Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 29/37

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता, Part इ

Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो या चित्तस्यैकाग्रता सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीयं प्रज्ञापारमितायां चरतो ध्यानपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः सर्वधर्मेषु मायाकृतसंज्ञा प्रत्युपस्थिता भवति / सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीयं प्रज्ञापारमितायां चरतः प्रज्ञापारमिता / यदायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकरज्ञताप्रतिसंयुक्तेन चित्तेनैताः पारमिता न सत्त्वान् न बोधिं निमित्तीकरोति / नोपलभते / अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः षट्पारमिता महासन्नाहः /

एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्व एकैकस्यां पारमितायां स्थित्वा सर्वा षट्पारमिताः परिपूरयति /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ध्यानानि चाप्रमाणानि चारूप्यं समापत्तीन् न समापद्यते / न च ध्यानाप्रमाणारूप्यसमापत्तीर् आच्छादयति / न च तैर् ध्यानैर् अप्रमाणैर् आरूप्यसमापत्तिभिश् च संह्रियते / न च ध्यानाप्रमाणारूप्यसमापत्तिवशेनोपपद्यते / इयम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्योपायकौशलसहगता प्रज्ञापारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ध्यानानि चाप्रमाणानि चारूप्यसमापत्तीश् च विवेकदर्शनेन च शून्यतानिमित्ताप्रणिहितदर्शनेन च समापद्यते / न च तेषां वशेनोपपद्यते / न च भूतकोटिं साक्षात्करोति / सर्वश्रावकप्रत्येकबुद्धांश् च / भवत्य् अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलमहासन्नाहः / एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते / एवं सन्नाहसन्नद्धस्यायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति / नामधेयञ् च कीर्तयन्ति शब्दम् उदीरयन्ति / घोषम् अनुश्रावयन्ति / एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः सत्त्वांश् च पाचयति बुद्धक्षेत्रञ् च परिशोधयति / ऋद्ध्या च विक्रीडति / दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति नामधेयञ् च परिकीर्तयन्ति / शब्दम् उदीरयन्ति / घोषम् अनुश्रावयन्ति / एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः / सत्त्वांश् च परिपाचयति / बुद्धक्षेत्रञ् च परिशोधयति /

ऋद्ध्या च विक्रीडति / पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति / नामधेयञ् च परिकीर्तयन्ति / शब्दम् उदीरयन्ति / घोषम् अनुश्रावयति / एषो ऽमुषिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति / बुद्धक्षेत्रञ् च परिशोधयति / ऋद्ध्या च विक्रीडति / उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति / नामधेयञ् च परिकीर्तयन्ति / शब्दम् उदीरयन्ति / घोषम् अनुश्रावयन्ति / एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति / बुद्धक्षेत्रञ् च परिशोधयति / ऋद्ध्या च विक्रीडति / पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति / नामधेयञ् च परिकीर्तयन्ति / शब्दम् उदीरयन्ति / घोषम् अनुश्रावयन्ति / एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति / बुद्धक्षेत्रञ् च परिशोधयति / ऋद्ध्या च विक्रीडति / दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति / नामधेयञ् च परिकीर्तयन्ति / शब्दम् उदीरयन्ति / घोषम् अनुश्रावयन्ति / एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति / बुद्धक्षेत्रञ् च परिशोधयति / ऋद्ध्या च विक्रीडति / पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति / नामधेयञ् च परिकीर्तयन्ति / शब्दम् उदीरयन्ति / घोषम् अनुश्रावयन्ति /

एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति / बुद्धक्षेत्रञ् च परिशोधयति / ऋद्ध्या च विक्रीडति / उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति / नामधेयञ् च परिकीर्तयन्ति / शब्दम् उदीरयन्ति / घोषम् अनुश्रावयन्ति / एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो मत्तासत्त्वो महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति / बुद्धक्षेत्रञ् च परिशोधयति / ऋद्ध्या च विक्रीडति / अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति / नामधेयञ् च परिकीर्तयन्ति / शब्दम् उदीरयन्ति / घोषम् अनुश्रावयन्ति / एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति / बुद्धक्षेत्रञ् च परिशोधयति / ऋद्ध्या च विक्रीडति / उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति / नामधेयञ् च परिकीर्तयन्ति / शब्दम् उदीरयन्ति / घोषम् अनुश्रावयन्ति / एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति / बुद्धक्षेत्रञ् च परिशोधयति / ऋद्ध्या च विक्रीडति /

आह / कियतायुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो महायानसंप्रस्थित इत्य् उच्यते / कतमच् च बोधिसत्त्वस्य महासत्त्वस्य महायानं / पूर्ण आह / इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः षट्पारमिता अनुचरति / स दानपारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानम् उपसंपद्य विहरति / स वितर्कसविचाराणां व्युपशमाद् अध्यात्मसंप्रसादाश् चेतस एकोतिभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति / स प्रीतेर् विरागाद् उपेक्षको विहरति / स्मृतिमान् संजानन् सुखञ् च कायेन प्रतिवेदयति / यत् तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारौ निष्प्रीतिकं तृतीयं ध्यानम् उपसंपद्य विहरति / ससुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव च सौमनस्य दौर्मनस्ययोर् असङ्गमाद् अदुःखासुखम् उपेक्षस्मृतिपरिशुद्धिं चतुर्थध्यानम् उपसंपद्य विहरति / स मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेन परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / स करुणासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेन परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / समुदितासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेन परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति /

स उपेक्षासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासंपत्रेन परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसामे दशदिशः स्फुरित्वा विहरति / अनुपलम्भयोगेन / स सर्वशो रूपसंज्ञानाम् अतिक्रमानन् प्रतिपद्य संज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् मनसिकाराद् अनन्तम् आकाशानन्त्यायतनम् उपसंपद्य विहरति / स सर्वशः आकाशानन्त्यायतनसमतिक्रमाद् अनन्तविज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति / स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति / स सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति / अनुपलम्भयोगेन / इदं बोधिसत्त्वस्य महासत्त्वस्य ध्यानं / यदा बोधिसत्त्वो महासत्त्व एतानि ध्यानान्य् एतान्य् अप्रमाणान्य् एतानि चारूप्याण्य् आकाशाकारलिङ्गनिमित्तैः समापद्यमानो व्युत्तिष्ठं स सर्वाकार्ज्ञतायां परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता /

स शीलपारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कसविचारजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति / स सवितर्कसविचाराणां व्युपशमाद् अध्यात्मसंप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति / स प्रीतेर् विरागाद् उपेक्षको विहरति / स्मृतिमान् संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयति / यत् तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी निष्प्रीतिकं तृतीयं ध्यानम् उपसंपद्य विहरति / स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव च सौमनस्य दौर्मनस्ययोर् अस्तङ्गमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति / स मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेन परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / स करुणासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / समुदितासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / स उपेक्षासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / अनुपलम्भयोगेन /

स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिपद्य संज्ञानाम् अस्तंगमान् नानात्वसंज्ञानाम् मनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति / स सर्वशः आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति / स सर्वशो रूपविज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति / स सर्वशः आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति / इदं बोधिसत्त्वस्य महासत्त्वस्य ध्यानं /

यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एतानि चाप्रमाणान्य् एतानि चारूप्याण्य् आकाशाकारलिङ्गानिमित्तैः समापद्यमानो व्युत्तिष्ठंश् च सर्वाकारज्ञतायां परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता /

स क्षान्तिपारमितायांश् चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति / सवितर्कसविचाराणां व्युपशमाद् अध्यात्मसंप्रसादाच् चेतस एकोतिभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति / स प्रीतेर् विरागाद् उपेक्षको विहरति / स्मृतिमान् संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयति / यत् तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी / निष्प्रीतिकं तृतीयं ध्यानम् उपसंपद्य विहरति / स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव च सौमनस्य दौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति / स मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / स करुणासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / स मुदितासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / स उपेक्षासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति /

उपलम्भयोगेन / स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिपद्य संज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् मनसिकाराद् अनन्ताकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति / स सर्वशः आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति / स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति / स सर्वशः आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति / इदं बोधिसत्त्वस्य महासत्त्वस्य ध्यानं /

यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एतानि चाप्रमाणान्य् एतानि चारूप्याण्य् आकाशाकारलिङ्गानिमित्तैः समापद्यमानो व्युत्तिष्ठंश् च सर्वाकारज्ञतायां परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता /

स वीर्यपारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति / सवितर्कसविचाराणां व्युपशमाद् अध्यात्मसंप्रसादाच् चेतस एकोतिभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति / स प्रीतेर् विरागाद् उपेक्षको विहरति / स्मृतिमान् संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयति / यत् तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी निष्प्रीतिकं तृतीयं ध्यानम् उपसंपद्य विहरति / स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्य दौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति / स मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / स करुणासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / स मुदितासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / स उपेक्षासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति /

उपलम्भयोगेन / स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिपद्य संज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् मनसिकाराद् अनन्ताकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति / स सर्वशः आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति / स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति / स सर्वशः आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति / इदं बोधिसत्त्वस्य महासत्त्वस्य ध्यानं /

यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एतानि चाप्रमाणान्य् एतानि चारूप्याण्य् आकाशाकारलिङ्गानिमित्तैः समापद्यमानो व्युत्तिष्ठंश् च सर्वाकारज्ञतायां परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता /

स ध्यानपारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति / सवितर्कसविचाराणां व्युपशमाद् अध्यात्मसंप्रसादाच् चेतस एकोतिभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति / स प्रीतेर् विरागाद् उपेक्षको विहरति / स्मृतिमान् संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयति / यत् तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी निष्प्रीतिकं तृतीयं ध्यानम् उपसंपद्य विहरति / स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्य दौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति / स मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / स करुणासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / स मुदितासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / स उपेक्षासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / उपलम्भयोगेन / स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिपद्य संज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् मनसिकाराद् अनन्ताकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति / स सर्वशः आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति / स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति / स सर्वशः आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति / इदं बोधिसत्त्वस्य महासत्त्वस्य ध्यानं /

यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एतानि चाप्रमाणान्य् एतानि चारूप्याण्य् आकाशाकारलिङ्गानिमित्तैः समापद्यमानो व्युत्तिष्ठंश् च सर्वाकारज्ञतायां परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता /

स प्रज्ञापारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति / सवितर्कसविचाराणां व्युपशमाद् अध्यात्मसंप्रसादाच् चेतस एकोतिभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति / स प्रीतेर् विरागाद् उपेक्षको विहरति / स्मृतिमान् संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयति / यत् तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारीति निष्प्रीतिकं तृतीयं ध्यानम् उपसंपद्य विहरति / स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्य दौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति / स मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / स करुणासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / स मुदितासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / स उपेक्षासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति /

उपलम्भयोगेन / स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिपद्य संज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् मनसिकाराद् अनन्ताकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति / स सर्वशः आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति / स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति / स सर्वशः आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति / इदं बोधिसत्त्वस्य महासत्त्वस्य ध्यानं /

यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एतानि चाप्रमाणान्य् एतानि चारूप्याण्य् आकाशाकारलिङ्गानिमित्तैः समापद्यमानो व्युत्तिष्ठंश् च सर्वाकारज्ञतायां परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता / एवं खल्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो महायानसंप्रस्थित इत्य् उच्यते /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / स महाकरुणासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / मुदितासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / स उपेक्षासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति / स विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति / सवितर्कसविचाराणां व्युपशमाद् अध्यात्मसंप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति / स प्रीतेर् विरागाद् उपेक्षको विहरति / स्मृतिमान् संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयति / यत् तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारीति निष्प्रीतिकं तृतीयं ध्यानम् उपसंपद्य विहरति /

