Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
बोधिचर्यावतार
- Tác giả
- शान्तिदेव
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
हीनादिष्वात्मतां कृत्वा परत्वमपि चात्मनि भावयेर्ष्यां च मानं च निर्विकल्प्येन चेतसा // Bca_8.140
एष सत्क्रियते नाहं लाभी नाहमयं यथा स्तूयते ऽयमहं निन्द्यो दुःखितो ऽहमयं सुखी // Bca_8.141
अहं करोमि कर्माणि तिष्ठत्येष तु सुस्थितः अयं किल महा/ल्लोके नीचो ऽहं किल निर्गुणः // Bca_8.142
किं निर्गुणेन कर्तव्यं सर्वस्यात्मा गुणान्वितः सन्ति ते येष्वहं नीचः सन्ति ते येष्वहं वरः // Bca_8.143
शीलदृष्टिविपत्त्यादिक्लेशशक्त्या न मद्वशात् चिकित्स्यो ऽहं यथाशक्ति पीडाप्यङ्गीकृता मया // Bca_8.144
अथाहमचिकित्स्यो ऽस्य कस्मान्मामवमन्यते किं ममैतद्गुणैः कृत्यम् आत्मा तु गुणवानयम् // Bca_8.145
दुर्गतिव्याडवक्त्रस्थे-नैवास्य करुणा जने अपरान् गुणमानेन पण्डितान् विजिगीषते // Bca_8.146
सममात्मानमालोक्य यतः स्वाधिक्यवृद्धये कलहेनापि संसाध्यं लाभसत्कारमात्मनः // Bca_8.147
अपि सर्वत्र मे लोके भवेयुः प्रकटाः गुणाः अपि नाम गुणा ये ऽस्य न श्रोष्यन्त्यपि केचन // Bca_8.148
छाद्येरन्नपि मे दोषाः स्यान्मे पूजास्य नो भवेत् सुलब्धा अद्य मे लाभाः पूजितो ऽहमयं न तु // Bca_8.149
पश्यामो मुदितास्तावच् चिरादेनं खलीकृतम् हास्यं जनस्य सर्वस्य निन्द्यमानमितस्ततः // Bca_8.150
अस्यापि हि वराकस्य स्पर्धा किल मया सह किमस्य श्रुतमेतावत् प्रज्ञारूपं कुलं धनम् // Bca_8.151
एवमात्मगुणाञ्श्रुत्वा कीर्त्यमानानितस्ततः संजातपुलको हृष्टः परिभोक्ष्ये सुखोत्सवम् // Bca_8.152
यद्यप्यस्य भवेल्लाभो ग्राह्यो ऽस्माभिरसौ बलात् दत्वास्मै यापनामात्रम् अस्मत्कर्म करोति चेत् // Bca_8.153
सुखाच्च च्यावनीयो ऽयं योज्यो ऽस्मद्व्यथया सदा अनेन शतशः सर्वे संसारव्यथिता वयम् // Bca_8.154
अप्रमेया गताः कल्पाः स्वार्थं जिज्ञासतस्तव श्रमेण महतानेन दुःखमेव त्वयार्जितम् // Bca_8.155
मद्विज्ञप्त्या तथात्रापि प्रवर्तस्वाविचारतः द्रक्ष्यस्येतद्गुणान् पश्चाद् भूतं हि वचनं मुनेः // Bca_8.156
अभविष्यदिदं कर्म कृतं पूर्वं यदि त्वया बौद्धं संपत्सुखं मुक्त्वा नाभविष्यदियं दशा // Bca_8.157
तस्माद्यथान्यदीयेषु शुक्रशोणितबिन्दुषु चकर्थ त्वमहंकारं तथान्येष्वपि भावय // Bca_8.158
अन्यदीयश्चरो भूत्वा काये ऽस्मिन् यद्यदीक्षसे तत्तदेवापहृत्यर्थं परेभ्यो हितमाचर // Bca_8.159
अयं सुस्थः परो दुःस्थो नीचैरन्यो ऽयमुच्चकैः परः करोत्ययं नेति कुरुष्वेर्ष्यां त्वमात्मनि // Bca_8.160
सुखाच्च च्यावयात्मानं परदुःखे नियोजय कदायं किं करोतीति छलमस्य निरूपय // Bca_8.161
अन्येनापि कृतं दोषं पातयास्यैव मस्तके अल्पमप्यस्य दोषं च प्रकाशय महामुनेः // Bca_8.162
अन्याधिकयशोवादैर् यशो ऽस्य मलिनीकुरु निकृष्टदासवच्चैनं सत्त्वकार्येषु वाहय // Bca_8.163
नागन्तुकगुणांशेन स्तुत्यो दोषमयो ह्ययम् यथा कश्चिन्न जानीयाद् गुणमस्य तथा कुरु // Bca_8.164
संक्षेपाद् यद्यदात्मार्थे परेष्वपकृतं त्वया तत्तदात्मनि सत्त्वार्थे व्यसनं विनिपातय // Bca_8.165
नैवोत्साहो ऽस्य दातव्यो येनायं मुखरो भवेत् स्थाप्यो नवबधूवृत्तौ ह्रीतो भीतो ऽथ संवृतः // Bca_8.166
एवं कुरुष्व तिष्ठैवं न कर्तव्यमिदं त्वया एवमेषः वशः कार्यो निग्राह्यस्तदतिक्रमे // Bca_8.167
अथैवमुच्यमाने ऽपि चित्तं नेदं करिष्यसि त्वामेव निग्रहीष्यामि सर्वदोषास्तदाश्रिताः // Bca_8.168
क्व यास्यसि मया दृष्टः सर्वदर्पान्निहन्मि ते अन्यो ऽसौ पूर्वकः कालस् त्वया यत्रास्मि नाशितः // Bca_8.169
अद्याप्यस्ति मम स्वार्थ इत्याशां त्यज सांप्रतम् त्वं विक्रीतो मयान्येषु बहुखेदमचिन्तयन् // Bca_8.170
त्वां सत्त्वेषु न दास्यामि यदि नाम प्रमादतः त्वं मां नरकपालेषु प्रदास्यसि न संशयः // Bca_8.171
एवं चानेकधा दत्वा त्वयाहं व्यथितश्चिरम् निहन्मि स्वार्थचेटं त्वां तानि वैराण्यनुस्मरन् // Bca_8.172
न कर्तव्यात्मनि प्रीतिर् यद्यात्मप्रीतिरस्ति ते यद्यात्मा रक्षितव्यो ऽयं रक्षितव्यो न युज्यते // Bca_8.173
