Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 36/37

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता, Part इ

Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अनागतं सुभूते रूपम् अनागतेन रूपेण शून्यं / तत् कस्य हेतोर् न हि शून्यतायाम् अनागतं रूपम् उपलभ्यते / शून्यतैव तावच् छून्याशून्यतयोपलभ्यते / कुतः पुनः शून्यतायाम् अनागतं रूपम् उपलभ्यते / अनागता वेदना अनागतया वेदनाया शून्या / तत् कस्य हेतोर् न हि शून्यतायाम् अनागता वेदनोपलभ्यते / शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते / कुतः पुनः शून्यतायाम् अनागता वेदनोपलभ्यते / अनागता संज्ञा अनागतया संज्ञया शून्या / तत् कस्य हेतोर् न हि सुभूते अनागता संज्ञोपलभ्यते / शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते / कुतः पुनः शून्यतायाम् अनागता संज्ञोपलभ्यते / अनागताः संस्काराः अनागतैः संस्कारैः शून्याः / तत् कस्य हेतोर् न हि सुभूते शून्यतायाम् अनागताः संस्काराः उपलभ्यन्ते / शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते / कुतः पुनः शून्यतायाम् अनागताः संस्कारा उपलभ्यन्ते / अनागतं विज्ञानम् अनागते न विज्ञानेन शून्यं / तत् कस्य हेतोर् न सुभूते शून्यतायाम् अनागतं विज्ञानम् उपलभ्यते शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते / कुतः पुनः शून्यतायाम् अनागतं विज्ञानम् उपलभ्यते /

प्रत्युत्पन्नं सुभूते रूपं प्रत्युत्पन्नेन रूपेण शून्यं / तत् कस्य हेतोर् न हि सुभूते शून्यतायां प्रत्युत्पन्नं रूपम् उपलभ्यते / शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते / कुतः पुनः शून्यतायां प्रत्युत्पन्नं रूपम् उपलभ्यते / प्रत्युत्पन्ना वेदना प्रत्युत्पन्नया वेदनाया शून्या / तत् कस्य हेतोर् न हि सुभूते शून्यतायां प्रत्युत्पन्ना वेदनोपलभ्यते / शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते / कुतः पुनः शून्यतायां प्रत्युत्पन्ना वेदनोपलभ्यते / प्रत्युत्पन्ना संज्ञा प्रत्युत्पन्नया संज्ञया शून्या / तत् कस्य हेतोर् न हि शून्यतायां प्रत्युत्पन्ना संज्ञोपलभ्यते / शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते / कुतः पुनः शून्यतायां प्रत्युत्पन्ना संज्ञोपलभ्यते / प्रत्युत्पन्नाः संस्काराः प्रत्युत्पन्नैः संस्कारैः शून्याः / तत् कस्य हेतोर् न हि सुभूते शून्यतायां प्रत्युत्पन्नाः संस्काराः उपलभ्यन्ते / शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते / कुतः पुनः शून्यतायां प्रत्युत्पन्नाः संस्काराः उपलभ्यन्ते / प्रत्युत्पन्नं विज्ञानं प्रत्युत्पन्नेन विज्ञानेन शून्यं / तत् कस्य हेतोर् न हि सुभूते शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलभ्यते / शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते / कुतः पुनः शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलभ्यते /

पूर्वान्ततः सुभूते दानपारमिता नोपलभ्यते / अपरान्ततो दानपारमिता नोपलभ्यते / प्रत्युत्पन्नतो दनापारमिता नोपलभ्यते / त्र्यध्वसमतायां दानपारमिता नोपलभ्यते / न सुभूते समतायाम् अतीताध्वोपलभ्यते / न समतायाम् अनागताध्वोपलभ्यते / न समतायां प्रत्युत्पन्नाध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीताध्वोपलभ्यते / कुतो ऽनागतोध्वोपलभ्यते / कुतः पुनः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः शीलपारमिता नोपलभ्यते / अपरान्ततः शीलपारमिता नोपलभ्यते / प्रत्युत्पन्नतः शीलपारमिता नोपलभ्यते / त्र्यध्वसमतायां शीलपारमिता नोपलभ्यते / तत् कस्य हेतोर् न हि सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / न समतायाम् अनागतो ऽध्वोपलभ्यते / न समतायां प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वोपलभ्यते / कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः क्षान्तिपारमिता नोपलभ्यते / अपरान्ततः क्षान्तिपारमिता नोपलभ्यते / प्रत्युत्पन्नतः क्षान्तिपारमिता नोपलभ्यते / त्र्यध्वसमतायां क्षान्तिपारमिता नोपलभ्यते / तत् कस्य हेतोर् न हि सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / न समतायाम् अनागतो ऽध्वोपलभ्यते / न समतायां प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा उपलभ्यते / कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततो वीर्यपारमिता नोपलभ्यते / अपरान्ततो वीर्यपारमिता नोपलभ्यते /

प्रत्युत्पन्नतो वीर्यपारमिता नोपलभ्यते / त्र्यध्वसमतायां वीर्यपारमिता नोपलभ्यते / तत् कस्य हेतोर् न हि सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / न समतायाम् अनागतो ऽध्वोपलभ्यते / न समतायां प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वोपलभ्यते / कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततो ध्यानपारमिता नोपलभ्यते / अपरान्ततो ध्यानपारमिता नोपलभ्यते / प्रत्युत्पन्नतो ध्यानपारमिता नोपलभ्यते / त्र्यध्वसमतायां ध्यानपारमिता नोपलभ्यते / तत् कस्य हेतोर् न हि सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / न समतायाम् अनागतो ऽध्वोपलभ्यते / न समतायां प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वोपलभ्यते / कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते प्रज्ञापारमिता नोपलभ्यते / अपरान्ततः प्रज्ञापारमिता नोपलभ्यते / प्रत्युत्पन्नतः प्रज्ञापारमिता नोपलभ्यते / त्र्यध्वसमतायां प्रज्ञापारमिता नोपलभ्यते / तत् कस्य हेतोर् न हि सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / न समतायाम् अनागतो ऽध्वोपलभ्यते न समतायां प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वोपलभ्यते / कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते /

पूर्वान्ततः सुभूते अध्यात्मशून्यता नोपलभ्यते / अपरान्तताध्यात्मशून्यता नोपलभ्यते / प्रत्युत्पन्नतो ऽध्यात्मशून्यता नोपलभ्यते / त्र्यध्वसमतायाम् अध्यात्मशून्यता नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वोपलभ्यते / न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वोपलभ्यते / कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते बहिर्धाशून्यता नोपलभ्यते / अपरान्ततो बहिर्धाशून्यता नोपलभ्यते / प्रत्युत्पन्नतो बहिर्धाशून्यता नोपलभ्यते / त्र्यध्वसमतायां बहिर्धाशून्यता नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वोपलभ्यते / न प्रत्युत्पन्नो ऽध्वोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वोपलभ्यते / कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते ऽध्यात्मबहिर्धाशून्यता नोपलभ्यते / अपरान्ततो ऽध्यात्मबहिर्धाशून्यता नोपलभ्यते / प्रत्युत्पन्नतो ऽध्यात्मबहिर्धाशून्यता नोपलभ्यते / त्र्यध्वसमतायाम् अध्यात्मबहिर्धाशून्यता नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वोपलभ्यते / न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वोपलभ्यते / कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते शून्यताशून्यता नोपलभ्यते / अपरान्ततः शून्यताशून्यता नोपलभ्यते / प्रत्युत्पन्नतः शून्यताशून्यता नोपलभ्यते /

