Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता, Part इ
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या / सत्त्वासत्तया जीवासत्ता वेदितव्या / जीवासत्तया जन्त्वसत्ता वेदितव्या / जन्त्वसत्तया पोषासत्ता वेदितव्या / पोषासत्तया पुरुषासत्ता वेदितव्या / पुरुषासत्तया पुद्गलासत्ता वेदितव्या / पुद्गलासत्तया मनुजासत्ता वेदितव्या / मनुजासत्तया मानवासत्ता वेदितव्या / मानवासत्तया कारकासत्ता वेदितव्या / कारकासत्तया वेदकासत्ता वेदितव्या / वेदकासत्तया जानकासत्ता वेदितव्या / जानकामत्तया पश्यकासत्ता वेदितव्या / पश्यकासत्तया दानपारमितासत्ता वेदितव्या / दानपारमितासत्तया शीलपारमितासत्ता वेदितव्या / शीलपारमितासत्तया क्षान्तिपारमितासत्ता वेदितव्या / क्षान्तिपारमितासत्तया वीर्यपारमितासत्ता वेदितव्या / वीर्यपारमितासत्तया ध्यानपारमितासत्ता वेदितव्या / ध्यानपारमितासत्तया प्रज्ञापारमितासत्ता वेदितव्या / प्रज्ञापारमितासत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तयाप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या / असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या / अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि / यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यच् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको या च दानपारमिता या च शीलपारमिता या च क्षान्तिपारमिता या च वीर्यपारमिता या च ध्यानपारमिता या च प्रज्ञापारमिता यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः सर्वम् एतन् नोपलभ्यते /
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या / सत्त्वासत्तया जीवासत्ता वेदितव्या / जीवासत्तया जन्त्वसत्ता वेदितव्या / जन्त्वसत्तया पोषासत्ता वेदितव्या / पोषासत्तया पुरुषासत्ता वेदितव्या / पुरुषासत्तया पुद्गलसत्ता वेदितव्या / पुद्गलासत्तया मनुजासत्ता वेदितव्या / मनुजासत्तया मानवासत्ता वेदितव्या / मानवासत्तया कारकासत्ता वेदितव्या / कारकासत्तया वेदकासत्ता वेदितव्या / वेदकासत्तया जानकासत्ता वेदितव्या जानकासत्तया पश्यकासत्ता वेदितव्या / पश्यकासत्तया अध्यात्मशून्यतासत्ता वेदितव्या / अध्यात्मशून्यतासत्तया बहिर्धाशून्यतासत्ता वेदितव्या / बहिर्धाशून्यतासत्तया अध्यात्मबहिर्धाशून्यतासत्ता वेदितव्या / अध्यात्मबहिर्धाशून्यतासत्तया शून्यताशून्यतासत्ता वेदितव्या / शून्यताशून्यतासत्तया महाशून्यतासत्ता वेदितव्या / महाशून्यतासत्तया परमार्थशून्यतासत्ता वेदितव्या / परमार्थशून्यतासत्तया संस्कृतरशून्यतासत्ता वेदितव्या / संस्कृतशून्यतासत्तयासंस्कृतशून्यतासत्ता वेदितव्या / असंस्कृतशून्यतासत्तया अत्यन्तशून्यतासत्ता वेदितव्या / अत्यन्तशून्यतासत्तया अनवराग्रशून्यतासत्ता वेदितव्या / अनवराग्रशून्यतासत्तया अनवकारशून्यतासत्ता वेदितव्या / अनवकारशून्यतासत्तया प्रकृतिशून्यतासत्ता वेदितव्या / प्रकृतिशून्यतासत्तया सर्वधर्मशून्यतासत्ता वेदितव्या / सर्वधर्मशून्यतासत्तया स्वलक्षणशून्यता वेदितव्या / स्वलक्षणशून्यतासत्तया अनुपलम्भशून्यतासत्ता वेदितव्या / अनुपलम्भशून्यतासत्तया अभावशून्यतासत्ता वेदितव्या / अभावशून्यतासत्तया स्वभावशून्यतासत्ता वेदितव्या / स्वभावशून्यतासत्तया अभावस्वभावशून्यतासत्ता वेदितव्या /
अभावस्वभावशून्यतासत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तया अप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तया अपरिमाणासत्ता वेदितव्या / अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजा यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको या चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च शून्यताशून्यता या च महाशून्यता या च परमाथशून्यता या च संस्कृतशून्यता या चासंस्कृतशून्यता या चात्यन्तशून्यता या चानवराग्रशून्यता या चानवकारशून्यता या च प्रकृतिशून्यता या च सर्वधर्मशून्यता या च स्वलक्षणशून्यता या चानुपलम्भशून्यता या चाभावशून्यता या च स्वभावशून्यता या चाभावस्वभावशून्यता यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंक्येयं यच् चापरिमाणं ये च सर्वधर्माः / सर्वम् एतन् नोपलभ्यते /
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या / सत्त्वासत्तया जीवसत्ता वेदितव्या / जीवसत्तया जन्त्वसत्ता वेदितव्या / जन्त्वसत्तया पोषासत्ता वेदितव्या / पोषासत्तया पुरुषासत्ता वेदितव्या / पुरुषासत्तया पुद्गलासत्ता वेदितव्या / पुद्गलासत्तया मनुजासत्ता वेदितव्या / मनुजासत्तया मानवासत्ता वेदितव्या / मानवासत्तया कारकासत्ता वेदितव्या / कारकासत्तया वेदकासत्ता वेदितव्या / वेदकासत्तया जानकासत्ता वेदितव्या / जानकासत्तया पश्यकासत्ता वेदितव्या / पश्यकासत्तया स्मृत्युपस्थानासत्ता वेदितव्या / स्मृत्युपस्थानासत्तया सम्यक्प्रहाणासत्ता वेदितव्या / सम्यक्प्रहाणासत्तया ऋद्धिपादासत्ता वेदितव्या / ऋद्धिपादासत्तया इन्द्रियासत्ता वेदितव्या / इन्द्रियासत्तया बलासत्ता वेदितव्या / बलासत्तया बोध्यङ्गासत्ता वेदितव्या / बोध्यङ्गासत्तया आर्याष्टाङ्गमार्गासत्ता वेदितव्या / आर्याष्टाङ्गमार्गासत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तयाप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या / असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या / अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यानि स्मृत्युपस्थानानि यानि सम्यक्प्रहाणानि ये चर्धिपादाः यानीन्द्रियाणि यानि बलानि यानि बोध्यङ्गानि यश् चार्याष्टामार्गो यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः / सर्वम् एतन् नोपलभ्यते /
पुनर् अपरं सुभूते आत्मसत्तया सत्त्वासत्ता वेदितव्या / सत्त्वासत्तया जीवासत्ता वेदितव्या / जीवासत्तया जन्त्वसत्ता वेदितव्या / जन्त्वसत्तया पोषासत्ता वेदितव्या / पोषासत्तया पुरुषासत्ता वेदितव्या / पुरुषासत्तया पुद्गलासत्ता वेदितव्या / पुद्गलासत्तया मनुजासत्ता वेदितव्या / मनुजासत्तया मानवासत्ता वेदितव्या / मानवासत्तया कारकासत्ता वेदितव्या / कारकासत्तया वेदकासत्ता वेदितव्या / वेदकासत्तया जानकासत्ता वेदितव्या / जानकासत्तया पश्यकासत्ता वेदितव्या / पश्यकासत्तया आर्यसत्यासत्ता वेदितव्या आर्यसत्यासत्तया ध्यानासत्ता वेदितव्या / ध्यानासत्तया अप्रमाणासत्ता वेदितव्या / अप्रमाणासत्तया आरूप्यसमापत्त्यसत्ता वेदितव्या / आरूप्यसमापत्त्यसत्तया विमोक्षासत्ता वेदितव्या / विमोक्षासत्तया अनुपूर्वविहारसमापत्त्यसत्ता वेदितव्या / अनुपूर्वविहारसमापत्त्यसत्तया शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्ता वेदितव्या / शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तया अभिज्ञासत्ता वेदितव्या / अभिज्ञासत्तया समाध्यसत्ता वेदितव्या / समाध्यसत्तया धारणीमुखासत्ता वेदितव्या / धारणीमुखासत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तया अप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या / असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या / अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यानि चार्यसत्यानि यानि चाप्रमाणानि याश् चारूप्यसमापत्तयो ये च विमोक्षा याश् चानुपूर्वविहारसमापत्तयो यानि च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि याश् चाभिज्ञाः ये च समाधयो यानि च धारणीमुखानि यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः / सर्वम् एतन् नोपलभ्यते /