यथा यथास्य कायस्य क्रियते परिपालनम् सुकुमारतरो भूत्वा पतत्येव तथा तथा // Bca_8.174
अस्यैवं पतितस्यापि सर्वापीयं वसुन्धरा नालं पूरयितुं वाञ्छां तत्को ऽस्येच्छां करिष्यति // Bca_8.175
अशक्यमिच्छतः क्लेश आशाभङ्गश्च जायते निराशो यस्तु सर्वत्र तस्य संपदजीर्णिका // Bca_8.176
तस्मान्न प्रसरो देयः कायस्येच्छाभिवृद्धये भद्रकं नाम तद्वस्तु यदिष्टत्वान्न गृह्यते // Bca_8.177
भस्मनिष्ठावसानो ऽयं निश्चेष्टान्येन चाल्यते अशुचिप्रतिमा घोरा कस्मादत्र ममाग्रहः // Bca_8.178
किं ममानेन यन्त्रेण जीविना वा मृतेन वा लोष्ट्रादेः को विशेषो ऽस्य हाहंकारं न नश्यसि // Bca_8.179
शरीरपक्षपातेन वृथा दुःखमुपार्ज्यते किमस्य काष्ठतुल्यस्य द्वेषेणानुनयेन वा // Bca_8.180
मया वा पालितस्यैवं गृध्राद्यैर्भक्षितस्य वा न च स्नेहो न च द्वेषस् तस्मात् स्नेहं करोमि किम् // Bca_8.181
रोषो यस्य खलीकारात् तोषो यस्य च पूजया स एव चेन्न जानाति श्रमः कस्य कृतेन मे // Bca_8.182
इमं ये कायमिच्छन्ति ते ऽपि मे सुहृदः किल सर्वे स्वकायमिच्छन्ति ते ऽपि कस्मान्न मे प्रियाः // Bca_8.183
तस्मान्मयानपेक्षेण कायस्त्यक्तो जगद्धिते अतो ऽयं बहुदोषो ऽपि धार्यते कर्मभाण्डवत् // Bca_8.184
तेनालं लोकचरितैः पण्डिताननुयाम्यहम् अप्रमादकथां स्मृत्वा स्त्यानमिद्धं निवारयन् // Bca_8.185
तस्मादावरणं हन्तुं समाधानं करोम्यहम् विमार्गाच्चित्तमाकृष्य स्वालम्बननिरन्तरम् // Bca_8.186
बोधिचर्यावतारे ध्यानपारमिता अष्टमः परिच्छेदः ॥
परिच्छेद 9
इमं परिकरं सर्वं प्रज्ञार्थं हि मुनिर्जगौ तस्मादुत्पादयेत् प्रज्ञां दुःखनिवृत्तिकाङ्क्षया // Bca_9.1
संवृतिः परमार्थश्च सत्यद्वयमिदं मतं बुद्धेरगोचरस्तत्त्वं बुद्धिः संवृतिरुच्यते // Bca_9.2
तत्र लोको द्विधा दृष्टो योगी प्राकृतकस्तथा तत्र प्राकृतको लोको योगिलोकेन बाध्यते // Bca_9.3
बाध्यन्ते धीविशेषेण योगिनो ऽप्युत्तरोत्तरैः दृष्टान्तेनोभयेष्टेन कार्यार्थमविचारतः // Bca_9.4
लोकेन भावा दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः न तु मायावदित्यत्र विवादो योगिलोकयोः // Bca_9.5
प्रत्यक्षमपि रूपादि प्रसिद्ध्या न प्रमाणतः अशुच्यादिषु शुच्यादिप्रसिद्धिरिव सा मृषा // Bca_9.6
लोकावतारणार्थं च भावा नाथेन देशिताः तत्त्वतः क्षणिका नैते संवृत्या चेद्विरुध्यते // Bca_9.7
न दोषो योगिसंवृत्या लोकात्ते तत्त्वदर्शिनः अन्यथा लोकबाधा स्याद् अशुचिस्त्रीनिरूपणे // Bca_9.8
मायोपमाज्जिनात् पुण्यं सद्भावे ऽपि कथं यथा यदि मायोपमः सत्त्वः किं पुनर्जायते मृतः // Bca_9.9
यावत्प्रत्ययसामग्री तावन्मायापि वर्तते दीर्घसंतानमात्रेण कथं सत्त्वो ऽस्ति सत्यतः // Bca_9.10
मायापुरुषघातादौ चित्ताभावान्न पापकं चित्तमायासमेते तु पापपुण्यसमुद्भवः // Bca_9.11
मन्त्रादीनामसामर्थ्यान् न मायाचित्तसंभवः सापि नानाविधा माया नानाप्रत्ययसंभवा // Bca_9.12
नैकस्य सर्वसामर्थ्यं प्रत्ययस्यास्ति कुत्रचित् निर्वृतः परमार्थेन संवृत्या यदि संसरेत् // Bca_9.13
बुद्धो ऽपि संसरेदेवं ततः किं बोधिचर्यया प्रत्ययानामनुच्छेदे मायाप्युच्छिद्यते न हि // Bca_9.14
प्रत्ययानां तु विच्छेदात् संवृत्यापि न संभवः यदा न भ्रान्तिरप्यस्ति माया केनोपलभ्यते // Bca_9.15
यदा मायैव ते नास्ति तदा किमुपलभ्यते चित्तस्यैव स आकारो यद्यप्यन्यो ऽस्ति तत्त्वतः // Bca_9.16
चित्तमेव यदा माया तदा किं केन दृश्यते उक्तं च लोकनाथेन चित्तं चित्तं न पश्यति // Bca_9.17
न च्छिनत्ति यथात्मानम् असिधारा तथा मनः आत्मभावं यथा दीपः संप्रकाशयतीति चेत् // Bca_9.18
नैव प्रकाश्यते दीपो यस्मान्न तमसावृतः न हि स्फटिकवन्नीलं नीलत्वे ऽन्यमपेक्षते // Bca_9.19
तथा किंचित् परापेक्षम् अनपेक्षं च दृश्यते अनीलत्वे न तन्नीलं कुर्यादात्मानमात्मना // Bca_9.20
नीलमेव हि को नीलं कुर्यादात्मानमात्मना अनीलत्वे न तन्नीलं कुर्यादात्मानमात्मना // Bca_9.21
दीपः प्रकाशत इति ज्ञात्वा ज्ञानेन कथ्यते बुद्धिः प्रकाशत इति ज्ञात्वेदं केन कथ्यते // Bca_9.22
