Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता, Part इ
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अथ तैः पद्मैस् ते सर्वे लोकधातवः स्फुटा अभूवन् / तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मं देशयन्ति स्म / यद् उतेमाम् एव षट्पारमिताम् आरभ्य / यैश् च सत्त्वैः सा धर्मदेशना श्रुता ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ / ते ऽपि बोधिसत्त्वा गृहस्थाः प्रव्रजिताश् च दारकदारिकाश् च स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धं सत्कुर्वन्ति स्म / गुरूकुर्वन्ति स्म / मानयन्ति स्म / पूजयन्ति स्म / अधस्ताद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य यः सर्वपश्चिमो लोकधातुः पद्मा नाम तत्र पद्मश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति / इमाम् एव प्रज्ञापारमितां बोधिसत्त्वेभ्यो महासत्त्वेभ्यः संप्रकाशयति /
अथ तत्र लोकधातौ पद्मोत्तरो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं तञ् च महान्तं पृथिवीचालं तञ् च तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा येन स भगवान् पद्मश्रीस् तथागतो ऽर्हन् सम्यक्समबुद्धस् तेनोपसंक्रान्तः / उपसंक्रम्य तं भगवन्तं पद्मश्रियं तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतद् अवोचत् / को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य चेदृशस्य तथागतकायस्य सन्दर्शनाय /
एवम् उक्ते भगवान् पद्मश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तं पद्मोत्तरं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत् / एष कुलपुत्र उपरिष्टाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति / बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमितां संप्रकाशयति / तस्यैव ईदृशो ऽनुभावः /
अथ पद्मोत्तरो बोधिसत्त्वो महासत्त्वस् तं भगवन्तं पद्मश्रियं तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतद् अवोचत् / गच्छेयम् अहं भगवंस् तां सहां लोकधातुं तस्य भगवतः शाक्यमुनेस् तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय / तेषाञ् च बोधिसत्त्वानां महासत्त्वानां प्रायः कुमारभूतानां धारणीप्रतिसंविन्निर्हारप्रतिलब्धानां सर्वसमाधिसमापत्तिवशिताप्राप्तानाम् / स भगवान् पद्मश्रीस् तथागत आह / गच्छ त्वं कुलपुत्र तां सहां लोकधातुं यस्येदानीं कालं मन्यसे /
अथ पद्मश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धो नानारत्नमयानां सुवर्णनिर्भासानां सहस्रपत्त्राणां पद्मानां सहस्रं पद्मोत्तराय बोधिसत्त्वाय महासत्त्वाय प्रादात् / एभिः कुलपुत्र पद्मैस् तं भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धम् अभ्यवकिर / संप्रजानविहारी च कुलपुत्र तत्र बुद्धक्षेत्रे भवेत् / तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा महासत्त्वा ये तत्र लोकधाताव् उपपन्नाः मा तत्र क्षणेथा /
अथ पद्मोत्तरो बोधिसत्त्वो महासत्त्वस् तस्य भगवतः पद्मश्रियस् तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकात् तानि सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि गृहीत्वानेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं गृहस्थैः प्रव्रजितैश् च दारकदारिकारूपिभिश् च ततो बुद्धक्षेत्राद् अन्तर्हितो यावन्तो ऽधस्ताद् दिशि बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति तान् सर्वान् सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधऊपगन्धमाल्यविलेपनचूर्णचीवरवस्त्राभरणछत्त्रध्वजपताकाभिर् महत्या बोधिसत्त्वर्ध्या महता बोधिसत्त्वानुभावेन / येन भगवान् शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः उपसंक्रम्य भगवत पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात् / एकान्ते स्थितः पद्मोत्तरो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् / पद्मश्रीर् भगवंस् तथागतो ऽर्हन् सम्यक्संबुद्धो भगवतो ऽल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां बलञ् च सुखस्पर्शविहारताञ् च / इमानि च तेन भगवता पद्मश्रिया तथागतेनार्हता सम्यक्संबुद्धेन सुर्वर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि प्रणिहितानि भगवतः पूजाकर्मणे /
अथ भगवाञ् छाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तानि पद्मानि गृहीत्वा येन ते ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तेनाक्षैप्सीत् /
अथ तैः पद्मैस् ते सर्वलोकधातवः स्फुटा अभूवन् / तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मं देशयन्ति स्म / यद् उतेमाम् एव षट्पारमिताम् आरभ्य / यैश् च सत्त्वैः सा धर्मदेशना श्रुता ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ / ते ऽपि च बोधिसत्त्वा गृहस्थाः प्रव्रजिताश् च दारकदारिकाश् च स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धं सत्कुर्वन्ति स्म, गुरूकुर्वन्ति स्म मानयन्ति स्म पूजयन्ति स्म / उपरिष्टाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य यः सर्वपश्चिमो लोकधातुर् नन्दा नाम तत्र नन्दश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति / स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वेभ्यो महासत्त्वेभ्यः संप्रकाशयति /
अथ तत्र लोकधातौ नन्ददत्तो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं तञ् च महान्तं पृथिवीचालं तञ् च तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा येन भगवान् नन्दश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः / उपसंक्रम्य तं भगवन्तं नन्दश्रियं तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतद् अवोचत् / को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य च तथागतकायस्य सन्दर्शनाय /
एवम् उक्ते भगवान् नन्दश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तं नन्ददत्तं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत् / एष कुलपुत्राधस्ताद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति / स बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमितां संप्रकाशयति तस्यैष ईदृशो ऽनुभावः /
