Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/2

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

बोधिचर्यावतार

Tác giả
शान्तिदेव
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

शान्तिदेव: बोधिचर्यावतार

परिच्छेद 1

औम् नमो बुद्धाय ।

सुगतान् ससुतान् सधर्मकायान् प्रणिपत्यादरतो ऽखिलांश्च वन्द्यान् सुगतात्मजसंवरावतारं कथयिष्यामि यथागमं समासात् // Bca_1.1

न हि किंचिदपूर्वमत्र वाच्यं न च संग्रथनकौशलं ममास्ति अतएव न मे परार्थचिन्ता स्वमनो वासयितुं कृतं ममेदं // Bca_1.2

मम तावदनेन याति वृद्धिं कुशलं भावयितुं प्रसादवेगः अथ मत्समधातुरेव पश्येद् अपरो ऽप्येनमतो ऽपि सार्थको ऽयं // Bca_1.3

क्षणसंपदियं सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी यदि नात्र विचिन्त्यते हितं पुनरप्येष समागमः कुतः // Bca_1.4

रात्रौ यथा मेघघनान्धकारे विद्युत्क्षणं दर्शयति प्रकाशं बुद्धानुभावेन तथा कदाचिल्लोकस्य पुण्येषु मतिः क्षणं स्यात् // Bca_1.5

तस्माच्छुभं दुर्बलमेव नित्यं बलं तु पापस्य महत्सुघोरं तज्जीयते ऽन्येन शुभेन केन संबोधिचित्तं यदि नाम न स्यात् // Bca_1.6

कल्पाननल्पान् प्रविचिन्तयद्भिर् दृष्टं मुनीन्द्रैर्हितमेतदेव यतः सुखेनैव सुखं प्रवृद्धम् उत्प्लावयत्यप्रमिताञ्जनौघान् // Bca_1.7

भवदुःखशतानि तर्तुकामैर् अपि सत्त्वव्यसनानि हर्तुकामैः बहुसौख्यशतानि भोक्तुकामैर् न विमोच्यं हि सदैव बोधिचित्तं // Bca_1.8

भवचारकबन्धनो वराकः सुगतानां सुत उच्यते क्षणेन् न नरामरलोकवन्दनीयो भवति स्मोदित एव बोधिचित्ते // Bca_1.9

अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्घां रसजातमतीव वेधनीयं सुदृढं गृह्णत बोधिचित्तसंज्ञं // Bca_1.10

सुपरीक्षितमप्रमेयधीभिर् बहुमूल्यं जगदेकसार्थवाहैः गतिपत्तनविप्रवासशीलाः सुदृढं गृह्णत बोधिचित्तरत्नं // Bca_1.11

कदलीव फलं विहाय याति क्षयमन्यत्कुशलं हि सर्वमेव सततं फलति क्षयं न याति प्रसवत्येव तु बोधिचित्तवृक्षः // Bca_1.12

कृत्वापि पापानि सुदारुणानि यदाश्रयादुत्तरति क्षणेन शूराश्रयेणेव महाभयानि नाश्रीयते तत्कथमज्ञसत्त्वैः // Bca_1.13

युगान्तकालानलवन्महान्ति पापानि यन्निर्दहति क्षणेन यस्यानुशंसानमितानुवाच मैत्रेयनाथः सुधनाय धीमान् // Bca_1.14

तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च // Bca_1.15

गन्तुकामस्य गन्तुश्च यथा भेदः प्रतीयते तथा भेदो ऽनयोर्ज्ञेयो यथासंख्येन पण्डितैः // Bca_1.16

बोधिप्रणिधिचित्तस्य संसारे ऽपि फलं महत् न त्वविच्छिन्नपुण्यत्वं यथा प्रस्थानचेतसः // Bca_1.17

यतः प्रभृत्यपर्यन्तसत्त्वधातुप्रमोक्षणे समाददाति तच्चित्तम् अनिवर्त्येन चेतसा // Bca_1.18

ततः प्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः // Bca_1.19

इदं सुबाहुपृच्छायां सोपपत्तिकमुक्तवान् हीनाधिमुक्तिसत्त्वार्थं स्वयमेव तथागतः // Bca_1.20

शिरःशूलानि सत्त्वानां नाशयामीति चिन्तयन् अप्रमेयेण पुण्येन गृह्यते स्म हिताशयः // Bca_1.21

किमुताप्रमितं शूलम् एकैकस्य जिहीर्षतः अप्रमेयगुणं सत्त्वम् एकैकं च चिकीर्षतः // Bca_1.22

कस्य मातुः पितुर्वापि हिताशंसेयमीदृशी देवतानामृषीणां वा ब्रह्मणां वा भविष्यति // Bca_1.23

तेषामेव च सत्त्वानां स्वार्थे ऽप्येष मनोरथः नोत्पन्नपूर्वः स्वप्ने ऽपि परार्थे संभवः कुतः // Bca_1.24

सत्त्वरत्नविशेषो ऽयम् अपूर्वो जायते कथं यत्परार्थाशयो ऽन्येषां न स्वार्थे ऽप्युपजायते // Bca_1.25

जगदानन्दबीजस्य जगद्दुःखौषधस्य च चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयतां // Bca_1.26

हिताशंसनमात्रेण बुद्धपूजा विशिष्यते किं पुनः सर्वसत्त्वानां सर्वसौख्यार्थमुद्यमात् // Bca_1.27

दुःखमेवाभिधावन्ति दुःखनिःसरणाशया सुखेच्छयैव संमोहात् स्वसुखं घ्नन्ति शत्रुवत् // Bca_1.28

यस्तेषां सुखरङ्काणां पीडितानामनेकशः तृप्तिं पूर्वसुखैः कुर्यात् सर्वाः पीडाश्छिनत्ति च // Bca_1.29

नाशयत्यपि संमोहं साधुस्तेन समः कुतः कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः // Bca_1.30

कृते यः प्रतिकुर्वीत सो ऽपि तावत्प्रशस्यते अव्यापारितसाधुस्तु बोधिसत्त्वः किमुच्यतां // Bca_1.31

कतिपयजनसत्रदायकः कुशलकृदित्यभिपूज्यते जनैः क्षणमशनकमात्रदानतः सपरिभवं दिवसार्धयापनात् // Bca_1.32

किमु निरवधिसत्त्वसंख्यया निरवधिकालमनुप्रयच्छतः गगनजनपरिक्षयाक्षयं सकलमनोरथसंप्रपूरणं // Bca_1.33

इति सत्त्रपतौ जिनस्य पुत्त्रे कलुषं स्वे हृदये करोति यश्च कलुषोदयसंख्यया स कल्पान् नरकेष्वावसतीति नाथ आह // Bca_1.34

अथ यस्य मनः प्रसादमेति प्रसवेत्तस्य ततो ऽधिकं फलं महता हि बलेन पापकर्म जिनपुत्त्रेषु शुभं त्वयत्नतः // Bca_1.35

तेषां शरीराणि नमस्करोमि यत्रोदितं तद्वरचित्तरत्नं यत्रापकारो ऽपि सुखानुबन्धी सुखाकरांस्तान् शरणं प्रयामि // Bca_1.36

बोधिचर्यावतारे बोधिचित्तानुशंसा नाम प्रथमः परिच्छेदः ॥

परिच्छेद 2

तच्चित्तरत्नग्रहणाय सम्यक् पूजां करोम्येष तथागतानां सद्धर्मरत्नस्य च निर्मलस्य बुद्धात्मजानां च गुणोदधीनां // Bca_2.1

