Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता, Part इ
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणं परमार्थशून्यम् इति मनसिकरोति / ताञ् च परमार्थशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणं संस्कृतशून्यम् इति मनसिकरोति / ताञ् च संस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणम् असंस्कृतशून्यम् इति मनसिकरोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणम् अत्यन्तशून्यम् इति मनसिकरोति / ताञ् चात्यन्तशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणम् अनवराग्रशून्यम् इति मनसिकरोति / ताञ् चानवराग्रशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणम् अनवकारशून्यम् इति मनसिकरोति / ताञ् चानवकारशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणं प्रकृतिशून्यम् इति मनसिकरोति / ताञ् च प्रकृतिशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणं सर्वधर्मशून्यम् इति मनसिकरोति / ताञ् च सर्वधर्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणं स्वलक्षणशून्यम् इति मनसिकरोति / ताञ् च स्वलक्षणशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणम् अनुपलम्भशून्यम् इति मनसिकरोति / ताञ् चानुपलम्भशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणम् अभावशून्यम् इति मनसिकरोति / ताञ् चाभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणं स्वभावशून्यम् इति मनसिकरोति / ताञ् च स्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणम् अभावश्वभावशून्यम् इति मनसिकरोति / ताञ् चाभावश्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्मृत्युपस्थानानि भावयति / तानि च स्मृत्युपस्थानान्य् उपलभते / तैश् च स्मृत्युपस्थानैर् मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः सम्यक्प्रहाणानि भावयति / तानि च सम्यक्प्रहाणान्य् उपलभते / तैश् च सम्यक्प्रहाणैर् मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः ऋद्धिपादान् भावयति / तानि च ऋद्धिपादान् उपलभते / तैश् च ऋद्धिपादैर् मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः इन्द्रियाणि भावयति / तानि चेन्द्रियाण्य् उपलभते / तैश् चेन्द्रियाणैर् मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो बलानि भावयति / तानि च बलान्य् उपलभते / तैश् च बलैर् मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो बोध्यङ्गानि भावयति / तानि च बोध्यङ्गान्य् उपलभते / तैश् च बोध्यङ्गैर् मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार आर्याष्टाङ्गमार्गं भावयति / ताञ् च आर्याष्टाङ्गमार्गं उपलभते / तेन च आर्याष्टाङ्गमार्गेन मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार आर्यसत्यानि भावयति / तानि चार्यसत्यान्य् उपलभते / तैश् च आर्यसत्यैर् मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ध्यानानि भावयति / तानि च ध्यानान्य् उपलभते / तैश् च ध्यानैर् मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽप्रमाणानि भावयति / तानि चाप्रमाण्य् उपलभते / तैश् चाप्रमाणैर् मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार आरूप्यसमापत्तीर् भावयति / ताञ् चारूप्यसमापत्तीर् उपलभते / ताभिश् चारूप्यसमापत्तिभिर् मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विमोक्षान् भावयति / ताञ् च विमोक्षान् उपलभते / तैश् च विमोक्षैर् मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार् ऽनुपूर्वविहारसमापत्तीर् भावयति / ताञ् चानुपूर्वविहारसमापत्तीर् उपलभते / ताभिश् चानुपूर्वविहारसमापत्तिभिर् मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयति / तानि च शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् उपलभते / तैश् च शून्यतानिमित्ताप्रणिहितविमोक्षमुखैर् मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽभिज्ञाः भावयति / ताश् चाभिज्ञा उपलभते / ताभिश् चाभिज्ञाभिर् मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः समाधीन् भावयति / तांश् च समाधीन् उपलभते / तैश् च समाधिर् मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो धारणीमुखानि भावयति / तानि च धारणीमुखान्य् उपलभते / तैश् च धारणीमुखैर् मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तथागतबलानि भावयति / तानि च तथागतबलान्य् उपलभते / तैश् च तथागतबलैर् मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वैशारद्यानि भावयति / तानि च वैशारद्यान्य् उपलभते / तैश् च वैशारद्यैर् मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः प्रतिसंविदो भावयति / ताश् च प्रतिसंविद उपलभते / ताभिश् च प्रतिसंविद्भिर् मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो महाकरुणां भावयति / ताञ् च महाकरुणाम् उपलभते / ताय च महाकरुणाय मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार आवेणिकबुद्धधर्मान् भावयति / तांश् च बुद्धधर्मान् उपलभते / तैश् च बुद्धधर्मैर् मन्यते उपलम्भयोगेन /
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् उपायकुशल इमं प्रज्ञापारमितानिर्देशात् श्रुत्वोत्त्रस्यति सन्त्रस्यति सन्त्रासम् आपद्यते / आह / कथं भगवन् बोधिसत्त्वो महासत्त्वः पापमित्रहस्तगतो भवति / येन पापमित्रेण परिगृहीत इमं प्रज्ञापारमितानिर्देशं श्रुत्वोत्त्रस्यति सन्त्रस्यति सन्त्रासम् आपद्यते / भगवान् आह / इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं यः प्रज्ञापारमितायां चरन्तं विरेचयति विछन्दयति / ध्यानपारमितायाञ् चरन्तं विरेचयति विछन्दयति / वीर्यपारमितायां चरन्तं विरेचयति विछन्दयति / क्षान्तिपारमितायां चरन्तं विरेचयति विछन्दयति / शीलपारमितायाञ् चरन्तं विरेचयति विछन्दयति / दानपारमितायाञ् चरन्तं विरेचयति विछन्दयति / नात्र शिक्षितव्यं / नैतत् तथागतभाषितं नैष धर्मो न विनयः / कुवितर्का एते सूत्रान्ताः नैते श्रोतव्याः नोद्ग्रहीतव्याः न धारयितव्याः न वाचयितव्याः न पर्यवाप्तव्याः / न योनिशो मनसि कर्तव्याः नैते परेभ्यो देशयितव्याः / इत्य् अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम् /
