Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता, Part इ
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
तद्यथापि नाम सुभूते ऽसंस्कृतधातौ संस्कृतधातु पदं न विद्यते / संस्कृतधातव् असंस्कृतधातु पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते ऽनुत्पादे पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते ऽनिरोधे पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते ऽसंक्लेशाव्यपदाने पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते ऽनभिसंस्कारे पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते ऽप्रादुर्भावे पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते ऽनुपलम्भे पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते /
आह / कस्य भगवन्न् अनुत्पादे पदं न विद्यते / कस्यानिरोधे पदं न विद्यते / कस्यासंक्लेशाव्यवदाने पदं न विद्यते / कस्याप्रादुर्भावे पदं न विद्यते / कस्यानभिसंस्कारे पदं न विद्यते / कस्यानुपलम्भे पदं न विद्यते / भगवान् आह / रूपस्य सुभूते ऽनुत्पादे पदं न विद्यते / रूपस्यानिरोधे पदं न विद्यते / रूपस्यासंक्लेशाव्यवदाने पदं न विद्यते / रूपस्यानभिसंस्कारे पदं न विद्यते / रूपस्याप्रादुर्भावे पदं न विद्यते / रूपस्यानुपलम्भे पदं न विद्यते / वेदनायाः सुभूते अनुत्पादे पदं न विद्यते / वेदनाया अनिरोधे पदं न विद्यते / वेदनाया असंक्लेशाव्यवदाने पदं न विद्यते / वेदनाया अनभिसंस्कारे पदं न विद्यते / वेदनाया अप्रादुर्भावे पदं न विद्यते / वेदनाया अनुपलम्भे पदं न विद्यते / संज्ञायाः सुभूते ऽनुत्पादे पदं न विद्यते / संज्ञाया अनिरोधे पदं न विद्यते / संज्ञाया असंक्लेशाव्यवदाने पदं न विद्यते / संज्ञाया अनभिसंस्कारे पदं न विद्यते / संज्ञाया अप्रादुर्भावे पदं न विद्यते / संज्ञाया अनुपलम्भे पदं न विद्यते / संस्काराणां सुभूते ऽनुत्पादे पदं न विद्यते / संस्काराणाम् अनिरोधे पदं न विद्यते / संस्काराणाम् असंक्लेशाव्यवदाने पदं न विद्यते / संस्काराणाम् अनभिसंस्कारे पदं न विद्यते / संस्काराणाम् अप्रादुर्भावे पदं न विद्यते / संस्काराणाम् अनुपलम्भे पदं न विद्यते / विज्ञानस्य सुभूते ऽनुत्पादे पदं न विद्यते / विज्ञानस्यानिरोधे पदं न विद्यते / विज्ञानस्यासंक्लेशाव्यवदाने पदं न विद्यते / विज्ञानस्यानभिसंस्कारे पदं न विद्यते / विज्ञानस्याप्रादुर्भावे पदं न विद्यते / विज्ञानस्यानुपलम्भे पदं न विद्यते /
चक्षुषः सुभूते ऽनुत्पादे पदं न विद्यते / चक्षुषो ऽनिरोधे पदं न विद्यते / चक्षुषो ऽसंक्लेशाव्यवदाने पदं न विद्यते / चक्षुषो ऽनभिसंस्कारे पदं न विद्यते / चक्षुषो ऽप्रादुर्भावे पदं न विद्यते / चक्षुषो ऽनुपलम्भे पदं न विद्यते / श्रोत्रस्य सुभूते ऽनुत्पादे पदं न विद्यते / श्रोत्रस्यानिरोधे पदं न विद्यते / श्रोत्रस्यासंक्लेशाव्यवदाने पदं न विद्यते / श्रोत्रस्यानभिसंस्कारे पदं न विद्यते / श्रोत्रस्याप्रादुर्भावे पदं न विद्यते / श्रोत्रस्यानुपलम्भे पदं न विद्यते / घ्राणस्य सुभूते ऽनुत्पादे पदं न विद्यते / घ्राणस्यानिरोधे पदं न विद्यते / घ्राणस्यासंक्लेशाव्यवदाने पदं न विद्यते / घ्राणस्यानभिसंस्कारे पदं न विद्यते / घ्राणस्याप्रादुर्भावे पदं न विद्यते / घ्राणस्यानुपलम्भे पदं न विद्यते / जिह्वायाः सुभूते ऽनुत्पादे पदं न विद्यते / जिह्वाया अनिरोधे पदं न विद्यते / जिह्वाया असंक्लेशाव्यवदाने पदं न विद्यते / जिह्वाया अनभिसंस्कारे पदं न विद्यते / जिह्वाया अप्रादुर्भावे पदं न विद्यते / जिह्वाया अनुपलम्भे पदं न विद्यते / कायस्य सुभूते ऽनुत्पादे पदं न विद्यते / कायस्यानिरोधे पदं न विद्यते / कायस्यासंक्लेशाव्यवदाने पदं न विद्यते / कायस्यानभिसंस्कारे पदं न विद्यते / कायस्याप्रादुर्भावे पदं न विद्यते / कायस्यानुपलम्भे पदं न विद्यते / मनसः सुभूते ऽनुत्पादे पदं न विद्यते / मनसो ऽनिरोधे पदं न विद्यते / मनसो ऽसंक्लेशाव्यवदाने पदं न विद्यते / मनसो ऽनभिसंस्कारे पदं न विद्यते / मनसो ऽप्रादुर्भावे पदं न विद्यते / मनसो ऽनुपलम्भे पदं न विद्यते /
रूपस्य सुभूते ऽनुत्पादे पदं न विद्यते / रूपस्यानिरोधे पदं न विद्यते / रूपस्यासंक्लेशाव्यवदाने पदं न विद्यते / रूपस्यानभिसंस्कारे पदं न विद्यते / रूपस्याप्रादुर्भावे पदं न विद्यते / रूपस्यानुपलम्भे पदं न विद्यते / शब्दस्य सुभूते ऽनुत्पादे पदं न विद्यते / शब्दस्यानिरोधे पदं न विद्यते / शब्दस्यासंक्लेशाव्यवदाने पदं न विद्यते / शब्दस्यानभिसंस्कारे पदं न विद्यते / शब्दस्याप्रादुर्भावे पदं न विद्यते / शब्दस्यानुपलम्भे पदं न विद्यते / गन्धस्य सुभूते ऽनुत्पादे पदं न विद्यते / गन्धस्यानिरोधे पदं न विद्यते / गन्धस्यासंक्लेशाव्यवदाने पदं न विद्यते / गन्धस्यानभिसंस्कारे पदं न विद्यते / गन्धस्याप्रादुर्भावे पदं न विद्यते / गन्धस्यानुपलम्भे पदं न विद्यते / रसस्य सुभूते ऽनुत्पादे पदं न विद्यते / रसस्यानिरोधे पदं न विद्यते / रसस्यासंक्लेशाव्यवदाने पदं न विद्यते / रसस्यानभिसंस्कारे पदं न विद्यते / रसस्याप्रादुर्भावे पदं न विद्यते / रसस्यानुपलम्भे पदं न विद्यते / स्पर्शस्य सुभूते ऽनुत्पादे पदं न विद्यते / स्पर्शस्यानिरोधे पदं न विद्यते / स्पर्शस्यासंक्लेशाव्यवदाने पदं न विद्यते / स्पर्शस्यानभिसंस्कारे पदं न विद्यते / स्पर्शस्याप्रादुर्भावे पदं न विद्यते / स्पर्शस्यानुपलम्भे पदं न विद्यते / धर्माणां सुभूते ऽनुत्पादे पदं न विद्यते / धर्माणाम् अनिरोधे पदं न विद्यते / धर्माणाम् असंक्लेशाव्यवदाने पदं न विद्यते / धर्माणाम् अनभिसंस्कारे पदं न विद्यते / धर्माणाम् अप्रादुर्भावे पदं न विद्यते / धर्माणाम् अनुपलम्भे पदं न विद्यते /
चक्षुर्विज्ञानस्य सुभूते ऽनुत्पादे पदं न विद्यते / चक्षुर्विज्ञानस्यानिरोधे पदं न विद्यते / चक्षुर्विज्ञानस्यासंक्लेशाव्यवदाने पदं न विद्यते / चक्षुर्विज्ञानस्यानभिसंस्कारे पदं न विद्यते / चक्षुर्विज्ञानस्याप्रादुर्भावे पदं न विद्यते / चक्षुर्विज्ञानस्यानुपलम्भे पदं न विद्यते / श्रोत्रविज्ञानस्य सुभूते ऽनुत्पादे पदं न विद्यते / श्रोत्रविज्ञानस्यानिरोधे पदं न विद्यते / श्रोत्रविज्ञानस्यासंक्लेशाव्यवदाने पदं न विद्यते / श्रोत्रविज्ञानस्यानभिसंस्कारे पदं न विद्यते / श्रोत्रविज्ञानस्याप्रादुर्भावे पदं न विद्यते / श्रोत्रविज्ञानस्यानुपलम्भे पदं न विद्यते / घ्राणविज्ञानस्य सुभूते ऽनुत्पादे पदं न विद्यते / घ्राणविज्ञानस्यानिरोधे पदं न विद्यते / घ्राणविज्ञानस्यासंक्लेशाव्यवदाने पदं न विद्यते / घ्राणविज्ञानस्यानभिसंस्कारे पदं न विद्यते / घ्राणविज्ञानस्याप्रादुर्भावे पदं न विद्यते / घ्राणविज्ञानस्यानुपलम्भे पदं न विद्यते / जिह्वाविज्ञानस्य सुभूते ऽनुत्पादे पदं न विद्यते / जिह्वाविज्ञानस्यानिरोधे पदं न विद्यते / जिह्वाविज्ञानस्यासंक्लेशाव्यवदाने पदं न विद्यते / जिह्वाविज्ञानस्यानभिसंस्कारे पदं न विद्यते / जिह्वाविज्ञानस्याप्रादुर्भावे पदं न विद्यते / जिह्वाविज्ञानस्यानुपलम्भे पदं न विद्यते / कायविज्ञानस्य सुभूते ऽनुत्पादे पदं न विद्यते / कायविज्ञानस्यानिरोधे पदं न विद्यते / कायविज्ञानस्यासंक्लेशाव्यवदाने पदं न विद्यते / कायविज्ञानस्यानभिसंस्कारे पदं न विद्यते / कायविज्ञानस्याप्रादुर्भावे पदं न विद्यते / कायविज्ञानस्यानुपलम्भे पदं न विद्यते / मनोविज्ञानस्य सुभूते ऽनुत्पादे पदं न विद्यते / मनोविज्ञानस्यानिरोधे पदं न विद्यते / मनोविज्ञानस्यासंक्लेशाव्यवदाने पदं न विद्यते / मनोविज्ञानस्यानभिसंस्कारे पदं न विद्यते / मनोविज्ञानस्याप्रादुर्भावे पदं न विद्यते / मनोविज्ञानस्यानुपलम्भे पदं न विद्यते /
