Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/31

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता-2

Thông tin
GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अविद्यायुष्मञ् छारद्वतीपुत्राप्रणिहिता न च कस्यचिद् विगमेन, संस्कारा अप्रणिहिता न च कस्यचिद् विगमेन, विज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन, नामरूपम् अप्रणिहितं न च कस्यचिद् विगमेन, षडायतनम् अप्रणिहितं न च कस्यचिद् विगमेन, स्पर्शो ऽप्रणिहितो न च कस्यचिद् विगमेन, वेदनाप्रणिहिता न च कस्यचिद् विगमेन, तृष्णाप्रणिहिता न च कस्यचिद् विगमेन, उपादानम् अप्रणिहितं न च कस्यचिद् विगमेन, भवो ऽप्रणिहितो न च कस्यचिद् विगमेन, जातिर् अप्रणिहिता न च कस्यचिद् विगमेन, जरामरणम् अप्रणिहितं न च कस्यचिद् विगमेन.

दानपारमितायुष्मञ् छारद्वतीपुत्राप्रणिहिता न च कस्यचिद् विगमेन, शीलपारमिताप्रणिहिता न च कस्यचिद् विगमेन, क्षान्तिपारमिताप्रणिहिता न च कस्यचिद् विगमेन, वीर्यपारमिताप्रणिहिता न च कस्यचिद् विगमेन, ध्यानपारमिताप्रणिहिता न च कस्यचिद् विगमेन, (श्स्प्_इइ-1_123) प्रज्ञापारमिताप्रणिहिता न च कस्यचिद् विगमेन.

अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्राप्रणिहिता न च कस्यचिद् विगमेन, बहिर्धाशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यताप्रणिहिता न च कस्यचिद् विगमेन, शून्यताशून्यताप्रणिहिता न च कस्यचिद् विगमेन, महाशून्यताप्रणिहिता न च कस्यचिद् विगमेन, परमार्थशून्यताप्रणिहिता न च कस्यचिद् विगमेन, संस्कृतशून्यताप्रणिहिता न च कस्यचिद् विगमेन, असंस्कृतशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अत्यन्तशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अनवराग्रशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अनवकारशून्यताप्रणिहिता न च कस्यचिद् विगमेन, प्रकृतिशून्यताप्रणिहिता न च कस्यचिद् विगमेन, सर्वधर्मशून्यताप्रणिहिता न च कस्यचिद् विगमेन, स्वलक्षणशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अनुपलम्भशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अभावशून्यताप्रणिहिता न च कस्यचिद् विगमेन, स्वभावशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अभावस्वभावशून्यताप्रणिहिता न च कस्यचिद् विगमेन.

स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्राप्रणिहितानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, ऋद्धिपादा अप्रणिहिता न च कस्यचिद् विगमेन, इन्द्रियाण्य् अप्रणिहितानि न च कस्यचिद् विगमेन, बलान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, बोध्यङ्गान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो ऽप्रणिहितो न च कस्यचिद् विगमेन, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्राप्रणिहितानि न च कस्यचिद् विगमेन, ध्यानान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, अप्रमाणान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो ऽप्रणिहिता न च कस्यचिद् विगमेन, अष्टौ विमोक्षा अप्रणिहिता न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो ऽप्रणिहिता न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, अभिज्ञा अप्रणिहिता न च कस्यचिद् विगमेन, समाधयो ऽप्रणिहिता न च कस्यचिद् विगमेन, धारणीमुखान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो ऽप्रणिहिता न च कस्यचिद् विगमेन, महामैत्र्य् अप्रणिहिता न च कस्यचिद् विगमेन, महाकरुणाप्रणिहिता न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्माप्रणिहिता न च कस्यचिद् (श्स्प्_इइ-1_124) विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् अप्रणिहितं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा अप्रणिहिता न च कस्यचिद् विगमेन.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्माः कुशला न च कस्यचिद् विगमेन.

आह: कतमे आयुष्मन् सुभूते सर्वधर्माः कुशला न च कस्यचिद् विगमेन?

आह: रूपम् आयुष्मञ् छारद्वतीपुत्र कुशलं न च कस्यचिद् विगमेन, वेदना कुशला न च कस्यचिद् विगमेन, संज्ञा कुशला न च कस्यचिद् विगमेन, संस्काराः कुशला न च कस्यचिद् विगमेन, विज्ञानं कुशलं न च कस्यचिद् विगमेन.

चक्षुः कुशलं न च कस्यचिद् विगमेन, श्रोत्रं कुशलं न च कस्यचिद् विगमेन, घ्राणं कुशलं न च कस्यचिद् विगमेन, जिह्वा कुसला न च कस्यचिद् विगमेन, कायः कुशलो न च कस्यचिद् विगमेन, मनः कुशलं न च कस्यचिद् विगमेन.

रूपं कुशलं न च कस्यचिद् विगमेन, शब्दः कुशलो न च कस्यचिद् विगमेन, गन्धः कुशलो न च कस्यचिद् विगमेन, रसः कुशलो न च कस्यचिद् विगमेन, स्पर्शः कुशलो न च कस्यचिद् विगमेन, धर्मा कुसला न च कस्यचिद् विगमेन.

चक्षुर्विज्ञानं कुशलं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं कुशलं न च कस्यचिद् विगमेन, घ्राणविज्ञानं कुशलं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं कुशलं न च कस्यचिद् विगमेन, कायविज्ञानं कुशलं न च कस्यचिद् विगमेन, मनोविज्ञानं कुशलं न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्शः कुशलो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शः कुशलो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शः कुशलो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शः कुशलो न च कस्यचिद् विगमेन, कायसंस्पर्शः कुशलो न च कस्यचिद् विगमेन, मनःसंस्पर्शः कुशलो न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्शप्रत्ययवेदना कुसला न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना कुसला न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना कुसला न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना कुसला न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना (श्स्प्_इइ-1_125) कुशला न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदना कुशला न च कस्यचिद् विगमेन.

पृथिवीधातुः कुशलो न च कस्यचिद् विगमेन, अब्धातुः कुशलो न च कस्यचिद् विगमेन, तेजोधातुः कुशलो न च कस्यचिद् विगमेन, वायुधातुः कुशलो न च कस्यचिद् विगमेन, आकाशधातुः कुशलो न च कस्यचिद् विगमेन, विज्ञानधातुः कुशलो न च कस्यचिद् विगमेन.

अविद्या कुशला न च कस्यचिद् विगमेन, संस्काराः कुशला न च कस्यचिद् विगमेन, विज्ञानं कुशलं न च कस्यचिद् विगमेन, नामरूपं कुशलं न च कस्यचिद् विगमेन, षडायतनं कुशलं न च कस्यचिद् विगमेन, स्पर्शः कुशलो न च कस्यचिद् विगमेन, वेदना कुशला न च कस्यचिद् विगमेन, तृष्णा कुशला न च कस्यचिद् विगमेन, उपादानं कुशलं न च कस्यचिद् विगमेन, भवः कुशलो न च कस्यचिद् विगमेन, जातिः कुशला न च कस्यचिद् विगमेन, जरामरणं कुशलं न च कस्यचिद् विगमेन.

दानपारमिता कुशला न च कस्यचिद् विगमेन, शीलपारमिता कुशला न च कस्यचिद् विगमेन, क्षान्तिपारमिता कुशला न च कस्यचिद् विगमेन, वीर्यपारमिता कुशला न च कस्यचिद् विगमेन, ध्यानपारमिता कुसला न च कस्यचिद् विगमेन, प्रज्ञापारमिता कुशला न च कस्यचिद् विगमेन.

