Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/31

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता-2

Thông tin
GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत चक्षुर्विज्ञाम् इति श्रोत्रविज्ञानम् इति घ्राणविज्ञानम् इति जिह्वाविज्ञानम् इति कायविज्ञानम् इति मनोविज्ञानम् इति, तथा हि नाम न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रं न तच् चक्षुर्विज्ञानं न तच् छ्रोत्रविज्ञानं न तद् घ्राणविज्ञानं न तज् जिह्वाविज्ञानं न तत् कायविज्ञानं न तन् मनोविज्ञानम्. तत् कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच् च शून्यं न तन् नाम तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत चक्षुःसंस्पर्श इति श्रोत्रसंस्पर्श इति घ्राणसंस्पर्श इति जिह्वासंस्पर्श (श्स्प्_इइ-1_92) इति कायसंस्पर्श इति मनःसंस्पर्श इति, तथा हि नाम न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रं न स चक्षुःसंस्पर्शो न स श्रोत्रसंस्पर्शो न घ्राणसंस्पर्शो न स जिह्वासंस्पर्शो न स कायसंस्पर्शो न स मनःसंस्पर्शः. तत् कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच् च शून्यं न तन् नाम तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत चक्षुःसंस्पर्शप्रत्ययवेदनेति श्रोत्रसंस्पर्शप्रत्ययवेदनेति घ्राणसंस्पर्शप्रत्ययवेदनेति जिह्वासंस्पर्शप्रत्ययवेदनेति कायसंस्पर्शप्रत्ययवेदनेति मनःसंस्पर्शप्रत्ययवेदनेति, तथा हि नाम न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रं न सा चक्षुःसंस्पर्शप्रत्ययवेदना न सा श्रोत्रसंस्पर्शप्रत्ययवेदना न सा घ्राणसंस्पर्शप्रत्ययवेदना न सा जिह्वासंस्पर्शप्रत्ययवेदना न सा कायसंस्पर्शप्रत्ययवेदना न सा मनःसंस्पर्शप्रत्ययवेदना. तत् कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच् च शून्यं न तन् नामं तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत पृथिवीधातुर् इत्य् अब्धातुर् इति तेजोधातुर् इति वायुधातुर् इत्य् आकाशधातुर् इति विज्ञानधातुर् इति, तथा हि नाम न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रं न स पृथिवीधातुर् न सो ऽब्धातुर् न स तेजोधातुर् न स वायुधातुर् न स आकाशधातुर् न स विज्ञानधातुः. तत् कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच् च शून्यं न तन् नाम तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उताविद्येति संस्कारा इति विज्ञानम् इति नामरूपम् इति षडायतनम् इति स्पर्शम् इति वेदनेति तृष्णेत्य् उपादानम् इति भव इति जातिर् इति जरामरणम् इति, तथा हि न नाम कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रं न साविद्या न ते संस्कारा न तद् विज्ञानं न तन् नामरूपं न तत् षडायतनं न स स्पर्शो न सा वेदना न सा तृष्णा न तद् उपादानं न स भवो न सा जातिर् न तज् जरामरणम्. तत् कस्य हेतोः? तथा हि नाम शून्यं न नाम स्वभावेन (श्स्प्_इइ-1_93) यच् च शून्यं न तन् नाम तेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र नामधेयमात्रम् एतद् यद् उत दानपारमिता न च नाम्नि दानपारमिता न च दानपारमितायां नाम. तत् कस्य हेतोः? तथा हि यच् च नाम या च दानपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

नमधेयमात्रम् एतद् यद् उत शीलपारमिता न च नाम्नि शीलपारमिता न च शीलपारमितायां नाम. तत् कस्य हेतोः? तथा हि यच् च नाम या च शीलपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

नामधेयमात्रम् एतद् यद् उत क्षान्तिपारमिता न च नाम्नि क्षान्तिपारमिता न च क्षान्तिपारमितायां नाम. तत् कस्य हेतोः? तथा हि यच् च नाम या च क्षान्तिपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

नमधेयमात्रम् एतद् यद् उत वीर्यपारमिता न च नाम्नि वीर्यपारमिता न च वीर्यपारमितायां नाम. तत् कस्य हेतोः? तथा हि यच् च नाम या च वीर्यपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

नमधेयमात्रम् एतद् यद् उत ध्यानपारमिता न च नाम्नि ध्यानपारमिता न च ध्यानपारमितायां नाम. तत् कस्य हेतोः? तथा हि यच् च नाम या च ध्यानपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

नमधेयमात्रम् एतद् यद् उत प्रज्ञापारमिता न च नाम्नि प्रज्ञापारमिता न च प्रज्ञापारमितायां नाम. तत् कस्य हेतोः? तथा हि यच् च नाम या च प्रज्ञापारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

नमधेयमात्रम् एतद् यद् उताध्यात्मशून्यता न चाध्यात्मशून्यतायां नाम न च नाम्न्य् अध्यात्मबहिर्धाशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चाध्यात्मशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,

नमधेयमात्रम् एतद् यद् उत बहिर्धाशून्यता न च बहिर्धाशून्यतायां (श्स्प्_इइ-1_94) नाम न च नाम्नि बहिर्धाशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च बहिर्धाशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,

नमधेयमात्रम् एतद् यद् उताध्यात्मबहिर्धाशून्यता न चाध्यात्मबहिर्धाशून्यतायां नाम न च नाम्न्य् अध्यात्मबहिर्धाशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चाध्यात्मबहिर्धाशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,

नमधेयमात्रम् एतद् यद् उत शून्यताशून्यता न च शून्यताशून्यतायां नाम न च नाम्नि शून्यताशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च शून्यताशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,

नमधेयमात्रम् एतद् यद् उत महाशून्यता न च महाशून्यतायां नाम न च नाम्नि महाशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च महाशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,

नमधेयमात्रम् एतद् यद् उत परमार्थशून्यता न च परमार्थशून्यतायां नाम न च नाम्नि परमार्थशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च परमार्थशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,

नमधेयमात्रम् एतद् यद् उत संस्कृतशून्यता न च संस्कृतशून्यतायां नाम न च नाम्नि संस्कृतशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च संस्कृतशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,

नमधेयमात्रम् एतद् यद् उतासंस्कृतशून्यता न चासंस्कृतसुन्यतायां नाम न च नाम्न्य् असंस्कृतशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चासंस्कृतशुन्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,

नमधेयमात्रम् एतद् यद् उतात्यन्तशून्यता न चात्यन्तशून्यतायां नाम न च नाम्न्य् अत्यन्तशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चात्यन्तशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,

नामधेयमात्रम् एतद् यद् उतानवराग्रशून्यता न चानवराग्रशून्यतायां नाम न च नाम्न्य् अनवराग्रशून्यता. तत् कस्य हेतोः? तथा (श्स्प्_इइ-1_95) हि यच् च नाम या चानवराग्रशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,

नमधेयमात्रम् एतद् यद् उतानवकारशून्यता न चानवकारशून्यतायां नाम न च नाम्न्य् अनवकारशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चानवकारशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,

नमधेयमात्रम् एतद् यद् उत प्रकृतिशून्यता न च प्रकृतिशून्यतायां नाम न च नाम्नि प्रकृतिशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च प्रकृतिशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,

नमधेयमात्रम् एतद् यद् उत सर्वधर्मशून्यता न च सर्वधर्मशून्यतायां नाम न च नाम्नि सर्वधर्मशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च सर्वधर्मशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,

नमधेयमात्रम् एतद् यद् उत स्वलक्षणशून्यता न च स्वलक्षणशून्यतायां नाम न च नाम्नि स्वलक्षणशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च स्वलक्षणशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,

नमधेयमात्रम् एतद् यद् उतानुपलम्भशून्यता न चानुपलम्भशून्यतायां नाम न च नाम्न्य् अनुपलम्भशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चानुपलम्भशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,

नमधेयमात्रम् एतद् यद् उताभावशून्यता न चाभावशून्यतायां नाम न च नाम्न्य् अभावशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चाभावशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,

नमधेयमात्रम् एतद् यद् उत स्वभावशून्यता न च स्वभावशून्यतायां नाम न च नाम्नि स्वभावशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च स्वभावशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,