त्र्यध्वसमतायां शून्यताशून्यता नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते महाशून्यता नोपलभ्यते / अपरान्ततो महाशून्यता नोपलभ्यते / प्रत्युत्पन्नतो महाशून्यता नोपलभ्यते / त्र्यध्वसमतायां महाशून्यता नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनपगतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते परमार्थशून्यता नोपलभ्यते / अपरान्ततः परमार्थशून्यता नोपलभ्यते / प्रत्युत्पन्नतः परमार्थशून्यता नोपलभ्यते / त्र्यध्वसमतायां परमार्थशून्यता नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते संस्कृतशून्यता नोपलभ्यते / अपरान्ततः संस्कृतशून्यता नोपलभ्यते / प्रत्युत्पन्नतः संस्कृतशून्यता नोपलभ्यते / त्र्यध्वसमतायां संस्कृतशून्यता नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते /

कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते ऽसंस्कृतशून्यता नोपलभ्यते / अपरान्ततो ऽसंस्कृतशून्यता नोपलभ्यते / प्रत्युत्पन्नतो ऽसंस्कृतशून्यता नोपलभ्यते / त्र्यध्वसमतायाम् असंस्कृतशून्यता नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते अत्यन्तशून्यता नोपलभ्यते / अपरान्ततो ऽत्यन्तशून्यता नोपलभ्यते / प्रत्युत्पन्नतो ऽत्यन्तशून्यता नोपलभ्यते / त्र्यध्वसमतायाम् अत्यन्तशून्यता नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते ऽनवराग्रशून्यता नोपलभ्यते / अपरान्ततो ऽनवराग्रशून्यता नोपलभ्यते / प्रत्युत्पन्नतो ऽनवराग्रशून्यता नोपलभ्यते / त्र्यध्वसमतायाम् अनवराग्रशून्यता नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते ऽनवकारशून्यता नोपलभ्यते / अपरान्ततो ऽनवकारशून्यता नोपलभ्यते /

प्रत्युत्पन्नतो ऽनवकारशून्यता नोपलभ्यते / त्र्यध्वसमतायाम् अनवकारशून्यता नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते प्रकृतिशून्यता नोपलभ्यते / अपरान्ततः प्रकृतिशून्यता नोपलभ्यते / प्रत्युत्पन्नतः प्रकृतिशून्यता नोपलभ्यते / त्र्यध्वसमतायां प्रकृतिशून्यता नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते सर्वधर्मशून्यता नोपलभ्यते / अपरान्ततः सर्वधर्मशून्यता नोपलभ्यते / प्रत्युत्पन्नतः सर्वधर्मशून्यता नोपलभ्यते / त्र्यध्वसमतायां सर्वधर्मशून्यता नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते स्वलक्षणशून्यता नोपलभ्यते / अपरान्ततः स्वलक्षणशून्यता नोपलभ्यते / प्रत्युत्पन्नतः स्वलक्षणशून्यता नोपलभ्यते / त्र्यध्वसमतायां स्वलक्षणशून्यता नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते /

समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते ऽनुपलम्भशून्यता नोपलभ्यते / अपरान्ततो ऽनुपलम्भशून्यता नोपलभ्यते / प्रत्युत्पन्नतो ऽनुपलम्भशून्यता नोपलभ्यते / त्र्यध्वसमतायाम् अनुपलम्भशून्यता नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते अभावशून्यता नोपलभ्यते / अपरान्ततो ऽभावशून्यता नोपलभ्यते / प्रत्युत्पन्नतो ऽभावशून्यता नोपलभ्यते / त्र्यध्वसमतायाम् अभावशून्यता नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते स्वभावशून्यता नोपलभ्यते / अपरान्ततः स्वभावशून्यता नोपलभ्यते / प्रत्युत्पन्नतः स्वभावशून्यता नोपलभ्यते / त्र्यध्वसमतायां स्वभावशून्यता नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते /

समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते ऽभावस्वभावशून्यता नोपलभ्यते / अपरान्ततो ऽभावस्वभावशून्यता नोपलभ्यते / प्रत्युत्पन्नतो ऽभावस्वभावशून्यता नोपलभ्यते / त्र्यध्वसमतायाम् अभावस्वभावशून्यता नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते /

पूर्वान्ततः सुभूते स्मृत्युपस्थानानि नोपलभ्यन्ते / अपरान्ततः स्मृत्युपस्थानानि नोपलभ्यन्ते / प्रत्युत्पन्नतः स्मृत्युपस्थानानि नोपलभ्यन्ते / त्र्यध्वसमतायां स्मृत्युपस्थानानि नोपलभ्यन्ते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते सम्यक्प्रहाणानि नोपलभ्यन्ते / अपरान्ततः सम्यक्प्रहाणानि नोपलभ्यन्ते / प्रत्युत्पन्नतः सम्यक्प्रहाणानि नोपलभ्यन्ते / त्र्यध्वसमतायां सम्यक्प्रहाणानि नोपलभ्यन्ते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते ऋद्धिपादा नोपलभ्यन्ते / अपरान्ततः ऋद्धिपादा नोपलभ्यन्ते / प्रत्युत्पन्नतः ऋद्धिपादा नोपलभ्यन्ते / त्र्यध्वसमतायाम् ऋद्धिपादा नोपलभ्यन्ते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते इन्द्रियाणि नोपलभ्यन्ते / अपरान्ततः इन्द्रियाणि नोपलभ्यन्ते / प्रत्युत्पन्नत इन्द्रियाणि नोपलभ्यन्ते / त्र्यध्वसमतायाम् इन्द्रियाणि नोपलभ्यन्ते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते /

नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते बलानि नोपलभ्यते / अपरान्ततो बलानि नोपलभ्यते / प्रत्युत्पन्नतो बलानि नोपलभ्यते / त्र्यध्वसमतायां बलानि नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते बोध्यङ्गानि नोपलभ्यन्ते / अपरान्ततो बोध्यङ्गानि नोपलभ्यन्ते / प्रत्युत्पन्नतो बोध्यङ्गानि नोपलभ्यन्ते / त्र्यध्वसमतायां बोध्यङ्गानि नोपलभ्यन्ते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते आर्याष्टाङ्गमार्गो नोपलभ्यते / अपरान्ततः आर्याष्टाङ्गमार्गो नोपलभ्यते / प्रत्युत्पन्नत आर्याष्टाङ्गमार्गो नोपलभ्यते / त्र्यध्वसमतायाम् आर्याष्टाङ्गमार्गो नोपलभ्यते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते आर्यसत्यानि नोपलभ्यन्ते /

अपरान्तत आर्यसत्यानि नोपलभ्यन्ते / प्रत्युत्पन्नत आर्यसत्यानि नोपलभ्यन्ते / त्र्यध्वसमतायाम् आर्यसत्यानि नोपलभ्यन्ते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते ध्यानानि नोपलभ्यन्ते / अपरान्ततो ध्यानानि नोपलभ्यन्ते / प्रत्युत्पन्नतो ध्यानानि नोपलभ्यन्ते / त्र्यध्वसमतायां ध्यानानि नोपलभ्यन्ते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते अप्रमाणानि नोपलभ्यन्ते / अपरान्ततो ऽप्रमाणानि नोपलभ्यन्ते / प्रत्युत्पन्नतो ऽप्रमाणानि नोपलभ्यन्ते / त्र्यध्वसमतायाम् अप्रमाणानि नोपलभ्यन्ते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते आरूप्यसमापत्तयो नोपलभ्यन्ते / अपरान्तत आरूप्यसमापत्तयो नोपलभ्यन्ते / प्रत्युत्पन्नत आरूप्यसमापत्तयो नोपलभ्यन्ते / त्र्यध्वसमतायाम् आरूप्यसमापत्तयो नोपलभ्यन्ते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते /

समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते अष्टौ विमोक्षा नोपलभ्यन्ते / अपरान्ततो ऽष्टौ विमोक्षा नोपलभ्यन्ते / प्रत्युत्पन्नतो ऽष्टौ विमोक्षा नोपलभ्यन्ते / त्र्यध्वसमतायाम् अष्टौ विमोक्षा नोपलभ्यन्ते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते नवानुपूर्वविहारसमापत्तयो नोपलभ्यन्ते / अपरान्ततो नवानुपूर्वविहारसमापत्तयो नोपलभ्यन्ते / प्रत्युत्पन्नतो नवानुपूर्वविहारसमापत्तयो नोपलभ्यन्ते / त्र्यध्वसमतायां नवानुपूर्वविहारसमापत्तयो नोपलभ्यन्ते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोपलभ्यन्ते / अपरान्ततः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोपलभ्यन्ते / प्रत्युत्पन्नतः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोपलभ्यन्ते / त्र्यध्वसमतायां शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोपलभ्यन्ते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते /

कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते अभिज्ञा नोपलभ्यते / अपरान्ततो ऽभिज्ञा नोपलभ्यते / प्रत्युत्पन्नतो ऽभिज्ञा नोपलभ्यते / त्र्यध्वसमतायाम् अभिज्ञा नोपलभ्यते / न सुभूते समतायाम् अतीतो

ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते समाधयो नोपलभ्यन्ते / अपरान्ततः समाधयो नोपलभ्यन्ते / प्रत्युत्पन्नतः समाधयो नोपलभ्यन्ते / त्र्यध्वसमतायां समाधयो नोपलभ्यन्ते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते धारणीमुखानि नोपलभ्यन्ते / अपरान्ततः धारणीमुखानि नोपलभ्यन्ते / प्रत्युत्पन्नतः धारणीमुखानि नोपलभ्यन्ते / त्र्यध्वसमतायां धारणीमुखानि नोपलभ्यन्ते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते दश तथागतबलानि नोपलभ्यन्ते / अपरान्ततो दश तथागतबलानि नोपलभ्यन्ते / प्रत्युत्पन्नतो दश तथागतबलानि नोपलभ्यन्ते / त्र्यध्वसमतायां दश तथागतबलानि नोपलभ्यन्ते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते /

पूर्वान्ततः सुभूते चत्वारि वैशारद्यानि नोपलभ्यन्ते / अपरान्ततश् चत्वारि वैशारद्यानि नोपलभ्यन्ते / प्रत्युत्पन्नतश् चत्वारि वैशारद्यानि नोपलभ्यन्ते / त्र्यध्वसमतायां चत्वारि वैशारद्यानि नोपलभ्यन्ते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते चतस्रः प्रतिसंविदो नोपलभ्यन्ते / अपरान्ततश् चतस्रः प्रतिसंविदो नोपलभ्यन्ते / प्रत्युत्पन्नतश् चतस्रः प्रतिसंविदो नोपलभ्यन्ते / त्र्यध्वसमतायां चतस्रः प्रतिसंविदो नोपलभ्यन्ते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते महाकरुणा नोपलभ्यते / अपरान्ततो महाकरुणा नोपलभ्यते / प्रत्युत्पन्नतो महाकरुणा नोपलभ्यते / त्र्यध्वसमतायां महाकरुणा नोपलभ्यन्ते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते / पूर्वान्ततः सुभूते अष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्ते / अपरान्ततो ऽष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्ते / प्रत्युत्पन्नतो ऽष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्ते /

त्र्यध्वसमतायाम् अष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्ते / न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते / नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते / समतैव तावत् समतायां नोपलभ्यते / कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते / कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते /

पुनर् अपरं सुभूते पूर्वान्ततः पृथग्जनो नोपलभ्यते / अपरान्ततः पृथग्जनो नोपलभ्यते / प्रत्युत्पन्नतः पृथग्जनो नोपलभ्यते / त्र्यध्वसमतायां पृथग्जनो नोपलभ्यते / तत् कस्य हेतोः सत्त्वानुपलब्धिताम् उपादाय / पुनर् अपरं सुभूते पूर्वान्ततः श्रावको नोपलभ्यते / अपरान्ततः श्रावको नोपलभ्यते / प्रत्युत्पन्नतः श्रावको नोपलभ्यते / त्र्यध्वसमतायां श्रावको नोपलभ्यते / तत् कस्य हेतोः सत्त्वानुपलब्धिताम् उपादाय / पुनर् अपरं सुभूते पूर्वान्ततः प्रत्येकबुद्धो नोपलभ्यते / अपरान्ततः प्रत्येकबुद्धो नोपलभ्यते / प्रत्युत्पन्नतः प्रत्येकबुद्धो नोपलभ्यते / त्र्यध्वसमतायां प्रत्येकबुद्धो नोपलभ्यते / तत् कस्य हेतोः सत्त्वानुपलब्धिताम् उपादाय / पुनर् अपरं सुभूते पूर्वान्ततो बोधिसत्त्वो नोपलभ्यते / अपरान्ततो बोधिसत्त्वो नोपलभ्यते / प्रत्युत्पन्नतो बोधिसत्त्वो नोपलभ्यते / त्र्यध्वसमतायां बोधिसत्त्वो नोपलभ्यते / तत् कस्य हेतोः सत्त्वानुपलब्धिताम् उपादाय / पुनर् अपरं सुभूते पूर्वान्ततस् तथागतो नोपलभ्यते / अपरान्ततस् तथागतो नोपलभ्यते / प्रत्युत्पन्नतस् तथागतो नोपलभ्यते / त्र्यध्वसमतायां तथागतो नोपलभ्यते / तत् कस्य हेतोः सत्त्वानुपलब्धिताम् उपादाय / एवं खलु बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वा त्रिष्व् अध्वसु शिक्षित्वा सर्वाकारज्ञता परिपूरयितव्या / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य त्र्यध्वसमतानाममहायानं / यत्र स्थित्वा बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरं लोकम् अभिभूय सर्वाकारज्ञतायां निर्याति /

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् / साधु साधु भगवन् यावत् सुभाषितम् इदं भगवता बोधिसत्त्वानां महासत्त्वानां त्र्यध्वसमतानाममहयानं / अत्र भगवन् महायाने शिक्षित्वातीतैर् अपि बोधिसत्त्वैर् महासत्त्वैः सर्वाकारज्ञता समनुप्राप्ता / अनागता अपि भगवन् बोधिसत्त्वा महासत्त्वा अत्रैव महायाने शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्स्यन्ति / ये ऽपि ते भगवन्न् एतर्हि दशसु दिक्षु अप्रमेयासंख्येयेषु लोकधातुष्व् अपरिमाणा बोधिसत्त्वा महासत्त्वास् ते ऽप्य् अत्र महायाने शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नुवन्ति / तस्मात् तर्हि भगवन् महायानम् इदं बोधिसत्त्वानां महासत्त्वानां यद् उत त्र्यध्वसमतानाम / एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत् / एवम् एतत् सुभूते एवम् एतत् / अत्र महायाने शिक्षित्वातीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः सर्वाकारज्ञतानुप्राप्ता चानुप्राप्स्यते चानुप्राप्यते च //

शतसाहस्र्याः प्रज्ञापारमितायाः एकादश परिवर्तः // (श्sP_1.11)