प्रकाशा वाप्रकाशा वा यदा दृष्टा न केनचित् वन्ध्यादुहितृलीलेव कथ्यमानापि सा मुधा // Bca_9.23
यदि नास्ति स्वसंवित्तिर् विज्ञानं स्मर्यते कथम् अन्यानुभूते संबन्धात् स्मृतिराखुविषं यथा // Bca_9.24
प्रत्ययान्तरयुक्तस्य दर्शनात् स्वं प्रकाशते सिद्धाञ्जनविधेर्दृष्टो घटो नैवाञ्जनं भवेत् // Bca_9.25
यथा दृष्टं श्रुतं ज्ञातं नैवेह प्रतिषिध्यते सत्यतः कल्पना त्वत्र दुःखहेतुर्निवार्यते // Bca_9.26
चित्तादन्या न माया चेन् नाप्यनन्येति कल्प्यते वस्तु चेत् सा कथं नान्यान् अन्या चेन्नास्ति वस्तुतः // Bca_9.27
असत्यपि यथा माया दृश्या द्रष्टृ तथा मनः वस्त्वाश्रयश्चेत् संसारः सो ऽन्यथाकाशवद्भवेत् // Bca_9.28
वस्त्वाश्रयेणाभावस्य क्रियावत्त्वं कथं भवेत् असत्सहायमेकं हि चित्तमापद्यते तव // Bca_9.29
ग्राह्यमुक्तं यदा चित्तं तदा सर्वे तथागताः एवं च को गुणो लब्धश् चित्तमात्रे ऽपि कल्पिते // Bca_9.30
मायोपमत्वे ऽपि ज्ञाते कथं क्लेशो निवर्तते यदा मायास्त्रियां रागस् तत्कर्तुरपि जायते // Bca_9.31
अप्रहीणा हि तत्कर्तुर् ज्ञेयसंक्लेशवासना तद्दृष्टिकाले तस्यातो दुर्बला शून्यवासना // Bca_9.32
शून्यतावासनाधानाद् धीयते भाववासना किंचिन्नास्तीति चाभ्यासात् सापि पश्चात् प्रहीयते // Bca_9.33
यदा न लभ्यते भावो यो नास्तीति प्रकल्प्यते तदा निराश्रयो ऽभावः कथं तिष्ठेन्मतेः पुरः // Bca_9.34
यदा न भावो नाभावो मतेः संतिष्ठते पुरः तदान्यगत्यभावेन निरालम्बा प्रशाम्यते // Bca_9.35
चिन्तामणिः कल्पतरुर् यथेच्छापरिपूरणः विनेयप्रणिधानाभ्यां जिनबिम्बं तथेक्ष्यते // Bca_9.36
यथा गारुडिकः स्तम्भं साधयित्वा विनश्यति स तस्मिंश्चिरनष्टे ऽपि विषादीनुपशामयेत् // Bca_9.37
बोधिचर्यानुरूप्येण जिनस्तम्भो ऽपि साधितः करोति सर्वकार्याणि बोधिसत्त्वे ऽपि निर्वृते // Bca_9.38
अचित्तके कृता पूजा कथं फलवती भवेत् तुल्यैव पठ्यते यस्मात् तिष्ठतो निर्वृतस्य च // Bca_9.39
आगमाच्च फलं तत्र संवृत्या तत्त्वतो ऽपि वा सत्यबुद्धे कृता पूजा सफलेति कथं यथा // Bca_9.40
सत्यदर्शनतो मुक्तिः शून्यतादर्शनेन किम् न विनानेन मार्गेण बोधिरित्यागमो यतः // Bca_9.41
नन्वसिद्धं महायानं कथं सिद्धस्त्वदागमः यस्मादुभयसिद्धो ऽसौ न सिद्धो ऽसौ तवादितः // Bca_9.42
यत्प्रत्यया च तत्रास्था महायाने ऽपि तां कुरु अन्योभयेष्टसत्यत्वे वेदादेरपि सत्यता // Bca_9.43
सविवादं महायानम् इति चेदागमं त्यज तीर्थिकैः सविवादत्वात् स्वैः परैश्चागमान्तरम् // Bca_9.44
शासनं भिक्षुतामूलं भिक्षुतैव च दुःखिता सावलम्बनचित्तानां निर्वाणमपि दुःस्थितम् // Bca_9.45
क्लेशप्रहाणान्मुक्तिश्चेत् तदनन्तरमस्तु सा दृष्टं च तेषु सामर्थ्यं निःक्लेशस्यापि कर्मणः // Bca_9.46
तृष्णा तावदुपादानं नास्ति चेत् संप्रधार्यते किमक्लिष्टापि तृष्णैषां नास्ति संमोहवत् सती // Bca_9.47
वेदनाप्रत्यया तृष्णा वेदनैषां च विद्यते सालम्बनेन चित्तेन स्थातव्यं यत्र तत्र वा // Bca_9.48
विना शून्यतया चित्तं बद्धमुत्पद्यते पुनः यथासंज्ञिसमापत्तौ भावयेत्तेन शून्यताम् // Bca_9.49
यत्सूत्रे ऽवतरेद्वाक्यं तच्चेद्बुद्धोक्तमिष्यते महायानं भवत्सूत्रैः प्रायस्तुल्यं न किं मतम् // Bca_9.50
एकेनागम्यमानेन सकलं यदि दोषवत् एकेन सूत्रतुल्येन किं न सर्वं जिनोदितम् // Bca_9.51
महाकाश्यपमुख्यैश्च यद्वाक्यं नावगाह्यते तत्त्वयानवबुद्धत्वाद् अग्राह्यं कः करिष्यति // Bca_9.52
सक्तित्रासात्त्वनिर्मुक्त्या संसारे सिध्यति स्थितिः मोहेन दुःखिनामर्थे शून्यताया इदं फलम् // Bca_9.53
तदेवं शून्यतापक्षे दूषणं नोपपद्यते तस्मान्निर्विचिकित्सेन भावनीयैव शून्यता // Bca_9.54
क्लेशज्ञेयावृतितमः प्रतिपक्षो हि शून्यता शीघ्रं सर्वज्ञताकामो न भावयति तां कथम् // Bca_9.55
यद्दुःखजननं वस्तु त्रासस्तस्मात् प्रजायताम् शून्यता दुःखशमनी ततः किं जायते भयम् // Bca_9.56
यतस्ततो वास्तु भयं यद्यहं नाम किंचन अहमेव न किंचिच्चेद् भयं कस्य भविष्यति // Bca_9.57
दन्तकेशनखा नाहं नास्थि नाप्यस्मि शोणितम् न शिंघानं न च श्लेष्मा न पूयं लसिकापि वा // Bca_9.58