नमधेयमात्रम् एतद् यद् उताभावस्वभावशून्यता न चभवस्वभावशून्यतायां नाम न च नाम्न्य् अभावस्वभावशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चाभावस्वभावशून्यता उभयम् एतन् न (श्स्प्_इइ-1_96) संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् उत स्मृत्युपस्थानानीति न च स्मृत्युपस्थानेषु नाम न च नाम्नि स्मृत्युपस्थानानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च स्मृत्युपस्थानान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत सम्यक्प्रहाणानीति न च सम्यक्प्रहानेषु नाम न च नाम्नि सम्यक्प्रहाणानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च सम्यक्प्रहाणान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उतर्द्धिपादा इति न चर्द्धिपादेषु नाम न च नाम्न्य् ऋद्धिपादाः. तत् कस्य हेतोः? तथा हि यच् च नाम ये चर्द्धिपादा उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उतेन्द्रियानीति न चेन्द्रियेषु नाम न च नाम्नीन्द्रियानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि चेन्द्रियान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत बलानीति न च बलेषु नाम न च नाम्नि बलानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च बलान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत बोध्यङ्गानीति न च बोध्यङ्गेषु नाम न च नाम्नि बोध्यङ्गानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च बोध्यङ्गान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं (श्स्प्_इइ-1_97) यद् उतार्याष्टाङ्गो मार्ग इति न चार्याष्टाङ्गे मर्गे नाम न च नाम्न्य् आर्याष्टाङ्गो मार्गः. तत् कस्य हेतोः? तथा हि यच् च नाम यश् चार्याष्टाङ्गो मार्ग उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उतार्यसत्यानीति न चार्यासत्येषु नाम न च नाम्न्य् आर्य्सत्यानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि चार्यसत्यान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत ध्यानानीति न च ध्यानेषु नाम न च नाम्नि ध्यानानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च ध्यानान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उताप्रमाणानीति न चाप्रमाणेषु नाम न च नाम्न्य् अप्रमाणानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि चाप्रमाणान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उतारूप्यसमापत्तय इति न चारूप्यसमापत्तिषु नाम न च नाम्न्य् आरूप्यसमापत्तयः. तत् कस्य हेतोः? तथा हि यच् च नाम ये चारूप्यसमापत्तय उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत विमोक्षा इति न च विमोक्षेषु नाम न च नाम्नि विमोक्षाः. तत् कस्य हेतोः? तथा हि यच् च नाम ये च विमोक्षा उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत नवानुपूर्वविहारसमापत्तय इति न च नवानुपूर्वविहारसमापत्तिषु नाम न च नाम्न्य् अनुपूर्वविहारसमापत्तयः. तत् कस्य हेतोः? तथा हि यच् च नाम ये चानुपूर्वविहारसमापत्तय उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत शून्य्तानिमित्ताप्रणिहितविमोक्षमुखानीति न च विमोक्षमुखेषु नाम न च नाम्नि विमोक्षमुखानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च विमोक्षमुखान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उताभिज्ञा इति न चाभिज्ञाषु नाम न च नाम्न्य् अभिज्ञाः. तत् कस्य हेतोः? तथा हि यच् च नाम याश् चाभिज्ञा उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत समाधय इति न च समाधिषु नाम न च नाम्नि समाधयः. तत् कस्य हेतोः? तथा हि यच् च नाम ये च समाधय उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत धारणीमुखानीति न च धारणीमुखेषु नाम न च नाम्नि धारणीमुखानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च धारणीमुखान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत दशतथागतबलानीति न च तथागतबलेषु नाम न च नाम्नि तथागतबलानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च तथागतबलान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत चत्वारि वैशारद्यानीति न च वैशारद्येषु नाम न च नाम्नि वैशारद्यानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च वैशारद्यान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत चतस्रः प्रतिसंविद इति न च प्रतिसंवित्षु नाम न च नाम्नि प्रतिसंविदः. तत् कस्य हेतोः? तथा हि यच् च नाम याश् च प्रतिसंविद उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत महामैत्रीति न च महामैत्र्यां नाम न च नाम्नि महामैत्री. तत् कस्य हेतोः? तथा हि यच् च नाम या च महामैत्र्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत महाकरुणेति न च महाकरुणायां नाम न च नाम्नि महाकरुणा. तत् कस्य हेतोः? तथा हि यच् च नाम या च महाकरुणा उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उताष्टादशावेणिका बुद्धधर्मा इति न चावेणिकेषु बुद्धधर्मेषु नाम न च नाम्न्य् आवेणिकबुद्धधर्माः. तत् कस्य हेतोः? तथा हि यच् च नाम ये चावेणिकबुद्धधर्मा उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत सर्वज्ञतेति न च सर्वज्ञतायां नाम न च नाम्नि सर्वज्ञता. तत् कस्य हेतोः? तथा हि यच् च नाम या च सर्वज्ञता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत मार्गाकारज्ञतेति न च मार्गाकारज्ञतायां नाम न च नाम्नि मार्गाकारज्ञता. तत् कस्य हेतोः? तथा हि यच् च नाम या च मार्गाकारज्ञतोभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत सर्वाकारज्ञतेति न च सर्वाकारज्ञतायां नाम न च नाम्नि सर्वाकारज्ञता. तत् कस्य हेतोः? तथा हि यच् च नाम या च सर्वाकारज्ञतोभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.

यथायुष्मञ् छारद्वतीपुत्र एवम् अह, केन कारणेनैवं वदसि, यथात्मात्मेत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्त आत्मेति, यथा सत्त्वः सत्त्व इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तः सत्त्व इति, यथा जीवो जीव इत्य् (श्स्प्_इइ-1_100) उच्यते ऽत्यन्ततया चानभिनिर्वृत्तो जीव इति, यथा जन्तुं जंतूर् इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तो जातुर् इति, यथा पोस पोस इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तः पोष इति, यथा पुरुषः पुरुष इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तः पुरुष इति, यथा पुद्गलः पुद्गल इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तः पुद्गल इति, यथा मनुजो मनुज इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तो मनुज इति, यथा मानवो मानव इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तो मानव इति, यथा कारकः कारक इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तः कारक इति, यथा वेदको वेदक इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तो वेदक इति, यथा जानको जानक इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तो जानक इति, यथा पश्यकः पश्यक इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तः पश्यक इति.

अत्यन्ततयायुष्मञ् छारद्वतीपुत्रात्मा न संविद्यते नोपलभ्यते, कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया सत्त्वो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया जीवो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया जन्तु न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया पोषो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया पुरुषो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया पुद्गलो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया मनुजो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया मानवो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया कारको न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया वेदको न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया जानको न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया पश्यको न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.

अत्यन्ततया रूपं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया वेदना न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया संज्ञा न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया संस्कारा न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया विज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.

अत्यन्ततया चक्षुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया श्रोत्रं न संविद्यते नोपलभ्यते कुतो (श्स्प्_इइ-1_101) ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया घ्राणं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया जिह्वा न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया कायो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया मनो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.

अत्यन्ततया रूपं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया शब्दो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया गन्धो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया रसो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया स्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया धर्मा न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.

अत्यन्ततया चक्षुर्विज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया श्रोत्रविज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया घ्राणविज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया जिह्वाविज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया कायविज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया मनोविज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.

अत्यन्ततया चक्षुःसंस्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया श्रोत्रसंस्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया घ्राणसंस्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया जिह्वासंस्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया कायसंस्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया मनःसंस्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.

अत्यन्ततया चक्षुःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया श्रोत्रसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतो ऽस्या अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया घ्राणसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया जिह्वासंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया कायसंस्पर्शजा वेदना न (श्स्प्_इइ-1_102) संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया मनःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.

अत्यन्ततया पृथिवीधातुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाब्धातुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया तेजोधातुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया वायुधातुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाकाशधातुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया विज्ञानधातुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.

अत्यन्ततयाविद्या न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया संस्कारा न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया नामरूपं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया षडायतनं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया स्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया वेदना न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया तृष्णा न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया उपादानं न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया भवो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया जातिर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया जरामरणं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.

अत्यन्ततया दानपारमिता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया शीलपारमिता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया क्षान्तिपारमिता न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया वीर्यपारमिता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया ध्यानपारमिता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया प्रज्ञापारमिता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.

अत्यन्ततयाध्यात्मशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया बहिर्धाशून्यता न संविद्यते (श्स्प्_इइ-1_103) नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाध्यात्मबहिर्धाशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया शून्यताशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया महाशून्यता न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया परमार्थशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया संस्कृतशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयासंस्कृतशून्यता न संविद्यते नोपलभ्यते कुतो स्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया अत्यन्तशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया अनवराग्रशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयानवकारशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया प्रकृतिशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया सर्वधर्मशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया स्वलक्षणशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयानुपलम्भशून्यता न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाभावशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया स्वभावशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाभावस्वभावशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.