चक्षुःसंस्पर्शस्य सुभूते ऽनुत्पादे पदं न विद्यते / चक्षुःसंस्पर्शस्यानिरोधे पदं न विद्यते / चक्षुःसंस्पर्शस्यासंक्लेशाव्यवदाने पदं न विद्यते / चक्षुःसंस्पर्शस्यानभिसंस्कारे पदं न विद्यते / चक्षुःसंस्पर्शस्याप्रादुर्भावे पदं न विद्यते / चक्षुःसंस्पर्शस्यानुपलम्भे पदं न विद्यते / श्रोत्रसंस्पर्शस्य सुभूते ऽनुत्पादे पदं न विद्यते / श्रोत्रसंस्पर्शस्यानिरोधे पदं न विद्यते / श्रोत्रसंस्पर्शस्यासंक्लेशाव्यवदाने पदं न विद्यते / श्रोत्रसंस्पर्शस्यानभिसंस्कारे पदं न विद्यते / श्रोत्रसंस्पर्शस्याप्रादुर्भावे पदं न विद्यते / श्रोत्रसंस्पर्शस्यानुपलम्भे पदं न विद्यते / घ्राणसंस्पर्शस्य सुभूते ऽनुत्पादे पदं न विद्यते / घ्राणसंस्पर्शस्यानिरोधे पदं न विद्यते / घ्राणसंस्पर्शस्यासंक्लेशाव्यवदाने पदं न विद्यते / घ्राणसंस्पर्शस्यानभिसंस्कारे पदं न विद्यते / घ्राणसंस्पर्शस्याप्रादुर्भावे पदं न विद्यते / घ्राणसंस्पर्शस्यानुपलम्भे पदं न विद्यते / जिह्वासंस्पर्शस्य सुभूते ऽनुत्पादे पदं न विद्यते / जिह्वासंस्पर्शस्यानिरोधे पदं न विद्यते / जिह्वासंस्पर्शस्यासंक्लेशाव्यवदाने पदं न विद्यते / जिह्वासंस्पर्शस्यानभिसंस्कारे पदं न विद्यते / जिह्वासंस्पर्शस्याप्रादुर्भावे पदं न विद्यते / जिह्वासंस्पर्शस्यानुपलम्भे पदं न विद्यते /
कायसंस्पर्शस्य सुभूते ऽनुत्पादे पदं न विद्यते / कायसंस्पर्शस्यानिरोधे पदं न विद्यते / कायसंस्पर्शस्यासंक्लेशाव्यवदाने पदं न विद्यते / कायसंस्पर्शस्यानभिसंस्कारे पदं न विद्यते / कायसंस्पर्शस्याप्रादुर्भावे पदं न विद्यते / कायसंस्पर्शस्यानुपलम्भे पदं न विद्यते / मनःसंस्पर्शस्य सुभूते ऽनुत्पादे पदं न विद्यते / मनःसंस्पर्शस्यानिरोधे पदं न विद्यते / मनःसंस्पर्शस्यासंक्लेशाव्यवदाने पदं न विद्यते / मनःसंस्पर्शस्यानभिसंस्कारे पदं न विद्यते / मनःसंस्पर्शस्याप्रादुर्भावे पदं न विद्यते / मनःसंस्पर्शस्यानुपलम्भे पदं न विद्यते /
चक्षुःसंस्पर्शप्रत्ययवेदितस्य सुभूते ऽनुत्पादे पदं न विद्यते / चक्षुःसंस्पर्शप्रत्ययवेदितस्यानिरोधे पदं न विद्यते / चक्षुःसंस्पर्शप्रत्ययवेदितस्यासंक्लेशाव्यवदाने पदं न विद्यते / चक्षुःसंस्पर्शप्रत्ययवेदितस्यानभिसंस्कारे पदं न विद्यते / चक्षुःसंस्पर्शप्रत्ययवेदितस्याप्रादुर्भावे पदं न विद्यते / चक्षुःसंस्पर्शप्रत्ययवेदितस्यानुपलम्भे पदं न विद्यते / श्रोत्रसंस्पर्शप्रत्ययवेदितस्य सुभूते ऽनुत्पादे पदं न विद्यते / श्रोत्रसंस्पर्शप्रत्ययवेदितस्यानिरोधे पदं न विद्यते / श्रोत्रसंस्पर्शप्रत्ययवेदितस्यासंक्लेशाव्यवदाने पदं न विद्यते / श्रोत्रसंस्पर्शप्रत्ययवेदितस्यानभिसंस्कारे पदं न विद्यते / श्रोत्रसंस्पर्शप्रत्ययवेदितस्याप्रादुर्भावे पदं न विद्यते / श्रोत्रसंस्पर्शप्रत्ययवेदितस्यानुपलम्भे पदं न विद्यते / घ्राणसंस्पर्शप्रत्ययवेदितस्य सुभूते ऽनुत्पादे पदं न विद्यते / घ्राणसंस्पर्शप्रत्ययवेदितस्यानिरोधे पदं न विद्यते / घ्राणसंस्पर्शप्रत्ययवेदितस्यासंक्लेशाव्यवदाने पदं न विद्यते / घ्राणसंस्पर्शप्रत्ययवेदितस्यानभिसंस्कारे पदं न विद्यते / घ्राणसंस्पर्शप्रत्ययवेदितस्याप्रादुर्भावे पदं न विद्यते / घ्राणसंस्पर्शप्रत्ययवेदितस्यानुपलम्भे पदं न विद्यते / जिह्वासंस्पर्शप्रत्ययवेदितस्य सुभूते ऽनुत्पादे पदं न विद्यते / जिह्वासंस्पर्शप्रत्ययवेदितस्यानिरोधे पदं न विद्यते / जिह्वासंस्पर्शप्रत्ययवेदितस्यासंक्लेशाव्यवदाने पदं न विद्यते / जिह्वासंस्पर्शप्रत्ययवेदितस्यानभिसंस्कारे पदं न विद्यते / जिह्वासंस्पर्शप्रत्ययवेदितस्याप्रादुर्भावे पदं न विद्यते /
जिह्वासंस्पर्शप्रत्ययवेदितस्यानुपलम्भे पदं न विद्यते / कायसंस्पर्शप्रत्ययवेदितस्य सुभूते ऽनुत्पादे पदं न विद्यते / कायसंस्पर्शप्रत्ययवेदितस्यानिरोधे पदं न विद्यते / कायसंस्पर्शप्रत्ययवेदितस्यासंक्लेशाव्यवदाने पदं न विद्यते / कायसंस्पर्शप्रत्ययवेदितस्यानभिसंस्कारे पदं न विद्यते / कायसंस्पर्शप्रत्ययवेदितस्याप्रादुर्भावे पदं न विद्यते / कायसंस्पर्शप्रत्ययवेदितस्यानुपलम्भे पदं न विद्यते / मनःसंस्पर्शप्रत्ययवेदितस्य सुभूते ऽनुत्पादे पदं न विद्यते / मनःसंस्पर्शप्रत्ययवेदितस्यानिरोधे पदं न विद्यते / मनःसंस्पर्शप्रत्ययवेदितस्यासंक्लेशाव्यवदाने पदं न विद्यते / मनःसंस्पर्शप्रत्ययवेदितस्यानभिसंस्कारे पदं न विद्यते / मनःसंस्पर्शप्रत्ययवेदितस्याप्रादुर्भावे पदं न विद्यते / मनःसंस्पर्शप्रत्ययवेदितस्यानुपलम्भे पदं न विद्यते /
पृथिवीधातोः सुभूते ऽनुत्पादे पदं न विद्यते / पृथिवीधातोर् अनिरोधे पदं न विद्यते / पृथिवीधातोर् असंक्लेशाव्यवदाने पदं न विद्यते / पृथिवीधातोर् अनभिसंस्कारे पदं न विद्यते / पृथिवीधातोर् अप्रादुर्भावे पदं न विद्यते / पृथिवीधातोर् अनुपलम्भे पदं न विद्यते / अब्धातोः सुभूते ऽनुत्पादे पदं न विद्यते / अब्धातोर् अनिरोधे पदं न विद्यते / अब्धातोर् असंक्लेशाव्यवदाने पदं न विद्यते / अब्धातोर् अनभिसंस्कारे पदं न विद्यते / अब्धातोर् अप्रादुर्भावे पदं न विद्यते / अब्धातोर् अनुपलम्भे पदं न विद्यते / तेजोधातोः सुभूते ऽनुत्पादे पदं न विद्यते / तेजोधातोर् अनिरोधे पदं न विद्यते / तेजोधातोर् असंक्लेशाव्यवदाने पदं न विद्यते / तेजोधातोर् अनभिसंस्कारे पदं न विद्यते / तेजोधातोर् अप्रादुर्भावे पदं न विद्यते / तेजोधातोर् अनुपलम्भे पदं न विद्यते / वायुधातोः सुभूते ऽनुत्पादे पदं न विद्यते / वायुधातोर् अनिरोधे पदं न विद्यते / वायुधातोर् असंक्लेशाव्यवदाने पदं न विद्यते / वायुधातोर् अनभिसंस्कारे पदं न विद्यते / वायुधातोर् अप्रादुर्भावे पदं न विद्यते / वायुधातोर् अनुपलम्भे पदं न विद्यते / आकाशधातोः सुभूते ऽनुत्पादे पदं न विद्यते / आकाशधातोर् अनिरोधे पदं न विद्यते / आकाशधातोर् असंक्लेशाव्यवदाने पदं न विद्यते / आकाशधातोर् अनभिसंस्कारे पदं न विद्यते / आकाशधातोर् अप्रादुर्भावे पदं न विद्यते / आकाशधातोर् अनुपलम्भे पदं न विद्यते /
विज्ञानधातोः सुभूते ऽनुत्पादे पदं न विद्यते / विज्ञानधातोर् अनिरोधे पदं न विद्यते / विज्ञानधातोर् असंक्लेशाव्यवदाने पदं न विद्यते / विज्ञानधातोर् अनभिसंस्कारे पदं न विद्यते / विज्ञानधातोर् अप्रादुर्भावे पदं न विद्यते / विज्ञानधातोर् अनुपलम्भे पदं न विद्यते / अविद्यायाः सुभूते ऽनुत्पादे पदं न विद्यते / अविद्याया अनिरोधे पदं न विद्यते / अविद्याया असंक्लेशाव्यवदाने पदं न विद्यते / अविद्याया अनभिसंस्कारे पदं न विद्यते / अविद्याया अप्रादुर्भावे पदं न विद्यते / अविद्याया अनुपलम्भे पदं न विद्यते / संस्काराणां सुभूते ऽनुत्पादे पदं न विद्यते / संस्काराणाम् अनिरोधे पदं न विद्यते / संस्काराणाम् असंक्लेशाव्यवदाने पदं न विद्यते / संस्काराणाम् अनभिसंस्कारे पदं न विद्यते / संस्काराणाम् अप्रादुर्भावे पदं न विद्यते / संस्काराणाम् अनुपलम्भे पदं न विद्यते / विज्ञानस्य सुभूते ऽनुत्पादे पदं न विद्यते / विज्ञानस्यानिरोधे पदं न विद्यते / विज्ञानस्यासंक्लेशाव्यवदाने पदं न विद्यते / विज्ञानस्यानभिसंस्कारे पदं न विद्यते / विज्ञानस्याप्रादुर्भावे पदं न विद्यते / विज्ञानस्यानुपलम्भे पदं न विद्यते / नामरूपस्य सुभूते ऽनुत्पादे पदं न विद्यते / नामरूपस्यानिरोधे पदं न विद्यते / नामरूपस्यासंक्लेशाव्यवदाने पदं न विद्यते / नामरूपस्यानभिसंस्कारे पदं न विद्यते / नामरूपस्याप्रादुर्भावे पदं न विद्यते / नामरूपस्यानुपलम्भे पदं न विद्यते / षडायतनस्य सुभूते ऽनुत्पादे पदं न विद्यते / षडायतनस्यानिरोधे पदं न विद्यते / षडायतनस्यासंक्लेशाव्यवदाने पदं न विद्यते /
षडायतनस्यानभिसंस्कारे पदं न विद्यते / षडायतनस्याप्रादुर्भावे पदं न विद्यते / षडायतनस्यानुपलम्भे पदं न विद्यते / स्पर्शस्य सुभूते ऽनुत्पादे पदं न विद्यते / स्पर्शस्यानिरोधे पदं न विद्यते / स्पर्शस्यासंक्लेशाव्यवदाने पदं न विद्यते / स्पर्शस्यानभिसंस्कारे पदं न विद्यते / स्पर्शस्याप्रादुर्भावे पदं न विद्यते / स्पर्शस्यानुपलम्भे पदं न विद्यते / वेदनायाः सुभूते ऽनुत्पादे पदं न विद्यते / वेदनाया अनिरोधे पदं न विद्यते / वेदनाया असंक्लेशाव्यवदाने पदं न विद्यते / वेदनाया अनभिसंस्कारे पदं न विद्यते / वेदनाया अप्रादुर्भावे पदं न विद्यते / वेदनाया अनुपलम्भे पदं न विद्यते / तृष्णायाः सुभूते ऽनुत्पादे पदं न विद्यते / तृष्णाया अनिरोधे पदं न विद्यते / तृष्णाया असंक्लेशाव्यवदाने पदं न विद्यते / तृष्णाया अनभिसंस्कारे पदं न विद्यते / तृष्णाया अप्रादुर्भावे पदं न विद्यते / तृष्णाया अनुपलम्भे पदं न विद्यते / उपादानस्य सुभूते ऽनुत्पादे पदं न विद्यते / उपादानस्यानिरोधे पदं न विद्यते / उपादानस्यासंक्लेशाव्यवदाने पदं न विद्यते / उपादानस्यानभिसंस्कारे पदं न विद्यते / उपादानस्याप्रादुर्भावे पदं न विद्यते / उपादानस्यानुपलम्भे पदं न विद्यते / भवस्य सुभूते ऽनुत्पादे पदं न विद्यते / भवस्यानिरोधे पदं न विद्यते / भवस्यासंक्लेशाव्यवदाने पदं न विद्यते / भवस्यानभिसंस्कारे पदं न विद्यते / भवस्याप्रादुर्भावे पदं न विद्यते / भवस्यानुपलम्भे पदं न विद्यते / जातेः सुभूते ऽनुत्पादे पदं न विद्यते / जातेर् अनिरोधे पदं न विद्यते /
