Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 34/37

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता, Part इ

Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अनिञ्जः समाधिः / अवितर्कः समाधिः / सूर्यप्रदीपः समाधिः / चन्द्रविमलः समाधिः / प्रज्ञाप्रदीपः समाधिः / शुद्धप्रतिभासः समाधिः / आलोककरः समाधिः / काराकारः समाधिः / ज्ञानकेतुः समाधिः / वज्रोपमः समाधिः / चित्तस्थितिः समाधिः / समन्तालोकः समाधिः / सुप्रतिष्ठितः समाधिः / रत्नकोटिः समाधिः / वरधर्ममुद्रा समाधिः / सर्वधर्मसमता समाधिः / रतिजहः समाधिः / धर्मोद्गतः समाधिः / अविकिरणः समाधिः / सर्वधर्मपदप्रभेदः समाधिः / समाक्षरावकारः समाधिः / अक्षरापगतः समाधिः / आरम्बणच्छेदनः समाधिः / अविकारः समाधिः / अप्रकारः समाधिः / नामनियतप्रवेशः समाधिः / अनिकेतचारी समाधिः / तिमिरापगतः समाधिः / चारित्रवती समाधिः / अचलः समाधिः / विषवतीर्णः समाधिः / सर्वगुणसञ्चयगतः समाधिः / स्थितनिश्चित्तः समाधिः / शुभपुष्पितशुद्धिः समाधिः / अनन्तप्रतिभानः समाधिः / असमसमः समाधिः / सर्वधर्मातिक्रमणः समाधिः / परिच्छेदकरः समाधिः / विमतिविकिरणः समाधिः / निरधिष्ठानः समाधिः / एकव्यूहः समाधिः / आकाशाभिनिर्हारः समाधिः / एकाकारः समाधिः / आकारानवकारः समाधिः / नैर्वेधिकसर्वभवतलापगतः समाधिः / सङ्केतरुतप्रवेशः समाधिः / गिरिघोषाक्षरविमुक्तः समाधिः / ज्वलनोल्का समाधिः / लक्षणपरिशोधनः समाधिः / अनभिलक्षितः समाधिः / सर्वाकारवरोपेतः समाधिः / सर्वदुःखनिरभिनन्दी समाधिः / अक्षयकरण्डः समाधिः / धारणीमतिः समाधिः / सम्यक्त्वमिथ्यात्वसंग्रसनः समाधिः / सर्वरोधविरोधासंप्रशमनः समाधिः /

विमलप्रभः समाधिः / सारवती समाधिः / परिपूर्णचन्द्रविमलप्रभः समाधिः / विद्युत्प्रभः समाधिः / महाव्यूहः समाधिः / सर्वाकारप्रभाकरः समाधिः / समाधिसमता समाधिः / अरजोधिरजोनययुक्तः समाधिः / अरणसमवसरणः समाधिः / अरणसरणसर्वसमवसरणः समाधिः / अनिलम्भनिकेतनिरतः समाधिः / तथतास्थितनिश्चित्तः समाधिः / कायकलिसंप्रमथनः समाधिः / वाक्कलिविध्वंसनगगनकल्पः समाधिः / आकाशासङ्गविमुक्तिनिरुपलेपः समाधिः / इदम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य महायानं /

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् उताध्यात्मशून्यता / बहिर्धाशून्यता / अध्यात्मबहिर्धाशून्यता / शून्यताशून्यता / महाशून्यता / परमाथशून्यता / संस्कृतशून्यता / असंस्कृतशून्यता / अत्यन्तशून्यता / अनवराग्रशून्यता / अनवकारशून्यता / प्रकृतिशून्यता / सर्वधर्मशून्यता / स्वलक्षणशून्यता / अनुपलम्भशून्यता / अभावशून्यता / स्वभावशून्यता / अभावस्वभावशून्यता / इदम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य महायानं /

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् उत चत्वारि स्मृत्युपस्थानानि / चत्वारि सम्यक्प्रहाणानि / चत्वार ऋद्धिपादाः / पञ्चेन्द्रियाणि / पञ्च बलानि / सप्त बोध्यङ्गानि / आर्याष्टाङ्गमार्गः / आर्यसत्यानि / ध्यानानि / अप्रमाणानि / आरूप्यसमापत्तयः / अष्टौ विमोक्षाः / नवानुपूर्वविहारसमापत्तयः / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि / अभिज्ञाः समाधयः / धारणीमुखानि / दश तथागतबलानि / चत्वारि वैशारद्यानि / चतस्रः प्रतिसंविदः / महाकरुणा / अष्टादशावेणिकबुद्धधर्माः / इदम् उच्यते बोधिसत्त्वस्य महसत्त्वस्य महायानं / यत् पुनः सुभूतिर् एवम् आह / सदेवमानुषासुरं लोकम् अभिभूय तन् महायानं निर्यास्यतीति / कतमश् च सदेवमानुषासुरलोकः / यद् उत कामधातुः / रूपधातुः / आरूप्यधातुः सचेत् सुभूते कामधातुस् तथताभविष्यद् अवितथता अनन्यतथताविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतः / अविपरिणामधर्माभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते कामधातुः कल्पितो विठयितः सन्दर्भितः / अनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्मा अभावः / तस्मात् तन् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति / सचेत् सुभूते रूपधातुस् तथताभविष्यत् अवितथता अनन्यतथता विपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतः अविपरिणामधर्माभावो ऽभविष्यत् / नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते रूपधातुः कल्पितो विठयितः सन्दर्भितः /

अनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति / सचेत् सुभूते आरूप्यधातुस् तथताभविष्यत् / अवितथता अनन्यतथताविपरितं भूतं सत्यं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्माभावो ऽभविष्यत् / नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत् / तस्मात् तर्हि सुभूते रूपं कल्पितं विठयितं सन्दर्भितं / इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्म अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति / सचेत् सुभूते वेदना तथताभविष्यद् अवितथतानन्यतथता अविपरीता भूता सत्या यथावन् नित्या ध्रुवा शाश्वता अविपरिणामधर्मिणी न खल्व् अभावो ऽभविष्यत् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते वेदना कल्पिता विठयिता सन्दर्भिता / इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते संज्ञा तथताभविष्यद् अवितथतानन्यतथताविपरीता भूता सत्या यथावन् नित्या ध्रुवा शाश्वताविपरिणामधर्मिणी न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते संज्ञा कल्पिता विठयिता सन्दर्भिता / इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते संस्कारास् तथाभविष्यन् न वितथा अनन्यतथा अविपरिभूता सत्या यथावन् नित्या ध्रुवाः शाश्वता अविपरिणामधर्माणः /

न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते संस्काराः कल्पिता विठयिताः सन्दर्भिताः / इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते विज्ञानं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवम् अशाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते विज्ञानं कल्पितं विठयितं सन्दर्भितं इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति /

सचेत् सुभूते चक्षुस् तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अपरिणामधर्म / न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते चक्षुः कल्पितं विठयितं सन्दर्भितं / इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिनिर्याति / सचेत् सुभूते श्रोत्रं तथाभविष्यद् वितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावाभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते श्रोत्रं कल्पितं विठयितं सन्दर्भितं / इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते घ्राणस् तथाभविष्यद् अवितथानन्यतथाविपरितं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत् / यस्मात् तर्हि सुभूते घ्राणं कल्पितं विठयितं सन्दर्भितं / इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मात् सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते जिह्वा तथाभविष्यद् अवितथानन्यतथाविपरीता भूता सत्या यथावन् नित्या ध्रुवा शाश्वताविपरिणामधर्मिणी न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / तस्मात् तर्हि सुभूते जिह्वा कल्पिता विठयिता सन्दर्भिता /

इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते कायस् तथाभविष्यद् अवितथानन्यतथाविपरीता भूतः सत्या यथावन् नित्या ध्रुवः शाश्वतो ऽविपरिणामधर्मा खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / तस्मात् तर्हि सुभूते कायः कल्पितो विठयितः सन्दर्भितः / इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते मनस् तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मं न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / तस्मात् तर्हि सुभूते मनः कल्पितं विठयितं सन्दर्भितम् इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति /

सचेत् सुभूते रूपन् तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते रूपं कल्पितं विठयितं सन्दर्भितम् इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते शब्दस् तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतः सत्यः यथावन् नित्या ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते शब्दः कल्पितो विठयितः सन्दर्भितः इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते गन्धस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यः यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते गन्धः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते रसस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् /

यस्मात् तर्हि सुभूते रसः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते स्पर्शस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् खल्व् एव सुभूते स्पर्शः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुव ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासरं लोकम् अभिभूय निर्याति / सचेत् सुभूते धर्मास् तथाभविष्यद् अवितथानन्यतथाविपरीताः सत्या यथावन् नित्या ध्रुवाः शाश्वता अविपरिणामधर्माः न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति /

सचेत् सुभूते चक्षुर्विज्ञानं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते चक्षुर्विज्ञानं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं / विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते श्रोत्रविज्ञानं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते श्रोत्रविज्ञानं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते घ्राणविज्ञानन् तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते घ्राणविज्ञानं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते जिह्वाविज्ञानं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् /

यस्मात् तर्हि सुभूते जिह्वाविज्ञानं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते कायविज्ञानं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यात् / यस्मात् तर्हि सुभूते कायविज्ञानं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते मनोविज्ञानं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूति मनोविज्ञानं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति /

सचेत् सुभूते चक्षुःसंस्पर्शस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते चक्षुःसंस्पर्शः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते श्रोत्रसंस्पर्शस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते श्रोत्रसंस्पर्शः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते घ्राणसंस्पर्शस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते घ्राणसंस्पर्शः कल्पितो विठयितः सन्दर्भितो नित्यो ध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते जिह्वासंस्पर्शस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् /

यस्मात् तर्हि सुभूते जिह्वासंस्पर्शः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते कायसंस्पर्शस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते कायसंस्पर्शः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते मनःसंस्पर्शस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते मनःसंस्पर्शः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते चक्षुःसंस्पर्शप्रत्ययवेदितं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते चक्षुःसंस्पर्शप्रत्ययवेदितं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति /

सचेत् सुभूते श्रोत्रसंस्पर्शप्रत्ययवेदितं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते श्रोत्रसंस्पर्शप्रत्ययवेदितं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते घ्राणसंस्पर्शप्रत्ययवेदितं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते घ्राणसंस्पर्शप्रत्ययवेदितं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते जिह्वासंस्पर्शप्रत्ययवेदितं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते जिह्वासंस्पर्शप्रत्ययवेदितं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति /

सचेत् सुभूते कायसंस्पर्शप्रत्ययवेदितं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते कायसंस्पर्शप्रत्ययवेदितं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते मनःसंस्पर्शप्रत्ययवेदितं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते मनःसंस्पर्शप्रत्ययवेदितं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति /

सचेत् सुभूते पृथिवीधातुस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते पृथिवीधातुः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते ऽब्धातुस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते ऽब्धातुः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते तेजोधातुस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते तेजोधातुः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते वायुधातुस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते वायुधातुः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते आकाशधातुस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते आकाशधातुः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति /

