Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता, Part इ
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा महासन्नाहसन्नद्धस् त्रिसाहस्रमहामाहस्रलोकधातुं वैदूर्यम् अयम् अभिनिर्मिमीते वैदूर्यम् अयम् अभिनिर्माय चक्रवर्तिव्यूहम् अभिनिर्मिमीते / चक्रवर्तिव्यूहम् अभिनिर्माय असन्नार्थिकेभ्यो ददाति / पानं पानार्थिकेभ्यो ददाति / यानं यानार्थिकेभ्यो ददाति / वस्त्रं वस्त्रार्थिकेभ्यो ददाति / पुष्पं पुष्पार्थिकेभ्यो ददाति / माल्यं माल्यार्थिकेभ्यो ददाति / गन्धं गन्धार्थिकेभ्यो ददाति / विलेपनं विलेपनार्थिकेभ्यो ददाति / शयनम् आसनं शयनासनार्थिकेभ्यो ददाति / उपाश्रयम् उपाश्रयार्थिकेभ्यो ददाति / प्राजीविकं प्राजीविकार्थिकेभ्यो ददाति / उपकरनम् उपकरनार्थिकेभ्यो ददाति / ग्लानप्रत्ययभैषयपरिष्कारं ग्लानप्रत्ययभैषज्यपरिष्कारार्थिकेभ्यो ददाति / मणिमुखावैदूर्यशङ्खशिलाप्रवालरजतजातरूपार्थिकेभ्यो मणिमुक्तावैदूर्यशङ्खशिलाप्रवालरजतजातरूपाणि ददाति / यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान् ददाति / सो ऽनमनार्थिकेभ्यो दत्त्वा पानं पानार्थिकेभ्यो दत्त्वा यानं यानार्थिकेभ्यो दत्त्वा वस्त्रं वस्त्रार्थिकेभ्यः पुष्पं पुष्पार्थिकेभ्यः / माल्यं माल्यार्थिकेभ्यः गन्धं गन्धार्थिकेभ्यः विलेपनं विलेपनार्हिकेभ्यः शयनम् आसनं शयनासनार्थिकेभ्यः उपाश्रयम् उपाश्रयार्थिकेभ्यः प्राजीविकं प्राजीविकार्थिकेभ्यः उपकरनम् उपकरनार्थिकेभ्यः ग्लानप्रत्ययभैषज्यपरिष्कं ग्लानप्रत्ययभैषज्यपरिष्कारार्थिकेभ्यः मणिमुक्तावैदूर्यशङ्खशिलाप्रवालरजतजातरूपाणि मुक्तावैदूर्यशङ्खशिलाप्रवालरजतजातरूपार्थिकेभ्यः दत्त्वा यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान् दत्त्वा तेभ्यः सत्त्वेभ्यो धर्मं देशयति / यद् उतेमाम् एव षट्पारमिताप्रतिसंयुक्तं धर्मदेशनां / ते च खलु पुनः सत्त्वास् तां धर्मदेशनां श्रुत्वा न जातु षड्भिः पारमिताभिर् विरहितो भवति / यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते /
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जननिकायस्याग्रे महान्तं जननिकायम् अभिनिर्मायान्नम् अन्नार्थिकेभ्यो दद्यात् पानं पानार्थिकेभ्यो दद्यात् वस्त्रं वस्त्रार्थिकेभ्यो दद्यात् पुष्पं पुष्पार्थिकेभ्यो दद्यात् माल्यं माल्यार्थिकेभ्यो दद्यात् गन्धं गन्धार्थिकेभ्यो दद्यात् विलेपनं विलेपनार्थिकेभ्यो दद्यात् शयनम् आसनं शयनासनार्थिकेभ्यो दद्यात् उपाश्रयम् उपाश्रयार्थिकेभ्यो दद्यात् प्राजीविकं प्राजीविकार्थिकेभ्यो दद्यात् उपकरणम् उपकरणार्थिकेभ्यो दद्यात् ग्लानप्रत्ययभैषज्यपरिष्कारान् ग्लानप्रत्ययभैषज्यपरिष्कारार्थिकेभ्यो दद्यात् मणिमुक्तावैदूर्यशङ्खशिलाप्रवाहरजतजातरूपाणि मणिमुक्तावैदूर्यशङ्खशिलाप्रवालरजतजातरूपार्थिकेभ्यो दद्यात् यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान् दद्यात् / तत् किं मन्यसे सुभूते ऽपि तु तेन मायाकारेण मायाकारान्तेवासिना वा कस्मैचित् सत्त्वाय किञ्चिद् दत्तं भवेत् / आह नो हीदं भगवन् / भगवान् आह / एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन यावच् चक्रवर्तिव्यूहम् अभिनिर्मायान्नम् अन्नार्थिकेभ्यो ददता पानं पानार्थिकेभ्यो ददता यानं यानार्थिकेभ्यो ददता वस्त्रं वस्त्रार्थिकेभ्यो ददता पुष्पं पुष्पार्थिकेभ्यो ददता माल्यं माल्यार्थिकेभ्यो ददता गन्धं गन्धार्थिकेभ्यो ददता विलेपनं विलेपनार्थिकेभ्यो ददता शयनासनं शयनासनार्थिकेभ्यो ददता उपाश्रयम् उपाश्रयार्थिकेभ्यो ददता प्राजीविकं प्राजीविकार्थिकेभ्यो ददता उपकरणम् उपकरणार्थिकेभ्यो ददता ग्लानप्रत्ययभैषज्यपरिष्कारान् ग्लानप्रत्ययभैषज्यपरिष्कारार्थिकेभ्यो ददता मणिमुक्तावैदूर्यशङ्खशिलाप्रवालरजतजातरूपाणि मणिमुक्तावैदूर्यशङ्खशिलाप्रवालरजतजातरूपार्थिकेभ्यो ददता यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान् ददता न कस्मैचित् सत्वाय किञ्चिद् दत्तं भवति / तत् कस्य हेतोः धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो महासन्नासन्नह्य इत्य् उच्यते /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थित्वा सञ्चिन्त्योपपत्तिपरिग्रहेण चक्रवर्तिकुले प्रत्याजायते / स तत्र चक्रवर्तिश् चर्ये स्थित्वा सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठापयति / स चतुर्षु ध्यानेष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्षु बुद्धपादेषु पञ्चस्व् इन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु / आर्याष्टाङ्गमार्गे शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु नवस्व् अनुपूर्वविहारसमापत्तिषु चतुर्ष्व् आर्यसत्त्वेषु सर्वसमाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायां अष्टादशास्व् आवेणिकबुद्धधर्मेषु प्रतिष्ठापयति / ते सत्वा न जातु विरहितो भवति / तथा धर्मदेशनया यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते /
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुःपथे महतो जननिकायस्य पुरतो महान्तं जननिकायम् अभिनिर्माय सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठापयेत् / चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु / पञ्चस्व् अभिज्ञासु चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चेन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु आर्याष्टाङ्गमार्गे शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु नवस्व् अनुपूर्वविहारसमापत्तिषु चतुर्ष्व् आर्यसत्येषु सर्वसमाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायां अष्टादशस्व् आवेणिकबुद्धधर्मेषु प्रतिष्ठापयेत् / तत् किं मन्यसे सुभूते ऽपि गतेन मायाकारेण मायाकारान्तेवासिना कश्चित् सत्त्वो दशकुशलेषु कर्मपथेषु प्रतिष्ठापितो भवेत् / चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चस्व् इन्द्रियेषु पञ्चसु बलेषु सप्तबोध्यङ्गेषु अर्याष्टाङ्गमार्गे शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु / नवस्व् अनुपूर्वविहारसमापत्तिषु चतुर्ष्व् आर्यसत्येषु सर्वसमाधिषु सर्वधारणीमुखेषु दशतथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायां अष्टादशावेणिकबुद्धधर्मेषु प्रतिष्ठापितो भवति / आह / नो हीदं भगवन् /
एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेनाप्रमेयासंख्येयान् अपि सत्त्वान् दशकुशलेषु कर्मपथेउअ प्रतिष्ठाप्य चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चस्व् इन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु अर्याष्टाङ्गमार्गे शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु अष्टासु विमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु चतुर्ष्व् आर्यसत्येषु सर्वसमाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायां अष्टादशावेणिकबुद्धधर्मेषु न कश्चित् सत्त्वः प्रतिष्ठापितो भवति / तत् कस्य हेतोः / धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहं सन्नह्य इत्य् उच्यते /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा सर्वसत्त्वान् क्षान्तिपारमितायां नियोजयति प्रतिष्ठापयति / कथञ् च सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा सर्वसत्त्वान् क्षान्तिपारमितायां नियोजयति प्रतिष्ठापयति / इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यैव सन्नाहं सन्नह्यति / सचेत् सर्वसत्त्वा मे लोष्ट्रदण्डशस्त्रप्रहारान् दद्युस् तत्र मयैकम् अपि क्षोभसहगतं चित्तं नोत्पादयितव्यं / सर्वसत्त्वांश् चैवं रूपायां क्षान्तौ प्रतिष्ठापयति /
