Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता, Part इ
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अभिज्ञानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / समाधीनां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / धारणीमुखानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / तत् कस्य हेतोस् तथा हि सुभूते यो ऽभिज्ञानां स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यः समाधीनां स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यो धारणीमुखानां स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / तत् कस्य हेतोस् तथा हि सुभूते अभिज्ञास्वभावो ऽभिज्ञास्वभावेन शून्यः / समाधिस्वभावः समाधिस्वभावेन शून्यः / धारणीमुखस्वभावो धारणीमुखस्वभावेन शून्यः /
दशानां तथागतबलानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / चतुर्णां वैशारद्यानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / चतसृणां प्रतिसंविदां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / अष्टादशानाम् आवेणिकबुद्धधर्माणां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / तत् कस्य हेतोस् तथा हि सुभूते यो दशानां तथागतबलानां स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यश् चतुर्णां वैशारद्यानां स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यश् चतसृणां प्रतिसंविदां स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यो ऽष्टादशानाम् आवेणिकबुद्धधर्माणां स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / तत् कस्य हेतोस् तथा हि / सुभूते तथागतबलस्वभावस् तथागतबलस्वभावेन शून्यः / वैशारद्यस्वभावो वैशारद्यस्वभावेन शून्यः / प्रतिसंवित्स्वभावः प्रतिसंवित्स्वभावेन शून्यः / आवेणिकबुद्धधर्मस्वभाव आवेणिकबुद्धधर्मस्वभावेन शून्यः /
अर्हतः सुभूते क्षीणाश्रवस्योत्पत्तिम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / प्रत्येकबुद्धस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / बोधिसत्त्वस्य महासत्त्वस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / तथागतस्यार्हतः सम्यक्संबुद्धस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / तत् कस्य हेतोस् तथा हि सुभूते यो ऽर्हतः सम्यक्संबुद्धस्य स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यः प्रत्येकबुद्धस्य स्वभावो न च त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यो बोधिसत्त्वस्य महासत्त्वस्य स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यस् तथागतस्यार्हतः सम्यक्संबुद्धस्य स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / तत् कस्य हेतोस् तथा हि सुभूते अर्हत्स्वभावो ऽर्हत्स्वभावेन शून्यः / प्रत्येकबुद्धस्वभावः प्रत्येकबुद्धस्वभावेन शून्यः / बोधिसत्त्वस्वभावो बोधिसत्त्वस्वभावेन शून्यः / तथागतस्वभावस् तथागतस्वभावेन शून्यः /
श्रोतआपत्तिफलस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / सकृदागामिफलस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / अनागामिफलस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् अर्हत्वस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / प्रत्येकबोधेः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / मर्गाकारज्ञतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / सर्वाकारज्ञतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / तत् कस्य हेतोस् तथा हि सुभूते यः श्रोतआपत्तिफलस्य स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यः सकृदागामिफलस्य स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यो ऽनागामिफलस्य स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यो ऽर्हत्वस्य स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यः प्रत्येकबोधेः स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यो मार्गाकारज्ञतायाः स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यः सर्वाकारज्ञतायाः स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / तत् कस्य हेतोस् तथा हि सुभूते श्रोतआपत्तिफलस्वभावः श्रोतआपत्तिफलस्वभावेन शून्यः / सकृदागामिफलस्वभावः सकृदागामिफलस्वभावेन शून्यः / अनागामिफलस्वभावो ऽनागामिफलस्वभावेन शून्यः / अर्हत्वस्वभावो ऽर्हत्वस्वभावेम शून्यः / प्रत्येकबोधिस्वभावः प्रत्येकबोधिस्वभावेन शून्यः / मार्गाकारज्ञतास्वभावो मार्गाकारज्ञतास्वभावेन शून्यः / सर्वाकारज्ञतास्वभावः सर्वाकारज्ञतास्वभावेन शून्यः /
शब्दः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / निमित्तस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां मिर्याणम् इच्छेत् / सङ्केतस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / व्यवहारस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / प्रज्ञप्तेः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / तत् कस्य हेतोस् तथा हि नामशून्यता नामशून्यतास्वभावेन शून्या / निमित्तशून्यता निमित्तशून्यतास्वभावेन शून्या / सङ्केतशून्यता सङ्केतशून्यतास्वभावेन शून्या / व्यवदानशून्यता व्यवदानशून्यतास्वभावेन शून्या / प्रज्ञप्तिशून्यता प्रज्ञप्तिशून्यतास्वभावेन शून्या /
अनुत्पादस्य सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / अनिरोधस्य सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / संक्लेशस्य सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / व्यवदानस्य सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / अनभिसंस्कारस्य सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / तत् कस्य हेतोस् तथा हि यो ऽनुत्पादस्य स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यो ऽनिरोधस्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यः संक्लेशस्य स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यो व्यवदानस्य स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यो ऽनभिसंस्कारस्य स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / तत् कस्य हेतोस् तथा हि / अनुत्पादस्वभावो ऽनुत्पादस्वभावेन शून्यः / निरोधस्वभावो निरोधस्वभावेन शून्यः / संक्लेशस्वभावः संक्लेशस्वभावेन शून्यः / व्यवदानस्वभावो व्यवदानस्वभावेन शून्यः / अनभिसंस्कारस्वभावो ऽनभिसंस्कारस्वभावेन शून्यः /
तद् अनेनापि ते सुभूते पर्यायेणैवं वेदितव्यम् / महायानं त्रैधातुकान् निर्याति / येन सर्वाकारज्ञता तेन यास्यत्य् अचाल्य तत् स्थानं / यत् पुनः सुभूतिर् एवम् आह / क्व तद् यानं स्थास्यतीति / न क्वचित् तद् यानं स्थास्यति / तत् कस्य हेतोस् तथा ह्य् अस्थिताः सर्वधर्माः प्रतिष्ठानुपलब्धितः / अपि तु खलु पुनः सुभूते अस्थानस्थानयोगेन तद् यानं स्थास्यति / तद्यथापि नाम सुभूते धर्मधातुर् न स्थितो नास्थितः / एवम् एव सुभूते तद् यानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते तथता न स्थिता नास्थिता / एवम् एव सुभूते तद् यानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते भूतकोटिर् न स्थिता नास्थिता / एवम् एव तद् यानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते ऽचिन्त्यधातुर् न स्थितो नास्थितः / एवम् एव तद् यानं न स्थितं नास्थितं / तत् कस्य हेतोर् न हि सुभूते धर्मधातुस्वभावः स्थितो वास्थितो वा / न तथतायाः स्वभावः स्थितो वास्थितो वा / न भूतकोटेः स्वभावः स्थितो वास्थितो वा / नाचिन्त्यधातुस्वभावः स्थितो वास्थितो वा / तत् कस्य हेतोस् तथा हि सुभूते / धर्मधातुस्वभावो धर्मधातुस्वभावेन शून्यः / तथतास्वभावस् तथतास्वभावेन शून्यः / भूतकोटेः स्वभावो भूतकोटिस्वभावेन शून्यः / अचिन्त्यधातुस्वभावो ऽचिन्त्यधातुस्वभावेन शून्यः / तद्यथापि नाम सुभूते आकाशधातुर् न स्थितो नास्थितः / एवम् एव सुभूते तद् यानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते रागक्षयधातुर् न स्थितो नास्थितः / एवम् एव सुभूते तद् यानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते प्रहाणधातुर् न स्थितो नास्थितः /
एवम् एव सुभूते तद् यानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते विरागधातुर् न स्थितो नास्थितः / एवम् एव सुभूते यद् यानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते निरोधधातुर् न स्थितो नास्थितः / एवम् एव सुभूते तद् यानं न स्थितं नास्थितं / तत् कस्य हेतोर् न हि सुभूते / आकाशधातुः स्थितो वास्थितो वा / न रागक्षयधातुस्वभावः स्थितो वास्थितो वा / न प्रहाणधातुस्वभावः स्थितो वास्थितो वा / न विरागधातुस्वभावः स्थितो वास्थितो वा / न निरोधधातुस्वभावः स्थितो वास्थितो वा / तत् कस्य हेतोस् तथा हि सुभूते / आकाशधातुस्वभाव आकाशधातुस्वभावेन शून्याः / रागक्षयधातुस्वभावो रागक्षयधातुस्वभावेन शून्यः / प्रहाणधातुस्वभावः प्रहाणधातुस्वभावेन शून्यः / विरागधातुस्वभावो विरागधातुस्वभावेन शून्यः / निरोधधातुस्वभावो निरोधधातुस्वभावेन शून्यः /
