Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता, Part इ
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
असत्त्वात् स्मृत्युपस्थानान्य् अबद्धान्य् अमुक्तानि / विविक्तत्वात् स्मृत्युपस्थानान्य् अबद्धान्य् अमुक्तानि / अनुत्पन्नत्वात् स्मृत्युपस्थानान्य् अबद्धान्य् अमुक्तानि / असत्त्वात् सम्यक्प्रहाणान्य् अबद्धान्य् अमुक्तानि / विविक्तत्वात् सम्यक्प्रहाणान्य् अबद्धान्य् अमुक्तानि / अनुत्पन्नत्वात् सम्यक्प्रहाणान्य् अबद्धान्य् अमुक्तानि / असत्त्वाद् ऋद्धिपादा अबद्धा अमुक्ताः / विविक्तत्वाद् ऋद्धिपादा अबद्धा अमुक्ताः / अनुत्पन्नत्वाद् ऋद्धिपादा अबद्धा अमुक्ताः / असत्त्वाद् इन्द्रियाण्य् अबद्धान्य् अमुक्तानि / विविक्तत्वाद् इन्द्रियाण्य् अबद्धान्य् अमुक्तानि / अनुत्पन्नत्वाद् इन्द्रियाण्य् अबद्धान्य् अमुक्तानि / असत्त्वाद् बलान्य् अबद्धान्य् अमुक्तानि / विविक्तत्वाद् बलान्य् अबद्धान्य् अमुक्तानि / अनुत्पन्नत्वाद् बलान्य् अबद्धान्य् अमुक्तानि / असत्त्वाद् बोध्यङ्गान्य् अबद्धान्य् अमुक्तानि / विविक्तत्वाद् बोध्यङ्गान्य् अबद्धान्य् अमुक्तानि / अनुत्पन्नत्वाद् बोध्यङ्गान्य् अबद्धान्य् अमुक्तानि / असत्त्वाद् आर्याष्टाङ्गामार्गो ऽबद्धो ऽमुक्तः / विविक्तत्वाद् आर्याष्टाङ्गामार्गो ऽबद्धो ऽमुक्तः / अनुत्पन्नत्वाद् आर्याष्टाङ्गामार्गो ऽबद्धो ऽमुक्तः /
आर्यसत्यान्य् अप्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि / ध्यानान्य् अप्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि / अप्रमाणान्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि / आरूप्यसमापत्तयो ऽप्य् आयुष्मन् पूर्णाबद्धा अमुक्ताः / विमोक्षा अप्य् आयुष्मन् पूर्णाबद्धा अमुक्ताः / अनुपूर्वविहारसमापत्तयो ऽप्य् आयुष्मन् पूर्णाबद्धा अमुक्ताः / शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि / अभिज्ञा अप्य् आयुष्मन् पूर्णाबद्धा अमुक्ताः / सर्वसमाधयो ऽप्य् आयुष्मन् पूर्णाबद्धा अमुक्ताः / सर्वधारणीमुखान्य् अप्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि /
तत् कस्य हेतोः / असत्त्वाद् आयुष्मन् पूर्णार्यसत्यान्य् अबद्धान्य् अमुक्तानि / विविक्तत्वाद् आर्यसत्यान्य् अबद्धान्य् अमुक्तानि / अनुत्पन्नत्वाद् आर्यसत्यान्य् अबद्धान्य् अमुक्तानि / असत्त्वाद् आयुष्मन् पूर्ण ध्यानान्य् अबद्धान्य् अमुक्तानि / विविक्तत्वात् ध्यानान्य् अबद्धान्य् अमुक्तानि / अनुत्पन्नत्वात् ध्यानान्य् अबद्धान्य् अमुक्तानि / असत्त्वाद् आयुष्मन् पूर्णाप्रमाणान्य् अबद्धान्य् अमुक्तानि / विविक्तत्वाद् अप्रमाणान्य् अबद्धान्य् अमुक्तानि / अनुत्पन्नत्वाद् अप्रमाणान्य् अबद्धान्य् अमुक्तानि / असत्त्वाद् आयुष्मन् पूर्णारूप्यसमापत्तयो ऽबद्धा अमुक्ताः / विविक्तत्वाद् आरूप्यसमापत्तयो ऽबद्धा अमुक्ताः / अनुत्पन्नत्वाद् आरूप्यसमापत्तयो ऽबद्धा अमुक्ताः / असत्त्वाद् आयुष्मन् पूर्ण विमोक्षा अबद्धा अमुक्ताः / विविक्तत्वाद् विमोक्षा अबद्धा अमुक्ताः / अनुत्पन्नत्वाद् विमोक्षा अबद्धा अमुक्ताः / असत्त्वाद् आयुष्मन् पूर्ण नवानुपूर्वविहारसमापत्तयो ऽबद्धा अमुक्ता / विविक्तत्वान् नवानुपूर्वविहारसमापत्तयो ऽबद्धा अमुक्ताः / अनुत्पन्नत्वान् नवानुपूर्वविहारसमापत्तयो ऽबद्धा अमुक्ताः / असत्त्वाद् आयुष्मन् पूर्ण शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अबद्धान्य् अमुक्तानि / विविक्तत्वाच् छून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अबद्धान्य् अमुक्तानि / अनुत्पन्नत्वाच् छून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अबद्धान्य् अमुक्तानि / असत्त्वाद् आयुष्मन् पूर्णाभिज्ञा अबद्धा अमुक्ताः / विविक्तत्वाद् अभिज्ञा अबद्धा अमुक्ताः / अनुत्पन्नत्वाद् अभिज्ञा अबद्धा अमुक्ताः / असत्त्वद् आयुष्मन् पूर्ण समाधयो ऽबद्धा अमुक्ताः / विविक्तत्वात् समाधयो ऽबद्धा अमुक्ताः / अनुत्पन्नत्वात् समाधयो ऽबद्धा अमुक्ताः असत्त्वाद् आयुष्मन् पूर्ण धारणीमुखान्य् अबद्धान्य् अमुक्तानि / विविक्तत्वाद् धारणीमुखान्य् अबद्धान्य् अमुक्तानि / अनुत्पन्नत्वाद् धारणीमुखान्य् अबद्धान्य् अमुक्तानि /
तथागतबलान्य् अप्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि / वैशारद्यान्य् अप्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि / प्रतिसंविदो ऽप्य् आयुष्मन् पूर्णाबद्धा अमुक्ताः / महामैत्र्य् आयुष्मन् पूर्णाबद्धामुक्ता / महाकरुणाप्य् आयुष्मन् पूर्णाबद्धामुक्ता / आवेणिकबुद्धधर्मा अप्य् आयुष्मन् पूर्णाबद्धा अमुक्ताः / तत् कस्य हेतोः / असत्त्वाद् आयुष्मन् पूर्ण तथागतबलान्य् अबद्धान्य् अमुक्तानि / विविक्तत्वात् तथागतबलान्य् अबद्धान्य् अमुक्तानि / अनुत्पन्नत्वात् तथागतबलान्य् अबद्धान्य् अमुक्तानि / असत्त्वाद् वैशारद्यान्य् अबद्धान्य् अमुक्तानि / विविक्तत्वाद् वैशारद्यान्य् अबद्धान्य् अमुक्तानि / असत्त्वाद् वैशारद्यान्य् अबद्धान्य् अमुक्तानि / असत्त्वात् प्रतिसंविदो ऽबद्धा अमुक्ताः / विविक्तत्वात् प्रतिसंविदो ऽबद्धा अमुक्ताः / अनुत्पन्नत्वात् प्रतिसंविदो ऽबद्धा अमुक्ताः / असत्त्वान् महामैत्री अबद्धामुक्ता / विविक्तत्वान् महामैत्री अबद्धामुक्ता / अनुत्पन्नत्वान् महामैत्री अबद्धामुक्ता / असत्त्वान् महाकरुणाबद्धामुक्ता / विविक्तत्वान् महाकरुणाबद्धामुक्ता / अनुत्पन्नत्वान् महाकरुणाबद्धामुक्ता / असत्त्वाद् आवेणिकबुद्धधर्मा अबद्धा अमुक्ताः / विविक्तत्वाद् आवेणिकबुद्धधर्मा अबद्धा अमुक्ताः / अनुत्पन्नत्वाद् आवेणिकबुद्धधर्मा अबद्धा अमुक्ताः / सर्वज्ञताप्य् आयुष्मन् पूर्णाबद्धामुक्ता / मार्गाकारज्ञताप्य् आयुष्मन् पूर्णाबद्धामुक्ता / सर्वाकारज्ञताप्य् आयुष्मन् पूर्णाबद्धामुक्ता असत्ताम् उपादाय सर्वज्ञताबद्धामुक्ता / विविक्तताम् उपादाय सर्वज्ञताबद्धामुक्ता / अनुत्पन्नताम् उपादाय सर्वज्ञताबद्धामुक्ता / असत्ताम् उपादाय मार्गाकारज्ञताबद्धामुक्ता / विविक्तताम् उपादाय मार्गाकारज्ञताबद्धामुक्ता / अनुत्पन्नताम् उपादाय मार्गाकारज्ञताबद्धामुक्ता /
असत्ताम् उपादाय सर्वाकारज्ञताबद्धामुक्ता / विविक्तताम् उपादाय सर्वाकारज्ञताबद्धामुक्ता / अनुत्पन्नताम् उपादाय सर्वाकारज्ञताबद्धामुक्ता / बोधिसत्त्वो ऽप्य् आयुष्मन् पूर्णाबद्धो ऽमुक्तः / बुद्धो ऽप्य् अबद्धो ऽमुक्तः / असत्ताम् उपादाय बोधिसत्त्वो ऽबद्धो ऽमुक्तः / विविक्तताम् उपादाय बोधिसत्त्वो ऽबद्धो ऽमुक्तः / अनुत्पन्नताम् उपादाय बोधिसत्त्वो ऽबद्धो ऽमुक्तः / असत्ताम् उपादाय बुद्धो ऽबद्धो ऽमुक्तः / विविक्तताम् उपादाय बुद्धो ऽबद्धो ऽमुक्तः / अनुत्पन्नताम् उपादाय बुद्धो ऽबद्धो ऽमुक्तः / तथताप्य् आयुष्मन् पूर्णाबद्धामुक्ता / अवितथताप्य् अबद्धामुक्ता / अनन्यतथताप्य् अबद्धामुक्ता / धर्मताप्य् अबद्धामुक्ता / धर्मधातुर् अप्य् अबद्धो ऽमुक्तः / धर्मनियामताप्य् अबद्धामुक्तः / भूतकोटिर् अप्य् अबद्धामुक्तः / असत्ताम् उपादाय तथताबद्धामुक्ता / विविक्तताम् उपादाय तथताबद्धामुक्ता / अनुत्पन्नताम् उपादाय तथताबद्धामुक्ता / असत्ताम् उपादाय अवितथताबद्धामुक्ता / विविक्तताम् उपादायावितथताबद्धामुक्ता / अनुत्पन्नताम् उपादायावितथताबद्धामुक्ता / असत्ताम् उपादायानन्यतथताबद्धामुक्ता / विविक्तताम् उपादायानन्यतथताबद्धामुक्ता / अनुत्पन्नताम् उपादायानन्यतथताबद्धामुक्ता / असत्ताम् उपादाय धर्मताबद्धामुक्ता / विविक्तताम् उपादाय धर्मताबद्धामुक्ता / अनुत्पन्नताम् उपादाय धर्मताबद्धामुक्ता / असत्ताम् उपादाय धर्मधातुर् अबद्धो ऽमुक्तः / विविक्तताम् उपादाय धर्मधातुर् अबद्धो ऽमुक्तः / अनुत्पन्नताम् उपादाय धर्मधातुर् अबद्धो ऽमुक्तः / असत्ताम् उपादाय धर्मस्थितिताबद्धामुक्ता / विविक्तताम् उपादाय धर्मस्थितिताबद्धामुक्ता / अनुत्पन्नताम् उपादाय धर्मस्थितिताबद्धामुक्ता /
असत्ताम् उपादाय धर्मनियामताबद्धामुक्ता / विविक्तताम् उपादाय धर्मनियामताबद्धामुक्ता / अनुत्पन्नताम् उपादाय धर्मनियामताबद्धामुक्ता / असत्ताम् उपादाय भूतकोटिर् अबद्धो ऽमुक्तः / विविक्तताम् उपादाय भूतकोटिर् अबद्धो ऽमुक्तः / अनुत्पन्नताम् उपादाय भूतकोटिर् अबद्धो ऽमुक्तः / असंस्कृतम् अप्य् आयुष्मन् पूर्णाबद्धम् अमुक्तं / असत्ताम् उपादाय ऽसंस्कृतम् अबद्धम् अमुक्तं / विविक्तताम् उपादायासंस्कृतम् अद्बद्धम् अमुक्तं / अनुत्पन्नताम् उपादायासंस्कृतम् अबद्धम् अमुक्तं / इदम् आयुष्मन् पूर्ण बोधिसत्त्वानां महासत्त्वानाम् आमः / अबद्धम् अमुक्तं नामधर्ममुखं /
यद् दानपारमिताबद्धामुक्ता / शीलपारमिताबद्धामुक्ता / क्षान्तिपारमिताबद्धामुक्ता / वीर्यपारमिताबद्धामुक्ता / ध्यानपारमिताबद्धामुक्ता / प्रज्ञापारमिताबद्धामुक्ता / अध्यात्मशून्यताबद्धामुक्ता / बहिर्धाशून्यताबद्धामुक्ता / अध्यात्मबहिर्धाशून्यताबद्धामुक्ता / शून्यताशून्यताबद्धामुक्ता / महाशून्यताबद्धामुक्ता / परमार्थशून्यताबद्धामुक्ता / संस्कृतशून्यताबद्धामुक्ता / असंस्कृतशून्यताबद्धामुक्ता / अत्यन्तशून्यताबद्धामुक्ता / अनवराग्रशून्यताबद्धामुक्ता / अनवकारशून्यताबद्धामुक्ता / प्रकृतिशून्यताबद्धामुक्ता / सर्वधर्मशून्यताबद्धाम्क्ता / स्वलक्षणशून्यताबद्धामुक्ता / अनुपलम्भशून्यताबद्धामुक्ता / अभावशून्यताबद्धामुक्ता / स्वभावशून्यताबद्धामुक्ता / अभावस्वभावशून्यताबद्धामुक्ता /