यावन्ति पुष्पाणि फलानि चैव भैषज्यजातानि च यानि सन्ति रत्नानि यावन्ति च सन्ति लोके जलानि च स्वच्छमनोरमाणि // Bca_2.2

महीधरा रत्नमयास्तथान्ये वनप्रदेशाश्च विवेकरम्याः लताः सपुष्पाभरणोज्ज्वलाश्च द्रुमाश्च ये सत्फलनम्रशाखाः // Bca_2.3

देवादिलोकेषु च गन्धधूपाः कल्पद्रुमा रत्नमयाश्च वृक्षाः सरांसि चाम्भोरुहभूषणानि हंसस्वनात्यन्तमनोहराणि // Bca_2.4

अकृष्टजातानि च शस्यजातान्य् अन्यानि वा पूज्यविभूषणानि आकाशधातुप्रसराविधीनि सर्वाण्यपीमान्यपरिग्रहाणि // Bca_2.5

आदाय बुद्ध्या मुनिपुङ्गवेभ्यो निर्यातयाम्येष सपुत्रकेभ्यः गृह्णन्तु तन्मे वरदक्षिणीया महाकृपा मामनुकम्पमानाः // Bca_2.6

अपुण्यवानस्मि महादरिद्रः पूजार्थमन्यन्मम नास्ति किंचित् अतो ममार्थाय परार्थचिन्ता गृह्णन्तु नाथा इदमात्मशक्त्या // Bca_2.7

ददामि चात्मानमहं जिनेभ्यः सर्वेण सर्वं च तदात्मजेभ्यः परिग्रहं मे कुरुताग्रसत्त्वाः युष्मासु दासत्वमुपैमि भक्त्या // Bca_2.8

परिग्रहेणास्मि भवत्कृतेन निर्भीर्भवे सत्त्वहितं करोमि पूर्वं च पापं समतिक्रमामि नान्यच्च पापं प्रकरोमि भूयः // Bca_2.9

रत्नोज्ज्वलस्तम्भमनोरमेषु मुक्तामयोद्भासिवितानकेषु स्वच्छोज्ज्वलस्फाटिककुट्टिमेषु सुगन्धिषु स्नानगृहेषु तेषु // Bca_2.10

मनोज्ञगन्धोदकपुष्पपूर्णैः कुम्भैर्महारत्नमयैरनेकैः स्नानं करोम्येष तथागतानां तदात्मजानां च सगीतवाद्यं // Bca_2.11

प्रधूपितैर्धौतमलैरतुल्यैर् वर्स्त्रैश्च तेषां तनुमुन्मृशामि ततः सुरक्तानि सुधूपितानि ददामि तेभ्यो वरचीवराणि // Bca_2.12

दिव्यैर्मृदुश्लक्ष्णविचित्रशोभैर् वस्त्रैरलङ्कारवरैश्च तैस्तैः समन्तभद्राजितमञ्जुघोषलोकेश्वरादीनपि मण्डयामि // Bca_2.13

सर्वत्रिसाहस्रविसारिगन्धैर् गन्धोत्तमैस्ताननुलेपयामि सूत्तप्तसून्मृष्टसुधौतहेमप्रभोज्ज्वलान्सर्वमुनीन्द्रकायान् // Bca_2.14

मन्दारवेन्दीवरमल्लिकाद्यैः सर्वैः सुगन्धैः कुसुमैर्मनोज्ञैः अभ्यर्चयाम्यर्च्यतमान्मुनीन्द्रान् स्रग्भिश्च संस्थानमनोरमाभिः // Bca_2.15

स्फीतस्फुरद्गन्धमनोरमैश्च तान्धूपमेघैरुपधूपयामि भौज्यैश्च स्वाद्यैर्विविधैश्च पेयैस् तेभ्यो निविद्यं च निवेदयामि // Bca_2.16

रत्नप्रदीपांश्च निवेदयामि सुवर्णपद्मेषु निविष्टपङ्क्वीन् गन्धोपलिप्तेषु च कुट्टिमेषु किरामि पुष्पप्रकरान्मनोज्ञान् // Bca_2.17

प्रलम्बमुक्तामणिहारशोभान् आभास्वरान्दिग्मुखमण्डनांस्तान् विमानमेघान् स्तुतिगीतरम्यान् मैत्रीमयेभ्यो ऽपि निवेदयामि // Bca_2.18

सुवर्णदण्डैः कमनीयरूपैः संसक्तमुक्तानि समुच्छ्रितानि प्रधारयाम्येष महामुनीनां रत्नातपत्राण्यतिशोभनानि // Bca_2.19

अतः परं प्रितष्ठन्तां पूजामेघा मनोरमाः तूर्यसङ्गीतिमेघाश्च सर्वसत्त्वप्रहर्षणाः // Bca_2.20

सर्वसद्धर्मरत्नेषु चैत्येषु प्रतिमासु च पुष्परत्नादिवर्षाश्च प्रवर्त्तन्तां निरन्तरम् // Bca_2.21

मञ्जुघोषप्रभृतयः पूजयन्ति यथा जिनान् तथा तथागतान्नाथान् सपुत्रान्पूजयाम्यहम् // Bca_2.22

स्वराङ्गसागरैः स्तोत्रैः स्तौमि चाहं गुणोदधीन् स्तुतिसङ्गीतिमेघाश्च संभवन्त्वेष्वनन्यथा // Bca_2.23

सर्वक्षेत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहं सर्वत्राध्वगतान्बुद्धान् सहधर्मगणोत्तमान् // Bca_2.24

सर्चचैत्यानि वन्दे ऽहं बोधिसत्त्वाश्रयांस्तथा नमः करोम्युपाध्यायान् अभिवन्द्यान्यतींस्तथा // Bca_2.25

बुद्धं गच्छामि शरणं यावदाबोधिमण्डतः धर्मं गच्छामि शरणं बोधिसत्त्वगणं तथा // Bca_2.26

विज्ञापयामि संबुद्धान् सर्वदिक्षु व्यवस्थितान् महाकारुणिकांश्चापि बोधिसत्त्वान्कृताञ्जलिः // Bca_2.27

अनादिमति संसारे जन्मन्यत्रैव वा पुनः यन्मया पशुना पापं कृतं कारितमेव वा // Bca_2.28

यच्चानुमोदितं किंचिद् आत्मघाताय मोहतः तदत्ययं देशयामि पश्चात्तापेन तापितः // Bca_2.29

रत्नत्रये ऽपकारो यो मातापितृषु वा मया गुरुष्वन्येषु वा क्षेपात् कायवाग्बुद्धिभिः कृतः // Bca_2.30

अनेकदोषदुष्टेन मया पापेन नायकाः यत्कृतं दारुणं पापं तत्सर्वं देशयाम्यहम् // Bca_2.31

कथं च निःसराम्यस्मान् नित्योद्वेगो ऽस्मि नायकाः मा भून्मे मृत्युरचिराद् अक्षीणे पापसंचये // Bca_2.32

कथं च निःसराम्यस्मात् परित्रायत सत्वरं मा ममाक्षीणपापस्य मरणं शीघ्रमेष्यति // Bca_2.33