तद्यथापि नाम सुभूते रूपशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते वेदनाशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते संज्ञाशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं / न स्थितं नास्थितं / तद्यथापि नाम सुभूते संस्कारशून्यता न स्थिता नास्तिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते विज्ञानशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तत् कस्य हेतोस् तथा हि सुभूते न रूपस्वभावः स्थितो वास्थितो वा / न वेदनास्वभावः स्थितो वास्थितो वा / न संज्ञास्वभावः स्थितो वास्थितो वा / न संस्कारस्वभावः स्थितो वास्थितो वा / न विज्ञानस्वभावः स्थितो वास्थितो वा / तत् कस्य हेतोस् तथा हि / रूपं रूपेण शून्यं वेदना वेदनया शून्या / संज्ञा संज्ञया शून्या / संस्काराः संस्कारैः शून्याः / विज्ञानं विज्ञानेन शून्या /
तद्यथापि नाम सुभूते चक्षुःशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते श्रोत्रशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते घ्राणशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते जिह्वाशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते कायशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते मनःशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तत् कस्य हेतोर् न हि सुभूते चक्षुःस्वभावः स्थितो वास्थितो वा / न श्रोत्रस्वभावः स्थितो वास्थितो वा / न घ्राणस्वभावः स्थितो वास्थितो वा / न जिह्वास्वभावः स्थितो वास्थितो वा / कायस्वभावः स्थितो वास्थितो वा / मनःस्वभावः स्थितो वास्थितो वा / तत् कस्य हेतोस् तथा हि चक्षुश् चक्षुषा शून्यं श्रोत्रं श्रोत्रेण शून्यं / घ्राणं घ्राणेन शून्यं / जिह्वा जिह्वया शून्या कायः कायेन शून्यः / मनो मनसा शून्यं /
तद्यथापि नाम सुभूते रूपशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते शब्दशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते गन्धशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते रसशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते स्पर्शशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते धर्मशून्यता न स्थिथा नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तत् कस्य हेतोर् न हि सुभूते रूपस्वभावः स्थितो वास्थितो वा / न शब्दस्वभावः स्थितो वास्थितो वा / न गन्धस्वभावः स्थितो वास्थितो वा / न रसस्वभावः स्थितो वास्थितो वा / न स्पर्शस्वभावः स्थितो वास्थितो वा / न धर्मस्वभावः स्थितो वास्थितो वा / तत् कस्य हेतोस् तथा हि रूपं रूपेण शून्यं / शब्दो शब्देन शून्यः / गन्धो गन्धेन शून्यः / रसो रसेन शून्यः / स्पर्शः स्पर्शेन शून्यः / धर्मः धर्मैः शून्याः /
तद्यथापि नाम सुभूते चक्षुर्विज्ञानशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते श्रोत्रविज्ञानशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते घ्राणविज्ञानशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते जिह्वाविज्ञानशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते कायविज्ञानशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते मनोविज्ञानशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तत् कस्य हेतोर् न हि सुभूते चक्षुर्विज्ञानस्वभावः स्थितो वास्थितो वा / न श्रोत्रविज्ञानस्वभावः स्थितो वास्थितो वा / न घ्राणविज्ञानस्वभावः स्थितो वास्थितो वा / न जिह्वाविज्ञानस्वभावः स्थितो वास्थितो वा / न कायविज्ञानस्वभावः स्थितो वास्थितो वा / मनोविज्ञानस्वभावः स्थितो वास्थितो वा / तत् कस्य हेतोस् तथा हि चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं / श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं / घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं / जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं / कायविज्ञानं कायविज्ञानेन शून्यं / मनोविज्ञानं मनोविज्ञानेन शून्यम् /
तद्यथापि नाम सुभूते चक्षुःसंस्पर्शशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते श्रोत्रसंस्पर्शशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते घ्राणसंस्पर्शशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते जिह्वासंस्पर्शशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते कायसंस्पर्शशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथा नाम सुभूते मनःसंस्पर्शशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तत् कस्य हेतोर् न हि चक्षुःसंस्पर्शस्वभावः स्थितो वास्थितो वा / न घ्राणसंस्पर्शस्वभावः स्थितो वास्थितो वा / न जिह्वासंस्पर्शस्वभावः स्थितो वास्थितो वा / न कायसंस्पर्शस्वभावः स्थितो वास्थितो वा / न मनःसंस्पर्शस्वभावः स्थितो वास्थितो वा / तत् कस्य हेतोस् तथा हि सुभूते चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः / श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यः / घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यः / जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः / कायसंस्पर्शः कायसंस्पर्शेन शून्यः / मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः /
तद्यथापि नाम सुभूते चक्षुःसंस्पर्शप्रत्ययवेदितशून्यता न स्थिता नास्थ्तिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते श्रोत्रसंस्पर्शप्रत्ययवेदितशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते घ्राणसंस्पर्शप्रत्ययवेदितशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते जिह्वासंस्पर्शप्रत्ययवेदितशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते कायसंस्पर्शप्रत्ययवेदितशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते मनःसंस्पर्शप्रत्ययवेदितशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तत् कस्य हेतोर् न हि सुभूते चक्षुःसंस्पर्शप्रत्ययवेदितस्वभावः स्थितो वास्थितो वा / न श्रोत्रसंस्पर्शप्रत्ययवेदितस्वभावः स्थितो वास्थितो वा / न घ्राणसंस्पर्शप्रत्ययवेदितस्वभावः स्थितो वास्थितो वा / न जिह्वासंस्पर्शप्रत्ययवेदितस्वभावः स्थितो वास्थितो वा / न कायसंस्पर्शप्रत्ययवेदितस्वभावः स्थितो वास्थितो वा / न मनःसंस्पर्शप्रत्ययवेदितस्वभावः स्थितो वास्थितो वा / तत् कस्य हेतोस् तथा हि चक्षुःसंस्पर्शप्रत्ययवेदितं चक्षुःसंस्पर्शप्रत्ययवेदितेन शून्यं / श्रोत्रसंस्पर्शप्रत्ययवेदितं श्रोत्रसंस्पर्शप्रत्ययवेदितेन शून्यं / घ्राणसंस्पर्शप्रत्ययवेदितं घाणसंस्पर्शप्रत्ययवेदितेन शून्यं / जिह्वासंस्पर्शप्रत्ययवेदितं जिह्वासंस्पर्शप्रत्ययवेदितेन शून्यं / कायसंस्पर्शप्रत्ययवेदितं कायसंस्पर्शप्रत्ययवेदितेन शून्यं / मनःसंस्पर्शप्रत्ययवेदितं मनःसंस्पर्शप्रत्ययवेदितेन शून्यम् /
तद्यथापि नाम सुभूते स्वप्नो न स्थितो नास्थितः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते माया न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते मरीचिर् न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते प्रतिश्रुत्का न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते प्रतिभासो न स्थितो नास्थितः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते तथागतनिर्मितो न स्थितो नास्थितः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तत् कस्य हेतोर् न हि स्वप्नस्वभावः स्थितो वास्थितो वा / न मायास्वभावः स्थितो वास्थितो वा / न मरीचिस्वभावः स्थितो वास्थितो वा / स प्रतिश्रुत्कस्वभावः स्थितो वास्थितो वा / न प्रतिभासस्वभावः स्थितो वास्थितो वा / न तथागतनिर्मितस्वभावः स्थितो वास्थितो वा / तत् कस्य हेतोस् तथा हि स्वप्नः स्वप्नेन शून्यः / माया मायया शून्या / मरीचिर् मरीच्या शून्या / प्रतिश्रुत्का प्रतिश्रुत्कया शून्या / प्रतिभासः प्रतिभासेन शून्यः / तथागतनिर्मितस् तथागतनिर्मितेन शून्यः /
तद्यथापि नाम सुभूते दानपारमिता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते शीलपारमिता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते क्षान्तिपारमिता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते वीर्यपारमिता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते ध्यानपारमिता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते प्रज्ञापारमिता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तत् कस्य हेतोर् न हि सुभूते दानपारमितास्वभावः स्थितो वास्थितो वा / न शीलपारमितास्वभावः स्थितो वास्थितो वा / न क्षान्तिपारमितास्वभावः स्थितो वास्थितो वा / न वीर्यपारमितास्वभावः स्थितो वास्थितो वा / न ध्यानपारमितास्वभावः स्थितो वास्थितो वा / न प्रज्ञापारमितास्वभावः स्थितो वास्थितो वा / तत् कस्य हेतोस् तथा हि दानपारमिता दानपारमिताया शून्या / शीलपारमिता शीलपारमिताया शून्या / क्षान्तिपारमिता क्षान्तिपारमिताया शून्या / वीर्यपारमिता वीर्यपारमिताया शून्या / ध्यानपारमिता ध्यानपारमिताया शून्या / प्रज्ञापारमिता प्रज्ञापारमिताया शून्या /
