Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 28/37

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता, Part इ

Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अथायुष्माञ् छारद्वतीपुत्रो भगवन्तम् एतद् अवोचत् / ममापि भगवन् प्रतिभाति / येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते / भगवान् आह / प्रतिभातु ते शारद्वतीपुत्र येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते / शारद्वतीपुत्र आह / आत्मदृष्टेर् भगवन् प्रहाणाय सत्त्वेभ्यो धर्मं देशयति / सत्त्वदृष्टेः प्रहाणाय / जीवदृष्टेः प्रहाणाय / पोषदृष्टेः प्रहाणाय / पुद्गलदृष्टेः प्रहाणाय / पुरुषदृष्टेः प्रहाणाय / मनुजदृष्टेः प्रहाणाय / मानवदृष्टेः प्रहाणाय / कारकदृष्टेः प्रहाणाय / कारापकदृष्टेः प्रहाणाय / उत्थापकदृष्टेः प्रहाणाय / समुत्थापकदृष्टेः प्रहाणाय / वेदकदृष्टेः प्रहाणाय / वेदयितुकदृष्टेः प्रहाणाय / ज्ञानकदृष्टेः प्रहाणाय / पश्यकदृष्टेः प्रहाणाय / उच्छेददृष्टेः प्रहाणाय / शास्वतदृष्टेः प्रहाणाय / अस्तिदृष्टेः प्रहाणाय / नास्तिदृष्टेः प्रहाणाय / स्कन्धदृष्टेः प्रहाणाय / धातुदृष्टेः प्रहाणाय / आयतनदृष्टेः प्रहाणाय / प्रतीत्यसमुत्पादनदृष्टेः प्रहाणाय / सत्यदृष्टेः प्रहाणाय / पारमितादृष्टेः प्रहाणाय / शून्यतादृष्टेः प्रहाणाय / स्मृत्युपस्थानदृष्टेः प्रहाणाय / सम्यक्प्रहाणदृष्टेः प्रहाणाय / ऋद्धिपाददृष्टेः प्रहाणाय / इन्द्रियदृष्टेः प्रहाणाय / बलदृष्टेः प्रहाणाय / बोध्यङ्गदृष्टेः प्रहाणाय / आर्याष्टाङ्गमार्गदृष्टेः प्रहाणाय / आर्यसत्यदृष्टेः प्रहाणाय / ध्यानदृष्टेः प्रहाणाय / अप्रमाणदृष्टेः प्रहाणाय / आरूप्यसमापत्तिदृष्टेः प्रहाणाय / विमोक्षदृष्टेः प्रहाणाय / अनुपूर्वविहारसमापत्तिदृष्टेः प्रहाणाय / शून्यतानिमित्ताप्रणिहितविमोक्षमुखदृष्टेः प्रहाणाय / समाधिदृष्टेः प्रहाणाय / धारणीमुखदृष्टेः प्रहाणाय / तथागतबलदृष्टेः प्रहाणाय / वैशारद्यदृष्टेः प्रहाणाय / प्रतिसंविद्दृष्टेः प्रहाणाय / महामैत्रीदृष्टेः प्रहाणाय / महाकरुणादृष्टेः प्रहाणाय / आवेणिकबुद्धधर्मदृष्टेः सत्त्वपरिपाकदृष्टेः प्रहाणाय / बुद्धक्षेत्रपरिशोधनदृष्टेः प्रहाणाय / बोधिदृष्टेः प्रहाणाय / बुद्धदृष्टेः प्रहाणाय / धर्मचक्रप्रवर्तनदृष्टेः प्रहाणाय / परिनिर्वाणदृष्टेः प्रहाणाय / सत्त्वेभ्यो धर्मं देशयत्य् अनुपलम्भयोगेन / तेनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते /

अथायुष्मान् सुभूतिर् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत् / केन कारणेनायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य रूपदृष्टिर् भवति / वेदनादृष्टिर् भवति / संज्ञादृष्टिर् भवति / संस्कारदृष्टिर् भवति / विज्ञानदृष्टिर् भवति / चक्षुर्दृष्टिर् भवति / श्रोत्रदृष्टिर् भवति / घ्राणदृष्टिर् भवति / जिह्वादृष्टिर् भवति / कायदृष्टिर् भवति / मनोदृष्टिर् भवति / रूपदृष्टिर् भवति / शब्ददृष्टिर् भवति / गन्धदृष्टिर् भवति / रसदृष्टिर् भवति / स्पर्शदृष्टिर् भवति / धर्मदृष्टिर् भवति / चक्षुर्विज्ञानदृष्टिर् भवति / श्रोत्रविज्ञानदृष्टिर् भवति / घ्राणविज्ञानदृष्टिर् भवति / जिह्वाविज्ञानदृष्टिर् भवति / कायविज्ञानदृष्टिर् भवति / मनोविज्ञानदृष्टिर् भवति / चक्षुःसंस्पर्शदृष्टिर् भवति / श्रोत्रसंस्पर्शदृष्टिर् भवति / घ्राणसंस्पर्शदृष्टिर् भवति / जिह्वासंस्पर्शदृष्टिर् भवति / कायसंस्पर्शदृष्टिर् भवति / मनःसंस्पर्शदृष्टिर् भवति / चक्षुःसंस्पर्शप्रत्ययवेदनादृष्टिर् भवति / श्रोत्रसंस्पर्शप्रत्ययवेदनादृष्टिर् भवति / घ्राणसंस्पर्शप्रत्ययवेदनादृष्टिर् भवति / जिह्वासंस्पर्शप्रत्ययवेदनादृष्टिर् भवति / कायसंस्पर्शप्रत्ययवेदनादृष्टिर् भवति / मनःसंस्पर्शप्रत्ययवेदनादृष्टिर् भवति / पृथिवीधातुदृष्टिर् भवति / अब्धातुदृष्टिर् भवति / तेजोधातुदृष्टिर् भवति / वायुधातुदृष्टिर् भवति / आकाशधातुदृष्टिर् भवति / विज्ञानधातुदृष्टिर् भवति / अविद्यादृष्टिर् भतति / संस्कारदृष्टिर् भवति / विज्ञानदृष्टिर् भवति / नामरूपदृष्टिर् भवति / षडायतनदृष्टिर् भवति / स्पर्शदृष्टिर् भवति / वेदनादृष्टिर् भवति / तृष्णादृष्टिर् भवति / उपादानदृष्टिर् भवति / भवदृष्टिर् भवति / जातिदृष्टिर् भवति / जरामरणदृष्टिर् भवति /

दानपारमितादृष्टिर् भवति / शीलपारमितादृष्टिर् भवति / क्षान्तिपारमितादृष्टिर् भवति / वीर्यपारमितादृष्टिर् भवति / ध्यानपारमितादृष्टिर् भवति / प्रज्ञापारमितादृष्टिर् भवति / अध्यात्मशून्यतादृष्टिर् भवति / बहिर्धाशून्यतादृष्टिर् भवति / अध्यात्मबहिर्धाशून्यतादृष्टिर् भवति / शून्यताशून्यतादृष्टिर् भवति / महाशून्यतादृष्टिर् भवति / परमार्थशून्यतादृष्टिर् भवति / संस्कृतशून्यतादृष्टिर् भवति / असंस्कृतशून्यतादृष्टिर् भवति / अत्यन्तशून्यतादृष्टिर् भवति / अनवराग्रशून्यतादृष्टिर् भवति / अनवकारशून्यतादृष्टिर् भवति / प्रकृतिशून्यतादृष्टिर् भवति / सर्वधर्मशून्यतादृष्टिर् भवति / स्वलक्षणशून्यतादृष्टिर् भवति / अभावशून्यतादृष्टिर् भवति / स्वभावशून्यतादृष्टिर् भवति / अभावस्वभावशून्यतादृष्टिर् भवति /

स्मृत्युपस्थानदृष्टिर् भवति / सम्यक्प्रहाणदृष्टिर् भवति / ऋद्धिपाददृष्टिर् भवति / इन्द्रियदृष्टिर् भवति / बलदृष्टिर् भवति / बोध्यङ्गदृष्टिर् भवति / आर्याष्टाङ्गमार्गदृष्टिर् भवति / आर्यसत्यदृष्टिर् भवति / ध्यानदृष्टिर् भवति / अप्रमाणदृष्टिर् भवति / आरूप्यसमापत्तिदृष्टिर् भवति / विमोक्षदृष्टिर् भवति / अनुपूर्वविहारसमापत्तिदृष्टिर् भवति / शून्यतानिमित्ताप्रणिहितविमोक्षमुखदृष्टिर् भवति / अभिज्ञादृष्टिर् भवति / समाधिदृष्टिर् भवति / धारणीमुखदृष्टिर् भवति / तथागतबलदृष्टिर् भवति / वैशारद्यदृष्टिर् भवति / प्रतिसंविद्दृष्टिर् भवति / महामैत्रीदृष्टिर् भवति / महाकरुणादृष्टिर् भवति / आवेणिकबुद्धधर्मदृष्टिर् भवति / बुद्धक्षेत्रशोधनदृष्टिर् भवति / बोधिदृष्टिर् भवति / बुद्धदृष्टिर् भवति / धर्मदृष्टिर् भवति / धर्मचक्रप्रवर्तनदृष्टिर् भवति / परिनिर्वाणदृष्टिर् भवति /