अथ नन्ददत्तो बोधिसत्त्वो महासत्त्वस् तं नन्दश्रियं तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतद् अवोचत् / गच्छेयम् अहं भगवंस् तां सहां लोकधातुं तस्य भगवतः शाक्यमुनेस् तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय तेषाञ् च बोधिसत्त्वानां महासत्त्वानां प्रायः कुमारभूतानां धारणीप्रतिसंविन्निर्हारप्रतिलब्धानां सर्वसमाधिसमापत्तिवशिताप्राप्तानां / स भगवान् नन्दश्रीस् तथागत आह / गच्छ त्वं कुलपुत्र तां सहां लोकधातुं यस्येदानीं कालं मन्यसे /
अथ नन्दश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धो नानारत्नमयानां सुवर्णनिर्भासानां सहस्रपत्त्राणां पद्मानां सहस्रं नन्ददत्ताय बोधिसत्त्वाय महासत्त्वाय प्रादात् / एभिः कुलपुत्र पद्मैस् तं भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धम् अभ्यवकिर / संप्रजानविहारी च कुलपुत्र तत्र बुद्धक्षेत्रे भवेत् तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा महासत्त्वा ये तत्र लोकधाताव् उपपन्नाः मा तत्र क्षणेथाः /
अथ नन्ददत्तो बोधिसत्त्वो महासत्त्वस् तस्य भगवतो नन्दश्रियस् तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकात् तानि सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि गृहीत्वानेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं गृहस्थैः प्रव्रजितैश् च दारकदारिकारूपिभिश् च ततो बुद्धक्षेत्राद् अन्तर्हितः / यावन्त उपरिष्टाद् दिशि बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति तान् सर्वान् सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् महत्या बोधिसत्त्वर्ध्या महता बोधिसत्त्वानुभावेन / येन भगवांञ् छाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात् / एकान्ते स्थितो नन्ददत्तो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् नन्दश्रीर् भगवंस् तथागतो ऽर्हन् सम्यक्संबुद्धो भगवतो ऽल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां बलञ् च सुखस्पर्शविहारताञ् च / इमानि च तेन भगवता नन्दश्रिया तथागतेनार्हता सम्यक्संबुद्धेन सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि प्रणिहितानि भगवतः पूजाकर्मणे /
अथ भगवांञ् छाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तानि पद्मानि गृहीत्वा येन ते उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतार्हन्तः सम्यक्संबुद्धास् तेनाक्षैप्सीत् /
अथ तैः पद्मैस् ते सर्वे लोकधातवः स्फुटा अभूवन् / तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मं देशयन्ति स्म / यद् उतेमाम् एव षट्पारमिताम् आरभ्य यैश् च सत्त्वैः सा धर्मदेशना श्रुता ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ / ते ऽपि च बोधिसत्त्वा गृहस्थाः प्रव्रजिता दारकदारिकाश् च स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धं सत्कुर्वन्ति स्म गुरूकुर्वन्ति स्म मानयन्ति स्म पूजयन्ति स्म //
अथ तेन क्षणलवमूहूर्तेनायं त्रिसाहस्रमहासाहस्रो लोकधातुः रत्नमयः संस्थितो ऽभूत् विचित्रपुष्पावकीर्णो ऽवसक्तपट्टदामकलापो नानागन्धघटिकानिर्धूपितः / कल्पवृक्षैर् नानालङ्कारफलाग्रविटपैः सर्वपुष्पवृक्षैः फलवृक्षैर् गन्धवृक्षैर् माल्यवृक्षैश् चूर्णवृक्षैः प्रतिमण्डितः / तद्यथापि नाम पद्मावतीलोकधातुः समन्तकुसुमस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे मञ्जुश्रीः कुमारः प्रतिवसति / सुस्हितमतिश् च देवपुत्रो ऽन्ये सुमहौजस्का बोधिसत्त्वा महासत्त्वाः / यदा च भगवान् आज्ञासीत् स देवकं लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमानुषासुरां तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् / तदा भगवान् आयुष्मन्तं शारद्वतीपुत्रम् आमन्त्रयति स्म / इह शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वाकारान् सर्वधर्मान् अभिसंबोद्धुकामेन प्रज्ञापारमितायां योगः करणीयः /
अथ खल्व् आयुष्माञ् छारद्वतीपुत्रो भगवन्तम् एतद् अवोचत् कथं भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वाकारान् सर्वधर्मान् अभिसंबोद्धुकामेन प्रज्ञापारमितायां योगः करणीयः //
एवम् उक्ते भगवान् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत् / इह शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वा अस्थानयोगेन दानपारमिता परिपूरयितव्या / अपरित्यागयोगेन देयदायकपरिग्राहकानुपलब्धिताम् उपादाय / शीलपारमिता परिपूरयितव्या आपत्त्यनापत्त्यनध्यापत्तिताम् उपादाय / क्षान्तिपारमिता परिपूरयितव्या अक्षोभनताम् उपादाय / वीर्यपारमिता परिपूरयितव्या कायचित्तवीर्यास्रंसनताम् उपादाय / ध्यानपारमिता परिपूरयितव्या अविक्षेपाशङ्करणताम् उपादाय / प्रज्ञापारमिता परिपूरयितव्या सर्वधर्मान् उपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चत्वारि स्मृत्युपस्थानानि परिपूरयितव्यानि स्मृत्युपस्थानानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चत्वारि सम्यक्प्रहाणानि परिपूरयितव्यानि सम्यक्प्रहाणानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चत्वारः ऋद्धिपादाः परिपूरयितव्याः ऋद्धिपादानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन पञ्चेन्द्रियाणि परिपूरयितव्यानि इन्द्रियानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन पञ्च बलानि परिपूरयितव्यानि बलानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन सप्तबोध्यङ्गानि परिपूरयितव्यानि बोध्यङ्गानुपलब्धिताम् उपादाय /
प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन आर्याष्टाङ्गमार्गः परिपूरयितव्यः मार्गानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन शून्यतासमाधिः परिपूरयितव्यः शून्यतानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेनानिमित्तः समाधिः परिपूरयितव्यः आनिमित्तानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेनाप्रणिहितः परिपूरयितव्यः अप्रणिहितानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चत्वारि ध्यानानि परिपूरयितव्यानि ध्यानानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चत्वार्य् अप्रमाणानि परिपूरयितव्यानि अप्रमाणानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चतस्रः आरूप्यसमापत्तयः परिपूरयितव्याः आरूप्यानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अष्टौ विमोक्षाः परिपूरयितव्याः विमोक्षानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन नवानुपूर्वविहारसमापत्तिः परिपूरयितव्याः अनुपूर्वविहारानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन पञ्चाभिज्ञाः परिपूरयितव्याः अभिज्ञानुपलब्धिताम् उपादाय /