अत्यन्ततया स्मृत्युपस्थानानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया सम्यक्प्रहाणानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया ऋद्धिपादा न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया इन्द्रियाणि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया बलानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया बोध्यङ्गानि न संविद्यन्ते नोपलभ्यन्ते कुत एसाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया आर्याष्टङ्गो मार्गो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया आर्यसत्यानि न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया ध्यानानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाप्रमाणानि न संविद्यन्ते (श्स्प्_इइ-1_104) नोपलभ्यत्ने कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया आरूप्यसमापत्तयो न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया अष्टौ विमोक्षा न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया नवानुपूर्वविहारसमापत्तयो न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाभिज्ञा न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया समाधयो न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया

धारणीमुखानि न संविद्यते नोपलभ्यते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया दशतथागतब्लानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया चत्वारि वैशारद्यानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया चतस्रः प्रतिसंविदो न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया महामैत्री न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया महाकरुणा न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाष्टादशावेणिकबुद्धधर्मा न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया श्रावको न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया प्रत्येकबुद्धो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया बोधिसत्त्वो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया तथागतो ऽर्हन् सम्यक्षंबुद्धो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.

अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणात्मेति चोच्यते ऽत्यन्तम् अभिनिर्वृत्तिश् चात्मा.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र यद् वदस्य् एवम् अस्वभावाः सर्वधर्मा इति, एवम् एतद् आयुष्मञ् छारद्वतीपुत्र तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र नास्ति सांयोगिकः स्वभावः.

शारद्वतीपुत्र आह: कस्यायुष्मन् सुभूते नास्ति सांयोगिकः स्वभावः.

आह: रूपस्यायुष्मञ् छारद्वतीपुत्र नास्ति सांयोगिकः स्वभावः, वेदनाया नास्ति सांयोगिकः स्वभावः, संज्ञाया नास्ति सांयोगिकः स्वभावः, संस्काराणां नास्ति सांयोगिकः स्वभावः, विज्ञानस्य नास्ति (श्स्प्_इइ-1_105) सांयोगिकः स्वभावः.

चक्षुष आयुष्मञ् छारद्वतीपुत्र नास्ति सांयोगिकः स्वभावः, श्रोत्रस्य नास्ति सांयोगिकः स्वभावः, घ्राणस्य नास्ति सांयोगिकः स्वभावः, जिह्वाया नास्ति सांयोगिकः स्वभावः, कायस्य नास्ति सांयोगिकः स्वभावः, मनसो नास्ति सांयोगिकः स्वभावः.

रूपस्य नास्ति सांयोगिकः स्वभावः, शब्दस्य नास्ति सांयोगिकः स्वभावः, गन्धस्य नास्ति सांयोगिकः स्वभावः, रसस्य नास्ति सांयोगिकः स्वभावः, स्पर्शस्य नास्ति सांयोगिकः स्वभावः, धर्माणां नास्ति सांयोगिकः स्वभावः.

चक्षुर्विज्ञानस्य नास्ति सांयोगिकः स्वभावः, श्रोत्रविज्ञानस्य नास्ति सांयोगिकः स्वभावः, घ्राणविज्ञानस्य नास्ति सांयोगिकः स्वभावः, जिह्वाविज्ञानस्य नास्ति सांयोगिकः स्वभावः, कायविज्ञानस्य नास्ति सांयोगिकः स्वभावः, मनोविज्ञानस्य नास्ति सांयोगिकः स्वभावः.

चक्षुःसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, श्रोत्रसंस्पअर्शस्य नास्ति सांयोगिकः स्वभावः, घ्राणसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, जिह्वासंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, कायसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, मनःसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः.

चक्षुःसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, श्रोत्रसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, घ्राणसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, जिह्वासंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, कायसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, मनःसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः.

पृथिवीधातोर् नास्ति सांयोगिकः स्वभावः, अब्धातोर् नास्ति सांयोगिकः स्वभावः, तेजोधातोर् नास्ति सांयोगिकः स्वभावः, वायुधातोर् नास्ति सांयोगिकः स्वभावः, आकाशधातोर् नास्ति सांयोगिकः स्वभावः, विज्ञानधातोर् नास्ति सांयोगिकः स्वभावः.

अविद्याया नास्ति सांयोगिकः स्वभावः, संस्काराणां नास्ति सांयोगिकः स्वभावः, विज्ञानस्य नास्ति सांयोगिकः स्वभावः, नामरूपस्य नास्ति सांयोगिकः स्वभावः, षडायतनस्य नास्ति सांयोगिकः स्वभावः, स्पर्शस्य नास्ति सांयोगिकः स्वभावः, वेदनाया नास्ति सांयोगिकः स्वभावः, तृष्णा नास्ति सांयोगिकः स्वभावः, उपादानस्य नास्ति सांयोगिकः स्वभावः, भवस्य नास्ति सांयोगिकः स्वभावः, जातेर् नास्ति सांयोगिकः स्वभावः, जरामरणस्य नास्ति सांयोगिकः स्वभावः.

दानपारमिताया नास्ति सांयोगिकः स्वभावः, शीलपारमिताया नास्ति सांयोगिकः स्वभावः, क्षान्तिपारमिताया नास्ति सांयोगिकः स्वभावः, वीर्यपारमिताया नास्ति सांयोगिकः स्वभावः, ध्यानपारमिताया नास्ति सांयोगिकः स्वभावः, प्रज्ञापारमिताया नास्ति सांयोगिकः स्वभावः.

अध्यात्मशून्यताया नास्ति सांयोगिकः स्वभावः, बहिर्धाशून्यताया नास्ति सांयोगिकः स्वभावः, अध्यात्मबहिर्धाशून्यताया नास्ति सांयोगिकः स्वभावः, शून्यताशून्यताया नास्ति सांयोगिकः स्वभावः, महाशून्यताया नास्ति सांयोगिकः स्वभावः, परमार्थशून्यताया नास्ति सांयोगिकः स्वभावः, संस्कृतशून्यताया नास्ति सांयोगिकः स्वभावः, असंस्कृतशून्यताया नास्ति सांयोगिकः स्वभावः, अत्यन्तशून्यताया नास्ति सांयोगिकः स्वभावः, अनवराग्रशून्यताया नास्ति सांयोगिकः स्वभावः, अनवकारशून्यताया नास्ति सांयोगिकः स्वभावः, प्रकृतिशून्यताया नास्ति सांयोगिकः स्वभावः, सर्वधर्मशून्यताया नास्ति सांयोगिकः स्वभावः, स्वलक्षणशून्यताया नास्ति सांयोगिकः स्वभावः, अनुपलम्भशून्यताया नास्ति सांयोगिकः स्वभावः, अभावशून्यताया नास्ति सांयोगिकः स्वभावः, स्वभावशून्यताया नास्ति सांयोगिकः स्वभावः, अभावस्वभावशून्यताया नास्ति सांयोगिकः स्वभावः.

स्मृत्युपस्थानानां नास्ति सांयोगिकः स्वभावः, सम्यक्प्रहाणानां नास्ति सांयोगिकः स्वभावः, इन्द्रियाणां नास्ति सांयोगिकः स्वभावः, ऋद्धिपादानां नास्ति सांयोगिकः स्वभावः, बलानां नस्ति सांयोगिकः स्वभावः, बोध्यङ्गानां नास्ति सांयोगिकः स्वभावः, आर्याष्टाङ्गमार्गस्य नास्ति सांयोगिकः स्वभावः, आर्यसत्यानां नास्ति सांयोगिकः स्वभावः, ध्यानानां नास्ति सांयोगिकः स्वभावः, अप्रमाणानां नास्ति सांयोगिकः स्वभावः, आरूप्यसमापत्तीनां नास्ति सांयोगिकः स्वभावः, अष्टानां विमोक्षानां नास्ति सांयोगिकः स्वभावः, नवानुपूर्वविहारसमापत्तीनां नास्ति सांयोगिकः स्वभावः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां नास्ति सांयोगिकः स्वभावः, अभिज्ञानां नास्ति सांयोगिकः स्वभावः, समाधीनां नास्ति सांयोगिकः स्वभावः, धारणीमुखानां नास्ति सांयोगिकः स्वभावः, दशानां तथागतबलानां नास्ति सांयोगिकः स्वभावः, चत्वुर्णां वैशारद्यानां नास्ति सांयोगिकः स्वभावः, चतसृणां प्रतिसंविदां नास्ति सांयोगिकः स्वभावः, महामैत्र्यां नास्ति सांयोगिकः स्वभावः, महाकरुणा नास्ति सांयोगिकः स्वभावः, आवेणिकबुद्धधर्माणां नास्ति सांयोगिकः स्वभावः.

अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण स्वभावाः सर्वधर्माः.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा अनित्या न च कस्यचिद् विगमेन.

आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अनित्या न च कस्यचिद् विगमेन?

आह: रूपम् आयुष्मञ् छारद्वतीपुत्रानित्यं न च कस्यचिद् विगमेन, वेदनानित्या न च कस्यचिद् विगमेन, संज्ञानित्या न च कस्यचिद् विगमेन, संस्कारा अनित्या न च कस्यचिद् विगमेन, विज्ञानम् अनित्यं न च कस्यचिद् विगमेन.

चक्षुर् अनित्यं न च कस्यचिद् विगमेन, श्रोत्रम् अनित्यं न च कस्यचिद् विगमेन, घ्राणम् अनित्यं न च कस्यचिद् विगमेन, जिह्वानित्या न च कस्यचिद् विगमेन, कायो ऽनित्यो न च कस्यचिद् विगमेन, मनो ऽनित्यो न च कस्यचिद् विगमेन.

रूपम् अनित्यं न च कस्यचिद् विगमेन, शब्दो ऽनित्यो न च कस्यचिद् विगमेन, गन्धो ऽनित्यो न च कस्यचिद् विगमेन, रसो ऽनित्यो न च कस्यचिद् विगमेन, स्पर्शो ऽनित्यो न च कस्यचिद् विगमेन, धर्मा अनित्या न च कस्यचिद् विगमेन.

चक्षुर्विज्ञानम् अनित्यं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् अनित्यं न च कस्यचिद् विगमेन, घ्राणविज्ञानम् अनित्यं न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् अनित्यं न च कस्यचिद् विगमेन, कायविज्ञानम् अनित्यं न च कस्यचिद् विगमेन, मनोविज्ञानम् अनित्यं न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्शो ऽनित्यो न च कस्यचिद् विगमेन,श्रोत्रसंस्पर्शो ऽनित्यो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो ऽनित्यो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो ऽनित्यो न च कस्यचिद् विगमेन, कायसंस्पर्शो ऽनित्यो न च कस्यचिद् विगमेन, मनःसंस्पर्शो ऽनित्यो न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद् विगमेन.

पृथिवीधातुर् अनित्यो न च कस्यचिद् विगमेन, अब्धातुर् अनित्यो न च कस्यचिद् विगमेन, तेजोधातुर् अनित्यो न च कस्यचिद् विगमेन, वायुधातुर् (श्स्प्_इइ-1_108) अनित्यो न च कस्यचिद् विगमेन, आकाशधातुर् अनित्यो न च कस्यचिद् विगमेन, विज्ञानधातुर् अनित्यो न च कस्यचिद् विगमेन.

अविद्यानित्या न च कस्यचिद् विगमेन, संस्कारा अनित्या न च कस्यचिद् विगमेन, विज्ञानम् अनित्यं न च कस्यचिद् विगमेन, नामरूपम् अनित्यं न च कस्यचिद् विगमेन, षडायतनम् अनित्यं न च कस्यचिद् विगमेन, स्पर्शो ऽनित्यो न च कस्यचिद् विगमेन, वेदनानित्या न च कस्यचिद् विगमेन, तृष्णानित्या न च कस्यचिद् विगमेन, उपादानम् अनित्यं न च कस्यचिद् विगमेन, भवो ऽनित्यो न च कस्यचिद् विगमेन, जातिर् अनित्या न च कस्यचिद् विगमेन, जरामरणम् अनित्यं न च कस्यचिद् विगमेन.

दानपारमिता नित्या न च कस्यचिद् विगमेन, शीलपारमितानित्या न च कस्यचिद् विगमेन, क्षान्तिपारमितानित्या न च कस्यचिद् विगमेन, वीर्यपारमितानित्या न च कस्यचिद् विगमेन, ध्यानपारमितानित्या न च कस्यचिद् विगमेन, प्रज्ञापारमितानित्या न च कस्यचिद् विगमेन.

अध्यात्मशून्यतानित्या न च कस्यचिद् विगमेन, बहिर्धाशून्यतानित्या न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यतानित्या न च कस्यचिद् विगमेन, शून्यताशून्यतानित्या न च कस्यचिद् विगमेन, महाशून्यतानित्या न च कस्यचिद् विगमेन, परमार्थशून्यतानित्या न च कस्यचिद् विगमेन, संस्कृतशून्यतानित्या न च कस्यचिद् विगमेन, असंस्कृतशून्यतानित्या न च कस्यचिद् विगमेन, अत्यन्तशून्यतानित्या न च कस्यचिद् विगमेन, अनवराग्रशून्यतानित्या न च कस्यचिद् विगमेन, अनवकारशून्यतानित्या न च कस्यचिद् विगमेन, प्रकृतिशून्यतानित्या न च कस्यचिद् विगमेन, सर्वधर्मशून्यतानित्या न च कस्यचिद् विगमेन, स्वलक्षणशून्यतानित्या न च कस्यचिद् विगमेन, अनुपलम्भशून्यतानित्या न च कस्यचिद् विगमेन, अभावशून्यतानित्या न च कस्यचिद् विगमेन, स्वभावशून्यतानित्या न च कस्यचिद् विगमेन, अभावस्वभावशून्यतानित्या न च कस्यचिद् विगमेन.

स्मृत्युपस्थानान्य् अनित्यानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् अनित्यानि न च कस्यचिद् विगमेन, इन्द्रियाण्य् अनित्यानि न च कस्यचिद् विगमेन, ऋद्धिपादा अनित्यानि न च कस्यचिद् विगमेन, बलान्य् अनित्यानि न च कस्यचिद् विगमेन, बोध्यङ्गान्य् अनित्यानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो ऽनित्यो न च कस्यचिद् विगमेन, आर्यसत्यान्य् अनित्यानि न च कस्यचिद् विगमेन, ध्यानान्य् अनित्यानि न च कस्यचिद् विगमेन, अप्रमाणान्य् अनित्यानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो ऽनित्या न च कस्यचिद् विगमेन, अस्तौ विमोक्सा ऽनित्या न च कस्यचिद् विगमेन, (श्स्प्_इइ-1_109) नवानुपूर्वविहारसमापत्तयो ऽनित्या न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनित्यानि न च कस्यचिद् विगमेन, अभिज्ञानित्या न च कस्यचिद् विगमेन, समाधयो ऽनित्या न च कस्यचिद् विगमेन, धारणीमुखान्य् अनित्यानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् अनित्यानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् अनित्यानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो ऽनित्या न च कस्यचिद् विगमेन, महामैत्र्य् अनित्या न च कस्यचिद् विगमेन, महाकरुणानित्या न च कस्यचिद् विगमेन, अष्टादशावेणिकबुद्धधर्मा अनित्या न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् अनित्यं सो ऽभावः क्षयश् च.

अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा अनित्या न च कस्यचिद् विगमेन.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा दुःखा न च कस्यचिद् विगमेन.

आह: कतमे आयुष्मन् सुभूते सर्वधर्मा दुःखा न च कस्यचिद् विगमेन?

सुभूतिर् आह: रूपम् आयुष्मञ् छारद्वतीपुत्र दुःखं न च कस्यचिद् विगमेन, वेदना दुःखा न च कस्यचिद् विगमेन, संज्ना दुःखा न च कस्यचिद् विगमेन, संस्कारा दुःखा न च कस्यचिद् विगमेन, विज्ञानं दुःखं न च कस्यचिद् विगमेन.

चक्षुर् आयुष्मञ् छारद्वतीपुत्र दुःखं न च कस्यचिद् विगमेन, श्रोत्रं दुःखं न च कस्यचिद् विगमेन, घ्राणं दुःखं न च कस्यचिद् विगमेन, जिह्वा दुःखा न च कस्यचिद् विगमेन, कायो दुःखो न च कस्यचिद् विगमेन, मनो दुःखो न च कस्यचिद् विगमेन.

रूपं दुःखं न च कस्यचिद् विगमेन, शब्दो दुःखो न च कस्यचिद् विगमेन, गन्धो दुःखो न च कस्यचिद् विगमेन, रसो दुःखो न च कस्यचिद् विगमेन, स्पर्शो दुःखो न च कस्यचिद् विगमेन, धर्मो दुःखो न च कस्यचिद् विगमेन.

चक्षुर्विज्ञानं दुःखं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं दुःखं न च कस्यचिद् विगमेन, घ्राणविज्ञानं दुःखं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं दुःखं न च कस्यचिद् विगमेन, कायविज्ञानं दुःखं न च कस्यचिद् विगमेन, मनोविज्ञानं दुःखं न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्शो दुःखो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो दुःखो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो दुःखो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो दुःखो न च कस्यचिद् विगमेन, कायसंस्पर्शो दुःखो न च कस्यचिद् विगमेन, मनःसंस्पर्शो दुःखो न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद् विगमेन.