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं यो ऽस्मै न मारकर्माण्य् उपदिशति / न मारदोषान् आचष्टे इति / मारः पापीयान् बुद्धवेषेनोपसंक्रम्य बोधिसत्त्वं महासत्त्वं षड्भ्यः पारमिताभ्यो विरेचयति विछन्दयति / किन् ते कुलपुत्र प्रज्ञापारमितया भाषितया / किन् ते ध्यानपारमितया भाषितया / किन् ते वीर्यपारमितया भाषितया / किन् ते क्षान्तिपारमितया भाषितया / किन् ते शीलपारमितया भाषिताया / किन् ते दानपारमितया भाषितया / इत्य् एवं बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम् /
पुनर् अपरं सुभूते मारः पापीयान् बुद्धरूपेण बोधिसत्त्वं महासत्त्वम् उपसंक्रम्य श्रावकप्रतिसंयुक्तसूत्रं गेयं व्याकरणं गाथोदाननिदानेत्युक्तकजातकवैपुल्याद्भुतधर्मावदानोपदेशं देशयति / विवृणोति विभजते उत्तानीकरोति संप्रकाशयति / य इमान्य् एवंरूपाणि मारकर्माणि नाचष्टे न बोधयत्य् अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम् /
पुनर् अपरं सुभूते मारः पापीयान् बुद्धवेषेण बोधिसत्त्वं महासत्त्वम् उपसंक्रम्यैवं वदति / न ते किञ्चित् कुलपुत्र बोधिचित्तं नापि त्वम् अवैवर्तिको न त्वं शक्यस्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम् / य इमान्य् एवंरूपाणि मारकर्माणि नाचष्टे न बोधयति / अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं बोधितव्यम् /
पुनर् अपरं सुभूते मारः पापीयान् बुद्धवेषेण बोधिसत्त्वं महासत्त्वम् उपसंक्रम्यैवं वदति / चक्षुः कुलपुत्र शून्यम् आत्मनात्मीयेन वा / श्रोत्रं शून्यम् आत्मनात्मीयेन वा / घ्राणां शून्यम् आत्मनात्मीयेन वा / जिह्वा शून्यात्मनात्मीयेन वा / कायः शून्य आत्मनात्मीयेन वा / मनः शून्यम् आत्मनात्मीयेन वा / रूपं शून्यम् आत्मनात्मीयेन वा / शब्दः शून्य आत्मनात्मीयेन वा / गन्धः शून्य आत्मनात्मीयेन वा / रसः शून्य आत्मनात्मीयेन वा / स्पर्शः शून्य आत्मनात्मीयेन वा / धर्मः शून्य आत्मनात्मीयेन वा / चक्षुर्विज्ञानं शून्यम् आत्मनात्मीयेन वा / श्रोत्रविज्ञानं शून्यम् आत्मनात्मीयेन वा / घ्राणविज्ञानं शून्यम् आत्मनात्मीयेन वा / जिह्वाविज्ञानं शून्यम् आत्मनात्मीयेन वा / कायविज्ञानं शून्यम् आत्मनात्मीयेन वा / मनोविज्ञानं शुन्यम् आत्मनात्मीयेन वा / चक्षुःसंस्पर्शः शून्य आत्मनात्मीयेन वा / श्रोत्रसंस्पर्शः शून्य आत्मनात्मीयेन वा / घ्राणसंस्पर्शः शून्य आत्मनात्मीयेन वा / जिह्वासंस्पर्शः शून्य आत्मनात्मीयेन वा / कायसंस्पर्शः शून्य आत्मनात्मीयेन वा / मनःसंस्पर्शः शून्य आत्मनात्मीयेन वा / चक्षुःसंस्पर्शप्रत्ययवेदना शून्यात्मनात्मीयेन वा / श्रोत्रसंस्पर्शप्रत्ययवेदना शून्यात्मनात्मीयेन वा / घ्राणसंस्पर्शप्रत्ययवेदना शून्यात्मनात्मीयेन वा / जिह्वासंस्पर्शप्रत्ययवेदना शून्यात्मनात्मीयेन वा / कायसंस्पर्शप्रत्ययवेदना शून्यात्मनात्मीयेन वा / मनःसंस्पर्शप्रत्ययवेदना शून्यात्मनात्मीयेम वा /
पृथिवीधातुः शून्य आत्मनात्मीयेन वा / अब्धातुः शून्य आत्मनात्मीयेन वा / तेजोधातुः शून्य आत्मनात्मीयेन वा / वायुधातुः शून्य आत्मनात्मीयेन वा / आकाशधातुः शून्य आत्मनात्मीयेन वा / विज्ञानधातुः शून्य आत्मनात्मीयेन वा / अविद्या शून्यात्मनात्मीयेन वा / संस्काराः शून्या आत्मनात्मीयेन वा / विज्ञानं शून्यम् आत्मनात्मीयेन वा / नामरूपं शून्यम् आत्मनात्मीयेन वा / षडायतनं शून्यम् आत्मनात्मीयेन / स्पर्शः शून्य आत्मनात्मीयेन वा / वेदना शून्यात्मनात्मीयेन वा / तृष्णा शून्यात्मनात्मीयेन वा / उपादानशून्यम् आत्मनात्मीयेन वा / भवः शून्य आत्मनात्मीयेन वा / जातिः शून्यात्मनात्मीयेन वा / जरामरणं शून्यात्मनात्मीयेन वा /
दानपारमिता शून्यात्मनात्मीयेन वा / शीलपारमिता शून्यात्मनात्मीयेन वा / क्षान्तिपारमिता आत्मनात्मीयेन वा / वीर्यपारमिता शून्यात्मनात्मीयेन वा / ध्यानपारमिता शून्यात्मनात्मीयेन वा / प्रज्ञापारमिता शून्यात्मनात्मीयेन वा /
अध्यात्मशून्यता शून्यात्मनात्मीयेन वा / बर्हिर्धाशून्यता शून्यात्मनात्मीयेन वा / अध्यात्मबहिर्धाशून्यता शून्यात्मनात्मीयेन वा / शून्यताशून्यता शून्यात्मनात्मीयेन वा / महाशून्यता शून्यात्मनात्मीयेन वा / परमार्थशून्यता शून्यात्मनात्मीयेन वा / संस्कृतशून्यता शून्यात्मनात्मीयेन वा / असंस्कृतशून्यता शून्यात्मनात्मीयेन वा / अत्यन्तशून्यता शून्यात्मनात्मीयेन वा / अनवराग्रशून्यता शून्यात्मनात्मीयेन वा / अनवकारशून्यता शून्यात्मनात्मीयेन वा / प्रकृतिशून्यता शून्यात्मनात्मीयेन वा सर्वधर्मशून्यता शून्यात्मनात्मीयेन वा / स्वलक्षणशून्यता शून्यात्मनात्मीयेन वा / अनुपलम्भशून्यता शून्यात्मनात्मीयेन वा / अभावशून्यता शून्यात्मनात्मीयेन वा / स्वभावशून्यता शून्यात्मनात्मीयेन वा / अभावस्वभावशून्यता शून्यात्मनात्मीयेन वा /
स्मृत्युपस्थानानि शून्यान्य् आत्मनात्मीयेन वा / सम्यक्प्रहाणानि शून्यान्य् आत्मनात्मीयेन वा / ऋद्धिपादाः शून्या आत्मनात्मीयेन वा / इन्द्रियाणि शून्यान्य् आत्मनात्मीयेन वा / बलानि शून्यान्य् आत्मनात्मीयेन वा / बोध्यङ्गानि शून्यान्य् आत्मनात्मीयेन वा / आर्याष्टाङ्गमार्गः शून्य आत्मनात्मीयेन वा / आर्यसत्यानि शून्यान्य् आत्मनात्मीयेन वा / ध्यानानि शून्यान्य् आत्मनात्मीयेन वा / अप्रमाणानि शून्यान्य् आत्मनात्मीयेन वा / आरूप्यसमापत्तयः शून्या आत्मनात्मीयेन वा / विमोक्षाः शून्या आत्मनात्मीयेन वा / अनुपूर्वविहारसमापत्तयः शून्या आत्मनात्मीयेन वा / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्या आत्मनात्मीयेन वा / समाधायः शून्या आत्मनात्मीयेन वा / धारणीमुखानि शून्यन्य् आत्मनात्मीयेन वा / तथागतबलानि शून्यान्य् आत्मनात्मीयेन वा / वैशारद्यानि शून्यान्य् आत्ममात्मीयेन वा / प्रतिसंविदः शून्या आत्मनात्मीयेन वा / महाकरुणा शून्यात्मनात्मीयेन वा / अवेणिकबुद्धधर्माः शून्या आत्मनात्मीयेन वा / किं करिष्यस्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य /
य इमान्य् एवंरूपाणि मारकर्माणि नाचष्टे नोपदिशत्य् अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम् /
पुनर् अपरं सुभूते मारः पापीयान् बुद्धवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वम् एवं वदति / शून्या कुलपुत्र पूर्वा दिग् बुद्धैर् भगवद्भिर् बोधिसत्त्वैः श्रावकैश् च / वात्र बुद्धाः न बोधिसत्त्वाः न श्रावकाः / एवं शून्या दक्षिणा दिक् पश्चिमा उत्तरा अधस्ताद् उपरिष्टात् यावत् समन्ताद् दशदिशः शून्या बुद्धैर् भगवद्भिर् बोधिसत्त्वैः श्रावकैश् च / नात्र बुद्धा न बोदिसत्त्वा न श्रावकाः / य इमान्य् एवंरूपाणि मारकर्माणि नाचष्टे नोपदिशत्य् अयं बोधिसत्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम् /
