Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 32/37

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता, Part इ

Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् उत त्रयः समाधयः / कतमे त्रयः सवितर्कः सविचारः समाधिर् अवितर्को ऽविचारमात्रः समाधिर् अवितर्को ऽविचारः समाधिः / तत्र कतमः सवितर्कः सविचारः समाधिः / इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजप्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति / अयम् उच्यते सवितर्कः सविचारः समाधिः / तत्र कतमो ऽवितर्को ऽविचारमात्रः समाधिः / या प्रथमस्य ध्यानस्य द्वितीयस्य ध्यानस्यान्तरिका / अयम् उच्यते ऽवितर्को ऽविचारमात्रः समाधिः / तत्र कतमो ऽविचारः समाधिः / यत् द्वितीयं ध्यानं तृतीयं ध्यानं चतुर्थं ध्यामं आकाशानन्त्यायतनसमापत्तिः / विज्ञानानन्त्यायतनसमापत्तिर् आकिञ्चन्यायतनसमापत्तिर् नैवसंज्ञानासंज्ञायतनसमापत्तिः संज्ञावेदयितनिरोधसमापत्तिर् अयम् उच्यते अवितर्कः अविचारः समाधिः / इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / तच् चानुपलम्भयोगेन /

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् उत दशानुस्मृतयः / कतमा दश, बुद्धानुस्मृति धर्मानुस्मृतिः संघानुस्मृतिः शीलानुस्मृतिः त्यागानुस्मृतिः देवतानुस्मृतिः / आनापानुस्मृतिर् उद्वेगानुस्मृतिर् मरणानुस्मृतिः कायगतानुस्मृतिः / इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / तच् चानुपलम्भयोगेन /

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् उत चत्वारि ध्यानानि / चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः / अष्टौ विमोक्षाः / नवानुपूर्वविहारसमापत्तयः / तत्र कतमानि चत्वारि ध्यानानि / इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसपद्य विहरति / सवितर्कसविचाराणां व्युत्पन्नाद् अध्यात्मसंप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति / स प्रीतेर् विरागाद् उपेक्षको विहरति / स्मृतिमान् संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयति / यत् तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी निष्प्रीतिकं तृतीयं ध्यानम् उपसंपद्य विहरति / स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव च सौमनस्यदौर्मनस्ययोर् अस्तङ्गमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति / तच् चानुपलम्भयोगेन / इमानि चत्वारि ध्यानामि / तत्र कतमानि चत्वार्य् अप्रमाणानि इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनाव्यावध्येन धर्मधातु परमे लोके आकाशधातुपर्यवसाने दश दिशः स्फुरित्वाधिमुच्योपसंपद्य विहरति / स करुणासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनाव्यावध्येन धर्मधातुपरमे लोक आकाशधातुपर्यवसाने दश दिशः स्फुरित्वाधिमुच्योपसंपद्य विहरति / स मुदितासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनाव्यावधेन धर्मधातुपरमे लोक आकाशधातुपर्यवसाने दश दिशः स्फुरित्वाधिमुच्योपसंपद्य विहरति / स उपेक्षासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनाव्यावध्येन धर्मधातुपरमे लोक आकाशधातुपर्यवसाने दश दिशः स्फुरित्वाधिमुच्योपसंपद्य विहरति / अनुपलम्भयोगेन / इमानि चत्वार्य् अप्रमाणानि /

कतमाश् चतस्र आरूप्यसमापत्तयः / इह सुभूते बोधिसत्त्वो महासत्तः प्रज्ञापारमितायां चरन् सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तङ्गामान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्या काशानन्त्यायतनम् उपसंपद्य विहरति / सर्वश आकाशानन्त्यायतनसमक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति / स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति / सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति / तच् चानुपलम्भयोगेन / इमाश् चतस्र आरूप्यसमापत्तयः / तत्र कतमे ऽष्टौ विमोक्षाः / रूपरूपाणि पश्यत्य् अयं प्रथमो विमोक्षाः / अध्यात्मरूपसंज्ञी बहिर्धारूपाणि पश्यत्य् अयं द्वितीयो विमोक्षाः / शून्यताया अधिमुक्तो भवत्य् अयं तृतीयो विमोक्षाः / स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति / अयं चतुर्थो विमोक्षः / स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति / अयं पञ्चमो विमोक्षः / स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति / अयं षष्ठो विमोक्षः / स सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति / अयं सप्तमो विमोक्षः / स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरति / अयम् अष्टमो विमोक्षाः / तच् चानुपलम्भयोगेन / इमे ऽष्टौ विमोक्षाः /

तत्र कतमा नवानुपूर्वाविहारसमापत्तयः / इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः, स वितर्कः स विचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति / स वितर्कम् अविचाराणां व्युपसमाद् अध्यात्मसंप्रसादच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति / स प्रीतेर् विरागाद् उपेक्षको विहरति / स्मृतिमान् संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयति / यत् तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी निष्प्रीतिकं तृतीयं ध्यानम् उपसंपद्य विहरति / स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव सौममस्यदौर्मनस्ययोर् अस्तङ्गमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति / स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् अनित्याकाशानन्त्यायतनम् उपसंपद्य विहरति / स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति / स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नाकिञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति / स सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति / स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरति / इमान् वानुपूर्वविहारसमापत्तयः /

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् उत दश तथागतबलानि / कतमानि दश / इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्थानञ् च स्थानतः / अस्थानञ् चास्थानतो यथाभूतं प्रजानाति / अतीतानागतप्रत्युत्पन्नानां धर्माणां कर्मसमादानानाञ् च स्थानशो हेतुशः कर्मविपाकं यथाभूतं प्रजानाति / नानाधातुलोके ऽनेकधातुर् लोके ऽनेकधातुलोक इति / यथाभूतं प्रजानाति / परसत्वानां परपुद्गलानाम् अनेकाधिमुक्तिकानां नानाधिमुक्तिकानां यथाभूतं प्रजानाति / परसत्वानां परपुद्गलानाम् इन्द्रियपरापरज्ञतानां यथाभूतं प्रजानाति / सर्वत्र गामिनीं प्रतिपदं यथाभूतं प्रजानाति / इन्द्रियबलबोध्यङ्गध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानस्थानं यथाभूतं प्रजानाति / सो ऽनेकविधं पूर्वनिवासम् अनुस्मरति / एकम् अपि जातिम् अनुस्मरति / यावज् जातिशतम् अपि सहस्रम् अपि दशसहस्रम् अपि जातिकोटिम् अपि जातिकोटिशतम् अपि जातिकोटिसहस्रम् अपि जातिकोटिशतसहस्रम् अपि जातिकोटिनियुतशतसहस्रम् अप्य् अनुस्मरति / एकम् अपि कल्पम् अनुस्मरति / यावत् कल्पशतम् अपि कल्पसहस्रम् अपि कल्पशतसहस्रम् अपि यावद् अनेकान्य् अपि कल्पकोटिनियुतशतसहस्राण्य् अनुस्मरति / अत्राहम् आसम् एवंनामैवंगोत्र एवंजातिः / एवमाहारः एवंचिरस्थितिका एवमायुष्मन्तः / सो ऽहं ततश् च्युतः सन्न् अमुत्रोपपन्नो यावत् ततश् च्युतः इहोपन्न इति / यावत् साकारं सोद्देशं सनिर्देशम् अनेकविधं पूर्वानिवासम् अनुस्मरति / स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सत्वान् पश्यति /

च्यवमानान् उत्पद्यमानान् उपपन्नान् अपि सुवर्णान् दुर्वर्णान् हीनान् प्रणीतान् सुगतान् दुर्गतान् यावद् यथाकर्मोपगान् सत्वान् प्रजानाति / अमी भवन्तः सत्वाः कायदुश्चरितेन समन्वागताः वाग्दुश्चरितेन समन्वागताः / मनोदुश्चरितेन समन्वागताः / आर्याणाम् अपवादका मिथ्यादृष्टयस् तद्धेतोस् तत्प्रत्ययं कायस्य भेदाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते / अमी पुनर् भवन्तः सत्वाः कायसुचरितेन समन्वागताः वाक्सुचरितेन समन्वागताः मनःसुचरितेन समन्वागताः / आर्याणाम् अनपवादकाः सम्यगदृष्टयस् तद्धेतोस् तत्प्रत्ययं कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते इति / आश्रवाणां क्षयाद् अनाश्रवचेतोविमुक्तिं प्रज्ञाविमुक्ति स्वयम् अभिज्ञाय साक्षाकृत्वोपसंपद्य विहरन्ति / क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं / नापरम् इष्टम् इति प्रजानाति / इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / तच् चानुपलम्भयोगेन /

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् उत चत्वारि वैशारद्यानि / कतमानि चत्वारि / सम्यक्संबुद्धस्य च मे प्रतिजानतै / इमे धर्मा अनभिसंबुद्धा इति / अत्र वत मे श्रमणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा केनचिद् वा पुनर् लोके सहधर्मेण चोदयेद् इति / निमित्तं न समनुपश्याम्य् अत्र चाहं निमित्तम् असमनुपश्यन् क्षेमं प्राप्तो विहराम्य् अभयं प्राप्तो वैशारद्यप्राप्तः / उदारम् आर्षभं स्थानं प्रजानामि / परिषद्गतः सम्यक् सिंहनादं नदामि / ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सहधर्मेण क्षीणाश्रवस्य वत मे प्रतिजानतः / इमे आश्रवाः अपरिक्षीणाः इति / अत्र वत मे श्रमणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा केनचिद् वा पुनर् लोके सहधर्मेण चोदयति / निमित्तम् एव न समनुपश्याम्य् अत्र चाहं मिमित्तम् असमनुपश्यन् क्षेमप्राप्तो विहराम्य् अभयप्राप्तो वैशारद्यप्राप्तः / उदारम् आर्षभं स्थानं प्रजानामि / परिषद्गतः सम्यक् सिंहनादं नदामि / ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सहधर्मेण / ये खलु पुनर् मयान्तरायिका धर्मा आख्याता / तान् प्रतिषेवतो नालम् अन्तरायेति नेदं स्थानं विद्यते / अत्र वत मे श्रमणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा केनचिद् वा पुनर् लोके सहधर्मेण चोदयेद् इति / निमित्तम् एव न समनुप्यश्याम्य् अत्र चाहं निमित्तम् असमनुपश्यन् क्षेमप्राप्तो विहराम्य् अभयप्राप्तो वैशारद्यप्राप्तः /