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जननिकायस्य पुरतो महान्तं जननिकायम् अभिनिर्माय क्षान्तिपारमितायां नियोजयेत् प्रतिष्ठापयेत् किं मन्यसे सुभूते ऽपि नु तेन मायाकारेण मायाकारान्तेवासिना वा कश्चित् सत्त्वः क्षान्तिपारमितायां प्रतिष्ठापितो भवेत् आह / नो हीदं भगवन् / भगवान् आह / एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेनाप्रमेयासंख्येयान् सत्त्वान् क्षान्तिपारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वः क्षान्तिपारमितायां प्रतिष्ठापितो भवति / तत् कस्य हेतोः / धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नह्य इत्य् उच्यते /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा सत्त्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा सर्वसत्त्वान् वीर्यपारमितायां समादापयति / निवेशयति प्रतिष्ठापयति / इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्ते न चित्तोत्पादेन सर्वसत्त्वान् कायिकचेतसिकवीर्ये समादापयति निवेशयति प्रतिष्ठापयति / तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जननिकायस्य पुरतो महान्तं जननिकायम् अभिनिर्माय कायिकचेतसिकवीर्ये प्रतिष्ठापयेत् तत् किं मन्यसे सुभूते ऽपि नु तेन मायाकारेण वा मायाकारान्तेवासिना वा चतुर्महापथे महतो जननिकायस्य पुरतो महान्ते जननिकायम् अभिनिर्मिमे कायिकचेतसिकवीर्ये प्रतिष्ठापयेत् / तत् किं मन्यसे सुभूते ऽपि नु तेन मायाकारेण वा मायाकारान्तेवासिना वा कश्चित् सत्त्वः कायिकचेतसिकवीर्ये प्रतिष्ठापितो भवेत् / आह / नो हीदं भगवन् / एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेनाप्रमेयासंख्येयान् सत्त्वाम् कायिकचेतमिकवीर्ये प्रतिष्ठाप्य न कश्चित् सत्त्वः कायिकचेतसिकवीर्ये प्रतिष्ठापितो भवति / तत् कस्य हेतोः धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय / एवं खलु बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नह्य इत्य् उच्यते /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थित्वा सर्वसत्त्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थित्वा सर्वसत्त्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्मसमतायां स्थित्वा यत्र कस्यचिद् धर्मस्य विक्षेपं वा समनुपश्यत्य् एवं ध्यानपारमितायां स्थितो भवति / स तथैव सत्त्वान् ध्यानपारमितायां समादापयति / निवेशयति / प्रतिष्ठापयति / ते च समादापिता न जातु विरहिता भवन्ति ध्यानपारमितायाः यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जननिकायस्य पुरतो महान्तं जननिकायम् अभिनिर्माय ध्यानपारमितायां प्रतिष्ठापयति / तत् किं मन्यसे सुभूते ऽपि नु तेन मायाकारेण वा मायाकारान्तवासिना वा कश्चित् सत्त्वो ध्यानपारमितायां प्रतिष्ठापितो भवेत् / आह / नो हीदं भगवन् / भगवान् आह / एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् ध्यानपारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वो ध्यानपारमितायां प्रतिष्ठापितो भवति / तत् कस्य हेतोः / धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय / एव खलु सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहं सन्नह्य इत्य् उच्यते /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति / कथञ् च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति / आह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् यत् कस्यचिद् धर्मस्योत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा आरं वा पारं वोपलभते / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो भवति / स तथैव सर्वसत्त्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति / तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जननिकायस्य पुरतो महान्तं जननिकायम् अभिनिर्माय प्रज्ञापार्मितायां समादापयेत् निवेशयेत् प्रतिष्ठापयेत् / तत् किं मन्यसे सुभूते ऽपि नु तेन मायाकारेण वा मायाकारान्तेवासिना वा कश्चित् सत्त्वः प्रज्ञापारमितायां समादापितो निवेशितः प्रतिष्ठापितो भवेत् / आह / नो हीदं भगवन् / भगवान् आह / एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् प्रज्ञापारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वः प्रज्ञापारमितायां प्रतिष्ठापितो भवेत् / तत् कस्य हेतोः धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नह्य इत्य् उच्यते /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहं सन्नह्य पूर्वस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा अथैवात्मना दानपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना शीलपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना क्षान्तिपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् क्षान्तिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना वीर्यपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापयति / निवेशयति प्रतिष्ठापयति / यथैवात्मना ध्यानपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना प्रज्ञापारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यद् उत या एव षट्पारमितास् ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहितो भवति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते /
दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गत्वा यथैवात्मना दानपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापयति मिवेशयति प्रतिष्ठापयति / यथैवात्मना शीलपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् ताम् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना क्षान्तिपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् क्षान्तिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना वीर्यपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना ध्यानपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना प्रज्ञापारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति / धर्मं देशयति यद् उत या एव षट्पारमिताः / ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते /
पश्चिमायान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा यथैवात्ममा दानपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना शीलपारमिताया तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना क्षान्तिपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् क्षान्तिपारमितायां समादापयति / यथैवात्मना वीर्यपारमितायां तिष्ठति तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना ध्यानपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना प्रज्ञापारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति / धर्मं देशयति यद् उत या एव षट्पारमिताः / ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ति /
उत्तरस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा यथैवात्मना दानपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापयति / यथैवात्मना शीलपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना क्षान्तिपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना वीर्यपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना ध्यानपारमितायां तिष्ठति तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादापयति / यथैवात्मना प्रज्ञापारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् प्रज्ञापारमितायां समादापयति / निवेशयति प्रतिष्ठापयति / धर्मञ् च देशयति यद् उत या एव षट्पारमिताः / ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहिता भवन्ति / षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते /
पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा यथैवात्मना दानपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना शीलपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना क्षान्तिपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् क्षान्तिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना वीर्यपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना ध्यानपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना प्रज्ञापारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति / धर्मञ् च देशयति यद् उत या एव षट्पारमिताः / ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते /
दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा यथैवात्मना दानपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना शीलपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना क्षान्तिपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् क्षान्तिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना वीर्यपारमितार्या तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना ध्यानपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना प्रज्ञापारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति / धर्मञ् च देशयति / यद् उत या एव षट्पारमिताः / ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते /
पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा यथैवात्मना दानपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना शीलपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति मिवेशयति प्रतिष्ठापयति / यथैवात्मना क्षान्तिपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् क्षान्तिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना वीर्यपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापति निवेशयति प्रतिष्ठापयति / यथैवात्मना ध्यानपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादायति निवेशति प्रतिष्ठापयति / यथैवात्मना प्रज्ञापारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति / धर्मञ् च देशयति यद् उत या एव षट्पारमिताः / ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते /
उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा यथैवात्मना दानपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापयति निवेशति प्रतिष्ठापयति / यथैवात्मना शीलपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना क्षान्तिपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् क्षान्तिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना वीर्यपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापयति / यथैवात्मना ध्यामपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना प्रज्ञापारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वान् सर्वान् प्रज्ञापारमितायां समादापयति / निवेशयति प्रतिष्ठापयति / धर्मञ् च देशयति यद् उत या एव षट्परामिताः ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते /
अधस्ताद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा यथैवात्मना दानपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना शीलपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना क्षान्तिपारमिताया तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् क्षान्तिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना वीर्यपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना ध्यानपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना प्रज्ञापारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति / धर्मञ् च देशयति यद् उत या एव षट्पारमिताः / ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहिता भवन्ति षड्भिः पारमिताभिः / यावद् अन्नुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते /
उपरिष्टाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा यथैवात्मना दानपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापति निवेशयति प्रतिष्ठापद्यति / यथैवात्मना शीलपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना क्षान्तिपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् क्षान्तिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति यथैवात्मना वीर्यपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापद्यति निवेशयति प्रतिष्ठापयति / यथैवात्मना ध्यानपारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति / यथैवात्मना प्रज्ञापारमितायां तिष्ठति / तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति / धर्मञ् च देशयति यद् उत या एव षट्पारमिताः / ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहिता भवन्ति षड्भिः पारमिताभिः / यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते /
तद्यथापि नाम सुभूते दक्षो मायाकारो वा मायाकारान्तेवासी वा चतुर्महापथे महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्माय षट्सु पारमितासु समादापयेन् निवेशयेत् प्रतिष्ठापयेत् / तत् किं मन्यसे सुभूते ऽपि नु तेन मायाकारेण वा मायाकारान्तेवासिना वा कश्चित् सत्त्वः षट्सु पारमितासु समादापितो निवेशितः प्रतिष्ठापितो वा भवेत् / आह नो हीदं भगवन् / भगवान् आह / एवम् एव बोधिसत्त्वेन महासत्त्वेन पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु / दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु / पश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु / उत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु / पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु / दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु / पश्चिमोत्तरस्यान् दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु / अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु / उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये सत्त्वास् ते सर्वे षट्सु पारमितासु प्रतिष्ठापिता भवन्ति / तत् कस्य हेतोः / धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नह्य इत्य् उच्यते /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहं सन्नह्य सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विहरन् नान्येषां चित्तोत्पादानाम् अवकाशं ददाति / इयन्तो मया सत्त्वाः दानपारमितायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया शीलपारमितायां प्रतिष्ठापितव्याः / इयन्तो न प्रतिष्ठापितव्याः / इयन्तो मया सत्त्वाः क्षान्तिपारमितायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः वीर्यपारमितायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः ध्यानपारमितायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः प्रज्ञापारमितायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः /
इयन्तो मया सत्त्वाः अध्यात्मशून्यतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वा बहिर्धाशून्यतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः अध्यात्मबहिर्धाशून्यतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः शून्यताशून्यतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः महाशून्यतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः परमार्थशून्यतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः संस्कृतशून्यतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः असंस्कृतशून्यतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्या / इयन्तो मया सत्त्वाः अत्यन्तशून्यतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः अनवराग्रशून्यतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः अनवकारशून्यतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः प्रकृतिशून्यतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्वाः सर्वधर्मशून्यतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः स्वलक्षणशून्यतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः अनुपलम्भशून्यतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः अभावशून्यतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः स्वभावशून्यतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः अभावस्वभावशून्यतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः /
इयन्तो मया सत्वाश् चतुर्षु स्मृत्युपस्थानेषु प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाश् चतुर्षु सम्यक्प्रहाणेषु प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाश् चतुर्षु ऋद्धिपादेषु प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः पञ्चस्व् इन्द्रियेषु प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वो पञ्चसु बलेषु प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः सप्तसु बोध्यङ्गेषु प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः आर्याष्टाङ्गमार्गे प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः आर्यसत्येषु प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाश् चतुर्षु ध्यानेषु प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाश् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः विमोक्षेषु प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वा नवस्व् अनुपूर्वविहारसमापत्तिषु प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः शून्यतानिमित्ताप्रणिहितविमोक्षेषु प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वा पञ्चस्व् अभिज्ञासु प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वा सर्वसमाधिषु प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः सर्वधारणीमुखेषु प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः /
इयन्तो मया सत्त्वाः दशसु तथागतबलेषु प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाश् चतुर्षु वैशारद्येषु प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाश् चतसृषु प्रतिसंवित्सु प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वा महामैत्र्यां प्रतिष्ठापयितव्याः / इयन्तो न प्रतष्ठापयितव्याः / इयन्तो मया सत्त्वाः महाकरुणायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः अष्टादशस्व् आवेणिकबुद्धधर्मेषु प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापहितव्याः / इयन्तो मया सत्त्वाः श्रोतआपत्तिफले प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः सकृदागामिफले प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः अनागामिफले प्रतिष्ठापयितव्या / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः अर्हत्वे प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः मार्गाकारज्ञतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयितव्याः / इयन्तो मया सत्त्वाः सर्वाकारज्ञतायां प्रतिष्ठापयितव्याः / इयन्तो न प्रतिष्ठापयिव्याः /
अपि तु पुनर् अस्यैवं भवत्य् अप्रमेयासंख्येया मया सत्त्वा दानपारमितायां प्रतिष्ठापयितव्याः / शीलपारमितायां प्रतिष्ठापयितव्याः / क्षान्तिपारमितायां प्रतिष्ठापयितव्याः / वीर्यपारमितायां प्रतिष्ठापयितव्याः / ध्यानपारमितायां प्रतिष्ठापयितव्याः / प्रज्ञापारमितायां प्रतिष्ठापयितव्याः / अध्यात्मशून्यतायां प्रतिष्ठापयितव्याः / बहिर्धाशून्यतायां प्रतिष्ठापयितव्याः / अध्यात्मबहिर्धाशून्यतायां प्रतिष्ठापयितव्याः / शून्यताशून्यतायां प्रतिष्ठापयितव्याः / महाशून्यतायां प्रतिष्ठापयितव्याः / परमार्थशून्यतायां प्रतिष्ठापयितव्याः / संस्कृतशून्यतायां प्रतिष्ठापयितव्याः / असंस्कृतशून्यतायां प्रतिष्ठापयितव्याः / अत्यन्तशून्यतायां प्रतिष्ठापयितव्याः / अनवराग्रशून्यतायां प्रतिष्ठापयितव्याः / अनवकारशून्यतायां प्रतिष्ठापयितव्याः / प्रकृतिशून्यतायां प्रतिष्ठापयितव्याः / सर्वधर्मशून्यतायां प्रतिष्ठापयितव्याः / स्वलक्षणशून्यतायां प्रतिष्ठापयितव्याः / अनुपलम्भशून्यतायां प्रतिष्ठापयितव्याः / अभावशून्यतायां प्रतिष्ठापयितव्याः / स्वभावशून्यतायां प्रतिष्ठापयितव्याः / अभावस्वभावशून्यतायां प्रतिष्ठापयितव्याः / चतुर्षु स्मृत्युपस्थानेषु प्रतिष्ठापयितव्याः / चतुर्षु सम्यक्प्रहाणेषु प्रतिष्ठापयितव्याः / चतुर्षु ऋद्धिपादेषु प्रतिष्ठापयितव्याः / पञ्चस्व् इन्द्रियेषु प्रतिष्ठापथितव्याः / पञ्चसु बलेषु प्रतिष्ठापयितव्याः / सप्तसु बोध्यङ्गेषु प्रतिष्ठापयितव्याः / आर्याष्टाङ्गमार्गे प्रतिष्ठापयितव्याः / चतुर्ष्व् आर्यसत्येषु प्रतिष्ठापयितव्याः / चतुर्षु ध्यानेषु प्रतिष्ठापयितव्याः / चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयितव्याः /
चतसृष्व् आरूप्यसमापत्तिषु प्रतिष्ठापयितव्याः / अष्टासु विमोक्षेषु प्रतिष्ठापयितव्याः / नवस्व् अनुपूर्वविहारसमापत्तिषु प्रतिष्ठापयितव्याः / शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु प्रतिष्ठापयितव्याः / पञ्चस्व् अभिज्ञासु प्रतिष्ठापयितव्याः / सर्वसमाधिषु प्रतिष्ठापयितव्याः / सर्वधारणीमुखेषु प्रतिष्ठापयितव्याः / दशसु तथागतबलेषु प्रतिष्ठापयितव्याः / चतुर्षु वैशारद्येषु प्रतिष्ठापयितव्याः / चतसृषु प्रतिसंवित्सु प्रतिष्ठापयितव्याः / महामैत्र्यां प्रतिष्ठापयितव्याः / महाकरुणायां प्रतिष्ठापयितव्याः / अष्टादशावेणिकबुद्धधर्मेषु प्रतिष्ठापयितव्याः / श्रोतआपत्तिफले प्रतिष्ठापयितव्याः / सकृदागामिफले प्रतिष्ठापयितव्याः / अनागामिफले प्रतिष्ठापयितव्याः / अर्हत्त्वे प्रतिष्ठापयितव्याः / प्रत्येकबोधौ प्रतिष्ठापयितव्याः / मार्गाकारज्ञतायां प्रतिष्ठापयितव्याः / सर्वाकारज्ञतायां प्रतिष्ठापयितव्याः /
तद्यथापि नाम सुभूते दक्षो मायाकारो वा मायाकारान्तेवासी वा चतुर्महापथे महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्मायैवं चित्तम् उत्पादयेत् एते मया अप्रमेयासंख्येयाः सत्त्वाः षट्सु पारमितासु प्रतिष्ठापयितव्याः / अष्टादशसु शून्यतासु प्रतिष्ठापयितव्याः / चतुर्षु स्मृत्युपस्थानेषु प्रतिष्ठापयितव्याः / चतुर्षु सम्यक्प्रहाणेषु प्रतिष्ठापयितव्याः / चतुर्षु ऋद्धिपादेषु प्रतिष्ठापयितव्याः / पञ्चस्व् इन्द्रियेषु प्रतिष्ठापथितव्याः / पञ्चसु बलेषु प्रतिष्ठापयितव्याः / सप्तसु बोध्यङ्गेषु प्रतिष्ठापयितव्याः / आर्याष्टाङ्गमार्गे प्रतिष्ठापयितव्याः / चतुर्ष्व् आर्यसत्येषु प्रतिष्ठापयितव्याः / चतुर्षु ध्यानेषु प्रतिष्ठापयितव्याः / चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयितव्याः / चतसृष्व् आरूप्यसमापत्तिषु प्रतिष्ठापयितव्याः / अष्टासु विमोक्षेषु प्रतिष्ठापयितव्याः / नवस्व् अनुपूर्वविहारसमापत्तिषु प्रतिष्ठापयितव्याः / शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु प्रतिष्ठापयितव्याः / पञ्चस्व् अभिज्ञासु प्रतिष्ठापयितव्याः / सर्वसमाधिषु प्रतिष्ठापयितव्याः / सर्वधारणीमुखेषु प्रतिष्ठापयितव्याः / दशसु तथागतबलेषु प्रतिष्ठापयितव्याः / चतुर्षु वैशारद्येषु प्रतिष्ठापयितव्याः / चतसृषु प्रतिसंवित्सु प्रतिष्ठापयितव्याः / महामैत्र्यां प्रतिष्ठापयितव्याः / महाकरुणायां प्रतिष्ठापयितव्याः / अष्टादशस्व् आवेणिकबुद्धधर्मेषु प्रतिष्ठापयितव्याः / श्रोतआपत्तिफले प्रतिष्ठापयितव्याः / सकृदागामिफले प्रतिष्ठापयितव्याः / अनागामिफले प्रतिष्ठापयितव्याः / अर्हत्त्वे प्रतिष्ठापयितव्याः / प्रत्येकबोधौ प्रतिष्ठापयितव्याः / मार्गाकारज्ञतायां प्रतिष्ठापयितव्याः / सर्वाकारज्ञतायां प्रतिष्ठापयितव्याः /