आह / इहायुष्मान् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अनुपाय कौशल्येन रूपम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / वेदनाम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगन / संज्ञाम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / संस्कारान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / विज्ञानम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / चक्षुर् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / श्रोत्रम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / घ्राणम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / जिह्वाम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / कायम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / मन उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / रूपम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / शब्दम् उपलभ्य द्ष्टिम् उत्पादयत्य् उपलम्भयोगेन / गन्धम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / रसम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / स्पर्शम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / धर्मान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / चक्षुर्विज्ञानम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / श्रोत्रविज्ञानम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / घ्राणविज्ञामम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / जिह्वाविज्ञानम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेम / कायविज्ञानम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्बयोगेन / ममोविज्ञानम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेम / चक्षुःसंस्पर्शम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / श्रोत्रसंस्पर्शम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन /

घ्राणसंस्पर्शम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / जिह्वासंस्पर्शम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / कायसंस्पर्शम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / मनःसंस्पर्शम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / पृथिवीधातुम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / अब्धातुम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / तेजोधातुम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / वायुधातुम् उपलभ्य दृष्टिम् उत्पादयत्य् उपकम्भयोगेन / आकाशधातुम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / विज्ञानधातुम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / अविद्याम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / संस्कारान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / विज्ञानम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / नामरूपम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / षडायतनम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / स्पर्शम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / वेदनाम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / तृष्णाम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / उपादानम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेम / भवम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / जातिम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / जरामरणम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन /

दानपारमिताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / शीलपारमिताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / क्षान्तिपारमिताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / वीर्यपारमिताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / ध्यानपारमिताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / प्रज्ञापारमिताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन /

अध्यात्मशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / बहिर्धाशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / अह्यात्मबहिर्धाशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / शून्यताशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य्

उपलम्भयोगेन / महाशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / परमार्थशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / संस्कृतशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / असंस्कृतशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / अत्यन्तशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / अनवराग्रशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / अनवकारशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / प्रकृतिशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / सर्वधर्मशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / स्वलक्षणशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / अनुपलम्भशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / अभावशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / स्वभावशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / अभावस्वभावशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन /

स्मृत्युपस्थानान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / सम्यक्प्रहाणान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / ऋद्धिपादान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / इन्द्रियान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / बलान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / बोध्यङ्गान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / आर्याष्टाङ्गमार्गम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेम / आर्यसत्यान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / ध्यानान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / अप्रमाणान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / आरूप्यसमापत्तीर् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / विमोक्षान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / अनुपूर्वविहारसमापत्तीर् उपलभ्य दृष्टिम् उत्पादयत्यि अनुपलम्भयोगेन / शून्यतानिमित्ताप्रण्हितविमोक्षमुखान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / अभिज्ञा उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / समाधीन् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / धारणीमुखान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / तथागतबलान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / वैशारद्यान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / प्रतिसंविद उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / महामैत्रीम् उपलभ्य दृष्टिम् उत्पादयत्य् उपसंभयोगेन / महाकरुणाम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / आवेणिकबुद्धधर्मान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेम / सत्त्वपरिपाकम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / बुद्धक्षेत्रपरिशोधनम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / बोधिम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / बुद्धम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / धर्मम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / धर्मचक्रप्रवर्तनम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन / परिनिर्वाणम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन /

अनेन कारणेनायुश्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य रूपदृष्टिर् भवति / वेदनादृष्टिर् भवति / संज्ञादृष्टिर् भवति / संस्कारदृष्टिर् भवति / विज्ञानदृष्टिर् भवति / अनेन कारणेन चक्षुर्दृष्टिर् भवति / श्रोत्रदृष्टिर् भवति / घ्राणदृष्टिर् भवति / जिह्वादृष्टिर् भवति / कायदृष्टिर् भवति / मनोदृष्टिर् भवति / अनेन कारणेन सुरूपदृष्टिर् भवति / शब्ददृष्टिर् भवति / गन्धदृष्टिर् भवति / रसदृष्टिर् भवति / स्पर्शदृष्टिर् भवति / धर्मदृष्टिर् भवति / अनेन कारणेन चक्षुर्विज्ञानदृष्टिर् भवति / श्रोत्रविज्ञानदृष्टिर् भवति / घ्राणविज्ञानदृष्टिर् भवति / जिह्वाविज्ञानदृष्टिर् भवति / कायविज्ञानदृष्टिर् भवति / मनोविज्ञानदृष्टिर् भवति / अनेन कारणेन चक्षुःसंस्पर्शदृष्टिर् भवति / श्रोत्रसंस्पर्शदृष्टिर् घ्राणसंस्पर्शदृष्टिर् जिह्वासंस्पर्शदृष्टिः कायसंस्पर्शदृष्टिर् मनःसंस्पर्शदृष्टिर् भवति / अनेन कारणेन चक्षुःसंस्पर्शप्रत्ययवेदनादृष्टिर् भवति / श्रोत्रसंस्पर्शप्रत्ययवेदनादृष्टिर् घ्राणसंस्पर्शप्रत्ययवेदनादृष्टिर् जिह्वासंस्पर्शप्रत्ययवेदनादृष्टिः कायसंस्पर्शप्रत्ययवेदनादृष्टिर् मनःसंस्पर्शप्रत्ययवेदनादृष्टिर् भवति /

अनेन कारणेन पृथिवीधातुदृष्टिर् भवति / अब्धातुदृष्टिस् तेजोधातुदृष्टिर् वायुधातुदृष्टिर् आकाशधातुदृष्टिर् विज्ञानधातुदृष्टिर् भवति / अनेन कारणेनाविद्यादृष्टिर् भवति / संस्कारदृष्टिर् विज्ञानदृष्टिर् नामरूपदृष्टिः षडायतनदृष्टिः स्पर्शदृष्टिर् वेदनादृष्टिस् तृष्णादृष्टिर् उपादानदृष्टिर् भवदृष्टिर् जातिदृष्टिर् जरामरणदृष्टिर् भवति / अनेन कारणेन दानपारमितादृष्टिर् भवति / शीलपारमितादृष्टिः क्षान्तिपारमितादृष्टिर् वीर्यपारमितादृष्टिर् ध्यानपारमितादृष्टिः प्रज्ञापारमितादृष्टिर् भवति /

अनेन कारणेनाध्यात्मशून्यतादृष्टिर् भवति / बहिर्धाशून्यतादृष्टिर् अध्यात्मबहिर्धाशून्यतादृष्टिः शून्यताशून्यतादृष्टिर् महाशून्यतादृष्टिः परमार्थशून्यतादृष्टिः संस्कृतशून्यतादृष्टिर् असंस्कृतशून्यतादृष्टिर् अत्यन्तशून्यतादृष्टिर् अनवराग्रशून्यतादृष्टिर् अनवकारशून्यतादृष्टिः प्रकृतिशून्यतादृष्टिः सर्वधर्मशून्यतादृष्टिः स्वलक्षणशून्यतादृइष्टिर् अनुपलम्भशून्यतादृष्टिर् अभावशून्यतादृष्टिः स्वभावशून्यतादृइष्टिर् अभावस्वभावशून्यतादृष्टिर् भवति /

अनेन कारणेन स्मृत्युपस्थानदृष्टिर् भवति / सम्यक्प्रहाणदृष्टिर् ऋद्धिपाददृष्टिर् इन्द्रियदृष्टिर् बलदृष्टिर् बोध्यङ्गदृष्टिर् आर्याष्टाङ्गमार्गदृष्टिर् आर्यसत्यदृष्टिर् ध्यानदृष्टिर् अप्रमाणदृष्टिर् आरूप्यसमापत्तिदृष्टिर् विमोक्षदृष्टिर् अनुपूर्वविहारदृष्टिः शून्यतानिमित्ताप्रणिहितविमोक्षमुखदृष्टिर् अभिज्ञादृष्टिः समाधिदृष्टिर् धारणीमुखदृष्टिस् तथागतबलदृष्टिर् वैशारद्यदृष्टिः प्रतिसंविद्दृष्टिः महामैत्रीदृष्टिर् महाक्ररुणादृष्टिर् आवेणिकबुद्धधर्मदृष्टिः सत्त्वपरिपाकदृष्टिर् बुद्धक्षेत्रपरिशोधनदृष्टिर् बोधिदृष्टिर् बुद्धदृष्टिर् धर्मदृष्टिर् धर्मचक्रप्रवर्तनदृष्टिः परिनिर्वाणदृष्टिर् भवति /