अध्यात्मशून्यता कुशला न च कस्यचिद् विगमेन, बहिर्धाशून्यता कुशला न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता कुशला न च कस्यचिद् विगमेन, शून्यताशून्यता कुशला न च कस्यचिद् विगमेन, महाशून्यता कुशला न च कस्यचिद् विगमेन, परमार्थशून्यता कुशला न च कस्यचिद् विगमेन, संस्कृतशून्यता कुशला न च कस्यचिद् विगमेन, असंस्कृतशून्यता कुशला न च कस्यचिद् विगमेन, अत्यन्तशून्यता कुशला न च कस्यचिद् विगमेन, अनवराग्रशून्यता कुशला न च कस्यचिद् विगमेन, अनवकारशून्यता कुशला न च कस्यचिद् विगमेन, प्रकृतिशून्यता कुसला न च कस्यचिद् विगमेन, सर्वधर्मशून्यता कुशला न च कस्यचिद् विगमेन, स्वलक्षणशून्यता कुशला न च कस्यचिद् विगमेन, अनुपलम्भशून्यता कुशला न च कस्यचिद् विगमेन, अभावशून्यता कुसला न च कस्यचिद् विगमेन, स्वभावशून्यता कुशला न च कस्यचिद् विगमेन, अभावस्वभावशून्यता कुशला न च कस्यचिद् विगमेन.

स्मृत्युपस्थानानि कुशलानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि कुशलानि न च कस्यचिद् विगमेन, ऋद्धिपादाः कुशला न च कस्यचिद् विगमेन, इन्द्रियानि कुशलानि न च कस्यचिद् विगमेन, बलानि कुशलानि न (श्स्प्_इइ-1_126) च कस्यचिद् विगमेन, बोध्यङ्गानि कुशलानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो कुशलो न च कस्यचिद् विगमेन. आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्राप्रणिहितानि न च कस्यचिद् विगमेन, ध्यानानि कुशलानि न च कस्यचिद् विगमेन, अप्रमाणानि कुशलानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयः कुशला न च कस्यचिद् विगमेन, अष्टौ विमोक्षाः कुशला न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयः कुशला न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि कुशलानि न च कस्यचिद् विगमेन, अभिज्ञा कुशला न च कस्यचिद् विगमेन, समाधयः कुशला न च कस्यचिद् विगमेन, धारणीमुखानि कुशलानि न च कस्यचिद् विगमेन, दशतथागतबलानि कुशलानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि कुशलानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदः कुशला न च कस्यचिद् विगमेन, महामैत्री कुशला न च कस्यचिद् विगमेन, महाकरुणा कुशला न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्माः कुशला न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यत् कुशलं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्माः कुशला न च कस्यचिद् विगमेन.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा अनवद्या न च कस्यचिद् विगमेन.

आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अनवद्या न च कस्यचिद् विगमेन?

आह: रूपम् आयुष्मञ् छारद्वतीपुत्रानवद्यं न च कस्यचिद् विगमेन, वेदनानवद्या न च कस्यचिद् विगमेन, संज्ञानवद्या न च कस्यचिद् विगमेन, संस्कारा अनवद्या न च कस्यचिद् विगमेन, विज्ञानम् अनवद्यं न च कस्यचिद् विगमेन.

चक्षुर् आयुष्मञ् छारद्वतीपुत्रानवद्यं न च कस्यचिद् विगमेन, श्रोत्रम् अनवद्यं न च कस्यचिद् विगमेन, घ्राणम् अनवद्यं न च कस्यचिद् विगमेन, जिह्वानवद्या न च कस्यचिद् विगमेन, कायो ऽनवद्यो न च कस्यचिद् विगमेन, मनो ऽनवद्यं न च कस्यचिद् विगमेन.

रूपम् आयुष्मञ् छारद्वतीपुत्रानवद्यं न च कस्यचिद् विगमेन, शब्दो ऽनवद्यो न च कस्यचिद् विगमेन, गन्धो ऽनवद्यो न च कस्यचिद् विगमेन, रसो ऽनवद्यो न च कस्यचिद् विगमेन, स्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन, धर्मा अनवद्या न च कस्यचिद् विगमेन.

चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्रानवद्यं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् अनवद्यं न च कस्यचिद् विगमेन, घ्राणविज्ञानम् अनवद्यं न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् अनवद्यं न च कस्यचिद् विगमेन, कायविज्ञानम् अनवद्यं न च कस्यचिद् विगमेन, मनोविज्ञानम् अनवद्यं न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्रानवद्यो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन, कायसंस्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन, मनःसंस्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्रानवद्या न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद् विगमेन.

पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्रानवद्यो न च कस्यचिद् विगमेन, अब्धातुर् अनवद्यो न च कस्यचिद् विगमेन, तेजोधातुर् अनवद्यो न च कस्यचिद् विगमेन, वायुधातुर् अनवद्यो न च कस्यचिद् विगमेन, आकाशधातुर् अनवद्यो न च कस्यचिद् विगमेन, विज्ञानधातुर् अनवद्यो न च कस्यचिद् विगमेन.

अविद्यायुष्मञ् छारद्वतीपुत्रानवद्या न च कस्यचिद् विगमेन, संस्कारा अनवद्या न च कस्यचिद् विगमेन, विज्ञानम् अनवद्यं न च कस्यचिद् विगमेन, नामरूपम् अनवद्यं न च कस्यचिद् विगमेन, षडायतनम् अनवद्यं न च कस्यचिद् विगमेन, स्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन, वेदनानवद्या न च कस्यचिद् विगमेन, तृष्णानवद्या न च कस्यचिद् विगमेन, उपादानम् अनवद्यं न च कस्यचिद् विगमेन, भवो ऽनवद्यो न च कस्यचिद् विगमेन, जातिर् अनवद्या न च कस्यचिद् विगमेन, जरामरणम् अनवद्यं न च कस्यचिद् विगमेन.

दानपारमितायुष्मञ् छारद्वतीपुत्रानवद्या न च कस्यचिद् विगमेन, शीलपारमितानवद्या न च कस्यचिद् विगमेन, क्षान्तिपारमितानवद्या न च कस्यचिद् विगमेन, वीर्यपारमितानवद्या न च कस्यचिद् विगमेन, ध्यानपारमितानवद्या न च कस्यचिद् विगमेन, प्रज्ञापारमितानवद्या न च कस्यचिद् विगमेन.

अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्रानवद्या न च कस्यचिद् विगमेन, बहिर्धाशून्यतानवद्या न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यतानवद्या न च कस्यचिद् विगमेन, शून्यताशून्यतानवद्या न च कस्यचिद् विगमेन, महाशून्यतानवद्या न च कस्यचिद् विगमेन, परमार्थशून्यतानवद्या न च कस्यचिद् विगमेन, संस्कृतशून्यतानवद्या न च कस्यचिद् विगमेन, असंस्कृतशून्यतानवद्या न च कस्यचिद् विगमेन, अत्यन्तशून्यतानवद्या न च कस्यचिद् विगमेन, अनवराग्रशून्यतानवद्या न च कस्यचिद् विगमेन, अनवकारशून्यतानवद्या न च कस्यचिद् विगमेन, प्रकृतिशून्यतानवद्या न च कस्यचिद् विगमेन, सर्वधर्मशून्यतानवद्या न च कस्यचिद् विगमेन, स्वलक्षणशून्यतानवद्या न च कस्यचिद् विगमेन, अनुपलम्भशून्यतानवद्या न च कस्यचिद् विगमेन, अभावशून्यतानवद्या न च कस्यचिद् विगमेन, स्वभावशून्यतानवद्या न च कस्यचिद् विगमेन, अभावस्वभावशून्यतानवद्या न च कस्यचिद् विगमेन.