अथ द्वादशः परिवर्तः /

अथ खलु पूर्णो मैत्रायणीपुत्रो भगवन्तम् एतद् अवोचत् / अयं भगवन् सुभूतिः स्थविरस् तथागतेनार्हता सम्यक्संबुद्धेन प्रज्ञापारमितायाः कृते अध्येषितः स महायानम् उपदेष्टव्यं मन्यते / अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् / मा हैवाहं भगवन् प्रज्ञापारमिताम् अतिक्रम्य महायानम् उपदिशामि / भगवान् आह / नो हीदं सुभूते ऽनुलोमं त्वं सुभूते प्रज्ञापारमिताया महायानम् उपदिश्यसि / तत् कस्य हेतोस् तथा हि सुभूते ये केचित् कुशला धर्माः श्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति / सुभूतिर् आह / कतमे भगवन् कुशला धर्मा बोधिपक्षाः वा के धर्माश् च प्रत्येकबुद्धधर्माश् च बोधिसत्त्वधर्माश् च बुद्धधर्माश् च ये प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति / भगवान् आह / तद्यथा चत्वारि स्मृत्युपस्थानानि / चत्वारि सम्यक्प्रहाणानि / चत्वार ऋद्धिपादाः / पञ्चेन्द्रियाणि / पञ्च बलानि / सप्त बोध्यङ्गानि / आर्याष्टाङ्गमार्गः / चत्वार्य् आर्यसत्यानि / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि / चत्वारि ध्यानानि / चत्वार्य् अप्रमाणानि / चतस्र आरूप्यसमापत्तयः / षड् अभिज्ञाः / दानपारमिता / शीलपारमिता / क्षान्तिपारमिता / वीर्यपारमिता / ध्यानपारमिता / प्रज्ञापारमिता / अध्यात्मशून्यता / बहिर्धाशून्यता / अध्यात्मबहिर्धाशून्यता / शून्यताशून्यता / महाशून्यता / परमार्थशून्यता / संस्कृतशून्यता / असंस्कृतशून्यता / अत्यन्तशून्यता / अनवराग्रशून्यता / अनवकारशून्यता / प्रकृतिशून्यता / सर्वधर्मशून्यता / स्वलक्षणशून्यता / अनुपलम्भशून्यता /

अभावशून्यता / स्वभावशून्यता / अभावस्वभावशून्यता / सर्वसमाधयः / सर्वधारणीमुखानि / दश तथागतबलानि / चत्वारि वैशारद्यानि / चतस्रः प्रतिसंविडः / महामैत्री / महाकरुणा / महामुदिता / महोपेक्षा / अष्टादशावेणिका बुद्धधर्माः / असंप्रमेयधर्मता / महोपेक्षाविहारिता / इमे सुभूते कुशला धर्मा बोधिपक्षाः / श्रावकधर्माश् च प्रत्येकबुद्धधर्माश् च बोधिसत्त्वधर्माश् च बुद्धधर्माश् च ये प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति / यच् च सुभूते महायानं यच् च प्रज्ञापारमिता ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिता / यच् च रूपं या च वेदना या च संज्ञा ये च संस्काराः यच् च विज्ञानं यच् च चक्षुः यच् च रूपं यच् च चक्षुर्विज्ञानं यश् च चक्षुःसंस्पर्शो या च चक्षुःसंस्पर्शप्रत्ययवेदना / यच् च श्रोत्रं यश् च शब्दो यच् च श्रोत्रविज्ञानं यश् च श्रोत्रसंस्पर्शो या च श्रोत्रसंस्पर्शप्रत्ययवेदना / यच् च घ्राणं यश् च गन्धो यच् च घ्राणविज्ञानं यश् च घ्राणसंस्पर्शो या च घ्राणसंस्पर्शप्रत्ययवेदना / या च जिह्वा यश् च रसो यच् च जिह्वाविज्ञानं यश् च जिह्वासंस्पर्शो या च जिह्वासंस्पर्शप्रत्ययवेदना / यश् च कायो यश् च स्पर्शो यच् च कायविज्ञानं यश् च कायसंस्पर्शो या च कायसंस्पर्शप्रत्ययवेदना / यच् च मनो ये च धर्मा यच् च मनोविज्ञानं यश् च मनःसंस्पर्शो या च मनःसंस्पर्शप्रत्ययवेदना / या चाविद्या ये च संस्कारा यच् च विज्ञान यच् च नामरूपं यच् च षडायतनं यश् च स्पर्शो या च वेदना या च तृष्णा यच् चोपादानं यश् च भवो या च जातिर् यच् च जरामरणं /

या च दानपारमिता या च शीलपारमिता या च क्षान्तिपारमिता या च वीर्यपारमिता या च ध्यानपारमिता या च प्रज्ञापारमिता / या चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च शून्यताशून्यता या च महाशून्यता या च परमार्थशून्यता या च संस्कृतशून्यता या चासंस्कृतशून्यता या चात्यन्तशून्यता या चानवराग्रशून्यता या चानवकारशून्यता या च प्रकृतिशून्यता या च सर्वधर्मशून्यता या च स्वलक्षणशून्यता या चानुपलम्भशून्यता या चाभावशून्यता या च स्वभावशून्यता या चाभावस्वभावशून्यता / यानि च स्मृत्युपस्थानानि यानि च सम्यक्प्रहाणानि / ये चर्धिपादाः / यानि चेन्द्रियाणि यानि च बलानि यानि च बोध्यङ्गानि यश् चार्याष्टाङ्गमार्गः / यानि चार्यासत्यानि यानि च ध्यानानि यानि चाप्रमाणानि याश् चारूप्यसमापत्तयो याश् च षड् अभिज्ञाः / यानि चाष्टाभिध्यायतनानि / यानि दश कृत्स्नायतनानि / ये चाष्टौ विमोक्षाः / याश् च नवानुपूर्वविहारसमापत्तयः / यच् च दुःखं यश् च समुदयो यश् च निरोधो यश् च मार्गः / यानि च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि / ये च समाधयो यानि च धारणीमुखानि यानि च दश तथागतबलानि / यानि च चत्वारि वैशारद्यानि / याश् च चतस्रः प्रतिसंविदो या च महाकरुणा ये चाष्टादशावेणिका बुद्धधर्माः / यश् च कामधातुर् यश् चारूप्यधातुर् ये च कुशलधर्माः ये च साश्रवा धर्माः ये चानाश्रवा धर्माः ये च लौकिका धर्माः ये च लोकोत्तरा धर्माः ये च संस्कृतधर्माः ये चासंस्कृतधर्माः यश् च तथागतधर्मः /

यश् च तथागतेन प्रवेशितो धर्मविनयो यश् च धर्मधातुर् या च तथता या च भूतकोटि यश् चाचिन्त्यधातुर् यश् च निर्वाणधातुः सर्वत्र एते धर्माः न संयुक्ता न विसंयुक्ताः / अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः / अनेन त्वं सुभूते पर्यायेण प्रज्ञापारमिताया अनुलोमं महायानम् उपदिशामि / तत् कस्य हेतोर् न हि सुभूते ऽन्यन् महायानम् अन्या प्रज्ञापारमिता / इति हि महायानञ् च प्रज्ञापारमिता चाद्वयम् एतद् अध्वैधीकारं / नान्यन् महायानम् अन्या ध्यानपारमिता / इति हि महायानञ् च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्या वीर्यपारमिता / इति हि महायानञ् च वीर्यपारमिता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्या क्षान्तिपारमिता / इति हि महायानञ् च क्षान्तिपारमिता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्या शीलपारमिता / इति हि महायानञ् च शीलपारमिता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्या दानपारमिता / इति हि महायानञ् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्याध्यात्मशून्यता / इति हि महायानञ् चाध्यात्मशून्यता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्या बहिर्धाशून्यता / इति हि महायानञ् च बहिर्धाशून्यता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्याध्यात्मबहिर्धाशून्यता / इति हि महायानञ् चाध्यात्मबहिर्धाशून्यता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्या शून्यताशून्यता / इति हि महायानञ् च शून्यताशून्यता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्या महाशून्यता / इति हि महायानञ् च महाशून्यता चाद्वयम् एतद् अद्वैधीकारं /