उदारम् आर्षभं स्थानं प्रतिजानामि / पर्षद्गतः सम्यक् सिंहनादं नदामि / ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सहधर्मेण / याश् च मया प्रतिपद आख्याताः / आर्यनैर्याणिका नैर्वेधिकास् तत्करस्य सम्यग्दुःखक्षयाय ताः प्रतिपद्यमानो न निर्यायासम्यग्दुःखक्षयायेति नेदं स्थानं विद्यते / अत्र वत मे श्रमणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा केनचिद् वा लोके सहधर्मेण चोदयति / मिमित्तम् एव न समनुपश्याम्य् अत्र चाहं निमित्तम् असमनुपश्यन् क्षेमप्राप्तो विहराम्य् अभयप्राप्तो वैशारद्यप्राप्तः / उदारम् आर्षभं स्थानं प्रजानामि / परिषद्गतः सम्यक् सिंहनादं नदामि / ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तनीयः श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सहधर्मेण / इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं तच् चानुपलम्भयोगेम /

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत चतस्रः प्रतिसंविदः / कतमाश् चतस्रः / अर्थप्रतिसंविद् धर्मप्रतिसंविन् निरुक्तिप्रतिसंबित् प्रभानप्रतिसंवित् / इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / तच् चानुपलम्भयोगेन /

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् उताष्टादशावेणिका बुद्धधर्माः / कतमे ऽष्टादश / याञ् च रात्रिं तथागतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो याञ् च रात्रिं स देवकं लोकं समारकं सब्रह्माकं सश्रमणब्राह्मणीं प्रजां सदेवमानुषासुरां दुःखक्षयाय गामिनो मार्गेशानुशाशिष्यानुपधिशेषे निर्वाणधातौ परिनिर्वाप्यान्यत्र अत्रान्तरा नास्ति तथागतस्य स्खलितं नास्ति चरितं नास्ति मुषितस्मृतिता नास्ति नानात्वसंज्ञा नास्त्य् असमाहितं चित्तं नास्ति अप्रतिसंख्यायोपेक्षा नास्ति छन्दपरिहानिर् नास्ति वीर्यपरिहानिर् नास्ति स्मृतिपरिहानिर् नास्ति समाधिपरिहानिर् नास्ति प्रज्ञापरिहानिर् नास्ति विमुक्तिपरिहानिर् नास्ति विमुक्तिज्ञानदर्शनपरिहानिः / सर्वं कायकर्म ज्ञानपूर्वङ्गमं ज्ञानानुपरिवर्ति / सर्वं वाक्कर्म ज्ञानपूर्वङ्गमं ज्ञानानुपपरिवर्ति / सर्वं मनःकर्म ज्ञानपूर्वङ्गमं ज्ञानानुपरिवर्ति / अतीते ऽध्वनि अप्रतिहतम् असङ्गं ज्ञानं दर्शनं प्रवर्तते / अनागते ऽध्वन्य् अप्रतिहतम् असंज्ञानदर्शनं प्रवर्तते / प्रत्युत्पन्ने ऽध्वान्य् अप्रतिहतम् असंज्ञानदर्शनं प्रवर्तते / इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / तच् चानुपलम्भयोगेन /

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत धारणीमुखानि / कतमानि धारणीमुखानि / अक्षरसमता भाष्यसमता अक्षरमुखम् अक्षरप्रवेशः / तत्र कतमद् अक्षरमुखाक्षरप्रवेशः / अकारो मुखं सर्वधर्माणाम् आद्यनुत्पन्नत्वात् / रकारो मुखं सर्वधर्माणां रजोपगतत्वात् / यकारो मुखं सर्वधर्माणां परमार्थनिर्देशत्वात् / चकारो मुखं सर्वधर्माणां च्यवनोपपत्त्यनुपलब्धित्वात् / सर्वधर्मा न च्यवन्ते नोपपद्यन्ते / नकारो मुखं सर्वधर्माणां नामापगतत्वात् / नामप्रकृत्यानलब्धं न नष्टं / लकारो मुखं सर्वधर्माणां लोकोत्तीर्णत्वात् तृष्णालताहेतुप्रत्ययसमुत्सादितत्वात् / दकारो मुखं सर्वधर्माणां दान्तदमथपरिच्छिन्नत्वात् / वकारो मुखं सर्वधर्माणां बद्धनविगतत्वात् / उकारो मुखं सर्वधर्माणां उभयगतत्वात् / सकारो मुखं सर्वधर्माणां सङ्गानुपलब्धित्वात् / न सज्यते न बध्यते / वकारो मुखं सर्वधर्माणां वाच्यशेष समुच्छिन्नत्वात् / तकारो मुखं सर्वधर्माणां तथताविचलितत्वात् / यकारो मुखं सर्वधर्माणां यावद् अनुपलब्धित्वात् / स्तकारो मुखं सर्वधर्माणां स्तम्भानुपलब्धित्वात् / काकारो मुखं सर्वधर्माणां कारकानुपलब्धित्वात् / सकारो मुखं सर्वधर्माणां समतानुपलब्धित्वात् / समन्तान् न व्यतिवर्तते / मकारो मुखं सर्वधर्माणां मकारानुपलब्धिताम् उपादाय / गकारो मुखं सर्वधर्माणां गममानुपलब्धित्वात् / मकारो मुखं सर्वधर्माणां स्थानानुपलब्धित्वात् / जकारो मुखं सर्वधर्माणां जात्यनुपलब्धित्वात् / श्वकारो मुखं सर्वधर्माणां श्वासानुपलब्धित्वात् /

धकारो मुखं सर्वधर्माणां धर्मधात्वनुपलब्धित्वात् / शकारो मुखं सर्वधर्माणां शमथानुपलब्धित्वात् / खकारो मुखं सर्वधर्माणां खसमतानुपलब्धित्वात् / क्षकारो मुखं सर्वधर्माणां क्षयानुपलब्धित्वात् / स्तकारो मुखं सर्वधर्माणां स्तवानुपलब्धित्वात् / ज्ञकारो मुखं सर्वधर्माणां ज्ञानानुपलब्धित्वात् / तकारो मुखं सर्वधर्माणां मासानुपलब्धित्वात् / हकारो मुखं सर्वधर्माणां हेत्वनुपलब्धित्वात् / भकारो मुखं सर्वधर्माणां भङ्गानुपलब्धितः / छकारो मुखं सर्वधर्माणां छेदनानुपलब्धितः / स्मकारो मुखं सर्वधर्माणां स्मरणानुपलब्धितः / ह्वकारो मुखं सर्वधर्माणाम् आह्वानानुपलब्ध्तः / अकारो मुखं सर्वधर्माणाम् उत्साहानुपलब्धितः / धकारो मुखं सर्वधर्माणां धनानुपलब्धितः / ठकारो मुखं सर्वधर्माणां विठयानुपलब्धितः / णकारो मुखं सर्वधर्माणां रणविगतत्वात् / न कश्चिद् गच्छति नागच्छति न तिष्ठति नानिसीदिति न शय्यं कल्पयति न विकल्पयति / लकारो मुखं सर्वधर्माणां फलानुपलब्धित्वात् / स्ककारो मुखं सर्वधर्माणां स्कन्धानुपलब्धित्वात् / प्सकारो मुखं सर्वधर्माणां प्सकारानुपलब्धित्वात् / श्चकारो मुखं सर्वधर्माणां चर्यानुपलब्धित्वात् / ढकारो मुखं सर्वधर्माणां ढकारानुपलब्धित्वात् / हकारो मुखं सर्वधर्माणां हकारानुपलब्धित्वात् / पर्यन्तनिष्ठास्यानेन च्यवन्तेनोपद्यन्ते / नास्त्य् अत उत्तर्य् अक्षरव्यवहारः / तत् कस्य हेतोस् तथा हि न कस्यचित् किञ्चिद् अन्यन् नाम व्यवह्रियते येनाभिलप्येत / येन निन्दिष्यते यल् लिख्येत दृश्येत वाच्येत /