जातेर् असंक्लेशाव्यवदाने पदं न विद्यते / जातेर् अनभिसंस्कारे पदं न विद्यते / जातेर् अप्रादुर्भावे पदं न विद्यते / जातेर् अनुपलम्भे पदं न विद्यते / जरामारणस्य सुभूते ऽनुत्पादे पदं न विद्यते / जरामारणस्यानिरोधे पदं न विद्यते / जरामारणस्यासंक्लेशाव्यवदाने पदं न विद्यते / जरामारणस्यानभिसंस्कारे पदं न विद्यते / जरामारणस्याप्रादुर्भावे पदं न विद्यते / जरामारणस्यानुपलम्भे पदं न विद्यते /
दानपारमितायाः सुभूते ऽनुत्पादे पदं न विद्यते / दानपारमिताया अनिरोधे पदं न विद्यते / दानपारमिताया असंक्लेशाव्यवदाने पदं न विद्यते / दानपारमिताया अनभिसंस्कारे पदं न विद्यते / दानपारमिताया अप्रादुर्भावे पदं न विद्यते / दानपारमिताया अनुपलम्भे पदं न विद्यते / शीलपारमितायाः सुभूते ऽनुत्पादे पदं न विद्यते / शीलपारमिताया अनिरोधे पदं न विद्यते / शीलपारमिताया असंक्लेशाव्यवदाने पदं न विद्यते / शीलपारमिताया अनभिसंस्कारे पदं न विद्यते / शीलपारमिताया अप्रादुर्भावे पदं न विद्यते / शीलपारमिताया अनुपलम्भे पदं न विद्यते / क्षान्तिपारमितायाः सुभूते ऽनुत्पादे पदं न विद्यते / क्षान्तिपारमिताया अनिरोधे पदं न विद्यते / क्षान्तिपारमिताया असंक्लेशाव्यवदाने पदं न विद्यते / क्षान्तिपारमिताया अनभिसंस्कारे पदं न विद्यते / क्षान्तिपारमिताया अप्रादुर्भावे पदं न विद्यते / क्षान्तिपारमिताया अनुपलम्भे पदं न विद्यते / वीर्यपारमितायाः सुभूते ऽनुत्पादे पदं न विद्यते / वीर्यपारमिताया अनिरोधे पदं न विद्यते / वीर्यपारमिताया असंक्लेशाव्यवदाने पदं न विद्यते / वीर्यपारमिताया अनभिसंस्कारे पदं न विद्यते / वीर्यपारमिताया अप्रादुर्भावे पदं न विद्यते / वीर्यपारमिताया अनुपलम्भे पदं न विद्यते / ध्यानपारमितायाः सुभूते ऽनुत्पादे पदं न विद्यते / ध्यानपारमिताया अनिरोधे पदं न विद्यते / ध्यानपारमिताया असंक्लेशाव्यवदाने पदं न विद्यते / ध्यानपारमिताया अनभिसंस्कारे पदं न विद्यते / ध्यानपारमिताया अप्रादुर्भावे पदं न विद्यते / ध्यानपारमिताया अनुपलम्भे पदं न विद्यते / प्रज्ञापारमितायाः सुभूते ऽनुत्पादे पदं न विद्यते / प्रज्ञापारमिताया अनिरोधे पदं न विद्यते / प्रज्ञापारमिताया असंक्लेशाव्यवदाने पदं न विद्यते / प्रज्ञापारमिताया अनभिसंस्कारे पदं न विद्यते / प्रज्ञापारमिताया अप्रादुर्भावे पदं न विद्यते / प्रज्ञापारमिताया अनुपलम्भे पदं न विद्यते /
अध्यात्मशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते / अध्यात्मशून्यताया अनिरोधे पदं न विद्यते / अध्यात्मशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते / अध्यात्मशून्यताया अनभिसंस्कारे पदं न विद्यते / अध्यात्मशून्यताया अप्रादुर्भावे पदं न विद्यते / अध्यात्मशून्यताया अनुपलम्भे पदं न विद्यते / बहिर्धाशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते / बहिर्धाशून्यताया अनिरोधे पदं न विद्यते / बहिर्धाशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते / बहिर्धाशून्यताया अनभिसंस्कारे पदं न विद्यते / बहिर्धाशून्यताया अप्रादुर्भावे पदं न विद्यते / बहिर्धाशून्यताया अनुपलम्भे पदं न विद्यते / अध्यात्मबहिर्धाशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते / अध्यात्मबहिर्धाशून्यताया अनिरोधे पदं न विद्यते / अध्यात्मबहिर्धाशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते / अध्यात्मबहिर्धाशून्यताया अनभिसंस्कारे पदं न विद्यते / अध्यात्मबहिर्धाशून्यताया अप्रादुर्भावे पदं न विद्यते / अध्यात्मबहिर्धाशून्यताया अनुपलम्भे पदं न विद्यते / शून्यताशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते / शून्यताशून्यताया अनिरोधे पदं न विद्यते / शून्यताशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते / शून्यताशून्यताया अनभिसंस्कारे पदं न विद्यते / शून्यताशून्यताया अप्रादुर्भावे पदं न विद्यते / शून्यताशून्यताया अनुपलम्भे पदं न विद्यते / महाशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते / महाशून्यताया अनिरोधे पदं न विद्यते / महाशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते / महाशून्यताया अनभिसंस्कारे पदं न विद्यते /
महाशून्यताया अप्रादुर्भावे पदं न विद्यते / महाशून्यताया अनुपलम्भे पदं न विद्यते / परमार्थशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते / परमार्थशून्यताया अनिरोधे पदं न विद्यते / परमार्थशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते / परमार्थशून्यताया अनभिसंस्कारे पदं न विद्यते / परमार्थशून्यताया अप्रादुर्भावे पदं न विद्यते / परमार्थशून्यताया अनुपलम्भे पदं न विद्यते / संस्कृतशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते / संस्कृतशून्यताया अनिरोधे पदं न विद्यते / संस्कृतशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते / संस्कृतशून्यताया अनभिसंस्कारे पदं न विद्यते / संस्कृतशून्यताया अप्रादुर्भावे पदं न विद्यते / संस्कृतशून्यताया अनुपलम्भे पदं न विद्यते / असंस्कृतशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते / असंस्कृतशून्यताया अनिरोधे पदं न विद्यते / असंस्कृतशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते / असंस्कृतशून्यताया अनभिसंस्कारे पदं न विद्यते / असंस्कृतशून्यताया अप्रादुर्भावे पदं न विद्यते / असंस्कृतशून्यताया अनुपलम्भे पदं न विद्यते / अत्यन्तशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते / अत्यन्तशून्यताया अनिरोधे पदं न विद्यते / अत्यन्तशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते / अत्यन्तशून्यताया अनभिसंस्कारे पदं न विद्यते / अत्यन्तशून्यताया अप्रादुर्भावे पदं न विद्यते / अत्यन्तशून्यताया अनुपलम्भे पदं न विद्यते / अनवराग्रशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते / अनवराग्रशून्यताया अनिरोधे पदं न विद्यते / अनवराग्रशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते /
अनवराग्रशून्यताया अनभिसंस्कारे पदं न विद्यते / अनवराग्रशून्यताया अप्रादुर्भावे पदं न विद्यते / अनवराग्रशून्यताया अनुपलम्भे पदं न विद्यते / अनवकारशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते / अनवकारशून्यताया अनिरोधे पदं न विद्यते / अनवकारशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते / अनवकारशून्यताया अनभिसंस्कारे पदं न विद्यते / अनवकारशून्यताया अप्रादुर्भावे पदं न विद्यते / अनवकारशून्यताया अनुपलम्भे पदं न विद्यते / प्रकृतिशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते / प्रकृतिशून्यताया अनिरोधे पदं न विद्यते / प्रकृतिशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते / प्रकृतिशून्यताया अनभिसंस्कारे पदं न विद्यते / प्रकृतिशून्यताया अप्रादुर्भावे पदं न विद्यते / प्रकृतिशून्यताया अनुपलम्भे पदं न विद्यते / सर्वधर्मशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते / सर्वधर्मशून्यताया अनिरोधे पदं न विद्यते / सर्वधर्मशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते / सर्वधर्मशून्यताया अनभिसंस्कारे पदं न विद्यते / सर्वधर्मशून्यताया अप्रादुर्भावे पदं न विद्यते / सर्वधर्मशून्यताया अनुपलम्भे पदं न विद्यते / स्वलक्षणशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते / स्वलक्षणशून्यताया अनिरोधे पदं न विद्यते / स्वलक्षणशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते / स्वलक्षणशून्यताया अनभिसंस्कारे पदं न विद्यते / स्वलक्षणशून्यताया अप्रादुर्भावे पदं न विद्यते / स्वलक्षणशून्यताया अनुपलम्भे पदं न विद्यते / अनुपलम्भशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते /
अनुपलम्भशून्यताया अनिरोधे पदं न विद्यते / अनुपलम्भशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते / अनुपलम्भशून्यताया अनभिसंस्कारे पदं न विद्यते / अनुपलम्भशून्यताया अप्रादुर्भावे पदं न विद्यते / अनुपलम्भशून्यताया अनुपलम्भे पदं न विद्यते / अभावशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते / अभावशून्यताया अनिरोधे पदं न विद्यते / अभावशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते / अभावशून्यताया अनभिसंस्कारे पदं न विद्यते / अभावशून्यताया अप्रादुर्भावे पदं न विद्यते / अभावशून्यताया अनुपलम्भे पदं न विद्यते / स्वभावशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते / स्वभावशून्यताया अनिरोधे पदं न विद्यते / स्वभावशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते / स्वभावशून्यताया अनभिसंस्कारे पदं न विद्यते / स्वभावशून्यताया अप्रादुर्भावे पदं न विद्यते / स्वभावशून्यताया अनुपलम्भे पदं न विद्यते / अभावस्वभावशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते / अभावस्वभावशून्यताया अनिरोधे पदं न विद्यते / अभावस्वभावशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते / अभावस्वभावशून्यताया अनभिसंस्कारे पदं न विद्यते / अभावस्वभावशून्यताया अप्रादुर्भावे पदं न विद्यते / अभावस्वभावशून्यताया अनुपलम्भे पदं न विद्यते /
स्मृत्युपस्थानानां सुभूते ऽनुत्पादे पदं न विद्यते / स्मृत्युपस्थानानाम् अनिरोधे पदं न विद्यते / स्मृत्युपस्थानानाम् असंक्लेशाव्यवदाने पदं न विद्यते / स्मृत्युपस्थानानाम् अनभिसंस्कारे पदं न विद्यते / स्मृत्युपस्थानानाम् अप्रादुर्भावे पदं न विद्यते / स्मृत्युपस्थानानाम् अनुपलम्भे पदं न विद्यते / सम्यक्प्रहाणानां सुभूते ऽनुत्पादे पदं न विद्यते / सम्यक्प्रहाणानाम् अनिरोधे पदं न विद्यते / सम्यक्प्रहाणानाम् असंक्लेशाव्यवदाने पदं न विद्यते / सम्यक्प्रहाणानाम् अनभिसंस्कारे पदं न विद्यते / सम्यक्प्रहाणानाम् अप्रादुर्भावे पदं न विद्यते / सम्यक्प्रहाणाम् अनुपलम्भे पदं न विद्यते / ऋद्धिपादानां सुभूते ऽनुत्पादे पदं न विद्यते / ऋद्धिपादानाम् अनिरोधे पदं न विद्यते / ऋद्धिपादानाम् असंक्लेशाव्यवदाने पदं न विद्यते / ऋद्धिपादानाम् अनभिसंस्कारे पदं न विद्यते / ऋद्धिपादानाम् अप्रादुर्भावे पदं न विद्यते / ऋद्धिपादानाम् अनुपलम्भे पदं न विद्यते /
इन्द्रियाणां सुभूते ऽनुत्पादे पदं न विद्यते / इन्द्रियाणाम् अनिरोधे पदं न विद्यते / इन्द्रियाणाम् असंक्लेशाव्यवदाने पदं न विद्यते / इन्द्रियाणाम् अनभिसंस्कारे पदं न विद्यते / इन्द्रियाणाम् अप्रादुर्भावे पदं न विद्यते / इन्द्रियाणाम् अनुपलम्भे पदं न विद्यते / बलानां सुभूते ऽनुत्पादे पदं न विद्यते / बलानाम् अनिरोधे पदं न विद्यते / बलानाम् असंक्लेशाव्यवदाने पदं न विद्यते / बलानाम् अनभिसंस्कारे पदं न विद्यते / बलानाम् अप्रादुर्भावे पदं न विद्यते / बलानाम् अनुपलम्भे पदं न विद्यते / बोध्यङ्गानां सुभूते ऽनुत्पादे पदं न विद्यते / बोध्यङ्गानाम् अनिरोधे पदं न विद्यते / बोध्यङ्गानाम् असंक्लेशाव्यवदाने पदं न विद्यते / बोध्यङ्गानाम् अनभिसंस्कारे पदं न विद्यते / बोध्यङ्गानाम् अप्रादुर्भावे पदं न विद्यते / बोध्यङ्गानाम् अनुपलम्भे पदं न विद्यते / आर्याष्टाङ्गमार्गस्य सुभूते ऽनुत्पादे पदं न विद्यते / आर्याष्टाङ्गमार्गस्यानिरोधे पदं न विद्यते / आर्याष्टाङ्गमार्गस्यासंक्लेशाव्यवदाने पदं न विद्यते / आर्याष्टाङ्गमार्गस्यानभिसंस्कारे पदं न विद्यते / आर्याष्टाङ्गमार्गस्याप्रादुर्भावे पदं न विद्यते / आर्याष्टाङ्गमार्गस्यानुपलम्भे पदं न विद्यते / आर्यसत्यानां सुभूते ऽनुत्पादे पदं न विद्यते / आर्यसत्यानाम् अनिरोधे पदं न विद्यते / आर्यसत्यानाम् असंक्लेशाव्यवदाने पदं न विद्यते / आर्यसत्यानाम् अनभिसंस्कारे पदं न विद्यते / आर्यसत्यानाम् अप्रादुर्भावे पदं न विद्यते / आर्यसत्यानाम् अनुपलम्भे पदं न विद्यते / ध्यानानां सुभूते ऽनुत्पादे पदं न विद्यते / ध्यानानाम् अनिरोधे पदं न विद्यते /
ध्यानानाम् असंक्लेशाव्यवदाने पदं न विद्यते / ध्यानानाम् अनभिसंस्कारे पदं न विद्यते / ध्यानानाम् अप्रादुर्भावे पदं न विद्यते / ध्यानानाम् अनुपलम्भे पदं न विद्यते / अप्रमाणानां सुभूते ऽनुत्पादे पदं न विद्यते / अप्रमाणानाम् अनिरोधे पदं न विद्यते / अप्रमाणानाम् असंक्लेशाव्यवदाने पदं न विद्यते / अप्रमाणानाम् अनभिसंस्कारे पदं न विद्यते / अप्रमाणानाम् अप्रादुर्भावे पदं न विद्यते / अप्रमाणानाम् अनुपलम्भे पदं न विद्यते / आरूप्यसमापत्तीनां सुभूते ऽनुत्पादे पदं न विद्यते / आरूप्यसमापत्तीनाम् अनिरोधे पदं न विद्यते / आरूप्यसमापत्तीनाम् असंक्लेशाव्यवदाने पदं न विद्यते / आरूप्यसमापत्तीनाम् अनभिसंस्कारे पदं न विद्यते / आरूप्यसमापत्तीनाम् अप्रादुर्भावे पदं न विद्यते / आरूप्यसमापत्तीनाम् अनुपलम्भे पदं न विद्यते / विमोक्षाणां सुभूते ऽनुत्पादे पदं न विद्यते / विमोक्षाणाम् अनिरोधे पदं न विद्यते / विमोक्षाणाम् असंक्लेशाव्यवदाने पदं न विद्यते / विमोक्षाणाम् अनभिसंस्कारे पदं न विद्यते / विमोक्षाणाम् अप्रादुर्भावे पदं न विद्यते / विमोक्षाणाम् अनुपलम्भे पदं न विद्यते / अनुपूर्वविहारसमापत्तीनां सुभूते ऽनुत्पादे पदं न विद्यते / अनुपूर्वविहारसमापत्तीनाम् अनिरोधे पदं न विद्यते / अनुपूर्वविहारसमापत्तीनाम् असंक्लेशाव्यवदाने पदं न विद्यते / अनुपूर्वविहारसमापत्तीनाम् अनभिसंस्कारे पदं न विद्यते / अनुपूर्वविहारसमापत्तीनाम् अप्रादुर्भावे पदं न विद्यते / अनुपूर्वविहारसमापत्तीनाम् अनुपलम्भे पदं न विद्यते / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां सुभूते ऽनुत्पादे पदं न विद्यते /
शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनिरोधे पदं न विद्यते / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् असंक्लेशाव्यवदाने पदं न विद्यते / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनभिसंस्कारे पदं न विद्यते / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अप्रादुर्भावे पदं न विद्यते / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुपलम्भे पदं न विद्यते / अभिज्ञानां सुभूते ऽनुत्पादे पदं न विद्यते / अभिज्ञानाम् अनिरोधे पदं न विद्यते / अभिज्ञानाम् असंक्लेशाव्यवदाने पदं न विद्यते / अभिज्ञानाम् अनभिसंस्कारे पदं न विद्यते / अभिज्ञानाम् अप्रादुर्भावे पदं न विद्यते / अभिज्ञानाम् अनुपलम्भे पदं न विद्यते / समाधीनां सुभूते ऽनुत्पादे पदं न विद्यते / समाधीनाम् अनिरोधे पदं न विद्यते / समाधीनाम् असंक्लेशाव्यवदाने पदं न विद्यते / समाधीनाम् अनभिसंस्कारे पदं न विद्यते / समाधीनाम् अप्रादुर्भावे पदं न विद्यते / समाधीनाम् अनुपलम्भे पदं न विद्यते / धारणीमुखानां सुभूते ऽनुत्पादे पदं न विद्यते / धारणीमुखानाम् अनिरोधे पदं न विद्यते / धारणीमुखानाम् असंक्लेशाव्यवदाने पदं न विद्यते / धारणीमुखानाम् अनभिसंस्कारे पदं न विद्यते / धारणीमुखानाम् अप्रादुर्भावे पदं न विद्यते / धारणीमुखानाम् अनुपलम्भे पदं न विद्यते / तथागतबलानां सुभूते ऽनुत्पादे पदं न विद्यते / तथागतबलानाम् अनिरोधे पदं न विद्यते / तथागतबलानाम् असंक्लेशाव्यवदाने पदं न विद्यते / तथागतबलानाम् अनभिसंस्कारे पदं न विद्यते / तथागतबलानाम् अप्रादुर्भावे पदं न विद्यते / तथागतबलानाम् अनुपलम्भे पदं न विद्यते /
वैशारद्यानां सुभूते ऽनुत्पादे पदं न विद्यते / वैशारद्यानाम् अनिरोधे पदं न विद्यते / वैशारद्यानाम् असंक्लेशाव्यवदाने पदं न विद्यते / वैशारद्यानाम् अनभिसंस्कारे पदं न विद्यते / वैशारद्यानाम् अप्रादुर्भावे पदं न विद्यते / वैशारद्यानाम् अनुपलम्भे पदं न विद्यते / प्रतिसंविदां सुभूते ऽनुत्पादे पदं न विद्यते / प्रतिसंविदाम् अनिरोधे पदं न विद्यते / प्रतिसंविदाम् असंक्लेशाव्यवदाने पदं न विद्यते / प्रतिसंविदाम् अनभिसंस्कारे पदं न विद्यते / प्रतिसंविदाम् अप्रादुर्भावे पदं न विद्यते / प्रतिसंविदाम् अनुपलम्भे पदं न विद्यते / महामैत्र्याः सुभूते ऽनुत्पादे पदं न विद्यते / महामैत्र्या अनिरोधे पदं न विद्यते / महामैत्र्या असंक्लेशाव्यवदाने पदं न विद्यते / महामैत्र्या अनभिसंस्कारे पदं न विद्यते / महामैत्र्या अप्रादुर्भावे पदं न विद्यते / महामैत्र्या अनुपलम्भे पदं न विद्यते / महाकरुणायाः सुभूते ऽनुत्पादे पदं न विद्यते / महाकरुणाया अनिरोधे पदं न विद्यते / महाकरुणाया असंक्लेशाव्यवदाने पदं न विद्यते / महाकरुणाया अनभिसंस्कारे पदं न विद्यते / महाकरुणाया अप्रादुर्भावे पदं न विद्यते / महाकरुणाया अनुपलम्भे पदं न विद्यते / आवेणिकबुद्धधर्माणां सुभूते ऽनुत्पादे पदं न विद्यते / आवेणिकबुद्धधर्माणाम् अनिरोधे पदं न विद्यते / आवेणिकबुद्धधर्माणाम् असंक्लेशाव्यवदाने पदं न विद्यते / आवेणिकबुद्धधर्माणाम् अनभिसंस्कारे पदं न विद्यते / आवेणिकबुद्धधर्माणाम् अप्रादुर्भावे पदं न विद्यते / आवेणिकबुद्धधर्माणाम् अनुपलम्भे पदं न विद्यते /
