्यतां भाव इति योजयति न महाशून्यताम् अभाव इति योजयति / न परमार्थशून्यतां भाव इति योजयति न परमार्थशून्यताम् अभाव इति योजयति / न संस्कृतशून्यतां भाव इति योजयति न संस्कृतशून्यताम् अभाव इति योजयति / नासंस्कृतशून्यतां भाव इति योजयति नासंस्कृतशून्यताम् अभाव इति योजयति / नात्यन्तशून्यतां योजयति इति योजयति नात्यन्तशून्यताम् अभाव इति योजयति / नानवराग्रशून्यतां भाव इति योजयति नानवराग्रशून्यताम् अभाव इति योजयति / नानवकारशून्यतां भाव इति योजयति नानवकारशून्यताम् अभाव इति योजयति / न प्रकृतिशून्यतां भाव इति योजयति न प्रकृतिशून्यताम् अभाव इति योजयति / न सर्वधर्मशून्यतां भाव इति योजयति न सर्वधर्मशून्यताम् अभाव इति योजयति / न स्वलक्षणशून्यतां भाव इति योजयति न स्वलक्षणशून्यताम् अभाव इति योजयति / नानुपलम्भशून्यातां भाव इति योजयति नानुपलम्भशून्यताम् अभाव इति योजयति / नाभावशून्यतां भाव इति योजयति नाभावशून्यताम् अभाव इति योजयति / न स्वभावशून्यतां भाव इति योजयति न स्वभावशून्यताम् अभाव इति योजयति / नाभावस्वभावशून्यतां भाव इति योजयति नाभावस्वभावशून्यताम् अभाव इति योजयति /
न स्मृत्युपस्थानानि भाव इति योजयति न स्मृत्युपस्थानान्य् अभाव इति योजयति / न सम्यक्प्रहाणानि भाव इति योजयति / न सम्यक्प्रहाणान्य् अभाव इति योजयति / न ऋद्धिपादान् भाव इति योजयति / न ऋद्धिपादान् अभाव इति योजयति / नेन्द्रियाणि भाव इति योजयति नेन्द्रियाण्य् अभाव इति योजयति / न बलानि भाव इति योजयति न बलान्य् अभाव इति योजयति / न बोध्यङ्गानि भाव इति योजयति न बोध्यङ्गान्य् अभाव इति योजयति / नाप्रमाणानि भाव इति योजयति नाप्रमाणान्य् अभाव इति योजयति / नार्यसत्यानि भाव इति योजयति नार्यसत्यान्य् अभाव इति योजयति / न ध्यानानि भाव इति योजयति न ध्यानान्य् अभाव इति योजयति / न मार्गं भाव इति योजयति न मार्गम् अभाव इति योजयति / नारूप्यसमापत्तीर् भाव इति योजयति नारूप्यसमापत्तीर् अभाव इति योजयति / नाष्टौ विमोक्षान् भाव इति योजयति नाष्टौ विमोक्षान् अभाव इति योजयति / न नवानुपूर्वविहारसमापत्तीर् भाव इति योजयति न नवानुपूर्वविहारसमापत्तीर् अभाव इति योजयति / न शून्यतां भाव इति योजयति न शून्यताम् अभाव इति योजयति / नानिमित्तं भाव इति योजयति नानिमित्तम् अभाव इति योजयति / नाप्रणिहितं भाव इति योजयति नाप्रणिहितम् अभाव इति योजयति / नाभिज्ञां भाव इति योजयति नाभिज्ञाम् अभाव इति योजयति / न समाधीन् भाव इति योजयति न समाधीन् अभाव इति योजयति / न धारणीमुखानि भाव इति योजयति न धारणीमुखान्य् अभाव इति योजयति / न दश तथागतबलानि भाव इति योजयति न दश तथागतबलान्य् अभाव इति योजयति /
न चत्वारि वैशारद्यानि भाव इति योजयति न चत्वारि वैशारद्यान्य् अभाव इति योजयति / न चतस्रः प्रतिसंविदो भाव इति योजयति न चतस्रः प्रतिसंविदो ऽभाव इति योजयति / न महामैत्रीं भाव इति योजयति न महामैत्रीम् अभाव इति योजयति / न महाकरुणां भाव इति योजयति न महाकरुणाम् अभाव इति योजयति / नाष्टादशावेणिकान् बुद्धधर्मान् भाव इति योजयति नाष्टादशावेणिकान् बुद्धधर्मान् अभाव इति योजयति / न श्रोत-आपत्तिफलं भाव इति योजयति न श्रोत-आपत्तिफलम् अभाव इति योजयति / न सकृदागामिफलं भाव योजयति न सकृदागामिफलम् अभाव इति योजयति / नानागामिफलं भाव इति योजयति नानागामिफलम् अभाव इति योजयति / नार्हत्त्वं भाव इति योजयति नार्हत्त्वम् अभाव इति योजयति / न प्रत्येकबोधिं भाव इति योजयति न प्रत्येकबोधिम् अभाव योजयति / न मार्गाकारज्ञतां भाव इति योजयति न मार्गाकारज्ञताम् अभाव इति योजयति / न सर्वाकारज्ञतां भाव इति योजयति न सर्वाकारज्ञताम् अभाव इति योजयति /