तद्यथापि नाम सुभूते आकाशम् एव सर्वधर्मा अनुगन्तव्याः / अयम् उच्यते धारणीमुखप्रवेशः / अकाराद्यक्षरनिर्देशप्रवेशः / यो हि कश्चित् सुभूते बोधिसत्त्वो महासत्त्वः इदम् अकाराद्यक्षरकौशल्यं ज्ञास्यति / स न क्वचिद् रुते संक्षति / सर्वधर्मसमताया संसाधयिष्यति / रुतज्ञानकौशल्यञ् च प्रतिलप्स्यते / यो हि कश्चित् सुभूते बोधिसत्त्वो महासत्त्वः / इदम् अकाराद्यक्षरप्रवेशमुद्राम् अकाराद्यक्षरप्रवेशमुद्रापदानि श्रोष्यति / श्रुत्वा चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति / परेभ्यश् च देशयिष्यति न य प्रतीतया बुद्ध्या तस्य विंशतिर् अनुशंसाः प्रतिकाङ्क्षितव्याः / कतमे विंशतिः / तद् उत स्मृतिमांश् च भविष्यति / मतिमांश् च बुद्धिमांश् च धृतिमांश् च ह्रीमाश् च प्रज्ञावांश् च प्रतिभानवांश् च / इदञ् च धारणीमुखम् अल्पकृच्छ्रेण प्रतिलप्स्यते / न कथं कथीभविष्यति / धिमतिश् चास्य न भविष्यति / न च परस्यान्तिकाच् छूक्षां वाचं श्रुत्वानुनेष्यते / न परुषां वाचं श्रुत्वा प्रतिहंस्यते / नोन्नतो भविष्यति नावनतः / यथास्थित एव भविष्यति / रुतकुशलश् च भविष्यति / स्कन्धकुशलश् च भविष्यति / धातुकुशलश् च भविष्यति / आयतनकुशलश् च भविष्यति / सत्यकुशलः / प्रतीत्यसमुत्पादकुशलः / हेतुकुशलः प्रत्ययकुशलः / धर्मताकुशलः / इन्द्रियपरापरज्ञानकुशलः / च्युतोपपत्तिकुशलः / दिव्यश्रोत्रज्ञानकुशलः / परचित्तज्ञानकुशलः / पूर्वनिवासानुस्मृतिज्ञानकुशलः / ऋद्धिविधिज्ञानकुशलः / आश्रवक्षयज्ञानकुशलः / स्थानास्थाननिर्देशकुशलः / अतिक्रमणकुशलः / प्रतिक्रमणकुशलः / ईर्ष्यापथकुशलः /

क्षयत्राय्यकौशलञ् चानुप्राप्स्यति / इदम् अपि सुभूते धारणीमुखम् अकाराद्यक्षरप्रवेशो बोधिसत्त्वस्य महासत्त्वस्य महायानं / तच् चानुपलम्भयोगेन //

शतसाहस्र्यां प्रज्ञापारमितायां नवमः परिवर्तः / (श्sP_1.9)

अथ दशमः परिवर्तः /

यद् अपि सुभूतिर् एवम् आह / कथं बोधिभत्त्वो महासत्त्वो महायानसंप्रस्थितो भवतीति / इह सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् भूमेर् भूमिं संक्रामति / कथञ् च सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् भूमेर् भूमिं संक्रामति / यद् उत संक्रान्त्या सर्वधर्माणां न हि कश्चिद् धर्म आगच्छति वा गच्छति वा संक्रामति वा अपसंक्रामति वा / अपि तु या सर्वधर्माणां भूमिस् तां स न मन्यते / न चिन्तयति / न भूमिपरिकर्म च करोति / न च तां भूमिं समनुपश्यति / तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य भूमिपरिकर्म / प्रथमायां सुभूते भूमौ वर्तमानेन बोधिसत्त्वेन महासत्त्वेन दशपरिकर्माणि करणीयानि / कतमानि दश / अध्याशयादिपरिकर्मानुपलम्भयोगेन हितवस्तुतापरिकर्म निमित्तानुपलब्धिताम् उपादाद्य / सर्वसत्त्वसमचित्ततापरिकर्म सत्त्वानुपलब्धिताम् उपादाय / त्यागपरिकर्म दानदायकपरिग्राहकानुपलब्धिताम् उपादाय / कल्याणमित्रसेवनापरिकर्मतैर् अमण्यताम् उपादाय / धर्मपर्येष्टिपरिकर्म सर्वधर्मानुपलब्धिताम् उपादाय / अभीक्ष्णनैष्क्रम्यपरिकर्म गृहानुपलब्धिताम् उपादाय / बुद्धकायस्पृहापरिकर्म लक्षणानुव्यञ्जननिमित्तानुपलब्धिताम् उपादाय / धर्मविवरणपरिकर्म भेदानुपलब्धिताम् उपादाय / मानस्तम्भननिर्घातनपरिकर्मम् अद्भूततानुपलबिताम् उपादाय / सत्यवचनपरिकर्म वचनानुपलब्धिताम् उपादाय / इमानि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रथमायां भूमौ वर्तमानेन दशपरिकर्माणि करणीयानि /

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन द्वितीयायां भूमौ वर्तमानेनाष्टौ धर्मा अभीक्ष्णं मानसिकर्तव्या / तत्र च प्रतिपत्तव्यं / कतमे ऽष्टौ / यद् उत शीलपरिशुद्धिः कृतज्ञताकृतवेदिता / क्षान्तिबलप्रतिस्थानं / प्रामोद्यं / प्रीत्यनुभवनता / सर्वसत्त्वपरित्यागिता / महाकरुणाया आमुखीभावः / गुरुशुश्रूषा / श्रद्धागौरवता / पारमितासूद्योगपर्येष्टिः / इमे सुभूते बोधिसत्त्वेन महासत्त्वेन द्वितीयायां भूमौ वर्तमानेनाष्टौ धर्माः अभीक्ष्णं मनसिकर्तव्यस् तत्र च प्रतिपत्तव्यम् /

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन तृतीयायां भूमौ वर्तमानेन पञ्चसु धर्मेषु स्थातव्य / कतमेषु पञ्चसु / यद् उत बहुश्रुत्यातृप्ततायां / तत्र चाक्षरानभिनिवेशेन निरामिडधर्मविचरणतायां / तथा चामन्यनतया बुद्धक्षेत्रे परिशोधनकुशलमूलावरोपणपरिणामनतायां / तथा चामन्यनतया अपरिमितसंसारापरिखेदतायां / तथा चामनन्यतया ह्र्यपत्राप्यस्थानतायां / तथा चामनन्यतया एषु सुभूते पञ्चसु धर्मेषु बोधिसत्त्वेन महासत्त्वेन तृतीयायां भूमौ वर्तमानेन स्थातव्यम् /

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन च चतुर्थ्यां भूमौ वर्तमानेन दशधर्मान् समादाय वर्तितव्यं / तेन च परित्यक्तव्याः / कतमे दश / अरण्यवासं / अल्पेच्छतया सन्तुष्टिता / धुतगुणसंलेखानुवर्जनता / शिक्षाया अपरित्यागिता / कामगुणजुगुप्सनता / निर्वृते सहगतचित्तोत्पादः / सर्वसत्त्वपरित्यागिता / अनवलीनचित्तता / सर्ववस्त्वनपेक्षणता / इमे सुभूते दश धर्माः बोधिसत्त्वेन महासत्त्वेन चतुर्थ्यां भूमौ वर्तमानेम न परित्यक्तव्याः / समादाय च वर्तितव्यम् /

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन पञ्चम्यां भूमौ वर्तमानेन षड् धर्माः परिवर्जयितव्याः / कतमे षट् यद् उत गृहिसंस्तवः परिवर्जयितव्यः / भिक्षुणीसंस्तवः / कुलमात्सर्यं / संगणिकास्थानं / आत्मोत्कर्षणता परपंसनता / इमे षट् धर्माः परिवर्जयितव्याः / पुनर् अष्टादश धर्माः परिवर्जयितव्याः / यद् उत दशाकुशलाः कर्मपथाः परिवर्जयितव्याः / मानस्तम्भविपर्यासा, विचिकित्सा, रागद्वेषमोहाधिवासनता, इमे ऽष्टादश धर्मा बोधिसत्त्वेन महासत्त्वेन पञ्चम्यां भूमौ वर्तमानेन परिवर्जयितव्याः /

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षष्ठ्यां भूमौ वर्तमानेन षड् धर्माः परिपूरयितव्याः / यद् उत षट्पारमिताः / अपरे षड् धर्माः परिवर्जयितव्याः / कतमे षट्श्रावकचित्तं परिवर्जयितव्यं / प्रत्येकबुद्धचित्तं परिवर्जयितव्यं / परितर्षणचित्तं परिवर्जयितव्यं / याचनकं दृष्ट्वानवलीनपरिवर्जयितव्यं / नावलीयितव्यं / सर्ववस्तुनि परित्यज्य दुर्मनस्कतापरिवर्जयितव्याः / स दुर्मनस्केन भवितव्यं / याचनकं दृष्ट्वा विक्षेपचित्तं परिवर्जयितव्यं / न याचनकं विक्षेपः कर्तव्यः / इमे सुभूते बोधिसत्त्वेन महासत्त्वेन षष्ठ्यां भूमौ वर्तमानेन षड् धर्माः परिवर्जयितव्याः /

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन सप्तम्यां भूमौ वर्तमानेन विंशति धर्मा न कर्तव्याः / कतमे विंशतिः / यद् उत आत्मग्राहो न कर्तव्यः / सत्यग्राहो न कर्तव्यः / जीवग्राहो न कर्तव्यः / पुद्गलग्राहो न कर्तव्यः / उच्छेदग्राहो न कर्तव्यः / शाश्वतग्राहो न कर्तव्यः / निमित्तसंज्ञा न कर्तव्या / हेतुदृष्टिः स्कन्धाभिनिवेशो धात्वभिनिवेशः / आयतनाभिनिवेशः / त्रैधातुकाभिनिवेशः / त्रैधातुकाध्यवसानं / त्रैधातुकालयः / बुद्धनिश्रयदृष्ट्यभिनिवेशः धर्मनिश्रयदृष्ट्यभिनिवेशः / संघनिश्रयदृष्ट्यभिनिवेशः / शीलनिश्रयदृष्ट्यभिनिवेशः / शून्या धर्मा इति विषादः / शून्या निरोधाश् च / इमे सुभूते विंशतिर् धर्मा न कर्तव्याः / तेन विंशतिर् एव धर्माः परिपूरयितव्याः / कतमे विंशतिः / यद् उत शून्यताप्रतिषेधः / आनिमित्तसाक्षात्क्रिया / अप्रणिहितज्ञानं / त्रिमण्डलपरिशुद्धिः / कृपाकारुण्यतासर्वसत्त्वेषु / ते च सत्त्वा नावमन्तव्याः / सर्वधर्मसमतादर्शनं / तत्र चानभिनिवेशः / भूतनयप्रतिवेधः / तेन चामनता / अनुत्पादक्षान्तिः / अनुत्पादज्ञानं / एकनयनिर्देशः / सर्वधर्माणां कल्पनासमुद्घातः / संज्ञाविवर्तः / दृष्टिविवर्तः / क्लेशविवर्तः / शमत्वपरिपश्यनाभूतिः / दान्तचित्तता / अप्रतिहतज्ञानता / अनूनता / अवसरज्ञता / यत्रेच्छाक्षेत्रगमनता / इमे सुभूते बोधिसत्त्वेन महासत्त्वेन सप्तम्यां भूमौ वर्तमानेन विंशति धर्माः परिपूरयितव्याः /