स्मृत्युपस्थानान्य् अबद्धान्य् अमुक्तानि / सम्यक्प्रहाणान्य् अबद्धान्य् अमुक्तानि / ऋद्धिपादा अबद्धा अमुक्ताः / इन्द्रियाण्य् अबद्धान्य् अमुक्तानि / बलान्य् अबद्धान्य् अमुक्तानि / बोध्यङ्गान्य् अबद्धान्य् अमुक्तानि / आर्याष्टाङ्गमार्गो ऽबद्धो ऽमुक्तः / आर्यसत्यान्य् अबद्धान्य् अमुक्तानि / ध्यानान्य् अबद्धान्य् अमुक्तानि / अप्रमाणान्य् अबद्धान्य् अमुक्तानि / आरूप्यसमापत्तयो ऽबद्धा अमुक्ताः / विमोक्षा अबद्धा अमुक्ताः / अनुपूर्वविहारसमापत्तयो ऽबद्धा अमुक्ताः / शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अबद्धान्य् अमुक्तानि / अभिज्ञा अबद्धामुक्ता / समाधयो ऽबद्धा अमुक्ताः / धारणीमुखान्य् अबद्धान्य् अमुक्तानि / तथागतबलान्य् अबद्धान्य् अमुक्तानि / वैशारद्यान्य् अबद्धान्य् अमुक्तानि / प्रतिसंविदो ऽबद्धा अमुक्ताः / महामैत्र्य् अबद्धामुक्ता / महाकरुणाबद्धामुक्ता / आवेणिकबुद्धधर्मा अबद्धा अमुक्ताः / बोधिर् अबद्धामुक्ता / सर्वज्ञताबद्धामुक्ता / मार्गाकारज्ञताबद्धामुक्ता / सर्वाकारज्ञताबद्धामुक्ता / बोधिसत्त्वो ऽबद्धो ऽमुक्तः / बुद्धो ऽबद्धो ऽमुक्तः / तथताबद्धामुक्ता / अवितथताबद्धामुक्ता / अनन्यतथताबद्धामुक्ता / धर्मताबद्धामुक्ता / धर्मधातुर् अबद्धो ऽमुक्तः / धर्मस्थितिताबद्धामुक्ता / धर्मनियामताबद्धामुक्ता / भूतकोटिर् अबद्धो ऽमुक्तः / असंस्कृतताबद्धामुक्ता /
सो ऽबद्धामुक्तायां दानपारमितायां स्थित्वा / अबद्धामुक्तायां शीलपारमितायां स्थित्वा / अबद्धामुक्तायां क्षान्तिपारमितायां स्थित्वा / अबद्धामुक्तायां वीर्यपारमितायां स्थित्वा / अबद्धामुक्तायां ध्यानपारमितायां स्थित्वा / अबद्धामुक्तायां प्रज्ञापारमितायां स्थित्वा / अबद्धामुक्तायाम् अध्यात्मशून्यतायां स्थित्वा / अबद्धामुक्तायां बहिर्धाशून्यतायां स्थित्वा / अबद्धामुक्तायाम् अध्यात्मबहिर्धाशून्यतायां स्थित्वा / अबद्धामुक्तायां शून्यताशून्यतायां स्थित्वा / अबद्धामुक्तायां महाशून्यतायां स्थित्वा / अबद्धामुक्तायां परमाथशून्यतायां स्थित्वा / अबद्धामुक्तायां संस्कृतशून्यतायां स्थित्वा / अबद्धामुक्तायाम् असंस्कृतशून्यतायां स्थित्वा / अबद्धामुक्तायाम् अत्यन्तशून्यतायां स्थित्वा / अबद्धामुक्तायाम् अनवराग्रशून्यतायां स्थित्वा / अबद्धामुक्तायाम् अनवकारशून्यतायां स्थित्वा / अबद्धामुक्तायां प्रकृतिशून्यतायां स्थित्वा / अबद्धामुक्तायां सर्वधर्मशून्यतायां स्थित्वा / अबद्धामुक्ताया स्वलक्षणशून्यतायां स्थित्वा / अबद्धामुक्तायाम् अनुपलम्भशून्यतायां स्थित्वा / अबद्धामुक्तायाम् अभावशून्यतायां स्थित्वा / अबद्धामुक्तायां स्वभावशून्यतायां स्थित्वा / अबद्धामुक्तायाम् अभावस्वभावशून्यतायां स्थित्वा / अबद्धामुक्तेषु चतुर्षु स्मृत्युपस्थानेषु स्थित्वा / अबद्धामुक्तेषु चतुर्षु सम्यक्प्रहाणेषु स्थित्वा / अबद्धामुक्तेषु चतुर्षु ऋद्धिपादेषु स्थित्वा / अबद्धामुक्तेषु पञ्चस्व् इन्द्रियेषु स्थित्वा / अबद्धामुक्तेषु पञ्चसु बलेषु स्थित्वा / अबद्धामुक्तेषु सप्तसु बोध्यङ्गेषु स्थित्वा / अबद्धामुक्ते आर्याष्टाङ्गमार्गे स्थित्वा / अबद्धामुक्तेष्व् आर्यसत्येषु स्थित्वा / अबद्धामुक्तेषु चतुर्षु ध्यानेषु स्थित्वा /
अबद्धामुक्तेषु चतुर्ष्व् अप्रमाणेषु स्थित्वा / अबद्धामुक्तासु चतुर्ष्व् आरूप्यसमापत्तिषु स्थित्वा / अबद्धामुक्तेषु अष्टासु विमोक्षेषु स्थित्वा / अबद्धामुक्तासु नवस्व् अनुपूर्वविहारसमापत्तिषु स्थित्वा / अबद्धामुक्तेषु शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु स्थित्वा / अबद्धामुक्तास्व् आभिज्ञासु स्थित्वा / अबद्धामुक्तेषु समाधिषु स्थित्वा / अबद्धामुक्तेषु धारणीमुखेषु स्थित्वा / अबद्धामुक्तेषु दशसु तथागतबलेषु स्थित्वा / अबद्धामुक्तेषु चतुर्षु वैशारद्येषु स्थित्वा / अबद्धामुक्तासु चतसृषु प्रतिसंवित्सु स्थित्वा / अबद्धामुक्तायां महामैत्र्यां स्थित्वा / अबद्धामुक्तायां महाकरुणायां स्थित्वा / अबद्धामुक्तेष्व् आवेणिकबुद्धधर्मेषु स्थित्वा / अबद्धामुक्तायां बोधौ स्थित्वा / अबद्धामुक्तायां सर्वज्ञतायां स्थित्वा / अबद्धामुक्तायां मार्गाकारज्ञतायां स्थित्वा / अबद्धामुक्तायां सर्वाकारज्ञतायां स्थित्वा / अबद्धामुक्तायां तथतायां स्थित्वा / अबद्धामुक्तायाम् अवितथतायां स्थित्वा / अबद्धाकुक्तायाम् अनन्यतथतायां स्थित्वा / अबद्धामुक्तायां धर्मतायां स्थित्वा / अबद्धामुक्ते धर्मधातौ स्थित्वा / अबद्धामुक्तायां धर्मस्थितितायां स्थित्वा / अबद्धामुक्तायां धर्मनियामतायां स्थित्वा / अबद्धामुक्तायां भूतकोटौ स्थित्वा / अबद्धामुक्ते ऽसंस्कृते स्थित्वा / अबद्धामुक्ते ऽबद्धामुक्तान् सत्त्वान् परिमोचयिष्यति /
अबद्धामुक्तो ऽबद्धामुक्तं बुद्धक्षेत्रं परिशोधयिष्यति / अबद्धामुक्तो ऽबद्धामुक्तान् बुद्धान् भगवतः पर्युपासिष्यत / अबद्धामुक्तो ऽबद्धामुक्तान् धर्मान् श्रोष्यति / अबद्धामुक्तो ऽबद्धामुक्तैर् बुद्धैर् भगवद्भिर् न जातु विरहितो भविष्यति / अबद्धाकुक्तो ऽबद्धामुक्ताभिर् अभिज्ञाभिर् न जातु विरहितो भविष्यति / अबद्धामुक्तो ऽबद्धामुक्तैः पञ्चभिश् चक्षुर्भिर् न जातु विरहितो भवति / अबद्धामुक्तो ऽबद्धामुक्ताभिर् धारणीभिर् न जातु विरहितो भविष्यति / अबद्धामुक्तो ऽबद्धामुक्तैः समाभिर् न जातु विरहितो भविष्यति / अबद्धामुक्तो ऽबद्धामुक्तां मार्गाकारज्ञताम् उत्पादयिष्यति / अबद्धामुक्तो ऽद्धामुक्तां सर्वज्ञतां सर्वाकारज्ञताम् अभिसंभोत्स्यते / अबद्धामुक्तो ऽबद्धामुक्तं धर्मचक्रं प्रवर्तयिष्यति / अबद्धामुक्तो ऽबद्धामुक्तान् सत्त्वांस् त्रिषु यानेषु नियोजयिष्यति / एवं खल्व् आयुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो ऽबद्धामुक्तो ऽबद्धामुक्ताभिः षड्भिः पारमिताभिः सर्वधर्मा ननु भोत्स्यते / असत्ताम् उपादाय विविक्तताम् उपादाय / अनुत्पन्नताम् उपादाय /
एवं खल्व् आयुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो ऽबद्धामुक्तो महायानसन्नाहसन्नद्ध इति वेदितव्यः /
अथायुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत् / कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य महायानं / कियन्तो भगवन् बोधिसत्त्वो महासत्त्वो महायानसंप्रस्थिता वेदितव्याः / कुतस् तद् यानं निर्यास्यति / क्व वा तद् यानं स्थास्यति / को वा तेन यानेन निर्यास्यति / एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत् / यत् सुभूते एवं वदसि / कतमद् बोधिसत्त्वस्य महासत्त्वस्य महायानं / षट्पारमिता सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / कतमे षट् / दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता /
इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रनिसंयुक्तैर् मनसिकारैर् दानम् अर्थिभ्यो ददाति यद् उताध्यात्मिकबाह्यानि वस्तुनि तच् च सर्वसत्त्वैः सार्धं साधारणं कृत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपलम्भयोगेन / इयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता / आह / कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता / भगवान् आह / इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् आत्मना च दशकुशलान् कर्मपथान् समादाय वर्तते / परांश् च दशकुशलेषु कर्मपथेषु समादापयति निवेशयति प्रतिष्ठापयति अनुपलम्भयोगेन / इयं बोधिसत्त्वस्य महासत्त्वस्य परामृष्टा शीलपारमिता / आह / कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता / भगवान् आह / इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् आत्मना च क्षान्तिसंपन्नो भवति / परांश् च क्षान्तौ समादापयन्त्य् अनुपलम्भयोगेन / इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता / आह / कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता / भगवान् आह / इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् आत्मना च पञ्चसु पारमितास्व् अनिक्षिप्तधुरो भवति / परांश् च पञ्चसु पारमितासु नियोजयत्य् अनुपलम्भयोगेन / इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता / आह / कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता / भगवान् आह / इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञता प्रतिसंयुक्तैर् मनसिकारैर् उपायकौशलेन ध्यानानि समापद्यते /
परांश् च ध्यानेषु समादापयत्य् अनुपलम्भयोगेन / इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता / आह / कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता / भगवान् आह / इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् आत्मना च सर्वधर्मान् नाभिनिविशते / सर्वधर्माणाञ् च प्रकृतिं प्रत्यवेक्षते अनुपलम्भयोगेन / सर्वधर्मान् अनभिनिविश्य सर्वधर्मप्रकृतिप्रत्यवेक्षणतायां सत्त्वान् समादापयति निवेशयति प्रतिष्ठापयति अनुपलम्भयोगेन / इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं /
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् उताध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता / अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता /
तत्र कतमाध्यात्मशून्यता, अध्यात्मिका धर्मा उच्यन्ते / चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनः / तत्र चक्षुश् चक्षुषा शून्यम् अकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / श्रोत्रं श्रोत्रेण शून्यम् अकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / घ्राणं घ्राणेन शून्यम् अकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / जिह्वा जिह्वया शून्यम् अकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / कायः कायेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / मनो मनसा शून्यम् अकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / इयम् उच्यते ऽध्यात्मशून्यता /
तत्र कतमा बहिर्धाशून्यता, बाह्याधर्मा उच्यन्ते रूपशब्दगन्धरससंस्पर्शधर्मा / तत्र रूपं रूपेण शून्यम् अकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / शब्दः शब्देन शून्यो ऽकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / गन्धो गन्धेन शून्यो ऽकूटस्थाविनाशिताम् उपदाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / रसो रसेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / स्पर्शः स्पर्शेन शून्यो ऽकूटस्थाविनाशिताम् उपदाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / धर्मा धर्मैः शून्या अकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / इयम् उच्यते बहिर्धाशून्यता /
तत्र कतमाध्यात्मबहिर्धाशून्यता, षडाध्यात्मिकान्य् आयतनानि, इमे उच्यन्ते आध्यात्मिकबाह्यधर्माः / तत्राध्यात्मिकाधर्मा बाह्यधर्मैः शून्याः अकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / इमे बाह्या धर्माः आध्यात्मिकैर् धर्मैः शून्याः अकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / इयम् उच्यते अध्यात्मबहिर्धाशून्यता / तत्र कतमा शून्यताशून्यता / या सर्वधर्माणां शून्यता तया शून्यतया शून्या शून्यताकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / इयम् उच्यते शून्यताशून्यता / तत्र कतमा महाशून्यता, पूर्वा दिक् पूर्वया दिशा शून्या, दक्षिणा दिग् दक्षिणया दिशा शून्या / पश्चिमा दिक् पश्चिमया दिशा शून्या / उत्तरा दिग् उत्तरया दिशा शून्या / अधस्ताद् दिग् अधस्ताद् दिशा शून्या / उपरिष्टाद् दिग् उपरिष्टाद् दिशा शून्या / एवं विदिशो विदिग्भिः शून्या / अकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् एषाम् इयं / इयम् उच्यते महाशून्यता / तत्र कतमा परमाथशून्यता / परमार्था उच्यन्ते ये निर्वान्ति / तच् च निर्वाणं निर्वाणेन शून्यम् अकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् एषाम् इयं / इयम् उच्यते परमार्थशून्यता / तत्र कतमा संस्कृतशून्यता / संस्कृतम् उच्यते / कामधातुः रूपधातुः आरूप्यधातुः तत्र कामधातुः कामधातुना शून्यः / रूपधातू रूपधातुना शून्यः / आरूप्यधातुर् आरूप्यधातुना शून्यः अकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् एषाम् इयं / इयम् उच्यते संस्कृतशून्यता / तत्र कतमासंस्कृतशून्यता / असंस्कृतम् उच्यते यस्य नोत्पादो न निरोधो न स्थितेर् अन्यथात्वम् इदम् उच्यते / संस्कृतं /
तच् चासंस्कृतम् असंस्कृतेन शून्यम् अकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / इयम् उच्यते ऽसंस्कृतशून्यता / तत्र कतमात्यन्तशून्यता यस्यान्तो नोपलभ्यते तद् अत्यन्तं / अत्यन्तम् अत्यन्तेन शून्यम् अकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / इयम् उच्यते ऽत्यन्तशून्यता / तत्र कतमानवराग्रशून्यता / यस्यावरं नोपलभ्यते / नाग्रं तस्यागतिर् नोपलभ्यते नोगतिः / अनवराग्रम् अनवराग्रेण शून्यम् अकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / इयम् उच्यते ऽनवराग्रशून्यता / तत्र कतमानवकारशून्यता / यत्र न कस्यचिद् धर्मस्य च्छोरणम् अस्ति, अनवकारो ऽनवकारेण शून्यो ऽकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / इयम् उच्यते ऽनवकारशून्यता / तत्र कतमा प्रकृतिशून्यता, या सर्वधर्माणां प्रकृतिः संस्कृतानां वासंस्कृतानां वा, सा न श्रावकैः कृता न प्रत्येकबुद्धैः न बोधिसत्त्वैर् महासत्त्वैर् न तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः कृता प्रकृतिः प्रकृत्याशून्याकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्या इयं / इयम् उच्यते प्रकृतिशून्यता / तत्र कतमा सर्वधर्मशून्यता / सर्वधर्मा उच्यन्ते / रूपं वेदना संज्ञा संस्कारा विज्ञानं चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनः / रूपं शब्दो गन्धो रसः स्पर्शो धर्माः / चक्षुर्विज्ञानं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं / चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शः घ्राणसंस्पर्शः जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शः /
चक्षुःसंस्पर्शजा वेदना, श्रोत्रसंस्पर्शजा वेदना, घ्राणसंस्पर्शजा वेदना, जिह्वासंस्पर्शजा वेदना, कायसंस्पर्शजा वेदना, मनःसंस्पर्शजा वेदना / रूपिणो धर्माः / अरूपिणो धर्माः / संस्कृता धर्मा, असंस्कृता धर्माः / इमे उच्यन्ते सर्वधर्माः / सर्वधर्माः सर्वधर्मैः शून्याः अकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् एषाम् इयं / इयम् उच्यते सर्वधर्मशून्यता / तत्र कतमा स्वलक्षणशून्यता / रूपलक्षणं रूपम् अनुपलम्भनाम् अलक्षणा वेदना / उद्ग्रहणलक्षणा संज्ञा / अभिज्ञासंस्कारलक्षणाः संस्काराः / विज्ञानलक्षणं विज्ञानं / दुःखलक्षणाः स्कन्धाः / आशीविषलक्षणा धातवः / आपद्द्वारलक्षणान्य् आयतनानि / सामग्रीलक्षणः / प्रतीत्यसमुत्पादः / परित्यागलक्षणा दानपारमिता / अनुद्वाहलक्षणा शीलपारमिता / अकोपनालक्षणा क्षान्तिपारमिता / अनवसद्यलक्षणा वीर्यपारमिता / संग्रहलक्षणा ध्यानपारमिता / असङ्गलक्षहा प्रज्ञापारमिता / अकोपनालक्षणानि चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः / नैर्यानिकलक्षणाः सप्तत्रिंशद् बोधिपक्षा धर्माः / विविक्तलक्षणं शून्यताविमोक्षमुखं / शान्तलक्षणम् आनिमित्तविमोक्षमुखं / दुःखामोहलक्षणम् अप्रणिहितविमोक्षमुखं / विमोचनालक्षणा विमोक्षाः / सुनिचितलक्षणानि बलानि / सुप्रतिष्ठितलक्षणानि वैशारद्यानि / अनाच्छेद्यलक्षणाः प्रतिसंविदः / हितोपसंहारलक्षणा महामैत्री / घ्राणलक्षणा महाकरुणा / प्रामोद्यलक्षणा महामुदिता / असंकीर्णलक्षणा महोपेक्षा / असंहार्यलक्षणा अष्टादशावेणिका बुद्धधर्माः / प्रत्यक्षालक्षणा सर्वाकारज्ञताज्ञानं /
यच् च संस्कृतानां धर्माणां लक्षणं यच् चासंस्कृतानां धर्माणां लक्षणं / स्वेनस्वेन लक्षणेन सर्व एते धर्माः शून्याः अकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् एषाम् इयं / इयम् उच्यते स्वलक्षणशून्यता / तत्र कतमा अनुपलम्भशून्यता / यत्रातीतं नोपलभ्यते / अनागतं नोपलभ्यते / प्रत्युत्पन्नस्य स्थितिर् नोपलभ्यते / अनुपलम्भो ऽनुपलम्भेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / इयम् उच्यते ऽनुपलम्भशून्यता / तत्र कतमाभावस्वभावशून्यता / नास्ति सांयोगिकः स्वभावः प्रतीत्यसमुपन्नत्वात् सर्वधर्माणां / संयोगः संयोगेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषा / इयम् उच्यते ऽभावस्वभावशून्यता / पुनर् अपरं सुभूते भावो भावेन शून्यः / अभावो ऽभावेन शून्यः / स्वभावः स्वभावेन शून्यः / परभावः परभावेन शून्यः / तत्र कतमाभावः / भाव उच्यते पञ्च स्कन्धाः / पञ्च स्कन्धाः पञ्चस्कन्धैः शून्याः / एवं भावो भावेन शून्यः / कतम अभावः स्वभावेन शून्यः / अभाव उच्यते ऽसंस्कृतं / तच् चासंस्कृतम् असंस्कृतेन शून्यं / अभावो ऽभावेन शून्यः / स्वभावः स्वभावेन शून्यः / परभावः परभावेन शून्यः / स्वभाव उच्यते प्रकृतिर् अविपरीतं / तत्र या शून्यता सा न ज्ञानेन कृता न दर्शनेन / इयम् उच्यते स्वभावशून्यता / तत्र कतमा परभावः शून्यता / या उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैर् एष धर्मस्थितिता, धर्मता धर्मधातु धर्मनियामता / तथता अवितथता, अनन्यतथता, भूतकोटिः / इति हि येषां धर्माणां परेण शून्यता /
इयम् उच्यते परभावशून्यता / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं /