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं नित्यम् इति योजयति न रूपम् अनित्यम् इति योजयति / न वेदनां नित्यम् इति योजयति न वेदनाम् अनित्यम् इति योजयति / न संज्ञां नित्यम् इति योजयति न संज्ञाम् अनित्यम् इति योजयति / न संस्कारान् नित्यान् इति योजयति न संस्कारान् अनित्यान् इति योजयति / न विज्ञानं नित्यम् इति योजयति न विज्ञानम् अनित्यम् इति योजयति / न चक्षुर् नित्यम् इति योजयति न चक्षुर् अनित्यम् इति योजयति / न श्रोत्रं नित्यम् इति योजयति न श्रोत्रम् अनित्यम् इति योजयति / न घ्राणं नित्यम् इति योजयति न घ्राणम् अनित्यम् इति योजयति / न जिह्वां नित्यम् इति योजयति न जिह्वाम् अनित्यम् इति योजयति / न कायं नित्यम् इति योजयति न कायम् अनित्यम् इति योजयति / न मनो नित्यम् इति योजयति न मनो ऽनित्यम् इति योजयति / न रूपं नित्यम् इति योजयति न रूपम् अनित्यम् इति योजयति / न शब्दं नित्यम् इति योजयति न शब्दम् अनित्यम् इति योजयति / न गन्धं नित्यम् इति योजयति न गन्धम् अनित्यम् इति योजयति / न रसं नित्यम् इति योजयति न रसम् अनित्यम् इति योजयति / न स्पर्शं नित्यम् इति योजयति न स्पर्शम् अनित्यम् इति योजयति / न धर्मान् नित्यान् इति योजयति न धर्मान् अनित्यान् इति योजयति / न चक्षुर्विज्ञानं नित्यम् इति योजयति न चक्षुर्विज्ञानम् अनित्यम् इति योजयति / न श्रोत्रविज्ञानं नित्यम् इति योजयति न श्रोत्रविज्ञानम् अनित्यम् इति योजयति / न घ्राणविज्ञानं नित्यम् इति योजयति न घ्राणविज्ञानम् अनित्यम् इति योजयति / न जिह्वाविज्ञानं नित्यम् इति योजयति न जिह्वाविज्ञानम् अनित्यम् इति योजयति /
न कायविज्ञानं नित्यम् इति योजयति न कायविज्ञानम् अनित्यम् इति योजयति / न मनोविज्ञानं नित्यम् इति योजयति न मनोविज्ञानम् अनित्यम् इति योजयति / न चक्षुःसंस्पर्शं नित्यम् इति योजयति न चक्षुःसंस्पर्शम् अनित्यम् इति योजयति / न श्रोत्रसंस्पर्शं नित्यम् इति योजयति न श्रोत्रसंस्पर्शम् अनित्यम् इति योजयति / न घ्राणसंस्पर्शं नित्यम् इति योजयति न घ्राणसंस्पर्शम् अनित्यम् इति योजयति / न जिह्वासंस्पर्शं नित्यम् इति योजयति न जिह्वासंस्पर्शम् अनित्यम् इति योजयति / न कायसंस्पर्शं नित्यम् इति योजयति न कायसंस्पर्शम् अनित्यम् इति योजयति / न मनःसंस्पर्शं नित्यम् इति योजयति न मनःसंस्पर्शम् अनित्यम् इति योजयति / न चक्षुःसंस्पर्शप्रत्ययां वेदनां नित्यम् इति योजयति न चक्षुःसंस्पर्शप्रत्ययां वेदनाम् अनित्यम् इति योजयति / न श्रोत्रसंस्पर्शप्रत्ययां वेदनां नित्यम् इति योजयति न श्रोत्रसंस्पर्शप्रत्ययां वेदनाम् अनित्यम् इति योजयति / न घ्राणसंस्पर्शप्रत्ययां वेदनां नित्यम् इति योजयति न घ्राणसंस्पर्शप्रत्ययां वेदनाम् अनित्यम् इति योजयति / न जिह्वासंस्पर्शप्रत्ययां वेदनां नित्यम् इति योजयति न जिह्वासंस्पर्शप्रत्ययां वेदनाम् अनित्यम् इति योजयति / न कायसंस्पर्शप्रत्ययां वेदनां नित्यम् इति योजयति न कायसंस्पर्शप्रत्ययां वेदनाम् अनित्यम् इति योजयति / न मनःसंस्पर्शप्रत्ययां वेदनां नित्यम् इति योजयति न मनःसंस्पर्शप्रत्ययां वेदनाम् अनित्यम् इति योजयति / न पृथिवीधातुं नित्य इति योजयति न पृथिवीधातुम् अनित्य इति योजयति / नाब्धातुं नित्य इति योजयति नाब्धातुम् अनित्य इति योजयति /