तद्यथापि नाम सुभूते रूपस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / वेदनाया अत्यन्तविशुद्धौ मिमित्ते पदं न विद्यते / संज्ञाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / संस्काराणाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / विज्ञानस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वस्य पदार्थो न विद्यते /
तद्यथापि नाम सुभूते चक्षुषो ऽत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / श्रोत्रस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / घ्राणस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / जिह्वाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / कायस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / मनसो ऽत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते रूपस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / शब्दस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / गन्धस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / रसस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / स्पर्शस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / धर्माणाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते चक्षुर्विज्ञानस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / श्रोत्रविज्ञानस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / घ्राणविज्ञानस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / जिह्वाविज्ञानस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / कायविज्ञानस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / मनोविज्ञानस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते चक्षुःसंस्पर्शस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / श्रोत्रसंस्पर्शस्यात्यन्तविशुद्धौ पदं न विद्यते / घ्राणसंस्पर्शस्यात्यन्तविशुद्धौ पदं न विद्यते / जिह्वासंस्पर्शविज्ञानस्यात्यन्तविशुद्धौ पदं न विद्यते / कायसंस्पर्शविज्ञानस्यात्यन्तविशुद्धौ पदं न विद्यते / मनःसंस्पर्शस्यात्यन्तविशुद्धौ पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते चक्षुःसंस्पर्शप्रत्ययवेदनाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / श्रोत्रसंस्पर्शप्रत्ययवेदनाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / घ्राणसंस्पर्शप्रत्ययवेदनाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / जिह्वासंस्पर्शप्रत्ययवेदनाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / कायसंस्पर्शप्रत्ययवेदनाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / मनःसंस्पर्शप्रत्ययवेदनाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते पृथिवीधातोर् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / अब्धातोर् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / तेजोधातोर् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / वायुधातोर् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / आकाशधातोर् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / विज्ञानधातोर् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते अविद्याया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / संस्काराणाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / विज्ञानस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / नामरूपस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / षडायतनस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / स्पर्शस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / वेदनाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / तृष्णाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / उपादानस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / भवस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / जातेर् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / जारामरणस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते दानपारमिताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / शीलपारमिताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / क्षान्तिपारमिताया निमित्ते पदं न विद्यते / वीर्यपारमिताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / ध्यानपारमिताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / प्रज्ञापारमिताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते अध्यात्मशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / बहिर्धाशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / अध्यात्मबहिर्धाशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / शून्यताशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / महाशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / परमार्थशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / संस्कृतशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / असंस्कृतशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / अत्यन्तशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / अनवराग्रशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / अनवकारशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / प्रकृतिशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / सर्वधर्मशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / स्वलक्षणशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / अनुपलम्भशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / अभावशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / स्वभावशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / अभावस्वभावशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते स्मृत्युपस्थानानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / सम्यक्प्रहाणानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / ऋद्धिपदानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / इन्द्रियाणाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / बलानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / बोध्यङ्गानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / आर्याष्टाङ्गमार्गानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / बोध्यङ्गानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते आर्यसत्यानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / ध्यानानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / अप्रमाणानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / आरूप्यसमापत्तीनाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / विमोक्षाणाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / अनुपूर्वविहारसमापत्तीनाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / अभिज्ञानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / समाधीनाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / धारणीमुखानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते तथागतबलानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / वैशारद्यानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / प्रतिसंविदाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / महामैत्र्या अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / महाकरुणाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / आवेणिकबुद्धधर्माणाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते आत्मात्यन्तविशुद्धौ पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते सत्त्वात्यन्तविशुद्धौ पदं न विद्यते / सत्त्वासत्ताम् उपादाय / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते जीवात्यन्तविशुद्धौ पदं न विद्यते / जीवासत्ताम् उपादाय / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते पोषात्यन्तविशुद्धौ पदं न विद्यते / पोषासत्ताम् उपादाय / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते पुरुषात्यन्तविशुद्धौ पदं न विद्यते / पुरुषासत्ताम् उपादाय / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते पुद्गलात्यन्तविशुद्धौ पदं न विद्यते / पुद्गलासत्ताम् उपादाय / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते मनुजात्यन्तविशुद्धौ पदं न विद्यते / मनुजासत्ताम् उपादाय / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते मानवात्यन्तविशुद्धौ पदं न विद्यते / मानवासत्ताम् उपादाय /