तद्यथापि नाम सुभूते अध्यात्मशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते बहिर्धाशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते अध्यात्मबहिर्धाशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते शून्यताशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते महाशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते परमार्थशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते संस्कृतशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते ऽसंस्कृतशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते अत्यन्तशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते ऽनवराग्रशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते ऽनवकारशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते प्रकृतिशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते तन् महायानं न स्थितं नास्थितं /
तद्यथापि नाम सुभूते सर्वधर्मशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महयानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते स्वलक्षणशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते ऽनुपलम्भशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते ऽभावशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते स्वभावशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते अभावस्वभावशून्यता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितम् /
तत् कस्य हेतोर् न हि सुभूते ऽध्यात्मशून्यतास्वभावः स्थितो वास्थितो वा / न बहिर्धाशून्यतास्वभावः स्थितो वास्थितो वा / नाध्यात्मबहिर्धाशून्यतास्वभावः स्थितो वास्थितो वा / न शून्यताशून्यतास्वभावः स्थितो वास्थितो वा / न महाशून्यतास्वभावः स्थितो वास्थितो वा / न परमार्थशून्यतास्वभावः स्थितो वास्थितो वा / न संस्कृतशून्यतास्वभावः स्थितो वास्थितो वा / नासंस्कृतशून्यतास्वभावः स्थितो वास्थितो वा / नात्यन्तशून्यतास्वभावः स्थितो वास्थितो वा / नानवराग्रशून्यतास्वभावः स्थितो वास्थितो वा / नानवकारशून्यतास्वभावः स्थितो वास्थितो वा / न प्रकृतिशून्यतास्वभावः स्थितो वास्थितो वा / न सर्वधर्मशून्यतास्वभावः स्थितो वास्थितो वा / न स्वलक्षणशून्यतास्वभावः स्थितो वास्थितो वा / नानुपलम्भशून्यतास्वभावः स्थितो वास्थितो वा / नाभावशून्यतास्वभावः स्थितो वास्थितो वा / न स्वभावशून्यतास्वभावः स्थितो वास्थितो वा / नाभावस्वभावशून्यतास्वभावः स्थितो वास्थितो वा /
तत् कस्य हेतोस् तथा ह्य् अध्यात्मशून्यताध्यात्मशून्यतया शून्या / बहिर्धाशून्यता बहिर्धाशून्यतया शून्या / अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतया शून्या / शून्यताशून्यता शून्यताशून्यतया शून्या / महाशून्यता महाशून्यतया शून्या / परमार्थशून्यता परमार्थशून्यतया शून्या / संस्कृतशून्यता संस्कृतशून्यतया शून्या / असंस्कृतशून्यता असंस्कृतशून्यतया शून्या / अत्यन्तशून्यता अत्यन्तशून्यतया शून्या / अनवराग्रशून्यता अनवराग्रशून्यतया शून्या / अनवकारशून्यतानवकारशून्यतया शून्या / प्रकृतिशून्यता प्रकृतिशून्यतया शून्या / सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या / स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या / अनुपलम्भशून्यतानुपलम्भशून्यतया शून्या / अभावशून्यता अभावशून्यतया शून्या / स्वभावशून्यतया स्वभावशून्यता शून्या / अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या /
तद्यथापि नाम सुभूते स्मृत्युपस्थानानि न स्थितानि नास्थितानि / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते सम्यक्प्रहाणानि न स्थितानि नास्थितानि / एवम् अपि सुभूते तन् महायानं नस्थितं नास्थितं / तद्यथापि नाम सुभूते ऋद्धिपादाः न स्थिता नास्थिताः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते इन्द्रियाणि न स्थितानि नास्थितानि / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम शुभूते बलानि न स्थितानि नास्थितानि / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते बोध्यङ्गानि न स्थितानि नास्थितानि / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते आर्याष्टाङ्गामार्गो न स्थितो नास्थितः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तत् कस्य हेतोर् न हि सुभूते स्मृत्युपस्थानस्वभावः स्थितो वास्थितो वा / न सम्यक्प्रहाणस्वभावः स्थितो वास्थितो वा / नार्धिपादस्वभावः स्थितो वास्थितो वा / नेन्द्रियस्वभावः स्थितो वास्थितो वा / न बलस्वभावः स्थितो वास्थितो वा / न बोध्यङ्गस्वभावः स्थितो वास्थितो वा / नार्याष्टाङ्गमार्गस्वभावः स्थितो वास्थितो वा / तत् कस्य हेतोस् तथा हि स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि / सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि / ऋद्धिपादाः ऋद्धिपादैः शून्याः / इन्द्रियाणीन्द्रियैः शून्यानि / बालानि बलैः शून्यानि / बोध्यङ्गानि बोध्यङ्गैः शून्यानि / मार्गो मार्गेण शून्यः /
तद्यथापि नाम सुभूते आर्यसत्यानि न स्थितानि नास्थितानि / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते ध्यानानि न स्थितानि नास्थितानि / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते अप्रमाणानि न स्थितानि नास्थितानि / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते आरूप्यसमापत्तयो न स्थिता नास्थिताः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते ऽष्टौ विमोक्षाः न स्थिता नास्थिताः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते अनुपूर्वविहारसमापत्तयो न स्थिताः नास्थिताः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न स्थितानि नास्थितानि / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते अभिज्ञा न स्थिता नास्थिताः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते समाधयो न स्थिता नास्थिताः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते धारणीमुखानि न स्थितानि नास्थितानि / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तत् कस्य हेतोर् न हि सुभूते आर्यसत्यस्वभावः स्थितो वास्थितो वा / न ध्यानस्वभावः स्थितो वास्थितो वा / नाप्रमाणस्वभावः स्थितो वास्थितो वा / नारूप्यसमापत्तिस्वभावः स्थितो वास्थितो वा / नाष्टविमोक्षस्वभावः स्थितो वास्थितो वा / नानुपूर्वविहारसमापत्तिस्वभावः स्थितो वास्थितो वा /
न शून्यतानिमित्ताप्रणिहितविमोक्षस्वभावः स्थितो वास्थितो वा नाभिज्ञास्वभावः स्थितो वास्थितो वा / न समाधिस्वभावः स्थितो वास्थितो वा / न धारणीमुखस्वभावः स्थितो वास्थितो वा / तत् कस्य हेतोस् तथा ह्य् आर्यसत्यान्य् आर्यसत्यैः शून्यानि / ध्यानानि ध्यानैः शून्यानि / अप्रमाणान्य् अप्रमाणैः शून्यानि / आरूप्यसमापत्तयः आरूप्यसमापत्तिभिः शून्याः / विमोक्षाः विमोक्षैः शून्याः / अनुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तिभिः शून्याः / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखैः शून्यानि / अभिज्ञाः अभिज्ञाभिः शून्याः / समाधयः समाधिभिः शून्याः / धारणीमुखानि धारणीमुखैः शून्यानि /
तद्यथापि नाम सुभूते दश तथागतबलानि न स्थितानि नास्थितानि / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते चत्वारि वैशारद्यानि न स्थितानि नास्थितानि / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते चतस्रः प्रतिसंविदो न स्थिताः नास्थिताः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते महाकरुणा न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते अष्टादशावेणिकबुद्धधर्मा न स्थिताः नस्थिताः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तत् कस्य हेतोर् न हि सुभूते दशतथागतबलास्वभावः स्थितो वास्थितो वा / न वैशारद्यस्वभावः स्थितो वास्थितो वा / न प्रतिसंवित्स्वभावः स्थितो वास्थितो वा / न महाकरुणास्वभावः स्थितो वास्थितो वा / नावेणिकबुद्धधर्मस्वभावः स्थितो वास्थितो वा / तत् कस्य हेतोस् तथा हि दशतथागतबलानि बलैः शून्यानि / चत्वारि वैशारद्यानि वैशारद्यैः शून्यानि / चतस्रः प्रतिसंविदः प्रतिसंवित्स्वभावैः शून्याः / महाकरुणा महाकरुणया शून्या / अष्टादशावेणिकबुबुद्धधर्माः आवेणिकबुद्धधर्मैः शून्याः /
तद्यथापि नाम सुभूते ऽर्हत्क्षीणाश्रया न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते प्रत्येकबुद्धो न स्थितो नास्थितः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तत् कस्य हेतोर् न हि सुभूते ऽर्हत्क्षीणाश्रवस्वभावः स्थितो वास्थितो वा / न प्रत्येकबुद्धस्वभावः स्थितो वास्थितो वा / तत् कस्य हेतोस् तथा हि अर्हत्स्वभावो ऽर्हत्स्वभावेन शून्यः / प्रत्येकबुद्धस्वभावः प्रत्येकबुद्धस्वभावेन शून्यः /