सचेत् सुभूते विज्ञानधातुस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते विज्ञानधातुः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते अविद्या तथाभविष्यद् अवितथानन्यतथाविपरीता भूता सत्या यथावन् नित्या ध्रुवा शाश्वताविपरिणामधर्मिणी न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते अविद्या कल्पिता विठयिता सन्दर्भितानित्याध्रुवाशाश्वता विपरिणामधर्मिणी अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते संस्कारास् तथाभविष्यद् अवितथानन्यतथाविपरीता भूताः सत्या यथावन् नित्या ध्रुवाः शाश्वता अविपरिणामधर्माणो न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते संस्काराः कल्पिता विठयिताः सन्दर्भिताः अनित्या अध्रुवा अशाश्वता विपरिणामधर्मणो अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते विज्ञानं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् /

यस्मात् तर्हि सुभूते विज्ञानं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते नामरूपं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते नामरूपं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते षडायतनं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते षडायतनं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते स्पर्शस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते स्पर्शः कल्पितो विठयितो सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो ऽविपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति /

सचेत् सुभूते वेदना तथाभविष्यद् अवितथानन्यतथाविपरीता भूता सत्या यथावन् नित्या ध्रुवा शाश्वताविपरिणामधर्मिणी न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते वेदना कल्पिता विठयिता सन्दर्भितानित्याध्रुवाशाश्वताविपरिणामधर्मिणी अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते तृष्णा तथाभविष्यद् अवितथानन्यतथाविपरीता भूता सत्या यथावन् नित्या ध्रुवा शाश्वताविपरिणामधर्मिणी न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते तृष्णा कल्पिता विठयिता सन्दर्भितानित्याध्रुवाशाश्वताविपरिणामधर्मिणी अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते उपादानं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते उपादानं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते स्पर्शस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् /

यस्मात् तर्हि सुभूते स्पर्शः कल्पितो विठयितो सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो ऽविपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते भवस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते भवः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते जातिस् तथाभविष्यद् अवितथानन्यतथाविपरीता भूता सत्या यथावन् नित्या ध्रुवा शाश्वताविपरिणामधर्मिणी न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते

जातिः कल्पिता विठयिता सन्दर्भितानित्याध्रुवाशाश्वता विपरिणामधर्मिणी अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते जरामरणं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते जरामरणं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति /

सचेत् सुभूते दानपारमिताभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते दानपारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते शीलपारमिताभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते शीलपारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते क्षान्तिपारमिताभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते क्षान्तिपारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते वीर्यपारमिताभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते वीर्यपारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते ध्यानपारमिताभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते ध्यानपारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते प्रज्ञापारमिताभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते प्रज्ञापारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति /

सचेत् सुभूते अध्यात्मशून्यताभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते अध्यात्मशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते बहिर्धाशून्यताभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते बहिर्धाशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते अध्यात्मबहिर्धाशून्यताभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते अध्यात्मबहिर्धाशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते शून्यताशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते शून्यताशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते महाशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते महाशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते परमार्थशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते परमार्थशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते संस्कृतशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् /

यस्मात् तर्हि सुभूते शून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते असंस्कृतशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते असंस्कृतशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते ऽत्यन्तशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते अत्यन्तशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते अनवराग्रशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते अनवराग्रशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते अनवकारशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते अनवकारशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते प्रकृतिशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते प्रकृतिशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते सर्वधर्मशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् /

यस्मात् तर्हि सुभूते सर्वधर्मशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते स्वलक्षणशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते स्वलक्षणशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते अनुपलम्भशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते अनुपलम्भशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते ऽभावशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते अभावशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते स्वभावशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते स्वभावशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते अभावस्वभावशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते अभावस्वभावशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति /

सचेत् सुभूते चत्वारि स्मृत्युपस्थानानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते स्मृत्युपस्थानानि अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते सम्यक्प्रहाणानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते सम्यक्प्रहाणानि अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते ऋद्धिपादा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते ऋद्धिपादा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते इन्द्रियाणि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते इन्द्रियाण्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते बलानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते बलान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते बोध्यङ्गानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते बोध्यङ्गान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते मार्गो ऽभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् /

यस्मात् तर्हि सुभूते मार्गो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते आर्यसत्यानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते आर्यसत्यान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते ध्यानानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते ध्यानान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते अप्रमाणानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते अप्रमाणान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते आरूप्यसमापत्तयो भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते आरूप्यसमापत्तयो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते विमोक्षा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते विमोक्षा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते अनुपूर्वविहारसमापत्तयो भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते ऽनुपूर्वविहारसमापत्तयो अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति /

सचेत् सुभूते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते ऽभिज्ञा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते अभिज्ञा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते समाधयो भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते समाधयो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते धारणीमुखानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते धारणीमुखान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते तथागतबलानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते तथागतबलान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते वैशारद्यानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते वैशारद्यान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति /

सचेत् सुभूते प्रतिसंविदो भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते प्रतिसंविदो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते महाकारुणा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते महाकारुणाभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते अष्टादशावेणिका बुद्धधर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते अष्टादशावेणिका बुद्धधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति /

सचेत् सुभूते गोत्रभूधर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते गोत्रभूधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते अष्टमकधर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते अष्टमकधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते आपन्नधर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते आपन्नधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते सकृदागामिधर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते सकृदागामिधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते अनागामिधर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते अनागामिधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते अर्हद्धर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते अर्हद्धर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति /

सचेत् सुभूते प्रत्येकबुद्धधर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते प्रत्येकबुद्धधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते बोधिसत्त्वधर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते बोधिसत्त्वधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते बुद्धधर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते बुद्धधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते गोत्रभूर् भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते गोत्रभूर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते ऽष्टमको भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते ऽष्टमको ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते श्रोतआपन्नो भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते श्रोतआपन्नो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते सकृदागामी भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् /