नान्यन् महायानं नान्या परमार्थशून्यता / इति हि महायानञ् च परमार्थशून्यता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्या संस्कृतशून्यता / इति हि महायानञ् च संस्कृतशून्यता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्यासंस्कृतशून्यता / इति हि महायानञ् चासंस्कृतशून्यता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्यात्यन्तशून्यता / इति हि महायानञ् चात्यन्तशून्यता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्यानवराग्रशून्यता / इति हि महायानञ् चानवराग्रशून्यता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्यानवकारशून्यता / इति हि महायानञ् चानवकारशून्यता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्या प्रकृतिशून्यता / इति हि महायानञ् च प्रकृतिशून्यता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्या सर्वधर्मशून्यता / इति हि महायानञ् च सर्वधर्मशून्यता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्या स्वलक्षणशून्यता / इति हि महायानञ् च स्वलक्षणशून्यता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्यानुपलम्भशून्यता / इति हि महायानञ् चानुपलम्भशून्यता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्याभावशून्यता / इति हि महायानञ् चाभावशून्यता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्या स्वभावशून्यता / इति हि महायानञ् च स्वभावशून्यता चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्याभावस्वभावशून्यता / इति हि महायानञ् चाभावस्वभावशून्यता चाद्वयम् एतद् अद्वैधीकारं /

नान्यन् महायानम् अन्यानि स्मृत्युपस्थानानि / इति हि महायानञ् च स्मृत्युपस्थानानि चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्यानि सम्यक्प्रहाणानि / इति हि महायानञ् च सम्यक्प्रहाणानि चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्ये ऋद्धिपादाः / इति हि महायानञ् चर्धिपादाश् चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्यानीन्द्रियाणि / इति हि महायानञ् चेन्द्रियाणि चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्यानि बलानि / इति हि महायानञ् च बलानि चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्यानि बोध्यङ्गानि / इति हि महायानञ् च बोध्यङ्गानि चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्य आर्याष्टाङ्गमार्गः / इति हि महायानञ् चार्याष्टाङ्गमार्गश् चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्यान्य् आर्यसत्यानि / इति हि महायानञ् चार्यसत्यानि चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्यानि ध्यानानि / इति हि महायानञ् च ध्यानानि चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्यान्य् अप्रमाणानि / इति हि महायानञ् चाप्रमाणानि चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्या आरूप्यसमापत्तयः / इति हि महायानञ् चारूप्यसमापत्तयश् चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्ये ऽष्टौ विमोक्षाः / इति हि महायानञ् च विमोक्षाश् चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्या नवानुपूर्वविहारसमापत्तयः / इति हि महायानञ् चानुपूर्वविहारसमापत्तयश् चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्यानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि / इति हि महायानञ् च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि चाद्वयम् एतद् द्वैधीकारं /

नान्यन् महायानम् अन्या अभिज्ञा / इति हि महायानञ् चाभिज्ञाश् चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्ये समाधयः / इति हि महायानञ् च समाधयश् चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्यानि धारणीमुखानि / इति हि महायानञ् च धारणीमुखानि चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्यानि दश तथागतबलानि / इति हि महायानञ् च तथागतबलानि चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्यानि वैशारद्यानि / इति हि महायानञ् च वैशारद्यानि चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्याश् चतस्रः प्रतिसंविदः / इति हि महायानञ् च प्रतिसंविदश् चाद्वयम् एतद् अद्वैधीकारं / नान्यन् महायानम् अन्या महाकरुणा / इति हि महायानञ् च महाकरुणा चाद्वयम् एतद् अद्वैधीकारं / नान्यन् माहायानम् अन्ये ऽष्टादशावेणिका बुद्धधर्माः / इति हि महायानञ् चावेणिकबुद्धधर्माश् चाद्वयम् एतद् अद्वैधीकारं /

अनेन सुभूते पर्यायेण महायानम् उपदिश्य प्रज्ञापारमितोपदिष्टा भवति / प्रज्ञापारमिताम् उपदिश्य महायानम् उपदिष्टं भवति / अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् / अपि तु खलु पुनर् भगवन् पूर्वान्ततो बोधिसत्त्वो नोपलभ्यते / अपरान्ततो बोधिसत्त्वो नोपलभ्यते / मध्यतो ऽपि बोधिसत्त्वो नोपलभ्यते / रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या / वेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या / संज्ञापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या / संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या / विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या / रूपं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते / वेदना बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते / संज्ञा बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते / संस्कारा बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते / विज्ञानं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते / एवम् अहं भगवन् सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वम् असमनुपश्यन्न् अनुपलम्भमानः कतमं बोधिसत्त्वं कतमस्यां पज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि / बोधिसत्त्वम् एव तावत् सकलं न समनुपश्यामि नोपलभे / तत् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि / बोधिसत्त्वो महासत्त्व इति भगवन्न् उच्यते नाममात्रम् एतत् / यथा आत्मेति भगवन्न् अच्यते ऽत्यन्तानभिनिर्वृत्तश् चात्मा / एवम् एव भगवन् बोधिसत्त्वो महासत्त्व इत्य् उच्यते ऽत्यन्तानभिनिर्वृत्तश् च बोधिसत्त्वः / एवम् अभावस्वभावानां धर्माणां कतमत् तद् रूपं यद् अनभिनिर्वृत्तं /

कतमा सा वेदनायानभिनिवृत्ता / कतमा सा संज्ञा यानभिनिर्वृत्ता / कतमे ते संस्कारा ये ऽनभिनिर्वृत्ताः / कतमत् तद् विज्ञानं यद् अनभिनिर्वृत्तं / यच् च भगवन्न् अनभिनिर्वृत्तं / न तद् रूपं या चानभिनिर्वृत्ता न सा वेदना / या चानभिनिर्वृत्ता न सा संज्ञा / ये चानभिनिर्वृत्ता न ते संस्काराः / यद् अनभिनिर्वृत्तं न तद् विज्ञानं / तत् किम् अनभिनिर्वृत्तम् अनभिनिर्वृत्तायां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि / न चान्यत्रानभिनिर्वृत्तेर् बोधिसत्त्वो महासत्त्व उपलभ्यते / यो बोधाय चरेत् / सचेद् एकनिर्दिश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपाद्यते / चरत्य् अयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां /

अथायुष्मान् शारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत् / केन कारणेनायुष्मन् सुभूते पूर्वान्ततो बोधिसत्त्वो नोपैति / अपरान्ततो बोधिसत्त्वो नोपैति मध्यतो बोधिसत्त्वो नोपैति / केन कारणेनायुष्मन् सुभूते रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या / वेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या / संज्ञापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या / संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या / विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या / केन कारणेनायुष्मन् सुभूते रूपं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते / वेदना बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते / संज्ञा बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते / विज्ञानं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते / केन कारणेनायुष्मन् सुभूते एवं वदस्य् एवम् अहं सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वम् असमनुपश्यन्न् अनुपलभमानः कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि / केन कारणेनायुष्मन् सुभूते एवं वदसि बोधिसत्त्वम् एव तावत् सकलं न समनुपश्यामि नोपलभे / कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अवदिष्याम्य् अनुशासिष्यामि / केन कारणेनायुष्मन् सुभूते एवं वदसि बोधिसत्त्वो बोधिसत्त्व इति भगवन्न् उच्यते / यावद् एव नाममात्रम् एतत् / केन कारणेनायुष्मन् सुभूते एवं वदसि यथा आत्मेत्य् उच्यते अत्यन्तानभिनिर्वृत्तश् चात्मा / एवम् एव भगवन् बोधिसत्त्वो महासत्त्व इत्य् उच्यते अत्यन्तानभिनिर्वृत्तश् च बोधिसत्त्वः /

एवम् अभावस्वभावानां सर्वधर्माणां कतमत् तद् रूपं यद् अनभिनिर्वृत्तं / कतमा सा वेदना यानभिनिर्वृत्ता / कतमा सा संज्ञा यानभिनिर्वृत्ता / कतमे ते संस्कारा ये ऽनभिनिर्वृत्ता / कतमं तद् विज्ञानं यद् अनभिनिर्वृत्तं / यद् अनभिनिर्वृत्तं न तद् रूपं / यानभिनिर्वृत्ता न सा वेदना / यानभिनिवृत्ता न सा संज्ञा / ये ऽनभिनिर्वृत्ता न ते संस्काराः / यद् अनभिनिर्वृत्तं न तद् विज्ञानं / केन कारणेन सुभूते एवं वदसि तत् किम् अनभिनिर्वृत्तम् अनभिनिर्वृत्तायां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि / केन कारणेन सुभूते एवं नान्यत्रानभिनिर्वृत्तैर् बोधिसत्त्व उपलभ्यते यो बोधाय चरेत् / केन कारणेन सुभूते एवं वदसि सचेद् एवं निर्देश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरत्य् अयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् इति / एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत् / सत्त्वासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / सत्त्वविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / सत्त्वास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / सत्त्वासत्तयापरान्ततो बोधिसत्त्वो नोपैति / सत्त्वाशून्यतया सत्त्वविविक्ततया सत्त्वास्वभावतया अपरान्ततो बोधिसत्त्वो नोपैति / सत्त्वासत्तया मध्यतो बोधिसत्त्वो नोपैति / सत्त्वशून्यतया सत्त्वविविक्ततया सत्त्वास्वभावतया मध्यतो बोधिसत्त्वो नोपैति /

तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र सत्त्वासत्तयो सत्त्वशून्यतायां सत्त्वविविक्ततायां सत्त्वास्वभावतायां पूर्वान्त उपलभ्यते नापरान्तो न मध्य उपलभ्यते / न चान्यासत्त्वासत्तान्या सत्त्वशून्यतान्या सत्त्वविविक्ततान्या सत्त्वास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यो मध्य इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च सत्त्वासत्ता या च सत्त्वशून्यता या च सत्त्वविविक्तता या च सत्त्वस्वभावता यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं / रूपासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / रूपशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति / रूपविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / रूपास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / रूपासत्तयापरान्ततो बोधिसत्त्वो नोपैति / रूपशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / रूपविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / रूपास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / रूपासत्तया मध्यतो बोधिसत्त्वो नोपैति / रूपशून्यतया मध्यतो बोधिसत्त्वो नोपैति / रूपविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / रूपास्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र रूपासत्तयो रूपशून्यतायां रूपविविक्ततायां रूपास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते / न चान्यारूपासत्तान्या रूपशून्यतान्या रूपविविक्ततान्या रूपास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यो मध्यं /

इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च रूपासत्ता या च रूपशून्यता या च रूपविविक्तता या च रूपास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

वेदनासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / वेदनाशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति / वेदनाविविक्ततया पूर्वन्ततो बोधिसत्त्वो नोपैति / वेदनास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / वेदनासत्तयापरान्ततो बोधिसत्त्वो नोपैति / वेदनाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / वेदनाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / वेदनास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / वेदनासत्तया मध्यतो बोधिसत्त्वो नोपैति / वेदनाशून्यतया मध्यतो बोधिसत्त्वो नोपैति / वेदनाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र वेदनासत्तया वेदनाशून्यतायां वेदनाविविक्ततायां वेदनास्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यं उपलभ्यते / न चान्या वेदनासत्तान्या वेदनाशून्यतान्या वेदनाविविक्ततान्या वेदनास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं / इति ह्य् आयुश्मञ् छारद्वतीपुत्र या च वेदनासत्ता या च वेदनाशून्यता या च वेदनाविविक्ततो या च वेदनास्वभावतायश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

संज्ञासत्तायायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / संज्ञाशून्यतया पूर्वान्ततो बोधिसत्वो नोपैति / संज्ञाविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / संज्ञास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / संज्ञासत्तयापरान्ततो बोधिसत्त्वो नोपैति / संज्ञाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / संज्ञाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / संज्ञास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / संज्ञासत्तया मध्यतो बोधिसत्त्वो नोपैति / संज्ञाशून्यतया मध्यतो बोधिसत्त्वो नोपैति / संज्ञाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / संज्ञास्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र संज्ञासत्तायां संज्ञाशून्यतायां संज्ञाविविक्ततायां संज्ञास्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यम् उपलभ्यते / न चान्या संज्ञासत्तान्या संज्ञाशून्यतान्या संज्ञाविविक्ततान्या संज्ञास्वभावता / अन्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्या मध्यं / इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च संज्ञासत्ता या च संज्ञाशून्यता या च संज्ञाविविक्तता या च संज्ञास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

संस्कारासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / संस्कारशून्यतया पूर्वन्ततो बोधिसत्त्वो नोपैति / संस्कारविविक्ततया पूर्वन्ततो बोधिसत्त्वो नोपैति / संस्कारास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / संस्कारासत्तयापरान्ततो बोधिसत्त्वो नोपैति / संस्कारशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / संस्कारविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / संस्कारास्वभावतयापरान्ततो बोधिसत्त्वा नोपैति / संस्कारासत्तया मध्यतो बोधिसत्त्वो नोपैति / संस्कारशून्यतया मध्यतो बोधिसत्त्वो नोपैति / संस्कारविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / संस्कारास्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारदतीपुत्र संस्कारासत्तयां संस्कारशून्यतायां संस्कारविविक्ततायां संस्कारास्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यम् उपलभ्यते / न चान्या संस्कारासत्तान्या संस्कारशून्यतान्या संस्कारविविक्ततान्या संस्कारास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं / इति ह्य् आयुष्मञ् छारद्वतीपुत्र / या च संस्कारासत्ता या च संस्कारशून्यता या च संस्कारविविक्तता या च संस्कारास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

विज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / विज्ञानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति / विज्ञानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / विज्ञानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / विज्ञानासत्तयापरान्ततो बोधिसत्त्वो नोपैति / विज्ञानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / विज्ञानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / विज्ञानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / विज्ञानासत्तया मध्यतो बोधिसत्त्वो नोपैति / विज्ञानशून्यतया मध्यतो बोधिसत्त्वो नोपैति / विज्ञानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / विज्ञानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र विज्ञानासत्तायां विज्ञानशून्यतायां विज्ञानविविक्ततायां विज्ञानास्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यम् उपलभ्यते / न चान्या विज्ञानासत्तान्या विज्ञानशून्यतान्या विज्ञानविविक्ततो ऽन्या विज्ञानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं / इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च विज्ञानासत्ता या च विज्ञानशून्यता या च विज्ञानविविक्तता या च विज्ञानास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