नाहं वसा न च स्वेदो न मेदो ऽन्त्राणि नाप्यहम् न चाहमन्त्रनिर्गुण्डी गूथमूत्रमहं न च // Bca_9.59
नाहं मांसं न च स्नायुर् नोष्मा वायुरहं न च न च छिद्राण्यहं नापि षड्विज्ञानानि सर्वथा // Bca_9.60
शब्दज्ञानं यदि तदा शब्दो गृह्येत सर्वदा ज्ञेयं विना तु किं वेत्ति येन ज्ञानं निरुच्यते // Bca_9.61
अजानानं यदि ज्ञानं काष्ठं ज्ञानं प्रसज्यते तेनासंनिहितज्ञेयं ज्ञानं नास्तीति निश्चयः // Bca_9.62
तदेव रूपं जानाति तदा किं न शृणोत्यपि शब्दस्यासंनिधानाच्चेत् ततस्तज्ज्ञानमप्यसत् // Bca_9.63
शब्दग्रहणरूपं यत् तद्रूपग्रहणं कथम् एकः पिता च पुत्रश्च कल्प्यते न तु तत्त्वतः // Bca_9.64
सत्त्वं रजस्तमो वापि न पुत्रो न पिता यतः शब्दग्रहणयुक्तस्तु स्वभावस्तस्य नेक्ष्यते // Bca_9.65
तदेवान्येन रूपेण नटवत्सो ऽप्यशाश्वतः स एवान्यस्वभावश्चेद् अपूर्वेयं तदेकता // Bca_9.66
अन्यद्रूपमसत्यं चेन् निजं तद्रूपमुच्यताम् ज्ञानता चेत्ततः सर्वपुंसामैक्यं प्रसज्यते // Bca_9.67
चेतनाचेतने चैक्यं तयोर्येनास्तिता समा विशेषश्च यदा मिथ्या कः सादृश्याश्रयस्तदा // Bca_9.68
अचेतनश्च नैवाहम् अचैतन्यात्पटादिवत् अथ ज्ञश्चेतनायोगाद् अज्ञो नष्टः प्रसज्यते // Bca_9.69
अथाविकृत एवात्मा चैतन्येनास्य किं कृतम् अज्ञस्य निष्क्रियस्यैवम् आकाशस्यात्मता मता // Bca_9.70
न कर्मफलसंबन्धो युक्तश्चेदात्मना विना कर्म कृत्वा विनष्टे हि फलं कस्य भविष्यति // Bca_9.71
द्वयोरप्यावयोः सिद्धे भिन्नाधारे क्रियाफले निर्व्यापारश्च तत्रात्मेत्य् अत्र वादो वृथा ननु // Bca_9.72
हेतुमान् फलयोगीति दृश्यते नैष संभवः संतानस्यैक्यमाश्रित्य कर्ता भोक्तेति देशितम् // Bca_9.73
अतीतानागतं चित्तं नाहं तद्धि न विद्यते अथोत्पन्नमहं चित्तं नष्टे ऽस्मिन्नास्त्यहं पुनः // Bca_9.74
यथैव कदलीस्तम्भो न कश्चिद् भागशः कृतः तथाहमप्यसद्भूतो मृग्यमाणो विचारतः // Bca_9.75
यदि सत्त्वो न विद्येत कस्योपरि कृपेति चेत् कार्यार्थमभ्युपेतेन यो मोहेन प्रकल्पितः // Bca_9.76
कार्यं कस्य न चेत्सत्त्वः सत्यमीहा तु मोहतः दुःखव्युपशमार्थं तु कार्यमोहो न वार्यते // Bca_9.77
दुःखहेतुरहंकार आत्ममोहात्तु वर्धते ततो ऽपि न निवर्त्यश्चेत् वरं नैरात्म्यभावना // Bca_9.78
कायो न पादौ न जङ्घा नोरू कायः कटिर्न च नोदरं नाप्ययं पृष्ठं नोरो बाहू न चापि सः // Bca_9.79
न हस्तौ नाप्ययं पार्श्वौ न कक्षौ नांसलक्षणः न ग्रीवा न शिरः कायः कायो ऽत्र कतरः पुनः // Bca_9.80
यदि सर्वेषु कायो ऽथम् एकदेशेन वर्तते अंशा अंशेषु वर्तन्ते स च कुत्र स्वयं स्थितः // Bca_9.81
सर्वात्मना चेत्सर्वत्र स्थितः कायः करादिषु कायास्तावन्त एव स्युर् यावन्तस्ते करादयः // Bca_9.82
नैवान्तर्न बहिः कायः कथं कायः करादिषु करादिभ्यः पृथग् नास्ति कथं नु खलु विद्यते // Bca_9.83
तन्नास्ति कायो मोहात्तु कायबुद्धिः करादिषु संनिवेशविशेषेण स्थानौ पुरुषबुद्धिवत् // Bca_9.84
यावत्प्रत्ययसामग्री तावत्कायः पुमानिव एवं करादौ सा यावत् तावत्कायो ऽत्र दृश्यते // Bca_9.85
एवमङ्गुलिपुञ्जत्वात् पादो ऽपि कतरो भवेत् सो ऽपि पर्वसमूहत्वात् पर्वापि स्वांशभेदतः // Bca_9.86
अंशा अप्यणुभेदेन सो ऽप्यणुर्दिग्विभागतः दिग्विभागो निरंशत्वाद् आकाशं तेन नास्त्यणुः // Bca_9.87
एवं स्वप्नोपमे रूपे को रज्येत विचारकः कायश्चैवं यदा नास्ति तदा का स्त्री पुमांश्च कः // Bca_9.88
यद्यस्ति दुःखं तत्त्वेन प्रहृष्टान् किं न बाधते शोकाद्यार्ताय मृष्टादि सुखं चेत्किं न रोचते // Bca_9.89
बलीयसाभिभूतत्वाद् यदि तन्नानुभूयते वेदनात्वं कथं तस्य यस्य नानुभवात्मता // Bca_9.90
अस्ति सूक्ष्मतया दुःखं स्थौल्यं तस्य हृतं ननु तुष्टिमात्राऽपरा चेत्स्यात् तस्मात्साप्यस्य सूक्ष्मता // Bca_9.91
विरुद्धप्रत्ययोत्पत्तौ दुःखस्यानुदयो यदि कल्पनाभिनिवेशो हि वेदनेत्यागतं ननु // Bca_9.92
अत एव विचारो ऽयं प्रतिपक्षो ऽस्य भाव्यते विकल्पक्षेत्रसंभूतध्यानाहारा हि योगिनः // Bca_9.93