पृथिवीधातुर् दुःखो न च कस्यचिद् विगमेन, अब्धातुर् दुःखो न च कस्यचिद् विगमेन, तेजोधातुर् दुःखो न च कस्यचिद् विगमेन, वायुधातुर् दुःखो न च कस्यचिद् विगमेन, आकाशधातुर् दुःखो न च कस्यचिद् विगमेन, विज्ञानधातुर् दुःखो न च कस्यचिद् विगमेन.

अविद्या दुःखा न च कस्यचिद् विगमेन, संस्कारा दुःखा न च कस्यचिद् विगमेन, विज्नानं दुःखं न च कस्यचिद् विगमेन, नामरूपं दुःखं न च कस्यचिद् विगमेन, षडायतनं दुःखं न च कस्यचिद् विगमेन, स्पर्शो दुःखो न च कस्यचिद् विगमेन, वेदना दुःखा न च कस्यचिद् विगमेन, तृष्णा दुःखा न च कस्यचिद् विगमेन, उपादानं दुःखं न च कस्यचिद् विगमेन, भवो दुःखो न च कस्यचिद् विगमेन, जातिर् दुःखा न च कस्यचिद् विगमेन, जरामरणं दुःखं न च कस्यचिद् विगमेन.

दानपारमिता दुःखा न च कस्यचिद् विगमेन, शीलपारमिता दुःखा न च कस्यचिद् विगमेन, क्षान्तिपारमिता दुःखा न च कस्यचिद् विगमेन, वीर्यपारमिता दुःखा न च कस्यचिद् विगमेन, ध्यानपारमिता दुःखा न च कस्यचिद् विगमेन, प्रज्ञापारमिता दुःखा न च कस्यचिद् विगमेन.

अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र दुःखा न च कस्यचिद् विगमेन, बहिर्धाशून्यता दुःखा न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता दुःखा न च कस्यचिद् विगमेन, शून्यताशून्यता दुःखा न च कस्यचिद् विगमेन, महाशून्यता दुःखा न च कस्यचिद् विगमेन, परमार्थशून्यता दुःखा न च कस्यचिद् विगमेन, संस्कृतशून्यता दुःखा न च कस्यचिद् विगमेन, असंस्कृतशून्यता दुःखा न च कस्यचिद् विगमेन, अत्यन्तशून्यता दुःखा न च कस्यचिद् विगमेन, अनवराग्रशून्यता (श्स्प्_इइ-1_111) दुःखा न च कस्यचिद् विगमेन, अनवकारशून्यता दुःखा न च कस्यचिद् विगमेन, प्रकृतिशून्यता दुःखा न च कस्यचिद् विगमेन, सर्वधर्मशून्यता दुःखा न च कस्यचिद् विगमेन, स्वलक्षणशून्यता दुःखा न च कस्यचिद् विगमेन, अनुपलम्भशून्यता दुःखा न च कस्यचिद् विगमेन, अभावशून्यता दुःखा न च कस्यचिद् विगमेन, स्वभावशून्यता दुःखा न च कस्यचिद् विगमेन, अभावस्वभावशून्यता दुःखा न च कस्यचिद् विगमेन.

स्मृत्युपस्थानानि दुःखानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि दुःखानि न च कस्यचिद् विगमेन, ऋद्धिपादा दुःखा न च कस्यचिद् विगमेन, इन्द्रियाणि दुःखानि न च कस्यचिद् विगमेन, बलानि दुःखानि न च कस्यचिद् विगमेन, बोध्यङ्गानि दुःखानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो दुःखो न च कस्यचिद् विगमेन, आर्यसत्यानि दुःखानि न च कस्यचिद् विगमेन, ध्यानानि दुःखानि न च कस्यचिद् विगमेन, अप्रमाणानि दुःखानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो दुःखा न च कस्यचिद् विगमेन, अष्टौ विमोक्षा दुःखा न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो दुःखा न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि दुःखानि न च कस्यचिद् विगमेन, अभिज्ञा दुःखा न च कस्यचिद् विगमेन, समाधयो दुःखा न च कस्यचिद् विगमेन, धारणीमुखानि दुःखानि न च कस्यचिद् विगमेन, दशतथागतबलानि दुःखानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि दुःखानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो दुःखा न च कस्यचिद् विगमेन, महामैत्री दुःखा न च कस्यचिद् विगमेन, महाकरुणा दुःखा न च कस्यचिद् विगमेन, अष्टादशावेणिकबुद्धधर्मा दुःखा न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् दुःखं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा दुःखा न च कस्यचिद् विगमेन.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा अनात्मानो न च कस्यचिद् विगमेन.

आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अनात्मानो न च कस्यचिद् विगमेन?

आह: रूपम् आयुष्मञ् छारद्वतीपुत्रानात्मा न च कस्यचिद् विगमेन, वेदनानात्मा न च कस्यचिद् विगमेन, संज्ञानात्मा न च कस्यचिद् विगमेन, संस्कारा अनात्मानो न च कस्यचिद् विगमेन, विज्ञानम् अनात्मा (श्स्प्_इइ-1_112) न च कस्यचिद् विगमेन.

चक्षुर् अनात्मा न च कस्यचिद् विगमेन, श्रोत्रम् अनात्मा न च कस्यचिद् विगमेन, घ्राणम् अनात्मा न च कस्यचिद् विगमेन, जिह्वानात्मा न च कस्यचिद् विगमेन, कायो ऽनात्मा न च कस्यचिद् विगमेन, मनो ऽनात्मा न च कस्यचिद् विगमेन.

रूपम् अनात्मा न च कस्यचिद् विगमेन, शब्दो ऽनात्मा न च कस्यचिद् विगमेन, गन्धो ऽनात्मा न च कस्यचिद् विगमेन, रसो ऽनात्मा न च कस्यचिद् विगमेन, स्पर्शो ऽनात्मा न च कस्यचिद् विगमेन, धर्मा अनात्मानो न च कस्यचिद् विगमेन.

चक्षुर्विज्ञानम् अनात्मा न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् अनात्मा न च कस्यचिद् विगमेन, घ्राणविज्ञानम् अनात्मा न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् अनात्मा न च कस्यचिद् विगमेन, कायविज्ञानम् अनात्मा न च कस्यचिद् विगमेन, मनोविज्ञानम् अनात्मा न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्शो ऽनात्मा न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो ऽनात्मा न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो ऽनात्मा न च कस्यचिद् विगमेनजिह्वासंस्पर्शो ऽनात्मा न च कस्यचिद् विगमेन, कायसंस्पर्शो ऽनात्मा न च कस्यचिद् विगमेन, मनःसंस्पर्शो ऽनात्मा न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद् विगमेन.

पृथिवीधातुर् अनात्मा न च कस्यचिद् विगमेन, अब्धातुर् अनात्मा न च कस्यचिद् विगमेन, तेजोधातुर् अनात्मा न च कस्यचिद् विगमेन, वायुधातुर् अनात्मा न च कस्यचिद् विगमेन, आकाशधातुर् अनात्मा न च कस्यचिद् विगमेन, विज्ञानधातुर् अनात्मा न च कस्यचिद् विगमेन.

अविद्यानात्मा न च कस्यचिद् विगमेन, संस्कारा अनात्माना न च कस्यचिद् विगमेन, विज्ञानम् अनात्मा न च कस्यचिद् विगमेन, नामरूपम् अनात्मा न च कस्यचिद् विगमेन, षडायतनम् अनात्मा न च कस्यचिद् विगमेन, स्पर्शो ऽनात्मा न च कस्यचिद् विगमेन, वेदनानात्मा न च कस्यचिद् विगमेन, तृष्णानात्मा न च कस्यचिद् विगमेन, उपादानम् (श्स्प्_इइ-1_113) अनात्मा न च कस्यचिद् विगमेन, भवो ऽनात्मा न च कस्यचिद् विगमेन, जातिर् अनात्मा न च कस्यचिद् विगमेन, जरामरणम् अनात्मा न च कस्यचिद् विगमेन.

दानपारमितानात्मा न च कस्यचिद् विगमेन, शीलपारमितानात्मा न च कस्यचिद् विगमेन, क्षान्तिपारमितानात्मा न च कस्यचिद् विगमेन, वीर्यपारमितानात्मा न च कस्यचिद् विगमेन, ध्यानपारमितानात्मा न च कस्यचिद् विगमेन, प्रज्ञापारमितानात्मा न च कस्यचिद् विगमेन.