कृताकृतापरीक्षो ऽयं मृत्युर्विश्रम्भघातकः स्वस्थास्वस्थैरविश्वास्य आकस्मिकमहाशनिः // Bca_2.34

प्रियाप्रियनिमित्तेन पापं कृतमनेकधा सर्वमुत्सृज्य गन्तव्यम् इति न ज्ञातमीदृशम् // Bca_2.35

तत्तत्स्मरणतां याति यद्यद्वस्त्वनुभूयते स्वप्नानुभूतवत्सर्वं गतं न पुनरीक्ष्यते // Bca_2.36

अप्रिया न भविष्यन्ति प्रियो मे न भविष्यति अहं च न भविष्यामि सर्वं च न भविष्यति // Bca_2.37

इहैव तिष्ठतस्तावद् गता नैके प्रियाप्रियाः तन्निमित्तं तु यत्पापं तत्स्थितं घोरमग्रतः // Bca_2.38

एवमागन्तुको ऽस्मीति न मया प्रत्यवेक्षितं मोहानुनयविद्वैषैः कृतं पापमनेकधा // Bca_2.39

रात्रिन्दिवमविश्रामम् आयुषो वर्धते व्ययः आयस्य चागमो नास्ति न मरिष्यामि किं न्वहम् // Bca_2.40

इह शय्यागतेनापि बन्धुमध्ये ऽपि तिष्ठता मयैवैकेन सोढव्या मर्मच्छेदादिवेदना // Bca_2.41

यमदूतैर्गृहीतस्य कुतो बन्धुः कुतः सुहृत् पुण्यमेकं तदा त्राणं मया तच्च न सेवितम् // Bca_2.42

अनित्यजीवितासङ्गाद् इदं भयमजानता प्रमत्तेन मया नाथा बहु पापमुपार्जितम् // Bca_2.43

अङ्गच्छेदार्थमप्यद्य नीयमानो विशुष्यति पिपासितो दीनदृष्टिर् अन्यदेवेक्षते जगत् // Bca_2.44

किं पुनर्भैरवाकारैर् यमदूतैरधिष्ठितः महात्रासज्वरग्रस्तः पुरीषोत्सर्गवेष्टितः // Bca_2.45

कातरैर्दृष्टिपातैश्च त्राणान्वेषी चतुर्दिशं को मे महाभयादस्मात् साधुस्त्राणं भविष्यति // Bca_2.46

त्राणशून्या दिशो दृष्ट्वा पुनः संमोहमागतः तदाहं किं करिष्यामि तस्मिन्स्थाने महाभये // Bca_2.47

अद्यैव शरणं यामि जगन्नाथान्महाबलान् जगद्रक्षार्थमुद्युक्तान् सर्वत्रासहरांजिनान् // Bca_2.48

तैश्चाप्यधिगतं धर्मं संसारभयनाशनं शरणं यामि भावेन बोधिसत्त्वगणं तथा // Bca_2.49

समस्तभद्रायात्मानं ददामि भयविह्वलः पुनश्च मञ्जुघोषाय ददाम्यात्मानमात्मना // Bca_2.50

तं चावलोकितं नाथं कृपाव्याकुलचारिणं विरौम्यार्तरवं भीतः स मां रक्षतु पापिनम् // Bca_2.51

आर्यमाकाशगर्भं च क्षितिगर्भं च भावतः सर्वान्महाकृपांश्चापि त्राणान्वेषी विरौम्यहम् // Bca_2.52

यं दृष्ट्वैव च संत्रस्ताः पलायन्ते चतुर्दिशं यमदूतादयो दुष्टास् तं नमस्यामि वज्रिणम् // Bca_2.53

अतीत्य युष्मद्वचनं साम्प्रतं भयदर्शनात् शरणं यामि वो भीतो भयं नाशयत द्रुतम् // Bca_2.54

इत्वरव्याधिभीतो ऽपि वैद्यवाक्यं न लङ्घयेत् किमु व्याधिशतैर्ग्रस्तश् चतुर्भिश्चतुरुत्तरैः // Bca_2.55

एकेनापि यतः सर्वे जम्बुद्वीपगता नराः नश्यन्ति येषां भैषज्यं सर्वदिक्षु न लभ्यते // Bca_2.56

तत्र सर्वज्ञवैद्यस्य सर्वशल्यापहारिणः वाक्यमुल्लङ्घयामीति धिङ्मामत्यन्तमोहितम् // Bca_2.57

अत्यप्रमत्तस्तिष्ठामि प्रपातेष्वितरेष्वपि किमु योजनसाहस्त्रे प्रपाते दीर्घकालिके // Bca_2.58

अद्यैव मरणं नेति न युक्ता मे सुखासिका अवश्यमेति सा वेला न भविष्याम्यहं यदा // Bca_2.59

अभयं केन मे दत्तं निःसरिष्यामि वा कथं अवश्यं न भविष्यामि कस्मान्मे सुस्थितं मनः // Bca_2.60

पूर्वानुभूतनष्टेभ्यः किं मे सारमवस्थितं येषु मे ऽभिनिविष्टेन गुरूणां लङ्घितं वचः // Bca_2.61

जीवलोकमिमं त्यक्त्वा बन्धून्परिचितांस्तथा एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः // Bca_2.62

इयमेव तु मे चिन्ता युक्ता रात्रिन्दिवं सदा अशुभान्नियतं दुःखं निःसरेयं ततः कथम् // Bca_2.63

मया बालेन मूढेन यत्किंचित्पापमाचितं प्रकृत्या यच्च सावद्यं प्रज्ञप्त्यावद्यमेव च // Bca_2.64

तत्सर्वं देशयाम्येष नाथानामग्रतः स्थितः कृताञ्जलिर्दुःखभीतः प्रणिपत्य पुनः पुनः // Bca_2.65

अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः न भद्रकमिदं नाथा न कर्त्तव्यं पुनर्मया // Bca_2.66

इति द्वितीयः परिच्छेदः ॥

परिच्छेद 3

अपायदुःखविश्रामं सर्वसत्त्वैः कृतंशुभं अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः // Bca_3.1

संसारदुःखनिर्मोक्षम् अनुमोदे शरीरिणां बोधिसत्त्वत्वबुद्धत्वम् अनुमोदे च तायिनाम् // Bca_3.2

चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान् सर्वसत्त्वहिताधानान् अनुमोदे च शासिनाम् // Bca_3.3

सर्वासु दिक्षु संबुद्धान् प्रार्थयामि कृताञ्जलिः धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम् // Bca_3.4

निर्वातुकामांश्च जिनान् याचयामि कृताञ्जलिः कल्पाननन्तांस्तिष्ठन्तु मा भूदन्धमिदं जगत् // Bca_3.5

एवं सर्वमिदं कृत्वा यन्मयासादितं शुभं तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत् // Bca_3.6

ग्लानानामस्मि भैषज्यं भवेयं वैद्य एव च तदुपस्थायकश्चैव यावद्रोगापुनर्भवः // Bca_3.7

क्षुत्पिपासाव्यथां हन्याम् अन्नपानप्रवर्षणैः दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम् // Bca_3.8

दरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः नानोपकरणाकारैर् उपतिष्ठेयमग्रतः // Bca_3.9

आत्मभावांस्तथा भोगान् सर्वत्राध्वगतं शुभं निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये // Bca_3.10