पुनर् अपरं सुभूते मारः पापीयान् श्रावकवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वं सर्वाकारज्ञताप्रतिसंयुक्तमनसिकारेभ्यो विरेचयति / श्रावकप्रत्येकबुद्धप्रतिसंयुक्तमनसिकारैर् अवदत्य् अनुशास्ति / य एवंरूपाणि मारकर्माणि नाचष्टे नोपदिशत्य् अयं बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम् /
पुनर् अपरं सुभूते मारः पापीयान् उपाध्यायाचार्यवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वं बोधिसत्त्वचर्याया विरेचयोः सर्वाकारज्ञताप्रतिसंयुक्तमनसिकारेभ्यो विरेचयति / स्मृत्युपस्थानेषु नियोजयति / सम्यक्प्रहाणेषु नियोजयति / ऋद्धिपादेषु नियोजयति / बलेषु नियोजयति / बोध्यङ्गेषु नियोजयति / आर्याष्टाङ्गमार्गेषु नियोजयति / आर्यसत्येषु नियोजयति / ध्यानेषु नियोजयति अप्रमाणेषु नियोजयति / आरूप्यसमापत्तिषु मियोजयति / विमोक्षेषु नियोजयति / अनुपूर्ववहारसमापत्तिषु नियोजयति / शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु नियोजयति / एवं त्वं कुलपुत्रेमान् धर्मान् भाषित्वा श्रावकभूमिं साक्षात् कुरु किं करिष्यस्य् अनुत्तरया सम्यक्संबोध्या / य एवंरूपाणि मारकर्माणि नाचष्टे नोपदिशत्य् अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम् /
पुनर् अपरं सुभूते मारः पापीयान् मातापितृवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वम् एवं वदति यत्र कुलपुत्र श्रोतआपत्तिफलसाक्षात्क्रिया / सकृदागामिफलसाक्षात्क्रिया / अनागामिफलसाक्षात्क्रिया / अर्हत्त्वसाक्षात्क्रिया / प्रत्येकबुद्धसाक्षात्क्रिया / तत्र योगम् आपद्यत / किन् ते ऽनुत्तरया सम्यक्संबोध्याभिसंबुद्धया / यस्याः कृते ऽप्रमेया संख्येयान् कल्पान् संशरन्न् अपरिमाणान् हस्तपादशिरच्छेदान् अनुभविष्यसि / य इमान्य् एवंरूपाणि मारकर्माणि न बोधयति नाचष्टे नोपदिशत्य् अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम् /
पुनर् अपरं सुभूते मारः पापीयान् भिक्षुवेषेणो बोधिसत्त्वं महासत्त्वम् उपसंक्रम्य अनात्मेति शान्तम् इति शून्यम् इति / अनिमित्तम् इति अप्रणिहितम् इत्य् अनभिसंस्कारं इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति / वेदनानित्येत्य् अनुपलम्भयोगेनोपदिशति / वेदना दुःखेत्य् अनात्मेति शान्तेति शून्येति अनिमित्तेति / अप्रणिहितेति अनभिसंस्कारेति विविक्तेति उपलम्भयोगेनोपदिशति / संज्ञा अनित्येत्य् उपलम्भयोगेनोपदिशति / संज्ञा दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारेति विविक्तेति उपलम्भयोगेनोपदिशति / संस्कारा अनित्या इति उपलम्भयोगेनोपदिशति / संस्कारा दुःखा इति अनात्मा न इति शान्ता इति शून्या इति आनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इत्य् उपलम्भयोगेनोपदिशति / विज्ञानम् अनित्यम् इत्य् उपलम्भयोगेनोपदिशति / विज्ञानं दुःखम् इत्य् अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति /
चक्षुर् अनित्यम् इति दुःखम् इत्य् अनात्मेति शान्तम् इति शून्यम् इति अनभिज्ञम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति / घ्राणम् अनित्यम् इति / अथायुष्मान् सुभुतिर् भगवन्तम् एतद् अवोचत् / बोधिसत्त्वो महासत्त्व इति भगवन्न् उच्यते / को ऽस्य पदार्थः / एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत् / अपदार्थः सुभूते बोधिसत्त्वपदार्थः / तत् कस्य हेतोर् अनुत्पादा बोधिर् अनुत्पादः सत्त्वः / न हि सुभूते बोधौ पदम् अस्ति न सत्त्वे तस्माद् अपदार्थो बोधिसत्त्वपदार्थः / तद्यथापि नाम सुभूते आकाशे शकुनेः पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते स्वप्ने पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते मायायाः पदं न विद्यते एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम मरीच्याः पदं न विद्यते एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते उदकचन्द्रस्य पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम प्रतिश्रुत्कायाः पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते प्रतिभासस्य पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते प्रतिबिम्बस्य पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतनिर्मितस्य पदं न विद्यते / एवम् एव बोधिसत्त्व्पदार्थो न विद्यते / तद्यथापि नाम सुभूते भूतकोट्याः पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते /
तथतायाः पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते अवितथतायाः पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते अनन्यतथतायाः पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते धर्मतायाः पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते धर्मधातोः पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते धर्मस्थितितायाः पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते धर्मनियामतायाः पदं न विश्वते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य रूपे पदं न विद्यते / वेदनायां पदं न विद्यते संज्ञायां पदं न विद्यते संस्कारेषु पदं न विद्यते विज्ञाने पदं न विद्यते संस्कारेषु पदं न विद्यते विज्ञाने पदं न विद्यते /
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुषि पदं न विद्यते श्रोत्रे पदं न विद्यते घ्राणे पदं न विद्यते जिह्वायां पदं न विद्यते काये पदं न विद्यते मनसि पदं न विद्यते /
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुर्विज्ञने पदं न विद्यते श्रोत्रविज्ञाने पदं न विद्यते घ्राणविज्ञाने पदं न विद्यते जिह्वाविज्ञाने पदं न विद्यते कायविज्ञाने पदं न विद्यते / मनोविज्ञाने पदं न विद्यते /
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुःसंस्पर्शे पदं न विद्यते श्रोत्रसंस्पर्शे पदं न विद्यते / घ्राणसंस्पर्शे पदं न विद्यते जिह्वासंस्पर्शे पदं न विद्यते कायसंस्पर्शे पदं न विद्यते / मनःसंस्पर्शे पदं न विद्यते /
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुःसंस्पर्शप्रत्ययवेदयिते पदं न विद्यते श्रोत्रसंस्पर्शप्रत्ययवेदयिते पदं न विद्यते घ्राणसंस्पर्शप्रत्ययवेदयिते पदं न विद्यते जिह्वासंस्पर्शप्रत्ययवेदयिते पदं न विद्यते कायसंस्पर्शप्रत्ययवेदयिते पदं न विद्यते / मनःसंस्पर्शप्रत्ययवेदयिते पदं न विद्यते /
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्याविद्यायां पदं न विद्यते संस्कारेषु पदं न विद्यते विज्ञाने पदं न विद्यते नाम रूपे पदं न विद्यते षडायतने पदं न विद्यते स्पर्शे पदं न विद्यते वेदनायां पदं न विद्यते तृष्णायां पदं न विद्यते उपादाने पदं न विद्यते भवे पदं न विद्यते / जातौ पदं न विद्यते जरामरणे पदं न विद्यते /
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य दानपारमितायां चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य शीलपारमितायां चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य क्षान्तिपारमितायां चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य वीर्यपारमितायाञ् चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापरुषस्य ध्यानपारमितायाञ् चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य प्रज्ञापारमितायाञ् चरतः पदार्थो न विद्येते /
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाश् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्याध्यात्मशून्यतायाञ् चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य बहिर्धाशून्यतायाञ् चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्याध्यात्मबहिर्धाशून्यतायाञ् चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य शून्यताशून्यतायाञ् चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य महाशून्यतायाञ् चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य परमार्थशून्यतायाञ् चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य संस्कृतशून्यतायाञ् चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्यासंस्कृतशून्यतायाञ् चरतः पदार्थो न विद्यते / तद्यधापि नाम सुभूते मायापुरुषस्यात्यन्तशून्यतायाञ् चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्यानव्राग्रशून्यतायाञ् चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्यानवकारशून्यतायाञ् चरत पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य प्रकृतिशून्यतायाञ् चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य सर्वधर्मशून्यतायाञ् चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य स्वलक्षणशून्यतायाञ् चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्यानुपलम्भशून्यतायाञ् चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्याभावशून्यतायाञ् चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य स्वभावशून्यतायाञ् चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्याभावस्वभावशून्यतायाञ् चरतः पदार्थो न विद्यते /
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य स्मृत्युपस्थानेषु चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य सम्यक्प्रहाणेषु चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्यर्धिपादेषु चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्येन्द्रियेषु चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य बलेषु चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य बोध्यङ्गेषु चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्यार्याष्टाङ्गमार्गे चरतः पदार्थो न विद्यते /
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्यार्यसत्येषु चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य ध्यानेषु चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्याप्रमाणेषु चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्यारूप्यसमापत्तिषु चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्याष्टसु विमोक्षेषु चरतः पदा दुःखम् इत्य् अनात्मेति शान्तम् इति शून्यम् इत्य् अनिमित्तम् इत्य् अप्रणिहितम् इत्य् अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति / जिह्वानित्येति दुःखेत्य् अनात्मेति शान्तेति शून्येत्य् अनिमित्तेत्य् अप्रणिहितेत्य् अनभिसंस्कार इति विविक्तेत्य् उपलम्भयोगेनोपदिशति / कायो ऽनित्य इति दुःख इत्य् अनात्मेति शान्त इति शून्य इत्य् अनिमित्त इत्य् अप्रणिहित इत्य् अनभिसंस्कार इति विविक्त इत्य् उपलम्भयोगेनोपदिशति / मनो ऽनित्यम् इति दुःखम् इत्य् अनात्मेति शान्तम् इति शून्यम् इत्य् अनिमित्तम् इत्य् अप्रणिहितम् इत्य् अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति /
रूपम् अनित्यम् इति दुःखम् इत्य् अनात्मेति शान्तम् इति शून्यम् इत्य् अनिमित्तम् इत्य् अप्रणिहितम् इत्य् अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति / शब्दम् अनित्यम् इति दुःखम् इत्य् अनात्मेति शान्तम् इति शून्यम् इत्य् अनिमित्तम् इत्य् अप्रणिहित्म् इत्य् अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति / गन्धो ऽनित्य इति दुःख इत्य् अनात्मेति शान्त इति शून्य इत्य् अनिमित्त इत्य् अप्रणिहित इत्य् अनभिसंस्कार इति विविक्त इत्य् उपलम्भयोगेनोपदिशति / रसो ऽनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इत्य् उपलम्भयोगेनोपदिशति / स्पर्शो ऽनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इत्य् उपलम्भयोगेनोपदिशति / धर्मा अनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इत्य् उपलम्भद्भयोगेनोपदिशति /
चक्षुर्विज्ञानम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति / श्रोत्रविज्ञानम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति / अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति / घ्राणविज्ञानम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति / अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति / जिह्वाविज्ञानम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति / कायविज्ञानम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति / मनोविज्ञानम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति /
चक्षुःसंस्पर्शो ऽनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति / अनभिसंस्कार इति विविक्त इत्य् उपलम्भयोगेनोपदिशति / श्रोत्रसंस्पर्शो ऽनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति आनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इत्य् उपलम्भयोगेनोपदिशति / घ्राणसंस्पर्शो ऽनित्य इति दुःख इति / अनात्मेति शान्त इति शून्य इति निमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इत्य् उपलम्भयोगेनोपदिशति /