सान्तराविन्द्रियार्थौ चेत् संसर्गः कुत एतयोः निरन्तरत्वे ऽप्येकत्वं कस्य केनास्तु संगतिः // Bca_9.94
नाणोरणौ प्रवेशो ऽस्ति निराकाशः समश्च सः अप्रवेशे न मिश्रत्वम् अमिश्रत्वे न संगतिः // Bca_9.95
निरंशस्य च संसर्गः कथं नामोपपद्यते संसर्गे च निरंशत्वं यदि दृष्टं निदर्शय // Bca_9.96
विज्ञानस्य त्वमूर्तस्य संसर्गो नैव युज्यते समूहस्याप्यवस्तुत्वाद् यथा पूर्वं विचारितम् // Bca_9.97
तदेवं स्पर्शनाभावे वेदनासंभवः कुतः किमर्थमयमायासः बाधा कस्य कुतो भवेत् // Bca_9.98
यदा न वेदकः कश्चिद् वेदना च न विद्यते तदावस्थामिमां दृष्ट्वा तृष्णे किं न विदीर्यसे // Bca_9.99
दृश्यते स्पृश्यते चापि स्वप्नमायोपमात्मना चित्तेन सहजातत्वाद् वेदना तेन नेक्ष्यते // Bca_9.100
पूर्वं पश्चाच्च जातेन स्मर्यते नानुभूयते स्वात्मानं नानुभवति न चान्येनानुभूयते // Bca_9.101
न चास्ति वेदकः कश्चिद् वेदनातो न तत्त्वतः निरात्मके कलापे ऽस्मिन् क एव बाध्यते ऽनया // Bca_9.102
नेन्द्रियेषु न रूपादौ नान्तराले मनः स्थितम् नाप्यन्तर्न बहिश्चित्तम् अन्यत्रापि न लभ्यते // Bca_9.103
यन्न काये न चान्यत्र न मिश्रं न पृथक् क्वचित् तन्न किंचिदतः सत्त्वाः प्रकृत्या परिनिर्वृताः // Bca_9.104
ज्ञेयात्पूर्वं यदि ज्ञानं किमालम्ब्यास्य संभवः ज्ञेयेन सह चेज्ज्ञानं किमालम्ब्यास्य संभवः // Bca_9.105
अथ ज्ञेयाद्भवेत्पश्चात् तदा ज्ञानं कुतो भवेत् एवं च सर्वधर्माणाम् उत्पत्तिर्नावसीयते // Bca_9.106
यद्येवं संवृतिर्नास्ति ततः सत्यद्वयं कुतः अथ साप्यन्यसंवृत्या स्यात्सत्त्वो निर्वृतः कुतः // Bca_9.107
परचित्तविकल्पो ऽसौ स्वसंवृत्या तु नास्ति सः स पश्चान्नियतः सो ऽस्ति न चेन्नास्त्येव संवृतिः // Bca_9.108
कल्पना कल्पितं चेति द्वयमन्योन्यनिश्रितम् यथाप्रसिद्धमाश्रित्य विचारः सर्व उच्यते // Bca_9.109
विचारितेन तु यदा विचारेण विचार्यते तदानवस्था तस्यापि विचारस्य विचारणात् // Bca_9.110
विचारिते विचार्ये तु विचारस्यास्ति नाश्रयः निराश्रयत्वान्नोदेति तच्च निर्वाणमुच्यते // Bca_9.111
यस्य त्वेतद्द्वयं सत्यं स एवात्यन्तदुःस्थितः यदि ज्ञानवशादर्थो ज्ञानास्तित्वे तु का गतिः // Bca_9.112
अथ ज्ञेयवशाज्ज्ञानं ज्ञेयास्तित्वे तु का गतिः अथान्योन्यवशात्सत्त्वम् अभावः स्याद्द्वयोरपि // Bca_9.113
पिता चेन्न विना पुत्रात् कुतः पुत्रस्य संभवः पुत्राभावे पिता नास्ति तथा सत्त्वं तयोर्द्वयोः // Bca_9.114
अङ्कुरो जायते बीजाद् बीजं तेनैव सूच्यते ज्ञेयाज्ज्ञानेन जातेन तत्सत्ता किं न गम्यते // Bca_9.115
अङ्कुरादन्यतो ज्ञानाद् बीजमस्तीति गम्यते ज्ञानास्तित्वं कुतो ज्ञातं ज्ञेयं यत्तेन गम्यते // Bca_9.116
लोकः प्रत्यक्षतस्तावत् सर्वं हेतुमुदीक्षते पद्मनालादिभेदो हि हेतुभेदेन जायते // Bca_9.117
किंकृतो हेतुभेदश्चेत् पूर्वहेतुप्रभेदतः कस्माच्चेत्फलदो हेतुः पूर्वहेतुप्रभावतः // Bca_9.118
ईश्वरो जगतो हेतुः वद कस्तावदीश्वरः भूतानि चेद्भवत्वेवं नाममात्रे ऽपि किं श्रमः // Bca_9.119
अपि त्वनेके ऽनित्याश्च निश्चेष्टा न च देवताः लङ्घ्याश्चाशुचयश्चैव क्ष्मादयो न स ईश्वरः // Bca_9.120
नाकाशमीशो ऽचेष्टत्वात् नात्मा पूर्वनिषेधतः अचिन्त्यस्य च कर्तृत्वम् अप्यचिन्त्यं किमुच्यते // Bca_9.121
तेन किं स्रष्टुमिष्टं च आत्मा चेत् नन्वसौ ध्रुवः क्ष्मादिस्वभाव ईशश्च ज्ञानं ज्ञेयादनादि च // Bca_9.122
कर्मणः सुखदुःखे च वद किं तेन विर्मितम् हेतोरादिर्न चेदस्ति फलस्यादिः कुतो भवेत् // Bca_9.123
कस्मात्सदा न कुरुते न हि सो ऽन्यमपेक्षते तेनाकृतो ऽन्यो नास्त्येव तेनासौ किमपेक्षताम् // Bca_9.124
अपेक्षते चेत्सामग्रीं हेतुर्न पुनरीश्वरः नाकर्तुमीशः सामग्र्यां न कर्तुं तदभावतः // Bca_9.125
करोत्यनिच्छन्नीशश्चेत् परायत्तः प्रसज्यते इच्छन्नपीच्छायत्तः स्यात् कुर्वतः कुत ईशता // Bca_9.126
ये ऽपि नित्यानणूनाहुस् ते ऽपि पूर्वं निवारिताः सांख्याः प्रधानमिच्छन्ति नित्यं लोकस्य कारणम् // Bca_9.127
सत्त्वं रजस्तमश्चेति गुणा अविषमस्थिताः प्रधानमिति कथ्यन्ते विषमैर्जगदुच्यते // Bca_9.128