तत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेनैषां दृष्टिगतानां प्रहाणाय धर्मं देशयत्य् अनुपलम्भयोगेन / अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् / ममापि भगवान् तत् प्रतिभाति येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते / भगवान् आह / प्रतिभातु ते सुभूते / सुभूतिर् आह / यद् अपि भगवान् बोधिचित्तम् असमचित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैस् तत्रापि चित्ते ऽसक्तस् तेनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते / तत् कस्य हेतोः / तथा हि तत् सर्वज्ञताचित्तम् अनाश्रवम् अपर्यापन्नं यद् अपि तत् सर्वज्ञताचित्तम् अनाश्रवम् अपर्यापन्नं त्रैधातुके तत्रापि चित्ते ऽसक्तः प्रकृतिशून्यताम् उपादाय / तस्माद् बोधिसत्त्वो महासत्त्व इति संख्यां गच्छति /

अथायुष्माञ् छारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत् / कतमस् तद् आयुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्यासमचित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः / सुभूतिर् आह / इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय / न कस्यचिद् धर्मस्योत्पादं न निरोधं समनुपश्यति / न हानिं न वृद्धिं न गतिं नागतिं न संक्लेशं न व्यवदानं / यत्र चायुष्मन् शारद्वतीपुत्र नोत्पादो न निरोधो न हानिर् न वृद्धिर् न गतिर् नागतिर् न संक्लेशो न व्यवदानं तत्र न श्रावकचित्तं न प्रत्येकचित्तं न प्रत्येकबुद्धचित्तं न बोधिचित्तं न सम्यक्संबुद्धचित्तम् इदम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्यासमचित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः / आह / यद् आयुष्मन् सुभूते एवं वदसि / यद् अपि तत् सर्वज्ञताचित्तम् अनाश्रवम् अपर्यापन्नं तत्रापि चित्तेन सक्त इति / न ह्य् आयुष्मन् सुभूते रूपम् अप्य् असक्तं वेदनापि संज्ञापि संस्कारा अपि विज्ञानम् अप्य् असक्तं चक्षुर् अप्य् असक्तं श्रोत्रम् अप्य् असक्तं घ्राणम् अप्य् असक्तं जिह्वाप्य् असक्ता कायो ऽप्य् असक्तः मनो ऽप्य् असक्तं / रूपम् अप्य् असक्तं शब्दो ऽप्य् असक्तो गन्धो ऽप्य् असक्तो रसो ऽप्य् असक्तः स्पर्शो ऽप्य् असक्तः धर्मो ऽप्य् असक्तः / चक्षुर्विज्ञानम् अप्य् असक्तं श्रोत्रविज्ञानम् अप्य् असक्तं घ्राणविज्ञानम् अप्य् असक्तं जिह्वाविज्ञानम् अप्य् असक्तं कायविज्ञानम् अप्य् असक्तं मनोविज्ञानम् अप्य् असक्तं / चक्षुःसंस्पर्शो ऽप्य् असक्तः श्रोत्रसंस्पर्शो ऽप्य् असक्तः घ्राणसंस्पर्शो ऽप्य् असक्तः जिह्वासंस्पर्शो ऽप्य् असक्तः / कायसंस्पर्शो ऽप्य् असक्तः मनःसंस्पर्शो ऽप्य् असक्तः / चक्षुःसंस्पर्शप्रत्ययवेदनाप्य् असक्ता श्रोत्रसंस्पर्शप्रत्ययवेदनाप्य् असक्ता / घ्राणसंस्पर्शप्रत्ययवेदनाप्य् असक्ता / जिह्वासंस्पर्शप्रत्ययवेदनाप्य् असक्ता / कायसंस्पर्शप्रत्ययवेदनाप्य् असक्ता / मनःसंस्पर्शप्रत्ययवेदनाप्य् असक्ता /

पृथिवीधातुर् अप्य् असक्तः / अब्धातुर् अप्य् असक्तः / तेजोधातुर् अप्य् असक्तः / वायुधातुर् अप्य् असक्तः / आकाशधातुर् अप्य् असक्तः / विज्ञानधातुर् अप्य् असक्तः / अविद्याप्य् असक्ता संस्काराप्य् असक्ताः / विज्ञानम् अप्य् असक्तं / नामरूपम् अप्य् असक्तं / षडायतनम् अप्य् असक्तं / स्पर्शो ऽप्य् असक्तः / वेदनाप्य् असक्ता / तृष्णाप्य् असक्ता / उपादानम् अप्य् असक्तं / भावो ऽप्य् असक्तः / जातिर् अप्य् असक्ता / जरामरणम् अप्य् असक्तं /

दानपारमिताप्य् असक्ता / शीलपारमिताप्य् असका / क्षान्तिपारमिताप्य् असक्ता / वीर्यपारमिताप्य् असक्ता / ध्यानपारमिताप्य् असक्ता / प्रज्ञापारमिताप्य् असक्ता /

अध्यात्मशून्यताप्य् असक्ता / बहिर्धाशून्यताप्य् असक्ता / अध्यात्मबहिर्धाशून्यताप्य् असक्ता / शून्यताशून्यताप्य् असक्ता / महाशून्यताप्य् असक्ता / परमार्थशून्यताप्य् असक्ता / संस्कृतशून्यताप्य् असक्ता / असंस्कृतशून्यताप्य् असक्ता / अत्यन्तशून्यताप्य् असक्ता / अनवराग्रशून्यताप्य् असक्ता / अनवकारशून्यताप्य् असक्ता / प्रकृतिशून्यताप्य् असक्ता / सर्वधर्मशून्यताप्य् असक्ता / स्वलक्षणशून्यताप्य् असक्ता / अनुपलम्भशून्यताप्य् असक्ता / अभावशून्यताप्य् असक्ता / स्वभावशून्यताप्य् असक्ता / अभावस्वभावशून्यताप्य् असक्ता /

स्मृत्युपस्थानान्य् अप्य् असक्तानि / सम्यक्प्रहाणान्य् अप्य् असक्तानि / ऋद्धिपादा अप्य् असक्ताः / इन्द्रियान्य् अप्य् असक्तानि / बलान्य् अप्य् असक्तानि / बोध्यङ्गान्य् अप्य् असक्तानि / आर्याष्टाङ्गमार्गो ऽप्य् असक्तः / आर्यसत्यान्य् अप्य् असक्तानि / ध्यानान्य् अप्य् असक्तानि / अप्रमाणान्य् अप्य् असक्तानि / आरूप्यसमापत्तयो ऽप्य् असक्ताः / विमोक्षा अप्य् असक्ताः / अनुपूर्वविहारसमापत्तयो ऽप्य् असक्ताः / शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अप्य् असक्तानि / अभिज्ञा अप्य् असक्ताः / समाधयो ऽप्य् असक्ता / धारणीमुखान्य् अप्य् असक्तानि / तथागतबलान्य् अप्य् असक्तानि / वैशारद्यान्य् अप्य् असक्तानि / प्रतिसंविदो ऽप्य् असक्ताः / महामैत्र्य् अप्य् असक्ता / महाकरुणाप्य् असक्ता / आवेणिकबुद्धधर्मा अप्य् असक्ताः / सर्वज्ञताप्य् असक्ता / मार्गाकारज्ञाताप्य् असक्ता / सर्वाकारज्ञताप्य् असक्ता /

सुभूतिर् आह / एवम् एतद् आयुस्मञ् छारद्वतीपुत्र रूपम् अप्य् असक्तं / वेदनाप्य् असक्ता / संज्ञाप्य् असक्ता / संस्कारा अप्य् असक्ताः / विज्ञानम् अप्य् असक्तं / चक्षुर् अप्य् असक्तं / श्रोत्रम् अप्य् असक्तं / घ्राणम् असक्तं / जिह्वाप्य् असक्ता / कायो ऽप्य् असक्तः / मनो ऽप्य् असक्तं / रूपम् अप्य् असक्तं / शब्दो ऽप्य् असक्तः / गन्धो ऽप्य् असक्तः / रसो ऽप्य् असक्तः / स्पर्शो ऽप्य् असक्तः / धर्मा अप्य् असक्ताः / चक्षुर्विज्ञानम् अप्य् असक्तं / श्रोत्रविज्ञानम् अप्य् असक्तं / घ्राणविज्ञानम् अप्य् असक्तं / जिह्वाविज्ञानम् अप्य् असक्तं / कायविज्ञानम् अप्य् असक्तं / मनोविज्ञानम् अप्य् असक्तं / चक्षुःसंस्पर्शो ऽप्य् असक्तः / श्रोत्रसंस्पर्शो ऽप्य् असक्तः / घ्राणसंस्पर्शो ऽप्य् असक्तः / जिह्वासंस्पर्शो ऽप्य् असक्तः / कायसंस्पर्शो ऽप्य् असक्तः / मनःसंस्पर्शो ऽप्य् असक्तः / चक्षुःसंस्पर्शप्रत्ययवेदनाप्य् असक्ता / श्रोत्रसंस्पर्शप्रत्ययवेदनाप्य् असक्ता / घ्राणसंस्पर्शप्रत्ययवेदनाप्य् असक्ता / जिह्वासंस्पर्शप्रत्ययवेदनाप्य् असक्ता / कायसंस्पर्शप्रत्ययवेदनाप्य् असक्ता / मनःसंस्पर्शप्रत्ययवेदनाप्य् असक्ता /