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते करकात्यन्तविशुद्धौ पदं न विद्यते / करकासत्ताम् उपादाय / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते वेदकात्यन्तविशुद्धौ पदं न विद्यते / वेदकासत्ताम् उपादाय / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते जानकात्यन्तविशुद्धौ पदं न विद्यते / जानकासत्ताम् उपादाय / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते पश्यकात्यन्तविशुद्धौ पदं न विद्यते / पश्यकासत्ताम् उपादाय / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते सूर्यमण्डले ऽभ्युदागच्छति अन्धकारे पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते कन्योद्वाहे वर्तमाने सर्वसंस्कारगतानां पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य शीलदौःसीले पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य समाधौ विमोक्षे पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रज्ञायां दौष्प्रज्ञे पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य विमुक्तौ पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य विमुक्तिज्ञानदर्शने पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते सूर्यचन्द्रमसोः प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते ग्रहमणिरत्नविद्युज्ज्योतिषां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते चातुर्महाराजकायिकानां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते त्रयस्त्रिंशानां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते यामानां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तुषितानां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते निर्माणरतीनां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते परनिर्मितवशवर्तिनां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते ब्रह्मकायिकानां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते ब्रह्मपुरोहितानां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते ब्रह्मपार्षद्यानां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते महाब्रह्माणां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते आभानां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते परीत्ताभानां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते अप्रमाणां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते अभास्वराणां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते शुभानां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते परीत्तशुभानां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते ऽप्रमाणशुभानां देवानां प्रभायाः पदं न विद्यते /
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते शुभकृत्स्नानां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते बृहाणां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते परीत्तबृहाणां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते ऽप्रमाणबृहाणां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते बृहत्फालानां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते शुद्धावासकायिकानां देवानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतानाम् अर्हताम् सम्यक्संबुद्धानां प्रभायाः पदं न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तत् कस्य हेतोः तथा हि या च बोधिर् यश् च बोधिसत्त्वा यश् च बोधिसत्त्वापदार्थः सर्वत्र ते धर्मा न संयुक्ताः परिसंयुक्ताः अरूपिणो ऽनिदर्शना अप्रतिघात्वकलक्षणा / यद् उतालक्षणाः / सर्वधर्माणां सुभूते बोधिसत्त्वेन महासत्त्वेनासद्भूततायां शिक्षितव्यं / सर्वधर्माश् च बोधिसत्त्वेन महासत्त्वेनावबोद्धव्याः / आह / कतमे भगवन् सर्वधर्माः / कथं भगवन् बोधिसत्त्वेन महासत्त्वेनासद्भूततायां शिक्षितव्यं / कथञ् च बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा अवबोद्धव्याः / भगवान् आह / सर्वधर्माः सुभूते उच्यन्ते कुशलाश् चाकुशलाश् चाकृता व्याकृताश् च लौकिकाश् च लोकोत्तराश् च साश्रवाश् चानाश्रवाश् च / संस्कृताश् चासंस्कृताश् च सावद्याश् चानावद्याश् च / साधारणाश् चासाधारणाश् च / इमे सुभूते उच्यन्ते कुशला धर्माः / एषां बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणाम् असत्तायां शिक्षितव्यं / इमे सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा अवबोद्धव्याः /
आह कतमे भगवन् कुशला धर्मा लौकिकाः / भगवान् आह / कुशलाः सुभूते लौकिका धर्मा उच्यन्ते मातृज्ञता पितृज्ञता श्रामण्यता ब्राह्मण्यता कुलज्येष्ठानुपालिता / दानमयं पुण्यक्रियावस्तु शीलमयं पुण्यक्रियावस्तु, भावनामयं पुण्यक्रियावस्तु वैद्यावृत्तसहगतम् औषधिकं दशकुशलाः कर्मपथाः लौकिका नवसंज्ञाः / यद् उत व्याघतिकसंज्ञा, निरुत्तमकसंज्ञा, विपूतिकसंज्ञा / विलोहितकसंज्ञा, विलीनकसंज्ञा, विवादिकसंज्ञा, विक्षिप्तकसंज्ञा, अस्मिसंज्ञा, विदग्नकसंज्ञा, लौकिकानि चत्वारि ध्यानानि / चत्वार्य् अप्रमाणानि / चतस्र आरूप्यसमापत्तयः / पञ्चाभिज्ञाः लौकिका दशानुस्मृतयः / यद् उत बुद्धानुस्मृतिः, धर्मानुस्मृतिः, संघानुस्मृतिः, शिलानुस्मृतिः, त्यागानुस्मृतिः, आनापानानुस्मृतिः / कायगतानुस्मृतिः / उद्वेगानुस्मृतिः / मरणानुस्मृतिः / इमे उच्यते सुभूते कुशला लौकिका धर्माः / आह / कतमे भगवन्न् अकुशला लौकिका धर्माः / भगवान् आह / दशाकुशलाः कर्मपथाः / यद् उत प्राणातिपातः सुभूते ऽकुशलो लौकिको धर्मः / अदत्तादानं सुभूते ऽकुशलो लौकिको धर्मः / काममिथ्यावादः सुभूते ऽकुशलो लौकिको धर्मः / मृषावादः सुभूते ऽकुशलो लौकिको धर्मः / पारुष्यं सुभूते ऽकुशलो लौकिको धर्मः / अभिध्या सुभूते ऽकुशलो लौकिको धर्मः / व्यापादं सुभूते ऽकुशलो लौकिको धर्मः / मिथ्यादृष्टिः सुभूते ऽकुशलो लौकिको धर्मः / क्रोध उपनाहो प्रद्यः प्रदोशो विहिंसा ईर्ष्या मात्सर्यं मदो मिथ्यामानः / इमे उच्यन्ते सुभूते ऽकुशला लौकिका धर्माः / आह कतमे भगवन्न् अव्याकृता धर्माः / भगवान् आह / अव्याकृतं कायकर्म, अव्याकृतं वाक्कर्म /
अव्याकृतं मनस्कर्म / अव्याकृतानि चत्वारि महाभूतानि / अव्याकृतानि पञ्चेन्द्रियाणि / अव्याकृतं षडायतनं / अव्याकृताश् चतस्र आरूप्यसमापत्तयः / अव्याकृताः स्कन्धाः / अव्याकृता धातवः / अव्याकृतान्य् आयतनानि / अव्याकृतः सर्वो विपाकः / इमे उच्यन्ते अव्याकृता धर्माः / आह / कतमे भगवन् लौकिका धर्माः / भगवान् आह / लौकिका धर्माः सुभूते उच्यन्ते / पञ्च स्कन्धा द्वादशायतनानि / अष्टादश धातवः / दश कुशलाः कर्मपथाः / चत्वारि ध्यानानि / चत्वार्य् अप्रमाणानि / चतस्र आरूप्यसमापत्तयः / पञ्चाभिज्ञाः / लोकोत्तराश् च धर्मान् स्थापयित्वा ये तदन्ये धर्माः / इमे उच्यन्ते लौकिका धर्माः / आह / कतमे भगवन् लोकोत्तरा धर्माः / भगवान् आह / लोकोत्तरा धर्माः सुभूते उच्यन्ते चत्वारि स्मृत्युपस्थानानि / चत्वार्य् अप्रमाणानि / चत्वार ऋद्धिपादाः / पञ्चेन्द्रियाणि / पञ्च रसानि सप्त बोध्यङ्गानि / आर्याष्टाङ्गो मार्गः / शून्यतविमोक्षमुखत्वानिमित्तविमोक्षमुखम् अप्रणिहितविमोक्षमुखं / अनाज्ञातमाज्ञास्यामीतीन्द्रियं / आज्ञेन्द्रियं / आज्ञातावीन्द्रियं / सविचारः समाधिः / सवितर्कः सविचारः समाधिः / अवितर्को ऽविचारः समाधिः / विद्याविमुक्तिसंप्रजन्यं योनिशोमनसिकारः / अष्टौ विमोक्षाः / कतमे ऽष्टौ रूपी रूपाणि पश्यत्य् अयं प्रथमो विमोक्षः / अध्यात्मरूपं संज्ञी बहिर्धारूपाणि पश्यत्य् अयं द्वितीयो विमोक्षः / शुभत्वचाविमुक्तो भवत्य् अयं तृतीयो विमोक्षः / स सर्वशो रूपसंज्ञानां समतिक्रमान् प्रतिपद्यसंज्ञानाम् अन्तंगमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरत्य् अयं चतुर्थो विमोक्षः /