तत् किं मन्यसे सुभूते ऽपि नु तेन मायाकारेण वा मायाकारान्तेवासिना वा कश्चित् सत्वः षट्सु पारमितासु प्रतिष्ठापितो भवेत् / अष्टादशसु शून्यतासु प्रतिष्ठापितो भवेत् / चतुर्षु स्मृत्युपस्थानेषु प्रतिष्ठापितो भवेत् / चतुर्षु सम्यक्प्रहाणेषु प्रतिष्ठापितो भवेत् / चतुर्षु ऋद्धिपादेषु प्रतिष्ठापितो भवेत् / पञ्चस्व् इन्द्रियेषु प्रतिष्ठापितो भवेत् / पञ्चसु बलेषु प्रतिष्ठापितो भवेत् / सप्तसु बोध्याङ्गेषु प्रतिष्ठापितो भवेत् / आर्याष्टाङ्गामार्गे प्रतिष्ठापितो भवेत् / चतुर्ष्व् आर्यसत्येषु प्रतिष्ठापितो भवेत् / चतुर्षु ध्यानेषु प्रतिष्ठापितो भवेत् / चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापितो भवेत् / चतसृष्व् आरूप्यसमापत्तिषु प्रतिष्ठापितो भवेत् / अष्टासु विमोक्षेषु प्रतिष्ठापितो भवेत् / नवस्व् अनुपूर्वविहारसमापत्तिषु प्रतिष्ठापितो भवेत् / शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु प्रतिष्ठापितो भवेत् / पञ्चस्व् अभिज्ञासु प्रतिष्ठापितो भवेत् / सर्वसमाधिषु प्रतिष्ठापितो भवेत् / सर्वधारणीमुखेषु प्रतिष्ठापितो भवेत् / दशतथागतबलेषु प्रतिष्ठापितो भवेत् / चतुर्षु वैशारद्येषु प्रतिष्ठापितो भवेत् / चतसृषु प्रतिसंवित्सु प्रतिष्ठापितो भवेत् / महामैत्र्यां प्रतिष्ठापितो भवेत् / महाकरुणायां प्रतिष्ठापितो भवेत् / अष्टादशस्व् आवेणिकबुद्धधर्मेषु प्रतिष्ठापितो भवेत् / श्रोतआपत्तिफले प्रतिष्ठापितो भवेत् / सकृदागामिफले प्रतिष्ठापितो भवेत् / अनागामिफले प्रतिष्ठापितो भवेत् / अर्हत्वे प्रतिष्ठापितो भवेत् / प्रत्येकबोधौ प्रतिष्ठापितो भवेत् / मार्गाकारज्ञतायां प्रतिष्ठापितो भवेत् / सर्वाकारज्ञतायां प्रतिष्ठापितो भवेत् /
आह / नो हीदं भगवन् / भगवान् आह / एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेनाप्रमेयासंख्येयानां सत्त्वानां षट्सु पारमितासु प्रतिष्ठापनाय चित्तम् उत्पाद्य / अष्टादशसु शून्यतासु प्रतिष्ठापनाय चित्तम् उत्पाद्य / चतुर्षु स्मृत्युपस्थानेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य / चतुर्षु सम्यक्प्रहाणेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य / चतुर्ष्व् ऋद्धिपादेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य / पञ्चस्व् इन्द्रियेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य / पञ्चसु बलेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य / सप्तसु बोध्यङ्गेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य / आर्याष्टाङ्गमार्गे प्रतिष्ठापनाय चित्तम् उत्पाद्य / आर्यसत्येषु प्रतिष्ठापनाय चित्तम् उत्पाद्य / चतुर्षु ध्यानेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य / चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य / आरूप्यसमापत्तिषु प्रतिष्ठापनाय चित्तम् उत्पाद्य / अष्टासु विमोक्षेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य / नवस्व् अनुपूर्वविहारसमापत्तिषु प्रतिष्ठापनाय चित्तम् उत्पाद्य / शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य / पञ्चस्व् अभिज्ञासु प्रतिष्ठापनाय चित्तम् उत्पाद्य / सर्वसमाधिषु प्रतिष्ठापनाय चित्तम् उत्पाद्य / सर्वधारणीमुखेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य / दशतथागतबलेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य / चतुर्षु वैशारद्येषु प्रतिष्ठापनाय चित्तम् उत्पाद्य / चतसृषु प्रतिसंवित्सु प्रतिष्ठापनाय चित्तम् उत्पाद्य / महामैत्र्यां प्रतिष्ठापनाय चित्तम् उत्पाद्य / महाकरुणायां प्रतिष्ठापनाय चित्तम् उत्पाद्य / अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य / श्रोत्रआपत्तिफले प्रतिष्ठापनाय चित्तम् उत्पाद्य / सकृदागामिफले प्रतिष्ठापनाय चित्तम् उत्पाद्य / अनागामिफले प्रतिष्ठापनाय चित्तम् उत्पाद्य / अर्हत्त्वे प्रतिष्ठापनाय चित्तम् उत्पाद्य / प्रत्येकबोधौ प्रतिष्ठापनाय चित्तम् उत्पाद्य / मार्गाकारज्ञतायां प्रतिष्ठापनाय चित्तम् उत्पाद्य / सर्वाकारज्ञतायां प्रतिष्ठापनाय चित्तम् उत्पाद्य / न कस्यचित् सत्त्वस्यार्थाय चित्तम् उत्पादितो भवति / तत् कस्य हेतोः / धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उत्पादाय / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नह्य इत्य् उच्यते /
सुभूतिर् आह / यथाहं भगवन् भवतो भावितस्यार्थम् आजानामि / असन्नाहसन्नह्यो बतायं बोधिसत्त्वो महासत्त्वो वेदितव्यः / स्वलक्षणशून्यताम् उपादाय / तत् कस्य हेतोस् तथा हि / रूपं भगवन् रूपेण शून्यं / वेदना वेदनया शून्या / संज्ञा संज्ञया शून्या / संस्कारः संस्कारैः शून्याः / विज्ञानं विज्ञानेन शून्यं / चक्षुश् चक्षुषा शून्यं / श्रोत्रं श्रोत्रेण शून्यं / घ्राणं घ्राणेन शून्यं / जिह्वा जिह्वया शून्या / कायः कायेन शून्यः / मनो मनसा शून्यं / रूपं रूपेण शून्यं / शब्दः शब्देन शून्यः / गन्धो गन्धेन शून्यः / रसो रसेन शून्यः / स्पर्शः स्पर्शेन शून्यः / धर्मा धर्मैः शून्याः / चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं / श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं / घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं / जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं / कायविज्ञानं कायविज्ञानेन शून्यं / मनोविज्ञानं मनोविज्ञानेन शून्यं / चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः / श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यः / घ्राणसंस्पर्शः घ्राणसंस्पर्शेन शून्यः / जिह्वासंस्पर्शः जिह्वासंस्पर्शेन शून्यः / कायसंस्पर्शः कायसंस्पर्शेन शून्यः / मनःसंस्पर्शः मनसंस्पर्शेन शून्यः / चक्षुःसंस्पर्शप्रत्ययवेदना चक्षुःसंस्पर्शप्रत्ययवेदनया शून्या / श्रोत्रसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदनया शून्या / घ्राणसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदनया शून्या / कायसंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदनया शून्या / मनःसंस्पर्शप्रत्ययवेदना मनःसंस्पर्शप्रत्ययवेदनया शून्या /
पृथिवीधातुः पृथिवीधातुना शून्या / अब्धातुर् अब्धातुना शून्या / तेजोधातुस् तेजोधातुना शून्या / वायुधातुर् वायुधातुना शून्या / आकाशधातुर् आकाशधातुना शून्या / विज्ञानधातुर् विज्ञानधातुना विज्ञानधातुना शून्या / अविद्या अविद्यया शून्या / संस्काराः संस्कारैः शून्याः / विज्ञानं विज्ञानेन शून्यं / नामरूपं नामरूपेण शून्यं / षडायतनं षडायतनेन शून्यं / स्पर्शः स्पर्शेन शून्यः / वेदना वेदनया शून्या / तृष्णा तृष्णया शून्या / उपादानम् उपादानेन शून्यं / भवो भवेन शून्यः / जातिर् जात्या शून्या / जरामरणो जरामरणेन शून्यं /
दानपारमिता दानपारमितया शून्या / शीलपारमिता शीलपारमितया शून्या / क्षान्तिपारमिता क्षान्तिपारमितया शून्या / वीर्यपारमिता वीर्यपारमितया शून्या / ध्यानपारमिता ध्यानपारमितया शून्या / प्रज्ञापारमिता प्रज्ञापारमितया शून्या /
अध्यात्मशून्यता अध्यात्मशून्यतया शून्या / बहिर्धाशून्यता बहिर्धाशून्यतया शून्या / अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या / शून्यताशून्यता शून्यताशून्यतया शून्या / महाशून्यता महाशून्यतया शून्या / परमार्थशून्यता परमार्थशून्यतया शून्या / संस्कृतशून्यता संस्कृतशून्यतया शून्या / असंस्कृतशून्यता असंस्कृतशून्यतया शून्या / अत्यन्तशून्यता अत्यन्तशून्यतया शून्या / अनवराग्रशून्यता अनवराग्रशून्यतया शून्या / अनवकारशून्यता अनवकारशून्यतया शून्या / प्रकृतिशून्यता प्रकृतिशून्यतया शून्या / सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या / स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या / अनुपलम्भशून्यता अनुपलम्भशून्यतया शून्या / अभावशून्यता अभावशून्यतया शून्या / स्वभावशून्यता स्वभावशून्यतया शून्या / अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या /