स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्रानवद्यानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् अनवद्यानि न च कस्यचिद् विगमेन, ऋद्धिपादा अनवद्या न च कस्यचिद् विगमेन, इन्द्रियाण्य् अनवद्यानि न च कस्यचिद् विगमेन, बलान्य् अनवद्यानि न च कस्यचिद् विगमेन, बोध्यङ्गान्य् अनवद्यानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो ऽनवद्यो न च कस्यचिद् विगमेन, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्रानवद्यानि न च कस्यचिद् विगमेन, ध्यानान्य् अनवद्यानि न च कस्यचिद् विगमेन, अप्रमाणान्य् अनवद्यानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो ऽनवद्या न च कस्यचिद् विगमेन, अष्टौ विमोक्षा अनवद्या न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो ऽनवद्या न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनवद्यानि न च कस्यचिद् विगमेन, अभिज्ञा अनवद्या न च कस्यचिद् विगमेन, समाधयो ऽनवद्या न च कस्यचिद् विगमेन, धारणीमुखान्य् अनवद्यानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् अनवद्यानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् अनवद्यानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो ऽनवद्या न च कस्यचिद् विगमेन, महामैत्र्य् अनवद्या न च कस्यचिद् विगमेन, महाकरुणानवद्या न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्मा अनवद्या न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् अनवद्यं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा (श्स्प्_इइ-1_129) अनवद्या न च कस्यचिद् विगमेन.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा अनास्रवा न च कस्यचिद् विगमेन.

आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अनास्रवा न च कस्यचिद् विगमेन?

आह: रूपम् आयुष्मञ् छारद्वतीपुत्रानास्रवं न च कस्यचिद् विगमेन, वेदनानास्रवा न च कस्यचिद् विगमेन, संज्ञानास्रवा न च कस्यचिद् विगमेन, संस्कारा अनास्रवा न च कस्यचिद् विगमेन, विज्ञानम् अनास्रवं न च कस्यचिद् विगमेन.

चक्षुर् आयुष्मञ् छारद्वतीपुत्रानास्रवं न च कस्यचिद् विगमेन, श्रोत्रम् अनास्रवं न च कस्यचिद् विगमेन, घ्राणम् अनास्रवं न च कस्यचिद् विगमेन, जिह्वानास्रवा न च कस्यचिद् विगमेन, कायो ऽनास्रवो न च कस्यचिद् विगमेन, मनो ऽनास्रवं न च कस्यचिद् विगमेन.

रूपम् आयुष्मञ् छारद्वतीपुत्रानास्रवं न च कस्यचिद् विगमेन, शब्दो ऽनास्रवो न च कस्यचिद् विगमेन, गन्धो ऽनास्रवो न च कस्यचिद् विगमेन, रसो ऽनास्रवो न च कस्यचिद् विगमेन, स्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन, धर्मा अनास्रवा न च कस्यचिद् विगमेन.

चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्रानास्रवं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् अनास्रवं न च कस्यचिद् विगमेन, घ्राणविज्ञानम् अनास्रवं न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् अनास्रवं न च कस्यचिद् विगमेन, कायविज्ञानम् अनास्रवं न च कस्यचिद् विगमेन, मनोविज्ञानम् अनास्रवं न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्रानास्रवो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन, कायसंस्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन, मनःसंस्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्रानास्रवा न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद् विगमेन.

पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्रानास्रवो न च कस्यचिद् विगमेन, अब्धातुर् अनास्रवो न च कस्यचिद् विगमेन, तेजोधातुर् अनास्रवो न च कस्यचिद् विगमेन, वायुधातुर् अनास्रवो न च कस्यचिद् विगमेन, आकाशधातुर् अनास्रवो न च कस्यचिद् विगमेन, विज्ञानधातुर् अनास्रवो न च कस्यचिद् विगमेन.

अविद्यायुष्मञ् छारद्वतीपुत्रानास्रवा न च कस्यचिद् विगमेन, संस्कारा अनास्रवा न च कस्यचिद् विगमेन, विज्ञानम् अनास्रवं न च कस्यचिद् विगमेन, नामरूपम् अनास्रवं न च कस्यचिद् विगमेन, सडायतनम् अनास्रवं न च कस्यचिद् विगमेन, स्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन, वेदनानास्रवा न च कस्यचिद् विगमेन, तृष्णानास्रवा न च कस्यचिद् विगमेन, उपादानम् अनास्रवं न च कस्यचिद् विगमेन, भवो ऽनास्रवो न च कस्यचिद् विगमेन, जातिर् अनास्रवा न च कस्यचिद् विगमेन, जरामरणम् अनास्रवं न च कस्यचिद् विगमेन.

दानपारमितायुष्मञ् छारद्वतीपुत्रानास्रवा न च कस्यचिद् विगमेन, शीलपारमितानास्रवा न च कस्यचिद् विगमेन, क्षान्तिपारमितानास्रवा न च कस्यचिद् विगमेन, वीर्यपारमितानास्रवा न च कस्यचिद् विगमेन, ध्यानपारमितानास्रवा न च कस्यचिद् विगमेन, प्रज्नापारमितानास्रवा न च कस्यचिद् विगमेन.

अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्रानास्रवा न च कस्यचिद् विगमेन, बहिर्धाशून्यतानास्रवा न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यतानास्रवा न च कस्यचिद् विगमेन, शून्यताशून्यतानास्रवा न च कस्यचिद् विगमेन, महाशून्यतानास्रवा न च कस्यचिद् विगमेन, परमार्थशून्यतानास्रवा न च कस्यचिद् विगमेन, संस्कृतशून्यतानास्रवा न च कस्यचिद् विगमेन, असंस्कृतशून्यतानास्रवा न च कस्यचिद् विगमेन, अत्यन्तशून्यतानास्रवा न च कस्यचिद् विगमेन, अनवराग्रशून्यतानास्रवा न च कस्यचिद् विगमेन, अनवकारशुन्यतानास्रवा न च कस्यचिद् विगमेन, प्रकृतिशून्यतानास्रवा न च कस्यचिद् विगमेन, सर्वधर्मशून्यतानास्रवा न च कस्यचिद् विगमेन, स्वलक्षणशुन्यतानास्रवा न च कस्यचिद् विगमेन, अनुपलम्भशून्यतानास्रवा न च कस्यचिद् विगमेन, अभावशून्यतानास्रवा न च कस्यचिद् विगमेन, स्वभावशून्यतानास्रवा न च कस्यचिद् विगमेन, अभावस्वभावशून्यतानास्रवा न च कस्यचिद् विगमेन.