यस्मात् तर्हि सुभूते सकृदागामी अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते अनागामी भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते अनागामी अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते ऽर्हन् भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते ऽर्हन्न् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते प्रत्येकबुद्धो भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते प्रत्येकबुद्धो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते बोधिसत्त्वो भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते बोधिसत्त्वो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति /

सचेत् सुभूते धर्मधातुर् भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते धर्मधातुर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते तथता भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते तथताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते भूतकोटिर् भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते भूतकोटिर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते अचिन्त्यधातुर् भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते अचिन्त्यधातुर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते सदेवमानुषासुरो लोको भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तर्हि सुभूते सदेवमानुषासुरो लोको ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति /

सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्ड एतस्मिन्न् अन्तरे ये चित्तोत्पादास् ते भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति / यस्मात् तर्हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्ड एतस्मिन्न् अन्तरे ये चित्तोत्पादास् ते ऽभावो न भावस् तस्मान् महायानं स देवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमं ज्ञानं भावो ऽभविष्यन् नाभावो नेदं बोधिसत्त्वो महासत्त्वः सर्ववासनानुसन्धिक्लेश न भावं विदित्वा सर्वाकारज्ञताम् अनुप्राप्स्यत् / सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् / यस्मात् तहि सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमं ज्ञानम् अभावो न भावस् तस्माद् बोधिसत्त्वो महासत्त्वः सर्ववासनानुसन्धिक्लेशम् अभावं विदित्वा सर्वाकारज्ञताम् अनुप्राप्नोति / स देवमानुषासुरं लोकम् अभिभूय निर्याति / सचेत् सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य द्वात्रिंशन् महापुरुषलक्षणानि भावो ऽभविष्यन् नाभावो नेदं तथागतो ऽर्हन् सम्यक्संबुद्धः सदेवमानुषासुरं लोकम् अभिभूय तेजसा श्रिया चाभाविष्यता तप्स्यत् राजिष्यत् / तस्मात् तर्हि सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य द्वात्रिंशन् महापुरुषलक्षणान्य् अभावो न भावस् तस्मात् तथागतो ऽर्हन् सम्यक्मम्बुद्धः सदेवमानुषासुरं लोकम् अभिभूय तेजसा श्रिया च भासते तपति विराजते / सचेत् सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य भावो ऽभविष्यन् नाभावो नेदं तथागतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् लोकधातुनाभयास्फुरिष्यत् /

यस्मात् तर्हि सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्याभावो न भावस् तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् लोकधातुनाभयास्फुरति / सचेत् सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य षष्ट्यङ्गोपेतः स्वरो भावो ऽभविष्यन् नाभावो नेदं तथागतो ऽर्हन् सम्यक्संबुद्धो दशसु दिक्षु अप्रमेयासंख्येयान् लोकधातून् स्वरेणाभिव्यज्ञपयिष्यत् / यस्मात् तर्हि सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य षष्ट्यङ्गोपेतः स्वरो ऽभावो न भावस् तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धो दशसु दिक्षु अप्रमेयासंख्येयान् लोकधातून् स्वरेणाभिव्यज्ञपयति / सचेत् सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मचक्रं भावो ऽभविष्यन् नाभावो नेदं तथागतो ऽर्हन् सम्यक्संबुद्धो धर्मचक्रं प्रावर्तयिष्यत् / अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सहधर्मेण / यस्मात् तहि सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मचक्रम् अभावो न भावस् तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धो धर्मचक्रं प्रवर्तयत्य् अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन मारेण वा केनचिद् वा पुनर् लोके सहधर्मेण / सचेत् सुभूते सत्त्वाभावो ऽभविष्यन् नाभावो येषां कृते तथागतेनार्हता सम्यक्संबुद्धेन धर्मचक्रं प्रवर्तितं नेह ते सत्त्वा अनुपधिशेषे निर्वाणधातौ परिणिरवापयिष्यत् / यस्मात् तर्हि सुभूते सत्त्वा अभावो न भाव वा येषां कृते तथागतेनार्हता सम्यक्संबुद्धेन धर्मचक्रं प्रवर्तितं / तस्मात् सत्त्वा अनुपधिशेषे निर्वाणधातौ परिनिर्वृताश् च परिनिव्वान्ति च परिनिर्वास्यति च /

यत् पुनः सुभूतिर् एवम् आह / आकाशसमं तद् यानम् इति / एवम् एतत् सुभूते एवम् एतत् आकाशसमं तद् यानं तद्यथापि नाम सुभूते आकाशस्य न पूर्वा दिक् प्रज्ञायते न दक्षिणा न पश्चिमा नोत्तरा नोर्धा नाधो नानुविदिशः प्रज्ञायन्ते / एवम् एव सुभूते तस्य महायानस्य न पूर्वा दिक् प्रज्ञायते न दक्षिणा न पश्चिमा नोत्तरा नानुविदिशः प्रज्ञायन्ते / तेनोच्यते आकाशसमं तद् यानं / तद्यथापि नाम सुभूते आकाशं न नीलं न पीतं न लोहितं नावदातं नाञ्जिष्ठं न स्फटिकरजतवर्णम् एवम् एव सुभूते तन् महायानं न नीलं न पीतं न लोहितं नावदातं नाञ्जिष्ठं न स्फटिकरजतवर्णं तेनोच्यते आकाशसमं तद् यानं / तद्यथापि नाम सुभूते आकाशं नातीतं नानागतं न प्रत्युत्पन्नम् एवम् एव सुभूते तन् महायानं नातीतं नानागातं न प्रत्युत्पन्नं तेनोच्यते आकाशसमं तद् यानं / तद्यथापि नाम सुभूते आकाशस्य न हानिर् न वृद्धिर् न परिहाणिः एवम् एव तस्य महायानस्य न हानिर् न वृद्धिर् न परिहाणिस् तेनोच्यते आकाशसमं तद् यानं / तद्यथापि नाम सुभूते आकाशस्य न संक्लेशो न व्यवदानम् एवम् एव सुभूते तस्य महायानस्य न संक्लेशो न व्यवदानं तेनोच्यते आकाशसमं तद् यानं / तद्यथापि नाम सुभूते आकाशस्य नोत्पादो न विरोधो न स्थितिर् न विष्ठिति न स्थितेर् अन्यथात्वं प्रज्ञायते / एवम् एव सुभूते तस्य महायानस्य नोत्पादो न निरोधो न स्थितिर् न विष्ठितिर् न स्थितेर् अन्यथात्वं प्रज्ञायते / तेनोच्यते आकाशसमं तद् यानं /