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्तया वेदितव्या / सत्त्वासत्तया जीवासत्ता वेदितव्या / जीवासत्तया जन्त्वसत्ता वेदितव्या / जन्त्वसत्तया पोषासत्ता वेदितव्या / पोषासत्तया पुरुषासत्ता वेदितव्या / पुरुषासत्तया पुद्गलासत्ता वेदितव्या / पुद्गलासत्तया मनुजासत्ता वेदितव्या / मनुजासत्तया मानवासत्ता वेदितव्या / मानवासत्तया कारकासत्ता वेदितव्या / कारकासत्तया वेदकासत्ता वेदितव्या / वेदकासत्तया जानकासत्ता वेदितव्या / जानकासत्तया पश्यकासत्ता वेदितव्या / पश्यकासत्तया तथागतबलासत्ता वेदितव्या / तथागतबलासत्तया वैशारद्यासत्ता वेदितव्या / वैशारद्यासत्तया प्रतिसंविदसत्ता वेदितव्या / प्रतिसंविदसत्तया महाकरुणासत्ता वेदितव्या / महाकरुणासत्तया आवेणिकबुद्धधर्मासत्ता वेदितव्या / आवेणिकबुद्धधर्मासत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तया अप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या / असंख्येयासत्तयापरिमाणासत्ता वेदितव्या / अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यानि च तथागतबलानि यानि च वैशारद्यानि याश् च प्रतिसंविदो या च महाकरुणा ये चावेणिकबुद्धधर्माः यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः / सर्वम् एतन् नोपलभ्यते /
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या / सत्त्वासत्तया जीवासत्ता वेदितव्या / जीवासत्तया जन्त्वसत्ता वेदितव्या / जन्त्वसत्तया पोषासत्ता वेदितव्या / पोषासत्तया पुरुषासत्ता वेदितव्या / पुरुषासत्तया पुद्गलासत्ता वेदितव्या / पुद्गलासत्तया मनुजासत्ता वेदितव्या / मनुजासत्तया मानवासत्ता वेदितव्या / मानवासत्तया कारकासत्ता वेदितव्या / कारकासत्तया वेदकासत्ता वेदितव्या / वेदकासत्तया जानकासत्ता वेदितव्या / जानकासत्तया पश्यकासत्ता वेदितव्या / पश्यकासत्तया गोत्रभूधर्मासत्ता वेदितव्या / गोत्रभूधर्मासत्तया अष्टामकधर्मासत्ता वेदितव्या / अष्टामकधर्मासत्तया दर्शनकभूम्यसत्ता वेदितव्या / दर्शनकभूम्यसत्तया तनुभूम्यसत्ता वेदितव्या / तनुभूम्यसत्तया वीतरागभूम्यसत्ता वेदितव्या / वीतरागभूम्यसत्तया कृताविभूम्यसत्ता वेदितव्या / कृताविभूम्यसत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तया अप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तया असंख्येयासत्ता वेदितव्या / असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या / अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशं / तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको ये च गोत्रभूधर्माः ये चाष्टामकधर्माः ये च दर्शनकभूमिधर्माः ये च तनुभूमिधर्माः ये च वीतरागभूमिधर्माः ये च कृताविधर्माः यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः / सर्वम् एतन् नोपलभ्यते /
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या / सत्त्वासत्तया जीवासत्ता वेदितव्या / जीवासत्तया जन्त्वसत्ता वेदितव्या / जन्त्वसत्तया पोषासत्ता वेदितव्या / पोषासत्तया पुरुषासत्ता वेदितत्या / पुरुषासत्तया पुद्गलासत्ता वेदितव्या / पुद्गलासत्तया मनुजासत्ता वेदितव्या / मनुजासत्तया मानवासत्ता वेदितव्या / मानवासत्तया कारकासत्ता वेदितव्या / कारकासत्तया वेदकासत्ता वेदितव्या / वेदकासत्तया जानकासत्ता वेदितव्या / जानकासत्तया पश्यकासत्ता वेदितव्या / पश्यकासत्तया श्रोतआपन्नासत्ता वेदितव्या / श्रोतआपन्नासत्तया सकृदागाम्यसत्ता वेदितव्या / सकृदागाम्यसत्तया अनागाम्यसत्ता वेदितव्या / अनागाम्यसत्तया अर्हदसत्ता वेदितव्या / अर्हदसत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तया अप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तया असंख्येयासत्ता वेदितव्या / असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या / अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यश् च श्रोतआपन्नो यश् च सकृदागामी यश् चानागामी यश् चार्हन् यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः / सर्वम् एतन् नोपलभ्यते /
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या / सत्त्वासत्तया जीवासत्ता वेदितव्या / जीवासत्तया जन्त्वसत्ता वेदितव्या / जन्त्वसत्तया पोषासत्ता वेदितव्या / पोषासत्तया पुरुषासत्ता वेदितव्या / पुरुषासत्तया पुद्गलासत्ता वेदितव्या / पुद्गलासत्तया मनुजासत्ता वेदितव्या / मनुजासत्तया मानवासत्ता वेद्तित्या / मानवासत्तया कारकासत्ता वेदितव्या / कारकासत्तया वेदकासत्ता वेदितव्या / वेदकासत्तया जानकासत्ता वेदितव्या / जानकासत्तया पश्यकासत्ता वेदितव्या / पश्यकासत्तया प्रत्येकबुद्धासत्ता वेदितव्या / प्रत्येकबुद्धासत्तया सम्यक्संबुद्धासत्ता वेदितव्या / सम्यक्संबुद्धासत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तया अप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या / असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या / अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यश् च प्रत्येकबुद्धो यश् च सम्यक्संबुद्धो यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः / सर्वम् एतन् नोपलभ्यते /
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वसत्ता वेदितव्या / सत्त्वासत्तया जीवासत्ता वेदितव्या / जीवासत्तया जन्त्वसत्ता वेदितव्या / जन्त्वसत्तया पोषासत्ता वेदितव्या / पोषासत्तया पुरुषासत्ता वेदितव्या / पुरुषासत्तया पुद्गलासत्ता वेदितव्या / पुद्गलासत्तया मनुजासत्ता वेदितव्या / मनुजासत्तया मानवासत्ता वेदितव्या / मानवासत्तया कारकासत्ता वेदितव्या / कारकासत्तया वेदकासत्ता वेदितव्या / वेदकासत्तया जानकासत्ता वेदितव्या / जानकासत्तया पश्यकासत्ता वेदितव्या / पश्यकासत्तया श्रावकयानासत्ता वेदितव्या / श्रावकयानासत्तया प्रत्येकबुद्धयानासत्ता वेदितव्या / प्रत्येकबुद्धयानासत्तया बुद्धयानासत्ता वेदितव्या / बुद्धयानासत्तया सर्वाकारज्ञतासत्ता वेदितव्या / सर्वाकारज्ञतासत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तया अप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तया असंख्येयासत्ता वेदितव्या / असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या / अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यच् च श्रावकयानं यच् च प्रत्येकबुद्धयानं यच् च बुद्धयानं या च सर्वाकारज्ञता यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः / सर्वम् एतन् नोपलभ्यते /
तद्यथापि नाम सुभूते निर्वाणधाताव् अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः / एवम् एव तम्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः / अनेनापि सुभूते पर्यायेण यथाकाशे अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः / एवम् एव तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयाणाम् अपरिमाणानां सत्त्वानाम् अवकाशः / यद् अपि सुभूतिर् एवम् आह नापि तस्य महायानस्य गतिर् दृश्यते नागतिर् दृश्यते न स्थानं दृश्यते इति / एवम् एतत् सुभूते एवम् एतत् / न तस्य महायानस्यागतिर् वा गतिर् वा दृश्यते / तत् कस्य हेतोर् अचला हि सुभूते सर्वधर्माः / तेन कुतश्चिद् आगच्छन्ति न क्वचिद् गच्छन्ति न क्वचित् तिष्ठन्ति / तत् कस्य हेतोस् तथा हि सुभूते रूपं न कुतश्चिद् आगच्छति / न क्वचिद् गच्छति / न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते रूपस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति / न क्वचित् तिष्ठति / न रूपस्य तथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति / न रूपस्य स्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति / न रूपस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति / न वेदना कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते वेदनायाः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति / न वेदनायास् तथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति / न वेदनायाः स्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति /
न वेदनाया लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति / न संज्ञा कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते संज्ञायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न संज्ञायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति / न क्वचित् तिष्ठति / न संज्ञायाः स्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति / न संज्ञाया लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति / न संस्काराः कुतश्चिद् आगच्छन्ति / न क्वचिद् गच्छन्ति न क्वचित् तिष्ठन्ति / तत् कस्य हेतोर् न हि सुभूते संस्काराणां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न संस्काराणां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न संस्काराणां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न संस्काराणां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न विज्ञानं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते विज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न विज्ञानस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न विज्ञानस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति / न क्वचित् तिष्ठति / न विज्ञानस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
न चक्षुः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते चक्षुषः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति / न क्वचित् तिष्ठति / न चक्षुषस् तथता कुतश्चिद् आगच्छति / न क्वश्चिद् गच्छति / न क्वचित् तिष्ठति / न चक्षुषः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति / न क्वचित् तिष्ठति / न चक्षुषो लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति / न क्वचित् तिष्ठति / न श्रोत्रं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते श्रोत्रस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचित् तिष्ठति / न श्रोत्रस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / श्रोत्रस्य स्वभावो न कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / श्रोत्रस्य लक्षणं न कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न घ्राणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते घ्राणस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न घ्राणस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न घ्राणस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति / न क्वचित् तिष्ठति / न घ्राणस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जिह्वा कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते जिह्वायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जिह्वायास् तथता कुतश्चिद् आगच्छति /
न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जिह्वायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जिह्वाया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न कायः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते कायस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति / न क्वचित् तिष्ठति / न कायस्य तथता न कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न कायस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न कायस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न मनः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते मनसः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न मनसस् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न मनसः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न मनसो लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
न रूपं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते रूपस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न रूपस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न रूपस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न रूपस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति / न क्वचित् तिष्ठति / न शब्दः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते शब्दस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न शब्दस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न शब्दस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न शब्दस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न गन्धः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते गन्धस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न गन्धस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न गन्धस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न गन्धस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति / न क्वचित् तिष्ठति / न रसः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते रसस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न रसस्य तथता कुतश्चिद् आगच्छति /
न क्वचिद् गच्छति / न क्वचित् तिष्ठति / न रसस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न रसस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न स्पर्शः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते स्पर्शस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न स्पर्शस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न स्पर्शस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न स्पर्शस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न धर्माः कुतश्चिद् आगच्छन्ति / न क्वचिद् गच्छन्ति न क्वचित् तिष्ठन्ति / तत् कस्य हेतोर् न हि सुभूते धर्माणां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न धर्माणां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न धर्माणां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न धर्माणां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
न चक्षुर्विज्ञानं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते चक्षुर्विज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न चक्षुर्विज्ञानस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न चक्षुर्विज्ञानस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न चक्षुर्विज्ञानस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न श्रोत्रविज्ञानं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते श्रोत्रविज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न श्रोत्रविज्ञानस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न श्रोत्रविज्ञानस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न श्रोत्रविज्ञानस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न घ्राणविज्ञानं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते घ्राणविज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न घ्राणविज्ञानस्य तथता न कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न घ्राणविज्ञानस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न घ्राणविज्ञानस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जिह्वाविज्ञानं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