प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन नवसंज्ञा भावयितव्या ध्यातकसंज्ञा भावयितव्या ध्यातकानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन विपदाकसंज्ञा भावयितव्या विपदाकानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन विपूतिकसंज्ञा भावयितव्या विपूतिकानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन विलोहितसंज्ञा भावयितव्या विलोहितानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन विनीलकसंज्ञा भावयितव्या विनीलकानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन विखादितकसंज्ञा भावयितव्या विखादितकानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन विक्षिप्तकमज्ञा भावयितव्या विक्षिप्तकानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अस्थिसंज्ञा भावयितव्या अस्थनुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन विदग्धकसंज्ञा भावयितव्या विदग्धकानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन आहारे प्रतिकूलसंज्ञा भावयितव्या प्रतिकूलानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन बुद्धानुस्मृतिर् भावयितव्या बुद्धानुपलब्धिताम् उपादाय /
प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन धर्मानुस्मृतिर् भावयितव्या धर्मानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन सङ्घानुस्मृतिर् भावयितव्या सङ्घानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन त्यागानुस्मृतिर् भावयितव्या त्यागानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन देवतानुस्मृतिर् भावयितव्या देवतानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन आनापानानुस्मृतिर् भावयितव्या आनापानानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन उद्वेगानुस्मृतिर् भावयितव्या उद्वेगानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन मरणानुस्मृतिर् भावयितव्या मरणानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन कायगतानुस्मृतिर् भावयितव्या कायानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अनित्यसंज्ञा भावयितव्या अनित्यानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन दुःखसंज्ञा भावयितव्या दुःखानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अनात्मसंज्ञा भावयितव्या अनात्मानुपलब्धिताम् उपादाय /
प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अशुभसंज्ञा भावयितव्या अशुभानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन सर्वलोकानभिरतिसंज्ञा भावयितव्या अनभिरत्यनुपलब्दिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अविश्वाससंज्ञा भावयितव्या अविश्वासानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन दुःखसंज्ञानं भावयितव्यं दुःखानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन समुदयज्ञानं भावयितव्यं समुदयानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन निरोधज्ञानं भावयितव्यं निरोधानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन मार्गज्ञानं भावयितव्यं मार्गानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन क्षयज्ञानं भावयितव्यं क्षयानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अनुत्पादज्ञानं भावयितव्यं अनुत्पादानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन धर्मज्ञानं भावयितव्यं धर्मानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अन्वयज्ञानं भावयितव्यं अन्वयानुपलब्धिताम् उपादाय /
प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन संवृतिज्ञानं भावयितव्यं संवृत्यनुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन परिचयज्ञानं भावयितव्यं परिचयानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन यथारुतज्ञानं भावयितव्यं यथारुतानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन सवितर्कः सविचारः समाधिः परिपूरयितव्यः वितर्कविचारानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अवितर्काविचारमात्रः समाधिः परिपूरयितव्यः अवितर्काविचारानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेनाज्ञास्यामीतीन्द्रियं परिपूरयितव्यं आज्ञास्यामीतीन्द्रियानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेनाज्ञेन्द्रियं परिपूरयितव्यं आज्ञेन्द्रियानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेनाज्ञातावीन्द्रियं परिपूरयितव्यं आज्ञातावीन्द्रियानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अभिध्यायतनं परिपूरयितव्यम् अभिध्यायतनानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन कृत्स्नायतनं परिपूरयितव्यं कृत्स्नायतनानुपलब्धिताम् उपादाय /
प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चत्वारि संग्रहवस्तूनि परिपूरयितव्यानि वस्त्वनुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन व्यवस्थानानि परिपूरयितव्यानि व्यव्यस्थानानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन दशभूमयः परिपूरयितव्याः भूम्यनुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन दश चर्याः परिपूरयितव्याः चर्यानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन दश क्षान्तयः परिपूरयितव्याः क्षान्त्यनुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन विंशतिर् अध्याशयाः परिपूरयितव्याः अध्याशयानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन सर्वज्ञज्ञानं परिपूरयितव्यं सर्वज्ञज्ञानानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन शमथविपश्यनाज्ञानं परिपूरयितव्यं शमथविपश्यनाज्ञानानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन तिस्रो ऽविद्याः परिपूरयितव्याः अविद्यानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चतस्रः प्रतिसंविदः परिपूरयितव्याः प्रतिसंविदानुपलब्धिताम् उपादाय /