एकस्य त्रिस्वभावत्वम् अयुक्तं तेन नास्ति तत् एवं गुणा न विद्यन्ते प्रत्येकं ते ऽपि हि त्रिधा // Bca_9.129
गुणाभावे च शब्दादेर् अस्तित्वमतिदूरतः अचेतने च वस्त्रादौ सुखादेरप्यसंभवः // Bca_9.130
तद्धेतुरूपा भावाश्चेन् ननु भावा विचारिताः सुखाद्येव च ते हेतुः न च तस्मात्पटादयः // Bca_9.131
पटादेस्तु सुखादि स्यात् तदभावात्सुखाद्यसत् सुखादीनां च नित्यत्वं कदाचिन्नोपलभ्यते // Bca_9.132
सत्यामेव सुखव्यक्तौ संवित्तिः किं न गृह्यते तदेव सूक्ष्मतां याति स्थूलं सूक्ष्मं च तत्कथम् // Bca_9.133
स्थौल्यं त्यक्त्वा भवेत्सूक्ष्मम् अनित्ये स्थौल्यसूक्ष्मते सर्वस्य वस्तुनस्तद्वत् किं नानित्यत्वमिष्यते // Bca_9.134
न स्थौल्यं चेत्सुखादन्यत् सुखस्यानित्यता स्फुटम् नासदुत्पद्यते किंचिद् असत्त्वादिति चेन्मतम् // Bca_9.135
व्यक्तस्यासत उत्पत्तिर् अकामस्यापि ते स्थिता अन्नादो ऽमेध्यभक्षः स्यात् फलं हेतौ यदि स्थितम् // Bca_9.136
पटार्घेणैव कर्पासबीजं क्रीत्वा निवस्यताम् मोहाच्चेन्नेक्षते लोकः तत्त्वज्ञस्यापि सा स्थितिः // Bca_9.137
लोकस्यापि च तज्ज्ञानम् अस्ति कस्मान्न पश्यति लोकाप्रमाणतायां चेत् व्यक्तदर्शनमप्यसत् // Bca_9.138
प्रमाणमप्रमाणं चेन् ननु तत्प्रमितं मृषा तत्त्वतः शून्यता तस्माद् भावानां नोपपद्यते // Bca_9.139
कल्पितं भावमस्पृष्ट्वा तदभावो न गृह्यते तस्माद्भावो मृषा यो हि तस्याभावः स्फुटं मृषा // Bca_9.140
तस्मात्स्वप्ने सुते नष्टे स नास्तीति विकल्पना तद्भावकल्पनोत्पादं विबध्नाति मृषा च सा // Bca_9.141
तस्मादेवं विचारेण नास्ति किंचिदहेतुतः न च व्यस्तसमस्तेषु प्रत्ययेषु व्यवस्थितम् // Bca_9.142
अन्यतो नापि चायातं न तिष्ठति न गच्छति मायातः को विशेषो ऽस्य यन्मूढैः सत्यतः कृतम् // Bca_9.143
मायया निर्मितं यच्च हेतुभिर्यच्च निर्मितम् आयाति तत्कुतः कुत्र याति चेति निरूप्यताम् // Bca_9.144
यदन्यसंनिधानेन दृष्टं न तदभावतः प्रतिबिम्बसमे तस्मिन् कृत्रिमे सत्यता कथम् // Bca_9.145
विद्यमानस्य भावस्य हेतुना किं प्रयोजनम् अथाप्यविद्यमानो ऽसौ हेतुना किं प्रयोजनम् // Bca_9.146
नाभावस्य विकारो ऽस्ति हेतुकोटिशतैरपि तदवस्थः कथं भावः को वान्यो भावतां गतः // Bca_9.147
नाभावकाले भावश्चेत् कदा भावो भविष्यति नाजातेन हि भावेन सो ऽभावो ऽपगमिष्यति // Bca_9.148
न चानपगते ऽभावे भावावसरसंभवः भावश्चाभावतां नैति द्विस्वभावप्रसङ्गतः // Bca_9.149
एवं च न विरोधो ऽस्ति न च भावो ऽस्ति सर्वदा अजातमनिरुद्धं च तस्मात्सर्वमिदं जगत् // Bca_9.150
स्वप्नोपमास्तु गतयो विचारे कदलीसमाः निर्वृतानिर्वृतानां च विशेषो नास्ति वस्तुतः // Bca_9.151
एवं शून्येषु धर्मेषु किं लब्धं किं हृतं भवेत् सत्कृतः परिभूतो वा केन कः संभविष्यति // Bca_9.152
कुतः सुखं वा दुःखं वा किं प्रियं वा किमप्रियम् का तृष्णा कुत्र सा तृष्णा मृग्यमाणा स्वभावतः // Bca_9.153
विचारे जीवलोकः कः को नामात्र मरिष्यति को भविष्यति को भूतः को बन्धुः कस्य कः सुहृत् // Bca_9.154
सर्वमाकाशसंकाशं परिगृह्णन्तु मद्विधाः प्रकुप्यन्ति प्रहृष्यन्ति कलहोत्सवहेतुभिः // Bca_9.155
शोकायासैर्विषादैश्च मिथश्छेदनभेदनैः यापयन्ति सुकृच्छ्रेण पापैरात्मसुखेच्छवः // Bca_9.156
मृताः पतन्त्यपायेषु दीर्घतीव्रव्यथेषु च आगत्यागत्य सुगतिं भूत्वा भूत्वा सुखोचिताः // Bca_9.157
भवे बहुप्रपातश्च तत्र चासत्त्वमीदृशम् तत्रान्योन्यविरोधश्च न भवेत्तत्त्वमीदृशम् // Bca_9.158
तत्र चानुपमास्तीव्रा अनन्तदुःखसागराः तत्रैवमल्पबलता तत्राप्यल्पत्वमायुषः // Bca_9.159
तत्रापि जीवितारोग्यव्यापारैः क्षुत्क्लमश्रमैः निद्रयोपद्रवैर्बालसंसर्गैर्निष्फलैस्तथा // Bca_9.160
वृथैवायुर्वहत्याशु विवेकस्तु सुदुर्लभः तत्राप्यभ्यस्तविक्षेपनिवारणगतिः कुतः // Bca_9.161
तत्रापि मारो यतते महापायप्रपातने तत्रासन्मार्गबाहुल्याद् विचिकित्सा च दुर्जया // Bca_9.162
पुनश्च क्षणदौर्लम्यं बुद्धोत्पादो ऽतिदुर्लभः क्लेशौघो दुर्निवारश्चेत्य् अहो दुःखपरम्परा // Bca_9.163