स सर्वश आकाशानन्त्यायनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरतीत्य् अयं पञ्चमो विमोक्षः / स सर्वशो विज्ञानानन्त्यायतनसमभिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरतीत्य् अयं षष्ठो विमोक्षः / स सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरतीत्य् अयं सप्तमो विमोक्षः / स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितन् निरोधम् उपसंपद्य विहरतीत्य् अयम् अष्टमो विमोक्षः / इमे ऽष्टौ विमोक्षाः /
नवानुपूर्वविहारसमापत्तयः / कतमा नव / स विविक्तं कामैः विविक्तं पापकैर् अकुशलैर् धर्मैः / स वितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति / स वितर्कसविचाराणां व्युत्पशमाद् अध्यात्मसंप्रमादाश् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति / स प्रीतेर् विरागाद् उपेक्षको विहरति / स्मृतिमान् संप्रजानः सुखञ् च कायेन प्रतिसंवेदयति / यत् तदार्या आचक्षते / उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति / स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव च सौमनस्य दौर्मनस्यानाम् अस्तङ्गमाद् अदुःखासुखम् उपेक्षा स्मृतिपरिशुद्धिश् चतुर्थं ध्यानम् उपसंपद्य विहरति / स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिपद्य संज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् मनसिकाराद् अनन्ताकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति / स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति / स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति / स सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति / स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरति / एता नवानुपूर्वविहार समापत्तयः /
अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावशून्यता स्वभावशून्यता अभावस्वभावशून्यता / दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः इमे उच्यन्ते लोकोत्तराः धर्माः /
भगवान् आह / साश्रवा धर्मा इति सुभूते यद् उत पञ्च स्कन्धाः द्वादशायतनानि / अष्टादश धातवः / चत्वारि ध्यानानि / चत्वार्य् अप्रमाणानि / चतस्र आरूप्यसमापत्तयः / पञ्चाभिज्ञाः / इमे उच्यन्ते साश्रवा धर्माः / भगवान् आह / चत्वारि स्मृत्युपस्थानानि / चत्वारि सम्यक्प्रहाणानि / चत्वार ऋद्धिपादाः / पञ्चेन्द्रियाणि / पञ्च रसानि / सप्त बोध्यङ्गानि / आर्याष्टाङ्गमार्गः / चत्वार्य् आर्यसत्यानि / चत्वारि ध्यानानि / अष्टौ विमोक्षाः / नवानुपूर्वविहारसमापत्तयः / शून्यतानिमित्ताप्रणिहितविमोक्षमुखामि / दश तथागतबलानि / चत्वारि वैशारद्यामि / चतस्रः प्रतिसंविदः / महामैत्री / महाकरुणा / अष्टादशावेणिका बुद्धधर्माः / इमे उच्यन्ते अनाश्रवा धर्माः / आह / कतमे भगवन् संस्कृता धर्माः / भगवान् आह / संस्कृता धर्माः सुभूते उच्यन्ते कामधातू रूपधातुर् आरूप्यधातुः / ये ऽपि तद् अन्ये केचित् संस्कृतधातुपर्यापन्ना धर्माः / यान्य् अपि चत्वारि स्मृत्यपस्थानानि / चत्वारि सम्यक्प्रहाणानि / चत्वार ऋद्धिपादा / पञ्चेन्द्रियाणि / पञ्च बलानि / सप्त बोध्यङ्गानि / आर्याष्टाङ्गमार्गः / चत्वार्य् आर्यसत्यानि / चत्वारि ध्यानानि / चत्वार्य् अप्रमाणानि / चतस्र आरूप्यसमापत्तयः / अष्टौ विमोक्षाः / नवानुपूर्वविहारसमापत्तयः / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि / पञ्चाभिज्ञाः / षट्पारमिताः / सर्वशून्यताः / सर्वसमाधयः / सर्वधारणीमुखानि / दश तथागतबालानि / चत्वारि वैशारद्यानि / चतस्रः प्रतिसंविदः / महामैत्री / महाकरुणा / अष्टादशावेणिका बुद्धधर्मा / इमे उच्यन्ते संस्कृता धर्माः /
आह / कतमे भगवन्न् असंस्कृता धर्माः / भगवान् आह / असंस्कृता धर्मा उच्यन्ते / यस्य नोत्पादो न व्याया न स्थितेर् अन्यथात्वं रागक्षयो द्वेषक्षयो मोहक्षयः / तथता वितथतानन्यतथता धर्मता / धर्मधातुः / धर्मस्थितिता / धर्मनियामता / अचिन्त्यधातुर् भूतकोटिर् अयम् उच्यते ऽसंस्कृतो धर्मः / आह / कतमे भगवन् साधारणा धर्माः / भगवान् आह / चत्वार्य् अप्रमाणानि / चतस्र आरूप्यसमापत्तयः / पञ्चाभिज्ञाः / इमे उच्यन्ते साधारणा धर्माः पृथग्जनैः /
आह / कतमे भगवन्न् असाधारणाः / भगवान् आह / चत्वारि स्मृत्युपस्थानानि / चत्वारि सम्यक्प्रहाणानि / चत्वार ऋद्धिपादाः / पञ्चेन्द्रियाणि / पञ्च बलानि / सप्त बोध्यङ्गानि / आर्याष्टाङ्गो मार्गः / चत्वार्य् आर्यसत्यानि / अष्टौ विमोक्षाः / नवानुपूर्वविहारसमापत्तयः / शून्यता अनिमित्तम् अप्रणिहितं सर्वसमाधयः / सर्वधारणीमुखानि / दश तथागतबलानि / चत्वारि वैशारद्यानि / चतस्रः प्रतिसंविदः / महामैत्री / महाकरुणा / अष्टादशावेणिका बुद्धधर्माः / इमे उच्यन्ते असाधारणा धर्माः /
तत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरता स्वलक्षणशून्यतानुसर्वधर्मेषु न सज्जितव्यम् अकल्पनतया सर्वधर्माणाम् अद्वययोगेन सर्वधर्मा अवबोद्धव्याः / अकल्पनाविकल्पनाताम् उपादाय / अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् / यत् पुनर् इदं भगवन्न् उच्यते बोधिसत्त्वो महासत्त्व इति केन कारणेन भगवन् बोधिसत्त्वो महासत्त्व इत्य् उच्यते / भगवान् आह / महतः सुभूते सत्त्वराशेर् नियतस्याग्रतां कारयिष्यति तेनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते / आह / कर्तश भगवन् महासत्त्वराशिनियतः / यस्य बोधिसत्त्वो महासत्त्वो ऽश्रुतां कारयिष्यते / भगवान् आह / महासत्त्वराशिर् इति सुभूते गोत्रभूर् अष्टमकः श्रोतआपन्नः सकृदागाम्य् अर्हन् प्रत्येकबुद्धः प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्वो यावद् अवैवर्त्यभूमिस्थितो बोधिसत्त्वो महासत्त्वो ऽयम् उच्यते सुभूते महासत्त्वराशिनियतः / यस्य बोधिसत्त्वो महासत्त्वो ऽश्रुतां कारयिष्यति / यत्र बोधिसत्त्वेन महासत्त्वेन वज्रोपमचित्तम् उत्पाद्य महतः सत्त्वराशेर् नियतस्याश्रुतां कारयितव्या / आह / कतमो भगवन् वज्रोपमश् चित्तोत्पादः / भगवान् आह / इह सुभूते बोधिसत्त्वो महासत्त्वो एवं चित्तम् उत्पादय / अपरिमिते मया संसारे सन्नाहः संबद्धव्यः / सर्वसत्त्वानां कृते सर्वस्वत्यापिना मया भवितव्यं / सर्वसत्त्वानाम् अन्तिके मया समचित्तम् उत्पादयितव्यं / सर्वसत्त्वा मया त्रिभिर् यानैः परिनिर्वापयितव्याः / सर्वसत्त्वान् अपि परिनिर्वाप्य न कश्चित् सत्त्वः परिनिर्वापितो भवत्य् अनुत्पादो निरोधो मया सर्वधर्माणाम् अववोद्धव्यः / अव्यकीर्णेन मया सर्वाकारज्ञता चित्तेन षट्पारमितासु चरितव्यं / सर्वत्रानुगतायां धर्मप्रतिवेधनिष्पत्त्यां मया शिक्षितव्यं / एकनियतनिर्हारो मया धर्माणां प्रतिबोद्धव्यः / यावद् अपरिमितनिर्हारप्रतिबोधाय मया धर्माणां शिक्षितव्यं / अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमश् चित्तोत्पादः / यत्र स्थित्वा बोधिसत्त्वो महासत्त्वो महतः सत्वराशेर् नियतस्याश्रुतां कारयिष्यति / तच् चानुपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः एकचित्तम् उत्पादयति / यावन्तः सत्त्वा नैरयिका वा तैर्यग्योनिका वा यामलौकिका वा दुःखवेदनां वेदयन्ति / तेषाम् अर्थायाहं तां दुःखवेदनां वेदयेयं / तत्र बोधिसत्त्वेन महासत्त्वेनात्तर्यवं चित्तम् उत्पादयितव्यं / एकैकस्याहं सत्त्वस्य कृते कल्पकोटीनियुतशतसहस्राणि त्तन् नैरयिकदुःखम् अनुभवेयं / यावन् न सत्त्वो ऽनुपरिशेषनिर्वाणधातौ परिनिर्वापितो भवेत् / एवम् एवोपायेन सर्वसत्त्वानां कृते तन् निरयिकं दुःखम् अनुभवेयं / यावन् न सर्वसत्त्वा अनुपविशेषे मिर्वाणधातौ परिनिर्वापयिता भवेयुः / पश्चाद् अहम् आत्मनः कृते कुशलमूलान्य् अवरोप्य कल्पकोटीनियुतशतसहस्रैर् अनेकान् बोधिसंस्कारान् संभृत्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयं / अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमश् चित्तोत्पादः / यत्र स्थित्वा बोधिसत्त्वो महासत्त्वो महतः सत्त्वराशेर् नियतस्याग्रतां कारयिष्यति / तच् चानुपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन सततसमितम् उदारचित्तेन भवितव्यं / येनोदारचित्तेन सर्वसत्त्वानाम् अग्र्यतां कारयिष्यति / तत्रेयं बोधिसत्त्वस्य महासत्त्वस्योदारचित्तता / यत् पूर्वम् अचित्तोत्पादाय / न रागचित्तम् उत्पादयति / न द्वेषचित्तम् उत्पादयति / न मोहचित्तम् उत्पादयति / न विहिंसाचित्तम् उत्पादयति / न हिंसाचित्तम् उत्पादयति / न श्रावकचित्तम् उत्पाद्यति / न प्रत्येकबुद्धचित्तम् उत्पादयति / इयं बोधिसत्त्वस्य महासत्त्वस्योदारचित्तता / यया सर्वसत्त्वानाम् अग्र्यतां कारयितव्या / तया चोदारचित्ततया न मन्तव्यं /