स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्रानास्रवानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् अनास्रवानि न च कस्यचिद् विगमेन, ऋद्धिपादा (श्स्प्_इइ-1_131) विगमेन, बलान्य् अनास्रवानि न च कस्यचिद् विगमेन, बोध्यङ्गान्य् अनास्रवाणि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो ऽनास्रवो न च कस्यचिद् विगमेन, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्रानवद्यानि न च कस्यचिद् विगमेन, ध्यानान्य् अनास्रवाणि न च कस्यचिद् विगमेन, अप्रमाणान्य् अनास्रवाणि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो ऽनास्रवा न च कस्यचिद् विगमेन, अष्टौ विमोक्षा अनास्रवा न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो ऽनास्रवा न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनास्रवानि न च कस्यचिद् विगमेन, अभिज्ञा अनास्रवा न च कस्यचिद् विगमेन, समाधयो ऽनास्रवा न च कस्यचिद् विगमेन, धारणीमुखान्य् अनास्रवानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् अनास्रवाणि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् अनास्रवाणि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो ऽनास्रवा न च कस्यचिद् विगमेन, महामैत्र्य् अनास्रवा न च कस्यचिद् विगमेन, महाकरुणानास्रवा न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्मा अनास्रवा न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् अनास्रवं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा अनास्रवा न च कस्यचिद् विगमेन.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा निःक्लेशा न च कस्यचिद् विगमेन.

आह: कतमे आयुष्मन् सुभूते सर्वधर्मा निःक्लेशा न च कस्यचिद् विगमेन?

आह: रूपम् आयुष्मञ् छारद्वतीपुत्र निःक्लेशं न च कस्यचिद् विगमेन, वेदना निःक्लेशा न च कस्यचिद् विगमेन, संज्ञा निःक्लेशा न च कस्यचिद् विगमेन, संस्कारा निःक्लेशा न च कस्यचिद् विगमेन, विज्ञानं निःक्लेशं न च कस्यचिद् विगमेन.

चक्षुर् आयुष्मञ् छारद्वतीपुत्र निःक्लेशं न च कस्यचिद् विगमेन, श्रोत्रं निःक्लेशं न च कस्यचिद् विगमेन, घ्राणं निःक्लेशं न च कस्यचिद् विगमेन, जिह्वा निःक्लेशा न च कस्यचिद् विगमेन, कायो निःक्लेशो न च कस्यचिद् विगमेन, मनो निःक्लेशं न च कस्यचिद् विगमेन.

रूपम् आयुष्मञ् छारद्वतीपुत्र निःक्लेशं न च कस्यचिद् विगमेन, शब्दो निःक्लेशो न च कस्यचिद् विगमेन, गन्धो निःक्लेशो न च कस्यचिद् विगमेन, रसो निःक्लेशो न च कस्यचिद् विगमेन, स्पर्शो निःक्लेशो न च (श्स्प्_इइ-1_132) कस्यचिद् विगमेन, धर्मा निःक्लेशा न च कस्यचिद् विगमेन.

चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र निःक्लेशं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं निःक्लेशं न च कस्यचिद् विगमेन, घ्राणविज्ञानं निःक्लेशं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं निःक्लेशं न च कस्यचिद् विगमेन, कायविज्ञानं निःक्लेशं न च कस्यचिद् विगमेन, मनोविज्ञानं निःक्लेशं न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र निःक्लेशो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो निःक्लेशो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो निःक्लेशो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो निःक्लेशो न च कस्यचिद् विगमेन, कायसंस्पर्शो निःक्लेशो न च कस्यचिद् विगमेन, मनःसंस्पर्शो निःक्लेशो न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र निःक्लेशा न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद् विगमेन.

पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र निःक्लेशो न च कस्यचिद् विगमेन, अब्धातुर् निःक्लेशो न च कस्यचिद् विगमेन, तेजोधातुर् निःक्लेशो न च कस्यचिद् विगमेन, वायुधातुर् निःक्लेशो न च कस्यचिद् विगमेन, आकाशधातुर् निःक्लेशो न च कस्यचिद् विगमेन, विज्ञानधातुर् निःक्लेशो न च कस्यचिद् विगमेन.

अविद्यायुष्मञ् छारद्वतीपुत्र निःक्लेशा न च कस्यचिद् विगमेन, संस्कारा निःक्लेशा न च कस्यचिद् विगमेन, विज्ञानं निःक्लेशं न च कस्यचिद् विगमेन, नामरूपं निःक्लेशं न च कस्यचिद् विगमेन, षडायतनं निःक्लेशं न च कस्यचिद् विगमेन, स्पर्शो निःक्लेशो न च कस्यचिद् विगमेन, वेदना निःक्लेशा न च कस्यचिद् विगमेन, तृष्णा निःक्लेशा न च कस्यचिद् विगमेन, उपादानं निःक्लेशं न च कस्यचिद् विगमेन, भवो निःक्लेशो न च कस्यचिद् विगमेन, जातिर् निःक्लेशा न च कस्यचिद् विगमेन, जरामरणं निःक्लेशं न च कस्यचिद् विगमेन.

दानपारमितायुष्मञ् छारद्वतीपुत्र निःक्लेशा न च कस्यचिद् विगमेन, शीलपारमिता निःक्लेशा न च कस्यचिद् विगमेन, क्षान्तिपारमिता निःक्लेशा न च कस्यचिद् विगमेन, वीर्यपारमिता निःक्लेशा न च कस्यचिद् विगमेन, ध्यानपारमिता निःक्लेशा न च कस्यचिद् विगमेन, प्रज्ञापारमिता (श्स्प्_इइ-1_133) निःक्लेशा न च कस्यचिद् विगमेन.

अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र निःक्लेशा न च कस्यचिद् विगमेन, बहिर्धाशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता निःक्लेशा न च कस्यचिद् विगमेन, शून्यताशून्यता निःक्लेशा न च कस्यचिद् विगमेन, महाशून्यता निःक्लेशा न च कस्यचिद् विगमेन, परमार्थशून्यता निःक्लेशा न च कस्यचिद् विगमेन, संस्कृतशून्यता निःक्लेशा न च कस्यचिद् विगमेन, असंस्कृतशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अत्यन्तशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अनवराग्रशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अनवकारशून्यता निःक्लेशा न च कस्यचिद् विगमेन, प्रकृतिशून्यता निःक्लेशा न च कस्यचिद् विगमेन, सर्वधर्मशून्यता निःक्लेशा न च कस्यचिद् विगमेन, स्वलक्षणशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अनुपलम्भशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अभावशून्यता निःक्लेशा न च कस्यचिद् विगमेन, स्वभावशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अभावस्वभावशून्यता निःक्लेशा न च कस्यचिद् विगमेन.

स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र निःक्लेशानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि निःक्लेशानि न च कस्यचिद् विगमेन, ऋद्धिपादा निःक्लेशा न च कस्यचिद् विगमेन, इन्द्रियाणि निःक्लेशानि न च कस्यचिद् विगमेन, बलानि निःक्लेशानि न च कस्यचिद् विगमेन, बोध्यङ्गानि निःक्लेशानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो निःक्लेशो न च कस्यचिद् विगमेन.

आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र निःक्लेशानि न च कस्यचिद् विगमेन, ध्यानानि निःक्लेशानि न च कस्यचिद् विगमेन, अप्रमाणानि निःक्लेशानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो निःक्लेशा न च कस्यचिद् विगमेन, अष्टौ विमोक्षा निःक्लेशा न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो निःक्लेशा न च कस्यचिद् विगमेन, शून्यताप्रणिहिताप्रणिहितविमोक्षमुखानि निःक्लेशानि न च कस्यचिद् विगमेन, अभिज्ञा निःक्लेशा न च कस्यचिद् विगमेन, समाधयो निःक्लेशा न च कस्यचिद् विगमेन, धारणीमुखानि निःक्लेशानि न च कस्यचिद् विगमेन, दशतथागतबलानि निःक्लेशानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि निःक्लेशानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो निःक्लेशा न च कस्यचिद् विगमेन, महामैत्री निःक्लेशा न च कस्यचिद् विगमेन, महाकरुणा निःक्लेशा न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्मा निःक्लेशा न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् (श्स्प्_इइ-1_134) छारद्वतीपुत्र यद् निःक्लेशं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा निःक्लेशा न च कस्यचिद् विगमेन.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा व्यवदाता न च कस्यचिद् विगमेन.