प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चत्वारि वैशारद्यानि परिपूरयितव्यानि वैशारद्यानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अच्युताः पञ्चाभिज्ञाः परिपूरयितव्याः अच्युतानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन षट्पारमिताः परिपूरयितव्याः षट्पारमितानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन सप्त धनानि परिपूरयितव्यानि धनानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेनाष्टौ पुरुषवितर्काः परिपूरयितव्याः वितर्कानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन नवसत्त्ववासाः परिपूरयितव्याः सत्त्ववासानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन दश बलानि परिपूरयितव्यानि बलानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेनाष्टादशावेणिकबुद्धधर्माः परिपूरयितव्याः आवेणिकबुद्धधर्मानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन महामैत्री परिपूरयितव्या महामैत्र्यनुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन महाकरुणा परिपूरयितव्या महाकरुणानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन महामुदिता परिपूरयितव्या महामुदितानुपलब्धिताम् उपादाय /
प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन महोपेक्षा परिपूरयितव्या महोपेक्षानुपलब्धिताम् उपादाय / प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन सर्वाकारवरोपेतं सर्वज्ञज्ञानम् अभिसंबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः / मार्गाकारज्ञतां परिज्ञातुकानेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः / सर्वज्ञतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः / सर्वसत्त्वचित्तचरितज्ञानाकारतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः / सर्ववासनानुसन्धिक्लेशान् प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः / एवं हि शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन / प्रज्ञापारमितायां शिक्षितव्यं / बोधिसत्त्वन्यामं शारद्वतीपुत्रावक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / श्रावकभूमिप्रत्येकबुद्धभूमी प्रज्ञातुकामेन ते च भूमी अतिक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अवैवर्तिकभूमौ स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / षडभिज्ञतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / सर्वसत्त्वचित्तचरितविस्पन्दितानि ज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / सर्वश्रावकप्रत्येकबुद्धानां ज्ञानम् अभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
धारणीमुखसमाधिमुखानि प्रतिलब्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितॄणाञ् च दानं ददतां एकानुमोदनासहगतेन चित्तोत्पादेन सर्वतत्कुशलमूलम् अभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितॄणाञ् च शीलं रक्षतां एकानुमोदनासहगतेन चित्तोत्पादेन सर्वतत्कुशलमूलम् अभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितॄणाञ् च क्षान्तिं भावयताम् एकानुमोदनासहगतेन चित्तोत्पादेन सर्वतत्कुशलमूलम् अभिभवितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितॄणाञ् च वीर्यम् आरभ्यताम् एकानुमोदनासहगतेन चित्तोत्पादेन सर्वतत्कुशलमूलम् अभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितॄणाञ् च ध्यानानि समापद्यताम् एकानुमोदनासहगतेन चित्तोत्पादेन सर्वतत्कुशलमूलम् अभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितॄणाञ् प्रज्ञां भावयताम् एकानुमोदनासहगतेन चित्तोत्पादेन सर्वतत्कुशलमूलम् अभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
सर्वश्रावकप्रत्येकबुद्धानां शीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनम् एकानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / सर्वश्रावकप्रत्येकबुद्धानां ध्यानविमोक्षसमापत्ती एकानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अल्पं दानं ददतः सर्वसत्त्वेभ्यः उपायकौशलपरिनामनायोगेन सर्वाकारज्ञतायां कथं प्रमेयासंख्येयापरिमाणं भवेद् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अल्पं शीलं रक्षतः सर्वसत्त्वेभ्यः उपायकौशलपरिनामनायोगेन सर्वाकारज्ञतायां कथम् अप्रमेयासंख्येयापरिमाणं भवेद् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अल्पं क्षान्तिं भावयतः सर्वसत्त्वेभ्यः उपायकौशलपरिनामनायोगेन सर्वाकारज्ञतायां कथम् अप्रमेयासंख्येयापरिमाणं भवेद् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अल्पं वीर्यम् आरभमानः सर्वसत्त्वेभ्यः उपायकौशलपरिनामनायोगेन सर्वाकारज्ञतायां कथम् अप्रेयासंख्येयापरिमाणं भवेद् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अल्पं ध्यानं समापद्यतः सर्वसत्त्वेभ्यः उपायकौशलपरिनामनायोगेन सर्वाकारज्ञतायां कथम् अप्रमेयासंख्येयापरिमाणं भवेद् इति प्रज्ञापारमितायां शिक्षितव्यं / अल्पप्रज्ञां भावयतः सर्वसत्त्वेभ्यः उपायकौशलपरिनामनायोगेन सर्वाकारज्ञतायां कथम् अप्रमेयासंख्येयापरिमाणं भवेद् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन दानपारमितायां स्थातुकामेन दानपारमितां परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन शीलपारमितायां चरितुकामेन शीलपारमितां परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन क्षान्तिपारमितायां चरितुकामेन क्षान्तिपारमितां परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन वीर्यपारमितायां चरितुकामेन वीर्यपारमिता परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन ध्यानपारमितायां चरितुकामेन ध्यानपारमितां परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितुकामेन प्रज्ञापारमितां परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन एवं चित्तम् उत्पादयितव्यं / कथं मे सर्वजातौ बुद्धविग्रहदर्शनं भवेत् / बुद्धसमन्वाहारो बुद्धानिरोधनं बुद्धपरिग्रहं भवेद् इति प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन बुद्धकायं परिनिष्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन द्वात्रिंशतो महापुरुषलक्षणानि प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं /
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेनाशीतिम् अनुव्यञ्जनानि प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वत्र जातौ जातिस्मरतां प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन बोधिचित्तापरिप्रनाशतां प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वबोधिसत्त्वचर्यासंप्रमोषतां प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वपापमित्रपापसहायान् विवर्जितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वबुद्धबोधिसत्त्वकल्याणमित्राण्य् आरागायितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वमारकायिका देवता विज्ञातुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वावरणीयानि विशोधयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वधर्मानावरणतां प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वकुलं परिनिष्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन बुद्धकुलम् आरागयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं /
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन त्रिरत्नवंशानुपच्छेदाय स्थातुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन कुमारभूमिम् अनुप्राप्तुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन बुद्धबोधिसत्त्वैर् अविरहितेन भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वभूमिम् अतिक्रमितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन क्षिप्रन् तथागतभूमिं परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन यैर् यैः कुशलमूलैर् यैर् यैर् आकारैर् आकाङ्क्षेत् सर्वबुद्धान् भगवतः सत्कर्तुं गुरूकर्तुं मानयितुं पूजयितुं / तानि मे कुशलमूलानि त आकाराः समृध्येयुर् इति प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् सन्तोषयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानाम् आज्ञाः परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानाम् आशाः परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं /
अन्नपानवस्त्रयानविभूषणपुष्पधूपचूर्णमाल्यविलेपनशयनासनोपाश्रयग्लानप्रत्ययभेषज्यपरिष्कारैः धनधान्यालङ्कारमणिमुक्तावैदूर्यशङ्खशिलाप्रवालजातरूपरजतोद्यानराज्यादिभिः सर्वोपकरणोपभोगैः सर्वसत्त्वान् सन्तर्पयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन धर्मधातुपरमालोके आकाशधातुपर्यवसाने सर्वसत्त्वान् महायाने समादापयितुकामेन दानपारमितायां प्रतिष्ठापयितुकालेन शीलपारमितायां प्रतिष्ठापयितुकामेम क्षान्तिपारमितायां प्रतिष्ठापयितुकामेन वीर्यपारमितायां प्रतिष्ठापयितुकामेन ध्यानपारमितायां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेनैकम् अपि कुशलचित्तोत्पादम् अक्षयं कर्तुकामेन बोधिसत्त्वोपनिषदनात् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन ये पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / ये दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / ये पश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितया /
ये उत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / ये उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / ये पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / ये दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / ये पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / ये ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / ये उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र यानि पूर्वस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यानि दक्षिणस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
यानि पश्चिमायां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यान्य् उत्तरस्यान् दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यान्य् उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बौधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यानि पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यानि दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यानि पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यान्य् अधस्ताद् दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यान्य् उपरिष्टाद् दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
पुनर् अपरं शारद्वतीपुत्र यानि पूर्वस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यानि दक्षिणस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यानि पश्चिमायां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यान्य् उत्तरस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यान्य् उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यानि पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यानि दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यानि पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
यान्य् अधस्ताद् दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यान्य् उपरिष्टाद् दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बुद्धोत्पादानुपच्छेदाय स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वकुलं रक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बुद्धवंशानुपच्छेदाय स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र अध्यात्मशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / बहिर्धाशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अध्यात्मबहिर्धाशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / शून्यताशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / महाशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / परमार्थशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / संस्कृतशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / असंस्कृतशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