स्मृत्युपस्थानानि स्मृत्युपस्थानं शून्यानि / सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि / ऋद्धिपादा ऋद्धिपादैः शून्याः / इन्द्रियाणीन्द्रियैः शून्यानि / बलानि बलैः शून्यानि / बोध्यङ्गानि बोध्यङ्गैः शून्यानि / आर्याष्टाङ्गमार्ग आर्याष्टाङ्गःमार्गैः शून्यः / आर्यसत्यानि आर्यसत्यैः शून्यानि / ध्यानानि ध्यानैः शून्यानि / अप्रमाणानि अप्रमाणैः शून्यानि / आरूप्यसमापत्तय आरूप्यसमापत्तिभिः शून्याः / विमोक्षा विमोक्षैः शून्याः / अनुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तिभिः शून्याः / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितावमोक्षमुखैः शून्यानि / अभिज्ञा अभिज्ञाभिः शून्याः / समाधयः समाधिभिः शून्याः / धारणीमुखानि धारणीमुखैः शून्यानि / तथागतबलानि तथागतबलैः शून्यानि / वैशारद्यानि वैशारद्यैः शून्यानि / प्रतिसंविदः प्रतिसंविद्भिः शून्यानि / महामैत्री महामैत्र्या शून्या / महाकरुणा महाकरुणया शून्या / आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मैः शून्याः / बोधिसत्त्वो बोधिसत्त्वेन शून्याः / महासन्नाहो महासन्नाहेन शून्यः / अनेन भगवन् पर्यायेन सन्नाहसन्नद्धो बोधिसत्त्वो महासत्त्वो वेदितव्यः / भगवान् आह / एवम् एव सुभूते एवम् एतत् तथा यथा वदसि / तत् कस्य हेतोः / अकृता हि सुभूते सर्वाकारज्ञता / अविकृता अनभिसंस्कृता / येषां कृते बोधिसत्त्वेन महासत्त्वेन महामन्नाहः सन्नद्धः / आह केन कारणेन भगवन् सर्वाकारज्ञता अकृता अविकृता अनभिसंस्कृता येषां कृते बोधिसत्त्वेन महासत्त्वेन महासन्नाहः सन्नद्धः / भगवान् आह / कारकानुपलब्धिताम् उपादाय सुभूते सर्वाकारज्ञता अकृता अविकृता अनभिसंस्कृता /
ते ऽपि सत्त्वा अकृता अविकृता अनभिसंस्कृताः येषां कृते बोधिसत्त्वेन महासत्त्वेन महासन्नाः सन्नद्धः / तत् कस्य हेतोः / तथा हि सुभूते रूपं न करोति न विकरोति / नाभिसंस्करोति / वेदना न करोति न विकरोति नाभिसंस्करोति / संज्ञा न करोति न विकरोति नाभिसंस्करोति / संस्कारा न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / विज्ञानं न करोति न विकरोति नाभिसंस्करोति / चक्षुः सुभूते न करोति न विकरोति नाभिसंस्करोति / श्रोत्रं न करोति न विकरोति नाभिसंस्करोति / घ्राणं न करोति न विकरोति नाभिसंस्करोति / जिह्वा न करोति न विकरोति नाभिसंस्करोति / कायो न करोति न विकरोति नाभिसंस्करोति / मनो न करोति न विकरोति नाभिसंस्करोति / रूपं सुभूते न करोति न विकरोति नाभिसंस्करोति / शब्दो न करोति न विकरोति नाभिसंस्करोति / गन्धो न करोति न विकरोति नाभिसंस्करोति / रसो न करोति न विकरोति नाभिसंस्करोति / स्पर्शो न करोति न विकरोति नाभिसंस्करोति / धर्मा न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / चक्षुर्विज्ञानं सुभूते न करोति न विकरोति नाभिसंस्करोति / श्रोत्रविज्ञानं न करोति न विकरोति नाभिसंस्करोति / घ्राणविज्ञानं न करोति न विकरोति नाभिसंस्करोति / जिह्वाविज्ञानं न करोति न विकरोति नाभिसंस्करोति / कायविज्ञानं न करोति न विकरोति नाभिसंस्करोति / मनोविज्ञानं न करोति न विकरोति नाभिसंस्करोति / चक्षुःसंस्पर्शो न करोति न विकरोति नाभिसंस्करोति / श्रोत्रसंस्पर्शो न करोति न विकरोति नाभिसंस्करोति / घ्राणसंस्पर्शो न करोति न विकरोति नाभिसंस्करोति /
जिह्वासंस्पर्शो न करोति न विकरोति नाभिसंस्करोति / कायसंस्पर्शो न करोति न विकरोति नाभिसंस्करोति / मनःसंस्पर्शो न करोति न विकरोति नाभिसंस्करोति / चक्षुःसंस्पर्शप्रत्ययवेदना न करोति न विकरोति नाभिसंस्करोति / श्रोत्रसंस्पर्शप्रत्ययवेदना न करोति न विकरोति नाभिसंस्करोति / घ्राणसंस्पर्शप्रत्ययवेदना न करोति न विकरोति नाभिसंस्करोति / जिह्वासंस्पर्शप्रत्ययवेदना न करोति न विकरोति नाभिसंस्करोति / कायसंस्पर्शप्रत्ययवेदना न करोति न विकरोति नाभिसंस्करोति / मनःसंस्पर्शप्रत्ययवेदना न करोति न विकरोति नाभिसंस्करोति /
आत्मा सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / जीवः सत्त्वः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोः / तथा हि सो ऽत्यन्ततया नोपलभ्यते / जीवः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोः / तथा हि सो ऽत्यन्ततया नोपलभ्यते / जन्तुः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोः / तथा हि सो ऽत्यन्ततया नोपलभ्यते / पोषः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / पुरुषः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / पुद्गलः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोः / तथा हि सो ऽत्यन्ततया नोपलभ्यते / मनुजः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / मानवः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / कारकः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / वेदकः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / जानकः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / पश्यकः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते /
स्वप्नः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / माया सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / प्रतिश्रुत्का सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / प्रतिभासः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / प्रतिबिम्बं सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / मरीचिका सुभूते न करोति न विकरोति नाभिसम्ंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / निर्मितः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / अविद्या सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / संस्काराः सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि ते ऽत्यन्ततया नोपलभ्यन्ते / विज्ञानं सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / नामरूपं सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / षडायतनं सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / स्पर्शः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते /
वेदना सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / तृष्णा सुभूते न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि / सात्यन्ततया नोपलभ्यते / उपादानं सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / भवः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / जातिः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / जरामरणं सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते /
दानपारमिता न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / शीलपारमिता न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / क्षान्तिपारमिता न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / वीर्यपारमिता न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / ध्यानपारमिता न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / प्रज्ञापारमिता न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते /
अध्यात्मशून्यता सुभूते न करोति न विकरोति नाभिसंस्कस्येति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / बहिर्धाशून्यता न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / अध्यात्मबहिर्धाशून्यता न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / शून्यताशून्यता न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / महाशून्यता न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / परमार्थशून्यता न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / संस्कृतशून्यता न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / असंस्कृतशून्यता न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / अत्यन्तशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / अनवराग्रशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / अनवकारशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / प्रकृतिशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / सर्वधर्मशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते /
स्वलक्षणसशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / अनुपलम्भशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / अभावशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / स्वभावशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / अभावस्वभावशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते /
स्मृत्युपस्थानानि सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते / सम्यक्प्रहाणानि सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते / ऋद्धिपादा सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि ते ऽत्यन्ततया नोपलभ्यन्ते / इन्द्रियाणि सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते / बलानि सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते / बोध्यङ्गानि न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते / आर्याष्टाङ्गमार्गः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया न विद्यते / आर्यसत्यानि सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते / ध्यानानि सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते / अप्रमाणानि सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते / आरूप्यसमापत्तयः सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि ता अत्यन्ततया नोपलभ्यन्ते / विमोक्षाः सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि ते ऽत्यन्ततया नोपलभ्यन्ते /
अनुपूर्वविहारसमापत्तयः सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि ता अत्यन्ततया नोपलभ्यन्ते / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि तान्य् अन्त्यन्ततया नोपलभ्यन्ते / अभिज्ञाः सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि ता अत्यन्ततया नोपलभ्यन्ते / सर्वसमाधयः सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि ते ऽत्यन्ततया नोपलभ्यन्ते / सर्वधारणीमुखानि न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते / तथागतबलानि सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते / वैशारद्यानि सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते / प्रतिसंविदः सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि ता अत्यन्ततया नोपलभ्यन्ते / महामैत्री सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / महाकरुणा सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / आवेणिकबुद्धधर्माः सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति / तत् कस्य हेतोस् तथा हि ते ऽत्यन्ततया नोपलभ्यन्ते / तथता सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते /
अवितथता सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यन्ते / अनन्यतथता सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / धर्मता सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / धर्मधातुः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / धर्मास्थिता सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / धर्मनियामता सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / भूतकोटिः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / अचिन्त्यधातुः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते / बोधिः सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / सर्वज्ञता सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / सर्वाकारज्ञता सुभूते न करोति न विकरोति नाभिसंस्करोति / तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते / तद् अनेन सुभूते पर्यावैणिकं वेदितव्यं यथा अकृता सर्वकारज्ञता अविकृता अनभिसंस्कृता / ते ऽपि सत्त्वा अकृता अविकृता अनभिसंस्क्र्ता / येषां कृते बोधिसत्वेन महासत्त्वेन महासन्नाहः सन्नद्धः /
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते /
आह / यथाहं भगवन् भगवता भावितस्यार्थम् आजानामि / रूपं भगवन्न् अबद्धम् अमुक्तं / वेदना अबद्धा अमुक्ता / संजा अबद्धा अमुक्ता / संस्कारा अबद्धा अमुक्ताः / विज्ञानम् अबद्धम् अमुक्तं /
अथायुष्मान् पूर्णो मैत्रायणीपुत्रो आयुष्मन्तं सुभूतिम् एतद् अवोचत् / रूपम् आयुष्मन् सुभूते अबद्धम् अमुक्तं / वेदना अबद्धा अमुक्ता / संज्ञा अबद्धा अमुक्ता / संस्करा अबद्धा अमुक्ताः / विज्ञानम् अबद्धम् अमुक्तं / आहैवम् एतद् आयुष्मन् पूर्णैवम् एतत् / रूपम् आयुष्मन् पूर्णाबद्धम् अमुक्तं / वेदनाबद्धामुक्ता / संज्ञाबद्धामुक्ता / संस्कारा अबद्धा अमुक्ताः / विज्ञानम् अबद्धम् अमुक्तं / पूर्ण आह / कतमत् तावद् आयुष्मन् सुभूते यद् अबद्धम् अमुक्तं / कतमा सा वेदना याबद्धामुक्ता / कतमा सा संज्ञा याबद्धामुक्ता / कतमे ते संस्कारा ये अबद्धामुक्ताः / कतमत् तद् विज्ञानं यद् अबद्धम् अमुक्तं / आह यद् एतद् आयुष्मन् पूर्ण स्वप्नोपमं रूपं तद् अबद्धम् अमुक्तं / येयं स्वप्नोपमा वेदना साबद्धामुक्ता / येयं स्वप्नोपमा संज्ञा साबद्धामुक्ता / य इमे स्वप्नोपमाः संस्काराः ते ऽबद्धा अमुक्ताः / यद् एतत् स्वप्नोपमं विज्ञानं तद् अबद्धम् अमुक्तं / यद् एतन् मायोपमं रूपं तद् बद्धम् अमुक्तं / येयं मायोपमा वेदना साबद्धामुक्ता / येयं मायोपमा संज्ञा साबद्धामुक्ता / य इमे मायोपमाः संस्काराः ते ऽबद्धा अमुक्ताः / यद् इदं मायोपमं विज्ञानं तद् बद्धम् अमुक्तं /
यद् एतत् प्रतिश्रुत्कोपमं रूपं तद् अबद्धम् अमुक्तं / येयं प्रतिश्रुत्कोपमा वेदना साबद्धामुक्ता / येयं प्रतिश्रुत्कोपमा संज्ञा साबद्धामुक्ता / य इमे प्रतिश्रुत्कोपमाः संस्कारास् ते ऽबद्धा अमुक्ताः / यद् एतत् प्रतिश्रुतकोपमं विज्ञानं तद् अबद्धम् अमुक्तं / यद् एतत् प्रतिभासोपमं रूपं तद् अबद्धम् अमुक्तं / येयं प्रतिभासोपमा वेदना साबद्धामुक्ता / येयं प्रतिभासोपमा संज्ञा साबद्धामुक्ता / य इमे प्रतिभासोपमाः संस्कारास् ते ऽबद्धा अमुक्ताः / यद् एतत् प्रतिभासोपमं विज्ञानं तद् अबद्धम् अमुक्तं / यद् एतत् प्रतिबिम्बोपमं रूपं तद् अबद्धम् अमुक्तं / येयं प्रतिबिम्बोपमा वेदना साबद्धामुक्ता / येयं प्रतिबिम्बोपमा संज्ञा साबद्धामुक्ता / य इमे प्रतिबिम्बोपमाः संस्कारास् ते ऽबद्धा अमुक्ताः / यद् एतत् प्रतिबिम्बोपमं विज्ञानं तद् अबद्धम् अमुक्तं / यद् एतन् मरीच्युपमं रूपं तद् अबद्धम् अमुक्तं / येयं मरीच्युपमा वेदना साबद्धामुक्ता / येयं मरीच्युपमा संज्ञा साबद्धामुक्ता / य इमे मरीच्यपमाः संस्कारास् ते ऽबद्धा अमुक्ता / यद् एतन् मरीच्युपमं विज्ञानं तद् अबद्धम् अमुक्तं / यद् एतन् निर्मितोपमं रूपं तद् अबद्धम् अमुक्तं / येयं निर्मितोपमा वेदना न साबद्धामुक्ता / येयं निर्मितोपमा संज्ञा साबद्धामुक्ता / य इमे निर्मितोपमाः संस्कारास् ते ऽबद्धा अमुक्ताः / यद् एतन् निर्मितोपमं विज्ञानं तद् अबद्धम् अमुक्त /
अतीतम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तं / अतीता वेदनाबद्धामुक्ता / अतीता संज्ञाबद्धामुक्ता / अतीताः संस्काराः अबद्धा अमुक्ताः / अतीतं विज्ञानम् अबद्धम् अमुक्तं / प्रत्युत्पन्नम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तं / प्रत्युत्पन्ना वेदनाबद्धामुक्ता / प्रत्युत्पन्ना संज्ञाबद्धामुक्ता / प्रत्युत्पन्नाः संस्कारा अबद्धा अमुक्ताः / प्रत्युत्पन्नं विज्ञानम् अबद्धम् अमुक्तं / तत् कस्य हेतोस् तथा हि / असत्त्वाद् आयुष्मन् पूर्ण रूपस्य रूपम् अबद्धम् अमुक्त / असत्त्वाद् वेदनाया वेदनाबद्धामुक्ता / असत्वात् संज्ञायाः संज्ञाबद्धामुक्ता / असत्त्वात् संस्काराणां संस्कारा अबद्धा अमुक्ताः / असत्त्वाद् विज्ञानस्य विज्ञानम् अबद्धम् अमुक्तं / विविक्तत्वाद् रूपस्य रूपम् अबद्धम् अमुक्तं / विविक्तत्वात् संज्ञायाः संज्ञाबद्धामुक्ता / विविक्तत्वात् संस्काराणां संस्कारा अबद्धा अमुक्ताः / विविक्तत्वाद् विज्ञानस्य विज्ञानम् अबद्धम् अमुक्तं / अनुत्पन्नत्वाद् रूपस्य रूपम् अबद्धम् अमुक्तं / अनुत्पन्नत्वाद् वेदनाया वेदनाबद्धामुक्ता / अनुत्पन्नत्वात् संज्ञायाः संज्ञाबद्धामुक्ता / अनुत्पन्नत्वात् संस्कारानां संस्कारा अबद्धा अमुक्ताः / अनुत्पन्नत्वाद् विज्ञानस्य विज्ञानम् अबद्धम् अमुक्तं /