आह: कतमे आयुष्मन् सुभूते सर्वधर्मा व्यवदाता न च कस्यचिद् विगमेन?

आह: रूपम् आयुष्मञ् छारद्वतीपुत्र व्यवदातं न च कस्यचिद् विगमेन, वेदना व्यवदाता न च कस्यचिद् विगमेन, संज्ञा व्यवदाता न च कस्यचिद् विगमेन, संस्कारा व्यवदाता न च कस्यचिद् विगमेन, विज्ञानं व्यवदातं न च कस्यचिद् विगमेन.

चक्षुर् आयुष्मञ् छारद्वतीपुत्र व्यवदातं न च कस्यचिद् विगमेन, श्रोत्रं व्यवदातं न च कस्यचिद् विगमेन, घ्राणं व्यवदातं न च कस्यचिद् विगमेन, जिह्वा व्यवदाता न च कस्यचिद् विगमेन, कायो व्यवदातो न च कस्यचिद् विगमेन, मनो व्यवदातो न च कस्यचिद् विगमेन.

रूपम् आयुष्मञ् छारद्वतीपुत्र व्यवदातं न च कस्यचिद् विगमेन, शब्दो व्यवदातो न च कस्यचिद् विगमेन, गन्धो व्यवदातो न च कस्यचिद् विगमेन, रसो व्यवदातो न च कस्यचिद् विगमेन, स्पर्शो व्यवदातो न च कस्यचिद् विगमेन, धर्मा व्यवदाता न च कस्यचिद् विगमेन. चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र व्यवदातं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं व्यवदातं न च कस्यचिद् विगमेन, घ्राणविज्ञानं व्यवदातं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं व्यवदातं न च कस्यचिद् विगमेन, कायविज्ञानं व्यवदातं न च कस्यचिद् विगमेन, मनोविज्ञानं व्यवदातं न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र व्यवदातो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो व्यवदातो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो व्यवदातो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो व्यवदातो न च कस्यचिद् विगमेन, कायसंस्पर्शो व्यवदातो न च कस्यचिद् विगमेन, मनःसंस्पर्शो व्यवदातो न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र व्यवदाता न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद् (श्स्प्_इइ-1_135) विगमेन, मनःसंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद् विगमेन.

पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र व्यवदातो न च कस्यचिद् विगमेन, अब्धातुर् व्यवदातो न च कस्यचिद् विगमेन, तेजोधातुर् व्यवदातो न च कस्यचिद् विगमेन, वायुधातुर् व्यवदातो न च कस्यचिद् विगमेन, आकाशधातुर् व्यवदातो न च कस्यचिद् विगमेन, विज्ञानधातुर् व्यवदातो न च कस्यचिद् विगमेन.

अविद्यायुष्मञ् छारद्वतीपुत्र व्यवदाता न च कस्यचिद् विगमेन, संस्कारा व्यवदाता न च कस्यचिद् विगमेन, विज्ञानं व्यवदातं न च कस्यचिद् विगमेन, नामरूपं व्यवदातं न च कस्यचिद् विगमेन, षडायतनं व्यवदातं न च कस्यचिद् विगमेन, स्पर्शो व्यवदातो न च कस्यचिद् विगमेन, वेदना व्यवदाता न च कस्यचिद् विगमेन, तृष्णा व्यवदाता न च कस्यचिद् विगमेन, उपादानं व्यवदातं न च कस्यचिद् विगमेन, भवो व्यवदातो न च कस्यचिद् विगमेन, जातिर् व्यवदाता न च कस्यचिद् विगमेन, जरामरणं व्यवदातं न च कस्यचिद् विगमेन.

दानपारमितायुष्मञ् छारद्वतीपुत्र व्यवदाता न च कस्यचिद् विगमेन, शीलपारमिता व्यवदाता न च कस्यचिद् विगमेन, क्षान्तिपारमिता व्यवदाता न च कस्यचिद् विगमेन, वीर्यपारमिता व्यवदाता न च कस्यचिद् विगमेन, ध्यानपारमिता व्यवदाता न च कस्यचिद् विगमेन, प्रज्ञापारमिता व्यवदाता न च कस्यचिद् विगमेन.

अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र व्यवदाता न च कस्यचिद् विगमेन, बहिर्धाशून्यता व्यवदाता न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता व्यवदाता न च कस्यचिद् विगमेन, शून्यताशून्यता व्यवदाता न च कस्यचिद् विगमेन, महाशून्यता व्यवदाता न च कस्यचिद् विगमेन, परमार्थशून्यता व्यवदाता न च कस्यचिद् विगमेन, संस्कृतशून्यता व्यवदाता न च कस्यचिद् विगमेन, असंस्कृतशून्यता व्यवदाता न च कस्यचिद् विगमेन, अत्यन्तशून्यता व्यवदाता न च कस्यचिद् विगमेन, अनवराग्रशून्यता व्यवदाता न च कस्यचिद् विगमेन, अनवकारशून्यता व्यवदाता न च कस्यचिद् विगमेन, प्रकृतिशून्यता व्यवदाता न च कस्यचिद् विगमेन, सर्वधर्मशून्यता व्यवदाता न च कस्यचिद् विगमेन, स्वलक्षणशुन्यता व्यवदाता न च कस्यचिद् विगमेन, अनुपलम्भशून्यता व्यवदाता न च कस्यचिद् विगमेन, अभावशून्यता व्यवदाता न च कस्यचिद् विगमेन, स्वभावशून्यता व्यवदाता न च कस्यचिद् विगमेन, अभावस्वभावशून्यता व्यवदाता न च कस्यचिद् (श्स्प्_इइ-1_136) विगमेन.

स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र व्यवदातानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि व्यवदातानि न च कस्यचिद् विगमेन, ऋद्धिपादा व्यवदाता न च कस्यचिद् विगमेन, इन्द्रियाणि व्यवदातानि न च कस्यचिद् विगमेन, बलानि व्यवदातानि न च कस्यचिद् विगमेन, बोध्यङ्गानि व्यवदातानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो व्यवदातो न च कस्यचिद् विगमेन.

आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र व्यवदातानि न च कस्यचिद् विगमेन, ध्यानानि व्यवदातानि न च कस्यचिद् विगमेन, अप्रमाणानि व्यवदातानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो व्यवदाता न च कस्यचिद् विगमेन, अष्टौ विमोक्षा व्यवदाता न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो व्यवदाता न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि व्यवदातानि न च कस्यचिद् विगमेन, अभिज्ञा व्यवदाता न च कस्यचिद् विगमेन, समाधयो व्यवदाता न च कस्यचिद् विगमेन, धारणीमुखानि व्यवदातानि न च कस्यचिद् विगमेन, दशतथागतबलानि व्यवदातानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि व्यवदातानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो व्यवदाता न च कस्यचिद् विगमेन, महामैत्री व्यवदाता न च कस्यचिद् विगमेन, महाकरुणा व्यवदाता न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्मा व्यवदाता न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् व्यवदातं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा व्यवदाता न च कस्यचिद् विगमेन.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा लोकोत्तरा न च कस्यचिद् विगमेन.