स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्य दौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति / स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिपद्य संज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् मनसिकाराद् अनन्ताकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति / स सर्वशः आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति / स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति / स सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति / अयं बोधिसत्त्वस्य महासत्त्वस्य समाधि /

स खलु पुनर् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञता प्रतिसंयुक्तेन चित्तेन महाकरुणापूर्वङ्गमेन क्लेशप्रहाणाय ध्यानाप्रमाणारूप्य समापत्तीः परेभ्य आचष्टे देशयति / प्रकाशयति / विसर्जयति / उत्तानीकरोति / विवञ्चता समाम्नादञ् चादीनवञ् च निःसरणञ् चोपदिशति / इयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता / यद् बोधिसत्त्वो महासत्त्वस् तैर् एव सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानाप्रमाणारूप्यसमापत्तीः समापद्यमानो व्युत्तिष्ठंश् च नान्येषां चित्तोत्पादानाम् अवकाशं ददाति / यद् उत श्रावकचित्तानां वा प्रत्येकबुद्धचित्तानां वा / इयं बोधिसत्त्वस्य महासत्त्वस्य परामृष्टा शीलपारपारमिता / यद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानाप्रमाणारूप्यसमापत्तिभिर् विहरत एवं भवति / सर्वसत्त्वानां क्लेशक्षयाय धर्मं देशयिष्यामीति / या तेषां मनसिकाराणां क्षमता, रोचनता, व्युपपरीक्षणता अवबोधनता / उपरिध्यायतनता / इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता / यदा बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानाप्रमाणारूप्यसमापत्तिभिर् विहरति / सर्वसत्त्वार्थञ् च सर्वाकारज्ञतायां वीर्यं न स्रंसयतीयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता / यदा बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वज्ञता ध्यानविमोक्षसमापत्तीः समापद्यते च व्युत्तिष्ठते च न च श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता / यदा बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् तानि प्रथमध्यानाङ्गानि द्वितीयध्यानाङ्गानि तृतीयध्यानाङ्गानि चतुर्थध्यानाङ्गानि / मैत्रीकरुणामुदितोपेक्षाकाशानन्त्यायतनं विज्ञानानन्त्यायतनाकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनम् अनित्याकारेण दुःखाकारेणानात्माकारेणाशान्ताकारेण शून्यताकारेणानिमित्ताकारेणाप्रणिहिताकारेणाप्रत्यवेक्षमाणस् ता ध्यानाप्रमाणरूप्यसमापत्तीर् नोपलभते / ताभिश् च न मन्यते / इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता /

इयम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो महायानं /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं / यत् सर्वाकारैः चत्वारि स्मृत्युपस्थानानि भावयति / सर्वाकारैश् चत्वारि सम्यक्प्रहाणानि भावयति / सर्वाकारैश् चतुर ऋद्धिपादान् भावयति / सर्वाकारैः पञ्चेन्द्रियाणि भावयति / सर्वाकारैः पञ्च बलानि भावयति / सर्वाकारैः सप्त बोध्यङ्गानि भावयति / सर्वाकारैर् आर्याष्टाङ्गमार्गं भावयति / सर्वाकारैर् आर्यसत्यानि भावयति / सर्वाकारैर् ध्यानानि भावयति / सर्वाकारैर् अप्रमाणानि भावयति / सर्वाकारैर् आरूप्यसमापत्तीर् भावयति / सर्वाकारैर् विमोक्षान् भावयति / सर्वाकारैर् अनुपूर्वविहारसमापत्तीर् भावयति / सर्वाकारैः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयति / सर्वाकारैर् अभिज्ञा भावयति / सर्वाकारैः समाधिं भावयति / सर्वाकारैर् धारणीमुखानि भावयति / सर्वाकारैस् तथागतबलानि भावयति / सर्वाकारैर् विशारद्यानि भावयति / सर्वाकारैः प्रतिसंविदो भावयति / सर्वाकारैर् महामैत्रीं भावयति / सर्वाकारैर् महाकरुणा भावयति / सर्वाकारैर् आवेणिकबुद्धधर्मान् भावयति / सर्वाकारैः सर्वज्ञतां भावयति / सर्वाकारैर् मार्गाकारज्ञतां भावयति / सर्वाकारैः सर्वाकारज्ञतां भावयति / इदम् आयुष्माञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो मैत्रीं समाधिं समापद्यते / मया सर्वसत्त्वास् त्रातव्याः इत्य् अतिनामयति करुणाञ् च समाधिं संपद्यते / कृपाकरुण्यताञ् च सत्त्वेषु निर्णमयति / मुदिताञ् च समाधिं समापद्यते / अहम् एवं समाधायिष्यामीति सत्त्वेषु निर्णमयति / उपेक्षाञ् च समाधिं समापद्यते / आस्रवक्षयणताञ् च सत्त्वेषु निर्णयतीयं बोधिसत्त्वस्य महासत्त्वस्य प्रमाणेसु चरतो दानपारमिता / यदा बोधिसत्त्वो महासत्त्वो ध्यानाप्रमाणाकारलिङ्गनिमित्तानि समापद्यते च व्यूत्तिष्ठते च / न च श्रावकप्रत्येकबुद्धभूमौ परिणामयत्य् अन्यत्र सर्वाकारज्ञतायाः / इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा शीलपारमिता / यदा बोधिसत्त्वो महासत्त्वस् ताभिर् ध्यानाप्रमाणारूप्यसमापत्तिभिर् अव्यवकीर्णो विहरति / आभ्याञ् च द्वाभ्यां भूमिभ्यां श्रावकभूमये वा प्रत्येकबुद्धभूमये वा न स्पृहेत् / सर्वाकारज्ञतैवास्य क्षमते रोचते चेयं बोधिसत्त्वस्य महासत्त्वस्य प्रमाणेषु चरतः क्षान्तिपारमिता /