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् उत शूरङ्गमो नाम समाधिः / रत्नमुद्रा नाम समाधिः / सिंहविक्रीडितो नाम समाधिः / सुचन्द्रो नाम समाधिः / चन्द्रध्वजकेतुर् नाम समाधिः / सर्वधर्मोद्गतो नाम समाधिः / अधिवचनसंप्रवेशो नाम समाधिः / विलोकितमूर्धो नाम समाधिः / धर्मधातुनियतो नाम समाधिः / नियतध्वजकेतुर् नाम समाधिः / वज्रो नाम समाधिः / सर्वधर्मप्रवेशमुद्रो नाम समाधिः / समाधिराजसुप्रतिष्ठितो नाम समाधिः / रश्मिप्रमुक्तो नाम समाधिः / बलव्यूहो नाम समाधिः / समुद्गतो नाम समाधिः / निरुक्तानियतप्रवेशो नाम समाधिः / अधिवचनसंप्रवेशो नाम समाधिः / दिग्विलोकितो नाम समाधिः / आधारमुद्रो नाम समाधिः / असंप्रमोषो नाम समाधिः / सर्वधर्मसमवसरणसागरसमुद्रो नाम समाधिः / आकाशस्फुरणो नाम समाधिः / वज्रमण्डलो नाम समाधिः / ध्वजाग्रकेयूरो नाम समाधिः / इन्द्रकेतुर् नाम समाधिः / श्रोतोनुगतो नाम समाधिः / सिंहविजृम्भितो नाम समाधिः / व्यस्तस्तो नाम समाधिः / रणञ्जहो नाम समाधिः / वैरोचनो नाम समाधिः / अनद्यो नाम समाधिः / अनिकेतस्थितो नाम समाधिः / निश्चित्तो नाम समाधिः / विमलप्रदीपो नाम समाधिः / अनन्तप्रभो नाम समाधिः / प्रभाकरो नाम समाधिः / समन्तावभासो नाम समाधिः / शुद्धसारो नाम समाधिः / विमलप्रभो नाम समाधिः / रतिङ्करो नाम समाधिः / विद्युत्प्रदीपो नाम समाधिः / अक्षयो नाम समाधिः / अजेयो नाम समाधिः / तेजोवती नाम समाधिः / क्षयापगतो नाम समाधिः / अनिञ्जो नाम समाधिः / अविवर्तो नाम समाधिः /
सूर्यप्रदीपो नाम समाधिः / चन्द्रविमलो नाम समाधिः / प्रज्ञाप्रदीपो नाम समाधिः / शुद्धप्रतिभासो नाम समाधिः / आलोककरो नाम समाधिः / काराकारो नाम समाधिः / ज्ञानकेतुर् नाम समाधिः / वज्रोपमो नाम समाधिः / चित्तस्थितिर् नाम समाधिः / समन्तालोको नाम समाधिः / सुप्रतिष्ठितो नाम समाधिः / रत्नकोटिर् नाम समाधिः / वरधर्ममुद्रो नाम समाधिः / सर्वधर्मसमता नाम समाधिः / रतिजहो नाम समाधिः / धर्मोद्गतो नाम समाधिः / विकिरणो नाम समाधिः / सर्वधर्मपदप्रभेदो नाम समाधिः / समाक्षरावकारो नाम समाधिः / अक्षरापगतो नाम समाधिः / अरम्बरणच्छेदनो नाम समाधिः / अविकारो नाम समाधिः / प्रभाकरो नाम समाधिः / नामनियतप्रवेशो नाम समाधिः / अनिकेतचारी नाम समाधिः / तिमिरापगतो नाम समाधिः / चारित्रवती नाम समाधिः / अबलो नाम समाधिः / विषयतीर्णो नाम समाधिः / सर्वगुणसञ्चयो नाम समाधिः / स्थितनिश्चित्तो नाम समाधिः / शुभपुष्पितशुद्धिर् नाम समाधिः / बोध्यङ्गवती नाम समाधिः / अनन्तप्रतिभावो नाम समाधिः / असमममो सर्वधर्मातिक्रमणो नाम समाधिः / परिच्छेदकरो नाम समाधिः / विमतिविकिरणो नाम समाधिः / निरधिष्ठानो नाम समाधिः / एकव्यूहो नाम समाधिः / आकाराभिनिर्हारो नाम समाधिः / एकाकारो नाम समाधिः / सर्वसुखदुःखनिरभिनन्दी नाम समाधिः / सर्वाकारवरोपेतो नाम समाधिः / आकारानवकारो नाम समाधिः / नैर्वेधिकसर्वभवतलापगतो नाम समाधिः / संकेतरुतप्रवेशो नाम समाधिः / गीर्घोषाक्षरविमुक्तो नाम समाधिः / ज्वलनोल्को नाम समाधिः /
लक्षणपरिशोधनो नाम समाधिः / अनभिलक्षितो नाम समाधिः / सर्वाकारवरोपेतो नाम समाधिः / सर्वसुखदुःखनिरभिनन्दी नाम समाधिः / अक्षयकरण्डो नाम समाधिः / धारणीमतिर् नाम समाधिः / सम्यक्त्वमिथ्यात्वसंप्रशमो नाम समाधिः / सर्वरोधनिरोधसंप्रशमनो नाम समाधिः / अनुरोधाप्रतिरोधो नाम समाधिः / विसरप्रभो नाम समाधिः / सारवती नाम समाधिः / परिपूर्णचन्द्रविमलो नाम समाधिः / विद्युत्प्रभो नाम समाधिः / महाव्यूहो नाम समाधिः / सर्वलोकप्रभाकरो नाम समाधिः / समाधिसमता नाम समाधिः / अरजोविरजोनयुक्तो नाम समाधिः / अरणमरणसमवसरणो नाम समाधिः / अरणमरणसर्वसमवसरणो नाम समाधिः / अनिलम्बानिकेतनिरतो नाम समाधिः / तथतास्थितनिश्चित्तो नाम समाधिः / कायकलिसंप्रमथनो नाम समाधिः / वक्कलिविध्वंसनगगणकल्पो नाम समाधिः / आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधि //
शतसाहस्र्याः प्रज्ञापारमितायाः सप्तमः परिवर्तः // (श्sP_1.7)
अथ अष्टमः परिवर्तः /
तत्र कतमः शूरङ्गमो नाम समाधिः / यः समाधिः सर्वसमाधीनां गोचरम् अनुभवत्य् अयम् उच्यते शूरङ्गमो नाम समाधिः / तत्र कतमा रत्नमुद्रो नाम समाधिः / येन समाधिना सर्वे समाधयो मुद्रिता भवन्ति / अयम् उच्यते रत्नमुद्रो नाम समाधिः / तत्र कतमः सिंहविक्रीडितो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधिभिर् विक्रीडयत्य् अयम् उच्यते सिंहविक्रीडितो नाम समाधिः /
तत्र कतमः सुचन्द्रो नाम समाधि / यत्र समाधौ स्थित्वा सर्वसमाधीन् अवभासयति / अयम् उच्यते सुचन्द्रो नाम समाधिः / तत्र कतमश् चन्द्रध्वजकेतुर् नाम समाधिः / यः समाधिः सर्वसमाधीनां ध्वजं धारयति / अयम् उच्यते चन्द्रध्वजकेतुर् नाम समाधिः / तत्र कतमः सर्वधर्मोद्गतो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधिभिर् अभ्युद्गच्छति / अयम् उच्यते सर्वधर्मोद्गतो नाम समाधिः / तत्र कतमो विलोकितमूर्धो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां मूर्धानं विलोकयति / अयम् उच्यते विलोकितमूर्धो नाम समाधिः / तत्र कतमो धर्मधातुनियतो नाम समाधिः / यत्र समाधौ स्थित्वा धर्मधातौ निश्चयं गच्छति / अयम् उच्यते धर्मधातुनियतो नाम समाधिः / तत्र कतमो नियतध्वजकेतुर् समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां नियतं ध्वजं धारयति / अयम् उच्यते नियतध्वजकेतुर् नाम समाधिः / तत्र कतमो वज्रो नाम समाधिः / यत्र समाधौ नियत्वा न भिद्यते / अयम् उच्यते वज्रो नाम समाधिः / तत्र कतमः सर्वधर्मप्रवेशमुद्रो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वधर्माणां मुद्रां प्रविशत्य् अयम् उच्यते सर्वधर्मप्रवेशमुद्रो नाम समाधिः / तत्र कतमः समाधिराजसुप्रतिष्ठितो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधिषु राजसुप्रतिष्ठानेन प्रतितिष्ठति / अयम् उच्यते समाधिराजसुप्रतिष्ठितो नाम समाधिः / तत्र कतमो रश्मिप्रमुक्तो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां रश्मीन् अवसृजति / अयम् उच्यते रश्मिप्रमुक्तो नाम समाधिः /
तत्र कतमो बलव्यूहो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां बलव्यूहतां कारयति / अयम् उच्यते बलव्यूहो नाम समाधिः / तत्र कतमः समुद्गतो नाम समाधिः / यत्र समाधौ स्थितस्य सर्वे समाधयः समुद्गच्छन्ति / अयम् उच्यते समुद्गतो नाम समाधिः / तत्र कतमो निरुक्तिनियतप्रवेशो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां निरुक्तिनिर्देशान् प्रवेशयति / अयम् उच्यते निरुक्तिनियतप्रवेशो नाम समाधिः / तत्र कतमो वचनसंप्रवेशो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां अधिवचनानि प्रवेशयति / अयम् उच्यते ऽधिवचनसंप्रवेशो नाम समाधिः / तत्र कतमो दिग्विलोकितो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां दिशो विलोकयति अयम् उच्यते दिग्विलोकितो नाम समाधिः / तत्र कतम आधारमुद्रो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां मुद्राधारयति / अयम् उच्यते आधारमुद्रो नाम समाधिः / तत्र कतमो ऽसंप्रमोषो नाम समाधिः / यत्र समाधौ स्थित्वा तस्य समाधयो न मुह्यन्ति / अयम् उच्यते ऽसंप्रमोषो नाम समाधिः / तत्र कतमः सर्वधर्मसमवशरणसागरमुद्रा नाम समाधिः / यत्र समाधौ स्थितस्य सर्वे समाधयः संग्रहं समवशरणं गच्छन्ति / अयम् उच्यते सर्वधर्मसमवशरणसागरमुद्रा नाम समाधिः / तत्र कतम आकाशस्फुरणो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आकाशस्फुरणतया स्फुरति / अयम् उच्यते आकाशस्फुरणो नाम समाधिः / तत्र कतमो वज्रमण्डलो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां मण्डलानि धारयति /
अयम् उच्यते वज्रमण्डलो नाम समाधिः / तत्र कतमो रणजहो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वक्लेशमलान् शोषयति / अयम् उच्यते रणजहो नाम समाधिः / तत्र कतमो वैरोचनो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीन् अवभासयति तपति विरोचते / अयम् उच्यते वैरोचनो नाम समाधिः / तत्र कतमो ऽनेषो नाम समाधिः / यत्र समाधौ स्थित्वा न कञ्चिद् धर्मम् एषते / अयम् उच्यते ऽनेषो नाम समाधिः / तत्र कतमो ऽनिकेतस्थितो नाम समाधिः / यत्र समाधौ स्थित्वा न कञ्चिद् धर्मं निकेतस्थितं समनुपश्यति / अयम् उच्यते ऽनिकेतस्थितो नाम समाधिः / तत्र कतमो निश्चित्तो नाम समाधिः / यत्र समाधौ स्थितस्य न चित्तं न चेतसिका धर्मा प्रवर्तन्ते / अयम् उच्यते निश्चित्तो नाम समाधिः / तत्र कतमो विमलप्रदीपो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां विमलप्रदीपं करोति / अयम् उच्यते विमलप्रदीपो नाम समाधिः / तत्र कतमो ऽनन्तप्रभो नाम समाधिः / यत्र समाधौ स्थित्वानन्तां प्रभां करोति / अयम् उच्यते ऽनन्तप्रभो नाम समाधिः / तत्र कतमः प्रभाकरो नाम समाधिः / यस्य समाधेः सहप्रतिलम्भात् सर्वसमाधीनां प्रभां करोति / अयम् उच्यते प्रभाकरो नाम समाधिः / तत्र कतमः समन्तावभासो नाम समाधिः / यस्य समाधेः सहप्रतिलम्भात् सर्वसमाधिमुखान्य् अवभासयति / अयम् उच्यते समन्तावभासो नाम समाधिः / तत्र कतमः शुद्धसारो नाम समाधिः / यत्र समाधौ स्थित्वा समाधीनां शुद्धसमन्ताम् अनुप्राप्नोति / अयम् उच्यते शुद्धसारो नाम समाधिः / तत्र कतमो विमलप्रभो नाम समाधिः /