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेनाष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः / कतमे चत्वारः / यद् उत सर्वसत्त्वचित्तानुप्रवेशः / अभिज्ञाविक्रीडनता / बुद्धक्षेत्रदर्शनता / तेषां बुद्धक्षेत्राणां यथा दृष्टानां परिनिष्पादनता / बुद्धपर्युपासनता / बुद्धकाययथाभूतप्रत्यवेक्षणता / इमे सुभूते चत्वारो धर्हाः परिपूरयितव्याः / पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेनाष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितयाः / यद् उतेन्द्रियपरापरज्ञानता / बुद्धक्षेत्रपरिशोधनता / मायोपमसमाधेर् अभीक्ष्णसमापद्यनता / यथा यथा सत्त्वानां कुशलमूलानि परिनिष्पद्यन्त / तथा तथात्मभावपरिनिष्पादनता / संचिन्त्यभवोपादानता / इमे सुभूते बोधिसत्त्वेन महासत्त्वेनाष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः /

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयितव्याः / कतमे द्वादश / यद् उत अनन्तप्रणिधानपरिग्रहः / स यथायथा प्रणिदधाति तथातथास्य समृध्यति / देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगरुतज्ञानं / परिपूर्णप्रणिधाननिर्देशज्ञामं / गर्भविक्रान्तिसंपत् / गोत्रसंपत् / परिवारसंपत् / जन्मसंपत् / बोधिवृक्षव्यूहसंपत् / सर्वगुणपरिपूरिसंपत् / इमे सुभूते बोधिसत्त्वेन महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयितव्याः /

दशम्यां पुनः सुभूते भूमौ वर्तमाने बोधिसत्त्वो न महासत्त्वस् तथागत एव वक्तव्यः / एवम् उक्त आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् / कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्याध्याशयादिपरिकर्म / भगवान् आह / यः सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः कुशलमूलानि समुदानयति / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्याध्याशयादिपरिकर्म / तत्र कतमद् बोधित्त्वस्य महासत्त्वस्य सर्वसत्त्वसमचित्ततापरिकर्म / सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् च आर्यप्रमाणान्य् अभिनिर्हरति / मैत्रीकरुणामुदितोपेक्षम् इदम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वसमचित्ततापरिकर्म / तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य त्यागपरिकर्म / यत् सर्वसत्त्वेभ्यो ऽविकल्पतं तद् दानं ददातीदम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य त्यागपरिकर्म / तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रसेवनापरिकर्म / यद् उत तानि बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि यान्य् एव सर्वाकारज्ञतायां समादापयन्ति / निवेशयन्ति / प्रतिष्ठापयन्ति / तेषां कल्याणमित्राणां या सेवना भजना पर्युपासना गुरुशुश्रूषणता / इयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रसेवनापरिकर्म / तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य धर्मपर्येष्टिपरिकर्म / यत् सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् धर्मं पर्येषते / न श्रावकप्रत्येकबुद्धभूमौ पततीदं बोधिसत्त्वस्य महासत्त्वस्य धर्मपर्येष्टिपरिकर्म / तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्याभीक्ष्णं नैष्क्रम्यपरिकर्म /

यत् सर्वसत्त्वजाताव् अव्यवकीर्णो निष्क्रमति / तथागतशासने प्रव्रजति / न चास्य कश्चिद् अन्तरायं करोतीदं बोधिसत्त्वस्य महासत्त्वस्याभीक्ष्णं नैष्क्रम्यपरिकर्म / तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य बुद्धकायस्पृहापरिकर्म / यद् बुद्धविग्रहं दृष्ट्वा न कदाचिद् बुद्धमनसिकारेण विरहितो भवति यावत् सर्वकारज्ञताम् अनुप्राप्नोतीदं बोधिसत्त्वस्य महासत्त्वस्य बुद्धकायस्पृहापरिकर्म / तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य धर्मविवरणपरिकर्म / यद् बोधिसत्त्वो महासत्त्वः संमुखीभूततथागतपरिनिर्वृत्तं सत्त्वेभ्यो धर्मं देशयति / आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति / यद् उत सूत्रं गेयं व्याकरणं गाथोदाननिदानेत्युक्तकजातकवैपुल्याद्भुतधर्मावदानोपदेशाद् इदं बोधिसत्त्वस्य महासत्त्वस्य धर्मविवरणपरिकर्म / तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य मानस्तम्भनिर्घातनपरिकर्म / येन मानस्तम्भनिर्घातेन न जातु नीचकुलेषूपपद्यते / इदं बोधिसत्त्वस्य महासत्त्वस्य मानस्तम्भनिर्घातनपरिकर्म / तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सत्यवचनपरिकर्म / यद् उत यथा वादिता तथा कारिता / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य सत्यवचनपरिकर्म / इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमायां भूमौ वर्तमानस्य दश परिकर्माणि / तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य शीलपरिशुद्धिः / यद् उत श्रावकप्रत्येकबुद्धचित्तानाम् अमनसिकारः / ये ऽपि तद् अन्यदौःशील्यकराः /

बोधिपरिपन्थकराः धर्माः तेषाम् अप्य् अमनसिकारः / इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपरिशुद्धिः / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कृतज्ञता कृतकारिता / यद् बोधिसत्त्वो महासत्त्वो बोधिसत्वचर्यां चरन्न् अन्यम् अपि कृतम् ई संसारान् न नासयति / प्राग् एव इयं बोधिसत्त्वस्य महासत्त्वस्य कृतज्ञता कृतकारिता / तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिबलप्रतिष्ठानं / यत् सर्वसत्त्वानाम् अन्तिके व्यापाद अविहिंसाचिन्तता / इडं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिबलप्रतिष्ठानं / तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य प्रामोद्यप्रीत्यनुभवनता / यद् उत सर्वसत्त्वपरिपाचनता त्रिषु यानेषु / इयं बोधिसत्त्वस्य महासत्त्वस्य प्रामोद्यप्रीत्यनुभवनता / तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वापरित्यागिता / यद् उत सर्वसत्त्वानां परित्राणता / इदं बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्यापरित्यागिता / तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य महाकरुणया आमुखीभावः / यद् बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचारिकाञ् चरत एवं भवति / एकैकस्याहं सत्त्वस्यार्थाय गङ्गानदीवालुकोपमान् कल्पान् निरयेषु वसन् तत्र छेदनभेदनकुण्डनस्नेदनपचनान्य् अनुभवेयं यावन् न सत्त्वा बुद्धज्ञानप्रतिष्ठापिता भवेत् / एवं यावत् सर्वसत्त्वानां कृते यात्य् उत्सहनता अपरिखेदः / अयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य महाकरुणाया आमुखीभावः / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गुरुशुश्रूषाश्रद्धागौरवता / यद् उत गुरुणाम् अन्तिके शास्तृसंज्ञा / इयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य गुरुशुश्रूषाश्रद्धागौरवता /

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य पारमितासूद्योगपर्येष्टिः / यद् उतानन्यकृतकर्मतया पारमितानां पर्येषणता सर्वसत्त्वपरिपाचनतायै / इयं बोधिसत्त्वस्य महासत्त्वस्य पारमितासूद्योगपर्येष्टिः / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बहुश्रुत्यातृप्तता / यत् किञ्चिद् बुद्धैर् भगवद्भिर् भाषितम् इह लोकधातौ समन्ताद् दशसु दिक्षु लोकधातुषु तत् सर्वम् आधारयिष्यामीति यात्य् अतृप्तता / इयं बोधिसत्त्वस्य महासत्त्वस्य बहुश्रुत्यातृप्तता / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य निरामिषधर्मदानविवरणता / यद् बोधिसत्त्वो महासत्त्वो धर्मं देशयस् तेन धर्मदानेनान्तशो बोधिम् अपि न प्रतिकाङ्क्षति / इयं बोधिसत्त्वस्य महासत्त्वस्य निरामिषधर्मदानविवरणता / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपारिशोधनकुशलमूलावरोपणता / यैः कुशलमूलैर् बुद्धक्षेत्रं परिशोधयन् नामपरचित्तक्षेत्रं परिशोधयति / तेषां कुशल्मूलानां परिणामना / इयं बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनकुशलमूलावरोपणपरिणामगता / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यापरिमितसंसारापरिखेदनता / यद् उत कुशलमूलोपस्तम्भनतायै कुशलमूलैर् उपस्तब्धः सत्त्वांश् च परिपाचयति / बुद्धक्षेत्रञ् च परिशोधयति / न च कदाचित् खेदनोपपद्यते / यावत् सर्वकारज्ञतां परिपूरयति / इयं बोधिसत्त्वस्य महासत्त्वस्यापरिमितसंसारापरिखेदनता / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य ह्र्यपत्राप्यस्थामं / यद् उत श्रावकप्रत्येकबुद्धचित्तजुगुप्सनता / इदं बोधिसत्त्वस्य महासत्त्वस्य ह्र्यपत्राप्यस्थानं /

