Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता, Part इ
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः कायसंस्पर्शप्रत्ययवेदनाभावस्वभावशून्येति मनसिकरोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदनाध्यात्मशून्येति मनसिकरोति / ताञ् चाध्यात्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदना बहिर्धाशून्येति मनसिकरोति / ताञ् च बहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदनाध्यात्मबहिर्धाशून्येति मनसिकरोति / ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदना शून्यताशून्येति मनसिकरोति / ताञ् च शून्यताशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदना महाशून्येति मनसिकरोति / ताञ् च महाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदना परमार्थशून्येति मनसिकरोति / ताञ् च परमार्थशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदना संस्कृतशून्येति मनसिकरोति / ताञ् च संस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदनासंस्कृतशून्येति मनसिकरोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदनात्यन्तशून्येति मनसिकरोति / ताञ् चात्यन्तशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपललम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदनानवराग्रशून्येति मनसिकरोति / ताञ् चानवराग्रशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदनानवकारशून्येति मनसिकरोति / ताञ् चानवकारशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदना प्रकृतिशून्येति मनसिकरोति / ताञ् च प्रकृतिशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदना सर्वधर्मशून्येति मनसिकरोति / ताञ् च सर्वधर्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदना स्वलक्षणशल्येति मनसिकरोति / ताञ् च स्वलक्षणशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदनानुपलम्भशून्येति मनसिकरोति / ताञ् चानुपलम्भशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदनाभावशून्येति मनसिकरोति / ताञ् चाभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंसंस्पर्शप्रत्ययवेदना स्वभावशून्येति मनसिकरोति / ताञ् च स्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमननिकारो मनःसंस्पर्शप्रत्ययवेदनाभावस्वभावशून्येति मनसिकरोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् अध्यात्मशून्य इति मनसिकरोति / ताञ् चाध्यात्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् बहिर्धाशून्य इति मनसिकरोति / ताञ् च बहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् अध्यात्मबहिर्धाशून्य इति मनसिकरोति / ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुः शून्यताशून्य इति मनसिकरोति / ताञ् च शून्यताशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् महाशून्य इति मनसिकरोति / ताञ् चा महाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुः परमार्थशून्य इति मनसिकरोति / ताञ् च स परमार्थशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुः संस्कृतशून्य इति मनसिकरोति / ताञ् च सह्यतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् असंस्कृतशून्य इति मनसिकरोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् अत्यन्तशून्य इति मनसिकरोति / ताञ् चात्यन्तशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् अनवराग्रशून्य इति मनसिकरोति / ताञ् चानवराग्रशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः प्र्थिवीधातुर् अनवकारशून्य इति मनसिकरोति / ताञ् चानवकारशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुः प्रकृतिशून्य इति मनसिकरोति / ताञ् च प्रकृतिशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुः सर्वधर्मशून्य इति मनसिकरोति / ताञ् च सर्वधर्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुः स्वलक्षणशून्य इति मनसिकरोति / ताञ् च स्वलक्षणशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् अनुपलम्भशून्य इति मनसिकरोति / ताञ् चानुपलम्भशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् अभावशून्य इति मनसिकरोति / ताञ् चाभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुः स्वभावशून्य इति मनसिकरोति / ताञ् च स्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् अभावस्वभावशून्य इति मनसिकरोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् अध्यात्मशून्य इति मनसिकरोति / ताञ् चाध्यात्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् बहिर्धाशून्य इति मनसिकरोति / ताञ् च बहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् अध्यात्मबहिर्धाशून्य इति मनसिकरोति / ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुः शून्यताशून्य इति मनसिकरोति / ताञ् च शून्यता शून्यतामुपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् महाशून्य इति मनसिकरोति / ताञ् च महाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुः परमार्थशून्य इति मनसिकरोति / ताञ् च परमार्थशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अफगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुः संस्कृतशून्य इति मनसिकरोति / ताञ् च संस्कृतशुन्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् असंस्कृतशून्य इति मनसिकरोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् अत्यन्तशून्य इति मनसिकरोति / ताञ् चात्यन्तशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् अनवराग्रशून्य इति मनसिकरोति / ताञ् चानवराग्रशून्यताम् उपलभतेइ / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारजितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् अनवकारशून्य इति मनसिकरोति / ताञ् चानवकारशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुः प्रकृतिशून्य इति मनसिकरोति / ताञ् च प्रकृतिशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुः सर्वधर्मशून्य इति मनसिकरोति / ताञ् च सर्वधर्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुः स्वलक्षणशून्य इति मनसिकरोति / ताञ् च स्वलक्षणशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् अनुपलम्भशून्य इति मनसिकरोति / ताञ् चानुपलम्भशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् अभावशून्य इति मनसिकरोति / ताञ् चाभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुः स्वभावशून्य इति मनसिकरोति / ताञ् च स्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् अभावस्वभावशून्य इति मनसिकरोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् अध्यात्मशून्य इति मनसिकरोति / ताञ् चाध्यात्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् बहिर्धाशून्य इति मनसिकरोति / ताञ् च बहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् अध्यात्मबहिर्धाशून्य इति मनसिकरोति / ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुः शून्यताशून्य इति मनसिकरोति / ताञ् च शून्यताशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् महाशून्य इति मनसिकरोति / ताञ् च महाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुः परमार्थशून्य इति मनसिकरोति / ताञ् च परमार्थशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुः संस्कृतशून्य इति मनसिकरोति / ताञ् च संस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् असंस्कृतशून्य इति मनसिकरोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् अत्यन्तशून्य इति मनसिकरोति / ताञ् चात्यन्तशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् अनवराग्रशून्य इति मनसिकरोति / ताञ् चानवराग्रशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् अनवकारशून्य इति मनसिकरोति / ताञ् चानवकारशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुः प्रकृतिशून्य इति मनसिकरोति / ताञ् च प्रकृतिशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुः सर्वधर्मशून्य इति मनसिकरोति / ताञ् च सर्वधर्मरशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुः स्वलक्षणशून्य इति मनसिकरोति / ताञ् च स्वक्षणशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् अनुपलम्भशून्य इति मनसिकरोति / ताञ् चानुपलम्भशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् अभावशून्य इति मनसिकरोति / ताञ् चाभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुः स्वभावशून्य इति मनसिकरोति / ताञ् च स्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् अभावस्वभावशून्य इति मनसिकरोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् अध्यात्मशून्य इति मनसिकरोति / ताञ् चाध्यात्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् बहिर्धाशून्य इति मनसिकरोति / ताञ् च बहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् अध्यात्मबहिर्धाशून्य इति मनसिकरोति / ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुः शून्यताशून्य इति मनसिकरोति / ताञ् च शून्यताशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् महाशून्य इति मनसिकरोति / ताञ् च महाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुः परमार्थशून्य इति मनसिकरोति / ताञ् च परमार्थशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुः संस्कृतशून्य इति मनसिकरोति / ताञ् च संस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् असंस्कृतशून्य इति मनसिकरोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् अत्यन्तशून्य इति मनसिकरोति / ताञ् चात्यन्तशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारहाता प्रतिसंयुक्तमनसिकारो वायुधातुर् अनवराग्रशून्य इति मनसिकरोति / ताञ् चानवराग्रशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् अनवकारशून्य इति मनसिकरोति / ताञ् चानवकारशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुः प्रकृतिशून्य इति मनसिकरोति / ताञ् च प्रकृतिशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुः सर्वधर्मशून्य इति मनसिकरोति / ताञ् च सर्वधर्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुः स्वलक्षणशून्य इति मनसिकरोति / ताञ् च स्वलक्षणशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् अनुपलम्भशून्यू इति मनसिकरोति / ताञ् चानुपलम्भशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् अभावशून्य इति मनसिकरोति / ताञ् चाभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुः स्वभावशून्य इति मनसिकरोति / ताञ् च स्वभावशून्यताम् उपलभते / तथा च शुत्रन्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् अभावस्वभावशून्य इति मनसिकरोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् अध्यात्मशून्य इति मनसिकरोति / ताञ् चाध्यात्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् बहिर्धाशून्य इति मनसिकरोति / ताञ् च बहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् अध्यात्मबहिर्धाशून्य इति मनसिकरोति / ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुः शून्यताशून्य इति मनसिकरोति / ताञ् च शून्यताशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् महाशून्य इति मनसिकरोति / ताञ् च महाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारामतायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुः परमार्थशून्य इति मनसिकरोति / ताञ् च परमार्थशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुः संस्कृतशून्य इति मनसिकरोति / ताञ् च संस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् असंस्कृतशून्य इति मनसिकरोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् अत्यन्तशून्य इति मनसिकरोति / ताञ् चात्यन्तशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् अनवराग्रशून्य इति मनसिकरोति / ताञ् चानवराग्रशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् अनवकारशून्य इति मनसिकरोति / ताञ् चानवकारशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुः प्रकृतिशून्य इति मनसिकरोति / ताञ् च प्रकृतिशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुः सर्वधर्मशून्य इति मनसिकरोति / ताञ् च सर्वधर्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुः स्वलक्षणशून्य इति मनसिकरोति / ताञ् च स्वलक्षणशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् अनुपलम्भशून्य इति मनसिकरोति / ताञ् चानुपलम्भशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् अभावशून्य इति मनसिकरोति / ताञ् चाभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुः स्वभावशून्य इति मनसिकरोति / ताञ् च स्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् अभावस्वभावशून्य इति मनसिकरोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुर् अध्यात्मशून्य इति मनसिकरोति / ताञ् चाध्यात्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुर् बहिर्धाशून्य इति मनसिकरोति / ताञ् च बहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुर् अध्यात्मबहिर्धाशून्य इति मनसिकरोति / ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुः शून्यताशून्य इति मनसिकरोति / ताञ् च शून्यताशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुर् महाशून्य इति मनसिकरोति / ताञ् च महाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुः परमार्थशून्य इति मनसिकरोति / ताञ् च परमार्थशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुः संस्कृतशून्य इति मनसिकरोति / ताञ् च संस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंय्क्तमनसिकारो विज्ञानधातुर् असंस्कृतशून्य इति मनसिकरोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुर् अत्यन्तशून्य इति मनसिकरोति / ताञ् चात्यन्तशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुर् अनवराग्रशून्य इति मनसिकरोति / ताञ् चानवराग्रशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुर् अनवकारशून्य इति मनसिकरोति / ताञ् चानवकारशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुः प्रकृतिशून्य इति मनसिकरोति / ताञ् च प्रकृतिशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुः सर्वधर्मशून्य इति मनसिकरोति / ताञ् च सर्वधर्मरशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुः स्वलक्षणशून्य इति मनसिकरोति / ताञ् च स्वलक्षणशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुर् अनुपलम्भशून्य इति मनसिकरोति / ताञ् चानुपलम्भशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुर् अभावशून्य इति मनसिकरोति / ताञ् चाभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुः स्वभावशून्य इति मनसिकरोति / ताञ् च स्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानतुर् अभावस्वभावशून्य इति मनसिकरोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्याध्यात्मशून्येति मनसिकरोति / ताञ् चाविद्याध्यात्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्या बहिर्धाशून्येति मनसिकरोति / ताञ् च बहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्याध्यात्मबहिर्धाशून्येति मनसिकरोति / ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्या शून्यताशून्येति मनसिकरोति / ताञ् च शून्यताशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्या महाशून्येति मनसिकरोति / ताञ् च महाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्या परमार्थशून्येति मनसिकरोति / ताञ् च परमार्थशून्यताम् ताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्या सम्ष्कृतशून्येति मनसिकरोति / ताञ् च संस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्यासंस्कृतशून्येति मनसिकरोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्यात्यन्तशून्येति मनसिकरोति / ताञ् चात्यन्तशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्यानवराग्रशून्येति मनसिकरोति / ताञ् चानवराग्रशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्यानवकारशून्येति मनसिकरोति / ताञ् चानवकारशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्या प्रकृतिशून्येति मनसिकरोति / ताञ् च प्रकृतिशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापरिमतायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्या सर्वधर्मशून्येति मनसिकरोति / ताञ् च सर्वधर्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापरमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्या स्वलक्षणशून्येति मनसिकरोति / ताञ् च स्वलक्षणशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्यानुपलम्भशून्येति मनसिकरोति / ताञ् चानुपलम्भशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्यातो बहुशून्येति मनसिकरोति / ताञ् चाभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्या