यत्र समाधौ स्थित्वा सर्वसमाधीनां मलम् अपकर्षति / सर्वसमाधींश् च प्रतिभासयति / अयम् उच्यते विमलप्रभो नाम समाधिः / तत्र कतमो रतिकरो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां रतिम् अनुभवति / अयम् उच्यते रतिकरो नाम समाधिः / तत्र कतमो विद्युत्प्रदीपो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां प्रदीपं करोति / अयम् उच्यते विद्युत्प्रदीपो नाम समाधिः / तत्र कतमो ऽक्षयो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां नैव क्षयं नाक्षयं समनुपश्यति / अयम् उच्यते ऽक्षयो नाम समाधिः / तत्र कतमस् तेजोवती नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधींस् तेजसा श्रिया च ज्वलयति / अयम् उच्यते तेजोवती नाम समाधिः / तत्र कतमः क्षयापगतो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीन् न क्षयान् समनुपश्यति / तथा च पश्यति यथाण्व् अपि न समनुपश्यति / अयम् उच्यते क्षयापगतो नाम समाधिः / तत्र कतमो ऽनिञ्जो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीन् निञ्जते न मन्यते न स्यन्दते न प्रपञ्चयति ते नोच्यते ऽनिञ्जो नाम समाधिः / तत्र कतमो ऽविवर्तो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां विवर्तनं न समनुपश्यति / अयम् उच्यते ऽविवर्तो नाम समाधिः / तत्र कतमः सूर्यप्रदीपो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां मुखम् अवभासयति / अयम् उच्यते सूर्यप्रदीपो नाम समाधिः / तत्र कतमश् चन्द्रविमलो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनाम् अनन्धाकारं करोति / अयम् उच्यते चन्द्रविमलो नाम समाधिः /
तत्र कतमः शुद्धप्रतिभासो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां चतस्रः प्रतिसंविदः प्रतिलभते ऽयम् उच्यते शुद्धप्रतिभासो नाम समाधिः / तत्र कतम आलोककरो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधिमुखानाम् आलोकं करोति / अयम् उच्यते आलोककरो नाम समाधिः / तत्र कतमः काराकारो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां कारगतां क्रियां करोति / अयम् उच्यते काराकारो नाम समाधिः / तत्र कतमो ज्ञानकेतुर् नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां ज्ञानकेतुं समनुपश्यति / अयम् उच्यते ज्ञानकेतुर् नाम समाधिः / तत्र कतमो वज्रोपमो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां निर्वेधिकं करोति / यत् समाधिम् अपि न समनुपश्यति / अयम् उच्यते वज्रोपमो नाम समाधिः / तत्र कतमश् चित्तस्थितिर् नाम समाधिः / यत्र समाधौ
स्थित्वास्य चित्तं न विचलति / न विवर्तते न परित्रस्यति न विघातम् आपद्यते / न वास्यैवं भवति चित्तम् इदम् इति / अयम् उच्यते चित्तस्थितिर् नाम समाधिः / तत्र कतमः समन्तालोको नाम समाधिः / यत्र समाधौ स्थित्वा समन्ताद् आलोकं समनुपश्यति / अयम् उच्यते समन्तालोको नाम समाधिः / तत्र कतमः सुप्रतिष्ठितो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधिषु सुप्रतिष्ठितो भवति / अयम् उच्यते सुप्रतिष्ठितो नाम समाधिः / तत्र कतमो रत्नकोटिर् नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधयः समन्ताद् रत्नकोटिर् इव संदृश्यते / अयम् उच्यते रत्नकोटिर् नाम समाधिः / तत्र कतमो वरधर्ममुद्रो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधयो मुद्रिता भवन्ति / अमुद्राकोटिमुद्रितताम् उपादाय / अयम् उच्यते वरधर्ममुद्रो नाम समाधिः / तत्र कतमा सर्वधर्मसमता नाम समाधिः / यत्र समाधौ स्थित्वा न कञ्चिद् धर्मं समतानिर्मुक्तं समनुपश्यति / अयम् उच्यते सर्वधर्मसमता नाम समाधिः / तत्र कतमो रतिञ्जहो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां सर्वधर्माणाञ् च रतिञ् जहाति / अयम् उच्यते रतिञ्जहो नाम समाधिः / तत्र कतमो धर्मोद्गतो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वधर्माणां तमोविधर्मात् सर्वसमाधिभिश् चोद्गच्छति / अयम् उच्यते धर्मोद्गतो नाम समाधिः / तत्र कतमो विकिरणो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधिभिः सर्वधर्मान् विकिरयति / अयम् उच्यते विकिरणो नाम समाधिः / तत्र कतमः सर्वधर्मपदप्रभेदो नाम समाधिः /
यत्र समाधौ स्थित्वा सर्वसमाधीनां सर्वधर्माणाञ् च पदानि प्रभिनत्ति / अयम् उच्यते सर्वधर्मपदप्रभेदो नाम समाधिः / तत्र कतमः समाक्षराकारो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां समाक्षरतां प्रतिलभते / अयम् उच्यते समाक्षराकारो नाम समाधिः / तत्र कतमो ऽक्षरापगतो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनाम् एकाक्षरम् अपि नोपलभते / अयम् उच्यते ऽक्षरापगतो नाम समाधिः / तत्र कतम आरम्बणच्छेदनो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आरम्बच्छेदो भवति / अयम् उच्यते आरम्बणच्छदनो नाम समाधिः / तत्र कतमः अविकारो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वधर्माणां विकारान् नोपलभते / अयम् उच्यते अविकारो नाम समाधिः / तत्र कतमो ऽप्रकारो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वधर्माणां प्रकारम् अपि नोपलभते / अयम् उच्यते ऽप्रकारो नाम समाधिः / तत्र कतमः अनिकेतचारी नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां निकेतं नोपलभते / अयम् उच्यते अनिकेतचारी नाम समाधिः / तत्र कतमस् तिमिरापगतो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वधर्माणां तिमिरं विशोधयति / अयम् उच्यते तिमिरापगतो नाम समाधिः / तत्र कतमश् चारित्रवती नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनाञ् चरन्तं समनुपश्यति / अयम् उच्यते चारित्रवती नाम समाधिः / तत्र कतमः अचलो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीन् न चलान् समनुपश्यति / अयम् उच्यते अचलो नाम समाधिः / तत्र कतमो विषयतीर्णो नाम समाधिः /
यत्र समाधौ स्थित्वा सर्वसमाधीनां विषयं समतिक्रामति / अयम् उच्यते विषयतीर्णो नाम समाधिः / तत्र कतमः सर्वगुणसञ्चयगतो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वधर्माणां सर्वसमाधीनाञ् च गुणसञ्चयम् अनुप्राप्नोति / अयम् उच्यते सर्वगुणसञ्चयगतो नाम समाधिः / तत्र कतमः स्थितनिश्चित्तो नाम समाधिः / यत्र समाधौ स्थितस्य सर्वसमाधिषु चित्तं न प्रवर्तते / अयम् उच्यते स्थितनिश्चित्तो नाम समाधिः / तत्र कतमः शुभपुष्पितशुद्धिर् नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां शुभपुष्पितशुद्धिं प्रतिलभते ऽयम् उच्यते शुभपुष्पितशुद्धिर् नाम समाधिः / तत्र कतमो बोध्यङ्गवती नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां सप्त बोध्यङ्गानि प्रतिलभते / अयम् उच्यते बोध्यङ्गवती नाम समाधिः / तत्र कतमो ऽनन्तप्रतिभानो नाम समाधिः / यत्र समाधौ स्थित्वा समाधिष्व् अनन्तं प्रतिलभते / अयम् उच्यते अनन्तप्रतिभानो नाम समाधिः / तत्र कतमो ऽसमसमो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधिष्व् असमसमतां प्रतिलभते / अयम् उच्यते असमसमो नाम समाधिः / तत्र कतमः सर्वधर्मातिक्रमणो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वत्रैधातुकं समति क्रामति / अयम् उच्यते सर्वधर्मातिक्रमणो नाम समाधिः / तत्र कतमः परिच्छेदकरो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वधर्माणां सर्वसमाधीनाञ् च परिच्छेदं पश्यति / अयम् उच्यते परिच्छेदकरो नाम समाधिः / तत्र कतमो विमतिविकिरणो नाम समाधिः /
यत्र समाधौ स्थित्वा सर्वसमाधीनां सर्वधर्माणाञ् च विमतिविकिरणताम् अनुप्राप्नोति / अयम् उच्यते विमतिविकिरणो नाम समाधिः / तत्र कतमो निरधिष्ठानो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वधर्माणां स्थानं न समनुपश्यति / अयम् उच्यते निरधिष्ठानो नाम समाधिः / तत्र कतम एकव्यूहो नाम समाधिः / यत्र समाधौ स्थित्वा न कस्यचिद् धर्मस्य द्वयतां समनुपश्यति / अयम् उच्यते एकव्यूहो नाम समाधिः / तत्र कतम आकाराभिनिर्हारो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वधर्माणां सर्वसमाधीनाञ् चाकाराभिनिर्हारं समनुपश्यति / अयम् उच्यते आकाराभिनिर्हारो नाम समाधिः / तत्र कतम एकाकारो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आकारं न समनुपश्यति / अयम् उच्यते एकाकारो नाम समाधिः / तत्र कतम आकारानवकारो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनाम् अद्वयतां समनुपश्यति / अयम् उच्यते आकारानवकारो नाम समाधिः / तत्र कतमो नैर्वेधिकसर्वभवतलविगतो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां नैर्वेधिकज्ञानम् अनुप्रविशति / यस्यानुप्रवेशान् न किञ्चिन् न प्रतिविध्यति / अयम् उच्यते नैर्वेधिकसर्वभवतलविगतो नाम समाधिः / तत्र कतमः सङ्केतरुतप्रवेशो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां सङ्केतरुतानि प्रवेशयति / अयम् उच्यते सङ्केतरुतप्रवेशो नाम समाधिः / तत्र कतमो गीर्घोषाक्षरविमुक्तो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां गीर्घोषाक्षरविमुक्तान् समनुपश्यति / अयम् उच्यते गीर्घोषाक्षरविमुक्तो नाम समाधिः /