पृथिवीधातुर् अप्य् असक्तः / अब्धातुर् अप्य् असक्तः / तेजोधातुर् अप्य् असक्तः / वायुधातुर् अप्य् असक्तः / आकाशधातुर् अप्य् असक्तः / विज्ञानधातुर् अप्य् असक्तः / अविद्याप्य् असक्ता / संस्कारा अप्य् असक्ताः / विज्ञानम् अप्य् असक्तं / नामरूपम् अप्य् असक्तं / षडायतनम् अप्य् असक्तं / स्पर्शो ऽप्य् असक्तः / वेदनाप्य् असक्ता / तृष्णाप्य् असक्ता / उपादानम् अप्य् असक्तं / भवो ऽप्य् असक्तः / जातिर् अप्य् असक्ता / जरामरणम् अप्य् असक्तं /

दानपारमिताप्य् असक्ता / शीलपारमिताप्य् असक्ता / क्षान्तिपारमिताप्य् असक्ता / वीर्यपारमिताप्य् असक्ता / ध्यानपारमिताप्य् असक्ता / प्रज्ञापारमिताप्य् असक्ता /

अध्यात्मशून्यताप्य् असक्ता / बहिर्धाशून्यताप्य् असक्ता / अध्यात्मबहिर्धाशून्यताप्य् असक्ता / शून्यताशून्यताप्य् असक्ता / महाशून्यताप्य् असक्ता / परमार्थशून्यताप्य् असक्ता / संस्कृतशून्यताप्य् असक्ता / असंस्कृतशून्यताप्य सक्ता / अत्यन्तशून्यताप्य् असक्ता / अनवराग्रशून्यताप्य् असक्ता / अनवकारशून्यताप्य् असक्ता / प्रकृतिशून्यताप्य् असक्ता / सर्वधर्मशून्यताप्य् असक्ता / स्वलक्षणशून्यताप्य् असक्ता / अनुपलम्भशून्यताप्य् असक्ता / अभावशून्यताप्य् असक्ता / स्वभावशून्यताप्य् असक्ता / अभावस्वभावशून्यताप्य् असक्ता /

स्मृत्युपस्थानान्य् अप्य् असक्तानि / सम्यक्प्रहाणान्य् अप्य् असक्तानि / ऋद्धिपादा अप्य् असक्ताः / इन्द्रियान्य् अप्य् असक्तानि / बलान्य् अप्य् असक्तानि / बोध्यङ्गान्य् अप्य् असक्तानि / आर्याष्टाङ्गमार्गो ऽप्य् असक्तः / आर्यसत्यान्य् अप्य् असक्तानि / ध्यानान्य् अप्य् असक्तानि / अप्रमाणान्य् अप्य् असक्तानि / आरूप्यसमापत्तयो ऽप्य् असक्ताः / विमोक्षा अप्य् असक्ताः / अनुपूर्वविहारसमापत्तयो ऽप्य् असक्ताः / शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अप्य् असक्तानि / अभिज्ञा अप्य् असक्ताः / समाधयो ऽप्य् असक्ताः / धारणीमुखान्य् अप्य् असक्तानि / तथागतबलान्य् अप्य् असक्तानि / वैशारद्यान्य् अप्य् असक्तानि / प्रतिसंविदो ऽप्य् असक्ताः / महामैत्र्य् अप्य् असक्ता / महाकरुणाप्य् असक्ता / आवेणिकबुद्धधर्मा अप्य् असक्ताः / सर्वज्ञताप्य् असक्ता / मार्गाकारज्ञताप्य् असक्ता / सर्वाकारज्ञताप्य् असक्ता /

आह / यद् अप्य् आयुष्मान् सुभूतिर् एवम् आह / तद् अपि सर्वज्ञताचित्तम् अनाश्रवम् अपर्यापन्नम् इति / तत्र आयुष्मन् सुभूते बालपृथग्जनानाम् अपि चित्तम् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / श्रावकप्रत्येकबुद्धानाम् अपि बुद्धानाम् अपि भगवताम् अपि चित्तम् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / सुभूतिर् आह / आयुष्मन् शारद्वतीपुत्र बालपृथग्जनानाम् अपि चित्तम् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / श्रावकानाम् अपि चित्तम् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / प्रत्येकबुद्धानाम् अपि चित्तम् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / बुद्धानाम् अपि भगवतां चित्तम् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / नन्व् आयुष्मन् सुभूते रूपम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / संज्ञाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / संस्कारा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / विज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / चक्षुर् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / श्रोत्रम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / घ्राणम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / जिह्वाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / कायो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / मनो ऽप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / रूपम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / शब्दो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / गन्धो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय /

रसो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / स्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / धर्मा अप्य् अनश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / चक्षुर्विज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / श्रोत्रविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / घ्राणविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / जिह्वाविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / कायविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / मनोविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / चक्षुःसंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / श्रोत्रसंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / घ्राणसंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / जिह्वासंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / कायसंस्पर्शो ऽप्य् अनाश्रवो ऽप्य् अपर्यापन्नः प्रकृतिशून्यताम् उपादाय / मनःसंस्पर्शो ऽप्य् अनाश्रवो अपर्यापन्नः प्रकृतिशून्यताम् उपादाय / चक्षुःसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / श्रोत्रसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / घ्राणसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / जिह्वासंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / कायसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / मनःसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय /

पृथिवीधातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / अब्धातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / तेजोधातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / वायुधातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / आकाशधातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / विज्ञानधातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / अविद्याप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / संस्कारा अप्य् अनाश्रवाः अपर्यापन्ना प्रकृतिशून्यताम् उपादाय / विज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / नामरूपम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / षडायतनम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / स्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / वेदना प्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / तृष्णाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / उपादानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / भावो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / जातिर् अप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / जरामरणम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय /

दानपारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / शीलपारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / क्षान्तिपारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / वीर्यपारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / ध्यानपारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / प्रज्ञापारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय /

अध्यात्मशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / बहिर्धाशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / शून्यताशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / महाशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / परमार्थशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / संस्कृतशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / असंस्कृतशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / अत्यन्तशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / अनवराग्रशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / अनवकारशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / प्रकृतिशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / स्वलक्षणशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / अनुपलम्भशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / अभावशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / स्वभावशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / अभावस्वभावशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय /

स्मृत्युपस्थानान्य् अप्य् अनाश्रवान्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / सम्यक्प्रहाणान्य् अप्य् अनाश्रवान्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / ऋद्धिपादा अप्य् अनाश्रावा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / इन्द्रियान्य् अप्य् अनाश्रवान्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / बलान्य् अप्य् अनाश्रवान्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / बोध्यङ्गान्य् अप्य् अनाश्रवान्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / मार्गो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / आर्यसत्यान्य् अप्य् अनाश्रवान्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / ध्यानान्य् अप्य् अनाश्रवान्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / अप्रमाणान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / आरूप्यसमापत्तयो अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / विमोक्षा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / अनुपूर्वविहारसमापत्तयो ऽप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / अभिज्ञा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / समाधयो ऽप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / धारणीमुखान्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / तथागतबलान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / वैशारद्यान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / प्रतिसंविदो ऽप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / महामैत्र्य् अप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / महाकरुणाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / आवेणिकबुद्धधर्मा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / सर्वज्ञताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / मार्गाकारज्ञताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / सर्वाकारज्ञताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय /

सुभूतिर् आह / एवम् एतद् आयुष्मन् शारद्वतीपुत्र यथा वदसि / रूपम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / संज्ञाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / संस्कारा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / विज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय /

चक्षुर् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / श्रोत्रम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / घ्राणम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / जिह्वाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / कायो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / मनो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / रूपम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / शब्दो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / गन्धो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / रसो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / स्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / धर्मा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय /

चक्षुर्विज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / श्रोत्रविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / घ्राणविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / जिह्वाविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / कायविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / मनोविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / चक्षुःसंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / श्रोत्रसंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / घ्राणसंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / जिह्वासंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / कायसंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / मनःसंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / चक्षुःसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / श्रोत्रसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / घ्राणसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / जिह्वासंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / कायसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / मनःसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय /

पृथिवीधातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाद्य / अब्धातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाद्य / तेजोधातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / वायुधातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / आकाशधातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / अविद्याप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / संस्कारा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / विज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / नामरूपम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / षडायतनम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / स्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / तृष्णाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / उपादानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय / भवो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / जातिर् अप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / जरामरणम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय /

दानपारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / शीलपारमिताप्य् अनाश्रवार्यापन्ना प्रकृतिशून्यताम् उपादाय / क्षान्तिपारमिताप्य् अनाश्रवार्यापन्ना प्रकृतिशून्यताम् उपादाय / वीर्यपारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / ध्यानपारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / प्रज्ञापारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय /

अध्यात्मशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / बहिर्धाशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / शून्यताशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / महाशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / परमार्थशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / संस्कृतशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / असंस्कृतशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / अत्यन्तशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / अनवराग्रशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / अनवकारशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / प्रकृतिशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / स्वलक्षणशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / अनुपलम्भशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / अभावशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / स्वभावशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / अभावस्वभावशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय /

स्मृत्युपस्थानान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / सम्यक्प्रहाणान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / ऋद्धिपादा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / इन्द्रियान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / बलान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / बोध्यङ्गान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / आर्याष्टाङ्गमार्गो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय / आर्यसत्यान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / ध्यानान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / अप्रमाणान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / आरूप्यसमापत्तयो ऽप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / विमोक्षा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / अनुपूर्वविहारसमापत्तयो ऽप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / अभिज्ञा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / समाधयो ऽप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / धारणीमुखान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / तथागतबलान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / वैशारद्यान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय / प्रतिसंविदो ऽप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / महामैत्र्य् अप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / महाकरुणाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / आवेणिकबुद्धर्मा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय / सर्वज्ञताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / मार्गाकारज्ञताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय / सर्वाकारशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय /

आह / यद् अप्य् आयुष्मान् सुभूतिर् एवम् आह / अचित्तत्वात् तत्रापि चित्ते ऽसक्त इति / न त्व् आयुष्मन् सुभूते रूपम् अपि रूपे ऽसक्तं / अवेदनापि वेदनायाम् असक्ता / असंज्ञापि संज्ञायाम् असक्ता / असंस्कारा अपि संस्कारेष्व् असक्ताः / अविज्ञानम् अपि विज्ञाने ऽसक्तं / अचक्षुर् अपि चक्षुष्य् असक्तं / अश्रोत्रम् अपि श्रोत्रे ऽसक्तं / अघ्राणम् अपि घ्राणे ऽसक्तं / अजिह्वापि जिह्वायाम् असक्ता / अकायो ऽपि काये ऽसक्तः / अमनो ऽपि मनस्य् असक्तं / अरूपम् अपि रूपे ऽसक्तं / अशब्दो ऽपि शब्दे ऽसक्तः / अगन्धो ऽपि गन्धे ऽसक्तः / अरसो ऽपि रसे ऽसक्तः / अस्पर्शो ऽपि स्पर्शे ऽसक्तः / अधर्मा अपि धर्मेष्व् असक्ताः / अचक्षुर्विज्ञानम् अपि चक्षुर्विज्ञाने ऽसक्तं / अश्रोत्रविज्ञानम् अपि श्रोत्रविज्ञाने ऽसक्तं / अघ्राणविज्ञानम् अपि घ्राणविज्ञाने ऽसक्तं / अजिह्वाविज्ञानम् अपि जिह्वाविज्ञाने ऽसक्तं / अकायविज्ञानम् अपि कायविज्ञाने ऽसक्तं / अमनोविज्ञानम् अपि ममोविज्ञाने ऽसक्तं / अचक्षुःसंस्पर्शो ऽपि चक्षुःसंस्पर्शे ऽसक्तः / अश्रोत्रसंस्पर्शो ऽपि श्रोत्रसंस्पर्शे ऽसक्तः / अघ्राणसंस्पर्शो ऽपि घ्राणसंस्पर्शे ऽसक्तः / अजिह्वासंस्पर्शो ऽपि जिह्वासंस्पर्शे ऽसक्तः / अकायसंस्पर्शो ऽपि कायसंस्पर्शे ऽसक्तः / अमनःसंस्पर्शो ऽपि मनःसंस्पर्शे ऽसक्तः / अचक्षुःसंस्पर्शजा वेदनापि चक्षुःसंस्पर्शजावेदनायाम् असक्ता / अश्रोत्रसंस्पर्शजापि वेदना श्रोत्रसंस्पर्शजावेदनायाम् असक्ता / अघ्राणसंस्पर्शजापि वेदना घ्राणसंस्पर्शजावेदनायाम् असक्ता / अजिह्वासंस्पर्शजापि वेदना जिह्वासंस्पर्शजावेदनायाम् असक्ता / अकायसंस्पर्शजापि वेदना कायसंस्पर्शजावेदनायाम् असक्ता / अमनःसंस्पर्शजापि वेदना मनःसंस्पर्शजा वेदनायाम् असक्ता /

अपृथिवीधातुर् अपि पृथिवीधाताव् असक्तः / अनब्धातुर् अपि अब्धाताव् असक्तः / अतेजोधातुर् अपि तेजोधाताव् असक्तः / अवायुधातुर् अपि वायुधाताव् असक्तः / अनाकाशधातुर् अपि आकाशधाताव् असक्तः / अविज्ञानधातुर् अपि विज्ञानधाताव् असक्तः / अनविद्याप्य् अविद्यायाम् असक्ता / असंस्कारा अपि संस्कारेष्व् असक्ताः / अविज्ञानम् अपि विज्ञाने ऽसक्तं / अनामरूपम् अपि नामरूपे ऽसक्तं / अषडायतनम् अपि षडायतने ऽसक्तं / अस्पर्शो ऽपि स्पर्शे ऽसक्तः / अवेदनापि वेदनायाम् असक्ता / अतृष्णापि तृष्णायाम् असक्ता / अनुपादानम् अप्य् उपादाने ऽसक्तं / अभवो ऽपि भवे ऽसक्तः / अजातिर् अपि जाताव् असक्ता / अजरामरणम् अपि जरामरणे ऽसक्तं /

अदानपारमितापि दानपारमितायाम् असक्ता / अशीलपारमितापि शीलपारमितायाम् असक्ता / अक्षान्तिपारमितापि क्षान्तिपारमितायाम् असक्ता / अवीर्यपारमितापि वीर्यपारमितायाम् असक्ता / अध्यानपारमितापि ध्यानपारमितायाम् असक्ता / अप्रज्ञापारमितापि प्रज्ञापारमितायाम् असक्ता /

अनध्यात्मशून्यताप्य् अध्यात्मशून्यतायाम् असक्ता / अबहिर्धाशून्यताप्य् बहिर्धाशून्यतायाम् असक्ता / अनध्यात्मबहिर्धाशून्यतापि अध्यात्मबहिर्धाशून्यतायाम् असक्ता / अशून्यताशून्यतापि शून्यताशून्यतायाम् असक्ता / अमहाशून्यतापि महाशून्यतायाम् असक्ता / अपरमार्थशून्यतापि परमार्थशून्यतायाम् असक्ता / असंस्कृतशून्यतापि संस्कृतशून्यतायाम् असक्ता / अनसंस्कृतशून्यतापि असंस्कृतशून्यतायाम् असक्ता / अनत्यन्तशून्यताप्य् अत्यन्तशून्यतायाम् असक्ता / अननवराग्रशून्यताप्य् अनवराग्रशून्यतायाम् असक्ता / अननवकारशून्यताप्य् अनवकारशून्यतायाम् असक्ता / अप्रकृतिशून्यतापि प्रकृतिशून्यतायाम् असक्ता / असर्वधर्मशून्यतापि सर्वधर्मशून्यतायाम् असक्ता / अस्वलक्षणशून्यतापि स्वलक्षणशून्यतायाम् असक्ता / अननुपलम्भशून्यताप्य् अनुपलम्भशून्यतायाम् असक्ता / अनभावशून्यताप्य् अभावशून्यतायाम् असक्ता / अस्वभावशून्यतापि स्वभावशून्यतायाम् असक्ता / अनभावस्वभावशून्यताप्य् अभावस्वभावशून्यतायाम् असक्ता /