सर्वत्यागश्च निर्वाणं निर्वाणार्थि च मे मनः त्यक्तव्यं चेन्मया सर्वं वरं सत्त्वेषु दीयतां // Bca_3.11

यथासुखीकृतश्चात्मा मयायं सर्वदेहिनां घ्नन्तु निन्दन्तु वा नित्यम् आकिरन्तु च पांसुभिः // Bca_3.12

क्रीडन्तु मम कायेन हसन्तु विलसन्तु च दत्तस्तेभ्यो मया कायश् चिन्तया किं मयानया // Bca_3.13

कारयन्तु च कर्माणि यानि तेषां सुखावहं अनर्थः कस्यचिन्मा भून् मामालम्ब्य कदाचन // Bca_3.14

येषां क्रुद्धाप्रसन्ना वा मामालम्ब्य मतिर्भवेत् तेषां स एव हेतुः स्यान् नित्यं सर्वार्थसिद्धये // Bca_3.15

अभ्याख्यास्यन्ति मां ये च ये चान्ये ऽप्यपकारिणः उत्प्रासकास्तथान्ये ऽपि सर्वे स्युर्बोधिभागिनः // Bca_3.16

अनाथानामहं नाथः सार्थवाहश्च यायिनां पारेप्सूनां च नौभूतः सेतुः सङ्क्रम एव च // Bca_3.17

दीपार्थिनामहं दीपः शय्या शय्यार्थिनामहं दासार्थिनामहं दासो भवेयं सर्वदेहिनां // Bca_3.18

चिन्तामणिर्भद्रघटः सिद्धविद्या महौषधिः भवेयं कल्पवृक्षश्च कामधेनुश्च देहिनां // Bca_3.19

पृथिव्यादीनि भूतानि निःशेषाकाशवासिनां सत्त्वानामप्रमेयाणां यथाभोगान्यनेकधा // Bca_3.20

एवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा भवेयमुपजीव्यो ऽहं यावत्सर्वे न निर्वृताः // Bca_3.21

यथा गृहीतं सुगतैर् बोधिचित्तं पुरातनैः ते बोधिसत्त्वशिक्षायाम् आनुपूर्व्या यथा स्थिताः // Bca_3.22

तद्वदुत्पादयाम्येष बोधिचित्तं जगद्धिते तद्वदेव च ताः शिक्षाः शिक्षिष्यामि यथाक्रमं // Bca_3.23

एवं गृहीत्वा मतिमान् बोधिचित्तं प्रसादतः पुनः पृष्ठस्य पुष्ट्यर्थं चित्तमेवं प्रहर्षयेत् // Bca_3.24

अद्य मे सफलं जन्म सुलब्धो मानुषो भवः अद्य बुद्धकुले जातो बुद्धपुत्रो ऽस्मि साम्प्रतं // Bca_3.25

तथाधुना मया कार्यं स्वकुलोचितकारिणां निर्मलस्य कुलस्यास्य कलङ्को न भवेद्यथा // Bca_3.26

अन्धः सङ्करकूटेभ्यो यथा रत्नमवाप्नुयात् तथा कथंचिदप्येतद् बोधिचित्तं ममोदितं // Bca_3.27

जगन्मृत्युविनाशाय जातमेतद्रसायनं जगद्दारिद्र्यशमनं निधानमिदमक्षयं // Bca_3.28

जगद्व्याधिप्रशमनं भैषज्यमिदमुत्तमं भवाध्वभ्रमणश्रान्तो जगद्विश्रामपादपः // Bca_3.29

दुर्गत्युत्तरणे सेतुः सामान्यः सर्वयायिनां जगत्क्लेशोष्मशमन उदितश्चित्तचन्द्रमाः // Bca_3.30

जगदज्ञानतिमिरप्रोत्सारणमहारविः सद्धर्मक्षीरमथनान् नवनीतं समुत्थितं // Bca_3.31

सुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाध्वचारिणः सुखसत्रमिदं ह्युपस्थितं सकलाभ्यागतसत्त्वतर्पणं // Bca_3.32

जगदद्य निमन्त्रितं मया सुगतत्वेन सुखेन चान्तरा पुरतः खलु सर्वतायिनाम् अभिनन्दन्तु सुरासुरादयः // Bca_3.33

बोधिचर्यावतारे बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः ॥

परिच्छेद 4

एवं गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः // Bca_4.1

सहसा यत्समारब्धं सम्यग् यदविचारितं तत्र कुर्यान्नवेत्येवं प्रतिज्ञायापि युज्यते // Bca_4.2

विचारितं तु यद्बुद्धैर् महाप्राज्ञैश्च तत्सुतैः मयापि च यथाशक्ति तत्र किं परिलम्ब्यते // Bca_4.3

यदिचैवं प्रतिज्ञाय साधयेयं न कर्मणा एतां सर्वां विसंवाद्य का गतिर्मे भविष्यति // Bca_4.4

मनसा चिन्तयित्वापि यो न दद्यात्पुनर्नरः स प्रेतो भवतीत्युक्तम् अल्पमात्रे ऽपि वस्तुनि // Bca_4.5

किमुतानुत्तरं सौख्यम् उच्चैरुद्धुष्य भावतः जगत्सर्वं विसंवाद्य का गतिर्मे भविष्यति // Bca_4.6

वेत्ति सर्वज्ञ एवैताम् अचिन्त्यां कर्मणो गतिं यद्बोधिचित्तत्यागे ऽपि मोचयत्येव तान्नरान् // Bca_4.7

बोधिसत्त्वस्य तेनैवं सर्वापत्तिर्गरीयसी यस्मादापद्यमानो ऽसौ सर्व सत्त्वार्थहानिकृत् // Bca_4.8

यो ऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति तस्य दुर्गतिपर्यन्तो नास्ति सत्त्वार्थधातिनः // Bca_4.9

एकस्यापि हि सत्त्वस्य हितं हत्वा हतो भवेत् अशेषाकाशपर्यन्तवासिनां किमु देहिनां // Bca_4.10

एवमापत्तिबलतो बोधिचित्तबलेन च दोलायमानः संसारे भूमिप्राप्तश्चिरायते // Bca_4.11

तस्माद्यथा प्रतिज्ञातं साधनीयं मयादरात् नाद्य चेत्क्रियते यत्नस् तलेनास्मि तलं गतः // Bca_4.12

अप्रमेया गता बुद्धाः सर्वसत्त्वगवेषकाः नैषामहं स्वदोषेण चिकित्सागोचरं गतः // Bca_4.13

अद्यापि चेत्तथैव स्यां यथैवाहं पुनः पुनः दुर्गतिव्याधिमरणच्छेदभेदाद्यवाप्नुयां // Bca_4.14

कदा तथागतोत्पादं श्रद्धां मानुष्यमेव वा कुशलाभ्यासयोग्यत्वम् एवं लप्स्ये ऽति दुर्लभं // Bca_4.15

आरोग्यदिवसं चेदं सभक्तं निरुपद्रवं आयुः क्षणं विसंवादि कायो याचितकोपमः // Bca_4.16

नहीदृशैर्मच्चरितैर् मानुष्यं लभ्यते पुनः अलभ्यमाने मानुष्ये पापमेव कुतः शुभं // Bca_4.17

यदा कुशलयोग्यो ऽपि कुशलं न करोम्यहं अपायदुःखैः संमूढः किं करिष्याम्यहं तदा // Bca_4.18