यदा बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अनिक्षिप्तधुरो विहरत्य् अकुशलधर्मप्रहाणाय कुशलधर्माय संपदैर् इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो वीर्यपारमिता / यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एताश् चाप्रमाणारूप्यसमापत्तीञ् च समापद्यते / न च ध्यानाप्रमाणारूप्यसमापत्तिवशेनोपपद्यते / न च ता आस्वादयति / न च ताभिः संह्रियते / इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो वीर्यपारमिता / यदा बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् ता ध्यानाप्रमाणारूप्यसमापत्तीः समापद्यते च व्युत्तिष्ठते च ताश् चानित्याकारेण दुःखाकारेणानात्माकारेणाशान्ताकारेणाशून्यताकारेणानिमित्ताकारेणाप्रणिहिताकारेण प्रत्यवेक्षते / न च श्रावकाणाम् वा प्रत्येकबुद्धानाम् वावक्रामति / इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता / इदम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम् /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् अध्यात्मशून्यतायां ज्ञानं न चानुपलम्भयोगेन / यद् बहिर्धाशून्यतायां ज्ञानं न चानुपलम्भयोगेन / यद् अध्यात्मबहिर्धाशून्यतायां ज्ञानं न चानुपलम्भयोगेन / यच् छून्यताशून्यतायां ज्ञानं न चानुपलम्भयोगेन / यन् महाशून्यतायां ज्ञानं न चानुपलम्भयोगेन / यत् परमार्थशून्यतायां ज्ञानं न चानुपलम्भयोगेन / यत् संस्कृतशून्यतायां ज्ञानं न चानुपलम्भयोगेन / यद् असंस्कृतशून्यतायां ज्ञानं न चानुपलम्भयोगेन / यद् अत्यन्तशून्यतायां ज्ञानं न चानुपलम्भयोगेन / यद् अनवराग्रशून्यतायां ज्ञानं न चानुपलम्भयोगेन / यद् अनवकारशून्यतायां ज्ञानं न चानुपलम्भयोगेन / यत् प्रकृतिशून्यतायां ज्ञानं न चानुपलम्भयोगेन / यत् सर्वधर्मशून्यतायां ज्ञानं न चानुपलम्भयोगेन / यत् स्वलक्षणशून्यतायां ज्ञानं न चानुपलम्भयोगेन / यद् अनुपलम्भशून्यतायां ज्ञानं न चानुपलम्भयोगेन / यद् अभावशून्यतायां ज्ञानं न चानुपलम्भयोगेन / यत् स्वभावशून्यतायां ज्ञानं न चानुपलम्भयोगेन / यद् अभावस्वभावशून्यतायां ज्ञानं न चानुपलम्भयोगेन / इदं बोधिसत्त्वस्य महासत्त्वस्य महायानम् /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं / यत् सर्वधर्मेषु न विशेष्यते चित्तं समाहितम् इति ज्ञानम् इदं बोधिसत्त्वस्य महासत्त्वस्य महयानं /

यन् न नित्यम् इति ज्ञानं प्रवर्तते / नानित्यम् इति ज्ञानं प्रवर्तते / न सुखम् इति ज्ञानं प्रवर्तते / न दुःखम् इति ज्ञानं प्रवर्तते / नात्मेति ज्ञानं प्रवर्तते / नानात्मेति ज्ञानं प्रवर्तते / न शुभम् इति ज्ञानं प्रवर्तते / नाशुभम् इति ज्ञानं प्रवर्तते / इदं बोधिसत्त्वस्य महासत्त्वस्य महायानं / तच् चानुपलम्भयोगेन /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं / यद् अतीते ऽध्वनि ज्ञानं प्रवर्तते / अनागते ऽध्वनि प्रवर्तते / प्रत्युत्पन्ने ऽध्वनि प्रवर्तते / न चास्य त्रिष्व् अध्वसु ज्ञानम् इदं बोधिसत्त्वस्य महासत्त्वस्य महायानं / तच् चानुपलम्भयोगेन / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं / यन् न कामधातौ ज्ञानं प्रवर्तते / न रूपधातौ / नारूप्यधातौ ज्ञानं प्रवर्तते / न चास्य कामरूपारूप्यधातुषु ज्ञानम् इदम् अपि बोधिसत्त्वस्य महासत्त्वस्य महायानं / तच् चानुपलम्भयोगेन / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं / यन् नैव लौकिकेषु ज्ञानं प्रवर्तते / न लोकोत्तरेषु न साश्रवेषु नानाश्रवेषु न संस्कृतेषु धर्मेषु ज्ञानं प्रवर्तते / नासंस्कृतेषु / न चास्य लौकिकलोकोत्तरेषु धर्मेषु न साश्रवानाश्रवेषु न संस्कृतासंस्कृतेषु धर्मेषु ज्ञानम् इदम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं तच् चानुपलम्भयोगेन / आह /

कियतायुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते / पूर्ण आह / इदम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानपारमितां समारोहति / स नैव दानम् उपलभते / न दानपारमितां न बोधिसत्त्वं न प्रतिग्राहकं न तान् मनसिकारान् उपलभते / एवं खलु बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते / अनुपलम्भयोगेन / इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् शीलपारमितां समारोहति / स नैव शीलम् उपलभते न शीलपारमितां न बोधिसत्त्वं न तान् मनसिकारान् उपलभते / एवं खलु बोधिसत्त्वो महासत्त्वः शीलपारमितासमारूढ इत्य् उच्यते / अनुपलम्भयोगेन / इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् क्षान्तिपारमितां समारोहति / स नैव क्षान्तिम् उपलभते न क्षान्तिपारमितां न बोधिसत्त्वं न तान् मनसिकारान् उपलभते / एवं खलु बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितासमारूढ इत्य् उच्यते / अनुपलम्भयोगेन / इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् वीर्यपारमितां समारोहति / स नैव वीर्यम् उपलभते न वीर्यपारमितां न बोधिसत्त्वं न तान् मनसिकारान् उपलभते / एवं खलु बोधिसत्त्वो महासत्त्वो वीर्यपारमितासमारूढ इत्य् उच्यते / अनुपलम्भयोगेन / इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ध्यानपारमितां समारोहति / स नैव ध्यानम् उपलभते न ध्यानपारमितां न बोधिसत्त्वं न तान् मनसिकारान् उपलभते / एवं खलु बोधिसत्त्वो महासत्त्वो ध्यानपारमितासमारूढ इत्य् उच्यते ऽनुपलम्भयोगेन / इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् प्रज्ञापारमितां समारोहति / स नैव कुशलधर्मम् उपलभते / नाकुशलं न लौकिकं न लोकोत्तरं न संस्कृतं नासंस्कृतं न साश्रवं नानाश्रवं धर्मम् उपलभते / नापि प्रज्ञां न प्रज्ञापारमिताम् उपलभते न बोधिसत्त्वं न तान् मनसिकारान् उपलभते / एवं खलु बोधिसत्त्वो महासत्त्वः प्रज्ञपारमितासमारूढ इत्य् उच्यते / अनुपलम्भयोगेन /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अध्यात्मशून्यतां भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् बहिर्धाशून्यतां भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अध्यात्मबहिर्धाशून्यतां भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शून्यताशून्यतां भावयति / भावनाविभावनार्थेन / तञ् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् महाशून्यतां भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः परमार्थशून्यतां भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संस्कृतशून्यतां भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् असंस्कृतशून्यतां भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अत्यन्तशून्यतां भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अनवराग्रशून्यतां भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन /

अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अनवकारशून्यतां भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः प्रकृतिशून्यतां भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अन्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वधर्मशून्यतां भावयति / भवनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः स्वलक्षणशून्यतां भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अनुपलम्भशून्यतां भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अभावशून्यतां भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः स्वभावशून्यतां भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अभावस्वभावशून्यतां भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैश् चत्वारि स्मृत्युपस्थानानि भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः चत्वारि सम्यक्प्रहाणानि भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैश् चतुर ऋद्धिपादान् भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः पञ्चेन्द्रियाणि भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः पञ्च बलानि भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सप्त बोध्यङ्गानि भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् आर्याष्टाङ्गमार्गं भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् आर्यसत्यानि भावयति / भावनाविभावनर्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैश् चत्वारि ध्यानानि भावयति / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैश् चत्वार्य् अप्रमाणानि भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैश् चतस्र आरूप्यसमापत्तीर् भावयति /

भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अष्टौ विमोक्षान् भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् नवानुपूर्वविहारसमापत्तीर् भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अभिज्ञा भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः समाधीन् भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् धारणीमुखानि भावयति / भावनाविभावमार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् तथागतबलानि भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैश् चत्वारि वैशारद्यानि भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैश् चतश्रः प्रतिसंविदो भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् महामैत्रीं भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन /

अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् महाकरुणां भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / अव्यवकीर्णः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अष्टादशावेणिकबुद्धधर्मान् भावयति / भावनाविभावनार्थेन / तच् चानुपलम्भयोगेन / एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्व एवं जानाति / व्यवहारमात्रम् एतद् यद् उत बोधिसत्त्व इति बोधिसत्त्वानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत रूपं रूपानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत वेदना वेदनानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत संज्ञा संज्ञानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत संस्काराः संस्कारानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत विज्ञानं विज्ञानानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत चक्षुश् चक्षुरनुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत श्रोत्रं श्रोत्रानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत घ्राणं घ्राणानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत जिह्वा जिह्वानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत कायः कायानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत मनः मनोनुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत रूपं रूपानुपलब्धिताम् उपादाय / नाममत्रम् एतद् यद् उत शब्दः शब्दानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत गन्धो गन्धानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत रसो रसानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत स्पर्शः स्पर्शानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत धर्माः धर्मानुपलब्धिताम् उपादाय /

नाममात्रम् एतद् यद् उत चक्षुर्विज्ञानं चक्षुर्विज्ञानानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत श्रोत्रविज्ञनं श्रोत्रविज्ञानानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत घ्राणविज्ञानं घ्राणविज्ञानानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत जिह्वाविज्ञानं जिह्वाविज्ञानानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत कायविज्ञानं कायविज्ञानानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत मनोविज्ञानं मनोविज्ञानानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत घ्राणसंस्पर्शः घ्राणसंस्पर्शानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत जिह्वासंस्पर्शः जिह्वासंस्पर्शानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत कायसंस्पर्शः कायसंस्पर्शानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत मनःसंस्पर्शो मनःसंस्पर्शानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत चक्षुःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत श्रोत्रसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत घ्राणसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उअत जिह्वासंस्पर्शजावेदना जिह्वासंस्पर्शजावेदनानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत कायसंस्पर्शजावेदना कायसंस्पर्शजावेदनानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत मनःसंस्पर्शजावेदना मनःसंस्पर्शजावेदनानुपलब्धिताम् उपादाय /

नाममात्रम् एतद् यद् उत पृथिवीधातुः पृथिवीधात्वनुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उताब्धातुर् अब्धात्वनुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत तेजोधातुस् तेजोधात्वनुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत वायुधातुर् वायुधात्वनुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उताकाशधातुर् आकाशधात्वनुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत विज्ञानधातुर् विज्ञानधात्वनुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उताविद्या अविद्यानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत संस्कराः संस्कारानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत विज्ञानं विज्ञानानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत नामरूपं नामरूपानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत षडायतनं षडायतनानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत स्पर्शः स्पर्शानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत वेदना वेदनानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत तृष्णा तृष्णानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उतोपादानम् उपादानानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत भवो भवानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत जातिर् जात्यनुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत जरामरणं जरामरणानुपलब्धिताम् उपादाय /