अस्मृत्युपस्थानान्य् अपि स्मृत्युपस्थानेष्व् असक्तानि / असम्यक्प्रहाणान्य् अपि सम्यक्प्रहाणेष्व् असक्तं / अनृद्धिपादा अपि ऋद्धिपादेष्व् असक्ताः / अनिन्द्रियान्य् अपीन्द्रियेष्व् असक्तानि / अबलान्य् अपि बलेष्व् असक्तानि / अबोध्यङ्गान्य् अपि बोध्यङ्गेष्व् असक्तानि / अनार्याष्टाङ्गमार्गो ऽप्य् आर्याष्टाङ्गमार्गे ऽसक्तः / अनार्यसत्यान्य् अप्य् आर्यसत्येष्व् असक्तानि / अध्यानान्य् अपि ध्यानेष्व् असक्तानि / अनप्रमाणान्य् अप्य् अप्रमाणेष्व् असक्तानि / अनारूप्यसमापत्तयो ऽप्य् आरूप्यसमापत्तिष्व् असक्ताः / अविमोक्षा अपि विमोक्षेष्व् असक्ताः / अननुपूर्वविहारसमापत्तयो ऽप्य् अनुपूर्वविहारसमापत्तिष्व् असक्ताः / अशून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अपि शून्यतानिमित्ताप्रणिहितविमोक्षमुखेष्व् असक्तानि / अनभिज्ञा अप्य् अभिज्ञास्व् असक्ताः / असमाधयोर् अपि समाधिष्व् असक्ताः / अधारणीमुखान्य् अपि धारणीमुखेष्व् असक्तानि / अतथागतबलान्य् अपि तथागतबलेष्व् असक्तानि / अवैशारद्यान्य् अपि वैशारद्यष्व् असक्तानि / अप्रतिसंविदो ऽपि प्रतिसंवित्स्व् असक्ताः / अमहामैत्र्य् अपि महामैत्र्याम् असक्ता / अमहाकरुणापि महाकरुणायाम् असक्ता / अनावेणिकबुद्धधर्मा अप्य् आवेणिकबुद्धधर्मेष्व् असक्ताः / असर्वज्ञतापि सर्वज्ञतायाम् असक्ता / अमार्गाकारज्ञतापि मार्गाकारज्ञतायाम् असक्ता / असर्वाकारज्ञतापि सर्वाकारज्ञतायाम् असक्ता /

आह / एवम् एतद् आयुष्मञ् छारद्वतीपुत्र / अरूपम् अपि रूपे ऽसक्तं / अवेदनापि वेदनायाम् असक्ता / असंज्ञापि संज्ञायाम् असक्ता / असंस्कारा अपि संस्कारेष्व् असक्ताः / अविज्ञानम् अपि विज्ञाने ऽसक्तं / अचक्षुर् अपि चक्षुष्य् असक्तं / अश्रोत्रम् अपि श्रोत्रे ऽसक्तं / अघ्राणम् अपि घ्राणे ऽसक्तं / अजिह्वापि जिह्वायाम् असक्ता / अकायो ऽपि काये ऽसक्तः / अमनो ऽपि मनस्य् असक्तं / अरूपम् अपि रूपे ऽसक्तं / अशब्दो ऽपि शब्दे ऽसक्तः / अगन्धो ऽपि गन्धे ऽसक्तः / अरसो ऽपि रसे ऽसक्तः / अस्पर्शो ऽपि स्पर्शे ऽसक्तः / अधर्मा अपि धर्मेष्व् असक्ताः / अचक्षुर्विज्ञानम् अपि चक्षुर्विज्ञाने ऽसक्तं / अश्रोत्रविज्ञानम् अपि श्रोत्रविज्ञाने ऽसक्तं / अघ्राणविज्ञानम् अपि घ्राणविज्ञाने ऽसक्तं / अजिह्वाविज्ञानम् अपि जिह्वाविज्ञाने ऽसक्तं / अकायविज्ञानम् अपि कायविज्ञाने ऽसक्तं / अमनोविज्ञानम् अपि मनोविज्ञाने ऽसक्तं / अचक्षुःसंस्पर्शो ऽपि चक्षुःसंस्पर्शे ऽसक्तः / अश्रोत्रसंस्पर्शो ऽपि श्रोत्रसंस्पर्शे ऽसक्तः / अघ्राणसंस्पर्शो ऽपि घ्राणसंस्पर्शे ऽसक्तः / अजिह्वासंस्पर्शो ऽपि जिह्वासंस्पर्शे ऽसक्तः / अकायसंस्पर्शो ऽपि कायसंस्पर्शे ऽसक्तः / अमनःसंस्पर्शो ऽपि मनःसंस्पर्शे ऽसक्तः / अचक्षुःसंस्पर्शजा वेदनापि चक्षुःसंस्पर्शजावेदनायाम् असक्ता / अश्रोत्रसंस्पर्शजा वेदनापि श्रोत्रसंस्पर्शजावेदनायाम् असक्ता / अघ्राणसंस्पर्शजा वेदनापि घ्राणसंस्पर्शजावेदनायाम् अशक्ता / अजिह्वासंस्पर्शजा वेदनापि जिह्वासंस्पर्शजावेदनायाम् असक्ता / अकायसंस्पर्शजा वेदेनापि कायसंस्पर्शजावेदनायाम् असक्ता / अमनःसंस्पर्शजा वेदनापि मनःसंस्पर्शजावेदनायाम् असक्ता /

अपृथिवीधातुर् अपि पृथिवीधाताव् असक्तः / अनब्धातुर् अप्य् अब्धाताव् असक्तः / अतेजोधातुर् अपि तेजोधाताव् असक्तः / अवायुधातुर् अपि वायुधाताव् असक्तः / अनाकाशधातुर् अप्य् आकाशधाताव् असक्तः / अविज्ञानधातुर् अपि विज्ञानधाताव् असक्तः / अनविद्याप्य् अविद्यायाम् असक्ता / असंस्कारा अपि संस्कारेष्व् असक्ताः / अविज्ञानम् अपि विज्ञाने ऽसक्तं / अनामरूपम् अपि नामरूपे ऽसक्तं / अषडायतनम् अपि षडायतने ऽसक्तं / अस्पर्शो ऽपि स्पर्शे ऽसक्तः / अवेदनापि वेदनायाम् असक्ता / अतृष्णापि तृष्णायाम् असक्ता / अनुपादानम् अप्य् उपादाने ऽसक्तं / अभवो ऽपि भवे ऽसक्तः / अजातिर् अपि जाताव् असक्तः / अजरामरनम् अपि जरामरणे ऽशक्तं /

अदानपारमितापि दानपारमितायाम् असक्ता / अशीलपारमितापि शीलपारमितायाम् असक्ता / अक्षान्तिपारमितापि क्षान्तिपारमितायाम् असक्ता / अवीर्यपारमितापि वीर्यपारमितायाम् असक्ता / अध्यानपारमितापि ध्यानपारमितायाम् असक्ता / अप्रज्ञापारमितापि प्रज्ञापारमितायाम् असक्ता / अनध्यात्मशून्यतापि अध्यात्मशून्यतायाम् असक्ता / अबहिर्धाशून्यतापि बहिर्धाशून्यतायाम् असक्ता / अनध्यात्मबहिर्धाशून्यतापि अध्यात्मबहिर्धाशून्यतायाम् असक्ता / अशून्यताशून्यतापि शून्यताशून्यतायाम् असक्ता / अमहाशून्यतापि महाशून्यतायाम् असक्ता / अपरमार्थशून्यतापि परमार्थशून्यतायाम् असक्ता / असंस्कृतशून्यतापि संस्कृतशून्यतायाम् असक्ता / अनसंस्कृतशून्यतापि असंस्कृतशून्यतायाम् असक्ता / अनत्यन्तशून्यतापि अत्यन्तशून्यतायाम् असक्ता / अननवराग्रशून्यताप्य् अनवराग्रशून्यतायाम् असक्ता / अननवकारशून्यताप्य् अनवकारशून्यतायाम् असक्ता / अप्रकृतिशून्यतापि प्रकृतिशून्यतायाम् असक्ता / असर्वधर्मशून्यतापि सर्वधर्मशून्यतायाम् असक्ता / अस्वलक्षणशून्यतापि स्वलक्षणशून्यतायाम् असक्ता / अननुपलम्भशून्यताप्य् अनुपलम्भशून्यतायाम् असक्ता / अनभावशून्यताप्य् अभावशून्यतायाम् असक्ता / अस्वभावशून्यतापि स्वभावशून्यतायाम् असक्ता / अनभावस्वभावशून्यताप्य् अभावस्वभावशून्यतायाम् असक्ता /

अस्मृत्युपस्थानान्य् अपि स्मृत्युपस्थानेष्व् असक्तानि / असम्यक्प्रहाणान्य् अपि सम्यक्प्रहाणेष्व् असक्तानि / अनृद्धिपादा अप्य् ऋद्धिपादेष्व् असक्ताः / अनिन्द्रियान्य् अपीन्द्रियेष्व् असक्तानि / अबलान्य् अपि बलेष्व् असक्तानि / अबोध्यङ्गान्य् अपि बोध्यङ्गेष्व् असक्तानि / अनार्याष्टाङ्गमार्गो ऽप्य् आर्याष्टाङ्गमार्गे ऽसक्तः / अनार्यसत्यान्य् अप्य् आर्यसत्येष्व् असक्तानि / अध्यानान्य् अपि ध्यानेष्व् असक्तानि / अनप्रमाणान्य् अप्य् अप्रमाणेष्व् असक्तानि / अनारूप्यसमापत्तयो ऽप्य् आरूप्यसमापत्तिष्व् असक्ताः / अविमोक्षा अपि विमोक्षेष्व् असक्ताः / अननुपूर्वविहारसमापत्तयो ऽप्य् अनुपूर्वविहारसमापत्तिष्व् असक्ताः / अशून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अपि शून्यतानिमित्ताप्रणिहितविमोक्षमुखेष्व् असक्तानि / अनभिज्ञा अप्य् अभिज्ञास्व् असक्ताः / असमाधयो ऽपि समाधिष्व् असक्ताः / अधारणीमुखान्य् अपि धारणीमुखेष्व् असक्तानि / अतथागतबलान्य् अपि तथागतबलेष्व् असक्तानि / अवैशारद्यान्य् अपि वैशारद्येष्व् असक्तानि / अप्रतिसंविदो ऽपि प्रतिसंवित्स्व् असक्ताः / अमहामैत्र्य् अपि महामैत्र्याम् असक्ताः / अमहाकरुणापि महाकरुणायाम् असक्ता / अनावेणिकबुद्धधर्मा अप्य् आवेणिकबुद्धधर्मेष्व् असक्ताः / असर्वज्ञतापि सर्वज्ञतायाम् असक्ता / अमार्गाकारज्ञतापि मार्गाकारज्ञतायाम् असक्ता / असर्वकारज्ञतापि सर्वाकारज्ञतायाम् असक्ता /

एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् तेनापि बोधिचित्तेनासमसमचित्तेन सर्वश्रावकप्रत्येकबुद्धैर् न मन्यते नाभिनिविशते / अनुपलम्भयोगेन सर्वधर्माणां तेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते / अथायुष्मान् पूर्णो मैत्रायणीपुत्रो भगवन्तम् एतद् अवोचत् / ममापि भगवन् प्रतिभाति येनार्येन बोधिसत्त्वो महासत्त्व इत्य् उच्यते / भगवान् आह / प्रतिभातु ते पूर्ण / पूर्ण आह / महासत्त्वानुसंबन्धो वत भगवन् स सत्त्वो महायानसंप्रस्थितः स सत्त्वो महायानसमारूढो भगवन् स सत्त्वः / तेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते / अथायुष्मान् शारद्वतीपुत्र आयुष्मन्तं पूर्णं मैत्रायणीपुत्रम् अवोचत् / कियतायुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो महासत्त्वानुसंबन्ध इत्य् उच्यते / पूर्ण आह / इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो न प्रादेशिकानां सत्त्वानां कृते दानपारमितायां स्थित्वा दानं ददात्य् अपि तु सर्वसत्त्वानां कृते दानपारमितायां चरन् दानं ददाति / न प्रादेशिकानां सत्त्वानां कृते शीलपारमितायां स्थित्वा शीलं रक्षति / अपि तु सर्वसत्त्वानां कृते शीलपारमितायां चरन् शीलं रक्षति / न प्रादेशिकानां सत्त्वानां कृते क्षान्तिपारमितायां स्थित्वा क्षान्तिं भावयति / अपि तु सर्वसत्त्वानां कृते क्षान्तिपारमितायां चरन् क्षान्तिं भावयति / न प्रादेशिकानां सत्त्वानां कृते वीर्यपारमितायां स्थित्वा वीर्यम् आरभते / अपि तु सर्वसत्त्वानां कृते वीर्यपारमितायां चरन् वीर्यम् आरभते / न प्रादेशिकानां सत्त्वानां कृते ध्यानपारमितायां स्थित्वा ध्यानान्य् उत्पादयति / अपि तु सर्वसत्त्वानां कृते ध्यानपारमितायां चरन् ध्यानान्य् उत्पादयति / न प्रादेशिकानां सत्त्वानां कृते प्रज्ञापारमितायां स्थित्वा प्रज्ञां भावयति / अपि तु सर्वसत्त्वानां कृते प्रज्ञापारमितायां चरन् प्रज्ञां भावयति /

न सत्त्वपरिच्छेदेन बोधिसत्त्वो महासत्त्वः सन्नाहं सन्नह्यति / इयतः सत्त्वान् निरुपधिशेषे निर्वाणधातौ परिनिर्वापयिष्यामि / इयतः सत्त्वान् न परिनिर्वापयिष्यामि / इयतः सत्त्वान् बोधौ प्रतिष्ठापयिष्यामि / इयतः सत्त्वान् न प्रतिष्ठापयिष्यामि / अपि तु खलु पुनर् बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानां कृते महासन्नाहं सन्नह्यति / एवञ् चास्य भवत्य् आत्मना च दानपारमितां परिपूरयिष्यामि / सर्वसत्त्वांश् च दानपारमितायां नियोजयिष्यामि / आत्मना च शीलपारमितां परिपूरयिष्यामि / सर्वसत्त्वांश् च शीलपारमितायां नियोजयिष्यामि / आत्मना च क्षान्तिपारमितां परिपूरयिष्यामि / सर्वसत्त्वांश् च क्षान्तिपारमितायां नियोजयिष्यामि / आत्मना च वीर्यपारमितां परिपूरयिष्यामि / सर्वसत्त्वांश् च वीर्यपारमितायां नियोजयिष्यामि / आत्मना च ध्यानपारमितां परिपूरयिष्यामि / सर्वसत्त्वांश् च ध्यानपारमितायां नियोजयिष्यामि / आत्मना च प्रज्ञापारमितां परिपूरयिष्यामि / सर्वसत्त्वांश् च प्रज्ञापारमितायां नियोजयिष्यामि /

आत्मना चाध्यात्मशून्यतां परिपूरयिष्यामि / सर्वसत्त्वांश् चाध्यात्मशून्यतायां नियोजयिष्यामि / आत्मना च बहिर्धाशून्यता परिपूरयिष्यामि / सर्वसत्त्वांश् च बहिर्धाशून्यतायां नियोजयिष्यामि / आत्मना चाध्यात्मबहिर्धाशून्यतां परिपूरयिष्यामि / सर्वसत्त्वांश् चाध्यात्मबहिर्धाशून्यतायां नियोजयिष्यामि / आत्मना च शून्यताशून्यतां परिपूरयिष्यामि / सर्वसत्त्वांश् च शून्यताशून्यतायां नियोजयिष्यामि / आत्मना च महाशून्यतां परिपूरयिष्यामि / सर्वसत्त्वांश् महाशून्यतायां नियोजयिष्यामि / आत्मना च परमार्थशून्यतां परिपूरयिष्यामि / सर्वसत्त्वांश् च परमार्थशून्यतायां नियोजयिष्यामि / आत्मना संस्कृतशून्यतां परिपूरयिष्यामि / सर्वसत्त्वांश् च संस्कृतशून्यतायां नियोजयिष्यामि / आत्मना चासंस्कृतशून्यतां परिपूरयिष्यामि / सर्वसत्त्वांश् चासंस्कृतशून्यतायां नियोजयिष्यामि / आत्मना चात्यन्तशून्यतां परिपूरयिष्यामि / सर्वसत्त्वांश् चात्यन्तशून्यतायां नियोजयिष्यामि / आत्मना चानवराग्रशून्यतां परिपूरयिष्यामि / सर्वसत्त्वांश् चानवराग्रशून्यतायां नियोजयिष्यामि / आत्मना चानवकारशून्यतां परिपूरयिष्यामि / सर्वसत्त्वांश् चानवकारशून्यतायां नियोजयिष्यामि / आत्मना च प्रकृतिशून्यताम् परिपूरयिष्यामि / सर्वसत्त्वांश् च प्रकृतिशून्यतायां नियोजयिष्यामि / आत्मना च सर्वधर्मशून्यतां परिपूरयिष्यामि / सर्वसत्त्वांश् च सर्वधर्मशून्यतायां नियोजयिष्यामि / आत्मना च स्वलक्षणशून्यतां परिपूरयिष्यामि / सर्वसत्त्वांश् च स्वलक्षणशून्यतायां नियोजयिष्यामि / आत्मना चानुपलम्भशून्यतां परिपूरयिष्यामि / सर्वसत्त्वांश् चानुपलम्भशून्यतायां नियोजयिष्यामि / आत्मना चाभावशून्यतां परिपूरयिष्यामि / सर्वसत्त्वांश् चाभावशून्यतायां नियोजयिव्यामि / आत्मना च स्वभावशून्यतां परिपूरयिष्यामि / सर्वसत्त्वांश् च स्वभावशून्यतायां नियोजयिष्यामि / आत्मना चाभावस्वभावशून्यतां परिपूरयिष्यामि / सर्वसत्त्वांश् चाभावस्वभावशून्यतायां नियोजयिष्यामि /