अध्यात्मशून्यतानात्मा न च कस्यचिद् विगमेन, बहिर्धाशून्यतानात्मा न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यतानात्मा न च कस्यचिद् विगमेन, शून्यताशून्यतानात्मा न च कस्यचिद् विगमेन, महाशून्यतानात्मा न च कस्यचिद् विगमेन, परमार्थशून्यतानात्मा न च कस्यचिद् विगमेन, संस्कृतशून्यतानात्मा न च कस्यचिद् विगमेन, असंस्कृतशून्यतानात्मा न च कस्यचिद् विगमेन, अत्यन्तशून्यतानात्मा न च कस्यचिद् विगमेन, अनवराग्रशून्यतानात्मा न च कस्यचिद् विगमेन, अनवकारशून्यतानात्मा न च कस्यचिद् विगमेन, प्रकृतिशून्यतानात्मा न च कस्यचिद् विगमेन, सर्वधर्मशून्यतानात्मा न च कस्यचिद् विगमेन, स्वलक्षणशून्यतानात्मा न च कस्यचिद् विगमेन, अनुपलम्भशून्यतानात्मा न च कस्यचिद् विगमेन, अभावशून्यतानात्मा न च कस्यचिद् विगमेन, स्वभावशून्यतानात्मा न च कस्यचिद् विगमेन, अभावस्वभावशून्यतानात्मा न च कस्यचिद् विगमेन.

स्मृत्युपस्थानान्य् अनात्मानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् अनात्मानि न च कस्यचिद् विगमेन, ऋद्धिपादा अनात्मानो न च कस्यचिद् विगमेन, इन्द्रियाण्य् अनात्मानि न च कस्यचिद् विगमेन, बलान्य् अनात्मानि न च कस्यचिद् विगमेन, बोध्यङ्गान्य् अनात्मानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो ऽनात्मा न च कस्यचिद् विगमेन, आर्यसत्यान्य् अनात्मानि न च कस्यचिद् विगमेन, ध्यानान्य् अनात्मानि न च कस्यचिद् विगमेन, अप्रमाणान्य् अनात्मानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो ऽनात्मानो न च कस्यचिद् विगमेन, अष्टौ विमोक्षामुखान्य् अनात्मानि न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो ऽनात्मानो न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनात्मानि न च कस्यचिद् विगमेन, अभिज्ञा अनात्मानो न च कस्यचिद् विगमेन, समाधयो ऽनात्मानो न च कस्यचिद् विगमेन, धारणीमुखान्य् अनात्मानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् अनात्मानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् अनात्मानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो ऽनात्मानो न च (श्स्प्_इइ-1_114) कस्यचिद् विगमेन, महामैत्र्य् अनात्मा न च कस्यचिद् विगमेन, महाकरुणानात्मा न च कस्यचिद् विगमेन, अष्टादशावेणिकबुद्धधर्मा अनात्मानो न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् अनात्मानो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा अनात्मानो न च कस्यचिद् विगमेन.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्माः शान्ता न च कस्यचिद् विगमेन.

आह: कतमे आयुष्मन् सुभूते सर्वधर्माः शान्ता न च कस्यचिद् विगमेन?

आह: रूपम् आयुष्मञ् छारद्वतीपुत्र शान्तं न च कस्यचिद् विगमेन, वेदना शान्ता न च कस्यचिद् विगमेन, संज्ञा शान्ता न च कस्यचिद् विगमेन, संस्काराः शान्ता न च कस्यचिद् विगमेन, विज्ञानं शान्तं न च कस्यचिद् विगमेन.

चक्षुः शान्तं न च कस्यचिद् विगमेन, श्रोत्रं शान्तं न च कस्यचिद् विगमेन, घ्राणं शान्तं न च कस्यचिद् विगमेन, जिह्वा शान्ता न च कस्यचिद् विगमेन, कायः शान्तो न च कस्यचिद् विगमेन, मनः शान्तं न च कस्यचिद् विगमेन.

रूपम् आयुष्मञ् छारद्वतीपुत्र शान्तं न च कस्यचिद् विगमेन, शब्दः शान्तो न च कस्यचिद् विगमेन, गन्धः शान्तो न च कस्यचिद् विगमेन, रसः शान्तो न च कस्यचिद् विगमेन, स्पर्शः शान्तो न च कस्यचिद् विगमेन, धर्माः शान्ता न च कस्यचिद् विगमेन.

चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र शान्तं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं शान्तं न च कस्यचिद् विगमेन, घ्राणविज्ञानं शान्तं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं शान्तं न च कस्यचिद् विगमेन, कायविज्ञानं शान्तं न च कस्यचिद् विगमेन, मनोविज्ञानं शान्तं न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शान्तो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शः शान्तो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शः शान्तो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शः शान्तो न च कस्यचिद् विगमेन, कायसंस्पर्शः शान्तो न च कस्यचिद् विगमेन, मनःसंस्पर्शः शान्तो न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र सान्ता न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद् (श्स्प्_इइ-1_115) विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद् विगमेन.

पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र शान्तो न च कस्यचिद् विगमेन, अब्धातुः शान्तो न च कस्यचिद् विगमेन, तेजोधातुः शान्तो न च कस्यचिद् विगमेन, वायुधातुः शान्तो न च कस्यचिद् विगमेन, आकाशधातुः शान्तो न च कस्यचिद् विगमेन, विज्ञानधातुः शान्तो न च कस्यचिद् विगमेन.

अविद्यायुष्मञ् छारद्वतीपुत्र शान्ता न च कस्यचिद् विगमेन, संस्काराः शान्ता न च कस्यचिद् विगमेन, विज्ञानं शान्तं न च कस्यचिद् विगमेन, नामरूपं शान्तं न च कस्यचिद् विगमेन, षडायतनं शान्तं न च कस्यचिद् विगमेन, स्पर्शः शान्तो न च कस्यचिद् विगमेन, वेदना शान्ता न च कस्यचिद् विगमेन, तृष्णा शान्ता न च कस्यचिद् विगमेन, उपादानं शान्तं न च कस्यचिद् विगमेन, भवः शान्तो न च कस्यचिद् विगमेन, जातिः शान्ता न च कस्यचिद् विगमेन, जरामरणं शान्तं न च कस्यचिद् विगमेन.

दानपारमितायुष्मञ् छारद्वतीपुत्र शान्ता न च कस्यचिद् विगमेन, शीलपारमिता शान्ता न च कस्यचिद् विगमेन, क्षान्तिपारमिता शान्ता न च कस्यचिद् विगमेन, वीर्यपारमिता शान्ता न च कस्यचिद् विगमेन, ध्यानपारमिता सान्ता न च कस्यचिद् विगमेन, प्रज्ञापारमिता शान्ता न च कस्यचिद् विगमेन.

अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र सान्ता न च कस्यचिद् विगमेन, बहिर्धाशून्यता सान्ता न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता शान्ता न च कस्यचिद् विगमेन, शून्यताशून्यता शान्ता न च कस्यचिद् विगमेन, महाशून्यता शान्ता न च कस्यचिद् विगमेन, परमार्थशून्यता शान्ता न च कस्यचिद् विगमेन, संस्कृतशून्यता शान्ता न च कस्यचिद् विगमेन, असंस्कृतशून्यता शान्ता न च कस्यचिद् विगमेन, अत्यन्तशून्यता शान्ता न च कस्यचिद् विगमेन, अनवराग्रशून्यता शान्ता न च कस्यचिद् विगमेन, अनवकारशून्यता शान्ता न च कस्यचिद् विगमेन, प्रकृतिशून्यता शान्ता न च कस्यचिद् विगमेन, सर्वधर्मशून्यता शान्ता न च कस्यचिद् विगमेन, स्वलक्षणशून्यता शान्ता न च कस्यचिद् विगमेन, अनुपलम्भशून्यता शान्ता न च कस्यचिद् विगमेन, अभावशून्यता शान्ता न च कस्यचिद् विगमेन, स्वभावशून्यता शान्ता न च कस्यचिद् विगमेन, अभावस्वभावशून्यता शान्ता न च कस्यचिद् विगमेन.