कुशलम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तं / कुशला वेदनाबद्धामुक्ता / कुशला संज्ञाबद्धामुक्ता / कुशलाः संस्कारा अबद्धा अमुक्ता / कुशलं विज्ञानम् अबद्धम् अमुक्तं / अकुशलम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तं / अकुशलं वेदनाबद्धामुक्ता / अकुशला संज्ञा अबद्धा अमुक्ता / अकुशलाः संस्कारा अबद्धा अमुक्ताः / अकुशलं विज्ञानम् अबद्धम् अमुक्तं / अव्याकृतम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तं / अव्याकृता वेदनाबद्धामुक्ता / अव्याकृता संज्ञाबद्धामुक्ता / अव्याकृताः संस्काराः अबद्धा अमुक्ताः / अव्याकृतं विज्ञानम् अबद्धम् अमुक्तं / लौकिकम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तं / लौकिका वेदनाबद्धामुक्ता / लौकिका संज्ञा अबद्धा अमुक्ता / लौकिकाः संस्कारा अबद्धा अमुक्ताः / लौकिकं विज्ञानम् अबद्धम् अमुक्तं / लोकोत्तरम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तं / लोकोत्तरा वेदनाबद्धामुक्ता / लोकोत्तरा संज्ञाबद्धामुक्ता / लोकोत्तराः संस्कारा अबद्धा अमुक्ताः / लोकोत्तरं विज्ञानम् अबद्धम् अमुक्तं / साश्रवम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तं / साश्रवा वेदनाबद्धामुक्ता / साश्रवा संज्ञाबद्धामुक्ता / साश्रवाः संस्काराः अबद्धा अमुक्ताः / साश्रवं विज्ञानम् अबद्धम् अमुक्तं / अनाश्रवम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तं / अनाश्रवा वेदनाबद्धामुक्ता / अनाश्रवा संज्ञाबद्धामुक्ता / अनाश्रवाः संस्कारा अबद्धा अमुक्ताः / अनाश्रवं विज्ञानम् अबद्धम् अमुक्तं / तत् कस्य हेतोः / असत्त्वाद् रूपस्य रूपम् अबद्धम् अमुक्तं / असत्त्वाद् वेदनायाः वेदनाबद्धामुक्ता / असत्त्वात् संज्ञायाः संज्ञाबद्धामुक्ता / असत्त्वात् संस्काराणां संस्कारा अबद्धा अमुक्ताः / असत्त्वाद् विज्ञानस्य विज्ञानम् अबद्धम् अमुक्तं / विविक्तत्त्वाद् रूपस्य रूपम् अबद्धम् अमुक्तं / विविक्तत्वाद् वेदनायाः वेदनाबद्धामुक्ता / विविक्तत्वात् संज्ञाया संज्ञाबद्धामुक्ता / विविक्तत्वात् संस्काराणां संस्कारा अबद्धा अमुक्ताः / विविक्तत्वाद् विज्ञानस्य विज्ञानम् अबद्धम् अमुक्तं / अनुत्पन्नत्वाद् रूपस्य रूपम् अबद्धम् अमुक्तं / अनुत्पन्नत्वाद् वेदनायाः वेदनाबद्धामुक्ता / अनुत्पन्नत्वात् संज्ञायाः संज्ञाबद्धामुक्ता / अनुत्पन्नत्वात् संस्काराणां संस्कारा अबद्धा अमुक्ताः / अनुत्पन्नत्वाद् विज्ञानस्य विज्ञानम् अबद्धम् अमुक्तं /
सर्वे धर्मा अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः / असत्त्वाद् अबद्धा अमुक्ताः / विविक्तत्वाद् अबद्धा अमुक्ताः / अनुत्पन्नत्वाद् अबद्धा अमुक्ताः / दानपारमिताप्य् आयुष्मन् पूर्ण अबद्धामुक्ताः / शीलपारमिताबद्धा अमुक्ता / क्षान्तिपारमिताबद्धामुक्ता / वीर्यपारमिताबद्धामुक्ता / ध्यानपारमिताबद्धामुक्ता / प्रज्ञापारमिताबद्धामुक्ता / असत्त्वाद् दानपारमिताबद्धामुक्ता / विविक्तत्वाद् दानपारमिताबद्धामुक्ता / अनुत्पन्नत्वाद् दानपारमिताबद्धामुक्ता / असत्त्वाच् छीलपारमिताबद्धामुक्ता / विविक्तत्वाच् छीलपारमिताबद्धामुक्ता / अनुत्पन्नत्वाच् छीलपारमिताबद्धामुक्ता / असत्त्वात् क्षान्तिपारमिताबद्धामुक्ता / विविक्तत्वात् क्षान्तिपारमिताबद्धामुक्ता / अनुत्पन्नत्वात् क्षान्तिपारमिताबद्धामुक्ता / असत्त्वाद् वीर्यपारमिताबद्धामुक्ता / विविक्तत्वात् वीर्यपारमिताबद्धामुक्ता / अनुत्पन्नत्वात् वीर्यपारमिताबद्धामुक्ता / असत्त्वात् ध्यानपारमिताबद्धामुक्ता / विविक्तत्वात् ध्यानपारमिताबद्धामुक्ता / अनुत्पन्नत्वात् ध्यानपारमिताबद्धामुक्ता / असत्त्वात् प्रज्ञापारमिताबद्धामुक्ता / विविक्तत्वात् प्रज्ञापारमिताबद्धामुक्ता / अनुत्पन्नत्वात् प्रज्ञापारमिताबद्धामुक्ता /
अध्यात्मशून्यताप्य् अबद्धामुक्ता / बहिर्धाशून्यताप्य् अबद्धामुक्ता / अध्यात्मबहिर्धाशून्यताप्य् अबद्धामुक्ता / शून्यताशून्यताप्य् अबद्धामुक्ता / महाशून्यताप्य् अबद्धामुक्ता / परमार्थशून्यताप्य् अबद्धामुक्ता / संस्कृतशून्यताप्य् अबद्धामुक्ता / असंस्कृतशून्यताप्य् अबद्धामुक्ता / अत्यन्तशून्यताप्य् अबद्धामुक्ता / अनवराग्रशून्यताप्य् अबद्धामुक्ता / अनवकारशून्यताप्य् अबद्धामुक्ता / प्रकृतिशून्यताप्य् अबद्धामुक्ता / सर्वधर्मशून्यताप्य् अबद्धामुक्ता / स्वलक्षणशून्यताप्य् अबद्धामुक्ता / अनुपलम्भशून्यताप्य् अबद्धामुक्ता / अभावशून्यताप्य् अबद्धामुक्ता / स्वभावशून्यताप्य् अबद्धामुक्ता / अभावस्वभावशून्यताप्य् अबद्धामुक्ता /
असत्त्वाद् अध्यात्मशून्यताबद्धामुक्ता / विविक्तत्वाद् अध्यात्मशून्यताबद्धामुक्ता / अनुत्पन्नत्वाद् अध्यात्मशून्यताबद्धामुक्ता / असत्त्वाद् बहिर्धाशून्यताबद्धामुक्ता / विविक्तत्वाद् बहिर्धाशून्यताबद्धामुक्ता / अनुत्पन्नत्वाद् बहिर्धाशून्यताबद्धामुक्ता / असत्त्वाद् अध्यात्मबहिर्धाशून्यताबद्धामुक्ता / विविक्तत्वाद् अध्यात्मबहिर्धाशून्यताबद्धामुक्ता / अनुत्पन्नत्वाद् अध्यात्मबहिर्धाशून्यताबद्धामुक्ता / असत्त्वाच् छून्यताशून्यताबद्धामुक्ता / विविक्तत्वाच् छून्यताशून्यताबद्धामुक्ता / अनुत्पन्नत्वाच् छून्यताशून्यताबद्धामुक्ता / असत्त्वान् महाशून्यताबद्धामुक्ता / विविक्तत्वान् महाशून्यताबद्धामुक्ता / अनुत्पन्नत्वान् महाशून्यताबद्धामुक्ता / असत्त्वात् परमार्थशून्यताबद्धामुक्ता / विविक्तत्वात् परमार्थशून्यताबद्धामुक्ता / अनुत्पन्नत्वात् परमार्थशून्यताबद्धामुक्ता / असत्त्वात् संस्कृतशून्यताबद्धामुक्ता / विविक्तत्वात् संस्कृतशून्यताबद्धामुक्ता / अनुत्पन्नत्वात् संस्कृतशून्यताबद्धामुक्ता / असत्त्वाद् असंस्कृतशून्यताबद्धामुक्ता / विविक्तत्वाद् असंस्कृतशून्यताबद्धामुक्ता / अनुत्पन्नत्वाद् असंस्कृतशून्यताबद्धामुक्ता / असत्त्वाद् अत्यन्तशून्यताबद्धामुक्ता / विविक्तत्वाद् अत्यन्तशून्यताबद्धामुक्ता / अनुत्पन्नत्वाद् अत्यन्तशून्यताबद्धामुक्ता / असत्त्वाद् अनवराग्रशून्यताबद्धामुक्ता / विविक्तत्वाद् अनवराग्रशून्यताबद्धामुक्ता / अनुत्पन्नत्वाद् अनवराग्रशून्यताबद्धामुक्ता / असत्त्वाद् अनवकारशून्यताबद्धामुक्ता / विविक्तत्वाद् अनवकारशून्यताबद्धामुक्ता / अनुत्पन्नत्वाद् अनवकारशून्यताबद्धामुक्ता / असत्त्वात् प्रकृतिशून्यताबद्धामुक्ता / विविक्तत्वात् प्रकृतिशून्यताबद्धामुक्ता / अनुत्पन्नत्वात् प्रकृतिशून्यताबद्धामुक्ता /
असत्त्वात् सर्वधर्मशून्यताबद्धामुक्ता / विविक्तत्वात् सर्वधर्मशून्यताबद्धामुक्ता / अनुत्पन्नत्वात् सर्वधर्मशून्यताबद्धामुक्ता / असत्त्वात् स्वलक्षणशून्यताबद्धामुक्ता / विविक्तत्वात् स्वलक्षणशून्यताबद्धामुक्ता / अनुत्पन्नत्वात् स्वलक्षणशून्यताबद्धामुक्ता / असत्त्वाद् अनुपलम्भशून्यताबद्धामुक्ता / विविक्तत्वाद् अनुपलम्भशून्यताबद्धामुक्ता / अनुत्पन्नत्वाद् अनुपलम्भशून्यताबद्धामुक्ता / असत्त्वाद् अभावशून्यताबद्धामुक्ता / विविक्तत्वाद् अभावशून्यताबद्धामुक्ता / अनुत्पन्नत्वाद् अभावशून्यताबद्धामुक्ता / असत्त्वात् स्वभावशून्यताबद्धामुक्ता / विविक्तत्वात् स्वभावशून्यताबद्धामुक्ता / अनुत्पन्नत्वात् स्वभावशून्यताबद्धामुक्ता / असत्वाद् अभावस्वभावशून्यताबद्धामुक्ता / विविक्तत्वाद् अभावस्वभावशून्यताबद्धामुक्ता / अनुत्पन्नत्वाद् अभावस्वभावशून्यताबद्धामुक्ता /
स्मृत्युपस्थानान्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि / सम्यक्प्रहाणान्य् अप्य् आयुष्मन् पर्णाबद्धान्य् अमुक्तानि / ऋद्धिपादा अप्य् आयुष्मन् पूर्णाबद्धा अमुक्ताः / इन्द्रियाण्य् अप्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि / बलान्य् अप्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि / बोध्यङ्गान्य् अप्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि / आर्याष्टाङ्गमार्गो ऽप्य् आयुष्मन् पूर्णाबद्धो ऽमुक्तः /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