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यारण्यवासापरित्यागिता / या श्रावकप्रत्येकबुद्धभूमेर् अतिक्रमणता / इयं बोधिसत्त्वस्य महासत्त्वस्यारण्यवासापरित्यागिता / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्याल्पेच्छता / यद् बोधिसत्त्वो महासत्त्वो बोधिम् अपि नेच्छतीतीयं बोधिसत्त्वस्य महासत्त्वस्याल्पेच्छता / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सन्तुष्टिता / यत् सर्वाकारज्ञता प्रतिलम्भेनापि न लभ्यते / इयं बोधिसत्त्वस्य महासत्त्वस्य सन्तुष्टिता / कतमा बोधिसत्त्वस्य महासत्वस्य धुतगुणसंलेखे ऽनुवर्तनता / यद् उत गम्भीरेषु धर्मेषु निर्याणक्षान्तिर् इयं बोधिसत्त्वस्य महासत्त्वस्य धुतगुणसंलेखानुवर्तनता / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य शिक्षाया अपरित्यागिता / यत्र सर्वशिक्षाणाम् अप्रचारः / इयं बोधिसत्त्वस्य महासत्त्वस्य शिक्षाया

अपरित्यागिता / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कामगुणजुगुप्सनता / कामचित्तस्यानुत्पादः / इयं बोधिसत्त्वस्य महासत्त्वस्य कामगुणजुगुप्सनता / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य निवृत्तिसहगतश् चित्तोत्पादः / यद् उत सर्वधर्माणाम् अनभिसंस्कारः / अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य निवृत्तिसहगतश् चित्तोत्पादः / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्वस्वपरित्यागिता / या ध्यात्मिकवाहानां धर्माणाम् अग्रहणता / इयं बोधिसत्त्वस्य महासत्त्वस्य सर्वस्वपरित्यागिता / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यावलीनचित्तता / यद् विज्ञानच्चितिस् तस्य चित्तं न तिष्ठति / इयं बोधिसत्त्वस्य महासत्त्वस्यावलीनचित्तता / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्ववस्तुनिरपेक्षता / यः सर्ववस्तूनाम् अमनसिकारः / इयं बोधिसत्त्वस्य महासत्त्वस्य सर्ववस्तुनिरपेक्षता / तत्र कतमा बोधित्त्वस्य महासत्त्वस्य गृहसंस्तवपरिवर्जनता / यद् उत बुद्धक्षेत्रेण बुद्धक्षेत्रसंक्रमणता / उपपादुकता / प्रादुर्भावमण्डका वायुप्रावरणता / इयं बोधिसत्त्वस्य महासत्त्वस्य गृहिसंस्तवपरिवर्जनता / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य भिक्षुणीसंस्तवपरिवर्जनता / यद् भिक्षुण्या सार्धम् अच्छसंघातमात्रं न तिष्ठति / न च तन्निदानं परितर्षणाचित्तम् उत्पादयति / स च तन्निदानं चीवरम् उपादयति / इयं बोधिसत्त्वस्य महासयस्य भिक्षुणीसंस्तवपरिवर्जनता / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कुलेषु मात्सर्यपरिवर्जनता / इह सुभूते बोधिसत्त्वेन महासत्त्वेनैकचित्तम् उत्पादयितव्यम् /

तन् मया सर्वसत्त्वानां सुखोपधानं कर्तव्यम् / तद् एते सत्त्वाः स्वपुण्यैर् एव सुखिता नात्र मया मात्सर्यचित्तम् उत्पाद्यम् / एवं बोधिसत्त्वेन महासत्त्वेन कुलमात्सर्यं परिवर्जयितव्यम् / तत्र कथं बोधिसत्त्वेन महासत्त्वेन संगणिकास्थानं परिवर्जयितव्यम् / यत्र बोधिसत्त्वस्य महासत्त्वस्य संगणिकास्थानस्थितस्य श्रावकप्रत्येकबुद्धा भवेयुः / तत् प्रतिसंयुक्ताः कया भवेयुः / तत् प्रतिसंयुक्तावादचित्तोत्पादा उत्पद्येरम् / तत्र बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् / इयं बोधिसत्त्वस्य महासत्वस्य संगणिस्थानपरिवर्जनता / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्योत्कर्षणपरिवर्जनता / तत्र कथं बोधिसत्त्वेन महासत्त्वेन व्यापादः परिवर्जयितव्यः / यद् व्यापादविचिकित्साचित्तानाम् अवकाशं न ददाति / कलहचित्तस्य विग्रहचित्तस्य वावकाशं न ददातीतीयं बोधिसत्त्वस्य महासत्त्वस्य व्यापादपरिवर्जनता / या आत्मिकानां धर्माणाम् असमनुपश्यनता / इयं बोधिसत्त्वस्य महासत्त्वस्योत्कर्षणपरिवर्जनता / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य परपंसनापरिवर्जनता / यद् उत बाह्यानां धर्माणाम् असमनुपश्यनता / इतीयं बोधिसत्त्वस्य महासत्त्वस्य परपंसनतापरिवर्जनता / तत्र कथं बोधिसत्त्वेन महासत्त्वेन दशाकुशलाः कर्मपथाः परिवर्जयितव्याः / तथा ह्य् एते सुगतेर् अप्य् अन्तरायकराः प्राग् एवार्यमार्गस्य प्राग् एवानुत्तरायां संबोधेः / एवं बोधिसत्त्वेन महासत्त्वेन दशाकुशलाः कर्मपथाः परिवर्जयितव्या / तत्र कथं बोधिसत्त्वेन महासत्त्वेनाधिमानः परिवर्जयितव्यः /

समं समनुपश्यति कुतः पुनर् अधिकं येनाधिमन्येत एवम् अधिमानः परिवर्जयितव्यः / तत्र कथं बोधिसत्त्वेन महासत्त्वेन स्तम्भः परिवर्जयितव्यः / तथा हि स तद् वस्तु न समनुपश्यति / यत्रास्य स्तम्भ उत्पद्येत / एव बोधिसत्त्वेन महासत्त्वेन स्तम्भः परिवर्जयितव्यः / तत्र कथं बोधिसत्त्वेन महासत्त्वेन विपर्यासाः परिवर्जयितव्याः / वस्त्वनुपलब्धिताम् उपादाय / एवं बोधिसत्त्वेन महासत्त्वेन विपर्यासाः परिवर्जयितव्याः / तत्र कथं बोधिसत्त्वेन महासत्त्वेन रागद्वेषमोहानाधिवासयितव्याः / तथा हि सरागद्वेषमोहानां वस्तु न समनुपश्यति / एवं बोधिसत्त्वेन महासत्त्वेन रागद्वेषमोहानाधिवासयितव्याः /

तत्र कतमे षष्ठ्यां भूमौ षट् धर्माः परिपूरयितव्याः / यद् उत षट्पारमिताः / दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता, परिपूरयितव्याः / तथा ह्य् आसु षट्सु पारमितासु, स्थित्वा बुद्धा भगवन्तः श्रावकप्रत्येकबुद्धाश् च पञ्चविधस्य ज्ञेयार्णवस्य पारङ्गता गच्छन्ति गमिष्यन्ति च / कतमस्य पञ्चविधस्य / यद् उतातीतस्यानागतस्य प्रत्युत्पन्नस्यावक्तव्यस्यासंस्कृतस्य / एवं बोधिसत्त्वेन महासत्त्वेन षट् धर्माः परिपूरयितव्याः / तत्र कथं बोधिसत्त्वेन महासत्त्वेन श्रावकचित्तं परिवर्जयितव्यम् / तथा हि नैष मार्गो बोधये / प्रत्येकबुद्धचित्तं परिवर्जयितव्यम् / तथा हि नैष मार्गो बोधये / परितर्षणचित्तं नोत्पादयितव्यम् / तथा हि नैष मार्गो बोधये / याचनकं दृष्ट्वा बोधये / नावलीनचित्तम् उत्पादयितव्यम् / तत् कस्य हेतोस् तथा हि नैष मार्गो बोधये / सर्ववस्तुनि परित्ज्यज्यता / न दुर्मनस्केन भवितव्यम् / तत् कस्य हेतोस् तथा हि / नैष मार्गो बोधये / प्रथमचित्तोत्पादम् उपादाय / नित्यं दानं दातव्यम् / न सक्तचित्ते न भवितव्यम् / तत्र कथं बोधिसत्त्वेन महासत्त्वेनात्मग्रहो न कर्तव्यः / तथा हि अत्यन्ततया आत्मा न संविद्यते / जीवग्रहो न कर्तव्यः / तथा ह्य् अत्यन्ततया जीवो न संविद्यते / पुद्गलग्रहो न कर्तव्यस् तथा ह्य् अत्यन्ततया पुद्गलो न विद्यते / तत्र कथं बोधिसत्त्वेन महासत्त्वेन नोच्छेदग्रहो न कर्तव्यः तथा हि न कश्चिद् धर्म उच्छिद्यते ऽत्यन्तानुपलम्भात् सर्वधर्माणां / तत्र कथं बोधिसत्त्वेन महासत्त्वेन शाश्वतग्रहो न कर्तव्यः /