अहो बतातिशोच्यत्वम् एषां दुःखौघवर्तिनाम् ये नेक्षन्ते स्वदौःस्थित्यम् एवमप्यतिदुःस्थिताः // Bca_9.164
स्नात्वा स्नात्वा यथा कश्चिद् विशेद्वह्निं मुहुर्मुहुः स्वसौस्थित्यं च मन्यन्त एवमप्यतिदुःस्थिताः // Bca_9.165
अजरामरलीलानाम् एवं विहरतां सताम् आयास्यन्त्यापदो घोराः कृत्वा मरणमग्रतः // Bca_9.166
एवं दुःखाग्नितप्तानां शान्तिं कुर्यामहं कदा पुण्यमेघसमुद्भूतैः सुखोपकरणैः स्वकैः // Bca_9.167
कदोपलम्भदृष्टिभ्यो देशयिष्यामि शून्यताम् संवृत्यानुपलम्भेन पुण्यसंभारमादरात् // Bca_9.168
बोधिचर्यावतारे प्रज्ञापारमिता नाम नवमः परिच्छेदः ।
परिच्छेद 10
बोधिचर्यावतारं मे यद्विचिन्तयतः शुभम् तेन सर्वं जनाः सन्तु बोधिचर्या विभूषणाः // Bca_10.1
सर्वासु दिक्षु यावन्तः कायचित्तव्यथातुराः ते प्राप्नुवन्तु मत्पुण्यैः सुखप्रामोद्यसागरान् // Bca_10.2
आसंसारं सुखज्यानिर् माभूत्तेषां कदाचन बोधिसत्त्वसुखं प्राप्तुं भवत्यविरतं जगत् // Bca_10.3
यावन्तो नारकाः केचिद् विद्यन्ते लोकधातुषु सुखावती सुखामोदैर् मोदन्तां तेषु देहिनः // Bca_10.4
शीतार्ताः प्राप्नुवन्तूष्णम् उष्णार्ताः सन्तु शीतलाः बोधिसत्त्वमहामेघसंभवैर्जलसागरैः // Bca_10.5
असिपत्रवनं तेषां स्यान्नन्दनवनद्युतिः कूटशाल्मलीवृक्षाश्च जायन्तां कल्पपादपाः // Bca_10.6
दात्यूहकारण्डवचक्रवाकहंसादिकोलाहलरम्यशोभैः सरोभिरुद्यामसरोजगन्धैर् भवन्तु हृद्याः नरकप्रदेशाः // Bca_10.7
सो ऽङ्गारराशिर्मणिराशिरस्तु तप्ता च भूः स्फाटिककुट्टिमं स्यात् भवन्तु संघातमहीधराश्च पूजाविमानाः सुगतप्रपूर्णाः // Bca_10.8
अङ्गारतप्तोपलशस्त्रवृष्टिर् अद्यप्रभृत्यस्तु च पुष्पवृष्टिः तच्छस्त्रयुद्धं च परस्परेण कीडार्थमद्यास्तु च पुष्पयुद्धम् // Bca_10.9
पतितसकलमांसाः कुन्दवर्णास्थिदेहा दहनसमजलायां वैतरण्यां निमग्नाः मम कुशलबलेन प्राप्तदिव्यात्मभावाः सह सुरवनिताभिः सन्तु मन्दाकिनीस्थाः // Bca_10.10
त्रस्ताः पश्यन्त्वकस्मादिह यमपुरुषाः काकगृध्राश्च घोराः ध्वान्तं ध्वस्तं समन्तात् सुखरतिजननी कस्य सौम्या प्रभेयम् इत्यूर्ध्वं प्रेक्षमाणा गगनतलगतं वज्रपाणिं ज्वलन्तं दृष्ट्वा प्रामोद्यवेगाद् व्यपगतदुरिता यांतु तेनैव सार्धम् // Bca_10.11
पततु कमलवृष्टिर्गन्धपानीयमिश्राच् छमिति नरकवह्निं दृश्यते नाशयन्ती किमिदमिति सुखेनाह्लादितं नाम कस्माद् भवतु कमलपाणेर्दर्शनं नारकाणाम् // Bca_10.12
आयातायात शीघ्रं भयमपनयत भ्रातरो जीविताः स्मः संप्राप्तो ऽस्माकमेष ज्वलदभयकरः को ऽपि चीरी कुमारः सर्वं यस्यानुभावाद् व्यसनमपगतं प्रीतिवेगाः प्रवृत्ताः जातं संबोधिचित्तं सकलजनपरित्राणमाता दया च // Bca_10.13
पश्यन्त्वेनं भवन्तः सुरशतमुकुटैरर्च्यमानाङ्घ्रिपद्मं कारुण्यादार्द्रदृष्टिं शिरसि निपतितानेकपुष्पौघवृष्टिम् कूटागारैर्मनोज्ञैः स्तुतिमुखरसुरस्त्रीसहस्त्रोपगीतैर् दृष्ट्वाग्रे मञ्जुघोषं भवतु कलकलः सांप्रतं नारकाणाम् // Bca_10.14
इति मत्कुशलैः समन्तभद्रप्रमुखानावृतबोधिसत्त्वमेघान् सुखशीतसुगन्धवातवृष्टीन् अभिनन्दन्तु विलोक्य नारकास्ते // Bca_10.15
शाम्यन्तु वेदनास्तीव्रा नारकाणां भयानि च दुर्गतिभ्यो विमुच्यन्तां सर्वदुर्गतिवासिनः // Bca_10.16
अन्योन्यभक्षणभयं तिरश्चामपगच्छतु भवन्तु सुखिनः प्रेता यथोत्तरकुरौ नराः // Bca_10.17
संतर्प्यन्तां प्रेताः स्नाप्यन्तां शीतला भवन्तु सदा / आर्यावलोकितेश्वरकरगलितक्षीरधाराभिः // Bca_10.18*
अन्धाः पश्यन्तु रूपाणि शृण्वन्तु बधिराः सदा गर्भिण्यश्च प्रसूयन्तां मायादेवीव निर्व्यथाः // Bca_10.19
वस्त्रभोजनपानीयं स्रक्चन्दनविभूषणम् मनो ऽभिलषितं सर्वं लभन्तां हितसंहितम् // Bca_10.20
भीताश्च निर्भयाः सन्तु शोकार्ताः प्रीतिलाभिनः उद्विग्नाश्च निरुद्वेगा धृतिमन्तो भवन्तु च // Bca_10.21
आरोग्यं रोगिणामस्तु मुच्यन्तां सर्वबन्धनात् दुर्बला बलिनः सन्तु स्निग्धचित्ताः परस्परम् // Bca_10.22
सर्वा दिशः शिवाः सन्तु सर्वेषां पथिवर्तिनाम् येन कार्येण गच्छन्ति तदुपायेन सिध्यतु // Bca_10.23
नौयानयात्रारूढाश्च सन्तु सिद्धमनोरथाः क्षेमेण कूलमासाद्य रमन्तां सह बन्धुभिः // Bca_10.24