स्वभावशून्येति मनसिकरोति / ताञ् च स्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्याभावस्वभावशून्येति मनसिकरोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो ऽध्यात्मशून्य इति मनसिकरोति / ताञ् चाध्यात्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकाज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो बहिर्धाशून्य इति मनसिकरोति / ताञ् च बहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकाज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो ऽध्यात्मबहिर्धाशून्य इति मनसिकरोति / ताञ् च आध्यात्मबहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकाज्ञता प्रतिसंयुक्तमनसिकारः संस्कारः शून्यताशून्य इति मनसिकरोति / ताञ् च शून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो महाशून्य इति मनसिकरोति / ताञ् च महाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारः परमार्थशून्य इति मनसिकरोति / ताञ् च परमार्थशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारः संस्कृतशून्य इति मनसिकरोति / ताञ् च संस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारः असंस्कृतशून्य इति मनसिकरोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो ऽत्यन्तशून्य इति मनसिकरोति / ताञ् चात्यन्तशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो ऽनवाग्र्यशून्य इति मनसिकरोति / ताञ् चान्वाग्र्यशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो ऽनवकारशून्य इति मनसिकरोति / ताञ् चानवकारशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारः प्रकृतिशून्य इति मनसिकरोति / ताञ् च प्रकृतिशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारः सर्वधर्मशून्य इति मनसिकरोति / ताञ् च सर्वधर्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारः स्वलक्षणशून्य इति मनसिकरोति / ताञ् च स्वलक्षणशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो ऽनुपलम्भशून्य इति मनसिकरोति / ताञ् चानुपलम्भशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो ऽभावशून्य इति मनसिकरोति / ताञ् चाभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारः स्वभावशून्य इति मनसिकरोति / ताञ् च स्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो ऽभावस्वभावशून्य इति मनसिकरोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः विज्ञानम् अध्यात्मशून्यम् इति मनसिकरोति / तञ् चाध्यात्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानं बहिर्धाशून्यम् इति मनसिकरोति / ताञ् च बहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानम् अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति / ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानं शून्यताशून्यम् इति मनसिकरोति / ताञ् चाशून्यताशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानं महाशून्यम् इति मनसिकरोति / ताञ् च महाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानं परमार्थशून्यम् इति मनसिकरोति / ताञ् च परमार्थशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानं संस्कृतशून्यम् इति मनसिकरोति / ताञ् च संस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानम् असंस्कृतशून्यम् इति मनसिकरोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानम् अत्यन्तशून्यम् इति मनसिकरोति / ताञ् चात्यन्तशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानम् अनवराग्र्यशून्यम् इति मनसिकरोति / ताञ् चानवराग्र्यशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानम् अनवकारशून्यम् इति मनसिकरोति / ताञ् चानवकारशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानं सर्वधर्मशून्यम् इति मनसिकरोति / ताञ् च सर्वधर्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानं स्वलक्षणशून्यम् इति मनसिकरोति / ताञ् च स्वलक्षणशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानम् अनुपलम्भशून्यम् इति मनसिकरोति / ताञ् चानुपलम्भशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानम् अभावशून्यम् इति मनसिकरोति / ताञ् चाभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानं स्वभावशून्यम् इति मनसिकरोति / ताञ् च स्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानम् अभावस्वभावशून्यम् इति मनसिकरोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो नामरूपम् अध्यात्मशून्य्म् इति मनसिकरोति / ताञ् चाध्यात्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो नामरूपं बहिर्धाशून्यम् इति मनसिकरोति / ताञ् च बाहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारवता प्रतिसंयुक्तमनसिकारो नामरूपम् अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति / ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो नामरूपं शून्यताशून्यम् इति मनसिकरोति / ताञ् च शून्यताशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो नामरूपं महाशून्यम् इति मनसिकरोति / ताञ् च महाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो नामरूपं परमार्थशून्यम् इति मनसिकरोति / ताञ् च परमार्थशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्बयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो नामरूपं संस्कृतशून्यम् इति मनसिकरोति / ताञ् च संस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपम् असंस्कृतशून्यम् इति मनसिक्रोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपम् अत्यन्तशून्यम् इति मनसिक्रोति / ताञ् चात्यन्तशून्यतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपम् असंस्कृतशून्यम् इति