आह: कतमे आयुष्मन् सुभूते सर्वधर्मा लोकोत्तरा न च कस्यचिद् विगमेन?

आह: रूपम् आयुष्मञ् छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद् विगमेन, वेदना लोकोत्तरा न च कस्यचिद् विगमेन, संज्ञा लोकोत्तरा न च कस्यचिद् विगमेन, संस्कारा लोकोत्तरा न च कस्यचिद् विगमेन, विज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन.

चक्षुर् आयुष्मञ् छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद् विगमेन, श्रोत्रं लोकोत्तरं न च कस्यचिद् विगमेन, घ्राणं लोकोत्तरं न च (श्स्प्_इइ-1_137) कस्यचिद् विगमेन, जिह्वा लोकोत्तरा न च कस्यचिद् विगमेन, कायो लोकोत्तरो न च कस्यचिद् विगमेन, मनो लोकोत्तरं न च कस्यचिद् विगमेन.

रूपम् आयुष्मञ् छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद् विगमेन, शब्दो लोकोत्तरो न च कस्यचिद् विगमेन, गन्धो लोकोत्तरो न च कस्यचिद् विगमेन, रसो लोकोत्तरो न च कस्यचिद् विगमेन, स्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन, धर्मा लोकोत्तरा न च कस्यचिद् विगमेन.

चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन, घ्राणविज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन, कायविज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन, मनोविज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र लोकोत्तरो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन, कायसंस्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन, मनःसंस्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र लोकोत्तरा न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद् विगमेन.

पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र लोकोत्तरो न च कस्यचिद् विगमेन, अब्धातुर् लोकोत्तरो न च कस्यचिद् विगमेन, तेजोधातुर् लोकोत्तरो न च कस्यचिद् विगमेन, वायुधातुर् लोकोत्तरो न च कस्यचिद् विगमेन, आकाशधातुर् लोकोत्तरो न च कस्यचिद् विगमेन, विज्ञानधातुर् लोकोत्तरो न च कस्यचिद् विगमेन.

अविद्यायुष्मञ् छारद्वतीपुत्र लोकोत्तरा न च कस्यचिद् विगमेन, संस्कारा लोकोत्तरा न च कस्यचिद् विगमेन, विज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन, नामरूपं लोकोत्तरं न च कस्यचिद् विगमेन, षडायतनं लोकोत्तरं न च कस्यचिद् विगमेन, स्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन, वेदना लोकोत्तरा न च कस्यचिद् विगमेन, तृष्णा लोकोत्तरा न च कस्यचिद् विगमेन, उपादानं लोकोत्तरं न च कस्यचिद् विगमेन, भवो लोकोत्तरो न च कस्यचिद् विगमेन, जातिर् लोकोत्तरा न च (श्स्प्_इइ-1_138) कस्यचिद् विगमेन, जरामरणं लोकोत्तरं न च कस्यचिद् विगमेन.

दानपारमितायुष्मञ् छारद्वतीपुत्र लोकोत्तरा न च कस्यचिद् विगमेन, शीलपारमिता लोकोत्तरा न च कस्यचिद् विगमेन, क्षान्तिपारमिता लोकोत्तरा न च कस्यचिद् विगमेन, वीर्यपारमिता लोकोत्तरा न च कस्यचिद् विगमेन, ध्यानपारमिता लोकोत्तरा न च कस्यचिद् विगमेन, प्रज्ञापारमिता लोकोत्तरा न च कस्यचिद् विगमेन.

अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र लोकोत्तरा न च कस्यचिद् विगमेन, बहिर्धाशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, शून्यताशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, महाशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, परमार्थशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, संस्कृतशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, असंस्कृतशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अत्यन्तशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अनवराग्रशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अनवकारशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, प्रकृतिशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, सर्वधर्मशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, स्वलक्षणशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अनुपलम्भशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अभावशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, स्वभावशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अभावस्वभावशून्यता लोकोत्तरा न च कस्यचिद् विगमेन.

स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र लोकोत्तराणि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि लोकोत्तराणि न च कस्यचिद् विगमेन, ऋद्धिपादा लोकोत्तरा न च कस्यचिद् विगमेन, इन्द्रियाणि लोकोत्तराणि न च कस्यचिद् विगमेन, बलानि लोकोत्तराणि न च कस्यचिद् विगमेन, बोध्यङ्गानि लोकोत्तराणि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो लोकोत्तरो न च कस्यचिद् विगमेन.

आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र लोकोत्तराणि न च कस्यचिद् विगमेन, ध्यानानि लोकोत्तराणि न च कस्यचिद् विगमेन, अप्रमाणानि लोकोत्तराणि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो लोकोत्तरा न च कस्यचिद् विगमेन, अष्टौ विमोक्षा लोकोत्तरा न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो लोकोत्तरा न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि लोकोत्तराणि न च कस्यचिद् विगमेन, अभिज्ञा लोकोत्तरा न च कस्यचिद् विगमेन, समाधयो लोकोत्तरा न च कस्यचिद् विगमेन, धारणीमुखानि लोकोत्तराणि न च कस्यचिद् (श्स्प्_इइ-1_139) विगमेन, दशतथागतबलानि लोकोत्तराणि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि लोकोत्तराणि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो लोकोत्तरा न च कस्यचिद् विगमेन, महामैत्री लोकोत्तरा न च कस्यचिद् विगमेन, महाकरुणा लोकोत्तरा न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्मा लोकोत्तरा न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् लोकोत्तरं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा लोकोत्तरा न च कस्यचिद् विगमेन.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा असंस्कृता न च कस्यचिद् विगमेन.

आह: कतमे आयुष्मन् सुभूते सर्वधर्मा असंस्कृता न च कस्यचिद् विगमेन?

आह: रूपम् आयुष्मञ् छारद्वतीपुत्रासंस्कृतं न च कस्यचिद् विगमेन, वेदनासंस्कृता न च कस्यचिद् विगमेन, संज्ञासंस्कृता न च कस्यचिद् विगमेन, संस्कारा असंस्कृता न च कस्यचिद् विगमेन, विज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन.

चक्षुर् आयुष्मञ् छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद् विगमेन, श्रोत्रम् असंस्कृतं न च कस्यचिद् विगमेन, घ्राणम् असंस्कृतं न च कस्यचिद् विगमेन, जिह्वासंस्कृता न च कस्यचिद् विगमेन, कायो ऽसंस्कृतो न च कस्यचिद् विगमेन, मनो ऽसंस्कृतं न च कस्यचिद् विगमेन.

रूपम् आयुष्मञ् छारद्वतीपुत्रासंस्कृतं न च कस्यचिद् विगमेन, शब्दो ऽसंस्कृतो न च कस्यचिद् विगमेन, गन्धो ऽसंस्कृतो न च कस्यचिद् विगमेन, रसो ऽसंस्कृतो न च कस्यचिद् विगमेन, स्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन, धर्मा असंस्कृता न च कस्यचिद् विगमेन.

चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्रासंस्कृतं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन, घ्राणविज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन, कायविज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन, मनोविज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्रासंस्कृतो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन, कायसंस्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन, (श्स्प्_इइ-1_140) मनःसंस्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्रासंस्कृता न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन.

पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्रासंस्कृतो न च कस्यचिद् विगमेन, अब्धातुर् ऽसंस्कृतो न च कस्यचिद् विगमेन, तेजोधातुर् ऽसंस्कृतो न च कस्यचिद् विगमेन, वायुधातुर् ऽसंस्कृतो न च कस्यचिद् विगमेन, आकाशधातुर् ऽसंस्कृतो न च कस्यचिद् विगमेन, विज्ञानधातुर् ऽसंस्कृतो न च कस्यचिद् विगमेन.

अविद्यायुष्मञ् छारद्वतीपुत्रासंस्कृता न च कस्यचिद् विगमेन, संस्कारा असंस्कृता न च कस्यचिद् विगमेन, विज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन, नामरूपम् असंस्कृतं न च कस्यचिद् विगमेन, षडायतनम् असंस्कृतं न च कस्यचिद् विगमेन, स्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन, वेदनासंस्कृता न च कस्यचिद् विगमेन, तृष्णासंस्कृता न च कस्यचिद् विगमेन, उपादानम् असंस्कृतं न च कस्यचिद् विगमेन, भवो ऽसंस्कृतो न च कस्यचिद् विगमेन, जातिर् असंस्कृता न च कस्यचिद् विगमेन, जरामरणम् असंस्कृतं न च कस्यचिद् विगमेन.

दानपारमितायुष्मञ् छारद्वतीपुत्रासंस्कृता न च कस्यचिद् विगमेन, शीलपारमितासंस्कृता न च कस्यचिद् विगमेन, क्षान्तिपारमितासंस्कृता न च कस्यचिद् विगमेन, वीर्यपारमितासंस्कृता न च कस्यचिद् विगमेन, ध्यानपारमितासंस्कृता न च कस्यचिद् विगमेन, प्रज्ञापारमितासंस्कृता न च कस्यचिद् विगमेन.

अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्रासंस्कृता न च कस्यचिद् विगमेन, बहिर्धाशून्यतासंस्कृता न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यतासंस्कृता न च कस्यचिद् विगमेन, शून्यताशून्यतासंस्कृता न च कस्यचिद् विगमेन, महाशून्यतासंस्कृता न च कस्यचिद् विगमेन, परमार्थशून्यतासंस्कृता न च कस्यचिद् विगमेन, संस्कृतशून्यतासंस्कृता न च कस्यचिद् विगमेन, असंस्कृतशून्यतासंस्कृता न च कस्यचिद् विगमेन, अत्यन्तशून्यतासंस्कृता न च कस्यचिद् विगमेन, अनवराग्रशून्यतासंस्कृता न च कस्यचिद् विगमेन, अनवकारशून्यतासंस्कृता न च कस्यचिद् विगमेन, प्रकृतिशून्यतासंस्कृता (श्स्प्_इइ-1_141) न च कस्यचिद् विगमेन, सर्वधर्मशून्यतासंस्कृता न च कस्यचिद् विगमेन, स्वलक्षणशून्यतासंस्कृता न च कस्यचिद् विगमेन, अनुपलम्भशून्यतासंस्कृता न च कस्यचिद् विगमेन, अभावशून्यतासंस्कृता न च कस्यचिद् विगमेन, स्वभावशून्यतासंस्कृता न च कस्यचिद् विगमेन, अभावस्वभावशून्यतासंस्कृता न च कस्यचिद् विगमेन.

स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्रासंस्कृताणि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् असंस्कृतानि न च कस्यचिद् विगमेन, ऋद्धिपादासंस्कृता न च कस्यचिद् विगमेन, इन्द्रियाण्य् असंस्कृतानि न च कस्यचिद् विगमेन, बलान्य् असंस्कृतानि न च कस्यचिद् विगमेन, बोध्यङ्गानि ऽसंस्कृताणि न च कस्यचिद् विगमेन, आर्याष्टाण्गो मार्गो ऽसंस्कृतो न च कस्यचिद् विगमेन. आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्रासंस्कृतानि न च कस्यचिद् विगमेन, ध्यानान्य् असंस्कृतानि न च कस्यचिद् विगमेन, अप्रमाणान्य् असंस्कृतानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो ऽसंस्कृता न च कस्यचिद् विगमेन, अष्टौ विमोक्षासंस्कृता न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो ऽसंस्कृता न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रनिहितविमोक्षमुखान्य् असंस्कृतानि न च कस्यचिद् विगमेन, अभिज्ञा असंस्कृता न च कस्यचिद् विगमेन, समाधयो ऽसंस्कृता न च कस्यचिद् विगमेन, धारणीमुखान्य् असंस्कृतानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् असंस्कृतानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् असंस्कृतानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो ऽसंस्कृता न च कस्यचिद् विगमेन, महामैत्र्य् असंस्कृता न च कस्यचिद् विगमेन, महाकरुणासंस्कृता न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्मा असंस्कृता न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् असंस्कृतं सो ऽभावः क्षयश् च. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा असंस्कृता न च कस्यचिद् विगमेन.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्राकूटस्था अविनाशिनः सर्वधर्माः.

आह: किम् इत्य् आयुष्मन् सुभूते ऽकूटस्था अविनाशिनः सर्वधर्माः?

सुभूतिर् आह: रूपम् आयुष्मञ् छारद्वतीपुत्राकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, वेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? (श्स्प्_इइ-1_142) प्रकृतिर् अस्यैषा, संज्ञाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, संस्कारा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयं, विज्ञानम् अकूतस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.

चक्षुर् आयुष्मञ् छारद्वतीपुत्राकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, श्रोत्रम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, घ्राणम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, जिह्वाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, कायो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, मनो ऽकूतस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.

रूपम् आयुष्मञ् छारद्वतीपुत्राकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. शब्दो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. गन्धो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. रसो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. स्पर्शो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्.

चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्राकूतस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. श्रोत्रविज्ञानम् अकूतस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. घ्राणविज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. जिह्वाविज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. कायविज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. मनोविज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.

चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्राकूटस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. श्रोत्रसंस्पर्शो ऽकूटस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. घ्राणसंस्पर्शो ऽकूटस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. जिह्वासंस्पर्शो ऽकूटस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. कायसंस्पर्शो ऽकूतस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. मनःसंस्पर्शो ऽकूतस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.

चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्राकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. श्रोत्रसंस्पर्शप्रत्ययवेदनाकूतस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. घ्राणसंस्पर्शप्रत्ययवेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? (श्स्प्_इइ-1_143) प्रकृतिर् अस्यैषा. जिह्वासंस्पर्शप्रत्ययवेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. कायसंस्पर्शप्रत्ययवेदनाकूतस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. मनःसंस्पर्शप्रत्ययवेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.

पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्राकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. अब्धातुर् ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. तेजोधातुर् ऽकूट्‘अस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. वायुधातुर् ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. आकाशधातुर् ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. विज्ञानधातुर् ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.

अविद्यायुष्मञ् छारद्वतीपुत्राकूटस्थाविनाशिन्ल् तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. संस्कारा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. विज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. नामरूपम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. षडायतनम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. स्पर्शो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. वेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. तृष्णाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. उपादानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. भवो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. जातिर् अकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. जरामरणम् अकूटस्थम् अविनशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.

दानपारमितायुष्मञ् छारद्वतीपुत्राकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. शीलपारमिताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. क्षान्तिपारमिताकूट्‘अस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. वीर्यपारमिताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. ध्यानपारमिताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. प्रज्ञापारमिताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा.

अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्राकूट्.अस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. बहिर्धाशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अध्यात्मबहिर्धाशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. शून्यताशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. महाशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. परमार्थशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. संस्कृतशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. असंस्कृतशून्यताकूटस्थाविनाशिनी. तत् कस्य (श्स्प्_इइ-1_144) हेतोः? प्रकृतिर् अस्या एषा. अत्यन्तशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अनवराग्रशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अनवकारशून्यताकूतस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. प्रकृतिशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. सर्वधर्मशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. स्वलक्षणशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अनुपलम्भशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अभावशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. स्वभावशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अभावस्वभावशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा.

स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्राकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. सम्यक्प्रहाणान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. ऋद्धिपादा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. इन्द्रियाण्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. बलान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. बोध्यङ्गान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. आर्याष्टाङ्गो मार्गो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्राकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. ध्यानान्य् अकूतस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अप्रमाणान्य् अकूतस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. आरूप्यसमापत्तयो ऽकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् आसाम् इयम्. अष्टौ विमोक्षा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. नवानुपूर्वविहारसमापत्तयो ऽकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् आषाम् इयम्. शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अभिज्ञा अकूतस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. समाधयो ऽकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. धारणीमुखान्य् अकूतस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. दशतथागतबलान्य् अकूतस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. चत्वारि वैशारद्यान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. चतस्रः प्रतिसंविदो ऽकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् आसाम् इयम्. महामैत्र्य् अकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. महाकरुणाकूटस्थाविनाशिनी. (श्स्प्_इइ-1_145) तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अष्टादशावेणिका बुद्धधर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्.

कुशला धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अकुशला धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. संस्कृता धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. असंस्कृता धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. सास्रवा धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अनास्रवा धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाभावस्वभावाः सर्वधर्माः.

यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवं वदसि, केन कारणेन रूपम् अनभिनिर्वृत्तं, केन कारणेन वेदनानभिनिर्वृत्ता, केन कारणेन संज्ञानभिनिर्वृत्ता, केन कारणेन संस्कारा अनभिनिर्वृत्ताः, केन कारणेन विज्ञानम् अनभिनिर्वृत्तम् इति वदसि, एवम् एतद् आयुष्मञ् छारद्वतीपुत्र तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र रूपम् अनभिसंस्कृतं, वेदनानभिसंस्कृता, संज्ञानभिसंस्कृता, संस्कारा अनभिसंस्कृताः, विज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा हि रूपस्याभिसंस्कर्ता नास्ति, वेदनाया अभिसंस्कर्ता नास्ति, संज्ञाया अभिसंस्कर्ता नास्ति, संस्काराणाम् अभिसंस्कर्ता नास्ति, विज्ञानस्याभिसंस्कर्ता नास्ति.

चक्षुर् आयुष्मञ् छारद्वतिपुत्रानभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, श्रोत्रम् अनभिसंस्कृतम्, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, घ्राणम् अनभिसंस्कृतम्, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, जिह्वानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, कायो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, मनो ऽनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.

रूपम् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतम्, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, शब्दो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, गन्धो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, रसो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, स्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? (श्स्प्_इइ-1_146) तथा ह्य् अभिसंस्कर्ता नास्ति, धर्मा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.

चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. श्रोत्रविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. घ्राणविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. जिह्वाविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. कायविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. मनोविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.

चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. श्रोत्रसंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. घ्राणसंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. जिह्वासंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. कायसंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. मनःसंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.

चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्रानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. श्रोत्रसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. घ्राणसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. जिह्वासंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. कायसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. मनःसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.

पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अब्धातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. तेजोधातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. वायुधातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. आकाशधातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. विज्ञानधातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.

अविद्यायुष्मञ् छारद्वतीपुत्रानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. संस्कारा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. विज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. नामरूपम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. षडायतनम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. स्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. वेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. तृष्णानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. उपादानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, भवो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, जातिर् अनभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, जरामरणम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.

दानपारमितायुष्मञ् छारद्वतीपुत्रानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. शीलपारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. क्षान्तिपारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. वीर्यपारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. ध्यानपारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. प्रज्ञापारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.

अध्यात्मशून्यतायुष्मञ् छार्द्वतीपुत्रानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. बहिर्धाशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अध्यात्मबहिर्धाशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. शून्यताशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. महाशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. परमार्थशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. संस्कृतशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. असंस्कृतशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अत्यन्तशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अनवराग्रशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अनवकारशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. प्रकृतिशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. सर्वधर्मशून्यतानभिसंस्कृता, (श्स्प्_इइ-1_148) तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. स्वलक्षणशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अनुपलम्भशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अभावशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. स्वभावशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अभावस्वभावशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.

स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. सम्यक्प्रहाणान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. ऋद्धिपादा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. इन्द्रियाण्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. बलान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. बोध्यङ्गान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. आर्याष्टाङ्गो मार्गो ऽनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.

आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. ध्यानान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अप्रमाणान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. आरूप्यसमापत्तयो ऽनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. विमोक्षा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. नवानुपूर्वविहारसमापत्तयो ऽनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अभिज्ञा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. समाधयो ऽनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. धारणीमुखान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. दशतथागतबलान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. चत्वारि वैशारद्यान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. चतस्रः प्रतिसंविदो ऽनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. महामैत्र्य् अनभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. महाकरुणानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अष्टादशावेणिका बुद्धधर्मा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.

अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण रूपम् अनभिनिर्वृत्तं वेदनानभिनिर्वृत्ता संज्ञानभिनिर्वृत्ता संस्कारा अनभिनिर्वृत्ता विज्ञानम् अनभिनिर्वृत्तम्.

यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवम् आह, केन कारणेनायुष्मञ् सुभूते यद् अनभिनिर्वृत्तं न तद् रूपं, या अनभिनिर्वृत्ता न सा वेदना, या अनभिनिर्वृत्ता न सा संज्ञा, ये ऽनभिनिर्वृत्ता न ते संस्कारा, यद् अनभिनिर्वृत्तं न तद् विज्ञानम् इति वदसि?

एवम् एतद् आयुष्मञ् छारद्वतीपुत्र तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र रूपं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. वेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. संज्ञा प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. संस्काराः प्रकृतिशून्या या च प्रकृतिशून्यास् तेषां नोत्पादो न व्ययो येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते. विज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते.

चक्षुः प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. श्रोत्रं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. घ्राणं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. जिह्वा प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. कायः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. मनः प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते.

रूपं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. शब्दः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो (श्स्प्_इइ-1_150) न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. गन्धः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. रसः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. स्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. धर्माः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते.

चक्षुर्विज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. श्रोत्रविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. घ्राणविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. जिह्वाविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. कायविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. मनोविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते.

चक्षुःसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. श्रोत्रसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. घ्राणसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. जिह्वासंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. कायसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्नायते. मनःसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्नायते.

चक्षुःसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं (श्स्प्_इइ-1_151) प्रज्ञायते. श्रोत्रसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. घ्राणसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. जिह्वासंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. कायसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. मनःसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते.

पृथिवीधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. अब्धातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. तेजोधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. वायुधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. आकाशधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. विज्ञानधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते.

अविद्या प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. संस्काराः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते. विज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. नामरूपं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. षडायतनं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. स्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं (श्स्प्_इइ-1_152) प्रज्ञायते. वेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. तृष्णा प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. उपादानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. भवः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. जातिः प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. जरामरणं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.