तत् कस्य हेतोर् न हि सुभूते जिह्वाविज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जिह्वाविज्ञानस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जिह्वाविज्ञानस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जिह्वाविज्ञानस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न कायविज्ञानं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते कायविज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न कायविज्ञानस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न कायविज्ञानस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न कायविज्ञानस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न मनोविज्ञानं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते मनोविज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न मनोविज्ञानस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न मनोविज्ञानस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न मनोविज्ञानस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
न चक्षुःसंस्पर्शः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते चक्षुःसंस्पर्शस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न कचित् तिष्ठति / न चक्षुःसंस्पर्शस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न चक्षुःसंस्पर्शस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न चक्षुःसंस्पर्शस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न श्रोत्रसंस्पर्शः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते श्रोत्रसंस्पर्शस्य कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न श्रोत्रसंस्पर्शस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न श्रोत्रसंस्पर्शस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न श्रोत्रसंस्पर्शस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न घ्राणसंस्पर्शः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते घ्राणसंस्पर्शस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न घ्राणसंस्पर्शस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न घ्राणसंस्पर्शस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न घ्राणसंस्पर्शस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जिह्वासंस्पर्शः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
तत् कस्य हेतोर् न हि सुभूते जिह्वासंस्पर्शस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जिह्वासंस्पर्शस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जिह्वासंस्पर्शस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जिह्वासंस्पर्शस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न कायसंस्पर्शः कुतश्चिद् आगच्छति / न कश्चिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते कायसंस्पर्शस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न कायसंस्पर्शस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न कायसंस्पर्शस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न कायसंस्पर्शस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न मनःसंस्पर्शः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते मनःसंस्पर्शस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न मनःसंस्पर्शस्य तथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति / न क्वचित् तिष्ठति / न मनःसंस्पर्शस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न मनःसंस्पर्शस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न चक्षुःसंस्पर्शजावेदना कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
तत् कस्य हेतोस् तथा हि सुभूते चक्षुःसंस्पर्शजावेदनायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न चक्षुःसंस्पर्शजावेदनायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न चक्षुःसंस्पर्शजावेदनायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति / न क्वचित् तिष्ठति / न चक्षुःसंस्पर्शजावेदनाया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न श्रोत्रसंस्पर्शजावेदना कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोस् तथा हि सुभूते श्रोत्रसंस्पर्शजावेदनायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न श्रोत्रसंस्पर्शजावेदनायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न श्रोत्रसंस्पर्शजावेदनायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति / न क्वचित् तिष्ठति / न श्रोत्रसंस्पर्शजावेदनाया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न घ्राणसंस्पर्शजावेदना कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते घ्राणसंस्पर्शजावेदनायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न घ्राणसंस्पर्शजावेदनायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न घ्राणसंस्पर्शजावेदनायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति / न क्वचित् तिष्ठति / न घ्राणसंस्पर्शजावेदनाया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
न जिह्वासंस्पर्शजावेदना कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते जिह्वासंस्पर्शजावेदनायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जिह्वासंस्पर्शजावेदनायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जिह्वासंस्पर्शजावेदनायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति / न क्वचित् तिष्ठति / न जिह्वासंस्पर्शजावेदनाया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न कायसंस्पर्शजावेदना कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते कायसंस्पर्शजावेदनायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न कायसंस्पर्शजावेदनायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न कायसंस्पर्शजावेदनायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति / न क्वचित् तिष्ठति / न कायसंस्पर्शजावेदनाया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न मनःसंस्पर्शजावेदना कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते मनःसंस्पर्शजावेदनायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न मनःसंस्पर्शजावेदनायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न मनःसंस्पर्शजावेदनायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति / न क्वचित् तिष्ठति / न मनःसंस्पर्शजावेदनाया लक्षणं कुतश्चिद् आगच्छति /
न क्वचिद् गच्छति न क्वचित् तिष्ठति /
न पृथिवीधातुः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते पृथिवीधातोः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न पृथिवीधातोस् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न पृथिवीधातोः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न पृथिवीधातोर् लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाब्धातुः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते ऽब्धातोः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाब्धातोस् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाब्धातोः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाब्धातोर् लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न तेजोधातुः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते तेजोधातोः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न तेजोधातोस् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न तेजोधातोः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न तेजोधातोर् लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न वायुधातुः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते वायुधातोः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