तद्यथापि नाम सुभूते आकाशं न कुशलं नाकुशलं न व्याकृतम् एवम् एव सुभूते तन् महायानं न कुशलं नाकुशलं न व्याकृतं तेनोच्यते आकाशसमं तद् यानं / तद्यथापि नाम सुभूते आकाशं न दृष्टं न श्रुतं न मतं न विज्ञातम् एवम् एव सुभूते तन् महायानं न दृष्टं तद् यानं / न श्रुतं स मतं न विज्ञातं तेनोच्यते आकाशसमं तद् यानं / तद्यथापि नाम सुभूते आकाशं न ज्ञेयं नाज्ञेयं न विज्ञेयं न परिज्ञेयं न साक्षात्कर्तव्यं न प्रहातव्यं न भावयितव्यम् एवम् एव सुभूते तन् महायानं न ज्ञेयं नाज्ञेयं न विज्ञेयं न परिज्ञेयं न साक्षात्कर्तव्यं न प्रहातव्यं न भावयितव्यं तेनोच्यते आकाशसमं तद् यानं / तद्यथापि नाम सुभूते आकाशं न विपाको न विपाकधर्म एवम् एव सुभूते तन् महायानं न विपाको न विपाकधर्म तेनोच्यते आकाशसमं तद् यानं / तद्यथापि नाम सुभूते आकाशं न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नम् एवम् एव सुभूते तन् महायानं न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नं तेनोच्यते आकाशसमं तद् यानं / तद्यथापि नाम सुभूते आकाशं न सरागं न विरागं न सद्वेषं न विगतद्वेषं न समोहं न विगतमोहं / एवम् एव सुभूते तन् महायानं न सरागं न विरागं न सद्वेषं न विगतद्वेषं न समोहं न विगतमोहं / तेनोच्यते आकाशसमं तद् यानं / तद्यथापि नाम सुभूते आकाशे न प्रथमश् चित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो न षष्ठो न सप्तमो नाष्टमो न नवमो न दशमश् चित्तोत्पादः /

एवम् एव सुभूते तत्र महायाने न प्रथमश् चित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो न षष्ठो न सप्तमो नाष्टमो न नवमो न दशमश् चित्तोत्पादः / तेनोच्यते आकाशसमं तद् यानं / तद्यथापि नाम सुभूते आकाशे न शुक्लविदर्शनाभूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न तनुभूमिर् न वीतरागभूमिर् न कृताविभूमिर् एवम् एव सुभूते तत्र महायाने न शुक्लविदर्शनाभूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न तनुभूमिर् न कृताविभूमिस् तेनोच्यते आकाशसमं तद् यानं / तद्यथापि नाम सुभूते आकाशे न श्रोतापत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वम् एवम् एव सुभूते तत्र महायाने न श्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं तेनोच्यते आकाशसमं तद् यानं / तद्यथापि नाम सुभूते आकाशे न श्रावकभूमिर् न प्रत्येकबुद्धभूमिर् न बोधिसत्त्वभूमिर् न सम्यक्संबुद्धभूमिर् एवम् एव सुभूते तत्र महायाने न श्रावकभूमिर् न प्रत्येकबुद्धभूमिर् न बोधिसत्त्वभूमिर् न सम्यक्संबुद्धभूमिस् तेनोच्यते आकाशसमं तद् यानं / तद्यथापि नाम सुभूते आकाशं न रूपि नारूपि न सनिदर्शनं नानिदर्शनं न प्रतिघं नाप्रतिघं न संयुक्तं न वियुक्तम् एवम् एव सुभूते तन् महायानं न रूपि नारूपि न सनिदर्शनं नानिदर्शनं न प्रतिघं नाप्रतिघं न संयुक्तं न वियुक्तं तेनोच्यते आकाशसमं तद् यानं / तद्यथापि नाम सुभूते आकाशं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा न शुभं नाशुभं /

एवम् एव सुभूते तन् महायानं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा न शुभं नाशुभं तेनोच्यते आकाशसमं तद् यानं / तद्यथापि नाम सुभूते आकाशं न शून्यं नाशून्यं न निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितम् एवम् एव तन् महायानं न शून्यं नाशून्यं न निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितं तेनोच्यते आकाशमम तद् यानं / तद्यथापि नाम सुभूते आकाशं न शान्तं नाशान्तं न विविक्तं नाविविक्तं / एवम् एव सुभूते तन् महायानं न शान्तं नाशान्तं न विविक्तं नाविविक्तं तेनोच्यते आकाशसमं तद् यानं तद्यथापि नाम सुभूते आकाशं नालोको न तमः एवम् एव सुभूते तन् महायानं नालोको न तमः तेनोच्यते आकाशसमं तद् यानं / तद्यथापि नाम सुभूते आकाशं नोपलभ्यते / एवम् एव तन् महायानं नोपलभ्यते / तेनोच्यते आकाशसमं तद् यानं / तद्यथापि नाम सुभूते आकाशं न प्रव्याहारो नाप्रव्याहारः / एवम् एव सुभूते तन् महायानं न प्रव्याहारो नाप्रव्याहारः / तेनोच्यते आकाशसमं तद् यानं / अनेन सुभूते पर्यायेणाकाशसमं तद् यानं यद् उत महायानम् /