अकुर्वतश्च कुशलं पापं चाप्युपचिन्वतः हतः सुगतशब्दो ऽपि कल्पकोटिशतैरपि // Bca_4.19

अत एवाह भगवान् मानुषमतिदुर्लभं महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमं // Bca_4.20

एकक्षणात्कृतात्पापाद् अवीचौ कल्पमाप्स्यते अनादिकालोपचितात् पापात्का सुगतौ कथा // Bca_4.21

न च तन्मात्रमेवासौ वेदयित्वा विमुच्यते यस्यात्तद्वेदयन्नेव पापमन्यत्प्रसूयते // Bca_4.22

नातःपरा वञ्चनास्ति न च मोहो ऽस्त्यतःपरः यदीदृशं क्षणं प्राप्य नाभ्यस्तं कुशलं मया // Bca_4.23

यदि चैवं विमृष्यामि पुनः सीदामि मोहितः शोचिष्यामि चिरं भूयो यमदूतैः प्रचोदितः // Bca_4.24

चिरं धक्ष्यति मे कायं नारकाग्निः सुदुःसहः पश्चात्तापानलश्चित्तं चिरं धक्ष्यतिनिश्चितं // Bca_4.25

कथंचिदपि संप्राप्तो हितभूमिं सुदुर्लभां जानन्नपि च नीयो ऽहं तानेव नरकान्पुनः // Bca_4.26

अत्र मे चेतना नास्ति मन्त्रैरिव विमोहितः न जाने केन मुह्यामि को ऽत्रान्तर्मम तिष्ठति // Bca_4.27

हस्तपादादिरहितास् तृष्णाद्वेषादिशत्रवः न शुरा न च ते प्राज्ञाः कथं दासीकृतो ऽस्मि तैः // Bca_4.28

मच्चित्तावस्थिता एव ध्नन्ति मामेव सुस्थिताः तत्राप्यहं न कुप्यामि धिगस्थानसहिष्णुतां // Bca_4.29

सर्वे देवा मनुष्याश्च यदि स्युर्मम शत्रवः ते ऽपि नावीचिकं वह्निं समुदानयितुं क्षमाः // Bca_4.30

मेरोरपि यदासङ्गान् न भस्माप्युपलभ्यते क्षणात्क्षिपन्ति मां तत्र बलिनः क्लेशशत्रवः // Bca_4.31

नहि सर्वान्यशत्रूणां दीर्घमायुरपीदृशं अनाद्यन्तं महादीर्घं यन्मम क्लेशवैरिणां // Bca_4.32

सर्वे हिताय कल्पन्ते आनुकूल्येन सेविताः सेव्यमानास्त्वमी क्लेशाः सुतरां दुःखकारकाः // Bca_4.33

इतिसततदीर्घवैरिषु व्यसनौघप्रसवैकहेतुषु हृदये निवसत्सु निर्भयं मम संसाररतिः कथं भवेत् // Bca_4.34

भवचारकपालका इमे नरकादिष्वपि वध्यघातकाः मतिवेश्मनि लोभपञ्जरे यदि तिष्ठति कुतः सुखं मम // Bca_4.35

तस्मान्न तावदहमत्र धुरं क्षिपामि यावन्न शत्रव इमे निहताः समक्षं खल्पे ऽपि तावदपकारिणि बद्धरोषा मानोन्नतास्तमनिहत्य न यान्ति निद्रां // Bca_4.36

प्रकृतिमरणदुःखितान्धकारान् रणशिरसि प्रसमं निहन्तुमुग्राः अगणितशरशक्तिघातदुःखा न विमुखतामुपयान्त्यसाधयित्वा // Bca_4.37

किमुत सततसर्वदुःखहेतून् प्रकृतिरिपूनुपहन्तुमुद्यतस्य भवति मम विषाददैन्यमद्य व्यसनशतैरपि केन हेतुना वै // Bca_4.38

अकारणेनैव रिपुक्षतानि गात्रेष्वलण्कारवदुद्वहन्ति महार्हसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मान्मम बाधकानि // Bca_4.39

स्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः शीतातपादिव्यसनं सहन्ते जगद्धितार्थं न कथं सहे ऽहम् // Bca_4.40

दशदिग्व्योमपर्यन्तजगत्क्लेशविमोक्षणे प्रतिज्ञाय महात्मापि न क्लेशेभ्यो विमोचितः // Bca_4.41

आत्मप्रमाणमज्ञात्वा ब्रुवन्नुन्मत्तकस्तदा अनिवर्त्ती भविष्यामि तस्मात्क्लेशवधे सदा // Bca_4.42

अत्र ग्रही भविष्यामि बद्धवैरश्च विग्रही अन्यत्र तद्विधात्क्लेशात् क्लेशघातानुबन्धिनः // Bca_4.43

गलन्त्वन्त्राणि मे कामं शिरः पततु नाम मे न त्वेवावनतिं यामि सर्वथा क्लेशवैरिणाम् // Bca_4.44

निर्वासितस्यापि तु नाम शत्रोर् देशान्तरे स्थानपरिग्रहः स्यात् यतः पुनः संभृतशक्तिरेति न क्लेशशत्रोर्गतिरीदृशी तु // Bca_4.45

क्वासौ यायान्मनःस्थो निरस्तः स्थित्वा यस्मिन्मद्वधार्थं यतेत नोद्योगो मे केवलं मन्दबुद्धेः क्लेशाः प्रज्ञादृष्टिसाध्या वराकाः // Bca_4.46

न क्लेशा विषयेषु नेन्द्रियगणे नाप्यन्तराले स्थिता नातो ऽन्यत्र कुहस्थिताः पुनरिमे मथ्नन्ति कृत्स्नं जगत् मायैवेयमतो विमुञ्च हृदयत्रासं भजस्वोद्यमं प्रज्ञार्थं किमकाण्ड एव नरकेष्वात्मानमाबाधसे // Bca_4.47

एवं विनिश्चित्य करोमि यत्नं यथोक्तशिक्षाप्रतिपत्तिहेतोः वैद्योपदेशाच्चलतः कुतो ऽस्ति भैषज्यसाध्यस्य निरामयत्वम् // Bca_4.48

बोधिचर्यावतारे बोधिसत्त्वशिक्षा चतुर्थः परिच्छेदः ॥

परिच्छेद 5

शिक्षां रक्षितुकामेन चित्तं रक्ष्यं प्रयत्नतः न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता // Bca_5.1

अदान्ता मत्तमातङ्गा न कुर्वन्तीह तां व्यथाम् करोति यामवीच्यादौ मुक्तश्चित्तमतङ्गजः // Bca_5.2

बद्धश्चेच्चितमातङ्गः स्मृतिरज्ज्वा समन्ततः भयमस्तं गतं सर्वं कृत्स्नं कल्याणमागतम् // Bca_5.3

ब्याघ्राः सिंहा गजा ऋक्षाः सर्पाः सर्वे च शत्रवः सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा // Bca_5.4

सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात् चित्तस्यैकस्य दमनात् सर्वे दान्ता भवन्ति च // Bca_5.5

यस्माद्भयानि सर्वाणि दुःखान्यप्रमितानि च चित्तादेव भवन्तीति कथितं तत्त्ववादिना // Bca_5.6