आत्मना च चतुर्षु स्मृत्युपस्थानेषु स्थास्यामि / परांश् च चतुर्षु स्मृत्युपस्थानेषु नियोजयिष्यामि / आत्मना च चतुर्षु सम्यक्प्रहाणेषु स्थास्यामि / परांश् च चतुर्षु स्मृत्युपस्थानेषु नियोजयिष्यामि / आत्मना च चतुर्षु ऋद्धिपादेषु स्थास्यामि / परांश् च चतुर्षु ऋद्धिपादेषु नियोजयिष्यामि / आत्मना च पञ्चेन्द्रियेषु स्थास्यामि / परांश् च पञ्चेन्द्रियेषु नियोजयिष्यामि / आत्मना च पञ्चसु बलेषु स्थास्यामि / परांश् च पञ्चसु बलेषु नियोजयिष्यामि / आत्मना च सप्तसु बोध्यङ्गेषु स्थास्यामि / परांश् च सप्तसु बोध्यङ्गेषु नियोजयिष्यामि / आत्मना चार्याष्टाङ्गमार्गे स्थास्यामि / परांश् चार्याष्टाङ्गमार्गे नियोजयिष्यामि / आत्मना चार्यसत्येषु स्थास्यामि / परांश् चार्यसत्येषु नियोजयिष्यामि / आत्मना च ध्यानेषु स्थास्यामि / परांश् च ध्यानेषु नियोजयिष्यामि / आत्मना चाप्रमाणेषु स्थास्यामि / परांश् चाप्रमाणेषु नियोजयिष्यामि / आत्मना चारूप्यसमापत्तिषु स्थास्यामि / परांश् चारूप्यसमापत्तिषु नियोजयिष्यामि / आत्मना चाष्टासु विमोक्षेषु स्थास्यामि / परांश् चाष्टासु विमोक्षेषु नियोजयिष्यामि / आत्मना च नवस्व् अनुपूर्वविहारसमापत्तिषु स्थास्यामि / परांश् च नवस्व् अनुपूर्वविहारसमापत्तिषु नियोजयिष्यामि / आत्मना च शून्यतानिमित्ताप्राणिहितविमोक्षमुखेषु स्थास्यामि / परांश् च शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु नियोजयिष्यामि / आत्मना चाभिज्ञासु स्थास्यामि / परांश् चाभिज्ञासु नियोजयिष्यामि / आत्मना च समाधिषु स्थास्यामि / परांश् च समाधिषु नियोजयिष्यामि / आत्मना च धारणीमुखेषु स्थास्यामि / परांश् च धारणीमुखेषु नियोजयिष्यामि / आत्मना च तथागतबलेषु स्थास्यामि / परांश् च तथागतबलेषु नियोजयिष्यामि / आत्मना च वैशारद्येषु स्थास्यामि / परांश् च वैशारद्येषु नियोजयिष्यामि / आत्मना च प्रतिसंवित्सु स्थास्यामि / परांश् च प्रतिसंवित्सु नियोजयिष्यामि / आत्मना च महामैत्र्यां स्थास्यामि / परांश् च महामैत्र्यां नियोजयिष्यामि / आत्मना च महाकरुणायां स्थास्यामि / परांश् च महाकरुणायां नियोजयिष्यामि / आत्मना चाष्टादशावेणिकबुद्धधर्मेषु स्थास्यामि / अष्टादशावेणिकबुद्धधर्मेषु नियोजयिष्यामि /

इयतायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो महासन्नाहसंबन्ध इत्य् उच्यते /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् यद् दानं ददाति / तत् सर्वाकारज्ञताप्रतिसंयुक्तमनसिकारैर् न श्रावकप्रत्येकबुद्धैः प्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयत्य् अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानपारमितासन्नाहः / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो दानं ददत् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् भूमौ परिणामयत्य् अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापरमितायां चरतो दानं ददतः शीलपारमितासन्नाहः / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या तेषां धर्माणां क्षमणता रोचनताधिवासनता / अयं बोधितत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः क्षान्तिपारमितासन्नाहः / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वीर्याग्रंसनता / अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो वीर्यपारमितासन्नाहः / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य दानं ददतो या चित्तैकाग्रता यद् उत सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः श्रावकप्रत्येकबुद्धाप्रतिसंयुक्तानाञ् च चित्तोत्पादनाम् अनवकाशदानं तद् एकालम्बनताम् उपादाय / अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो ध्यानपारमितासन्नाहः /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् मानावकृतसंज्ञेप्यता भवति / स न च दानम् उपलभते / न दायकं न प्रतिग्राहकम् उपलभते / अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः प्रज्ञापारमितासन्नाहः / यद् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् ताः पारमिता न निमित्तीकरोति नोपलभते / एवं खलु बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् महासन्नाहसंबन्धो बोधितव्यः /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः शीलपारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् दानं ददाति तच् च सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयत्य् अयम् अनुपलम्भयोगेन / अयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो दानपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शीलपारमितायां चरतो या श्रावकप्रत्येकबुद्धभूम्यस्पृहानताः प्राग् एव पृथग्जनभूमयः / इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः शीलपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या तेषां धर्माणां क्षमणतारोचनताधिवासनता / इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः क्षान्तिपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या वीर्यास्रंसनतानवलीनवीर्यता / इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो वीर्यपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् विहरतो या श्रावकप्रत्येकबुद्धचित्तानाम् अनवकारशदानं तस्य च कुशलमूलस्य सर्वसत्त्वसाधारणीकृतस्यानुत्तरायां सम्यक्संबोधौ परिणामयति / इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो ध्यानपारमिता /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकप्रतिसंयुक्तैर् या सर्वधर्मेषु मायाकृतसंज्ञा प्रत्युपस्थिता भवति / तेन च शीलेन न मन्यते न तच् छीलम् उपलभते प्रकृतिशून्यताम् उपादाय / तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति / इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः प्रज्ञापारमिता / एवं खल्व् आयुष्मन् शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः शीलपारमितायां चरन् षट्पारमिताः परिगृह्णाति / तेन महासन्नाहसन्नद्ध इत्य् उच्यते /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्व क्षान्तिपारमितायां चरन् यद् दानं ददाति तत् सर्वकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति / इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतो दानपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्व क्षान्तिपारमितायाञ् चरन् यच् छीलं रक्षति तत् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतः शीलपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतो या सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणां क्षमणतारोचनताधिवासनता / इयं क्षान्तिपारमितायां चरतः क्षान्तिपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् या चित्तस्यैकाग्रता इयं क्षान्तिपारमितायां चरतो ध्यानपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैः सर्वसत्त्वेषु मायाकृतसंज्ञा प्रत्युपस्थिता भवति / तथा च क्षान्त्या स मन्यते / न च तां क्षान्तिम् उपलभते / इयं क्षान्तिपारमितायां चरतः प्रज्ञापारमिता / एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां चरन् सर्वाः षट्पारमिताः परिगृह्णाति / तेन महासन्नाहसन्नद्ध इत्य् उच्यते /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् यद् दानं ददाति / तत् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतो दानपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् शीलं रक्षति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीयं वीर्यपारमितायां चरतः शीलपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् या तेषां धर्माणां क्षमणतारोचनताधिवासनता / इयं वीर्यपारमितायां चरतः क्षान्तिपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैः सर्वसत्त्वार्थं या वीर्यास्रंसनताग्रहणता, इयं वीर्यपारमितायां चरतो वीर्यपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् इयं वीर्यपारमितायां चरतो ध्यानपारमिता /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्वस्य वीर्यप्रज्ञापारमितायां चरतो या चित्तस्यैकाग्रता सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् या सर्वधर्मेषु मायाकृतसंज्ञाप्रत्युपस्थितो भवति / तेन च वीर्येण न मन्यते न तद् वीर्यम् उपलभते / तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीयं वीर्यपारमितायां चरतः प्रज्ञापारमिता / एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् सर्वाः षट्पारमिताः परिगृह्णाति / तेन महासन्नाहसन्नद्ध इत्य् उच्यते /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारनितायां चरन् यद् दानं ददाति तत् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च सर्वकुशलम् सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतो दानपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां चरन् यच् छीलं रक्षति तत् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीयं ध्यानपारमितायां चरतः शीलपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां चरन् क्षान्तिं भावयति / सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीयं ध्यानपारमितायां चरतः क्षान्तिपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् या वीर्यास्रंसनता तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीयं ध्यानपारमितायां चरतो वीर्यपारमिता /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतो या सर्वाकारज्ञताप्रतिसंयुक्तेषु मनसिकारेषु चित्तस्यैकाग्रता श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशदानं तद् एकालम्बनताम् उपादाय / तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीयं ध्यानपारयितायां चरतो ध्यानपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतः सर्वधर्मेषु मायाकृतसंज्ञा प्रत्युपस्थिता भवति / तेन च ध्यानेन न मन्यते / न च ध्यानम् उपलभते / तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीयं ध्यानपारमितायां चरतः प्रज्ञापारमिता / एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां चरन् सर्वाः षट्पारमिताः परिगृह्णाति तेन महासन्नाहसन्नद्ध इत्य् उच्यते /

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरतस् त्रिमण्डलपरिशुद्धं दानं ददाति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः शीलं रक्षतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तस्य च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा तस्यानुत्तरायां सम्यक्संबोधौ परिणामयतीयं प्रज्ञापारमितायां चरतः शीलपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो या तेषां धर्माणां क्षमणतारोचनताधिवासनता / सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तस्य च कुशलमूलस्य सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्संबोधौं परिणामयतीयं प्रज्ञापारमितायां चरतः क्षान्तिपारमिता / पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् या वीर्यास्रंसनता / तस्य च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीयं प्रज्ञापारमितायां चरतो वीर्यपारमिता /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.