न वायुधातोस् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न वायुधातोः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न वायुधातोर् लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाकाशधातुः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते आकाशधातोः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाकाशधातोस् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाकाशधातोः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाकाशधातोर् लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
न विज्ञानधातुः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते विज्ञानधातोः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न विज्ञानधातोस् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न विज्ञानधातोः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न विज्ञानधातोर् लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाविद्या कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते अविद्यायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाविद्यायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाविद्यायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाविद्याया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न संस्काराः कुतश्चिद् आगच्छन्ति / न क्वचिद् गच्छन्ति / न क्वचित् तिष्ठन्ति / तत् कस्य हेतोर् न हि सुभूते संस्काराणां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न संस्काराणां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न संस्काराणां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न संस्काराणां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति / न विज्ञानं सुभूते कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते विज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति /
न क्वचिद् गच्छति न क्वचित् तिष्ठति / न विज्ञानस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न विज्ञानस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न विज्ञानस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न नामरूपं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते नामरूपस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न नामरूपस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न नामरूपस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न नामरूपस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न षडायतनं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते षडायतनस्य प्रकृटिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न षडायतनस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न षडायतनस्य स्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति / न षडायतनस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न स्पर्शः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते स्पर्शस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न स्पर्शस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न स्पर्शस्य स्वभावः कुतश्चिद् आगच्छति /
न क्वचिद् गच्छति न क्वचित् तिष्ठति / न स्पर्शस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न वेदना कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते वेदनायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न वेदनायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न वेदनायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न वेदनाया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न तृष्णा कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते तृष्णायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न तृष्णायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न तृष्णायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न तृष्णाया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद्
गच्छति न क्वचित् तिष्ठति / नोपादानं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते उपादानस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नोपादानस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नोपादानस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नोपादानस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न भवः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते भवस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न भवस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न भवस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न भवस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जातिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते जातेः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जातेस् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जातेः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जातेर् लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जरामरणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते जरामरणस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जरामरणस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जरामरणस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न जरामरणस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
न दानपारमिता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते दानपारमितायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न दानपारमितायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न दानपारमितायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न दानपारमिताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न शीलपारमिता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते शीलपारमितायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न शीलपारमितायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न शीलपारमितायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न शीलपारमिताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न क्षान्तिपारमिता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते क्षान्तिपारमितायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न क्षान्तिपारमितायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न क्षान्तिपारमितायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न क्षान्तिपारमिताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न वीर्यपारमिता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