तत् कस्य हेतोस् तथा हि धर्मा नोत्पद्यन्ते न शाश्वतो भवति नोच्छेदः / तत्र कथं बोधिसत्त्वेन महासत्त्वेन निमित्तसंज्ञा न कर्तव्या / तथा ह्य् अत्यन्ततया संक्लेशो न संविद्यते / तत्र कथं बोधिसत्त्वेन महासत्त्वेन हेतुदृष्टिर् न कर्तव्या / तथा हि तां दृष्टिं न समनुपश्यति / तत्र कथं बोधिसत्त्वेन महासत्त्वेन नामरूपाभिनिवेशो न कर्तव्यः / तथा हि स तद् वस्तु न समनुपश्यति / तत्र कथ बोधिसत्त्वेन महासत्त्वेन स्कन्धाभिनिवेशो न कर्तव्यः / तथा ह्य् अत्यन्ततया स्कन्धो न संविद्यते / एवं स्कन्धाभिनिवेशो न कर्त्व्यः / तत्र कथं बोधिसत्त्वेन महासत्त्वेन धात्वभिनिवेशो न कर्तव्यः / तथा ह्य् अत्यन्ततया धातवो न संविद्यन्ते / एवं धात्वभिनिवेशो न कर्तव्यः / तत्र कथं बोधिसत्त्वेन महासत्त्वेनायतनाभिनिवेशो न कर्तव्यः / तथा ह्य् अत्यन्ततया आयतनानि न संविद्यन्ते / एवम् आयतनाभिनिवेशो न कर्तव्यः / तत्र कथं बोधिसत्त्वेम महासत्त्वेन त्रैधातुकाभिनिवेशो न कर्तव्यः / तथा ह्य् अस्य स्वभावेन संविद्यते / एवं बोधिसत्त्वेन महासत्त्वेन त्रैधातुकाभिनिवेशो न कर्तव्यः / तत्र कथं बोधिसत्त्वेन महासत्त्वेन त्रैधातुकाध्यवसानं न कर्तव्यम् / तथा हि तद् वस्तु न संविद्यते नोपलभ्यते / एवं बोधिसत्त्वेन महासत्त्वेन त्रैधातुकाध्यवसानं न कर्तव्यम् / तत्र कथं बोहिसत्त्वेन महासत्त्वेन त्रैधातुकालयो न कर्तव्यः / तथा हि तस्य वस्तु न संविद्यते एवं त्रैधातुकालयो न कर्तव्यः / तत्र कथं बोधिसत्त्वेन महासत्त्वेन त्रैधातुकनिश्रयो न कर्तव्यः /

तथा हि तस्य तद् वस्तु न संविद्यते / एवं बोधिसत्त्वेन महासत्त्वेन त्रैधातुकनिश्रयो न कर्तव्यः / तत्र कथं बोधिसत्त्वेन महासत्त्वेन बुद्धनिश्रयदृष्ट्यभिनिवेशो न कर्तव्यः / तथा हि न बुद्धदृष्टिनिश्रयो बुद्धदर्शनम् / एवं बोधिसत्त्वेन महासत्त्वेन बुद्धनिश्रयदृष्ट्यभिनिवेशो न कर्तव्यः / तत्र कथं बोधिसत्त्वेन महासत्त्वेन धर्मनिश्रयदृष्ट्यभिनिवेशो न कर्तव्यः / तथा हि न धर्मदृष्टिनिश्रयाद् धर्मदर्शनम् / एवं बोधिसत्त्वेन महासत्त्वेन धर्ममिश्रयदृष्ट्यभिनिवेशो न कर्तव्यः / तत्र कथं बोधिसत्त्वेन महासत्त्वेन सङ्घनिश्रयदृष्ट्यभिनिवेशो न कर्तव्यः / तथा हि न सङ्घदृष्टिनिश्रयात् सङ्घदर्शनम् / एवं बोधिसत्त्वेन महासत्त्वेन सङ्घनिश्रयदृष्ट्यभिनिवेशो न कर्तव्यः / तत्र कथं बोधिसत्त्वेन महासत्त्वेन शीलनिश्रयदृष्ट्यभिनिवेशो न कर्तव्यः / तथा हि न शीलदृष्टिनिश्रयाच् छीलपरिशुद्धिर् एवं बोधिसत्त्वेन महासत्त्वेन शीलनिश्रयदृष्ट्यभिनिवेशो न कर्तव्यः / तत्र कथं बोधिसत्त्वेन महासत्त्वेन शून्या धर्मा इति विषादो न कर्तव्यः / तथा हि सर्वधर्मा स्वलक्षणेन शून्याः न शून्यतया / एवं बोधिसत्त्वेन महासत्त्वेन शून्यतायां विषादो न कर्तव्यः / तत्र कथं बोधिसत्त्वेन महासत्त्वेनावरोधयितव्या / तथा हि सर्वधर्माः शून्या न शून्यताशून्यतां विरोधयति / एवं बोधिसत्त्वेन महासत्त्वेन शून्यता न विरोधयितव्या / तत्र कथं बोधिसत्त्वेन महासत्त्वेन शून्यता परिपूरयितव्या / स्वलक्षणशून्यता परिपूरिर् बोधिसत्त्वस्य महासत्त्वस्य शून्यता परिपूरिः /

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यानिमित्तसाक्षात्क्रिया / यद् उत सर्वनिमित्तानाम् अमनसिकारः / तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्याप्रणिहितज्ञानं यत् स त्रैधातुकचित्तं न प्रवर्तते / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः / यद् उत दश कुशलकर्मपथपरिपूरिः / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सत्त्वेषु कृपाकरुणतापरिपूरिः / यद् उत महाकरुणाप्रतिलम्भः / तत्र कथं बोधिसत्त्वेन महासत्त्वेन सत्त्वा नावगन्तव्याः / यद् उत मैत्रीपरिपूर्या / तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्माणां समतादर्शनम् / यद् उतानुक्षेपो प्रक्षयः / सर्वधर्माणां / तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य भूतनयप्रतिवेधः / यः सर्वधर्माणाम् एकनयप्रतिवेधः / अप्रतिवेधः / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यानुत्पादक्षान्तिः / या सर्वधर्माणाम् अनुत्पादायानिरोधयो ऽनभिसंस्काराय क्षान्तिः / तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्यानुत्पादज्ञानं / यन् नामरूपानुत्पादज्ञानं / इदं बोधिसत्त्वस्य महासत्त्वस्यानुत्पादज्ञानं / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यैकनयनिर्देशः / यया असमुदाचारता / अयं बोधिसत्त्वस्य महासत्त्वस्यैकनयनिर्देशः / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कल्यतासमुद्घातः / या सर्वधर्माणाम् अविकल्पनता / तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य दृष्टिविवर्तः / या श्रावकभूमेः प्रत्येकबुद्धभूमेश् च दृष्टिविवर्तनता / तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य क्लेशविवर्तः / यः सर्ववासनानुसन्धिक्लेशक्षयः /

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य शमथविपश्यनाभूमिः / यद् उत सर्वाकारज्ञताज्ञानं / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य दान्तचित्तता / यन् न त्रैधातुकैर् अतिविन्दति / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य शान्तचित्तता / या षण्णाम् इन्द्रियाणां प्रतिसंहरणता / तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्याप्रतिहतज्ञानं / यद् उत बुद्धचक्षुः प्रतिलम्भः / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यानूनया च सर्वज्ञतया षड् आयतनापेक्षा / तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य यत्रेच्छाक्षेत्रगमनं / यत्र तत्र पर्षन्मण्डल आत्मभावदर्शनं / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वचित्तानुप्रवेशः / यद् एकचित्तेन सर्वसत्त्वानां चित्तचैतसिकानि प्रतिजानाति / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडता / याभिर् अभिज्ञाभिर् विक्रीडन् बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामति / बुद्धदर्शनाय न चास्य बुद्धसंज्ञा भवति / तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रदर्शनं / यद् एकस्मिन्न् एव बुद्धक्षेत्रे स्थित्वापरिमाणानि बुद्धक्षेत्राणि पश्यति / न चास्य बुद्धक्षेत्रसंज्ञा भवति / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य

यथादृष्टिबुद्धक्षेत्रपरिनिष्पादनता / यस् त्रिसाहस्रमहासाहस्रलोकधात्वीश्वरचक्रवर्तिभूमौ स्थित्वा त्रिसाहस्रमहासाहस्रलोकधातोः परित्यजनं तेन चासनता / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धपर्युपासनता / या धर्मपर्युपासनता सर्वसत्त्वानुग्रहं प्रति / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धकाययथाभूतप्रत्यवेक्षणता / या धर्मकाययथाभूतप्रत्यवेक्षणता / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्येन्द्रियपरापरज्ञानता / या दश कुशलेषु स्थित्वा सर्वसत्त्वानाम् इन्द्रियपरिपूरिप्रजाननता / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनता / या सत्त्वचित्तपरिशोधनतानुपलम्भयोगेन / तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य मायोपमः समाधिः / यत्र समाधौ स्थित्वा बोधिसत्त्वो महासत्त्वः सर्वाः क्रियाः करोति / न चास्य चित्तं क्वचिद् धर्मे प्रवर्तते / तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्याभीक्ष्णं समापद्यनता / यद् बोधिसत्त्वस्य महासत्त्वस्य विपाकजः समाधिः / तत्र कथं बोधिसत्त्वो महासत्त्वो यथायथा संज्ञानां कुशलमूलपरिनिष्पत्तिर् भवति / तथातथात्मभावं परिनिष्पादयति / इह बोधिसत्त्वो महासत्त्वः सञ्चिन्त्यात्मभावं परिगृह्णाति / यथायथा सत्त्वपरिपाको भवति / तत्र कथं बोधिसत्त्वो महासत्त्वः सञ्चिन्त्यात्मभावम् उपादत्ते / यद् उत सर्वसत्त्वपरिपाकः / तत्र कथं बोधिसत्त्वो महासत्त्वो यथायथा प्रणिदधाति / तथातथास्य समृध्यति / इदं बोधिसत्त्वो महासत्त्वः षण्णां पारमितानां परिपूर्णत्वाद् यथायथा प्रणिदधाति तथातथा समृध्यति /