तद्यथापि नाम सुभूते बोधिसत्त्वो न स्थितो नास्थितः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते तथागतो ऽर्हत् सम्यक्संबुद्धो न स्थितो नास्थितः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तत् कस्य हेतोर् न हि सुभूते बोधिसत्त्वस्वभावः स्थितो वास्थितो वा / न तथागतस्वभावः स्थितो वास्थितो / तत् कस्य हेतोस् तथा हि बोधिसत्त्वस्वभावो बोधिसत्त्वस्वभावेन शून्यः / तथागतस्वभावस् तथागतस्वभावेन शून्यः /
तद्यथापि नाम सुभूते श्रोतआपत्तिफलं न स्थितं नास्थितं / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते सकृदागामिफलं न स्थितं नास्थितं / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते अनागामिफलं न स्थितं नास्थितं / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते ऽर्हत्वं न स्थितं नास्थितं / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते प्रत्येकबोधिर् न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तत् कस्य हेतोर् न हि सुभूते श्रोतआपत्तिफलस्वभावः स्थितो वास्थितो वा / न सकृदागामिफलस्वभावः स्थितो वास्थितो वा / नानागामिफलस्वभावः स्थितो वास्थितो वा / नार्हत्त्वस्वभावः स्थितो वास्थितो वा / न प्रत्येकबोधिस्वभावः स्थितो वास्थितो वा / तत् कस्य हेतोस् तथा हि श्रोतआपत्तिफलस्वभावः श्रोतआपत्तिफलस्वभावेन शून्यः / सकृदागामिफलस्वभावः सकृदागामिफलस्वभावेन शून्यः / अनागामिफलस्वभावो ऽनागामिफलस्वभावेन शून्यः / अर्हत्त्वस्वभावो ऽर्हत्त्वस्वभावेन शून्यः / प्रत्येकबोधिस्वभावः प्रत्येकबोधिस्वभावेन शून्यः /
तद्यथापि नाम सुभूते मार्गाकारज्ञता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते सर्वाकारज्ञता न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तत् कस्य हेतोर् न सुभूते मार्गाकारज्ञतास्वभावः स्थितो वास्थितो वा / न सर्वाकारज्ञतास्वभावः स्थितो वास्थितो वा / तत् कस्य हेतोस् तथा हि मार्गाकारज्ञतास्वभावो मार्गाकारज्ञतास्वभावेन शून्यः / सर्वाकारज्ञतास्वभावः सर्वाकारज्ञतास्वभावेन शून्यः /
तद्यथापि नाम सुभूते नाम स्वभावं न स्थितं नास्थितं / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते निमित्तं न स्थितं नास्थितं / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते सङ्केतो न स्थितो नास्थितः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते व्यवहारो न स्थितो नास्थितः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते प्रज्ञप्तिर् न स्थिता नास्थिता / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तत् कस्य हेतोर् न हि सुभूते नाम स्वभावः स्थितो वास्थितो वा / न नाम निमित्तस्वभावः स्थितो वास्थितो वा / न सङ्केतस्वभावः स्थितो वास्थितो वा / न व्यवहारस्वभावः स्थितो वास्थितो वा / न प्रज्ञप्तिस्वभावः स्थितो वास्थितो वा / तत् कस्य हेतोस् तथा हि नाम स्वभावो नाम स्वभावेन शून्यः / निमित्तस्वभावो निमित्तस्वभावेन शून्यः / सङ्केतस्वभावः सङ्केत्स्वभावेन शून्यः / व्यवहारस्वभावो व्यवहारस्वभावेन शून्यः / प्रज्ञप्तिस्वभावः प्रज्ञप्तिस्वभावेन शून्यः /
तद्यथापि नाम सुभूते ऽनुत्पादो न स्थितो नास्थितः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते ऽनिरोधो न स्थितो नास्थितः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि न सुभूते ऽसंक्लेशो न स्थितो नास्थितः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तद्यथापि नाम सुभूते ऽव्यवदानं न स्थितं नास्थितं / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तत् कस्य हेतोर् न हि सुभूते ऽनुत्पादस्वभावः स्थितो वास्थितो वा / न निरोधस्वभावः स्थितो वास्थितो वा / नासंक्लेशस्वभावः स्थितो वास्थितो वा / नाव्यवदानस्वभावः स्थितो वास्थितो वा / तत् कस्य हेतोस् तथा हि अनुत्पादस्वभावो ऽनुत्पादस्वभावेन शून्यः / अनिरोधस्वभावो ऽनिरोधस्वभावेन शून्यः / असंक्लेशस्वभावो ऽसंक्लेशस्वभावेन शून्यः / अव्यवदानस्वभावो ऽव्यवदानस्वभावेन शून्यः /
तद्यथापि नाम सुभूते ऽनभिसंस्कारो न स्थितो नास्थितः / एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं / तत् कस्य हेतोर् न हि सुभूते ऽनभिसंस्कारस्वभावः स्थितो वास्थितो वा / तत् कस्य हेतोस् तथा हि अनभिसंस्कारस्वभावो ऽनभिसंस्कारस्वभावेन शून्यः / अनेन पर्यायेण तद् यानं न क्वचित् स्थास्यत्य् अस्थितस्थानयोगेन /
यत् पुनः सुभूतिर् एवम् आह कस् तेन यानेन निर्यास्यतीति / न कश्चित् तेन यानेन निर्यास्यतीति / न कश्चित् तेन यानेन निर्याति / तत् कस्य हेतोस् तथा हि सुभूते यच् च तद् यानं यश् च निर्यायाद् येन च निर्यायाद् यतश् च निर्यायात् / सर्वत्र ते धर्मा न संविद्यन्ते नोपलभ्यन्ते / एवम् असंविद्यमानेष्व् अनुपलभ्यमानेषु सर्वधर्मेषु कतमो धर्मः कतमेन धर्मेण निर्यास्यति / तत् कस्य हेतोस् तथा हि सुभूते ऽत्यन्ततथात्मा नोपलभ्यते / सत्त्वो नोपलभ्यते / जीवो नोपलभ्यते / जन्तुर् नोपलभ्यते / पोषो नोपलभ्यते / पुरुषो नोपलभ्यते / पुद्गलो नोपलभ्यते / मनुजो नोपलभ्यते / मानवो नोपलभ्यते / कारको नोपलभ्यते / वेदको नोपलभ्यते / जानको नोपलभ्यते / पश्यको नोपलभ्यते / अत्यन्तविशुद्धिताम् उपादाय / आत्मनो ऽत्यन्तविशुद्धिताम् उपादाय / सत्त्वस्यात्यन्तविशुद्धिताम् उपादाय / जीवस्यात्यन्तविशुद्धिताम् उपादाय / जन्तोर् अत्यन्तविशुद्धिताम् उपादाय / पोषस्यात्यन्तविशुद्धिताम् उपादाय / पुरुषस्यात्यन्तविशुद्धिताम् उपादाय / पुद्गलस्यात्यन्तविशुद्धिताम् उपादाय / मनुजस्यात्यन्तविशुद्धिताम् उपादाय / मानवस्यात्यन्तविशुद्धिताम् उपादाय / कारकस्यात्यन्तविशुद्धिताम् उपादाय / वेदकस्यात्यन्तविशुद्धिताम् उपादाय / जानकस्यात्यन्तविशुद्धिताम् उपादाय / पश्यकस्यात्यन्तविशुद्धिताम् उपादाय / धर्मधातुर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / तथता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / भूतकोटिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अचिन्त्यधातुर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / स्कन्धा नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / धातवो नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / आयतनानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / प्रतीत्यसमुत्पादो नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / दानपारमिता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / शीलपारमिता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / क्षान्तिपारमिता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / वीर्यपारमिता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / ध्यानपारमिता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / प्रज्ञापारमिता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय /
अध्यात्मशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / बहिर्धाशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अध्यात्मबहिर्धाशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / शून्यताशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / महाशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / परमार्थशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / संस्कृतशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / असंस्कृतशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अत्यन्तशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अनवराग्रशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अनवकारशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / प्रकृतिशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / सर्वधर्मशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / स्वलक्षणशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अनुपलम्भशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अभावशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / स्वभावशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अभावस्वभावशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय /
स्मृत्युपस्थानानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / सम्यक्प्रहाणानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाया / ऋद्धिपादा नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / इन्द्रियाणि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / बलानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / बोध्यङ्गानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / आर्याष्टाङ्गमार्गो नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / आर्यसत्यानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / ध्यानानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / अप्रमाणानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / आरूप्यसमापत्तयो नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / अष्टौ विमोक्षा नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / अनुपूर्वविहारसमापत्तयो नोपलभ्यन्ते ऽन्यन्तविशुद्धिताम् उपादाय / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / अभिज्ञा नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / समाधयो नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / धारणीमुखानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / तथागतबलानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / वैशारद्यानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / प्रतिसंविदो नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / महाकरुणा नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / आवेणिकबुद्धधर्मा नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / श्रोतआपत्ती नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय / सकृदागामिनो नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / अनागामिनो नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / अर्हन्तो नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय /
प्रत्येकबुद्धा नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / बोधिसत्त्वा नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय / तथागतो ऽर्हन् सम्यक्संबुद्धो नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / श्रोतआपत्तिफलं नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / सकृदागामिफलं नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अनागामिफलं नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अर्हत्वं नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / प्रत्येकबोधिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / मार्गाकारज्ञता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / सर्वाकारज्ञता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अनुत्पादो नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अनिरोधो नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / असंक्लेशो नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अव्यवदानं नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अनभिसंस्कारो नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / पूर्वान्तो नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अपरान्तो नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / प्रत्युत्पन्नं नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / आगामि नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / गतिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / स्थितिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / च्युतिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / उपपत्तिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / हानिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / वृद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / कस्यानुपलब्ध्या सर्वं नोपलभ्यते /
धर्मधात्वनुपलब्ध्या नोपलभ्यते धर्मधातुस् तत् कस्य हेतोर् न हि सुभूते धर्मधात्वनुपलब्धिर् उपलभ्यते नोपलभ्यते / तथतानुपलब्ध्या नोपलभ्यते / तत् कस्य हेतोर् न हि सुभूते तथतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / भूतकोट्यनुपलब्ध्या नोपलभ्यते भूतकोटिस् तत् कस्य हेतोर् न हि सुभूते भूतकोट्यनुपलब्धिर् उपलभ्यते नोपलभ्यते / अचिन्त्यधात्वनुपलब्ध्या नोपलभ्यते / अचिन्त्यधातुस् तत् कस्य हेतोर् न हि सुभूते ऽचिन्त्यधात्वनुपलब्धिर् उपलभ्यते न नोपलभ्यते / स्कन्धधात्वायतनानुपलब्ध्या नोपलभ्यते स्कन्धधात्वायतनानि / तत् कस्य हेतोर् न हि सुभूते स्कन्धधात्वायतनानुपलब्धिर् उपलभ्यते न नोपलभ्यते / प्रतीत्यसमुत्पादानुपलब्ध्या नोपलभ्यते प्रतीत्यम् उत्पादः / तत् कस्य हेतोर् न हि सुभूते प्रतीत्यसमुत्पादानुपलब्धिर् उपलभ्यते न नोपलभ्यते /
दानपारमितानुपलब्ध्या नोपलभ्यते दानपारमिता / तत् कस्य हेतोर् न हि सुभूते दानपारमितानुपलब्धिर् उपलभ्यते न नोपलभ्यते / शीलपारमितानुपलब्ध्या नोपलभ्यते शीलपारमिता / तत् कस्य हेतोर् न हि सुभूते शीलपारमितानुपलब्धिर् उपलभ्यते न नोपलभ्यते / क्षान्तिपारमितानुपलब्ध्या नोपलभ्यते क्षान्तिपारमिता / तत् कस्य हेतोर् न हि सुभूते क्षान्तिपारमितानुपलब्धिर् उपलभ्यते न नोपलभ्यते / वीर्यपारमितानुपलब्ध्या नोपलभ्यते वीर्यपारमिता / तत् कस्य हेतोर् न हि सुभूते वीर्यपारमितानुपलब्धिर् उपलभ्यते न नोपलभ्यते / ध्यानपारमितानुपलब्ध्या नोपलभ्यते ध्यानपारमिता / तत् कस्य हेतोर् न हि सुभूते ध्यानपारमितानुपलब्धिर् उपलभ्यते न नोपलभ्यते / प्रज्ञापारमितानुपलब्ध्या नोपलभ्यते प्रज्ञापारमिता / तत् कस्य हेतोर् न हि सुभूते प्रज्ञापारमितानुपलब्धिर् उपलभ्यते न नोपलभ्यते /
अध्यात्मशून्यतानुपलब्ध्या नोपलभ्यते अध्यात्मशून्यता / तत् कस्य हेतोर् न हि सुभूते अध्यात्मशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / बहिर्धाशून्यतानुपलब्ध्या नोपलभ्यते बहिर्धाशून्यता / तत् कस्य हेतोर् न हि सुभूते बहिर्धाशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / अध्यात्मबहिर्धाशून्यतानुपलब्ध्या नोपलभ्यते अध्यात्मबहिर्धाशून्यता / तत् कस्य हेतोर् न हि सुभूते अध्यात्मबहिर्धाशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / शून्यताशून्यतानुपलब्ध्या नोपलभ्यते शून्यताशून्यता / तत् कस्य हेतोर् न हि सुभूते शून्यताशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / महाशून्यतानुपलब्ध्या नोपलभ्यते महाशून्यता / तत् कस्य हेतोर् न हि सुभूते महाशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / परमार्थशून्यतानुपलब्ध्या नोपलभ्यते परमार्थशून्यता / तत् कस्य हेतोर् न हि सुभूते परमार्थशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / संस्कृतशून्यतानुपलब्ध्या नोपलभ्यते संस्कृतशून्यता / तत् कस्य हेतोर् न हि सुभूते संस्कृतशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / असंस्कृतशून्यतानुपलब्ध्या नोपलभ्यते ऽसंस्कृतशून्यता / तत् कस्य हेतोर् न हि सुभूते ऽसंस्कृतशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / अत्यन्तशून्यतानुपलब्ध्या नोपलभ्यते ऽत्यन्तशून्यता / तत् कस्य हेतोर् न हि सुभूते ऽत्यन्तशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / अनवराग्रशून्यतानुपलब्ध्या नोपलभ्यते ऽनवराग्रशून्यता / तत् कस्य हेतोर् न हि सुभूते अनवराग्रशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते /
अनवकारशून्यतानुपलब्ध्या नोपलभ्यते ऽनवकारशून्यता / तत् कस्य हेतोर् न हि सुभूते ऽनवकारशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / प्रकृतिशून्यतानुपलब्ध्या नोपलभ्यते प्रकृतिशून्यता / तत् कस्य हेतोर् न हि सुभूते प्रकृतिशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / सर्वधर्मशून्यतानुपलब्ध्या नोपलभ्यते सर्वधर्मशून्यता / तत् कस्य हेतोर् न हि सुभूते सर्वधर्मरशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / स्वलक्षणशून्यतानुपलब्ध्या नोपलभ्यते स्वलक्षणशून्यता / तत् कस्य हेतोर् न हि सुभूते स्वलक्षणशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / अनुपलम्भशून्यतानुपलब्ध्या नोपलभ्यते ऽनुपलम्भशून्यता / तत् कस्य हेतोर् न हि सुभूते ऽनुपलम्भशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / अभावशून्यतानुपलब्ध्या नोपलभ्यते अभावशून्यता / तत् कस्य हेतोर् न हि सुभूते ऽभावशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / स्वभावशून्यतानुपलब्ध्या नोपलभ्यते स्वभावशून्यता / तत् कस्य हेतोर् न हि सुभूते स्वभावशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / अभावस्वभावशून्यतानुपलब्ध्या नोपलभ्यते ऽभावस्वभावशून्यता / तत् कस्य हेतोर् न हि सुभूते अभावस्वभावशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते /
स्मृत्युपस्थानानुपलब्ध्या नोपलभ्यन्ते स्मृत्युपस्थानानि / तत् कस्य हेतोर् न हि सुभूते स्मृत्युपस्थानानुपलब्धिर् उपलभ्यते न नोपलभ्यते / सम्यक्प्रहाणानुपलब्ध्या नोपलभ्यन्ते सम्यक्प्रहाणानि / तत् कस्य हेतोर् न हि सुभूते सम्यक्प्रहाणानुपलब्धिर् उपलभ्यते न नोपलभ्यते / ऋद्धिपादानुपलब्ध्या नोपलभ्यन्ते ऋद्धिपादाः / तत् कस्य हेतोर् न हि सुभूते ऋद्धिपादानुपलब्धिर् उपलभ्यते न नोपलभ्यते / इन्द्रियानुपलब्ध्या नोपलभ्यन्ते इन्द्रियाणि / तत् कस्य हेतोर् न हि सुभूते इन्द्रियानुपलब्धिर् उपलभ्यते न नोपलभ्यते / बलानुपलब्ध्या नोपलभ्यन्ते बलानि / तत् कस्य हेतोर् न हि सुभूते बलानुपलब्धिर् उपलभ्यते न नोपलभ्यते / बोध्यङ्गानुपलब्ध्या नोपलभ्यन्ते बोध्यङ्गानि / तत् कस्य हेतोर् न हि सुभूते बोध्यङ्गानुपलब्धिर् उपलभ्यते न नोपलभ्यते / मार्गानुपलब्ध्या नोपलभ्यते मार्गः / तत् कस्य हेतोर् न हि सुभूते मार्गानुपलब्धिर् उपलभ्यते न नोपलभ्यते / आर्यसत्यानुपलब्ध्या नोपलभ्यन्ते आर्यसत्यानि / तत् कस्य हेतोर् न हि सुभूते आर्यसत्यानुपलब्धिर् उपलभ्यते न नोपलभ्यते / ध्यानानुपलब्ध्या नोपलभ्यन्ते ध्यानानि / तत् कस्य हेतोर् न हि सुभूते ध्यानानुपलब्धिर् उपलभ्यते न नोपलभ्यते / अप्रमाणानुपलब्ध्या नोपलभ्यन्ते ऽप्रमाणानि / तत् कस्य हेतोर् न हि सुभूते ऽप्रमाणानुपलब्धिर् उपलभ्यते न नोपलभ्यते / आरूप्यसमापत्त्यनुपलब्ध्या नोपलभ्यन्ते आरूप्यसमापत्तयः / तत् कस्य हेतोर् न हि सुभूते आरूप्यसमापत्त्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते / विमोक्षानुपलब्ध्या नोपलभ्यन्ते विमोक्षाः /