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेनाप्रकम्प्यचितेन भवितव्य / तत्रेयं बोधिसत्त्वस्य महासत्त्वस्याप्रकम्प्यचित्तता / यो ऽयं सर्वाकारज्ञताप्रतिसंयुक्तमनसिकारस् तेन चामनता / इयं बोधिसत्त्वस्य महासत्त्वस्याप्रकम्प्यचित्तता / यया सर्वसत्त्वानाम् अग्र्यतां कारयिष्यति / तच् चानुपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानाम् अन्तिके हितसुखचित्ततोत्पादयितव्या / तत्रेयं बोधिसत्त्वस्य महासत्त्वस्य हितसुखचित्तता / या सर्वसत्त्वानां त्राणता सर्वसत्त्वानां परित्यागिता तया चामनता / इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य हितसुखचित्तता यया सर्वसत्त्वानाम् अग्र्यतां कारयिष्यति / तच् चानुपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन सततसमितधर्मकामेन भवितव्यं / धर्मरतेन धर्मरामेण धर्मरामतायोगानुयुक्तेन भवितव्यं / तत्र कतमो धर्मो यः सर्वधर्माणाम् असकम्भदः / अयम् उच्यते धर्मः / तत्र कतमा धर्मकामता या धर्मेच्छाभिलाषः / इयम् उच्यते धर्मकामता / तत्र कतमा धर्मरतिः / यात्र धर्मे रतिर् अभिरतिर् अयम् उच्यते धर्मरतिः / तत्र कतमा धर्मारामता यद् धर्मगुणानुशंसादर्शनम् इयम् उच्यते धर्मारामता / तत्र कतमा धर्मारामतायोगम् अनुयुक्तता / यस्यैव धर्मस्य भावनता बहुलीकरणता इयम् उच्यते धर्मारामतायोगम् अनुयुक्तता / एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरता महतः सत्त्वराशेर् अग्र्यता कारयितव्या / तच् चानुपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरताध्यात्मशून्यतायां स्थित्वा बहिर्धाशून्यतायां स्थित्वा अध्यात्मबहिर्धाशून्यतायां स्थित्वा शून्यताशून्यतायां स्थित्वा महाशून्यतायां स्थित्वा परमार्थशून्यतायां स्थित्वा संस्कृतशून्यतायां स्थित्वा असंस्कृतशून्यतायां स्थित्वा अत्यन्तशून्यतायां स्थित्वा अनवराग्रशून्यतायां स्थित्वा अनवकारशून्यतायां स्थित्वा प्रकृतिशून्यतायां स्थित्वा सर्वधर्मशून्यतायां स्थित्वा स्वलक्षणशून्यतायां स्थित्वा अनुपलम्भशून्यतायां स्थित्वा अभावशून्यतायां स्थित्वा स्वभावशून्यतायां स्थित्वा अभावस्वभावशून्यतायां स्थित्वा महतः सत्त्वराशेर् नियतस्याग्र्यता कारयितव्या /
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरता स्मृत्युपस्थानेषु स्थित्वा सम्यक्प्रहाणेषु स्थित्वा ऋद्धिपादेषु स्थित्वा इन्द्रियेषु स्थित्वा बलेषु स्थित्वा बोध्यङ्गेषु स्थित्वा आर्याष्टाङ्गमार्गे स्थित्वा अन्यसत्येषु स्थित्वा ध्यानेषु स्थित्वा अप्रमाणेषु स्थित्वा आरूप्यसमापत्तिषु स्थित्वा विमोक्षेषु स्थित्वा अनुपूर्वविहारसमापत्तिषु स्थित्वा शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु स्थित्वा समाधिषु स्थित्वा धारणीमुखेषु स्थित्वा तथागतबलेषु स्थित्वा वैशारद्येषु स्थित्वा प्रतिसंवित्सु स्थित्वा महामैत्र्यां स्थित्वा महाकरुणायां स्थित्वा अष्टादशावेणिकबुद्धधर्मेषु स्थित्वा महतः सत्त्वराशेर् नियतस्याग्र्यता कारयितव्या / तच् चानुपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरता शूरङ्गमसमाधौ स्थित्वा रत्नमुद्रायां समाधौ स्थित्वा सिंहविक्रीडिते समाधौ स्थित्वा सुचन्द्रसमाधौ स्थित्वा चन्द्रध्वजसमाधौ स्थित्वा सर्वधर्मोद्गते समाधौ स्थित्वा सर्वधर्ममुद्रायां समाधौ स्थित्वा विलोकितमूर्ध्नि समाधौ स्थित्वा धर्मधातुनियते समाधौ स्थित्वा नियतध्वजकेतौ समाधौ स्थित्वा वज्रोपमे समाधौ स्थित्वा सर्वधर्मप्रवेशमुद्रायां समाधौ स्थित्वा समाधिराजसुप्रतिष्ठिते समाधौ स्थित्वा बलव्यूहसमाधौ स्थित्वा समुद्गते समाधौ स्थित्वा निरुक्तिनियतप्रवेशे समाधौ स्थित्वा अधिवचनसंप्रवेशे समाधौ स्थित्वा दिग्विलोकिते समाधौ स्थित्वा आधारमुद्रायां समाधौ स्थित्वा असंप्रमोषे समाधौ स्थित्वा सर्वधर्मसमवसरणसागरमुद्रायां समाधौ स्थित्वा आकाशस्फुरणे समाधौ स्थित्वा वज्रमण्डले समाधौ स्थित्वा ध्वजाग्रकेयूरे समाधौ स्थित्वा इन्द्रकेतुसमाधौ स्थित्वा श्रोतोऽनुगते समाधौ स्थित्वा सिंहविक्रीडिते समाधौ स्थित्वा व्यक्त्यन्ते समाधौ स्थित्वा रणंजहे समाधौ स्थित्वा वैरोचने समाधौ स्थित्वा अनिमेषसमाधौ स्थित्वा अनिकेतस्थिते समाधौ स्थित्वा निश्चेते समाधौ स्थित्वा विमलप्रदीपे समाधौ स्थित्वा अनन्तप्रभे समाधौ स्थित्वा प्रभाकरे समाधौ स्थित्वा समन्तावभासे समाधौ स्थित्वा शुद्धावभासे समाधौ स्थित्वा विमलप्रभे समाधौ स्थित्वा रतिकरे समाधौ स्थित्वा विद्युत्प्रदीपे समाधौ स्थित्वा अक्षये समाधौ स्थित्वा अजये समाधौ स्थित्वा तेजोरत्यां समाधौ स्थित्वा क्षयाद्यगतसमाधौ स्थित्वा अनिन्द्ये समाधौ स्थित्वा विवर्णे
समाधौ स्थित्वा सूर्यप्रदीपे समाधौ स्थित्वा चन्द्रविमले समाधौ स्थित्वा प्रज्ञाप्रदीपे समाधौ स्थित्वा शुद्धाप्रतिभासे समाधौ स्थित्वा आलोककरे समाधौ स्थित्वा काराकारे समाधौ स्थित्वा ज्ञानकेतुसमाधौ स्थित्वा वज्रोपमे समाधौ स्थित्वा चित्तस्थितिसमाधौ स्थित्वा समन्तालोके समाधौ स्थित्वा सुप्रतिष्ठिते समाधौ स्थित्वा रत्नकोटिसमाधौ स्थित्वा वरधर्ममुद्रायां समाधौ स्थित्वा सर्वधर्मसभायां समाधौ स्थित्वा रतिञ्जहेसमाधौ स्थित्वा धर्मोद्गते समाधौ स्थित्वा विकिरणे समाधौ स्थित्वा सर्वर्धर्मपदप्रभेदे समाधौ स्थित्वा समाक्षरावकारे समाधौ स्थित्वा अक्षरापगते समाधौ स्थित्वा आवरणच्छेदने समाधौ स्थित्वा अविकारे समाधौ स्थित्वा अप्रकारे समाधौ स्थित्वा नामनियतप्रवेशे समाधौ स्थित्वा अनिकेतचारिणि समाधौ स्थित्वा तिमिरापगते समाधौ स्थित्वा चारित्रवतिसमाधौ स्थित्वा अवले समाधौ स्थित्वा विषयतीर्णे समाधौ स्थित्वा सर्वगुणसञ्चयगते समाधौ स्थित्वा स्थितनिश्चित्तसमाधौ स्थित्वा शुभपुष्पितशुद्धिसमाधौ स्थित्वा बोध्यङ्गवत्यां स्थित्वा अनन्तप्रतिभाने समाधौ स्थित्वा असमसमसमाधौ स्थित्वा सर्वधर्मातिक्रमणे समाधौ स्थित्वा परिच्छेदकरे समाधौ स्थित्वा विमतिविकरणे समाधौ स्थित्वा निरधिक्षे समाधौ स्थित्वा एकव्यूहे समाधौ स्थित्वा आकाराभिनिर्हारे समाधौ स्थित्वा एकाकारे समाधौ स्थित्वा आकारानवकारे समाधौ स्थित्वा नैर्व्येधिसर्वभववलापगते समाधौ स्थित्वा सङ्केतरुतप्रवेशे समाधौ स्थित्वा गीर्घोषाक्षरे समाधौ स्थित्वा ज्वलनोल्कासमाधौ स्थित्वा लक्षणपरिशोधने समाधौ स्थित्वा
अनभिलक्षिते समाधौ स्थित्वा सर्वाकारवरोपेते समाधौ स्थित्वा सर्वसुखदुःखनिरभिनन्दिसमाधौ स्थित्वा अक्षकरण्डे समाधौ स्थित्वा धारणीमतिसमाधौ स्थित्वा सम्यक्त्वमिथ्यात्वसंग्रसनसमाधौ स्थित्वा सर्वरोषनिरोधसंप्रशमनसमाधौ स्थित्वा अनुरोधाप्रतिरोधे समाधौ स्थित्वा सारवतिसमाधौ स्थित्वा परिपूर्णचन्द्रविमलप्रभे समाधौ स्थित्वा विद्युत्प्रभे समाधौ स्थित्वा महाव्यूहसमाधौ स्थित्वा सर्वाकारप्रभाकारसमाधौ स्थित्वा समाधिसमतासमाधौ स्थित्वा अरजोविरजोनययुक्तौ समाधौ स्थित्वा अरणसर्वसमरसरणे समाधौ स्थित्वा अनिलम्भनिकेतनिरते समाधौ स्थित्वा तथतास्थितनिश्चिन्ते समाधौ स्थित्वा कायकलिसंप्रमथनसमाधौ स्थित्वा वाक्कलिविध्वंसनगगणकल्पे समाधौ स्थित्वा आकाशासङ्गविमुक्तिनिरुपलेपसमाधौ स्थित्वा महतः सत्त्वराशेर् नियतस्याग्र्यतां कारयितव्या /
तच् चानुपलम्भयोगेन /
इह सुभूते धर्मेषु स्थित्वा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् महतः सत्त्वराशेर् नियतस्याग्र्यतां कारयिष्यति / तेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