जिह्वासंस्पर्शो ऽनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति / विविक्त इत्य् उपलम्भयोगेनोपदिशति / कायसंस्पर्शो ऽनित्य इति दुःख इति अनात्मा इति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपम्भयोगेनोपदिशति / मनःसंस्पर्शो ऽनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति /
चक्षुःसंस्पर्शप्रत्ययवेदितम् अनित्यम् इति दुःखम् इति अमात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति / श्रोत्रसंस्पर्शप्रत्ययवेदितम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति / अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति / घ्राणसंशप्रत्ययवेदितम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति / विविक्तम् इति उपलम्भयोगेनोपदिशति / जिह्वासंस्पर्शप्रत्ययवेदितम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति /
कायसंस्पर्शप्रत्ययवेदितम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति / मनःसंस्पर्शप्रत्ययवेदितम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति /
पृथिवीधातुर् अनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति / अब्धातुर् अनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति / तेजोधातुर् अनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति आनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति / वायुधातुर् अनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति / आकाशधातुर् अनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति /
विज्ञानधातुर् अनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति / अविद्यानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कार इति विविक्तेति उपलम्भयोगेनोपदिशति / संस्कारा अनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इत्य् उपलम्भयोगेनोपदिशति / विज्ञानम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति / नामरूपम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति / षडायतनम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति / स्पर्शो ऽनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति / अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति / वेदनानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / तृष्णानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / उपादानम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति / भवो ऽनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति / जातिर् अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / जरामरणम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति /
दानपारमितानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / शीलपारमितानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / क्षान्तिपारमितानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / वीर्यपारमितानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / ध्यानपारमितानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / प्रज्ञापारमितानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति /
अध्यात्मशून्यतानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / बहिर्धाशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / अध्यात्मबहिर्धाशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / शून्यताशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / महाशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / परमार्थशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / संस्क्र्तशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / असंस्कृतशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / अत्यन्तशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / अनवराग्रशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति /
अनवकारशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / प्रकृतिशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / सर्वधर्मशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / स्वलक्षणशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / अनुपलम्भशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / अभावशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / स्वभावशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति / अभावस्वभावशून्यता अनित्येति
दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति /
स्मृत्युपस्थानानि अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्कारा इति विविक्तानीति उपलम्भयोगेनोपदिशति / सम्यक्प्रहाणान्य् अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्कारा इति विविक्तानीति उपलम्भयोगेनोपदिशति / ऋद्धिपादा अनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इति उपलम्भयोगेनोपदिशति / इन्द्रियाण्य् अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति / बलान्य् अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति / बोध्यङ्गान्य् अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति / आर्याष्टाङ्गमार्गो ऽनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति / आर्यसत्यान्य् अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति / ध्यानान्य् अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति / अप्रमाणान्य् अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति /
आरूप्यसमापत्तयो ऽनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इति उपलम्भयोगेनोपदिशति / विमोक्षा अनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इति उपलम्भयोगेनोपदिशति / अनुपूर्वविहारसमापत्तयो ऽनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इति उपलम्भयोगेनोपदिशति / शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति / अभिज्ञा अनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति
विविक्ता इति उपलम्भयोगेनोपदिशति / समाधयो ऽनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इति उपलम्भयोगेनोपदिशति /