तत्र कथं बोधिसत्वो महासत्त्वो देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगरुतज्ञानं प्रतिविध्यति / यद् उत निरुक्तिप्रतिसंविदा / तत्र कथं बोधिसत्त्वो महासत्त्वः परिपूर्णप्रतिभानिर्देशज्ञानं प्रतिविध्यति / यद् उत प्रतिभानसंविदा / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गर्भावक्रान्तिसंपत् / इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वासु जातिषूपपादुक उपपद्यते / इह बोधिसत्त्वस्य महासत्त्वस्य गर्भावक्रान्तिसंपत् / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कुलसंपत् / यद् बोधिसत्त्वो महासत्त्वो महाकुलेषु प्रत्याजायते / इयं बोधिसत्त्वस्य महासत्त्वस्य कुलसंपत् / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य जातिसंपत् / यद् बोधिसत्त्वो महासत्त्वः क्षत्रियमहासालकुलेषु वा ब्राह्मणमहासालकुलेषु वा प्रत्याजायते / इयं बोधिसत्त्वस्य महासत्त्वस्य जातिसंपत् / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गोत्रसंपत् / यद् बोधिसत्त्वो महासत्त्वो यतो गोत्रात् पौर्वका बोधिसत्त्वो अभूवन् / तत्र गोत्रे प्रत्याजायते / इयं बोधिसत्त्वस्य महासत्त्वस्य गोत्रसंपत् / तत्र कतमा बोधिसत्त्वस्य माहसत्त्वस्य परिचारसंपत् / यद् बोधिसत्त्वो महासत्त्वो बोधौ सत्त्वान् प्रतिष्ठाप्य बोधिसत्त्वपरिचार एव भवति / इयं बोधिसत्त्वस्य महासत्त्वस्य परिचारसंपत् / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य जन्मसंपत् / यद् बोधिसत्त्वो महासत्त्वो जातमात्र एवासंख्येयलोकधातून् अवभासेन स्फुरति / तांश् च षड् विकारं प्रकम्पयति / इयं बोधिसत्त्वस्य महासत्त्वस्य जन्मसंपत् / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्याभिनिष्क्रमणसंपत् /

यद् बोधिसत्त्वो महासत्त्वः प्रव्रज्यायै निष्क्रामति / अनेकैः सत्त्वकोटीनियुतशतसहस्रैः सार्धं ते च सत्त्वा नियता भवन्ति / त्रिषु यानेषु / इयं बोधिसत्त्वस्य महासत्त्वस्याभिनिष्क्रमणसंपत् / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बोधिवृक्षव्यूहसंपत् / यद् बोधिसत्त्वो महासत्त्वो बोधिवृक्षमूलं सुवर्णमयं भवति / स्कन्धो वैदूर्यमयः / सप्तरत्नमय्यः शाखाः सर्वरत्नमयानि पत्रपुष्पाणि यस्य वृक्षस्य पुण्यो गन्धो ऽवभासाश् चानन्तालोकधातून् स्फुरति / इमं बोधिसत्त्वस्य महासत्त्वस्य बोधिवृक्षव्यूहसंपत् / तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्वगुणपरिपूरिसंपत् / या बोधिसत्त्वस्य महासत्त्वस्य सत्त्वपरिपाकविशुद्धिश् च बुद्धक्षेत्रपरिशुद्धिश् च / इयं बोधिसत्त्वस्य महासत्त्वस्य सर्वगुणपरिपूरिसंपत् / तत्र कथं बोधिसत्त्वो महासत्त्वो दशम्यां भूमौ स्थितस् तथागत एव वक्तव्यः / यस्य बोधिसत्त्वस्य महासत्त्वस्य सर्वपारमिताः परिपूर्णां भवन्ति / दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः / अष्टादशावेणिका बुद्धधर्माः / सर्वाकारज्ञताज्ञानं सर्ववासनानुसन्धिक्लेशप्रहाणं / महाकरुणा / सर्वबुद्धधर्माश् च परिपूर्णा भवन्ति / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दशम्यां भूमौ स्थितस् तथागत एव वक्तव्यः / तत्र कतमा सुभूते बोधिसत्त्वस्य महासत्त्वस्य दश भूमयः / इह सुभूते बोधिसत्त्वो महासत्त्व उपायकौशलेन दानपारमितायां चरन् शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन् प्रज्ञापारमितायां चरन् /

अध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन् अध्यात्मबहिर्धाशून्यतायां चरन् शून्यताशून्यतायां चरन् महाशून्यतायां चरन् पर्मार्थशून्यतायां चरन् संस्कृतशून्यतायां चरन् असंस्कृतशून्यतायां चरन् अत्यन्तशून्यतायां चरन् अनवराग्रशून्यतायां चरन् अनवकारशून्यतायां चरन् प्रकृतिशून्यतायां चरन् सर्वधर्मशून्यतायां चरन् स्वलक्षणशून्यतायां चरन् अनुपलम्भशून्यतायां चरन् अभावशून्यतायां चरन् स्वभावशून्यतायां चरन् अभावस्वभावशून्यतायां चरन् स्मृत्यूपस्थानेषु चरन् सम्यक्प्रहाणेषु चरन् ऋद्धिपादेषु चरन् इन्द्रियेषु चरन् बलेषु चरन् बोध्यङ्गेषु चरन् आर्याष्टाङ्गमार्गे चरन् आर्यसत्येषु चरन् ध्यानेषु चरन् अप्रमाणेषु चरन् आरूप्यसमापत्तिषु चरन् विमोक्षेषु चरन् अनुपूर्वविहारसमापत्तिषु चरन् शून्यतानिमित्ताप्रणिहितविमोक्षेषु चरन् अभिज्ञासु चरन् धारणीमुखेषु चरन् समाधिषु चरन् तथागतबलेषु चरन् चतुर्षु वैशारद्येषु चरन् चतुःप्रतिसंवित्सु चरन् महामैत्र्ये चरन् महाकरुणायां चरन् अष्टादशस्व् आवेणिकबुद्धधर्मेषु चरन् शुक्लविपश्यनाभूमिम् अतिक्रामति / गोत्रभूमिं समतिक्रामति / अष्टमकभूमिं समतिक्रामति / दर्शनभूमिं समतिक्रामति / तनुभूमिं समतिक्रामति / वीतरागभूमिं समतिक्रामति / कृताविभूमिं समतिक्रामति / प्रत्येकबुद्धभूमिं समतिक्रामति / बोधिसत्त्वभूमिं समतिक्रामति / इह सुभूते बोधिसत्त्वो महासत्त्वो नवभूमिम् अतिक्रामति / बुद्धभूमौ तिष्ठति / इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दश भूमयः / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो महायानं संप्रस्थितो वेदितव्यः /

यत् पुनः सुभूतिर् एवम् आह / कुतस् तद् यानं निर्यास्यतीति / त्रैधातुकान् निर्यास्यति / येन सर्वाकारज्ञता तेन स्थास्यति / तत् पुनर् अद्वययोगेन / तत् कस्य हेतोस् तथा हि सुभूते यच् च महायानं या च सर्वाकारज्ञता उभाव् एतौ धर्मौ न विसंयुक्तौ संयुक्ताव् अरूपिणाव् अनिदर्शनाव् अप्रतिधातैकलक्षणौ / तत् कस्य हेतोः / न हि सुभूते अलक्षणा धर्मा निर्यान्ति वा निर्यास्यति वा निर्याता वा धर्मधातोः / स सुभूते निर्याणम् इच्छेद् यः अलक्षणानां धर्माणां निर्याणम् इच्छेत् / तथतायाः स सुभूते निर्याणम् इच्छेद् यो ऽवितथतायाः सुभूते निर्याणम् इच्छेत् / भूतकोटेः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / अचिन्त्यधातोः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / आकाशधातोः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / रागक्षयधातोः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / प्रहाणधातोः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / विरागधातोः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / निरोधधातोः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / रूपशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्मणां निर्याणम् इच्छेत् / वेदनाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / संज्ञाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / संस्कारशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् /

विज्ञानशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / तत् कस्य हेतोर् न हि सुभूते रूपशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न वेदनाशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / स संज्ञाशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न संस्कारशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञताया तिष्ठति / न विज्ञानशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / तत् कस्य हेतोस् तथा हि / स सुभूते रूपं रूपेण शून्यं / वेदना वेदनया शून्या / संज्ञा संज्ञया शून्या / संस्काराः संस्कारैः शून्या / विज्ञानं विज्ञानेन शून्यं / चक्षुःशून्यतायाः स सुभूते निर्याताम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / श्रोत्रशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / घ्राणशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / जिह्वाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / कायशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / मनःशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / तत् कस्य हेतोर् न हि सुभूते चक्षुःशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञातायां तिष्ठति / न श्रोत्रशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न प्राणशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न जिह्वाशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति /

न कायशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न मनःशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / तत् कस्य हेतोस् तथा हि सुभूते चक्षुश् चक्षुषा शून्यं / श्रोत्रं श्रोत्रेण शून्यं / घ्राणं घ्राणेन शून्यं / जिह्वा जिह्वया शून्या / कायः कायेन शून्यः / मनो मनसा शून्यं /

रूपशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / शब्दशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / गन्धशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / रसशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणामां धर्माणां निर्याणम् इच्छेत् / स्पर्शशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / धर्मशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / तत् कस्य हेतोर् न हि सुभूते रूपशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न शब्दशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न गन्धशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न रसशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न स्पर्शशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न धर्मशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / तत् कस्य हेतोस् तथा हि सुभूते रूपं रूपेण शून्यं शब्दः शब्देन शून्यः गन्धो गन्धेन शून्यः रसो रसेन शून्यः स्पर्शः स्पर्शेन शून्यः धर्माः धर्मैः शून्याः /

चक्षुर्विज्ञानशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / श्रोत्रविज्ञानशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / घ्राणविज्ञानशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / जिह्वाविज्ञानशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / कायविज्ञानशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / मनोविज्ञानशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / तत् कस्य हेतोर् न हि सुभूते चक्षुर्विज्ञानशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न श्रोत्रविज्ञानशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न घ्राणविज्ञानशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न जिह्वाविज्ञानशून्यता त्रैधातुकान् निर्याति / सर्वाकारज्ञतायां तिष्ठति / न कायविज्ञानशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न मनोविज्ञानशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / तत् कस्य हेतोस् तथा हि सुभूते चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं / श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं / घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं / जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं / कायविज्ञानं कायविज्ञानेन शून्यं /