स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र शान्तानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि शान्तानि न च कस्यचिद् विगमेन, ऋद्धिपादाः शान्ता न च कस्यचिद् विगमेन, इन्द्रियाणि शान्तानि न च कस्यचिद् विगमेन, बलानि शान्तानि न च कस्यचिद् विगमेन, बोध्यङ्गानि शान्तानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गः शान्तो न च कस्यचिद् विगमेन, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र शान्तानि न च कस्यचिद् विगमेन, ध्यानानि शान्तानि न च कस्यचिद् विगमेन, अप्रमाणानि शान्तानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयः शान्ता न च कस्यचिद् विगमेन, अष्टौ विमोक्षामुखानि शान्तानि न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयः शान्ता न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानि न च कस्यचिद् विगमेन, अभिज्ञा शान्ता न च कस्यचिद् विगमेन, समाधयः शान्ता न च कस्यचिद् विगमेन, धारणीमुखानि शान्तानि न च कस्यचिद् विगमेन, दशतथागतबलानि शान्तानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि शान्तानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदः शान्ता न च कस्यचिद् विगमेन, महामैत्री शान्ता न च कस्यचिद् विगमेन, महाकरुणा शान्ता न च कस्यचिद् विगमेन, अष्टादशावेणिकबुद्धधर्माः शान्ता न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् सान्ताभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्माः शान्ता न च कस्यचिद् विगमेन.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्माः शून्या न च कस्यचिद् विगमेन.

आह: कतमे आयुष्मन् सुभूते सर्वधर्माः शून्या न च कस्यचिद् विगमेन?

आह: रूपम् आयुष्मञ् छारद्वतीपुत्र शून्यं न च कस्यचिद् विगमेन, वेदना शून्या न च कस्यचिद् विगमेन, संज्ञा शून्या न च कस्यचिद् विगमेन, संस्काराः शून्या न च कस्यचिद् विगमेन, विज्ञानं शून्यं न च कस्यचिद् विगमेन.

चक्षुर् आयुष्मञ् छारद्वतीपुत्र शून्यं न च कस्यचिद् विगमेन, श्रोत्रं शून्यं न च कस्यचिद् विगमेन, घ्राणं शून्यं न च कस्यचिद् विगमेन, जिह्वा शून्या न च कस्यचिद् विगमेन, कायः शून्यो न च कस्यचिद् विगमेन, मनः शून्यं न च कस्यचिद् विगमेन.

रूपम् आयुष्मञ् छारद्वतीपुत्र शून्यं न च कस्यचिद् विगमेन, (श्स्प्_इइ-1_117) शब्दः शून्यो न च कस्यचिद् विगमेन, गन्धः शून्यो न च कस्यचिद् विगमेन, रसः शून्यो न च कस्यचिद् विगमेन, स्पर्शः शून्यो न च कस्यचिद् विगमेन, धर्माः शून्या न च कस्यचिद् विगमेन.

चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं शून्यं न च कस्यचिद् विगमेन, घ्राणविज्ञानं शून्यं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं शून्यं न च कस्यचिद् विगमेन, कायविज्ञानं शून्यं न च कस्यचिद् विगमेन, मनोविज्ञानं शून्यं न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शः शून्यो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शः शून्यो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शः शून्यो न च कस्यचिद् विगमेन, कायसंस्पर्शः शून्यो न च कस्यचिद् विगमेन, मनःसंस्पर्शः शून्यो न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद् विगमेन.

पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यो न च कस्यचिद् विगमेन, अब्धातुः शून्यो न च कस्यचिद् विगमेन, तेजोधातुः शून्यो न च कस्यचिद् विगमेन, वायुधातुः शून्यो न च कस्यचिद् विगमेन, आकाशधातुः शून्यो न च कस्यचिद् विगमेन, विज्ञानधातुः शून्यो न च कस्यचिद् विगमेन.

अविद्यायुष्मञ् छारद्वतीपुत्र शून्या न च कस्यचिद् विगमेन, संस्काराः शून्या न च कस्यचिद् विगमेन, विज्ञानं शून्यं न च कस्यचिद् विगमेन, नामरूपं शून्यं न च कस्यचिद् विगमेन, षडायतनं शून्यं न च कस्यचिद् विगमेन, स्पर्शः शून्यो न च कस्यचिद् विगमेन, वेदना शून्या न च कस्यचिद् विगमेन, तृष्णा शून्या न च कस्यचिद् विगमेन, उपादानं शून्यं न च कस्यचिद् विगमेन, भवः शून्यो न च कस्यचिद् विगमेन, जातिः शून्या न च कस्यचिद् विगमेन, जरामरणं शून्यं न च कस्यचिद् विगमेन.

दानपारमितायुष्मञ् छारद्वतीपुत्र शून्या न च कस्यचिद् विगमेन, शीलपारमिता शून्या न च कस्यचिद् विगमेन, क्षान्तिपारमिता शून्या न च कस्यचिद् विगमेन, वीर्यपारमिता शून्या न च कस्यचिद् विगमेन, (श्स्प्_इइ-1_118) ध्यानपारमिता शून्या न च कस्यचिद् विगमेन, प्रज्ञापारमिता शून्या न च कस्यचिद् विगमेन.

अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र शून्या न च कस्यचिद् विगमेन, बहिर्धाशून्यता शून्या न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता शून्या न च कस्यचिद् विगमेन, शून्यताशून्यता शून्या न च कस्यचिद् विगमेन, महाशून्यता शून्या न च कस्यचिद् विगमेन, परमार्थशून्यता शून्या न च कस्यचिद् विगमेन, संस्कृतशून्यता शून्या न च कस्यचिद् विगमेन, असंस्कृतशून्यता शून्या न च कस्यचिद् विगमेन, अत्यन्तशून्यता शून्या न च कस्यचिद् विगमेन, अनवराग्रशून्यता शून्या न च कस्यचिद् विगमेन, अनवकारशून्यता शून्या न च कस्यचिद् विगमेन, प्रकृतिशून्यता शून्या न च कस्यचिद् विगमेन, सर्वधर्मशून्यता शून्या न च कस्यचिद् विगमेन, स्वलक्षणशून्यता शून्या न च कस्यचिद् विगमेन, अनुपलम्भशून्यता शून्या न च कस्यचिद् विगमेन, अभावशून्यता शून्या न च कस्यचिद् विगमेन, स्वभावशून्यता शून्या न च कस्यचिद् विगमेन, अभावस्वभावशून्यता शून्या न च कस्यचिद् विगमेन.

स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि शून्यानि न च कस्यचिद् विगमेन, ऋद्धिपादाः शून्या न च कस्यचिद् विगमेन, इन्द्रियाणि शून्यानि न च कस्यचिद् विगमेन, बलानि शून्यानि न च कस्यचिद् विगमेन, बोध्यङ्गानि शून्यानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गः शून्यो न च कस्यचिद् विगमेन, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि न च कस्यचिद् विगमेन, ध्यानानि शून्यानि न च कस्यचिद् विगमेन, अप्रमाणानि शून्यानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयः शून्या न च कस्यचिद् विगमेन, विमोक्षा शून्या न च कस्यचिद् विगमेन, अनुपूर्वविहारसमापत्तयः शून्या न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यानि न च कस्यचिद् विगमेन, अभिज्ञाः शून्या न च कस्यचिद् विगमेन, समाधयः शून्या न च कस्यचिद् विगमेन, धारणीमुखानि शून्यानि न च कस्यचिद् विगमेन, दशतथागतबलानि शून्यानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि शून्यानि न च कस्यचिद् विगमेन, चतस्रह् प्रतिसंविदः शून्या न च कस्यचिद् विगमेन, महामैत्री शून्या न च कस्यचिद् विगमेन, महाकरुणा शून्या न च कस्यचिद् विगमेन, अष्टादशावेणिकबुद्धधर्माः शून्या न च कस्यचिद् विगमेन.

तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् शून्यं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्माः (श्स्प्_इइ-1_119) शून्या न च कस्यचिद् विगमेन.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा आनिमित्ता न च कस्यचिद् विगमेन.

आह: कतमे आयुष्मन् सुभूते सर्वधर्मा आनिमित्ता न च कस्यचिद् विगमेन?

आह: रूपम् आयुष्मञ् छारद्वतीपुत्र आनिमित्तं न च कस्यचिद् विगमेन, वेदनानिमित्ता न च कस्यचिद् विगमेन, संज्ञानिमित्ता न च कस्यचिद् विगमेन, संस्कारा आनिमित्ता न च कस्यचिद् विगमेन, विज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन.

चक्षुर् आयुष्मञ् छारद्वतीपुत्रानिमित्तं न च कस्यचिद् विगमेन, श्रोत्रम् आनिमित्तं न च कस्यचिद् विगमेन, घ्राणम् आनिमित्तं न च कस्यचिद् विगमेन, जिह्वानिमित्ता न च कस्यचिद् विगमेन, काय आनिमित्तो न च कस्यचिद् विगमेन, मन आनिमित्तं न च कस्यचिद् विगमेन.