धारणीमुखानि अनित्यानि दुःखानि अनात्मानि शान्तानि शून्यानि अनिमित्तानि अप्रणिहितानि अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति / तथागत्बलानि अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति / वैशारद्यानि अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति / प्रतिसंविदो ऽनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इति उपलम्भयोगेनोपदिशति / महामैत्री अनित्या इति दुःखा इति अनात्मानेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारेति विविक्तेति उपलम्भयोगेनोपदिशति / महाकरुणा अनित्येति दुःखेति अनात्मानेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारेति विविक्तेति उपलम्भयोगेनोपदिशति / आवेणिकबुद्धधर्मा अनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इति उपलम्भयोगेनोपदिशति / य एकरूपाणि मारकर्माणि नाचष्टे नोपदिशत्य् अयं बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यं / एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेम पापमित्राणि वेदितव्यानि / विदित्वा च परिवर्जयितव्यानि //
शतसाहस्र्यां प्रज्ञापारमितायाः षष्ठः परिवर्तः // (श्sP_1.6)
अथ सप्तमः परिवर्तः /
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् / बोधिसत्त्वो महासत्त्व इति भगवत्य् उच्यते, को ऽस्य पदार्थः / एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत् / अपदार्थः सुभूते बोधिसत्त्वपदार्थः / तत् कस्य हेतोर् अनुत्पादो बोधिर् अनुत्पादः सत्त्वः / न हि सुभूते बोधौ पदम् अस्ति न वा सत्त्वे तस्माद् अपदार्थो बोधिसत्त्वपदार्थः तद्यथापि नाम सुभूते आकाशे शकुनेः पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम स्वप्ने पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते मायायाः पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते मरीच्याः पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते उदकचन्द्रस्य पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते प्रतिश्रुत्कायाः पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते प्रतिभासस्य पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते बिम्बस्य पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतनिर्मितस्य पदं न विद्यते / एवम् एव बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते मायापुरुषस्यार्याष्टाङ्गमार्गे चरतः पदार्थो न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्यार्यसत्येषु चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य ध्यानेषु चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्याप्रमाणेषु चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्यारूप्यसमापत्तिषु चरतः पदाथो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्याष्टसु विमोक्षेषु चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य नवस्व् अनुपूर्वविहारसमापत्तिषु चरतः पदं न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य शून्यतानिमित्ताप्रणिहितविमोक्षेषु चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्याभिज्ञासु चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य समाधिषु चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य धारणीमुखेषु चरतः पदार्थो न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते मायापुरुषस्य तथागतबलेषु चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य वैशारद्येषु चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य प्रतिसंवित्सु चरतः पदार्थो न विद्यते / तद्यधापि नाम सुभूते मायापुरुषस्य महामैत्र्यां चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्य महाकरुणायां चरतः पदार्थो न विद्यते / तद्यथापि नाम सुभूते मायापुरुषस्यावेणिकबुद्धधर्मेषु चरतः पदार्थो न विद्यते / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य रूपे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य रूपस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य वेदनायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्या वेदनायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य संज्ञायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः संज्ञायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य संस्कारेषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तेषां संस्काराणां /
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य विज्ञाने पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य विज्ञानस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य चक्षुषि पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य चक्षुषः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य श्रोत्रे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य श्रोत्रस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य घ्राणे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य घ्राणस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य जिह्वायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य जिह्वायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य काये पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य कायस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य मनसि पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य मनसः /
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य रूपे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य रूपस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य शब्दे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य शब्दस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य गन्धे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य गन्धस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य रसे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य रस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य स्पर्शे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य स्पर्शस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मेषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य धर्माणां / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य चक्षुर्विज्ञाने पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य