शस्त्राणि केन नरके घटितानि प्रयत्नतः तप्तायःकुट्टिमं केन कुतो जाताश्च ताः स्त्रियः // Bca_5.7

पापचित्तसमुद्भूतं तत्तत्सर्वं जगौ मुनिः तस्मान्न कश्चित्रैलोक्ये चित्तादन्यो भयानकः // Bca_5.8

अदरिद्रं जगत्कृत्वा दानपारमिता यदि जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम् // Bca_5.9

फलेन सह सर्वस्वत्यागचित्ताज्जने ऽखिले दानपारमिता प्रोक्ता तस्मात् सा चित्तमेव तु // Bca_5.10

मत्स्यादयः क्व नीयन्तां मारयेयं यतो न तान् लब्धे विरतिचित्ते तु शीलपारमिता मता // Bca_5.11

कियतो मारयिष्यामि दुर्जनान् गगनोपमान् मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः // Bca_5.12

भूमिं छादयितुं सर्वां कुतश्चर्म भविष्यति उपानच्चर्ममात्रेण छन्ना भवति मेदिनी // Bca_5.13

बाह्या भावा मया तद्वच् छक्या वारयितुं न हि स्वचित्तं वारयिष्यामि किं ममान्यैर्निवारितैः // Bca_5.14

सहापि वाक्छरीराभ्यां मन्दवृत्तेर्न तत्फलम् यत्पटोरेककस्यापि चित्तस्य ब्रह्मतादिकम् // Bca_5.15

जपास्तपांसि सर्वाणि दीर्घकालकृतान्यपि अन्यचित्तेन मन्देन वृथैवेत्याह सर्ववित् // Bca_5.16

दुःखं हन्तुं सुखं प्राप्तुं ते भ्रमन्ति मुधाम्बरे यैरेतद्धर्मसर्वस्वं चित्तं गुह्यं न भावितम् // Bca_5.17

तस्मात्स्वधिष्ठितं चित्तं मया कार्यं सुरक्षितम् चित्तरक्षाव्रतं मुक्त्वा बहुभिः किं मम व्रतैः // Bca_5.18

यथा चपलमध्यस्थो रक्षति व्रणमादरात् एवं दुर्जनमध्यस्थो रक्षेच्चित्तव्रणं सदा // Bca_5.19

व्रणदुःखलवाद्भीतो रक्षति व्रणमादरात् संघातपर्वताघाताद् भीतश्चित्तव्रणं न किम् // Bca_5.20

अनेन हि विहारेण विहरन् दुर्जनेष्वपि प्रमदाजनमध्ये ऽपि यतिर्धीरो न खण्ड्यते // Bca_5.21

लाभा नश्यन्तु मे कामं सत्कारः कायजीवितम् नश्यत्वन्यच्च कुशलं मा तु चित्तं कदाचन // Bca_5.22

चित्तं रक्षितुकामानां मयैष क्रियते ऽञ्जलिः स्मृतिं च संप्रजन्यं च सर्वयत्नेन रक्षत // Bca_5.23

व्याध्याकुलो नरो यद्वन् न क्षमः सर्वकर्मसु तथाभ्यां व्याकुलं चित्तं न क्षमं सर्वकर्मसु // Bca_5.24

असंप्रजन्यचित्तस्य श्रुतचिन्तितभावितम् सच्छिद्रकुम्भजलवन् न स्मृताववतिष्ठते // Bca_5.25

अनेके श्रुतवन्तो ऽपि श्राद्धा यत्नपरा अपि असंप्रजन्यदोषेण भवन्त्यापत्तिकश्मलाः // Bca_5.26

असंप्रजन्यचौरेण स्मृतिमोषानुसारिणा उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम् // Bca_5.27

क्लेशतस्करसङ्घो ऽयम् अवतारगवेषकः प्राप्यावतारं मुष्णाति हन्ति सद्गतिजीबितम् // Bca_5.28

तस्मात्स्मृतिर्मनोद्वारान् नापनेया कदाचन गतापि प्रत्युपस्थाप्या संस्मृत्यापायिकीं व्यथाम् // Bca_5.29

उपाध्यायानुशासिन्या भीत्याप्यादरकारिणाम् धन्यानां गुरुसंवासात् सुकरं जायते स्मृतिः // Bca_5.30

बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतेक्षणाः सर्वमेवाग्रतस्तेषां तेषामस्मि पुरः स्थितः // Bca_5.31

इति ध्यात्वा तथा तिष्ठेत् त्रपादरभयान्वितः बुद्धानुस्मृतिरप्येवं भवेत्तस्य मुहुर्मुहुः // Bca_5.32

संप्रजन्यं तदायाति न च यात्यागतं पुनः स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते // Bca_5.33

पूर्वं तावदिदं चित्तं सदोपस्थाप्यमीदृशम् निरिन्द्रियेणेव मया स्थातव्यं काष्ठवत्सदा // Bca_5.34

निष्फला नेत्रविक्षेपा न कर्त्तव्याः कदाचन निध्यायन्तीव सततं कार्या दृष्टिरधोगता // Bca_5.35

दृष्टिविश्रामहेतोस्तु दिशः पश्येत्कदाचन आभासमात्रं दृष्ट्वा च स्वागतार्थं विलोकयेत् // Bca_5.36

मार्गादौ भयबोधार्थं मुहुः पश्येच्चतुर्दिशम् दिशो विश्रम्य वीक्षेत परावृत्येव पृष्ठतः // Bca_5.37

सरेदपसरेद्वापि पुरः पश्चान्निरूप्य च एवं सर्वास्ववस्थासु कार्यं बुद्ध्वा समाचरेत् // Bca_5.38

कायेनैवमवस्थेयम् इत्याक्षिप्य क्रियां पुनः कथं कायः स्थित इति द्रष्टव्यं पुनरन्तरा // Bca_5.39

निरूप्यः सर्वयत्नेन चित्तमत्तद्विपस्तथा धर्मचिन्तामहास्तम्भे यथा बद्धो न मुच्यते // Bca_5.40

कुत्र मे वर्तत इति प्रत्यवेक्ष्यं तथा मनः समाधानधुरं नैव क्षणमप्युत्सृजेद्यथा // Bca_5.41

भयोत्सवादिसंबन्धे यद्यशक्तो यथासुखम् दानकाले तु शीलस्य यस्मादुक्तमुपेक्षणम् // Bca_5.42

यद्बुद्ध्वा कर्तुमारब्धं ततो ऽन्यन्न विचिन्तयेत् तदेव तावन्निष्पाद्यं तद्गतेनान्तरात्मना // Bca_5.43

एवं हि सुकृतं सर्वम् अन्यथा नोभयं भवेत् असंप्रजन्यक्लेशो ऽपि वृद्धिं चैवं गमिष्यति // Bca_5.44

नानाविधप्रलापेषु वर्तमानेष्वनेकधा कौतूहलेषु सर्वेषु हन्यादौत्सुक्यमागतम् // Bca_5.45

मृन्मर्दनतृणच्छेदरेखाद्यफलमागतम् स्मृत्वा ताथागतीं शिक्षां भीतस्तत्क्षणमुत्सृजेत् // Bca_5.46

यदा चलितुकामः स्याद् वक्तुकामो ऽपि वा भवेत् स्वचित्तं प्रत्यवेक्ष्यादौ कुर्याद्धैर्येण युक्तिमत् // Bca_5.47