तत् कस्य हेतोर् न हि सुभूते विमोक्षानुपलब्धिर् उपलभ्यते न नोपलभ्यते / अनुपूर्वविहारसमापत्त्यनुपलब्ध्या नोपलभ्यन्ते ऽनुपूर्वविहारसमापत्तयः / तत् कस्य हेतोर् न हि सुभूते अनुपूर्वविहारसमापत्त्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानुपलब्ध्या नोपलभ्यन्ते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि / तत् कस्य हेतोर् न हि सुभूते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानुपलब्धिर् उपलभ्यते न नोपलभ्यते / अभिज्ञानुपलब्ध्या नोपलभ्यते ऽभिज्ञा / तत् कस्य हेतोर् न हि सुभूते ऽभिज्ञानुपलब्धिर् उपलभ्यते न नोपलभ्यते / समाध्यनुपलब्ध्या नोपलभ्यन्ते समाधयः / तत् कस्य हेतोर् न हि सुभूते समाध्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते / धारणीमुखानुपलब्ध्या नोपलभ्यन्ते धारणीमुखानि / तत् कस्य हेतोर् न हि सुभूते धारणीमुखानुपलब्धिर् उपलभ्यते न नोपलभ्यते / तथागतबलानुपलब्ध्या नोपलभ्यन्ते तथागतबलानि / तत् कस्य हेतोर् न हि सुभूते तथागतबलानुपलब्धिर् उपलभ्यते न नोपलभ्यते / वैशारद्यानुपलब्ध्या नोपलभ्यन्ते वैशारद्यानि / तत् कस्य हेतोर् न हि सुभूते वैशारद्यानुपलब्धिर् उपलभ्यते न नोपलभ्यते / प्रतिसंविदनुपलब्ध्या नोपलभ्यन्ते प्रतिसंविदः / तत् कस्य हेतोर् न हि सुभूते प्रतिसंविदनुपलब्धिर् उपलभ्यते न नोपलभ्यते / महाकरुणानुपलब्ध्या नोपलभ्यते महाकरुणा / तत् कस्य हेतोर् न हि सुभूते महाकरुणानुपलब्धिर् उपलभ्यते न नोपलभ्यते / अष्टादशवेणिकबुद्धधर्मानुपलब्ध्या नोपलभ्यन्ते अष्टादशवेणिकबुद्धधर्माः /
तत् कस्य हेतोर् न हि सुभूते अष्टादशवेणिकबुद्धधर्मानुपलब्धिर् उपलभते न नोपलभ्यते /
श्रोतआपन्नानुपलब्ध्या नोपलभ्यते श्रोतआपन्नः / तत् कस्य हेतोर् न हि सुभूते श्रोतआपन्नानुलब्धिर् उपलभ्यते न नोपलभ्यते / सकृदागाम्यनुपलब्ध्या नोपलभ्यते सकृदागामि / तत् कस्य हेतोर् न हि सुभूते सकृदागाम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते / अनागाम्यनुपलब्ध्या नोपलभ्यते ऽनागामि / तत् कस्य हेतोर् न हि सुभूते अनागाम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते / अर्हत्त्वानुपलब्ध्या नोपलभ्यते ऽर्हन् / तत् कस्य हेतोर् न हि सुभूते ऽर्हत्त्वानुलब्धिर् उपलभ्यते न नोपलभ्यते / प्रत्येकबुद्धानुपलब्ध्या नोपलभ्यते प्रत्येकबुद्धः / तत् कस्य हेतोर् न हि सुभूते प्रत्येकबुद्धानुपलब्धिर् उपलभ्यते न नोपलभ्यते / बोधिसत्त्वानुपलब्ध्या नोपलभ्यते बोधिसत्त्वः / तत् कस्य हेतोर् न हि सुभूते बोधिसत्त्वानुपलब्धिर् उपलभ्यते न नोपलभ्यते / तथागतानुपलब्ध्या नोपलभ्यते तथागतः / तत् कस्य हेतोर् न हि सुभूते तथागतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / श्रोतआपत्तिफलानुपलब्ध्या नोपलभ्यते श्रोतआपत्तिफलं / तत् कस्य हेतोर् न हि सुभूते श्रोतआपत्तिफलानुपलब्धिर् उपलभ्यते न नोपलभते / सकृदागामिफलानुपलब्ध्या नोपलभ्यते सकृदागामिफलं / तत् कस्य हेतोर् न हि सुभूते सकृदागामिफलानुपलब्धिर् उपलभ्यते न नोपलभ्यते / अनागामिफलानुपलब्ध्या नोपलभ्यते ऽनागामिफलं / तत् कस्य हेतोर् न हि सुभूते अनागामिफलानुपलब्धिर् उपलभ्यते न नोपलभ्यते / अर्हत्त्वानुपलब्ध्या नोपलभ्यते अर्हत्त्वं / तत् कस्य हेतोर् न हि सुभूते अर्हत्त्वानुपलब्धिर् उपलभ्यते न नोपलभ्यते /
प्रत्येकबोध्यनुपलब्ध्या नोपलभ्यते प्रत्येकबोधिः / तत् कस्य हेतोर् न हि सुभूते प्रत्येकबोध्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते / मार्गाकारज्ञतानुपलब्ध्या नोपलभ्यते मार्गाकारज्ञता / तत् कस्य हेतोर् न हि सुभूते मार्गाकारज्ञतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / सर्वाकारज्ञतानुपलब्ध्या नोपलभ्यते सर्वाकारज्ञता / तत् कस्य हेतोर् न हि सुभूते सर्वाकारज्ञतानुपलब्धिर् उपलभ्यते न नोपलभ्यते / अनुत्पादानुपलब्ध्या नोपलभ्यते ऽनुत्पादः / तत् कस्य हेतोर् न हि सुभूते अनुत्पादानुपलब्धिर् उपलभ्यते न नोपलभ्यते / अनिरोधानुपलब्ध्या नोपलभ्यते ऽनिरोधः / तत् कस्य हेतोर् न हि सुभूते अनिरोधानुपलब्धिर् उपलभ्यते न नोपलभ्यते / असंक्लेशानुपलब्ध्या नोपलभ्यते असंक्लेशः / तत् कस्य हेतोर् न हि सुभूते असंक्लेशानुपलब्धिर् उपलभ्यते न नोपलभ्यते / अव्यवदानानुपलब्ध्या नोपलभ्यते ऽव्यवदानं / तत् कस्य हेतोर् न हि सुभूते अव्यवदानानुपलब्धिर् उपलभ्यते न नोपलभ्यते / अनभिसंस्कारानुपलब्ध्या नोपलभ्यते ऽनभिसंस्कारः / तत् कस्य हेतोर् न सुभूते ऽनभिसंस्कारानुपलब्धिर् उपलभ्यते न नोपलभ्यते / पूर्वान्तानुपलब्ध्या नोपलभ्यते पूर्वान्तः / तत् कस्य हेतोर् न हि सुभूते पूर्वान्तानुपलब्धिर् उपलभ्यते न नोपलभ्यते / अपरान्तानुपलब्ध्या नोपलभ्यते ऽपरान्तः / तत् कस्य हेतोर् न हि सुभूते अपरान्तानुपलब्धिर् उपलभ्यते न नोपलभ्यते / प्रत्युत्पन्नानुपलब्ध्या नोपलभ्यते प्रत्युत्पन्नः / तत् कस्य हेतोर् न हि सुभूते प्रत्युत्पन्नानुपलब्धिर् उपलभ्यते न नोपलभ्यते /
आगत्यनुपलब्ध्या नोपलभ्यते आगतिः / तत् कस्य हेतोर् न हि सुभूते आगत्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते / गत्यनुपलब्ध्या नोपलभ्यते गतिः / तत् कस्य हेतोर् न हि सुभूते गत्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते / स्थित्यनुपलब्ध्या नोपलभ्यते स्थितिः / तत् कस्य हेतोर् न हि सुभूते स्थित्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते / च्युत्यनुपलब्ध्या नोपलभ्यते च्युतिः / तत् कस्य हेतोर् न हि सुभूते च्युत्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते / उपपत्त्यनुपलब्ध्या नोपलभ्यते उपपत्तिः / तत् कस्य हेतोर् न हि सुभूते उपपत्त्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते / हान्यनुपलब्ध्या नोपलभ्यते हानिः / तत् कस्य हेतोर् न हि सुभूते हान्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते / वृद्ध्यनुपलब्ध्या नोपलभ्यते वृद्धिः / तत् कस्य हेतोर् न हि सुभूते वृद्ध्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते /
प्रथमा भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते / तत् कस्य हेतोर् न हि सुभूते प्रथमभूम्यनुपलद्भिर् उपलभ्यते न नोपलभ्यते / द्वितीया भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते / तत् कस्य हेतोर् न हि सुभूते द्वितीयभूम्यनुपलब्धिर् उपलभ्यते / तृतीया भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते / तत् कस्य हेतोर् न हि सुभूते तृतीयभूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते / चतुर्थो भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते / तत् कस्य हेतोर् न हि सुभूते चतुर्थभूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते / पश्चमी भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते / तत् कस्य हेतोर् न हि सुभूते पञ्चमभूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते / षष्ठा भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते / तत् कस्य हेतोर् न हि सुभूते षष्ठभूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते / सप्तमी भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते / तत् कस्य हेतोर् न हि सुभूते सप्तमभूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते / अष्टमी भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते / तत् कस्य हेतोर् न हि सुभूते अष्टमभूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते / नवमी भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते / तत् कस्य हेतोर् न हि सुभूते नवमभूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते / दशमी भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते / तत् कस्य हेतोर् न हि सुभूते दशमभूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते /
कतमा प्रथमा भूमिः कतमा द्वितीया भूमिः कतमा तृतीया भूमिः कतमा चतुर्थी भूमिः कतमा पञ्चमी भूमिः कतमा षष्ठी भूमिः कतमा सप्तमी भूमिः कतमा अष्टमी भूमिः कतमा नवमी भूमिः कतमा दशमी भूमिः / यद् उत शुक्लविदर्शनाभूमिर् गोत्रभूमिर् अष्टमकभूमिनिर्दर्शमभूमिः स्तनभूमिर् वीतरागभूमिः कृताविभूमिः प्रत्येकबुद्धभूमिर् बोधिसत्त्वभूमिर् बुद्धभूमिः /