रूपम् आयुष्मञ् छारद्वतीपुत्रानिमित्तं न च कस्यचिद् विगमेन, शब्द आनिमित्तो न च कस्यचिद् विगमेन, गन्ध आनिमित्तो न च कस्यचिद् विगमेन, रस आनिमित्तो न च कस्यचिद् विगमेन, स्पर्श आनिमित्तो न च कस्यचिद् विगमेन, धर्मा आनिमित्ता न च कस्यचिद् विगमेन.

चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्रानिमित्तं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन, घ्राणविज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन, कायविज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन, मनोविज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्रानिमित्तो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्श आनिमित्तो न च कस्यचिद् विगमेन, घ्राणसंस्पर्श आनिमित्तो न च कस्यचिद् विगमेन, जिह्वासंस्पर्श आनिमित्तो न च कस्यचिद् विगमेन, कायसंस्पर्श आनिमित्तो न च कस्यचिद् विगमेन, मनःसंस्पर्श आनिमित्तो न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्रानिमित्ता न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद् विगमेन.

पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्रानिमित्तो न च कस्यचिद् विगमेन, अब्धातुर् आनिमित्तो न च कस्यचिद् विगमेन, तेजोधातुर् आनिमित्तो न च कस्यचिद् विगमेन, वायुधातुर् आनिमित्तो न च कस्यचिद् विगमेन, आकाशधातुर् आनिमित्तो न च कस्यचिद् विगमेन, विज्ञानधातुर् आनिमित्तो न च कस्यचिद् विगमेन.

अविद्यायुष्मञ् छारद्वतीपुत्रानिमित्ता न च कस्यचिद् विगमेन, संस्कारा आनिमित्ता न च कस्यचिद् विगमेन, विज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन, नामरूपम् आनिमित्तं न च कस्यचिद् विगमेन, षडायतनम् आनिमित्तं न च कस्यचिद् विगमेन, स्पर्श आनिमित्तो न च कस्यचिद् विगमेन, वेदनानिमित्ता न च कस्यचिद् विगमेन, तृष्णानिमित्ता न च कस्यचिद् विगमेन, उपादानम् आनिमित्तं न च कस्यचिद् विगमेन, भव आनिमित्तो न च कस्यचिद् विगमेन, जातिर् आनिमित्ता न च कस्यचिद् विगमेन, जरामरणम् आनिमित्तं न च कस्यचिद् विगमेन.

दानपारमितायुष्मञ् छारद्वतीपुत्रानिमित्ता न च कस्यचिद् विगमेन, शीलपारमितानिमित्ता न च कस्यचिद् विगमेन, क्षान्तिपारमितानिमित्ता न च कस्यचिद् विगमेन, वीर्यपारमितानिमित्ता न च कस्यचिद् विगमेन, ध्यानपारमितानिमित्ता न च कस्यचिद् विगमेन, प्रज्ञापारमितानिमित्ता न च कस्यचिद् विगमेन.

अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्रानिमित्ता न च कस्यचिद् विगमेन, बहिर्धाशून्यतानिमित्ता न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यतानिमित्ता न च कस्यचिद् विगमेन, शून्यताशून्यतानिमित्ता न च कस्यचिद् विगमेन, महाशून्यतानिमित्ता न च कस्यचिद् विगमेन, परमार्थशून्यतानिमित्ता न च कस्यचिद् विगमेन, संस्कृतशून्यतानिमित्ता न च कस्यचिद् विगमेन, असंस्कृतशून्यतानिमित्ता न च कस्यचिद् विगमेन, अत्यन्तशून्यतानिमित्ता न च कस्यचिद् विगमेन, अनवराग्रशून्यतानिमित्ता न च कस्यचिद् विगमेन, अनवकारशून्यतानिमित्ता न च कस्यचिद् विगमेन, प्रकृतिशून्यतानिमित्ता न च कस्यचिद् विगमेन, सर्वधर्मशून्यतानिमित्ता न च कस्यचिद् विगमेन, स्वलक्षणशून्यतानिमित्ता न च कस्यचिद् विगमेन, अनुपलम्भशून्यतानिमित्ता न च कस्यचिद् विगमेन, अभावशून्यतानिमित्ता न च कस्यचिद् विगमेन, स्वभावशून्यतानिमित्ता न च कस्यचिद् विगमेन, अभावस्वभावशून्यतानिमित्ता न च कस्यचिद् विगमेन.

स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्रानिमित्तानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् आनिमित्तानि न च कस्यचिद् विगमेन, ऋद्धिपादा आनिमित्ता न च कस्यचिद् विगमेन, इन्द्रियाण्य् आनिमित्तानि न च कस्यचिद् (श्स्प्_इइ-1_121) विगमेन, बलान्य् आनिमित्तानि न च कस्यचिद् विगमेन, बोध्यङ्गान्य् आनिमित्तानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्ग आनिमित्तो न च कस्यचिद् विगमेन, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्रानिमित्तानि न च कस्यचिद् विगमेन, ध्यानान्य् आनिमित्तानि न च कस्यचिद् विगमेन, अप्रमाणान्य् आनिमित्तानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तय आनिमित्ता न च कस्यचिद् विगमेन, अष्टौ विमोक्षा आनिमित्ता न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तय आनिमित्ता न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आनिमित्तानि न च कस्यचिद् विगमेन, अभिज्ञा आनिमित्ता न च कस्यचिद् विगमेन, समाधय आनिमित्ता न च कस्यचिद् विगमेन, धारणीमुखान्य् आनिमित्तानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् आनिमित्तानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् आनिमित्तानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविद आनिमित्ता न च कस्यचिद् विगमेन, महामैत्र्य् आनिमित्ता न च कस्यचिद् विगमेन, महाकरुणानिमित्ता न च कस्यचिद् विगमेन, अष्टादशावेणिकबुद्धधर्मा आनिमित्ता न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् आनिमित्तं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा आनिमित्ता न च कस्यचिद् विगमेन.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा अप्रणिहिता न च कस्यचिद् विगमेन.

आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अप्रणिहिता न च कस्यचिद् विगमेन?

आह: रूपम् आयुष्मञ् छारद्वतीपुत्राप्रणिहितं न च कस्यचिद् विगमेन, वेदनाप्रणिहिता न च कस्यचिद् विगमेन, संज्ञाप्रणिहिता न च कस्यचिद् विगमेन, संस्कारा अप्रणिहिता न च कस्यचिद् विगमेन, विज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन.

चक्षुर् आयुष्मञ् छारद्वतीपुत्राप्रणिहितं न च कस्यचिद् विगमेन, श्रोत्रम् अप्रणिहितं न च कस्यचिद् विगमेन, घ्राणम् अप्रणिहितं न च कस्यचिद् विगमेन, जिह्वाप्रणिहिता न च कस्यचिद् विगमेन, कायो ऽप्रणिहितो न च कस्यचिद् विगमेन, मनो ऽप्रणिहितं न च कस्यचिद् विगमेन.

रूपम् आयुष्मञ् छारद्वतीपुत्राप्रणिहितं न च कस्यचिद् विगमेन, शब्दो ऽप्रणिहितो न च कस्यचिद् विगमेन, गन्धो ऽप्रणिहितो न च कस्यचिद् विगमेन, रसो ऽप्रणिहितो न च कस्यचिद् विगमेन, स्पर्शो ऽप्रणिहितो न च (श्स्प्_इइ-1_122) कस्यचिद् विगमेन, धर्मा अप्रणिहिता न च कस्यचिद् विगमेन.

चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्राप्रणिहितं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन, घ्राणविज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन, कायविज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन, मनोविज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्राप्रणिहितो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो ऽप्रणिहितो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो ऽप्रणिहितो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो ऽप्रणिहितो न च कस्यचिद् विगमेन, कायसंस्पर्शो ऽप्रणिहितो न च कस्यचिद् विगमेन, मनःसंस्पर्शो ऽप्रणिहितो न च कस्यचिद् विगमेन.

चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्राप्रणिहिता न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद् विगमेन.

पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्राप्रणिहितो न च कस्यचिद् विगमेन, अब्धातुर् अप्रणिहितो न च कस्यचिद् विगमेन, तेजोधातुर् अप्रणिहितो न च कस्यचिद् विगमेन, वायुधातुर् अप्रणिहितो न च कस्यचिद् विगमेन, आकाशधातुर् अप्रणिहितो न च कस्यचिद् विगमेन, विज्ञानधातुर् अप्रणिहितो न च कस्यचिद् विगमेन.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.