चक्षुरसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / चक्षुःशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति / चक्षुर्विविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / चक्षुरस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / चक्षुरसत्तयापरान्ततो बोधिसत्त्वो नोपैति / चक्षुःशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / चक्षुर्विविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / चक्षुरस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / चक्षुरसत्तया मध्यतो बोधिसत्त्वो नोपैति / चक्षुःशून्यतया मध्यतो बोधिसत्त्वो नोपैति / चक्षुर्विविक्ततया मध्यतो बोधिसत्त्वो नोपैति / चक्षुरस्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र चक्षुरसत्तायां चक्षुःशून्यतायां चक्षुर्विविक्ततायां चक्षुरस्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यम् उपलभ्यते न चान्या चक्षुरसत्तान्या चक्षुःशून्यतान्या चक्षुर्विविक्ततो ऽन्या चक्षुरस्वभावतान्या बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं / इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च चक्षुरसत्ता या च चक्षुःशून्यता या च चक्षुर्विविक्तता या च चक्षुरस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

श्रोत्रासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / श्रोत्रशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति / श्रोत्रविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / श्रोत्रास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / श्रोत्रासत्तयापरान्ततो बोधिसत्त्वो नोपैति / श्रोत्रशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / श्रोत्रविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / श्रोत्रास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / श्रोत्रासत्तया मध्यतो बोधिसत्त्वो नोपैति / श्रोत्रशून्यतया मध्यतो बोधिसत्त्वो नोपैति / श्रोत्रविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / श्रोत्रास्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र श्रोत्रासत्तायां श्रोत्रशून्यतायां श्रोत्रविविक्ततायां श्रोत्रास्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यम् उपलभ्यते / न चान्या श्रोत्रासत्तान्या श्रोत्रशून्यतान्या श्रोत्रविविक्ततान्या श्रोत्रास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं / इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च श्रोत्रासत्ता या च श्रोत्रशून्यता या च श्रोत्रविविक्तता या च श्रोत्रस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

घ्राणासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / घ्राणशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति / घ्राणविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / घ्राणास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / घ्राणासत्तयापरान्ततो बोधिसत्त्वो नोपैति / घ्राणशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / घ्राणविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / घ्राणास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / घ्राणासत्तया मध्यतो बोधिसत्त्वो नोपैति / घ्राणशून्यतया मध्यतो बोधिसत्त्वो नोपैति / घ्राणविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / घ्राणास्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र घ्राणासत्तायां घ्राणशून्यतायां घ्राणविविक्ततायां घ्राणास्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यम् उपलभ्यते / न चान्या घ्राणासत्तान्या घ्राणशून्यतान्या घ्राणविविक्ततान्या घ्राणास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं / इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च घ्राणासत्ता या च घ्राणशून्यता या च घ्राणविविक्तता या च घ्राणास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

जिह्वासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / जिह्वाशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति / जिह्वाविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / जिह्वास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / जिह्वासत्तयापरान्ततो बोधिसत्त्वो नोपैति / जिह्वाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / जिह्वाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / जिह्वास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / जिह्वासत्तया मध्यतो बोधिसत्त्वो नोपैति / जिह्वाशून्यतया मध्यतो बोधिसत्त्वो नोपैति / जिह्वाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / जिह्वास्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र जिह्वासत्तायां जिह्वाशून्यतायां जिह्वाविविक्ततायां जिह्वास्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यम् उपलभ्यते / न चान्या जिह्वासत्तान्या जिह्वाशून्यतान्या जिह्वाविविक्ततान्या जिह्वास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं / इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च जिह्वासत्ता या च जिह्वाशून्यता या च जिह्वाविविक्तता या च जिह्वास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

कायासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / कायशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति / कायविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / कायास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / कायासत्तयापरान्ततो बोधिसत्त्वो नोपैति / कायशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / कायविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / कायास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / कायासत्तया मध्यतो बोधिसत्त्वो नोपैति / कायशून्यतया मध्यतो बोधिसत्त्वो नोपैति / कायविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / कायास्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र कायासत्तायां कायशून्यतायां कायविविक्ततायां कायास्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यम् उपलभ्यते / न चान्या कायासत्तान्या कायशून्यतान्या कायविविक्ततान्या कायास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं / इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च कायासत्ता या च कायशून्यता या च कायविविक्तता या च कायास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

मनोसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / मनःशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति / मनोविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / मनोस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / मनोसत्तयापरान्ततो बोधिसत्त्वो नोपैति / मनःशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / मनोविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / मनोस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / मनोसत्तया मध्यतो बोधिसत्त्वो नोपैति / मनःशून्यतया मध्यतो बोधिसत्त्वो नोपैति / मनोविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / मनोस्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र मनोसत्तायां मनःशून्यतायां मनोविविक्ततायां मनोस्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यम् उपलभ्यते / न चान्या मनोसत्तान्या मनःशून्यतान्या मनोविविक्ततान्या मनोस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं / इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च मनोसत्ता या च मनःशून्यता या च मनोविविक्तता या च मनोस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

रूपासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / रूपशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति / रूपविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / रूपास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / रूपासत्तयापरान्ततो बोधिसत्त्वो नोपैति / रूपशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / रूपविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / रूपास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / रूपासत्तया मध्यतो बोधिसत्त्वो नोपैति / रूपशून्यतया मध्यतो बोधिसत्त्वो नोपैति / रूपविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / रूपास्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र रूपासत्तायां रूपशून्यतायां रूपविविक्ततायां रूपास्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यम् उपलभ्यते / न चान्या रूपासत्तान्या रूपशून्यतान्या रूपविविक्ततान्या रूपास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं / इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च रूपासत्ता या च रूपशून्यता या च रूपविविक्तता या च रूपास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

शब्दासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / शब्दशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति / शब्दविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / शब्दास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / शब्दासत्तयापरान्ततो बोधिसत्त्वो नोपैति / शब्दशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / शब्दविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / शब्दास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / शब्दासत्तया मध्यतो बोधिसत्त्वो नोपैति / शब्दशून्यतया मध्यतो बोधिसत्त्वो नोपैति / शब्दविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / शब्दास्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र शब्दासत्तायां शब्दशून्यतायां शब्दविविक्ततायां शब्दास्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यम् उपलभ्यते / न चान्या शब्दासत्तान्या शब्दशून्यतान्या शब्दविविक्ततान्या शब्दास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं / इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च शब्दासत्ता या च शब्दशून्यता या च शब्दविविक्तता या च शब्दास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

गन्धासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / गन्धशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति / गन्धविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / गन्धास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / गन्धासत्तयापरान्ततो बोधिसत्त्वो नोपैति / गन्धशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / गन्धविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / गन्धास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / गन्धासत्तया मध्यतो बोधिसत्त्वो नोपैति / गन्धशून्यतया मध्यतो बोधिसत्त्वो नोपैति / गन्धविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / गन्धास्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र गन्धासत्तायां गन्धशून्यतायां गन्धविविक्ततायां गन्धास्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यम् उपलभ्यते / न चान्या गन्धासत्तान्या गन्धशून्यतान्या गन्धविविक्ततान्या गन्धास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं / इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च गन्धासत्ता या च गन्धशून्यता या च गन्धविविक्तता या च गन्धास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

रसासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / रसशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति / रसविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / रसास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / रसासत्तयापरान्ततो बोधिसत्त्वो नोपैति / रसशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / रसविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / रसास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / रसासत्तया मध्यतो बोधिसत्त्वो नोपैति / रसशून्यतया मध्यतो बोधिसत्त्वो नोपैति / रसविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / रसास्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र रसासत्तायां रसशून्यतायां रसविविक्ततायां रसास्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यम् उपलभ्यते / न चान्या रसासत्तान्या रसशून्यतान्या रसविविक्ततान्या रसास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं / इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च रसासत्ता या च रसशून्यता या च रसविविक्तता या च रसास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

स्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / स्पर्शशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति / स्पर्शविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / स्पर्शास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / स्पर्शासत्तयापरान्ततो बोधिसत्त्वो नोपैति / स्पर्शशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / स्पर्शविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / स्पर्शास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / स्पर्शासत्तया मध्यतो बोधिसत्त्वो नोपैति / स्पर्शशून्यतया मध्यतो बोधिसत्त्वो नोपैति / स्पर्शविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / स्पर्शास्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र स्पर्शासत्तायां स्पर्शशून्यतायां स्पर्शविविक्ततायां स्पर्शास्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यम् उपलभ्यते / न चान्या स्पर्शासत्तान्या स्पर्शशून्यतान्या स्पर्शविविक्ततान्या स्पर्शास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं / इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च स्पर्शासत्ता या च स्पर्शशून्यता या च स्पर्शविविक्तता या च स्पर्शास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

धर्मासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / धर्मशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति / धर्मविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / धर्मास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / धर्मासत्तयापरान्ततो बोधिसत्त्वो नोपैति / धर्मशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / धर्मविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / धर्मास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / धर्मासत्तया मध्यतो बोधिसत्त्वो नोपैति / धर्मशून्यतया मध्यतो बोधिसत्त्वो नोपैति / धर्मविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / धर्मास्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र धर्मासत्तायां धर्मशून्यतायां धर्मविविक्ततायां धर्मास्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यम् उपलभ्यते / न चान्या धर्मासत्तान्या धर्मशून्यतान्या धर्मविविक्ततान्या धर्मास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं / इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च धर्मासत्ता या च धर्मशून्यता या च धर्मविविक्तता या च धर्मास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

चक्षुर्विज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / चक्षुर्विज्ञानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति / चक्षुर्विज्ञानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / चक्षुर्विज्ञानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / चक्षुर्विज्ञानासत्तयापरान्ततो बोधिसत्त्वो नोपैति / चक्षुर्विज्ञानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / चक्षुर्विज्ञानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / चक्षुर्विज्ञानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / चक्षुर्विज्ञानासत्तया मध्यतो बोधिसत्त्वो नोपैति / चक्षुर्विज्ञानशून्यतया मध्यतो बोधिसत्त्वो नोपैति / चक्षुर्विज्ञानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / चक्षुर्विज्ञानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र चक्षुर्विज्ञानासत्तायां चक्षुर्विज्ञानशून्यतायां चक्षुर्विज्ञानविविक्ततायां चक्षुर्विज्ञानास्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यम् उपलभ्यते / न चान्या चक्षुर्विज्ञानासत्तान्या चक्षुर्विज्ञानशून्यतान्या चक्षुर्विज्ञानविविक्ततान्या चक्षुर्विज्ञानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं / इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च चक्षुर्विज्ञानासत्ता या च चक्षुर्विज्ञानशून्यता या च चक्षुर्विज्ञानविविक्तता या च चक्षुर्विज्ञानास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

श्रोत्रविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / श्रोत्रविज्ञानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति / श्रोत्रविज्ञानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / श्रोत्रविज्ञानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / श्रोत्रविज्ञानासत्तयापरान्ततो बोधिसत्त्वो नोपैति / श्रोत्रविज्ञानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / श्रोत्रविज्ञानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / श्रोत्रविज्ञानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / श्रोत्रविज्ञानासत्तया मध्यतो बोधिसत्त्वो नोपैति / श्रोत्रविज्ञानशून्यतया मध्यतो बोधिसत्त्वो नोपैति / श्रोत्रविज्ञानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / श्रोत्रविज्ञानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र श्रोत्रविज्ञानासत्तायां श्रोत्रविज्ञानशून्यतायां श्रोत्रविज्ञानविविक्ततायां श्रोत्रविज्ञानास्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यम् उपलभ्यते / न चान्या श्रोत्रविज्ञानासत्तान्या श्रोत्रविज्ञानशून्यतान्या श्रोत्रविज्ञानविविक्ततान्या श्रोत्रविज्ञानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं / इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च श्रोत्रविज्ञानासत्ता या च श्रोत्रविज्ञानशून्यता या च श्रोत्रविज्ञानविविक्तता या च श्रोत्रविज्ञानास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

घ्राणविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / घ्राणविज्ञानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति / घ्राणविज्ञानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / घ्राणविज्ञानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / घ्राणविज्ञानासत्तयापरान्ततो बोधिसत्त्वो नोपैति / घ्राणविज्ञानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / घ्राणविज्ञानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / घ्राणविज्ञानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / घ्राणविज्ञानासत्तया मध्यतो बोधिसत्त्वो नोपैति / घ्राणविज्ञानशून्यतया मध्यतो बोधिसत्त्वो नोपैति / घ्राणविज्ञानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / घ्राणविज्ञानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र घ्राणविज्ञानासत्तायां घ्राणविज्ञानशून्यतायां घ्राणविज्ञानविविक्ततायां घ्राणविज्ञानास्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यम् उपलभ्यते / न चान्या घ्राणविज्ञानासत्तान्या घ्राणविज्ञानशून्यतान्या घ्राणविज्ञानविविक्ततान्या घ्राणविज्ञानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं / इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च घ्राणविज्ञानासत्ता या च घ्राणविज्ञानशून्यता या च घ्राणविज्ञानविविक्तता या च घ्राणविज्ञानास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

जिह्वाविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति / जिह्वाविज्ञानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति / जिह्वाविज्ञानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति / जिह्वाविज्ञानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति / जिह्वाविज्ञानासत्तयापरान्ततो बोधिसत्त्वो नोपैति / जिह्वाविज्ञानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति / जिह्वाविज्ञानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति / जिह्वाविज्ञानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति / जिह्वाविज्ञानासत्तया मध्यतो बोधिसत्त्वो नोपैति / जिह्वाविज्ञानशून्यतया मध्यतो बोधिसत्त्वो नोपैति / जिह्वाविज्ञानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति / जिह्वाविज्ञानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति / तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र जिह्वाविज्ञानासत्तायां जिह्वाविज्ञानशून्यतायां जिह्वाविज्ञानविविक्ततायां जिह्वाविज्ञानास्वभावतायां पूर्वान्त उपलभ्यते / नापरान्त उपलभ्यते / न मध्यम् उपलभ्यते / न चान्या जिह्वाविज्ञानासत्तान्या जिह्वाविज्ञानशून्यतान्या जिह्वाविज्ञानविविक्ततान्या जिह्वाविज्ञानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं / इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च जिह्वाविज्ञानासत्ता या च जिह्वाविज्ञानशून्यता या च जिह्वाविज्ञानविविक्तता या च जिह्वाविज्ञानास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.