अनुनीतं प्रतिहतं यदा पश्येत्स्वकं मनः न कर्तव्यं न वक्तव्यं स्थातव्यं काष्ठवत्तदा // Bca_5.48

उद्धतं सोपहासं वा यदा मानमदान्वितम् सोत्प्रासातिशयं वक्रं वञ्चकं च मनो भवेत् // Bca_5.49

यदात्मोत्कर्षणाभासं परपंसनमेव च साधिक्षेपं ससंरम्भं स्थातव्यं काष्ठवत्तदा // Bca_5.50

लाभसत्कारकीर्त्यर्थि परिवारार्थि वा पुनः उपस्थानार्थि मे चित्तं तस्मात्तिष्ठामि काष्ठवत् // Bca_5.51

परार्थरूक्षं स्वार्थार्थि परिषत्काममेव वा वक्तुमिच्छति मे चित्तं तस्मात्तिष्ठामि काष्ठवत् // Bca_5.52

असहिष्ण्वलसं भीतं प्रगल्भं मुखरं तथा स्वपक्षाभिनिविष्टं वा तस्मात्तिष्ठामि काष्ठवत् // Bca_5.53

एवं संक्लिष्टमालोक्य निष्फलारम्भि वा मनः निगृह्णीयाद् दृढं शूरः प्रतिपक्षेण तत्सदा // Bca_5.54

सुनिश्चितं सुप्रसन्नं धीरं सादरगौरवम् सलज्जं सभयं शान्तं पराराधनतत्परम् // Bca_5.55

परस्परविरुद्धाभिर् बालेच्छाभिरखेदितम् क्लेशोत्पादादिदं ह्येतद् एषामिति दयान्वितम् // Bca_5.56

आत्मसत्त्ववशं नित्यम् अनवद्येषु वस्तुषु निर्माणमिव निर्मानं धारयाम्येष मानसम् // Bca_5.57

चिरात्प्राप्तं क्षणवरं स्मृत्वा स्मृत्वा मुहुर्मुहुः धारयामीदृशं चित्तम् अप्रकम्प्यं सुमेरुवत् // Bca_5.58

गृध्रैरामिषसंगृद्धैः कृष्यमाण इतस्ततः न करोत्यन्यथा कायः कस्मादत्र प्रतिक्रियाम् // Bca_5.59

रक्षसीमं मनः कस्माद् आत्मीकृत्य समुच्छ्रयम् त्वत्तश्चेत्पृथगेवायं तेनात्र तव को व्ययः // Bca_5.60

न स्वीकरोषि हे मूढ काष्ठपुत्तलकं शुचिम् अमेध्यघटितं यन्त्रं कस्माद्रक्षसि पूतिकम् // Bca_5.61

इमं चर्मपुटं तावत् स्वबुद्ध्यैव पृथक् कुरु अस्थिपञ्जरतो मांसं प्रज्ञाशस्त्रेण मोचय // Bca_5.62

अस्थीन्यपि पृथक् कृत्वा पश्य मज्जानमन्ततः किमत्र सारमस्तीति स्वयमेव विचारय // Bca_5.63

एवमन्विष्य यत्नेन न दृष्टं सारमत्र ते अधुना वद कस्मात्त्वं कायमद्यापि रक्षसि // Bca_5.64

न खादितव्यमशुचि त्वया पेयं न शोणितम् नान्त्राणि चूषितव्यानि किं कायेन करिष्यसि // Bca_5.65

युक्तं गृध्रशृगालादेर् आहारार्थं तु रक्षितुम् कर्मोपकरणं त्वेतन् मनुष्याणां शरीरकम् // Bca_5.66

एवं ते रक्षतश्चापि मृत्युराच्छिद्य निर्दयः कायं दास्यति गृध्रेभ्यस् तदा त्वं किं करिष्यसि // Bca_5.67

न स्थास्यतीति भृत्याय न वस्त्रादि प्रदीयते कायो यास्यति खादित्वा कस्मात्त्वं कुरुषे व्ययम् // Bca_5.68

दत्त्वास्मै वेतनं तस्मात् स्वार्थं कुरु मनो ऽधुना नहि वैतनिकोपात्तं सर्वं तस्मै प्रदीयते // Bca_5.69

काये नौबुद्धिमाधाय गत्यागमननिश्चयात् यथाकामङ्गमं कायं कुरु सत्त्वार्थसिद्धये // Bca_5.70

एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत् त्यजेद् भृकुटिसङ्कोचं पूर्वाभाषी जगत्सुहृत् // Bca_5.71

सशब्दपातं सहसा न पीठादीन् विनिक्षिपेत् नास्फालयेत्कपाटं च स्यान्निःशब्दरुचिः सदा // Bca_5.72

बको बिडालश्चौरश्च निःशब्दो निभृतश्चरन् प्राप्नोत्यभिमतं कार्यम् एवं नित्यं यतिश्चरेत् // Bca_5.73

परचोदनदक्षाणाम् अनधीष्टोपकारिणाम् प्रतीच्छेच्छिरसा वाक्यं सर्वशिष्यः सदा भवेत् // Bca_5.74

सुभाषितेषु सर्वेषु साधुकारमुदीरयेत् पुण्यकारिणमालोक्य स्तुतिभिः संप्रहर्षयेत् // Bca_5.75

परोक्षं च गुणान् ब्रूयाद् अनुब्रूयाच्च तोषतः स्ववर्णे भाष्यमाणे च भावयेत्तद्गुणज्ञताम् // Bca_5.76

सर्वारम्भा हि तुष्ट्यर्थाः सा वित्तैरपि दुर्लभा भोक्ष्ये तुष्टिसुखं तस्मात् परश्रमकृतैर्गुणैः // Bca_5.77

न चात्र मे व्ययः कश्चित् परत्र च महत्सुखम् अप्रीतिदुःखं द्वेषैस्तु महद्दुःखं परत्र च // Bca_5.78

विश्वस्तविन्यस्तपदं विस्पष्टार्थं मनोरमम् श्रुतिसौख्यं कृपामूलं मृदुमन्दस्वरं वदेत् // Bca_5.79

ऋजु पश्येत्सदा सत्त्वांश् चक्षुषा संपिबन्निव एतानेव समाश्रित्य बुद्धत्वं मे भविष्यति // Bca_5.80

सातत्याभिनिवेशोत्थं प्रतिपक्षोत्थमेव च गुणोपकारिक्षेत्रे च दुःखिते च महच्छुभम् // Bca_5.81

दक्ष उत्थानसंपन्नः स्वयङ्कारी सदा भवेत् नावकाशः प्रदातव्यः कस्यचित्सर्वकर्मसु // Bca_5.82

उत्तरोत्तरतः श्रेष्ठा दानपारमितादयः नेतरार्थं त्यजेच्छ्रेष्ठाम् अन्यत्राचारसेतुतः // Bca_5.83

एवं बुद्ध्वा परार्थेषु भवेत्सततमुत्थितः निषिद्धमप्यनुज्ञातं कृपालोरर्थदर्शिनः // Bca_5.84

विनिपातगतानाथब्रतस्थान् संविभज्य च भुञ्जीत मध्यमां मात्रां त्रिचीवरबहिस्त्यजेत् // Bca_5.85

सद्धर्मसेबकं कायम् इतरार्थे न पीडयेत् एवमेव हि सत्त्वानाम् आशामाशु प्रपूरयेत् // Bca_5.86