तत् कस्य हेतोर् न हि सुभूते वीर्यपारमितायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न वीर्यपारमितायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न वीर्यपारमितायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न वीर्यपारमिताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न ध्यानपारमिता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते ध्यानपारमितायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न ध्यानपारमितायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न ध्यानपारमितायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न ध्यानपारमिताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न प्रज्ञापारमिता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते प्रज्ञापारमितायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न प्रज्ञापारमितायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न प्रज्ञापारमितायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न प्रज्ञापारमिताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
नाध्यात्मशून्यता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते अध्यात्मशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाध्यात्मशून्यतायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाध्यात्मशून्यतायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाध्यात्मशून्यताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न बहिर्धाशून्यता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते बहिर्धाशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न बहिर्धाशून्यतायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न बहिर्धाशून्यतायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न बहिर्धाशून्यताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाध्यात्मबहिर्धाशून्यता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते अध्यात्मबहिर्धाशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाध्यात्मबहिर्धाशून्यतायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाध्यात्मबहिर्धाशून्यतायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाध्यात्मबहिर्धाशून्यताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न शून्यताशून्यता कुतश्चिद् आगच्छति /
न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते शून्यताशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न शून्यताशून्यतायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न शून्यताशून्यतायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न शून्यताशून्यताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न महाशून्यता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते महाशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न महाशून्यतायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न महाशून्यतायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न महाशून्यताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न परमार्थशून्यता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते परमार्थशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न परमार्थशून्यतायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न परमार्थशून्यतायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न परमार्थशून्यताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न संस्कृतशून्यता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
तत् कस्य हेतोर् न हि सुभूते संस्कृतशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न संस्कृतशून्यतायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न संस्कृतशून्यतायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न संस्कृतशून्यताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / / नासंस्कृतशून्यता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते असंस्कृतशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नासंस्कृतशून्यतायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नासंस्कृतशून्यतायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नासंस्कृतशून्यताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नात्यन्तशून्यता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते अत्यन्तशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नात्यन्तशून्यतायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नात्यन्तशून्यतायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नात्यन्तशून्यताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित्
तिष्ठति / नानवराग्रशून्यता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते अनवराग्रशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नानवराग्रशून्यतायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नानवराग्रशून्यतायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नानवराग्रशून्यताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नानवकारशून्यता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते अनवकारशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नानवकारशून्यतायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नानवकारशून्यतायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नानवकारशून्यताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न प्रकृतिशून्यता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते प्रकृतिशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न प्रकृतिशून्यतायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न प्रकृतिशून्यतायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न प्रकृतिशून्यताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न सर्वधर्मशून्यता कुतश्चिद् आगच्छति /
न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते सर्वधर्मशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न सर्वधर्मशून्यतायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न सर्वधर्मशून्यतायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न सर्वधर्मशून्यताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न स्वलक्षणशून्यता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते स्वलक्षणशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न स्वलक्षणशून्यतायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न स्वलक्षणशून्यतायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न स्वलक्षणशून्यताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नानुपलम्भशून्यता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते अनुपलम्भशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नानुपलम्भशून्यतायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नानुपलम्भशून्यतायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नानुपलम्भशून्यताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाभावशून्यता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
तत् कस्य हेतोर् न हि सुभूते अभावशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाभावशून्यतायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाभावशून्यतायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाभावशून्यताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न स्वभावशून्यता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते स्वभावशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न स्वभावशून्यतायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न स्वभावशून्यतायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न स्वभावशून्यताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाभावस्वभावशून्यता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते अभावस्वभावशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाभावस्वभावशून्यतायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाभावस्वभावशून्यतायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाभावस्वभावशून्यताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