तत्र कतमो ज्वलनोल्का नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधींस् तेजसावभासयति / अयम् उच्यते ज्वलनोल्का नाम समाधिः / तत्र कतमो लक्षणपरिशोधनो नाम समाधिः / यत्र समाधौ स्थितस्य सर्वसमाधीनां लक्षणानि परिशुध्यन्ते / अयम् उच्यते लक्षणपरिशोधनो नाम समाधिः / तत्र कतमो ऽनभिलक्षितो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीन् अभिलक्षितान् समनुपश्यति / अयम् उच्यते अनभिलक्षितो नाम समाधिः / तत्र कतमः सर्वाकारवरोपेतो नाम समाधिः / यत्र समाधौ स्थितस्य सर्वसमाधयः सर्वाकारवरोपेता भवन्ति / अयम् उच्यते सर्वाकारवरोपेतो नाम समाधिः / तत्र कतमः सर्वसुखदुःखनिरभिनन्दी नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां सुखदुःखानि नानुपश्यति / अयम् उच्यते सर्वसुखदुःखनिरभिनन्दी नाम समाधिः / तत्र कतमो ऽक्षयकरण्डो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां क्षयं न समनुपश्यति / अयम् उच्यते ऽक्षयकराण्डो नाम समाधिः / तत्र कतमा धारणीमतिर् नाम समाधिः / यत्र समाधौ स्थित्वा सर्वधारणीन् धारयति / अयम् उच्यते धारणीमतिर् नाम समाधिः / तत्र कतमः सम्यक्त्वमिथ्यात्वसर्वसंग्रसनो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां सम्यक्त्वमिथ्यात्वं न समनुपश्यति / अयम् उच्यते सम्यक्त्वमिथ्यात्वसर्वसंग्रसनो नाम समाधिः / तत्र कतमः सर्वरोधप्रतिरोधप्रशमनो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां रोधं विरोधं समनुपश्यति / अयम् उच्यते सर्वरोधविरोधप्रशमनो नाम समाधिः /
तत्र कतमो ऽनुरोधाप्रतिरोधो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वधर्माणां सर्वसमाधीनाञ् चानुरोधाप्रतिरोधं न समनुपश्यति / अयम् उच्यते ऽनुरोधाप्रतिरोधो नाम समाधिः / तत्र कतमो विमलप्रभो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां प्रभामण्डलं नोपलभते / अयम् उच्यते विमलप्रभो नाम समाधिः / तत्र कतमः सारवती नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां सारं समनुपश्यति / अयम् उच्यते सारवती नाम समाधिः / तत्र कतमः पारिपूर्णचन्द्राभविमलो नाम समाधिः / यत्र समाधौ स्थितस्य सर्वसमाधयः परिपूर्णा भवन्ति / तद्यथापि नाम पौर्णमास्यां चन्द्रमण्डलं / अयम् उच्यते परिपूर्णचन्द्राभविमलो नाम समाधिः / तत्र कतमो महाव्यूहो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधिमहाव्यूहसमन्वागतो भवति / अयम् उच्यते महाव्यूहो नाम समाधिः / तत्र कतमः सर्वाकारप्रभाकरो नाम समाधिः / यत्र समाधौ अथित्वा सर्वसमाधीन् सर्वधर्मांश् चावभासयति / अयम् उच्यते सर्वाकारप्रभाकरो नाम समाधिः / तत्र कतमः समाधिसमता नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनाम् अनुविक्षेपम् एकाग्रताम् उपलभते / अयम् उच्यते समाधिसमता नाम समाधिः / तत्र कतमो ऽरणसरणसमवसरणो नान समाधिः / यत्र समाधौ स्थितस्य सर्वसमाधयो न रणन्ति / अयम् उच्यते ऽरणसरणसमवसरणो नाम समाधिः / तत्र कतमो ऽरणसरणसर्वसमवसरणो नाम समाधिः / यत्र समाधौ स्थित्वा अरणसरणसर्वसमवशरणताम् अनुप्राप्नोति /
अयम् उच्यते अरणसरण्सर्वसमवशरणो नाम समाधिः / तत्र कतमो ऽनिलम्भनिकेतनिरतो नाम समाधिः यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आलयं नोपैति / अयम् उच्यते अनिलम्भनिकेतनिरतो नाम समाधिः / तत्र कतमः तथतास्थितनिश्चित्तो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधितथताया न विवर्धते / अयम् उच्यते तथतास्थितनिश्चित्तो नाम समाधिः / तत्र कतमः कायकलिसंप्रमथनो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधिकायं नोपलभते / अयम् उच्यते कायकलिसंप्रमथनो नाम समाधिः / तत्र कतमो वाक्कलिविध्वंसनगगणकल्पो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वसमाधीनां वाक्कर्म नोपलभते / अयम् उच्यते वाक्कलिविध्वंसनगगणकल्पो नाम समाधिः / तत्र कतम आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः / यत्र समाधौ स्थित्वा सर्वधर्माणाम् आकाशासङ्गनिरुपलेपताम् अनुप्राप्नोति / अयम् उच्यते आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः / इदं सुभूते बोधसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो महायान्ं //
शतसाहस्र्याः प्रज्ञापारमिताया अष्टमः परिवर्तः // (श्sP_1.8)
अथ नवमः परिवर्तः /
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / चत्वारि स्मृत्युपस्थानानि / कतमानि चत्वारि / कायस्मृत्युपस्थानं / वेदनास्मृत्युपस्थानं / चित्तस्मृत्युपस्थानं / धर्मस्मृत्युपस्थानं / तत्र कतमं कायस्मृत्युपस्थानं / इह सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुदर्शी विहरति / न च कायसहगतान् वितर्कान् वितर्कयत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन / बहिर्धाकाये कायानुदर्शी विहरति / न च कायसहगतान् वितर्कान् वितर्कयत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन / अध्यात्मबहिर्धा काये कायानुदर्शी विहरति / न च कायसहगतान् वितर्कान् वितर्कयत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन /
अध्यात्मवेदनासु वेदनानुदर्शी विहरति / न च वेदनासहगतान् वितर्कान् वितर्कयत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन / बहिर्धावेदनासु वेदनानुदर्शी विहरति / न च वेदनासहगतान् वितर्कान् वितर्कयत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन / अध्यात्मबहिर्धावेदनासु वेदनानुदर्शी विहरति / न च वेदनासहगतान् वितर्कान् वितर्कयत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन / अध्यात्मचित्ते चित्तानुदर्शी विहरति / न च चित्तसहगतान् वितर्कान् वितर्कयत्य् आतापी संप्रज्ञानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोमेन / बहिर्धाचित्ते चित्तानुदर्शी विहरति / न च चित्तसहगतान् वितर्कान् वितर्कयत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन / अध्यात्मबहिर्धाचित्ते चित्तानुदर्शी विहरति / न च चित्तसहगतान् वितर्कान् वितर्कयत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन /
अध्यात्मधर्मेषु धर्मानुदर्शी विहरति / न च धर्मसहगतान् वितर्कान् वितर्क्यत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन /
कयं सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुदर्शी विहरति / इह सुभूते बोधिसत्त्वो महासत्त्वश् चरंश् चरामीति प्रजानाति स्थितः स्थितो ऽस्मीति प्रजानाति / निषण्णो निषण्णो ऽस्मीति प्रजानाति / शयानः शयितो ऽस्मीति प्रजानाति / यथा यथा खलु पुनर् अस्य कायः स्थितो भवति प्रणीतं वाप्रणीतं वा तथागतञ् च न प्रजानाति / एवं खलु सुभुते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन / पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुदर्शी विहरति / सो ऽभिक्रामं न वा प्रतिक्रामं न वा संप्रजानचारी भवत्य् लोकिते विलोके संप्रजानचारी च भवति / संमिञ्जिते प्रसारिते संप्रजानचारी भवति / संघाटीयात्रचीवरधारणे संप्रजानचारी भवति / अशितपीतस्वादितास्वादितान् संप्रजानचारी भवति / शयितनिद्राक्लमप्रतिविनोदिते संप्रजानचारी भवति / आगतगत संप्रजानचारी भवति / स्थिते निषद्यायां संप्रजानचारी भवति / स्वप्नजागरिते संप्रजानचारी भवति / भाषिते तूष्णींभावे संप्रजानचारी भवति / प्रतिसंलयने संप्रजानचारी भवति / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिह्यादौर्मनस्ये तच् चानुपलम्भयोगेन / पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्मृत आश्वसन् स्मृत आश्वसिमीति प्रजानाति / स्मृत प्रश्वसन् स्मृतः प्रश्वसिमीति प्रजानाति / दीर्घम् आश्वसन् दीर्घम् आश्वसिमीति प्रजानाति /
दीर्घं प्रश्वसन् दीर्घं प्रश्वसिमीति प्रजानाति / ह्रस्वम् आश्वसन् ह्रस्वम् आश्वसिमीति प्रजानाति / ह्रस्वं प्रश्वसन् ह्रस्वं प्रश्वसिमीति प्रजानाति / तद्यथापि नाम सुभूते दक्षो भ्रमचक्रवर्ती भ्रमचक्रवर्त्यन्तेवासी वा दीर्घम् आविध्यामीति प्रजानाति / ह्रस्वं प्रविध्यामीति प्रजानाति / एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्मृत आश्वसन् स्मृत आश्वसिमीति प्रजानाति / स्मृतः प्रश्वसन् स्मृतः प्रश्वसिमीति प्रजानाति / दीर्घम् आश्वसन् दीर्घम् आश्वसिमीति प्रजानाति / दीर्घं प्रश्वसन् दीर्घं प्रश्वसिमीति प्रजानाति / ह्रस्वम् आश्वसन् ह्रस्वम् आश्वसिमीति प्रजानामिति / ह्रस्वं प्रश्वसन् ह्रस्वं प्रश्वसिमीति प्रजानाति / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मकायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमम् एव कायधातुं यथाभूतं प्रत्यवेक्षते / अस्त्य् अस्मिन् काये पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुः / तद्यथापि नाम सुभूते दक्षो गोघातको वा गोघातकान्तेवासी वा तीक्ष्णेन शस्त्रेण गां हत्वा चत्वारि फलकानि कुर्यात् चत्वारि फलकानि कृत्वा प्रत्यवेक्षते स्थितो वाथ निषण्णः / एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमम् एव कायधातुं स यथाभूतं प्रत्यवेक्षते / अस्त्य् अस्मिन् काये पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुः / एव खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्थितो वा निषण्णो