अध्यात्मशून्यतायाः प्रथमा भूमिर् नोपलभ्यते / बहिर्धाशून्यतायाः प्रथमा भूमिर् नोपलभ्यते / अध्यात्मबहिर्धाशून्यतायाः प्रथमा भूमिर् नोपलभ्यते / शून्यताशून्यतायाः प्रथमा भूमिर् नोपलभ्यते / महाशून्यतायाः प्रथमा भूमिर् नोपलभ्यते / परमार्थशून्यतायाः प्रथमा भूमिर् नोपलभ्यते / संस्कृतशून्यतायाः प्रथमा भूमिर् नोपलभ्यते / असंस्कृतशून्यतायाः प्रथमा भूमिर् नोपलभ्यते / अत्यन्तशून्यतायाः प्रथमा भूमिर् नोपलभ्यते / अनवराग्रशून्यतायाः प्रथमा भूमिर् नोपलभ्यते / अनवकारशून्यतायाः प्रथमा भूमिर् नोपलभ्यते / प्रकृतिशून्यतायाः प्रथमा भूमिर् नोपलभ्यते / सर्वधर्मशून्यतायाः प्रथमा भूमिर् नोपलभ्यते / स्वलक्षणशून्यतायाः प्रथमा भूमिर् नोपलभ्यते / अनुपलम्भशून्यतायाः प्रथमा भूमिर् नोपलभ्यते / अभावशून्यतायाः प्रथमा भूमिर् नोपलभ्यते / स्वभावशून्यतायाः प्रथमा भूमिर् नोपलभ्यते / अभावस्वभावशून्यतायाः प्रथमा भूमिर् नोपलभ्यते /
अध्यात्मशून्यताया द्वितीया भूमिर् नोपलभ्यते / बहिर्धाशून्यताया द्वितीया भूमिर् नोपलभ्यते / अध्यात्मबहिर्धाशून्यताया द्वितीया भूमिर् नोपलभ्यते / शून्यताशून्यताया द्वितीया भूमिर् नोपलभ्यते / महाशून्यताया द्वितीया भूमिर् नोपलभ्यते / परमार्थशून्यताया द्वितीया भूमिर् नोपलभ्यते / संस्कृतशून्यताया द्वितीया भूमिर् नोपलभ्यते / असंस्कृतशून्यताया द्वितीया भूमिर् नोपलभ्यते / अत्यन्तशून्यताया द्वितीया भूमिर् नोपलभ्यते / अनवराग्रशून्यताया द्वितीया भूमिर् नोपलभ्यते / अनवकारशून्यताया द्वितीया भूमिर् नोपलभ्यते / प्रकृतिशून्यताया द्वितीया भूमिर् नोपलभ्यते / सर्वधर्मशून्यताया द्वितीया भूमिर् नोपलभ्यते / स्वलक्षणशून्यताया द्वितीया भूमिर् नोपलभ्यते / अनुपलम्भशून्यताया द्वितीया भूमिर् नोपलभते / अभावशून्यताया द्वितीया भूमिर् नोपलभ्यते / स्वभावशून्यताया द्वितीया भूमिर् नोपलभ्यते / अभावस्वभावशून्यताया द्वितीया भूमिर् नोपलभ्यते /
अध्यात्मशून्यतायास् तृतीया भूमिर् नोपलभ्यते / बहिर्धाशून्यतायास् तृतीया भूमिर् नोपलभ्यते / अध्यात्मबहिर्धाशून्यतायास् तृतीयाभूमिर् नोपलभ्यते / शून्यताशून्यतायास् तृतीया भूमिर् नोपलभ्यते / महाशून्यतायास् तृतीया भूमिर् नोपलभ्यते / परमार्थशून्यतायास् तृतीया भूमिर् नोपलभ्यते / संस्कृतशून्यतायास् तृतीया भूमिर् नोपलभ्यते / असंस्कृतशून्यतायास् तृतीया भूमिर् नोपलभ्यते / अत्यन्तशून्यतायास् तृतीया भूमिर् नोप्लभ्यते / अनवराग्रशून्यतायास् तृतीया भूमिर् नोपलभ्यते / अनवकारशून्यतायास् तृतीया भूमिर् नोपलभ्यते / प्रकृतिशून्यतायास् तृतीया भूमिर् नोपलभ्यते / सर्वधर्मशून्यतायास् तृतीया भूमिर् नोपलभ्यते / स्वलक्षणशून्यतायास् तृतीया भूमिर् नोपलभ्यते / अनुपलम्भशून्यतायास् तृतीया भूमिर् नोपलभ्यते / अभावशून्यतायास् तृतीया भूमिर् नोपलभ्यते / स्वभावशून्यतायास् तृतीया भूमिर् नोपलभ्यते / अभावस्वभावशून्यतायास् तृतीया भूमिर् नोपलभ्यते /
अध्यात्मशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते / बहिर्धाशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते / अध्यात्मबहिर्धाशून्यताश् चतुर्थी भूमिर् नोपलभ्यते / शून्यताशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते / महाशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते / परमार्थशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते / संस्कृतशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते / असंस्कृतशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते / अत्यन्तशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते / अनवराग्रशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते / अनवकारशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते / प्रकृतिशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते / सर्वधर्मशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते / स्वलक्षणशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते / अनुपलम्भशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते / अभावशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते / स्वभावशूनतायाश् चतुर्थी भूमिर् नोपलभ्यते / अभावस्वभावशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते /
अध्यात्मशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते / बहिर्धाशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते / अध्यात्मबहिर्धाशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते / शून्यताशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते / महाशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते / परमार्थशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते / संस्कृतशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते / असंस्कृतशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते / अत्यन्तशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते / अनवराग्रशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते / अनवकारशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते / प्रकृतिशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते / सर्वधर्मशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते / स्वलक्षणशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते / अनुपलम्भशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते / अभावशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते / स्वभावशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते / अभावस्वभावशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते /
अध्यात्मशून्यतायाः षष्ठी भूमिर् नोपलभ्यते / बहिर्धाशून्यतायाः षष्ठी भूमिर् नोपलभ्यते / अध्यात्मबहिर्धाशून्यतायाः षष्ठी भूमिर् नोपलभ्यते / शून्यताशून्यतायाः षष्ठी भूमिर् नोपलभ्यते / महाशून्यतायाः षष्ठी भूमिर् नोपलभ्यते / परमार्थशून्यतायाः षष्ठी भूमिर् नोपलभ्यते / संस्कृतशून्यतायाः षष्ठी भूमिर् नोपलभ्यते / असंस्कृतरशून्यतायाः षष्ठी भूमिर् नोपलभ्यते / अत्यन्तशून्यतायाः षष्ठी भूमिर् नोपलभ्यते / अनवराग्रशून्यतायाः षष्ठी भूमिर् नोपलभ्यते / अनवकारशून्यतायाः षष्ठी भूमिर् नोपलभ्यते / प्रकृतिशून्यतायाः षष्ठी भूमिर् नोपलभ्यते / / सर्वधर्मशून्यतायाः षष्ठी भूमिर् नोपलभ्यते / स्वलक्षणशून्यतायाः षष्ठी भूमिर् नोपलभ्यते / अनुपलम्भशून्यतायाः षष्ठी भूमिर् नोपलभ्यते / अभावशून्यतायाः षष्ठी भूमिर् नोपलभ्यते / स्वभावशून्यतायाः षष्ठी भूमिर् नोपलभ्यते / अभावस्वभावशून्यतायाः षष्ठी भूमिर् नोपलभ्यते /
अध्यात्मशून्यतायाः सप्तमी भूमिर् नोपलभ्यते / बहिर्धाशून्यतायाः सप्तमी भूमिर् नोपलभ्यते / अध्यात्मबहिर्धाशून्यतायाः सप्तमी भूमिर् नोपलभ्यते / शून्यताशून्यतायाः सप्तमी भूमिर् नोपलभ्यते / महाशून्यतायाः सप्तमी भूमिर् नोपलभ्यते / परमार्थशून्यतायाः सप्तमी भूमिर् नोपलभ्यते / संस्कृतशून्यतायाः सप्तमी भूमिर् नोपलभ्यते / असंस्कृतशून्यतायाः सप्तमी भूमिर् नोपलभ्यते / अत्यन्तशून्यतायाः सप्तमी भूमिर् नोपलभ्यते / अनवराग्रशून्यतायाः सप्तमी भूमिर् नोपलभ्यते / अनवकारशून्यतायाः सप्तमी भूमिर् नोपलभ्यते / प्रकृतिशून्यतायाः सप्तमी भूमिर् नोपलभ्यते / सर्वधर्मशून्यतायाः सप्तमी भूमिर् नोपलभ्यते / स्वलक्षणशून्यतायाः सप्तमी भूमिर् नोपलभ्यते / अनुपलम्भशून्यतायाः सप्तमी भूमिर् नोपलभ्यते / अभावशून्यतायाः सप्तमी भूमिर् नोपलभ्यते / स्वभावशून्यतायाः सप्तमी भूमिर् नोपलभ्यते / अभावस्वभावशून्यतायाः सप्तमी भूमिर् नोपलभ्यते /
अध्यात्मशून्यताया अष्टमी भूमिर् नोपलभ्यते / बहिर्धाशून्यतायाः अष्टमी भूमिर् नोपलभ्यते / अध्यात्मबहिर्धाशून्यतायाः अष्टमी भूमिर् नोपलभ्यते / शून्यताशून्यतायाः अष्टमी भूमिर् नोपलभ्यते / महाशून्यतायाः अष्टमी भूमिर् नोपलभ्यते / परमार्थशून्यतायाः अष्टमी भूमिर् नोपलभ्यते / संस्कृतशून्यतायाः अष्टमी भूमिर् नोपलभ्यते / असंस्कृतशून्यतायाः अष्टमी भूमिर् नोपलभ्यते / अत्यन्तशून्यतायाः अष्टमी भूमिर् नोपलभ्यते / अनवराग्रशून्यतायाः अष्टमी भूमिर् नोपलभ्यते / अनवकारशून्यतायाः अष्टमी भूमिर् नोपलभ्यते / प्रकृतिशून्यतायाः अष्टमी भूमिर् नोपलभ्यते / सर्वधर्मशून्यतायाः अष्टमी भूमिर् नोपलभ्यते / स्वलक्षणशून्यतायाः अष्टमी भूमिर् नोपलभ्यते / अनुपलम्भशून्यतायाः अष्टमी भूमिर् नोपलभ्यते / अभावशून्यतायाः अष्टमी भूमिर् नोपलभ्यते / स्वभावशून्यतायाः अष्टमी भूमिर् नोपलभ्यते / अभावस्वभावशून्यतायाः अष्टमी भूमिर् नोपलभ्यते /
अध्यात्मशून्यताया नवमी भूमिर् नोपलभ्यते / बहिर्धाशून्यताया नवमी भूमिर् नोपलभ्यते / अध्यात्मबहिर्धाशून्यताया नवमी भूमिर् नोपलभ्यते / शून्यताशून्यताया नवमी भूमिर् नोपलभ्यते / महाशून्यताया नवमी भूमिर् नोपलभ्यते / परमार्थशून्यताया नवमी भूमिर् नोपलभ्यते / संस्कृतशून्यताया नवमी भूमिर् नोपलभ्यते / असंस्कृतशून्यताया नवमी भूमिर् मोपलभ्यते / अत्यन्तशून्यताया नवमी भूमिर् नोपलभ्यते / अनवराग्रशून्यताया नवमी भूमिर् नोपलभ्यते / अनवकारशून्यताया नवमी भूमिर् नोपलभ्यते / प्रकृतिशून्यताया नवमी भूमिर् नोपलभ्यते / सर्वधर्मशून्यताया नवमी भूमिर् नोपलभ्यते / स्वलक्षणशून्यताया नवमी भूमिर् नोपलभ्यते / अनुपलम्भशून्यताया नवमी भूमिर् नोपलभ्यते / अभावशून्यताया नवमी भूमिर् नोपलभ्यते / स्वभावशून्यताया नवमी भूमिर् नोपलभ्यते / अभावस्वभावशून्यताया नवमी भूमिर् नोपलभ्यते /