नाममात्रम् एतद् यद् उत दानपारमिता दानपारमितानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत शीलपारमिता शीलपारमितानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत क्षान्तिपारमिता क्षान्तिपारमितानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत वीर्यपारमिता वीर्यपारमितानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत ध्यानपारमिता ध्यानपारमितानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत प्रज्ञापारमिता प्रज्ञापारमितानुपलब्धिताम् उपादाय /

नाममात्रम् एतद् यद् उताध्यात्मशून्यताध्यात्मशून्यतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत बहिर्धाशून्यता बहिर्धाशून्यतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उताध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत शून्यताशून्यताशून्यताशून्यतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत महाशून्यता महाशून्यतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत परमार्थशून्यता परमार्थशून्यतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत संस्कृतशून्यता संस्कृतशून्यतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उतासंस्कृतशून्यतासंस्कृतशून्यतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उतात्यन्तशून्यतात्यन्तशून्यतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उतानवराग्रशून्यतानवराग्रशून्यतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उतानवकारशून्यतानवकारशून्यतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत प्रकृतिशून्यता प्रकृतिशून्यतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत सर्वधर्मशून्यता सर्वधर्मशून्यतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत स्वलक्षणशून्यता स्वलक्षणशून्यतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उतानुपलम्भशून्यतानुपलम्भशून्यतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उताभावशून्यताभावशून्यतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत स्वभावशून्यता स्वभावशून्यतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उताभावस्वभावशून्यताभावस्वभावशून्यतानुपलब्धिताम् उपादाय /

नाममात्रम् एतद् यद् उत चत्वारि स्मृत्युपस्थानानि चत्वारि स्मृत्यस्थानानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत चत्वारि सम्यक्प्रहाणानि चत्वारि सम्यक्प्रहाणानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत चत्वार ऋद्धिपादाः चत्वारि ऋद्धिपादानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत पञ्चेन्द्रियाणीन्द्रियानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत पञ्चबलानि बलानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत सप्तबोध्यङ्गानि बोध्यङ्गानुपलब्धिताम् उपादाय / नामात्रम् एतद् यद् उतार्याष्टाङ्गमार्ग आर्याष्टाङ्गमार्गानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उतार्यसत्यानि आर्यसत्यानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत ध्यानानि ध्यानानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उताप्रमाणान्य् अप्रमाणानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उतारूप्यसमापत्तय आरूप्यसमापत्त्यनुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उताष्टौ विमोक्षा विमोक्षानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उतानुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्त्यनुपलब्धिताम् उपादाय नाममात्रम् एतद् यद् उत शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उताभिज्ञाभिज्ञानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत समाधयः समाध्यनुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत धारणीमुखानि धारणीमुखानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत दश तथागतबलानि तथागतबलानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत चत्वारि वैशारद्यानि वैशारद्यानुपलब्धिताम् उपादाय /

नाममात्रम् एतद् यद् उत चतस्रः प्रतिसंविदः प्रतिसंविदनुपलब्धिताम् उपादायः / नाममात्रम् एतद् यद् उत महामैत्री महामैत्र्यनुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत महाकरुणा महाकरुणानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उताष्टादशावेणिका बुद्धधर्माः आवेणिकबुद्धधर्मानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत तथता तथतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उतावितथतावितथतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत धर्मता धर्मतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत धर्मधातुर् धर्मधात्वनुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत धर्मस्थितिता धर्मस्थितितानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत धर्मनियामता धर्मनियामतानुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत भूतकोटिर् भूतकोट्यनुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत बोधिर् बोध्यनुपलब्धिताम् उपादाय / नाममात्रम् एतद् यद् उत बुद्धो बुद्धानुपलब्धिताम् उपादाय / एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय बोधिसत्त्वः सर्वाभिज्ञां परिपूर्य सत्त्वान् परिपाचयति / बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति / बुद्धानां भगवतां सत्कारणतायै गुरुकरणतायै माननतायै पूजनतायै यो ऽयं जापयिकस् तेषां बुद्धानां भगवतां पूजासत्कारणविधिस् तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृणोति / यद् उत एवम् एव बोधिसत्त्वयानं / स तद् बोधिसत्त्वयानम् अभिरुह्य बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन् बुद्धक्षेत्रञ् च परिशोधयति / सत्त्वांश् च परिपाचयति / न चास्य बुद्धक्षेत्रसंज्ञा प्रवर्तते / सो ऽद्वयभूमौ स्थित्वा यादृशेनात्मभावेन शक्नोति मर्त्यानाम् अर्थं कर्तुं तादृशम् आत्मभावं सञ्चिन्त्य परिगृह्णति / स न जातु तेन यानेन विरहितो भवति / यावत् सर्वाकारज्ञताम् अनुप्राप्नोति / स सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति अप्रवर्तनीयं श्रावकप्रत्येकबुद्धैः / सर्वदेवनागयक्षगन्धर्वासुरगरुढकिन्नरमहोरगमनुष्यामनुष्येण लोकेन / तस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य पूर्वस्यां दिशिं गङ्गानदीवालुकोपमेषु लोकधातुह्षु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति / घोषम् अनुश्रावयन्ति / एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महायानम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकारज्ञताम् अनुप्राप्तः सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति / दक्षिणस्य दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति / घोषम् अनुश्रावयन्ति /

एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महायानम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकारज्ञताम् अनुप्राप्तः सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति / पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति घोषम् अनुश्रावयन्ति / एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महायानम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकारज्ञताम् अनुप्राप्तः सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति / उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति घोषम् अनुश्रावयन्ति / एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महायानम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकारज्ञताम् अनुप्राप्तः सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति / पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति घोषम् अनुश्रावयन्ति / एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महसत्त्वो महायानम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकारज्ञताम् अनुप्राप्तः सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति / दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति घोषम् अनुश्रावयन्ति / एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महायानम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकारज्ञताम् अनुप्राप्तः सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयन्ति /

पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति घोषम् अनुश्रावयन्ति / एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महायानम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकारज्ञताम् अनुप्राप्तः सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति / उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीर्यन्ति / घोषम् अनुश्रावयन्ति / एषो ऽमुष्मिन् लोकधातौ बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति घोषम् अनुश्रावयन्ति / एषो ऽमुशिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महायानम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकाज्ञताम् अनुप्राप्तः / सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति / अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति / घोषम् अनुश्रावयन्ति / एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महायानम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकारज्ञताम् अनुप्राप्तः सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति / उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति / घोषम् अनुश्रावयन्ति / एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महायाम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकारज्ञताम् अनुप्राप्तः सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति / एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारुढ इत्य् उच्यते /

अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् / महासन्नाहसन्नह्यो महासन्नाहसन्नह्य इति भगवन्न् उच्यते / कियता भगवन् बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नह्य इत्य् उच्यते / एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत् / इह सुभूते बोधिसत्त्वो महासत्त्वो महायानसन्नाहसन्नह्यः / यद् उत दानपारमितासन्नाहं सन्नह्य शीलपारमितासन्नाहं सन्नह्य क्षान्तिपारमितासन्नाहं सन्नह्य वीर्यपारमितासन्नाहं सन्नह्य ध्यानपारमितासन्नाहं सन्नह्य प्रज्ञापारमितासन्नाहं सन्नह्य / अध्यात्मशून्यतासन्नाहं सन्नह्य बहिर्धाशून्यतासन्नाहं सन्नह्य / अध्यात्मबहिर्धाशून्यतासन्नाहं सन्नह्य शून्यताशून्यतासन्नाहं सन्नह्य महाशून्यतासन्नाहं सन्नह्य परमार्थशून्यतासन्नाहं सन्नह्य संस्कृतशून्यतासन्नाहं सन्नह्य असंस्कृतशून्यतासन्नाहं सन्नह्य अत्यन्तशून्यतासन्नाहं सन्नह्य अनवराग्रशून्यतासन्नाहं सन्नह्य अनवकारशून्यतासन्नाहं सन्नह्य प्रकृतिशून्यतासन्नाहं सन्नह्य सर्वधर्मशून्यतासन्नाहं सन्नह्य स्वलक्षणशून्यतासन्नाहं सन्नह्य अनुपलम्भशून्यतासन्नाहं सन्नह्य अभावशून्यतासन्नाहं सन्नह्य स्वभावशून्यतासन्नाहं सन्नह्य स्वभावशून्यतासन्नाहं सन्नह्य अभावस्वभाशून्यतासन्नाहं सन्नह्य /

स्मृत्युपस्थानसन्नाहं सन्नह्य सम्यक्प्रहाणसन्नाहं सन्नह्य ऋद्धिपादसन्नाहं सन्नह्य इन्द्रियसन्नाहं सन्नह्य बलसन्नाहं सन्नह्य बोध्यङ्गसन्नाहं सन्नह्य आर्याष्टाङ्गमार्गसन्नाहं सन्नह्य आर्यसत्यसन्नाहं सन्नह्य ध्यानसन्नाहं सन्नह्य अप्रमाणसन्नाहं सन्नह्य आरूप्यसमापत्तिसन्नाहं सन्नह्य विमोक्षसन्नाहं सन्नह्य अनुपूर्वविहारसमापत्तिसन्नाहं सन्नह्य शून्यतानिमित्ताप्रणिहितविमोक्षमुखसन्नाहं सन्नह्य समाधिसन्नाहं सन्नह्य अभिज्ञासन्नाहं सन्नह्य धारणीमुखसन्नाहं सन्नह्य तथागतबलसन्नाहं सन्नह्य वैशारद्यसन्नाहं सन्नह्य प्रतिसंवित्सन्नाहं सन्नह्य महामैत्रीसन्नाहं सन्नह्य महाकरुणासन्नाहं सन्नह्य अष्टादशावेणिकबुद्धधर्मसन्नाहं सन्नह्य सर्वाकारज्ञतासन्नाहं सन्नह्य बुद्धविग्रहसन्नाहं सन्नह्य / इयं त्रिसाहस्रं लोकधातून् आभया स्फुरित्वा / पूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभया स्फुरति / दक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभया स्फुरति / पश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभया स्फुरति / उत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभया स्फुरति / पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभया स्फुरति / दक्षिणपश्चिमायां दिशि गङ्गानदीवलुकोपमान् लोकधातून् आभया स्फुरति / पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभया स्फुरति / उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभया स्फुरति / अधस्ताद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभया स्फुरति / उपरिष्टाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभया स्फुरति /

इमं त्रिसाहस्रमहासाहस्रलोकधातुं षड्विकारं प्रकम्प्य पूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् षड्विकारान् प्रकम्पयति / दक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् षड्विकारान् प्रकम्पयति / पश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातून् षड्विकारान् प्रकम्पयति / उत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधतून् षड्विकारान् प्रकम्पयति / पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् षड्विकारान् प्रकम्पयति / दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातून् षड्विकारान् प्रकम्पयति / पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् षड्विकारान् प्रकम्पयति / उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् षड्विकारान् प्रकम्पयति / अधस्ताद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् षड्विकारान् प्रकम्पयति / उपरिष्टाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् षड्विकारान् प्रकम्पयति /

सो ऽस्मिन् त्रिसाहस्रमहासाहस्रलोकधातौ यो नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति / घोषम् अनुश्रावयति / तदा नैरयिकाः सत्त्वास् तं बुद्धशब्दसुखसौमनस्यं प्रतिलभन्ते / ते तेन सुखसौमनस्येन ततो निरयेभ्यो व्युत्तिष्ठन्ते / ते च ततो निरयेभ्यो व्युत्थाय यत्र यत्र लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति / ते तत्र तत्रोपपद्यन्ते / सो ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ तिर्यग्योनिकानां सत्त्वानां तिर्यग्योनिदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति / घोषम् अनुश्रावयति / तदा ते तैर्यग्योनिकाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते / ते तेन सुखसौमनस्येन ततस् तिर्यग्योनिभ्यो व्युत्तिष्ठन्ते / ते ततस् तिर्यग्योनेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रे बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते / ततो ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ यामलौकिकानां सत्त्वानां यमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति / शब्दम् उदीरयति / घोषम् अनुश्रावयति / ततो यामलौकिकाः सत्त्वास् तञ् च बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते / ते तेन सुखसौमनस्येन ततो यमलोकाद् व्युत्तिष्ठन्ते / ततो यमलोकाद् व्युत्थाय यत्र यत्र बुद्धक्षत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते /

स पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यो नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति घोषम् अनुश्रावयति / तदा ते नैरयिकाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते / ते तेन सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते / ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते / स दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति / घोषम् अनुभावयति / तदा ते नैरयिकः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते / तेन सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते / ते ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति / धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते / स पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यो नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति / घोषम् अनुश्रावयति / तदा ते नैरयिकाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते / तेन सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते / ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते /

स उत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यो नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति घोषम् अनुश्रावयति / तदा ते नैरयिकाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते / तेन सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते / ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते न यापयन्ति धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते / स दक्षिणं पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यो नैरयिको ऽग्निष्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति घोषम् अनुश्रावयति / तदा ते नैरयिकाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते / तेन सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते / ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति / धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते / स दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यो नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति / घोषम् अनुश्रावयति / तदा ते नैरयिकाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते / तेन च सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते / ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति / धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते /

स पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यो नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति / घोषम् अनुश्रावयति / तदा ते नैरयिकाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते तेन च सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते / ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति / धर्मञ् च देशयन्ति तत्र तत्रोपद्यन्ते / स पूर्वोत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यो नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति / घोषम् अनुश्रावयति / तदा ते नैरयिकाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते / तेन च सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते / ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते / सो ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यो नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति / घोषम् अनुश्रावयति / तदा ते नैरयिकाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते / तेन च सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते / ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते /

स उपरिष्ठाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यो नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति / घोषम् अनुश्रावयति / तदा ते नैरयिकाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते / तेन च सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते / ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते /

स पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु कोकधातुषु तिर्यग्योनियमलोकोपपद्धानां सत्त्वानां तिर्यग्योनियमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति / घोषम् अनुश्रावयति / तदा ते तिर्यग्योनियमलोकोपपद्धाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते / तेन च सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते / ते तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते / स दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनियमलोकोपपद्धानां सत्त्वानां तिर्यग्योनियमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति / घोषम् अनुश्रावयति / तदा ते तिर्यग्योनियमलोकोपपद्धाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते / तेन सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते / तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते / स पश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनियमलोकोपपद्धानां सत्त्वानां तिर्यग्योनियमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति / घोषम् अनुश्रावयति / तदा ते तिर्यग्योनियमलोकोपपद्धाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते /

तेन च सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते / ते तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते / स उत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनिलोकोपपद्धानां सत्त्वानां तिर्यग्योनियमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति / घोषम् अनुश्रावयति / तदा ते तिर्यग्योनियमलोकोपपद्धाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते / तेन च सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते / ते तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते / स पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनियमलोकोपपद्धानां सत्त्वानां तिर्यग्योनियमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति / घोषम् अनुश्रावयति / तदा ते तिर्यग्योनियमलोकोपपद्धानां सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते / तेन सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते / ते तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते /

स दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनियमलोकोपपद्धानानां सत्त्वानां तिर्यग्योनियमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति / घोषम् अनुश्रावयति / तदा ते तिर्यग्योनियमलोकोपपद्धाः सत्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते तेन सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते ते तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते / पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनियमलोकोपपद्धानां सत्त्वानां तिर्यग्योनियमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति / घोषम् अनुश्रावयति / तदा ते तिर्यग्योनियमलोकोपपद्धाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते / तेन सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते / तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते / स उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनियमलोकोपपद्धानां सत्त्वानां तिर्ययोनियमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति / घोषम् अनुश्रावयति / तदा ते तिर्यग्योनियमलोकोपपद्धाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते /

तेन सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते / ते तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते / सो ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनियमलोकोपपद्धानां सत्त्वानां तिर्यग्योनियमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति / घोषम् अनुश्रावयति / तदा ते तिर्यग्योनियमलोकोपपद्धाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते / तेन सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते / तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति / तत्र तत्रोपपद्यन्ते / स उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनियमलोकोपपद्धानां सत्त्वानां तिर्यग्योनियमलोकदःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्संबुद्धायेति शब्दम् उदीरयति / घोषम् अनुश्रावयति / तदा ते तिर्यग्योनियमलोकोपपद्धाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते / तेन सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते / तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धा भगवन्तस् तिष्ठन्ते ध्रियन्ते यापयन्ति / तत्र तत्रोपपद्यन्ते /

तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तवासी वा चतुर्महापथे महतो जननिकारस्य पुरतो नरकास् तिर्यग्योनियमलोकाश् चाभिनिर्माय तेषां मायिकानां सत्त्वानां बुद्धशब्दम् उद्घोषयेद् धर्मशब्दम् उद्घोषयेत् संघशब्दम् उद्घोषयेद् अत्र ते ऽभिनिर्मितास् तेन बुद्धशब्देन धर्मशब्देन संघशब्देन ततो नरकेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठेरंस् तत् किं मन्यसे सुभूते ऽपि तु तेन मायाकारेण मायाकारान्तेवासिना वा कश्चित् सत्त्वो नरकेभ्यस् तिर्यग्योनियमलोकाद् व्युत्थितो भवेत् / आह नो हीदं भगवन् / भगवान् आह / एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन दशसु दिक्षु अप्रमेयासंख्येयेषु लोकधातुषु सत्त्वास् तिर्यग्योनिभ्यो दुर्गतिभ्यः परिमोचेरन् नरकाद्वि सत्त्वः परिमोचितो भवति / तत् कस्य हेतोः / धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय / एक खलु सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नह्य इत्य् उच्यते /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.