चक्षुर्विज्ञानस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य श्रोत्रविज्ञाने पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य श्रोत्रविज्ञानस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य घ्राणविज्ञाने पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य घ्राणविज्ञानस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य जिह्वाविज्ञाने पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य जिह्वाविज्ञानस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य कायविज्ञाने पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य कयविज्ञानस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य मनोविज्ञाने पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य मनोविज्ञानस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य चक्षुःसंस्पर्शे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य चक्षुःसंस्पर्शस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य श्रोत्रसंस्पर्शे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य श्रोत्रसंस्पर्शस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य घ्राणसंस्पर्शे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य घ्राणसंस्पर्शस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य जिह्वासंस्पर्शे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य जिह्वासंस्पर्शस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य कायसंस्पर्शे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य कायसंस्पर्शस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य मनःसंस्पर्शे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य मनःसंस्पर्शस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य चक्षुःसंस्पर्शे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य चक्षुःसंस्पर्शप्रत्ययवेदितस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य श्रोत्रसंस्पर्शप्रत्ययवेदिते पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य श्रोत्रसंस्पर्शप्रत्ययवेदितस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य घ्राणसंस्पर्शप्रत्ययवेदिते पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य घ्राणसंस्पर्शप्रत्ययवेदितस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य जिह्वासंस्पर्शप्रत्ययवेदिते पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य जिह्वासंस्पर्शप्रत्ययवेदितस्य /
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य कायसंस्पर्शप्रत्ययवेदिते पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य कायसंस्पर्शप्रत्ययवेदितस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य मनःसंस्पर्शप्रत्ययवेदिते पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य मनःसंस्पर्शप्रत्ययवेदितस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्याविद्यायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य अविद्यायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य संस्कारेषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तेषां संस्काराणाम् / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य विज्ञाने पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य विज्ञानस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य नामरूपे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामरूपस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य षडायतने पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य षडायतनस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य स्पर्शे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य स्पर्शस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य वेदनायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्या वेदनायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य तृष्णायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः तृष्णायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्योपादाने पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्योपादानस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य भवे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य भवस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य जातौ पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्या जातेः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य जरामरणे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य जरामरणस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य दानपारमितायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्या दानपारमितायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य शीलपारमितायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः शीलपारमितायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य क्षान्तिपारमितायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः क्षान्तिपारमितायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य वीर्यपारमितायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्या वीर्यपारमितायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य ध्यानपारमितायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्या ध्यानपारमितायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रज्ञापारमितायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः प्रज्ञापारमितायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्याध्यात्मशून्यतायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्या अध्यात्मशून्यतायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य बहिर्धाशून्यतायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्या बहिर्धाशून्यतायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्याध्यात्मबहिर्धाशून्यतायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्या अध्यात्मबहिर्धाशून्यतायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य शून्यताशून्यतायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः शून्यताशून्यतायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य महाशून्यतायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्या महाशून्यतायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य परमार्थशून्यतायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः परमार्थशून्यतायाः /