न स्मृत्युपस्थानानि कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते स्मृत्युपस्थानानां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न स्मृत्युपस्थानानां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न स्मृत्युपस्थानानां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न स्मृत्युपस्थानानां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न सम्यक्प्रहाणानि कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते सम्यक्प्रहाणानां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न सम्यक्प्रहाणानां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न सम्यक्प्रहाणानां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न सम्यक्प्रहाणानां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नर्धिपादाः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते ऋद्धिपादानां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नर्धिपादानां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नर्धिपादानां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नर्धिपादानां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नेन्द्रियाणि कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते इन्द्रियाणां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नेन्द्रियाणां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नेन्द्रियाणां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नेन्द्रियाणां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
न बलानि कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते बलानां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न बलानां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न बलानां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न बलानां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न बोध्यङ्गानि कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते बोध्यङ्गानां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न बोध्यङ्गानां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न बोध्यङ्गानां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न बोध्यङ्गानां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न मार्गः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते मार्गस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न मार्गस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न मार्गस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न मार्गस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नार्यसत्यानि कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते आर्यसत्यानां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
नार्यसत्यानां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नार्यसत्यानां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नार्यसत्यानां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न ध्यानानि कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते ध्यानानां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न ध्यानानां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न ध्यानानां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न ध्यानानां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / / नाप्रमाणानि कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते अप्रमाणानां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाप्रमाणानां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाप्रमाणानां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाप्रमाणानां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नारूप्यसमापत्तयः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते आरूप्यसमापत्तीनां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नारूप्यसमापत्तीनां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नारूप्यसमापत्तीनां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
नारूप्यसमापत्तीनां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न विमोक्षाः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते विमोक्षाणां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न विमोक्षाणां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न विमोक्षाणां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न विमोक्षाणां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नानुपूर्वविहारसमापत्तयः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते नवानुपूर्वविहारसमापत्तीनां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न नवानुपूर्वविहारसमापत्तीनां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न नवानुपूर्वविहारसमापत्तीनां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न
नवानुपूर्वविहारसमापत्तीनां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाभिज्ञाः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते अभिज्ञानां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाभिज्ञानां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाभिज्ञानां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाभिज्ञानां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न समाधयः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते समाधीनां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न समाधीनां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न समाधीनां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
न समाधीनां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न धारणीमुखानि कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते धारणीमुखानां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न धारणीमुखानां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न धारणीमुखानां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न धारणीमुखानां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न दश तथागतबलानि कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते दशानां तथागतबलानां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न दशानां तथागतबलानां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न दशानां तथागतबलानां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न दशानां तथागतबलानां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न चत्वारि वैशारद्यानि कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते वैशारद्यानां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न वैशारद्यानां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न वैशारद्यानां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न वैशारद्यानां लक्षणं कुतश्चिद् आगच्छति /