अत्यन्तशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अनवराग्रशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अनवकारशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / प्रकृतिशून्यतायां स्थातुकामम् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / सर्वधर्मशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / स्वलक्षणशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अनुपलम्भशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अभावशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / स्वभावशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापरमितायां शिक्षितव्यं / अभावस्वभावशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्रालम्बनापतेयसमनन्तरहेतुप्रत्ययता अवबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वर्तीपुत्राकारलक्षणान्य् अवबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापार्मितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र सर्वधर्माणां तथता अवबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अवितथता अवबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / अनन्यतथताम् अवबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
अविकारतथताम् अवबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यथाचेत्तथताम् अवबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणां तथताम् अवबोद्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र सर्वधर्माणां भूतकोटिम् अववोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र यावन्त्यस् त्रिसाहस्रमहासाहस्रे लोकधातौ गङ्गानदीवालुकास् ताः सर्वाज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र त्रिसाहस्रमहासाहस्रे लोकधातौ महासमुद्रेष्व् अप्स्कन्धो नदीषु महानदीषु कुनदीषु सरस्तडागेषु पल्ललेषु तत् सर्वं शतधाभिन्नया वालाग्रकोट्याभ्युत्क्षेप्तुकामेन च तन्निश्रियां प्राणिनो विहेठयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र यावांस् त्रिसाहस्रमहासाहस्रे लोकधाताव् अग्निस्कन्धः स सर्व एकज्वालीभूतो भवेत् / तद्यथापि नाम कल्पोद्दाहे वर्तमाने तम् एकेन मुखवायुना निर्वापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र त्रिसाहस्रमहासाहस्रे लोकधातौ वातमण्डलाका या इमं त्रिसाहस्रमहासाहस्रं लोकधातुं विधुनुयुर् विकिरेयुर् विध्वंसयेयुः तद्यथापि नाम बुसमुष्टितां सर्वामहाविक्षोभनावातमण्डलीयकानां गुल्याः प्रान्तकेन संच्छादयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
पुनर् अपरं शारद्वतीपुत्र यस् त्रिसाहस्रमहासाहस्रे लोकधाताव् आकाशधातुस् तं सर्वम् एकपर्यङ्केन स्फुरितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र त्रिसाहस्रमहासाहस्रे लोकधातौ सुमेरुचक्रवाडमहाचक्रवाडाः पर्वतराजास् तान् सर्वान् एकबालेन बद्ध्वाभ्युत्क्षिप्याप्रमेयासंख्येयान् लोकधातून् समुत्क्षिपेयम् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र यावान् त्रिसाहस्रमहामाहस्रे लोकधातौ वृक्षतृणगुल्मौषधिवनस्पतिसञ्चयो लोष्ट्रशर्करपाषाणपर्वतमहापृथिवीसंचयस् तं सर्वं परमाणुरजो योगेन ज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र यावन्तः पूर्वस्यान् दिशि गाङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्त्वपरिवाराः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेन एकपुष्पेणैकमाल्येनैकगन्धेनैकविलेपनेनैकचूर्णेनैकवस्त्रेणैकाभराणेनैकच्छत्त्रेणैकध्वजनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यावन्तो दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु बुद्धक्षेत्रेषु बुद्धा भगवन्तः सबोधिसत्त्वपरिवाराः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमाल्येनैकगन्धेनैकविलेपनेनैकचूर्णेनैकवस्त्रेणैकाभरणेनैकच्छत्त्रेणैकध्वजेनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
यावन्तः पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः बोधिसत्त्वपरिवाराः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमाल्येनैकगन्धेनैकविलेपनेनैकचूर्णेनैकवस्त्रेणैकाभरणेनैकच्छत्त्रेणैकध्वजेनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यावन्त उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्त्वपरिवारा सश्रावकसंघास्तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमाल्येनैकगन्धेनैकविलेपनेनैकचूर्णेनैकवस्त्रेणैकाभरणेनैकच्छत्त्रेणैकध्वजेनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यावन्त उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्त्वपरिवाराः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमाल्येनैकविलेपनेनैकचूर्णेनैकवस्त्रेणैकाभरणेनैकच्छत्त्रेणैकध्वजेनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
यावन्तः पूर्वदक्षिणस्यां दिशि गङ्गादीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्त्वपरिवाराः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमाल्येनैकविलेपनेनैकचूर्णेनैकवस्त्रेणैकाभरणेनैकच्छत्त्रेणैकध्वजेनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यावन्तो दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्त्वपरिवाराः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमाल्येनैकविलेपनेनैकचूर्णेनैकवस्त्रेणैकाभरणेनैकच्छत्त्रेणैकध्वजेनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यावन्तः पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्त्वपरिवाराः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमाल्येनैकविलेपनेनैकचूर्णेनैकाभरणेनैकच्छत्त्रेणैकध्वजेनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
यावन्तो ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्त्वपरिवाराः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमाल्येनैकगन्धेनैकविलेपनेनैकचचूर्णेनैकवस्त्रेणैकाभरणेनैकच्छत्त्रेणैकध्वजेनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / यावन्त उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्त्वपरिवाराः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमालेनैकगन्धेनैकविलेपनेनैकचूर्णेनैकवस्त्रेणैकाभरणेनैकच्छत्त्रेणैकध्वजेनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र पूर्वस्यां दिशि गङ्गानदीवालुकोपमेपु लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापथितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