न तेजोधातुं नित्य इति योजयति न तेजोधातुम् अनित्य इति योजयति / न वायुधातुं नित्य इति योजयति न वायुधातुम् अनित्य इति योजयति / नाकाशधातुं नित्य इति योजयति नाकाशधातुम् अनित्य इति योजयति / न विज्ञानधातुं नित्य इति योजयति न विज्ञानधातुम् अनित्य इति योजयति / नाविद्यां नित्याम् इति
योजयति नाविद्याम् अनित्याम् इति योजयति / न संस्कारान् नित्यान् इति योजयति न संस्कारान् अनित्यान् इति योजयति / न विज्ञानं नित्यम् इति योजयति न विज्ञानम् अनित्यम् इति योजयति / न नामरूपं नित्यम् इति योजयति न नामरूपम् अनित्यम् इति योजयति / न षडायतनं नित्यम् इति योजयति न षडायतनम् अनित्यम् इति योजयति / न स्पर्शं नित्यम् इति योजयति न स्पर्शम् अनित्यम् इति योजयति / न वेदनां नित्याम् इति योजयति न वेदनाम् अनित्याम् इति योजयति / न तृष्णां नित्याम् इति योजयति न तृष्णाम् अनित्याम् इति योजयति / नोपादानं नित्यम् इति योजयति नोपादानम् अनित्यम् इति योजयति / न भवं नित्यम् इति योजयति न भवम् अनित्यम् इति योजयति / न जातिं नित्याम् इति योजयति न जातिम् अनित्याम् इति योजयति / न जरामरणं नित्यम् इति योजयति न जरामरणम् अनित्यम् इति योजयति / न दानपारमितां नित्येति योजयति न दानपारमिताम् अनित्येति योजयति / न शीलपारमितां नित्येति योजयति न शीलपारमिताम् अनित्येति योजयति / न क्षान्तिपारमितां नित्येति योजयति न क्षान्तिपारमिताम् अनित्येति योजयति / न वीर्यपारमितां नित्येति योजयति न वीर्यपारमिताम् अनित्येति योजयति / न ध्यानपारमितां नित्येति योजयति न ध्यानपारमिताम् अनित्येति योजयति / न प्रज्ञापारमितां नित्येति योजयति न प्रज्ञापारमिताम् अनित्येति योजयति / नाध्यात्मशून्यतां नित्येति योजयति नाध्यात्मशून्यताम् अनित्येति योजयति / न बहिर्धाशून्यतां नित्येति योजयति न बहिर्धाशून्यताम् अनित्येति योजयति / नाध्यात्मबहिर्धाशून्यतां नित्येति योजयति नाध्यात्मबहिर्धाशून्यताम् अनित्येति योजयति /
न शून्यताशून्यतां नित्येति योजयति न शून्यताशून्यताम् अनित्येति योजयति / न महाशून्यतां नित्येति योजयति न महाशून्यताम् अनित्येति योजयति / न परमार्थशून्यतां नित्येति योजयति न परमार्थशून्यताम् अनित्येति योजयति / न संस्कृतशून्यतां नित्येति योजयति न संस्कृतशून्यताम् अनित्येति योजयति / नासंस्कृतशून्यतां नित्येति योजयति नासंस्कृतशून्यताम् अनित्येति योजयति / नात्यन्तशून्यतां नित्येति योजयति नात्यन्तशून्यताम् अनित्येति योजयति / नानवराग्रशून्यतां नित्येति योजयति नानवराग्रशून्यताम् अनित्येति योजयति / नानवकारशून्यतां नित्येति योजयति नानवकारशून्यताम् अनित्येति योजयति / न प्रकृतिशून्यतां नित्येति योजयति न प्रकृतिशून्यताम् अनित्येति योजयति / न सर्वधर्मशून्यतां नित्येति योजयति न सर्वधर्मशून्यताम् अनित्येति योजयति / न स्वलक्षणशून्यातां नित्येति योजयति न स्वलक्षणशून्यताम् अनित्येति योजयति / नानुपलम्भशून्यतां नित्येति योजयति नानुपलम्भशून्यताम् अनित्येति योजयति / नाभावशून्यतां नित्येति योजयति नाभावशून्यताम् अनित्येति योजयति / न स्वभावशून्यतां नित्येति योजयति न स्वभावशून्यताम् अनित्येति योजयति / नाभावस्वभावशून्यतां नित्येति योजयति नाभावस्वभावशून्यताम् अनित्येति योजयति / न स्मृत्युपस्थानानि नित्यानीति योजयति न स्मृत्युपस्थानान्य् अनित्यानीति योजयति / न सम्यक्प्रहाणानि नित्यानीति योजयति न सम्यक्प्रहाणान्य् अनित्यानीति योजयति / न ऋद्धिपादान् नित्यान् इति योजयति न ऋद्धिपादान् अनित्यान् इति योजयति / नेन्द्रियाणि नित्यानीति योजयति नेन्द्रियाण्य् अनित्यानीति योजयति /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