ऽध्यात्मकाये कायानुपश्यी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये / तच् चानुपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमम् एव कायम् ऊर्ध्वं पादतलाद् अधः केशमस्तकान् नखलोमत्वक्पर्यन्तं पूर्णं नानाविधस्याशुचेर् यथाभूतं प्रत्यवेक्षते / सन्त्य् अस्मिन् काये केशा लोमानि नखा दन्तास् त्वक् चर्म मांसा स्नायु रुधिरम् अस्थि मज्जा वृक्कं हृदयं यकृत् क्लोमकं प्लीहा फुस्फुषमात्राम् आन्त्रगुणा उदरयन्त्रं मूत्रं पुरीषम् अश्रुस्वेदो मदः खेटः सिंहाणकं पूयं पित्तं श्लेशा वसा लसीका मला मस्तकं मस्तकगञ्जाम् अक्षिपृथकं / तद्यथापि नाम सुभूते कार्षकस्य मृतोत्रिः पूर्णा नानाधान्यजातानां तिलानां सर्षपाणां मुद्गानां माषाणां मसूराणां यवानां गोधूमानां शालीनां व्रीहीणां, ताम् एनां चक्षूमान् पुरुषा मुक्त्वा प्रत्यवेक्षमाणः एवं जानीयाद् इमे तिलाः इमे सर्षपाः इमे मुद्गाः इमे माषाः इमे मसूराः इम यवाः इमे गोधूमाः इमे शालयः इमे व्रीहयः / एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः इमम् एव कायम् ऊर्ध्वं पादतलाद् अधः केशमस्तकान् नखलोमत्वक्पर्यन्तं पूर्णं नानाविधस्याशुचे / सन्त्य् अस्मिन् काये केशा लोमानि नखा दन्तास् त्वक् चर्म मांसस्नायु रुधिरम् अस्थि मज्जा वृक्कं हृदयं यकृत् क्लोमकं प्लीहा फुस्फुषमात्राम् आन्त्रगुणा उदीरयकं मूत्रं पुरीषम् अश्रुस्वेदो मदः खेटः सिंहाणकं पूयं पित्तं श्लेशा वसा लसीका मला मस्तकं मस्तकशङ्गाम् अक्षिगूथकं कर्णगूथकं / एवं खलु सुभूते बोधिसत्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये / तच् चानुपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यदा श्मशानगतः पश्यति / नानारूपाणि शिवपथिकायाम् अपविद्धानि शवशयन उद्रीतान्य् एकाहमृतानि वा द्व्यहमसृतानि वा त्र्यहमृतानि वा चतुरहमृतानि वा पञ्चाहमृतानि वा व्याध्मातकानि वा विनीलकानि वा विपूतिकानि वा विखादितकानि वा विलोहितकानि वा विक्षिप्तकानि वा / स इमम् एव कायन् तत्रोपसंहरत्य् अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अध्यतिवृत्तः / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बहिर्धाकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये, तच् चानुपलम्भयोगेन / पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यदा पश्यति शिवपथिकायाम् उद्रीतानि मृतशरीराणि षड्रात्रमृतानि वा सप्त रात्रमृतानि वा काकैर् वा खाद्यमानानि कङ्कैर् वा कुररैर् वा गृध्रैर् वा वास्तासैर् वाअ शृगालैर् वा श्वभिर् वा तद् अन्यैर् वा नानाविधैः प्राणकजातैः खाद्यमानानि / स इमम् एव कायं तत्रोपसंहरत्य् अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अध्यतिवृत्तः / एवं खलु सुभूते बोधिसत्त्वो महासत्वः प्रज्ञापारमितायां चरन् बहिर्धाकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यदा पश्यति शिवपथिकायाम् उद्रीतानि मृतशरीराणि विखादितान्य् अशुचीनि पूतीनि दुर्गन्धानि / स इमम् एव कायं तत्रोपसंहरत्य् अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अध्यतिवृत्तः / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बहिर्धाकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन / पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यदा पश्यति शिवपथिकायाम् अस्थिशकलान् मांसरुधिरक्षितान् स्नायु विनिबद्धान् स इमम् एव कायं तत्रोपसंहरत्य् अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अध्यतिवृत्तः / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बहिर्धाकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथा शिवपथिकायाम् अस्थिसकलान् अपगतमांसरुधिरस्नायुबन्धनान् शङ्कनिभान् पश्यति / स इमम् एव कायं तत्रोपसंहरत्य् अयम् अपि कायं एवंधर्मा एवंस्वभाव एतां धर्मताम् अध्यतिवृत्तः / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बहिर्धाकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके अभिध्यादौर्मनस्ये / तच् चानुपलम्भयोगेन / पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यदा पश्यति / शिवपथिकायाम् अस्थिसकलाबन्धनविप्रमुक्ता यथाशङ्खाः पृथिव्यां विक्षिप्ताः / स इमम् एव कायं तत्रोपसंहरत्य् अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अध्यतिवृत्तः / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बहिर्धाकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यदा पश्यति शिवपविकायाम् अस्थीनि पृथिव्यां दिग्विदिशो विक्षिप्तान्य् एव पादास्थीन्य् अन्येन जङ्गास्थीन्य् अन्येन नोर्वस्थीन्य् अन्येन श्रोणीकटाहम् अन्येन पृष्ठवंशास्थीन्य् अन्येन पार्श्वकास्थीन्य् अन्येन बाह्वस्थीन्य् अन्येन ग्रीवास्थीन्य् अन्येन शिरःकपालास्थीनि / स इमम् एव कायं तत्रोपसंहरत्य् अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अध्यतिवृत्तः / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बहिर्धाकाये कयानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन / पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यदा पश्यति शिवपथिकायाम् अस्थीन्य् अनेकवार्षिकानि चातपपरितापितानि श्वेतानि शङ्खनिभानि / स इमम् एव कायं तत्रोपसंहरत्य् अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अध्यतिवृत्तः / एव खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बहिर्धाकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यदा पश्यति शिवपथिकायाम् अस्थीन्य् अनेकवार्षिकानि तिरोभूतानि नीलानि कपोतवर्णानि पूतीनि चूर्णजातानि पृथिव्यां पांशुना समसमीभूतानि / स इमम् एव कायं तत्रोपसंहरत्य् अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अध्यतिवृत्तः / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्मयोगेन /
बहिर्धाकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन /
अध्यात्मबहिर्धाकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन /
अध्यात्मवेदनासु वेदनानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन / बहिर्धावेदनासु वेदनानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन / अध्यात्मबहिर्धावेदनासु वेदनानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन / अध्यात्मचित्ते चित्तानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमन् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन / बहिर्धाचित्ते चित्तानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन / अध्यात्मबहिर्धाचित्ते चित्तानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन / अध्यात्मधर्मेषु धर्मानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन / बहिर्धाधर्मेषु धर्मानुदर्शी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन / अध्यात्मबहिर्धाधर्मेषु धर्मानुदर्शी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन / इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं /
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् उत चत्वारि सम्यक्प्रहाणानि / कतमानि / इदं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुत्पन्नानां पापकानाम् अकुशलधर्माणाम् अनुत्पादाय छन्दं जनयति / व्यायच्छते / वीर्यम् आरभते / चित्तं प्रग्र्ह्णाति / सम्यक् प्रदधाति / उत्पन्नानां पापकानाम् अकुशलधर्माणां प्रहाणाय छन्दं जनयति / व्यायच्छते वीर्यम् आरभते चित्तं प्रग्र्ह्णाति / सम्यक् प्रदधाति / अनुत्पन्नानां कुशलधर्माणाम् उत्पादाय छन्दं जनयति, व्यायच्छते वीर्यम् आरभते चित्तं प्रगृह्णाति सम्यक् प्रदधाति / उत्पन्नानां कुशलानां धर्माणां स्थितये भूयोभावनतायै असंतोषाय परिपूरये छन्दं जनयति / व्यायच्छते वीर्यम् आरभते चित्तं प्रगृह्णाति सम्यक् प्रदधाति / तच् चानुपलम्भयोगेन / इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं /
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् उत चत्वार ऋद्धिपादाः / कतमे चत्वारः इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् छन्दसमाधिप्रहाणासंस्कारसमन्वागतं ऋद्धिपादान् भावयति / विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं / वीर्यसमाधिप्रहाणां समन्वागतं ऋद्धिपादान् भावयति / विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं चित्तं समाधिप्रहाणासंस्कारसमन्वागतम् ऋद्धिपादान् भावयति / विवेकनिःश्रितं विरागनिःश्रितं / निरोधनिःश्रितं व्यवसर्गपरिणतं / समाधिप्रहाणसंस्कारं समन्वागतम् ऋद्धिपादान् भावयति / विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं / तच् चानुपलम्भयोगेन / इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं /
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् उत पञ्चेन्द्रियाणि / कतमानि पञ्च / श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / तच् चानुपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् उत पञ्च बलानि / कतमानि पञ्च / श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलम् इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं तच् चानुपलम्भयोगेन / पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् उत सप्त बोध्यङ्गानि / कतमानि सप्तस्मृतिसंबोध्यङ्गं धर्मप्रविचयसंबोध्यङ्गं वीर्यसंबोध्यङ्गं प्रीतिसंबोध्यङ्गं ऋद्धिसंबोध्यङ्गं समाधिसंबोध्यङ्गं उपेक्षासंबोध्यङ्गं / तत्र कतमत् स्मृतिसंबोध्यङ्गं / इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्मृतिसंप्रत्यङ्गं भावयति विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं / तच् चानुपलम्भयोगेन / कतमद् धर्मप्रविचयसंबोध्यङ्गं / इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् धर्मप्रविचयसंबोध्यङ्गं भावयति / विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं / तच् चानुपलम्भयोगेन / कतमद् वीर्यसंबोध्यङ्गं / इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् वीर्यसंबोध्यङ्गं भावयति / विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं / तच् चानुपलम्भयोगेन / तत्र कतमत् प्रीतिसंबोध्यङ्गं / इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रीतिसंबोध्यङ्गं भावयति / विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं / तच् चानुपलम्भयोगेन / तत्र कतमत् प्रस्रद्धिसंबोध्यङ्गं /
इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रस्रद्धिसंबोध्यङ्गं भावयति / विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं / तच् चानुपलम्भयोगेन / तत्र कतमत् समाधिसंबोध्यङ्गं / इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् समाधिसंबोध्यङ्गं भावयति / विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं तच् चानुपलम्भोयोगेन / तत्र कतमद् उपेक्षासंबोध्यङ्गं / इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपेक्षासंबोध्यङ्गं भावयति विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं तच् चानुपलम्भयोगेन / इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं /
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उतार्याष्टाङ्गो मार्गः / सम्यग्दृष्टिः / सम्यक्सङ्कल्पः / सम्यग्वाक् / सम्यक्कर्मान्तः / सम्यगाजीवः / सम्यग्व्यायामः / सम्यक्स्मृतिः / सम्यक्समाधिः / तत्र कतमा सम्यग्दृष्टिं / इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सम्यग्दृष्टिं भावयति / विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं तच् चानुपलम्भयोगेन / तत्र कतमः सम्यक्सङ्कल्पः / इह सुभूते बोधिसत्त्वो महासत्त्वः पज्ञापारमितायां चरन् सम्यक्सङ्कल्पं भावयति / विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं / तच् चानुपलम्भयोगेन / कतमा सम्यग्वाक् / इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सम्यग्वाचं भावयति विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं / तच् चानुपलम्भयोगेन / कतमः सम्यक्कर्मान्तः / इह सुभूते बोधिसत्त्वो मत्तासत्त्वः प्रज्ञापारमितायां चरन् सम्यक्कर्मान्तं भावयति / विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं / तच् चानुपलम्भयोगेन / कतमः सम्यगाजीवः / इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सम्यगाजीवं भावयति / विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं / तच् चानुपलम्भयोगेन / कतमः सम्यग्व्यायामः / इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सम्यग्व्यायामं भावयति / विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यपसर्गपरिणतं / तच् चानुपलम्भयोगेन / कतमा सम्यक्स्मृतिः / इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सम्यक्स्मृतिर् भावयति / विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं / तच् चानुपलम्भयोगेन / कतमः सम्यक्समाधिः / इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सम्यक्समाधिं भावयति / विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं / तच् चानुपलम्भयोगेन / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं /
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् उत त्रयः समाधयः / कतमे समाधयस् त्रयः / शून्यतासमाधिर् आनिमित्तसमाधिर् अप्रणिहितसमाधिः / तत्र कतमः शून्यतासमाधिः स्वलक्षणशून्यान् सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिः शून्यताविमोक्षमुखम् अयम् उच्यते शून्यतासमाधिः / तत्र कतम आनिमित्तसमाधिः / आनिमित्तान् सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिर् आनिमित्तविमोक्षमुखम् अयम् उच्यते आनिमित्तः समाधिः / तत्र कतमो ऽप्रणिहितसमाधिः / सर्वधर्मा अनभिसंस्कारा इत्य् अनभिसंस्कुर्वतो या चित्तस्य स्थितिर् अप्रणिहितविमोक्षम् अयम् उच्यते ऽप्रणिहितः समाधिः / इमा विमोक्षमुखेषु स्मृतयः कर्तव्याः / अजह्रीयमाणेन / इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / तच् चानुपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् उतैकादश ज्ञानानि / कतमान्य् एकादश / दुःखज्ञानं समुदयज्ञान निरोधज्ञानं मार्गज्ञानं क्षयज्ञानम् अनुत्पादज्ञानं धर्म्संज्ञानम् अन्वयज्ञानं संवृत्तिज्ञानं परिचयज्ञानं यथारुतज्ञानं / तत्र कतमद् दुःखज्ञानं यद् दुःखस्यानुत्पादज्ञानं / तत्र कतमत् समुदयज्ञानं यत् समुदस्य प्रहाणज्ञानं / तत्र कतमन् निरोधज्ञानं यद् दुःखनिरोधज्ञानं / तत्र कतमत् मार्गज्ञानं यद् आर्याष्टाङ्गमार्गज्ञानं / तत्र कतमत् क्षयज्ञानं यद् रागदोषमोहक्षयज्ञानं / तत्र कतमद् अनुत्पादज्ञानं यद् भगवत्य् अनुत्पादज्ञानं / तत्र कतमद् धर्मज्ञानं यत् पञ्चानां स्कन्धानाम् अपरिक्षतिम् अपरिच्छेदज्ञानं / तत्र कतमद् अन्वयज्ञानं यच् चक्षुर् अनित्यम् इति ज्ञानं श्रोत्रम् अनित्यम् इति ज्ञानं घ्राणम् अनित्यम् इति ज्ञानं जिह्वानित्येति ज्ञानं कायो ऽनित्य इति ज्ञानं मनो ऽनित्यम् इति ज्ञानं / रूपम् अनित्यम् इति ज्ञानं शब्दो ऽनित्य इति ज्ञानं गन्धो ऽनित्य इति ज्ञानं रसो ऽनित्य इति ज्ञानं स्पर्शो ऽनित्य इति ज्ञानं धर्मा अनित्या इति ज्ञानं / चक्षुर्धातुर् अनित्यं इति ज्ञानं / रूपधातुर् अनित्य इति ज्ञानं चक्षुर्विज्ञानधातुर् अनित्य इति ज्ञानं / श्रोत्रधातुर् अनित्य इति ज्ञानं / शब्दधातुर् अनित्य इति ज्ञानं / श्रोत्रविज्ञानधातुर् अनित्य इति ज्ञानं / घ्राणधातुर् अनित्य इति ज्ञानं / गन्धधातुर् अनित्य इति ज्ञानं / घ्राणविज्ञानधातुर् अनित्य इति ज्ञानं / जिह्वाधातुर् अनित्य इति ज्ञानं / रसधातुर् अनित्य इति ज्ञानं / जिह्वाविज्ञानधातुर् अनित्य इति ज्ञानं / कायधातुर् अनित्य इति ज्ञानं / स्पर्शधातुर् अनित्य इति ज्ञानं /
कायविज्ञानधातुर् अनित्य इति ज्ञानं / मनोधातुर् अनित्य इति धर्मधातुर् अनित्य इति ज्ञानं / मनोविज्ञानधातुर् अनित्य इति ज्ञानं / पृथिवीधातुर् अनित्य इति ज्ञानं / अब्धातुर् अनित्य इति ज्ञानं / तेजोधातुर् अनित्य इति ज्ञानं / वायुधातुर् अनित्य इति ज्ञानं / आकाशधातुर् अनित्य इति ज्ञानं / विज्ञानधातुर् अनित्य इति ज्ञानं / अविद्यानित्येति ज्ञानं / संस्कारा अनित्या इति ज्ञानं / विज्ञानम् अनित्यम् इति ज्ञानं / नामरूपम् अनित्यम् इति ज्ञानं / षडायतनम् अनित्यम् इति ज्ञानं / स्पर्शो ऽनित्य इति ज्ञानं / वेदनानित्येति ज्ञानं / तृष्णानित्येति ज्ञानं / उपादानम् अनित्यम् इति ज्ञानं / भवो ऽनित्य इति ज्ञानं / जातिर् अनित्येति ज्ञानं / जरामरणम् अनित्यम् इति ज्ञानं /
तत्र कतमत् संवृत्तिज्ञानं यत् परसत्त्वानां परपुद्गलानां चेतसैव चेतोज्ञानं / तत्र कतमत् परिचयज्ञानं / यत् प्रतिपक्षज्ञानं / तत्र कतमद् यथाकतज्ञानं / यत् तथागतस्य सर्वाकारज्ञताज्ञानं / इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / तच् चानुपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् उत त्रीणीन्द्रियाणि / कतमानि त्रीणि / अज्ञातमाज्ञास्यामीतीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियं / तत्र कतमद् अज्ञातमाज्ञास्यामीतीन्द्रियं / यच् छैक्षाणां पुद्गलानाम् अनभिसमिता विनामिता संपदविनयं श्रद्धेन्द्रियं वीर्येन्द्रयं स्मृतीन्द्रियं समाधीन्द्रियं प्राज्ञेन्द्रियम् इदम् उच्यते ऽनाज्ञातमाज्ञास्यामीतीन्द्रियं / तत्र कतमद् आज्ञेन्द्रियं / यच् छैक्षाणां पुद्गलानाम् आज्ञातवता श्रद्धेन्द्रियं वीर्येन्द्रयं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् इदम् उच्यते आज्ञेन्द्रियं / तत्र कतमद् आज्ञातावीन्द्रियं / यच् छैक्षाणां पुद्गलानाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां तथागतानां श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् इदम् उच्यते आज्ञातावीन्द्रियं / इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं / तच् चानुपलम्भयोगेम /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