कान्तारोन्मार्गपतिता लभन्तां सार्थसंहतिम् अश्रमेण च गच्छन्तु चौरव्याघ्रादिनिर्भयाः // Bca_10.25
सुप्तमत्तप्रमत्तानां व्याध्यारण्यादिसंकटे अनाथबालवृद्धानां रक्षां कुर्वन्तु देवताः // Bca_10.26
सर्वाक्षणविनिर्मुक्ताः श्रद्धाप्रज्ञाकृपान्विताः आकाराचारसंपन्नाः सन्तु जातिस्मराः सदा // Bca_10.27
भवन्त्वक्षयकोशाश्च यावद् नगनगञ्जवत् निर्द्वन्द्वा निरुपायास्ताः सन्तु स्वाधीनवृत्तयः // Bca_10.28
अल्पौजसश्च ये सत्त्वास् ते भवन्तु महौजसः भवन्तु रूपसंपन्ना ये विरूपास्तपस्विनः // Bca_10.29
याः काश्चन स्त्रियो लोके पुरुषत्वं व्रजन्तु ताः प्राप्नुवन्तु च तां नीचा हतमाना भवन्तु च // Bca_10.30
अनेन मम पुण्येन सर्वसत्त्वा अशेषतः विरम्य सर्वपापेभ्यः कुर्वन्तु कुशलं सदा // Bca_10.31
बोधिचित्ताविरहिता बोधिचर्यापरायणाः बुद्धैः परिगृहीताश्च मारकर्मविवर्जिताः // Bca_10.32
अप्रमेयायुषश्चैव सर्वसत्त्वा भवन्तु ते नित्यं जीवन्तु सुखिता मृत्युशब्दो ऽपि नश्यतु // Bca_10.33
रम्याः कल्पद्रुमोद्यानैः दिशः सर्वा भवन्तु च बुद्धबुद्धात्मजाकीर्णा धर्मध्वनिमनोहरैः // Bca_10.34
शर्करादिव्यपेता च समा पाणितलोपमा मृद्वी च वैदूर्यमयी भूमिः सर्वत्र तिष्ठतु // Bca_10.35
बोधिसत्त्वमहापर्षन्मण्डलानि समन्ततः निषीदन्तु स्वशोभामिर् मण्डयन्तु महीतलम् // Bca_10.36
पक्षिभ्यः सर्ववृक्षेभ्यो रश्मिभ्यो गगनादपि धर्मध्वनिरविश्रामं श्रूयतां सर्वदेहिभिः // Bca_10.37
बुद्धबुद्धसुतैर्नित्यं लभन्तां ते समागमम् पूजामेघैरनन्तैश्च पूजयन्तु जगद्गुरुम् // Bca_10.38
देवो वर्षतु कालेन शस्यसंपत्तिरस्तु च स्फीतो भवतु लोकश्च राजा भवतु धार्मिकः // Bca_10.39
शक्ता भवन्तु चौषध्यो मन्त्राः सिद्धन्तु जापिनाम् भवन्तु करुणाविष्टा डाकिनीराक्षसादयः // Bca_10.40
मा कश्चिद्दुःखितः सत्त्वो मा पापी मा च रोगितः मा हीनः परिभूतो वा मा भूत् कश्चिच्च दुर्मनाः // Bca_10.41
पाठस्वाध्यायकलिला विहाराः सन्तु सुस्थिताः नित्यं स्यात् संघसामग्री संघकार्यं च सिध्यतु // Bca_10.42
विवेकलाभिनः सन्तुः शिक्षाकामाश्च भिक्षवः कर्मण्यचित्ता ध्यायन्तु सर्वविक्षेपवर्जिताः // Bca_10.43
लाभिन्यः सन्तु भिक्षुण्यः कलहायासवर्जिताः भवन्त्वखण्डशीलाश्च सर्वे प्रव्रजितास्तथा // Bca_10.44
दुःशीलाः सन्तु संविग्नाः पापक्षयरताः सदा सुगतेर्लाभिनः सन्तु तत्र चाखण्डितव्रताः // Bca_10.45
पण्डिताः सत्कृताः सन्तु लाभिनः पैण्डपातिकाः भवन्तु शुद्धसंतानाः सर्वदिक्ख्यातकीर्तयः // Bca_10.46
अभुक्त्वापायिकं दुःखं विना दुस्करचर्यया दिव्येनैकेन कायेन जगद्बुद्धत्वमाप्नुयात् // Bca_10.47
पूज्यन्तां सर्वसंबुद्धाः सर्वसत्त्वैरनेकधा अचिन्त्यबौद्धसौख्येन सुखिनः सन्तु भूयसा // Bca_10.48
सिध्यन्तु बोधिसत्त्वानां जगदर्थं मनोरथाः यच्चिन्तयन्ति ते नाथास् तत् सत्त्वानां समृध्यतु // Bca_10.49
प्रत्येकबुद्धाः सुखिनो भवन्तु श्रावकास्तथा देवासुरनरैर्नित्यं पूज्यमानाः सगौरवैः // Bca_10.50
जातिस्मरत्वं प्रव्रज्याम् अहं च प्राप्नुयां सदा यावत् प्रमुदितां भूमिं मञ्जुघोषपरिग्रहात् // Bca_10.51
येन तेनासनेनाहं यापयेयं बलान्वितः विवेकवाससामग्रीं प्राप्नुयां सर्वजातिषु // Bca_10.52
यदा च द्रष्टुकामः स्यां प्रष्टुकामश्च किंचन तमेव नाथं पश्येयं मञ्जुनाथमविघ्नतः // Bca_10.53
दशदिग्व्योमपर्यन्तसर्वसत्त्वार्थसाधने यदाचरति मञ्जुश्रीः सैव चर्या भवेन्मम // Bca_10.54
आकाशस्य स्थितिर्यावद् यावच्च जगतः स्थितिः तावन्मम स्थितिर्भूयाज् जगद्दुःखानि निघ्नतः // Bca_10.55
यत्किंचिज्जगतो दुःखं तत् सर्वं मयि पच्यताम् बोधिसत्त्वशुभैः सर्वैर् जगत् सुखितमस्तु च // Bca_10.56
जगद्दुःखैकभैषज्यं सर्वसंपत् सुखाकरम् लाभसत्कारसहितं चिरं तिष्ठतु शासनम् // Bca_10.57
मञ्जुघोषं नमस्यामि यत् प्रसादान्मतिः शुभे कल्याणमित्रं वन्दे ऽहं यत् प्रसादाच्च वर्धत इति // Bca_10.58
बोधिचर्यावतारे परिणामना परिच्छेदो दशमः ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