ये दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्हन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / ये पश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
ये उत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / ये उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
ये पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / ये दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
ये पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफने प्रतिष्ठापयितुकामेन सकृदागामिस्कन्धे प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकागेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / ये ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
ये उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र यावन्तो दशदिग्लोकधातुषु सत्त्वास् तान् सर्वाञ् छ्रावकप्रत्येकबुद्धयानेन च महायानेन च परिनिर्वापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता दानं ददतैवं शिक्षितव्यं //
यद् एवं दानं दत्त्वा महाफलं भवत्य् एवं दानं दत्त्वा क्षत्रियमहाशीलकूलेषूपपद्यते / एवं दानं दत्त्वा ब्राह्मणमहाशीलकूलेषूपपद्यते / एवं दानं दत्त्वा तद् एवं दानं निश्राय चातुर्महाराजिकेषु देवेषूपपद्यते / एवं दानं दत्त्वा तद् एवं दानं निश्राय त्रायस्त्रिंशेषु देवेषूपपद्यते / एवं दानं दत्त्वा तद् एवं दानं निश्राय यामेषु देवेषूपपद्यते / एवं दानं दत्त्वा तद् एवं दानं निश्राय तुषितेषु देवेषूपपद्यते / एवं दानं दत्त्वा तद् एवं दानं निश्राय निर्माणरतिषु देवेषूपपद्यते / एवं दानं दत्त्वा तद् एवं दानं निश्राय परनिर्मितवशवर्तिषु देवेषूपपद्यते / एवं दानं दत्त्वा तद् एवं दानं निश्राय प्रथमं ध्यानं समापद्यते / एवं दानं दत्त्वा तद् एवं दानं निश्राय द्वितीयं ध्यानं समापद्यते / एवं दानं दत्त्वा तद् एवं दानं निश्राय तृतीयं ध्यानं समापद्यते / एवं दानं दत्त्वा तद् एवं दानं निश्राय चतुर्थं ध्यानं समापद्यते / एवं दानं दत्त्वा तद् एवं दानं निश्राय आकाशानन्त्यायतनसमापत्तिं समापद्यते / एवं दानं दत्त्वा तद् एवं दानं निश्राय ज्ञानानन्त्यायतनसमापत्तिं समापद्यते / एवं दानं दत्त्वा तद् एवं दानं निश्राय आकिञ्चन्यायतनसमापत्तिं समापद्यते / एवं दानं दत्त्वा तद् एवं दानं निश्राय नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्यते / एवं दानं दत्त्वा चत्वारि स्मृत्युपस्थानान्य् उत्पद्यन्ते / एवं दानं दत्त्वा चत्वारि सम्यक्प्रहाणान्य् उत्पद्यन्ते / एवं दानं दत्त्वा पञ्चेन्द्रियाण्य् उत्पद्यन्ते / एवं दानं दत्त्वा पञ्च बलान्य् उत्पद्यन्ते / एवं दानं दत्त्वा सप्त बोध्यङ्गान्य् उत्पद्यन्ते /
एवं दानं दत्त्वा आर्याष्टाङ्गो मार्ग उत्पद्यते / एवं दानं दत्त्वा शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् उत्पद्यन्ते / एवं दानं दत्त्वा श्रोतआपत्तिफलम् अनुप्राप्यते / एवं दानं दत्त्वा सकृदागामिफलम् अनुप्राप्यते / एवं दानं दत्त्वा अनागामिफलम् अनुप्राप्यते / एवं दानं दत्त्वा अर्हत्त्वम् अनुप्राप्यते / एवं दानं दत्त्वा प्रत्येकबोधिर् अनुप्राप्यते / एवं दानं दत्त्वा अनुत्तरा सम्यक्संबोधिर् अनुप्राप्यते / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् जानात्य् एवम् उपायकौशल्येन दानं दत्तं दानपारमितां परिपूरयत्य् एव दानं दत्तं शीलपारमितां परिपूरयत्य् एवं दान दत्तं क्षान्तिपारमितां परिपूरयत्य् एवं दानं दत्तं वीर्यपारमितां परिपूरयत्य् एवं दानं दत्तं ध्यानपारमितां परिपूरयत्य् एवं दानं दत्तं प्रज्ञापारमितां परिपूरयति /
अथायुष्मान् शारद्वतीपुत्रो भगवन्तम् एतद् अवोचत् / कथं भगवन् बोधिसत्त्वेन महासत्त्वेन दानं ददता दानपारमिता परिपूरिता भवति / कथं भगवन् बोधिसत्त्वेन महासत्त्वेन शीलं रक्षता शीलपारमिता परिपूरिता भवति / कथं भगवन् बोधिसत्त्वेन महासत्त्वेन क्षान्तिं भावयता क्षान्तिपारमिता परिपूरिता भवति / कथं भगवन् बोधिसत्त्वेन महासत्त्वेन वीर्यम् आरभता वीर्यपारमिता परिपूरिता भवति / कथं भगवन् बोधिसत्त्वेन महासत्त्वेन ध्यानं समापद्यता ध्यानपारमिता परिपूरिता भवति / कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञां भावयता प्रज्ञापारमिता परिपूरिता भवति / भगवान् आह / अनुपलम्भयोगेन शारद्वतीपुत्र दानस्य दायकस्य प्रतिग्राहकस्य त्रिमण्डलपरिशुद्ध्या दानपारमिता परिपूरिता भवति / आपत्त्यनापत्त्यध्यापत्तिताम् उपादाय शीलपारमिता परिपूरिता भवति / अक्षोभनताम् उपादाय क्षान्तिपारमिता परिपूरिता भवति / कायचित्तवीर्याश्रंसनताम् उपादाय वीर्यपारमिता परिपूरिता भवति / अविक्षेपासङ्करणताम् उपादाय ध्यानपारमिता परिपूरिता भवति / सर्वधर्मप्रज्ञानतानुपलम्भयोगेन प्रज्ञापारमिता परिपूरिता भवति / पुनर् अपरं शारद्वतीपुत्र अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वबुद्धगुणान् प्रज्ञातुकामेनानुप्राप्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र संस्कृतासंस्कृतानां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
पुनर् अपरं शारद्वतीपुत्र साश्रवानाश्रवाणां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र कुशलाकुशलानां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र लौकिकलोकोत्तराणां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र रूप्यरूपिणां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र व्याकृताव्याकृतानां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र नियतानियतानां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र नैर्यानिकानैर्यानिकानां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र हानभागीयानां विशेषभागीयानां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / [पुनर् अपरं शारद्वतीपुत्र भागीयानां विशेषभागीयानां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /] पुनर् अपरं शारद्वतीपुत्र पृथग्जनधर्माणाम् आर्यधर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र शैक्षधर्माणाम् अशैक्षधर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