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य संस्कृतशून्यतायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः संस्कृतशून्यतायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्यासंस्कृतशून्यतायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्या असंस्कृतशून्यतायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्यात्यन्तशून्यतायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः अत्यन्तशून्यतायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्यानवराग्रशून्यतायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्या अनवराग्रशून्यतायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्यानवकारशून्यतायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्या अनवकारशून्यतायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रकृतिशून्यतायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः प्रकृतिशून्यतायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वधर्मशून्यतायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः सर्वधर्मशून्यतायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य स्वलक्षणशून्यतायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः स्वलक्षणशून्यतायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्यानुपलम्भशून्यतायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्या अनुपलम्भशून्यतायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्याभावशून्यतायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः अभावशून्यतायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य स्वभावशून्यतायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः स्वभावशून्यतायाः /
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्याभावस्वभावशून्यतायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्या अभावस्वभावशून्यतायाः /
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य स्मृत्युपस्थानेषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तेषां स्मृत्युपस्थानानां / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य सम्यक्प्रहाणेषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तेषां सम्यक्प्रहाणानां / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य ऋद्धिपादेषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तेषाम् ऋद्धिपादानां / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य इन्द्रियेषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तेषाम् इन्द्रियाणां /
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य बलेषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तेषां बलानां / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य बोध्यङ्गेषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तेषां बोध्यङ्गानां / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य मार्गे पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्य मार्गस्य / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्यार्यसत्येषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तेषाम् आर्यसत्यानां / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य ध्यानेषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तेषां ध्यानानां / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्याप्रमाणेषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तेषाम् अप्रमाणानां /
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्यारूप्यसमापत्तिषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तासाम् आरूप्यसमापत्तिनां / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य विमोक्षेषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तेषां विमोक्षाणां / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्यानुपूर्वविहारसमापत्तिषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तासाम् अनुपूर्वविहारसमापत्तीनां / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य शून्यतानिमित्ताप्रणिहितविमोक्षेषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तेषां शून्यतानिमित्ताप्रणिहितविमोक्षाणां / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्याभिज्ञासु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तासाम् अभिज्ञानां / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते /
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य समाधिषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तेषां समाधीनां / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य धारणीमुखेषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तेषां धारणीमुखानां / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य तथागतबलेषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तेषां तथागतबलानां / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य चतुर्वैशारद्येषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तेषां वैशारद्यानां /
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य चतसृषु प्रतिसंवित्सु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तासां प्रतिसंविदां / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य महाकरुणायां पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तस्या महाकरुणायाः / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते / तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्यावेणिकबुद्धधर्मेषु पदं न विद्यते / तत् कस्य हेतोर् अविद्यमानत्वात् तेषाम् आवेणिकबुद्धधर्माणां / एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