न क्वचिद् गच्छति न क्वचित् तिष्ठति / न चतस्रः प्रतिसंविदः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते चतसृणां प्रतिसंविदां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न चतसृणां प्रतिसंविदां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न चतसृणां प्रतिसंविदां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न चतसृणां प्रतिसंविदां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न महाकरुणा कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते महाकरुणायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न महाकरुणायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न महाकरुणायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न महाकरुणाया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाष्टादशावेणिका बुद्धधर्माः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते आवेणिकबुद्धधर्माणां प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नावेणिकबुद्धधर्माणां तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नावेणिकबुद्धधर्माणां स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नावेणिकबुद्धधर्माणां लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति /
न सुभूते धर्मधातुः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते धर्मधातोः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न धर्मधातोस् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न धर्मधातोः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न धर्मधातोर् लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न सुभूते तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते तथतायाः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न तथतायास् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न तथतायाः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न तथताया लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न भूतकोटिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते भूतकोटेः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न भूतकोटेस् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न भूतकोटेः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न भूतकोटेर् लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न सुभूते अचिन्त्यधातुः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते ऽचिन्त्यधातोः प्रकृतिः कुतश्चिद् आगच्छति /
न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाचिन्त्यधातोस् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाचिन्त्यधातोः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नाचिन्त्यधातोर् लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न सुभूते बोधिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते बोधेः प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न बोधेस् तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न बोधेः स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न बोधेर् लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न सुभूते बुद्धः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते बुद्धस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न बुद्धस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न बुद्धस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न बुद्धस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न सुभूते संस्कृतं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते संस्कृतस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न संस्कृतस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न संस्कृतस्य स्वभावः कुतश्चिद् आगच्छति /
न क्वचिद् गच्छति न क्वचित् तिष्ठति / न संस्कृतस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / न सुभूते ऽसंस्कृतं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / तत् कस्य हेतोर् न हि सुभूते ऽसंस्कृतस्य प्रकृतिः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नासंस्कृतस्य तथता कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नासंस्कृतस्य स्वभावः कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / नासंस्कृतस्य लक्षणं कुतश्चिद् आगच्छति / न क्वचिद् गच्छति न क्वचित् तिष्ठति / एवं तस्य महायानस्य नागतिर् दृश्यते न गतिर् दृश्यते न स्थानं दृश्यते /
यद् अपि सुभूतिर् एवम् आह / नाप्य् अस्य यानस्य पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्य उपलभ्यते / अध्वसमतानाम् इदं यानं महायानं / तस्मान् महायानम् इत्य् उच्यते / इति / एवम् एतत् सुभूते एवम् एतत् / नाप्य् अस्य यानस्य पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्य उपलभ्यते / त्र्यध्वसमतानाम् इदं यानं तस्मान् महायानम् इत्य् उच्यते / तत् कस्य हेतोस् तथा हि सुभूते अतीतो ऽध्वातीतेन शून्यः / अनागतो ऽध्वानागतेन शून्यः / प्रत्युत्पन्नो ऽध्वाप्रत्युत्पन्नेन शून्यः / त्र्यध्वसमता त्र्यध्वसमतया शून्यः / महायानं महायानेन शून्यः / बोधिसत्त्वो बोधिसत्त्वेन शून्यः / न सुभूते शून्यता एका न द्वे न तिस्रः न चतस्रः न पञ्च न षट् न सप्त नाष्टौ न नव न दश न पृथक् तस्मात् त्र्यध्वसमतायानम् इदं बोधिसत्त्वानां महासत्त्वानां नैवात्र समतोपलभ्यते / न विषमता / नैवात्र राग उपलभ्यते / न विरागः / न द्वेष उपलभ्यते नाद्वेषः / न मोह उपलभ्यते नामोहः / न नामोपलभ्यते नानाम / न संस्कृत उपलभ्यते नासंस्कृतः / न कुशलम् उपलभ्यते नाकुशलं / न सावद्यम् उपलभ्यते नानवद्यं / न साश्रवम् उपलभ्यते नानाश्रवं / न संक्लेशम् उपलभ्यते न निःक्लेशं / न लौकिकम् उपलभ्यते न लोकोत्तरं / नोत्पाद्य उपलभ्यते न निरोधं / न संक्लेशम् उपलभ्यते न व्यवदानं / नैवात्र नित्यम् उपलभ्यते नानित्यं / न सुखम् उपलभ्यते न दुःखं / नात्मोपलभ्यते नानात्मा / न शान्तम् उपलभ्यते नाशान्तं / न कामधातुर् उपलभ्यते न कामधातुसमतिक्रमः / न रूपधातुर् उपलभ्यते न रूपधातुसमतिक्रमः / नारूप्यधातुर् उपलभ्यते नारूप्यधातुसमतिक्रमः / न संसार उपलभ्यते न निर्वाणं / तत् कस्य हेतोस् तथा ह्य् अस्य स्वभावो नोपलभ्यते /
व्यतीतं सुभूते रूपम् अतीतेन रूपेण शून्यं तत् कस्य हेतोर् न हि शून्यतायाम् अतीतं रूपम् उपलभ्यते / शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते कुतः पुनः शून्यतायाम् अतीतं रूपम् उपलभ्यते / अतीता वेदना अतीतया वेदनाया शून्या / तत् कस्य हेतोर् न हि शून्यतायाम् अतीता वेदनोपलभ्यते / शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते कुतः पुनः शून्यतायाम् अतीता वेदनोपलभ्यते / अतीता संज्ञा अतीतया संज्ञया शून्या / तत् कस्य हेतोर् न हि शून्यतायाम् अतीता संज्ञोपलभ्यते / शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते / कुतः पुनः शून्यतायाम् अतीता संज्ञोपलभ्यते / अतीताः संस्काराः अतीतैः संस्कारैः शून्या तत् कस्य हेतोर् न हि सुभूते शून्यतायाम् अतीताः संस्कारा उपलभ्यन्ते / शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते / कुतः पुनः शून्यतायाम् अतीताः संस्कारा उपलभ्यन्ते / अतीतं विज्ञानम् अतीतेन विज्ञानेन शून्यं / तत् कस्य हेतोर् न हि शून्यतायाम् अतीतं विज्ञानम् उपलभ्यते / शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते / कुतः पुनः शून्यतायाम् अतीतं विज्ञानम् उपलभ्यते /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