यद् अपि सुभूतिर् एवम् आह / यथाकाशे ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः / एवम् एव तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाश इति / एवम् एतत् सुभूते एवम् एतत् यथाकाशे ऽप्रमेयाणाम् असंख्येयानां सत्वानाम् अवकाशः / एवम् एतस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्वानाम् अवकाशः / तत् कस्य हेतोः सत्त्वासत्तया हि सुभूते आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / अनेनापि पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां तत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं सर्वं तन् नोपलभ्यते / पुनर् अपरं सुभूते सत्त्वाप्रमाणतया आकाशप्रमाणता वेदितव्या / आकाशप्रमाणतया महायानप्रमाणता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं सर्व तन् नोपलभ्यते / पुनर् अपरं सुभूते सत्त्वापरिमाणतया आकाशापरिमाणता वेदिता / आकाशापरिमाणतया महायानापरिमाणता वेदिता / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि सुभूते ये च यच् चाकाशं यच् च महायानं सर्वम् एतन् नोपलभ्यते / पुनर् अपरं सुभूते सत्त्वासत्तया धर्मधात्वसत्ता वेदितव्या / धर्मधात्वसत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तया अप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या / असंख्ययासत्तयापरिमाणासत्ता वेदितव्या /

अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि सुभूते ये च सत्त्वा यश् च धर्मधातुर् यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं सर्वम् एतन् नोपलभ्यते / पुनर् अपरं सुभूते सत्त्वासत्तया तथतासत्ता वेदितव्या / तथतासत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तयाप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या / असंख्येयासत्तयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिम् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्तानाम् अवकाशः / तत् कस्य हेतोस् तथा हि सुभूते ये च सत्त्वा यश् च धर्मधातुर् यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं सर्वम् एतन् नोपलभ्यते / पुनर् अपरं सुभूते सत्तासत्तया तथतासत्ता वेदितव्या / तथतासत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तयाप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या / असंख्येयासत्तयापरिमाणासत्ता वेदितव्या / अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि सुभूते ये च सत्त्वा या च तथता यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः सर्वम् एतन् नोपलभ्यते /

पुनर् अपरं सुभूते आत्मसत्तया सत्त्वासत्ता वेदितव्या / सत्त्वासत्तया जीवासत्ता वेदितव्या / जीवासत्तया जन्त्वसत्ता वेदितव्या / जन्त्वसत्तया पोषासत्ता वेदितव्या / पोषासत्तया पुरुषासत्ता वेदितव्या / पुरुषासत्तया पुद्गलासत्ता वेदितव्या / पुद्गलासत्तया मनुजासत्ता वेदितव्या / मनुजासत्तया मानवासत्ता वेदितव्या / मानवासत्तया कारकासत्ता वेदितव्या / कारकासत्तया वेदकासत्ता वेदितव्या / वेदकासत्तया जानकासत्ता वेदितव्या / जानकासत्तया पश्यकासत्ता वेदितव्या / पश्यकासत्तया भूतकोट्यसत्ता वेदितव्या / भूतकोट्यसत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तयाप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या / असंखेयासत्तयापरिमाणासत्ता वेदितव्या / अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलः / यश् च मनुजो यश् च मानवो / यश् च कारको ऽकारको यश् च जानको यश् च पश्यको या च भूतकोटि यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः सर्वम् एतन् नोपलभ्यते / पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या / सत्त्वासत्तया जीवासत्ता वेदितव्या / जीवासत्तया जन्त्वसत्ता वेदितव्या / जन्त्वसत्तया पोषासत्ता वेदितव्या / पोषासत्तया पुरुषासत्ता वेदितव्या / पुरुषासत्तया पुद्गलासत्ता वेदितव्या / पुद्गलासत्तया मनुजासत्ता वेदितव्या /

मनुजासत्तया मानवासत्ता वेदितव्या / मानवासत्तया कारकासत्ता वेदितव्या / कारकासत्तया वेदकासत्ता वेदितव्या / वेदकासत्तया जानकासत्ता वेदितव्या / जानकासत्तया पश्यकासत्ता वेदितव्या / पश्यकासत्तयाचिन्त्यधात्वसत्ता वेदितव्या / अचिन्त्यधात्वसत्तया रूपासत्ता वेदितव्या / रूपासत्तया वेदनासत्ता वेदितव्या / वेदनासत्तया संज्ञासत्ता वेदितव्या / संज्ञासत्तया संस्कारासत्ता वेदितव्या / संस्कारासत्तया विज्ञानासत्ता वेदितव्या / विज्ञानासत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तयाप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या / असंख्येयासत्तयापरिमाणासत्ता वेदितव्या / अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यच् च पश्यको यश् चाचिन्त्यधातुर् यच् च रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं यच् चाकाशं यच् च महायानं यथाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः सर्वम् एतन् नोपलभ्यते / पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या / सत्त्वासत्तया जीवासत्ता वेदितव्या / जीवासत्तया जन्त्वसत्ता वेदितव्या / जन्त्वसत्तया पोषासत्ता वेदितव्या / पोषासत्तया पुरुषासत्ता वेदितव्या / पुरुषासत्तया पुद्गलासत्ता वेदितव्या / पुद्गलासत्तया मनुजासत्ता वेदितव्या /