चक्षुःसंस्पर्शशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / श्रोत्रसंस्पर्शशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / घ्राणसंस्पर्शशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / जिह्वासंस्पर्शशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / कायसंस्पर्शशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / मनःसंस्पर्शशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / तत् कस्य हेतोर् न हि सुभूते चक्षुःसंस्पर्शशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न श्रोत्रसंस्पर्शशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न घ्राणासंस्पर्शशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न जिह्वासंस्पर्शशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न कायसंस्पर्शशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न मनःसंस्पर्शशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / तत् कस्य हेतोस् तथा हि सुभूते चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः / श्रोत्रसंपर्शः श्रोत्रसंस्पर्शेन शून्यः / घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यः / जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः / कायसंस्पर्शः कायसंस्पर्शेन शून्यः / मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः /

चक्षुःसंस्पर्शप्रत्ययवेदनायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / श्रोत्रसंस्पर्शप्रत्ययवेदनायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / घ्राणसंस्पर्शप्रत्ययवेदनायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / जिह्वासंस्पर्शप्रत्ययवेदनायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / कायसंस्पर्शप्रत्ययवेदनायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / मनःसंस्पर्शप्रत्ययवेदनायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / तत् कस्य हेतोर् न हि चक्षुःसंस्पर्शप्रत्ययवेदना त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न श्रोत्रसंस्पर्शप्रत्ययवेदना त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न घ्राणसंस्पर्शप्रत्ययवेदना त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न जिह्वासंस्पर्शप्रत्ययवेदना त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न कायसंस्पर्शप्रत्ययवेदना त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न मनःसंस्पर्शप्रत्ययवेदना त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / तत् कस्य हेतोस् तथा हि सुभूते चक्षुःसंस्पर्शप्रत्ययवेदना चक्षुःसंस्पर्शप्रत्ययवेदनया शून्या / श्रोत्रसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदनया शून्या / घ्राणसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदनया शून्या / जिह्वासंस्पर्शप्रत्ययवेदना जिह्वासंस्पर्शप्रत्ययवेदनया शून्या / कायसंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदनया शून्या / मनःसंस्पर्शप्रत्ययवेदना मनःसंस्पर्शप्रत्ययवेदनया शून्या /

स्वप्नस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / मायायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / मरीच्याः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / प्रतिश्रुत्कायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / प्रतिभासस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / तथागतनिर्मितस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / तत् कस्य हेतोर् न हि सुभूते स्वप्नस्य स्वभावस् त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न मायायाः स्वभावस् त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न मरीच्याः स्वभावस् त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न प्रतिश्रुत्कायाः स्वभावस् त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न प्रतिभासस्य स्वभावस् त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न तथागतनिर्मितस्य स्वभावस् त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / तत् कस्य हेतोस् तथा हि सुभूते स्वप्नस्वभावः स्वप्नस्वभावेन शून्यः / मायास्वभावो मायास्वभावेन शून्यः / मरीचिस्वभावो मरीचिस्वभावेन शून्यः / प्रतिश्रुत्कास्वभावः प्रतिश्रुत्कास्वभावेन शून्यः / प्रतिभासस्वभावः प्रतिभासस्वभावेन शून्यः / तथागतनिर्मितस्वभावस् तथागतनिर्मितस्वभावेन शून्यः /

दानपारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / शीलपारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / क्षान्तिपारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / वीर्यपारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / ध्यानपारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / प्रज्ञापारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / तत् कस्य हेतोस् तथा हि सुभूते दानपारमितायाः स्वभावो न त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यः शीलपारमितायाः स्वभावो न स त्रैधातुकान् निर्याति / यः क्षान्तिपारमितायाः स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यो वीर्यपारमितायाः स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यो ध्यानपारमितायाः स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यः प्रज्ञापारमितायाः स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / तत् कस्य हेतोस् तथा हि सुभूते दानपारमितायाः स्वभावो दानपारमितास्वभावेन शून्यः / शीलपारमितायाः स्वभावः शीलपारमितास्वभावेन शून्यः / क्षान्तिपारमितायाः स्वभावः क्षान्तिपारमितास्वभावेन शून्यः / वीर्यपारमितायाः स्वभावो वीर्यपारमितास्वभावेन शून्यः / ध्यानपारमितायाः स्वभावो ध्यानपारमितास्वभावेन शून्यः / प्रज्ञापारमितायाः स्वभावः प्रज्ञापारमितास्वभावेन शून्यः /

अध्यात्मशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / बहिर्धाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / अध्यात्मबहिर्धाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / शून्यताशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / महाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / परमार्थशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / संस्कृतशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / असंस्कृतशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / अत्यन्तशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / अनवराग्रशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / अनवकारशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / प्रकृतिशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / सर्वधर्मशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / स्वलक्षणशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / अनुपलम्भशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / अभावशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्मणां निर्याणम् इच्छेत् /

स्वभावशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / अभावस्वभावशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / तत् कस्य हेतोर् न हि सुभूते ऽध्यात्मशून्यता त्रैधातूकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न बहिर्धाशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / नाध्यात्मबहिर्धाशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न शून्यताशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न महाशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न परमार्थशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न संस्कृतशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / नासंस्कृतशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / नात्यन्तशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / नानवराग्रशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / नानवकारशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न प्रकृतिशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न सर्वधर्मशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न स्वलक्षणशून्यता त्रैधातुकान् निर्याति न सर्वाकारज्ञतायां तिष्ठति / नानुपलम्भशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / नाभावशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / न स्वभावशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति /

नाभावस्वभावशून्यता त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति /

तत् कस्य हेतोस् तथा हि सुभूते ऽध्यात्मशून्यताध्यात्मशून्यतया शून्या / बहिर्धाशून्यता बहिर्धाशून्यतया शून्या / अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतया शून्या / शून्यताशून्यता शून्यतया शून्या / महाशून्यता महाशून्यतया शून्या / परमार्थशून्यता परमार्थशून्यतया शून्या / संस्कृतशून्यता संस्कृतशून्यतया शून्या / असंस्कृतशून्यतासंस्कृतशून्यतया शून्या / अत्यन्तशून्यता अत्यन्तशून्यतया शून्या / अनवराग्रशून्यता अनवराग्रशून्यतया शून्या / अनवकारशून्यता अनवकारशून्यतया शून्या / प्रकृतिशून्यता प्रकृतिशून्यतया शून्या / सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या / स्वलक्षणशून्यता स्वलक्षणशून्यातया शून्या / अनुपलम्भशून्यता अनुपलम्भशून्यतया शून्या / अभावशून्यता अभावशून्यतया शून्या / स्वभावशून्यता स्वभावशून्यतया शून्या / अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या /

स्मृत्युपस्थानानां सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / सम्यक्प्रहाणानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / ऋद्धिपादानां च सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां निर्याणम् इच्छेत् / इन्द्रियाणां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / बलानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / बोध्यङ्गानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / आर्याष्टाङ्गमार्गस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / तत् कस्य हेतोस् तथा हि सुभूते यः स्मृत्युपस्थानानां स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यः सम्यक्प्रहाणानां स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायाः तिष्ठति / य ऋद्धिपादानां स्वभावो न स त्रैधातूकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यः इन्द्रियाणां स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यो बलानां स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यो बोध्यङ्गानां स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यो मार्गस्य स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / तत् कस्य हेतोस् तथा हि / स्मृत्युपस्थानस्वभावः स्मृत्युपस्थानस्वभावेन शून्यं_ / सम्यक्प्रहाणस्वभावः सम्यक्प्रहाणस्वभावेन शून्यः / ऋद्धिपादस्वभाव ऋद्धिपादस्वभावेन शून्यः / इन्द्रियस्वभावः इन्द्रियस्वभावेन शून्यः / बलस्वभावो बलस्वभावेन शून्यः / बोध्यङ्गस्वभावो बोध्यङ्गस्वभावेन शून्यः / मार्गस्वभावो मार्गस्वभावेन शून्यः /

आर्यसत्यानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / ध्यानानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / अप्रमाणानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / आरूप्यसमापत्तीनां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / विमोक्षाणां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / नवानुपूर्वविहारसमापत्तीनां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / शून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / आनिमित्तस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / अप्रणिहितस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् / तत् कस्य हेतोस् तथा हि सुभूते य आर्यसत्यानां स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यो ध्यानानां स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यो ऽप्रमाणानां स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / य आरूप्यसमापत्तीनां स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यो ऽष्टानां विमोक्षाणां स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यो नवानुपूर्वविहारसमापत्तीनां स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यः शून्यतायाः स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / यो ऽप्रमाणहितस्य स्वभावो न स त्रैधातुकान् निर्याति / न सर्वाकारज्ञतायां तिष्ठति / तत् कस्य हेतोस् तथा हि सुभूते आर्यसत्यस्य स्वभाव आर्यसत्यस्वभावेन शून्यः / ध्यानस्वभावो ध्यानस्वभावेन शून्यः / अप्रमाणस्वभावो ऽप्रमाणस्वभावेन शून्यः / आरूप्यसमापत्तिस्वभाव आरूप्यसमापत्तिस्वभावेन शून्यः / विमोक्षस्वभावो विमोक्षस्वभावेन शून्यः / नवानुपूर्वविहारस्वभावो नवानुपूर्वविहारस्वभावेन शून्यः / शून्यतास्वभावः शून्यतास्वभावेन शून्यः / आनिमित्तस्वभाव आनिमित्तस्वभावेन शून्यः / अप्रणिहितस्वभावो ऽप्रणिहितस्वभावेन शून्यः /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.