पुनर् अपरं शारद्वतीपुच श्रावकधर्माणां प्रत्येकबुद्धधर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वधर्माणां बुद्धधर्माणाञ् च पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र सर्वधर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन अतीतानागतप्रत्युत्पन्नानां धर्माणां तथताम् अनुबोद्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणाम् अनुत्पादकोटिम् अनुप्राप्तुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणां भूतकोटिं प्रतिवेद्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र सर्वश्रावकप्रत्येकबुद्धानां पूर्वंगमेन भवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वबुद्धानां भगवताम् उपस्थायकेन भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वबुद्धानां भगवताम् अत्यन्तपरिचारकेण भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन महापरिवारेण भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यं /
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेनातीतानागतप्रत्युत्पन्नानां बोधिसत्त्वपरिवाराणां प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वदातॄणां दक्षिणां परिशोधयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन दानेन च गृहीतचित्तेन भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन दौःशील्यचित्तपृथक्कर्तुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन व्यापादचित्तम् उत्स्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन कौसीद्यचित्तम् अनुत्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन विक्षेपचित्तम् अनुत्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन दौष्प्रज्ञचित्तम् अनुत्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् दानमये पुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरः शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वाञ् छीलमये पुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् भावनामये पुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं /
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् ऐर्यापथसहगते पुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् सर्वौषधिकसहगते पुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वाकारं पञ्च चक्षुंषि निष्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन यद् उत्तमात्मचक्षुर् निष्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं / दिव्यं चक्षुर् निष्पादयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / प्रज्ञाचक्षुर् निष्पादयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / धर्मचक्षुर् निष्पादयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / बुद्धचक्षुर् निष्पादयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / पुनर् अपरं शारद्वतीपुत्र ये पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तान् सर्वान् दिव्येन चक्षुषा संद्रष्टुकामेन बोधिसत्त्वेन महासत्त्वेन यञ् च बुद्धा भगवन्तो धर्मं भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोतुकामेन तेषाञ् च बुद्धानां भगवतां चेतसैव चेतः प्रज्ञातुकामेन
तेषाञ् च बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वचर्यां समनुस्मर्तुकामेन तेषां बुद्धानां भगवताम् अनेकविधम् ऋद्धिविकुर्विर्तुं संद्रष्टुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / ये दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तान् सर्वान् दिव्येन चक्षुषा संद्रष्टुकामेन यञ् च बुद्धा भगवन्तो धर्मं भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोतुकामेन तेषाञ् च बुद्धानां भगवतां चेतसैव चेतः प्रज्ञातुकामेन तेषां बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वचर्याम् अनुस्मर्तुकामेन तेषां बुद्धानां भगवताम् अनेकविधम् ऋद्धिविकुर्वितुं संद्रष्टुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / ये पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तान् सर्वान् दिव्येन चक्षुषा संद्रष्टुकानेन यञ् च ते बुद्धा भगवन्तो धर्मं भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोतुकामेन तेषां बुद्धानां भगवतां चेतसैव चेतः प्रज्ञातुकामेन तेषाञ् च बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वचर्याम् अनुस्मर्तुकामेन तेषाञ् च बुद्धानां भगवताम् अनेकविधम् ऋद्धिविकुर्वितुं संद्रष्टुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
ये उत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तान् सर्वान् दिव्येन चक्षुषा संद्रष्टुकामेन यञ् च ते बुद्धा भगवन्तो धर्मं भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोतुकामेन तेषाञ् च बुद्धानां भगवतां चेतसैव चेतः प्रज्ञातुकामेन तेषां बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वचर्याम् अनुस्मर्तुकामेन तेषां बुद्धानां भगवताम् अनेकविधम् ऋद्धिविकुर्वितुं संद्रष्टुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / ये उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तान् सर्वान् दिव्येन चक्षुषा संद्रष्टुकामेन यञ् च ते बुद्धा भगवन्तो धर्मं भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोतुकामेन तेषाञ् च बुद्धानां भगवतां चेतसैव चेतः प्रज्ञातुकामेन तेषाञ् च बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वचर्याम् अनुस्मर्तुकामेन तेषाञ् च बुद्धानां भगवताम् अनेकविधम् ऋद्धिविकुर्वितुं संद्रष्टुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / ये पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तान् सर्वान् दिव्येन चक्षुषा संद्रष्टुकामेन यञ् च ते बुद्धा भगवन्तो धर्मं भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोतुकामेन तेषां बुद्धानां भगवतां चेतसैव चेतः प्रज्ञातुकामेन तेषाञ् च बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वचर्याम् अनुस्मर्तुकामेन तेषाञ् च बुद्धानां भगवताम् अनेकविधम् ऋद्धिविकुर्वितं संद्रष्टुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