मनुजासत्तया मानवासत्ता वेदितव्या / मानवासत्तया कारकासत्ता वेदितव्या / कारकासत्तया वेदकासत्ता वेदितव्या / वेदकासत्तया जानकासत्ता वेदितव्या / जानकासत्तया पश्यकासत्ता वेदितव्या / पश्यकासत्तया चक्षुरसत्ता वेदितव्या / चक्षुरसत्तया श्रोत्रासत्ता वेदितव्या / श्रोत्रासत्तया घ्राणासत्ता वेदितव्या / घ्राणासत्तया जिह्वासत्ता वेदितव्या / जिह्वासत्तया कायासत्ता वेदितव्या / कायासत्तया मनोसत्ता वेदितव्या / मनोसत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तयाप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या / असंख्येयसत्तयापरिमाणासत्ता वेदितव्या / अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यत् चक्षुर् यच् च श्रोत्रं यच् च घ्राणं यच् च जिह्वा यश् च कायः यच् च मनः यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः / तत् सर्वं नोपलभ्यते /

पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या / सत्त्वासत्तया जीवासत्ता वेदितव्या / जीवासत्तया जन्त्वसत्ता वेदितव्या / जन्त्वसत्तया पोषासत्ता वेदितव्या / पोषासत्तया पुरुषासत्ता वेदितव्या / पुरुषासत्तया पुद्गलासत्ता वेदितव्या / पुद्गलासत्तया मनुजासत्ता वेदितव्या / मनुजासत्तया मानवासत्ता वेदितव्या / मानवासत्तया कारकासत्ता वेदितव्या / कारकासत्तया वेदकासत्ता वेदितव्या / वेदकासत्तया जानकासत्ता वेदितव्या / जानकासत्तया पश्यकासत्ता वेदितव्या / पश्यकासत्तया रूपासत्ता वेदितव्या / रूपासत्तया शब्दासत्ता वेदितव्या / शब्दासत्तया गन्धासत्ता वेदितव्या / गन्धासत्तया रसासत्ता वेदितव्या / रसासत्तया स्पर्शासत्ता वेदितव्या / स्पर्शासत्तया धर्मासत्ता वेदितव्या / धर्मासत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तयाप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या / असंख्येयसत्तयापरिमाणासत्ता वेदितव्या / अपरिमाणसत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयाणां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यच् च रूपं यश् च शब्दः यश् च गन्धो यश् च रसो यश् च स्पर्शः ये च धर्माः यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः / सर्वम् एतन् नोपलभ्यते /

पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या / सत्त्वासत्तया जीवासत्ता वेदितव्या / जीवासत्तया जन्त्वसत्ता वेदितव्या / जन्त्वसत्तया पोषासत्ता वेदितव्या / पोषासत्तया पुरुषासत्ता वेदितव्या / पुरुषासत्तया पुद्गलासत्ता वेदितव्या / पुद्गलासत्तया मनुजासत्ता वेदितव्या / मनुजासत्तया मानवासत्ता वेदितव्या / मानवासत्तया कारकासत्ता वेदितव्या / कारकासत्तया वेदकासत्ता वेदितव्या / वेदकासत्तया जानकासत्ता वेदितव्या / जानकासत्तया पश्यकासत्ता वेदितव्या / पश्यकासत्तया चक्षुर्विज्ञानासत्ता वेदितव्या / चक्षुर्विज्ञानासत्तया श्रोत्रविज्ञानासत्ता वेदितव्या / श्रोत्रविज्ञानासत्तया घ्राणविज्ञानासत्ता वेदितव्या / घ्राणविज्ञानासत्तया जिह्वाविज्ञानासत्ता वेदितव्या / जिह्वाविज्ञानासत्तया कायविज्ञानासत्ता वेदितव्या / कायविज्ञानासत्तया मनोविज्ञानासत्ता वेदितव्या / मनोविज्ञानासत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तयाप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या / असंख्येयासत्तयापरिमाणासत्ता वेदितव्या / अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण महायाने ऽप्रमेयाणाम् असंख्येयाणां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यच् च चक्षुर्विज्ञानं यच् च श्रोत्रविज्ञानं यच् च घ्राणविज्ञानं यच् च जिह्वाविज्ञानं यच् च कायविज्ञानं यच् च मनोविज्ञानं यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः सर्वम् एतन् नोपलभ्यते /

पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या / सत्त्वासत्तया जीवासत्ता वेदितव्या / जीवासत्तया जन्त्वसत्ता वेदितव्या / जन्त्वसत्तया पोषासत्ता वेदितव्या / पोषासत्तया पुरुषासत्ता वेदितव्या / पुरुषासत्तया पुद्गलासत्ता वेदितव्या / पुद्गलासत्तया मनुजासत्ता वेदितव्या / मनुजासत्तया मानवासत्ता वेदितव्या / मानवासत्तया कारकासत्ता वेदितव्या / कारकासत्तया वेदकासत्ता वेदितव्या / वेदकासत्तया जानकासत्ता वेदितव्या / जानकासत्तया पश्यकासत्ता वेदितव्या / पश्यकासत्तया चक्षुःसंस्पर्शासत्ता वेदितव्या / चक्षुःसंस्पर्शासत्तया श्रोत्रसंस्पर्शासत्ता वेदितव्या / श्रोत्रसंस्पर्शासत्तया घ्राणसंस्पर्शासत्ता वेदितव्या / घ्राणसंस्पर्शासत्तया जिह्वासंस्पर्शासत्ता वेदितव्या / जिह्वासंस्पर्शासत्तया कायसंस्पर्शासत्ता वेदितव्या / कायसंस्पर्शासत्तया मनःसंस्पर्शासत्ता वेदितव्या / मनःसंस्पर्शासत्तया आकाशासत्ता वेदितव्या / आकाशसत्तया महायानासत्ता वेदितव्या / महायानासत्तयाप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या / असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या / अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयाणां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यश् च चक्षुःसंस्पर्शो यश् च श्रोत्रसंस्पर्शो यश् च घ्राणसंस्पर्शो यश् च जिह्वासंस्पर्शो यश् च कायसंस्पर्शो यश् च मनःसंस्पर्शो यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः / सर्वम् एतन् नोपलभ्यते /

पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या / सत्त्वासत्तया जीवासत्ता वेदितव्या / जीवासत्तया जन्त्वसत्ता वेदितव्या / जन्त्वसत्तया पोषासत्ता वेदितव्या / पोषासत्तया पुरुषासत्ता वेदितव्या / पुरुषासत्तया पुद्गलासत्ता वेदितव्या / पुद्गलासत्तया मनुजासत्ता वेदितव्या / मनुजासत्तया मानवासत्ता वेदितव्या / मानवासत्तया कारकासत्ता वेदितव्या / कारकासत्तया वेदकासत्ता वेदितव्या / वेदकासत्तया जानकासत्ता वेदितव्या / जानकासत्तया पश्यकासत्ता वेदितव्या / पश्यकासत्तया चक्षुःसंस्पर्शजावेदनासत्ता वेदितव्या / चक्षुःसंस्पर्शजावेदनासत्तया श्रोत्रसंस्पर्शजावेदनासत्ता वेदितव्या / श्रोत्रसंस्पर्शजावेदनासत्तया घ्राणसंस्पर्शजावेदनासत्ता वेदितव्या / घ्राणसंस्पर्शजावेदनासत्तया जिह्वासंस्पर्शजावेदनासत्ता वेदितव्या / जिह्वासंस्पर्शजावेदनासत्तया कायसंस्पर्शजावेदनासत्ता वेदितव्या / कायसंस्पर्शजावेदनासत्तया मनःसंस्पर्शजावेदनासत्ता वेदितव्या / मनःसंस्पर्शजावेदनासत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तयाप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तया असंख्येयासत्ता वेदितव्या / असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या / अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयाणां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको या च चक्षुःसंस्पर्शजावेदना या च श्रोत्रसंस्पर्शजावेदना या च घ्राणसंस्पर्शजावेदना या च जिह्वासंस्पर्शजावेदना या च कायसंस्पर्शजावेदना या च मनःसंस्पर्शजावेदना यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः सर्वम् एतन् नोपलभ्यते /

पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या / सत्त्वासत्तया जीवासत्ता वेदितव्या / जीवासत्तया जन्त्वसत्ता वेदितव्या / जन्त्वसत्तया पोषासत्ता वेदितव्या / पोषासत्तया पुरुषासत्ता वेदितव्या / पुरुषासत्तया पुद्गलासत्ता वेदितव्या / पुद्गलासत्तया मनुजासत्ता वेदितव्या / मनुजासत्तया मानवासत्ता वेदितव्या / मानवासत्तया कारकासत्ता वेदितव्या / कारकासत्तया वेदकासत्ता वेदितव्या / वेदकासत्तया जानकासत्ता वेदितव्या / जानकासत्तया पश्यकासत्ता वेदितव्या / पश्यकासत्त्या पृथिवीधात्वसत्ता वेदितव्या / पृथिवीधात्वसत्तया अब्धात्वसत्ता वेदितव्या / अब्धात्वसत्तया तेजोधात्वसत्ता वेदितव्या / तेजोधात्वसत्तया वायुधात्वसत्ता वेदितव्या / वायधात्वसत्तया आकाशधात्वसत्ता वेदितव्या / आकाशधात्वसत्तया विज्ञानधात्वसत्ता वेदितव्या / विज्ञानधात्वसत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तया अप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या / असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या / अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः / तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यश् च पृथिवीधातुर् यश् चाब्धातुर् यश् च तेजोधातुर् यश् च वायुधातुर् यश् चाकाशधातुर् यश् च विज्ञानधातुर् यच् चाकाशं यच् च महायानं यच् चाप्रमेयं / यच् चासंख्येय यच् चापरिमाणं ये च सर्वधर्माः / सर्वम् एतन् नोपलभ्यते /

पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या / सत्त्वासत्तया जीवासत्ता वेदितव्या / जीवासत्तया जन्त्वसत्ता वेदितव्या / जन्त्वसत्तया पोषासत्ता वेदितव्या / पोषासत्तया पुरुषासत्ता वेदितव्या / पुरुषासत्तया पुद्गलासत्ता वेदितव्या / पुद्गलासत्तया मनुजासत्ता वेदितव्या / मनुजासत्तया मानवासत्ता वेदितव्या / मानवासत्तया कारकासत्ता वेदितव्या / कारकासत्तया वेदकासत्ता वेदितव्या / वेदकासत्तया जानकासत्ता वेदितव्या / जानकासत्तया पश्यकासत्ता वेदितव्या / पश्यकासत्तया अविद्यासत्ता वेदितव्या / अविद्यासत्तया संस्कारासत्ता वेदितव्या / संस्कारासत्तया विज्ञानासत्ता वेदितव्या / विज्ञानासत्तया नामरूपासत्ता वेदितव्या / नामरूपासत्तया षडायतनासत्ता वेदितव्या / षडायतनासत्तया स्पर्शासत्ता वेदितव्या / स्पर्शासत्तया वेदनासत्ता वेदितत्या / वेदनासत्तया तृष्णासत्ता वेदितव्या / तृष्णासत्तया उपादानासत्ता वेदितव्या / उपादानासत्तया भवासत्ता वेदितव्या / भवासत्तया जात्यसत्ता वेदितव्या / जात्यसत्तया जरामरणासत्ता वेदितव्या / जरामरणासत्तया आकाशासत्ता वेदितव्या / आकाशासत्तया महायानासत्ता वेदितव्या / महायानासत्तयाप्रमेयासत्ता वेदितव्या / अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या / असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या / अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या / अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको या चाविद्या ये च संस्कारा यच् च विज्ञानं यच् च नामरूपं यच् च षडायतनं यश् च स्पर्शो या च वेदना या च तृष्णा यच् चोपादानं यश् च भवो या च जातिर् यच् च जरामरणं यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः / सर्वम् एतन् नोपलभ्यते /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.