अध्यात्मशून्यताया दशमी भूमिर् नोपलभ्यते / बहिर्धाशून्यताया दशमी भूमिर् नोपलभ्यते / अध्यात्मबहिर्धाशून्यताया दशमी भूमिर् नोपलभ्यते / शून्यताशून्यताया दशमी भूमिर् नोपलभ्यते / महाशून्यताया दशमी भूमिर् नोपलभ्यते / परमार्थशून्यताया दशमी भूमिर् नोपलभ्यते / संस्कृतशून्यताया दशमी भूमिर् नोपलभ्यते / असंस्कृतशून्यताया दशमी भूमिर् नोपलभ्यते / अत्यन्तशून्यताया दशमी भूमिर् नोपलभ्यते / अनवराग्रशून्यताया दशमी भूमिर् नोपलभ्यते / अनवकारशून्यताया दशमी भूमिर् नोपलभ्यते / प्रकृतिशून्यताया दशमी भूमिर् नोपलभ्यते / सर्वधर्मशून्यताया दशमी भूमिर् नोपलभ्यते / स्वलक्षणशून्यताया दशमी भूमिर् नोपलभ्यते / अनुपलम्भशून्यताया दशमी भूमिर् नोपलभ्यते / अभावशून्यताया दशमी भूमिर् नोपलभ्यते / स्वभावशून्यताया दशमी भूमिर् नोपलभ्यते / अभावस्वभावशून्यताया दशमी भूमिर् नोपलभ्यते /
तत् कस्य हेतोर् न हि सुभूते प्रथमा भूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / न द्वितीया भूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / न तृतीया भूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / न चतुर्थी भूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / न पञ्चमी भूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / न षष्ठी भूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / न सप्तमी भूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / नाष्टमी भूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / न नवमी भूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ऽन्यन्तविशुद्धिताम् उपादाय / न दशमी भूम्यनुपलब्धिर् उपलभ्यते न नोपलाभ्यते ऽत्यन्तविशुद्धिताम् उपादाय /
अध्यात्मशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / बहिर्धाशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अध्यात्मबहिर्धाशून्यतया सत्त्वपरिपाको नोपलभ्य ऽत्यन्तशुद्धिताम् उपदय / शून्यताशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / महाशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / परमार्थशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / संस्कृतशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / असंस्कृतशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अत्यन्तशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अनवराग्रशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अनवकारशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / प्रकृतिशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / सर्वधर्मशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / स्वलक्षणशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अनुपलम्भशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अभावशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / स्वभावशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविसूद्धिताम् उपादाय / अभावस्वभावशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय /
अध्यात्मशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / बहिर्धाशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अध्यात्मबहिर्धाशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / शून्यताशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / महाशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / परमार्थशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / संस्कृतशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / असंस्कृतशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अत्यन्तशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अनवराग्रशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अनवकारशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / प्रकृतिशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / सर्वधर्मशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / स्वलक्षणशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अनुपलम्भशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अभावशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / स्वभावशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय / अभावस्वभावशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय /
अध्यात्मशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते / बहिर्धाशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते / अध्यात्मबहिर्धाशून्यतया पञ्च चक्षूम्षि नोपलभ्यन्ते / शून्यताशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते / महाशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते / परमार्थशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते / संस्कृतशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते / असंस्कृतशून्यतया पञ्च चक्षूंषी नोपलभ्यन्ते / अत्यन्तशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते / अनवराग्रशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते / अनवकारशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते / प्रकृतिशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते / सर्वधर्मशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते / स्वलक्षणशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते / अनुपलम्भशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते / अभावशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते / स्वभावशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते / अभावस्वभावशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते / अत्यन्तविशुद्धिताम् उपादाय /
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपलम्भयोगेन सर्वधर्माणां महायानेन सर्वाकारज्ञतायां स्थास्यति //
शतसाहस्र्यां प्रज्ञापारमितायां दशमः परिवर्तः // (श्sP_1.10)
अथ एकादशः परिवर्तः /
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् / महायानं महायानम् इति भगवन्न् उच्यते सदेवासुरमानुषं लोकम् अभिभूय निर्यास्यति तेनोच्यते महायानम् इति / आकाशसमं भगवंस् तन् महायानं / यथाकाशे अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः / एवम् एव भगवन्न् अस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः / अनेन भगवन् पर्यायेण महायानम् इदं बोधिसत्त्वानां महासत्त्वानां / न चास्य महायानस्याङ्गमो वा निर्गमो वा स्थानं वा दृश्यते / नापि पूर्वान्तो नापरान्तो न मध्यः / तद्यथापि नाम भगवन्न् आकाशस्य नैवागमो वा दृश्यते न निर्गमो वा दृश्यते / न स्थानं दृश्यते / एवम् एव भगवन्न् अस्य महायानस्य नैवागम उपलभ्यते न निर्गम उपलभ्यते नास्थानम् उपलभ्यते / तद्यथापि नाम भगवन्न् आकाशस्य नैव पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते / त्र्यध्वसमताम् उपादाय / एवम् एव भगवन्न् अस्य महायानस्य नैव पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते / त्र्यध्वसमतायानम् इदं भगवन् यद् उत महायानं / तस्मान् महायानं महायानम् इत्य् उच्यते /
भगवान् आह / एवम् एतत् सुभूते एवम् एतन् महायानम् इदं बोधिसत्त्वस्य महासत्त्वस्य षट्पारमिताः / दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता / इदम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य महायानं / पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत सर्वधारणीमुखानि सर्वसमाधिमुखानि / शूरङ्गमसमाधिः / रत्नमुद्रासमाधिः / सिंहविक्रीडितसमाधिः / सुचन्द्रसमाधिः / चन्द्रध्वजकेतुसमाधिः / सर्वधर्मोद्गमसमाधिः / विलोकितमूर्धसमाधिः / धर्मधातुनियतः समाधिः / नियतध्वजकेतुः समाधिः / वज्रः समाधिः / सर्वधर्मप्रवेशमुद्रा समाधिः / समाधिराजसुप्रतिष्ठितः समाधिः / रश्मिप्रमुक्तः समाधिः / बलव्यूहः समाधिः / समुद्गतः समाधिः / निरुक्तिनियतप्रवेशः समाधिः / अधिवचनसंप्रवेशः समाधिः / दिग्विलोकितः समाधिः / साधारणमुद्रा समाधिः / असंप्रमोषः समाधिः / सर्वधर्मसमवसरणसागरमुद्रा समाधिः / आकाशस्फुरणः समाधिः / वज्रमण्डलः समाधिः / ध्वजाग्रकेयूरः समाधिः / इन्द्रकेतुः समाधिः / श्रोतोनुगतः समाधिः / सिंहविक्लम्भितः समाधिः / व्यभ्यस्तः समाधिः / रणजहः समाधिः / वैरोचनः समाधिः / अशेषः समाधिः / अनिकेतस्थितः समाधिः / निश्चित्तः समाधिः / विमलप्रदीपः समाधिः / अनन्तप्रभः समाधिः / प्रभाकरः समाधिः / समन्तावभासः समाधिः / शुद्धसारः समाधिः / विमलप्रभः समाधिः / रतिकरः समाधिः / विद्युत्प्रदीपः समाधिः / अक्षयः समाधिः / अजेयः समाधिः / तेजोवती समाधिः / क्षयापगतः समाधिः /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