मनसिक्रोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपम् अनवराग्र्यशून्यम् इति मनसिक्रोति / ताञ् चानवराग्र्यशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपम् अनवकारशून्यम् इति मनसिक्रोति / ताञ् चानवकारशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपं प्रकृतिशून्यम् इति मनसिक्रोति / ताञ् च प्रकृतिशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपं सर्वधर्मशून्यम् इति मनसिक्रोति / ताञ् च सर्वधर्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपं स्वलक्षणशून्यम् इति मनसिक्रोति / ताञ् च स्वलक्षणशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपम् अनुपलम्भशून्यम् इति मनसिक्रोति / ताञ् च अनुपलम्भशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपम् अभावशून्यम् इति मनसिक्रोति / ताञ् च अभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपं स्वभावशून्यम् इति मनसिक्रोति / ताञ् च स्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपम् अभावस्वभावशून्यम् इति मनसिक्रोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनम् अध्यात्मशून्यम् इति मनसिकरोति / ताञ् चाध्यात्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनं बहिर्धाशून्यम् इति मनसिकरोति / ताञ् च बहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनम् अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति / ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनं शून्यताशून्यम् इति मनसिकरोति / ताञ् च शून्यताशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनं महाशून्यम् इति मनसिकरोति / ताञ् च महाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनं परमार्थशून्यम् इति मनसिकरोति / ताञ् च परमार्थशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनं संस्कृतशून्यम् इति मनसिकरोति / ताञ् च संस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनम् असंस्कृतशून्यम् इति मनसिकरोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनम् अत्यन्तशून्यम् इति मनसिकरोति / ताञ् चात्यन्तशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनम् अनवराग्रशून्यम् इति मनसिकरोति / ताञ् चानवराग्र्यशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनम् अनवकारशून्यम् इति मनसिकरोति / ताञ् चाअनवकारशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनं प्रकृतिशून्यम् इति मनसिकरोति / ताञ् च प्रकृतिशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनं सर्वधर्मशून्यम् इति मनसिकरोति / ताञ् च सर्वधर्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनम् अनुपलम्भशून्यम् इति मनसिकरोति / ताञ् च अनुपलम्भशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनम् अभावशून्यम् इति मनसिकरोति / ताञ् चाभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनं स्वभावशून्यम् इति मनसिकरोति / ताञ् च स्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनम् अभावस्वभावशून्यम् इति मनसिकरोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो ऽध्यात्मशून्य इति मनसिकरोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो बहिर्धाशून्य इति मनसिकरोति / ताञ् च बहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो ऽध्यात्मबहिर्धाशून्य इति मनसिकरोति / ताञ् चाऽध्यात्मबहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शः शून्यताशून्य इति मनसिकरोति / ताञ् च शून्यताशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो महाशून्य इति मनसिकरोति / ताञ् च महाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शः परमार्थशून्य इति मनसिकरोति / ताञ् च परमार्थशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शः संस्कृतशून्य इति मनसिकरोति / ताञ् च संस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो ऽसंस्कृतशून्य इति मनसिकरोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो ऽत्यन्तशून्य इति मनसिकरोति / ताञ् चात्यन्तशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो ऽनवराग्रशून्य इति मनसिकरोति / ताञ् चानवराग्रशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो ऽनवकारशून्य इति मनसिकरोति / ताञ् चानवकारशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शः प्रकृतिशून्य इति मनसिकरोति / ताञ् च प्रकृतिशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शः सर्वधर्मशून्य इति मनसिकरोति / ताञ् च सर्वधर्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शः स्वलक्षणशून्य इति मनसिकरोति / ताञ् च स्वलक्षणशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो ऽनुपलम्भशून्य इति मनसिकरोति / ताञ् चानुपलम्भशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो ऽभावशून्य इति मनसिकरोति / ताञ् चाभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शः स्वभावशून्य इति मनसिकरोति / ताञ् च स्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो ऽभावस्वभावशून्य इति मनसिकरोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदनाध्यात्मशून्येति मनसिकरोति / ताञ् चाध्यात्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना बहिर्धाशून्येति मनसिकरोति / ताञ् च बहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदनाध्यात्मबहिर्धाशून्येति मनसिकरोति / ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना शून्यताशून्येति मनसिकरोति / ताञ् च शून्यताशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना महाशून्येति मनसिकरोति / ताञ् च महाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना परमार्थशून्येति मनसिकरोति / ताञ् च परमार्थशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना संस्कृतशून्येति मनसिकरोति / ताञ् च संस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदनासंस्कृतशून्येति मनसिकरोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदनात्यन्तशून्येति मनसिकरोति / ताञ् चात्यन्तशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदनानव्राग्रशून्येति मनसिकरोति / ताञ् चानव्राग्रशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदनानवकारशून्येति मनसिकरोति / ताञ् चानवकारशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना प्रकृतिशून्येति मनसिकरोति / ताञ् च प्रकृतिशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना सर्वधर्मशून्येति मनसिकरोति / ताञ् च सर्वधर्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना स्वलक्षणशून्येति मनसिकरोति / ताञ् च स्वलक्षणशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदनानुपलम्भशून्येति मनसिकरोति / ताञ् चानुपलम्भशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना भवशून्येति मनसिकरोति / ताञ् च भवशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना स्वभावशून्येति मनसिकरोति / ताञ् च स्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदनाभावस्वभावशून्येति मनसिकरोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्वो महासत्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णाध्यात्मशून्येति मनसिकरोति / ताञ् चाध्यात्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णा बहिर्धाशून्येति मनसिकरोति / ताञ् च बहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णाध्यात्मबहिर्धाशून्येति मनसिकरोति / ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णा शून्यताशून्येति मनसिकरोति / ताञ् च शून्यताशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णा महाशून्येति मनसिकरोति / ताञ् च महाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णा परमार्थशून्येति मनसिकरोति / ताञ् च परमार्थशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णा संस्कृतशून्येति मनसिकरोति / ताञ् च संस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णासंस्कृतशून्येति मनसिकरोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णात्यन्तशून्येति मनसिकरोति / ताञ् चात्यन्तशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णानवराग्रशून्येति मनसिकरोति / ताञ् चानवराग्रशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णानवकारशून्येति मनसिकरोति / ताञ् चानवकारशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णा प्रकृतिशून्येति मनसिकरोति / ताञ् च प्रकृतिशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णा सर्वधर्मशून्येति मनसिकरोति / ताञ् च सर्वधर्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णा स्वलक्षणशून्येति मनसिकरोति / ताञ् च स्वलक्षणशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णानुपलम्भशून्येति मनसिकरोति / ताञ् चानुपलम्भशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णाभावशून्येति मनसिकरोति / ताञ् चाभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णा स्वभावशून्येति मनसिकरोति / ताञ् च स्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णाभावस्वभावशून्येति मनसिकरोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानम् अध्यात्मशून्यम् इति मनसिकरोति / ताञ् चाध्यात्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानं बहिर्धाशून्यम् इति मनसिकरोति / ताञ् च बहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानम् अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति / ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानं शून्यताशून्यम् इति मनसिकरोति / ताञ् च शून्यताशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानं महाशून्यम् इति मनसिकरोति / ताञ् च महाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानं परमार्थशून्यम् इति मनसिकरोति / ताञ् च परमार्थशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानं संस्कृतशून्यम् इति मनसिकरोति / ताञ् च संस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानम् असंस्कृतशून्यम् इति मनसिकरोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानम् अत्यन्तशून्यम् इति मनसिकरोति / ताञ् चात्यन्तशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानम् अनवाग्रशून्यम् इति मनसिकरोति / ताञ् चानवाग्रशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानम् अनवकारशून्यम् इति मनसिकरोति / ताञ् चानवकारशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानं प्रकृतिशून्यम् इति मनसिकरोति / ताञ् च प्रकृतिशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानं सर्वधर्मशून्यम् इति मनसिकरोति / ताञ् च सर्वधर्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानं स्वलक्षणशून्यम् इति मनसिकरोति / ताञ् च स्वलक्षणशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानम् अनुपलम्भशून्यम् इति मनसिकरोति / ताञ् चानुपलम्भशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानम् अभावशून्यम् इति मनसिकरोति / ताञ् चाभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानं स्वभावशून्यम् इति मनसिकरोति / ताञ् च स्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानम् अभावस्वभावशून्यम् इति मनसिकरोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भवो ऽध्यात्मशून्य इति मनसि करोति / ताञ् चाध्यात्मशून्यताम् औपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो ऽध्यात्मशून्य इति मनसिकरोति / ताञ् चाध्यात्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो बहिर्धाशून्य इति मनसिकरोति / ताञ् च बहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो ऽध्यात्मबहिर्धाशून्य इति मनसिकरोति / ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावः शून्यताशून्य इति मनसिकरोति / ताञ् च शून्यताशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो महाशून्य इति मनसिकरोति / ताञ् च महाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावः परमार्थशून्य इति मनसिकरोति / ताञ् च परमार्थशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावः संस्कृतशून्य इति मनसिकरोति / ताञ् च संस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो ऽसंस्कृतशून्य इति मनसिकरोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो ऽत्यन्तशून्य इति मनसिकरोति / ताञ् चात्यन्तशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो ऽनवराग्रशून्य इति मनसिकरोति / ताञ् चानवराग्रशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो ऽनवकारशून्य इति मनसिकरोति / ताञ् चानवकारशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भवः प्रकृतिशून्य इति मनसिकरोति / ताञ् च प्रकृतिशून्यताम् औपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावः सर्वधर्मशून्य इति मनसिकरोति / ताञ् च सर्वधर्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावः स्वलक्षणशून्य इति मनसिकरोति / ताञ् च स्वलक्षणशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो ऽनुपलम्भशून्य इति मनसिकरोति / ताञ् चानुपलम्भशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो ऽभावशून्य इति मनसिकरोति / ताञ् चाभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावः स्वभावशून्य इति मनसिकरोति / ताञ् च स्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो ऽभावस्वभावशून्य इति मनसिकरोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् अध्यात्मशून्येति मनसिकरोति / ताञ् चाध्यात्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् बहिर्धाशून्येति मनसिकरोति / ताञ् च बहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् अध्यात्मबहिर्धाशून्येति मनसिकरोति / ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिः शून्यताशून्येति मनसिकरोति / ताञ् च शून्यताशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् महाशून्येति मनसिकरोति / ताञ् च महाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिः परमार्थशून्येति मनसिकरोति / ताञ् च परमार्थशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिः संस्कृतशून्येति मनसिकरोति / ताञ् च संस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् असंस्कृतशून्येति मनसिकरोति / ताञ् चासंस्कृतशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् अत्यन्तशून्येति मनसिकरोति / ताञ् चात्यन्तशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् अनवराग्रशून्येति मनसिकरोति / ताञ् चानवराग्रशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् अनवकारशून्येति मनसिकरोति / ताञ् चानवकारशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिः प्रकृतिशून्येति मनसिकरोति / ताञ् च प्रकृतिशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिः सर्वधर्मशून्येति मनसिकरोति / ताञ् च सर्वधर्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिः स्वलक्षणशून्येति मनसिकरोति / ताञ् च स्वलक्षणशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् अनुपलम्भशून्येति मनसिकरोति / ताञ् चानुपलम्भशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् अभावशून्येति मनसिकरोति / ताञ् चाभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिः स्वभावशून्येति मनसिकरोति / ताञ् च स्वभवशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् अभावस्वभावशून्येति मनसिकरोति / ताञ् चाभावस्वभावशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः स्पर्शः वेदना तृष्णा उपादानं भवं जातिः जरामरणं स्मृत्युपस्थानानि भावयति / तानि च स्मृत्युपस्थानान्य् उपलभते / तैश् च स्मृत्युपस्थानैर् मन्यते उपलम्भयोगेन / एवं, सम्यक्प्रहणानि ऋद्धिपादान् इन्द्रियाणि बलानि / बोध्यङ्गानि आर्याष्टाङ्गामार्गं आर्यसत्यानि ध्यानानि अप्रमाणानि आरूप्यसमापत्तीः विमोक्षान् अनुपूर्वविहारसमापत्तीः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि अभिज्ञाः समाधीन् धारणीमुखानि तथागतबलानि वैशारद्यानि प्रतिसंविदः महाकरुणां आवेणिकबुद्धधर्मान् /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणम् अध्यात्मशून्यम् इति मनसिकरोति / ताञ् चाध्यात्मशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणं बहिर्धाशून्यम् इति मनसिकरोति / ताञ् च बहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणम् अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति / ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणं शून्यताशून्यम् इति मनसिकरोति / ताञ् च शून्यताशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणं महाशून्यम् इति मनसिकरोति / ताञ् च महाशून्यताम् उपलभते / तथा च शून्यतया मन्यते उपलम्भयोगेन /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