त्यजेन्न जीवितं तस्माद् अशुद्धे करुणाशये तुल्याशये तु तत्त्याज्यम् इत्थं न परिहीयते // Bca_5.87

धर्मं निर्गौरवे स्वस्थे न शिरोवेष्ठिते वदेत् सच्छत्रदण्डशस्त्रे च नावगुण्ठितमस्तके // Bca_5.88

गम्भीरोदारमल्पेषु न स्त्रीषु पुरुषं विना हीनोत्कृष्टेषु धर्मेषु समं गौरवमाचरेत् // Bca_5.89

नोदारधर्मपात्रं च हीने धर्मे नियोजयेत् न चाचारं परित्यज्य सूत्रमन्त्रैः प्रलोभयेत् // Bca_5.90

दन्तकाष्ठस्य खेटस्य विसर्जनमपावृतम् नेष्टं जले स्थले भोग्ये मूत्रादेश्चापि गर्हितम् // Bca_5.91

मुखपूरं न भुञ्जीत सशब्दं प्रसृताननम् प्रलम्बपादं नासीत न बाहू मर्दयेत्समम् // Bca_5.92

नैकयाऽन्यस्त्रिया कुर्याद् यानं शयनमासनम् लोकाप्रसादकं सर्वं दृष्ट्वा पृष्ट्वा च वर्जयेत् // Bca_5.93

नाङ्गुल्या कारयेत्किंचिद् दक्षिणेन तु सादरम् समस्तेनैव हस्तेन मार्गमप्येवमादिशेत् // Bca_5.94

न बाहूत्क्षेपकं कंचिच् छब्दयेदल्पसंभ्रमे अच्छटादि तु कर्तव्यम् अन्यथा स्यादसंवृतः // Bca_5.95

नाथनिर्वाणशय्यावच् छयीतेप्सितया दिशा संप्रजान/ल्लघूत्थानः प्रागवश्यं नियोगतः // Bca_5.96

आचारो बोधिसत्त्वानाम् अप्रमेय उदाहृतः चित्तशोधनमाचारं नियतं तावदाचरेत् // Bca_5.97

रात्रिन्दिवं च त्रिस्कन्धं त्रिकालं च प्रवर्तयेत् शेषापत्तिशमस्तेन बोधिचित्तजिनाश्रयात् // Bca_5.98

या अवस्थाः प्रपद्येत स्वयं परवशो ऽपि वा तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः // Bca_5.99

न हि तद्विद्यते किंचिद् यन्न शिक्ष्यं जिनात्मजैः न तदस्ति न यत्पुण्यम् एवं विहरतः सतः // Bca_5.100

पारम्पर्येण साक्षाद्वा सत्त्वार्थं नान्यदाचरेत् सत्त्वानामेव चार्थाय सर्वं बोधाय नामयेत् // Bca_5.101

सदा कल्याणमित्रं च जीवितार्थे ऽपि न त्यजेत् बोधिसत्त्वव्रतधरं महायानार्थकोविदम् // Bca_5.102

श्रीसंभवविमोक्षाच्च शिक्षेद्यद्गुरुवर्तनम् एतच्चान्यच्च बुद्धोक्तं ज्ञेयं सूत्रान्तवाचनात् // Bca_5.103

शिक्षाः सूत्रेषु दृश्यन्ते तस्मात्सूत्राणि वाचयेत् आकाशगर्भे सूत्रे च मूलापत्तीर्निरूपयेत् // Bca_5.104

शिक्षासमुच्चयो ऽवश्यं द्रष्टव्यश्च पुनः पुनः विस्तरेण सदाचारो यस्मात्तत्र प्रदर्शितः // Bca_5.105

सङ्क्षेपेणाथवा तावत् पश्येत्सूत्रसमुच्चयम् आर्यनागार्जुनाबद्धं द्वितीयं च प्रयत्नतः // Bca_5.106

यतो निवार्यते यत्र यदेव च नियुज्यते तल्लोकचित्तरक्षार्थं शिक्षां दृष्ट्वा समाचरेत् // Bca_5.107

एतदेव समासेन संप्रजन्यस्य लक्षणम् यत्कायचित्तावस्थायाः प्रत्यवेक्षा मुहुर्मुहुः // Bca_5.108

कायेनैव पठिष्यामि वाक्पाठेन तु किं भवेत् चिकित्सापाठमात्रेण रोगिणः किं भविष्यति // Bca_5.109

इति बोधिचर्यावतारे संप्रजन्यरक्षणं नाम पञ्चमः परिच्छेदः ॥

परिच्छेद 6

सर्वमेतत्सुचरितं दानं सुगतपूजनम् कृतं कल्पसहस्रैर्यत् प्रतिघः प्रतिहन्ति तत् // Bca_6.1

न च द्वेषसमं पापं न च क्षान्तिसमं तपः तस्मात् क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः // Bca_6.2

मनः शमं न गृह्णाति न प्रीतिसुखमश्नुते न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते // Bca_6.3

पूजयत्यर्थमानैर्यान् ये ऽपि चैनं समाश्रिताः ते ऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम् // Bca_6.4

सुहृदो ऽप्युद्विजन्ते ऽस्माद् ददाति न च सेव्यते सङ्क्षेपान्नास्ति तत्किंचित् क्रोधनो येन सुस्थितः // Bca_6.5

एवमादीनि दुःखानि करोतीत्यरिसंज्ञया यः क्रोधं हन्ति निर्बन्धात् स सुखीह परत्र च // Bca_6.6

अनिष्टकरणाज्जातम् इष्टस्य च विघातनात् दौर्मनस्याशनं प्राप्य द्वेषो दृप्तो निहन्ति माम् // Bca_6.7

तस्माद्विघातयिष्यामि तस्याशनमहं रिपोः यस्मान्न मद्वधादन्यत् कृत्यमस्यास्ति वैरिणः // Bca_6.8

अत्यनिष्टागमेनापि न क्षोभ्या मुदिता मया दौर्मनस्ये ऽपि नास्तीष्टं कुशलं त्ववहीयते // Bca_6.9

यद्यस्त्येव प्रतीकारो दौर्मनस्येन तत्र किम् अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम् // Bca_6.10

दुःखं न्यक्कारपारुष्यम् अयशश्चेत्यनीप्सितम् प्रियाणामात्मनो वापि शत्रोश्चैतद्विपर्ययात् // Bca_6.11

कथंचिल्लभ्यते सौख्यं दुःखं स्थितमयन्ततः दुःखेनैव च निःसारश् चेतस्तस्माद्दृढीभव // Bca_6.12

दुर्गापुत्रककर्णाटा दाहच्छेदादिवेदनाम् वृथा सहन्ते मुक्त्यर्थम् अहं कस्मात्तु कातरः // Bca_6.13

न किंचिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम् तस्मान्मृदुव्यथाभ्यासात् सोढव्यापि महाव्यथा // Bca_6.14

उद्दंशदंशमशकक्षुत्पिपासादिवेदनाम् महत्कण्ड्वादिदुःखं च किमनर्थं न पश्यसि // Bca_6.15

शीतोष्णवृष्टिवाताधिव्याधिबन्धनताडनैः सौकुमार्यं न कर्तव्यम् अन्यथा वर्धते व्यथा // Bca_6.16

केचित्स्वशोणितं दृष्ट्वा विक्रमन्ते विशेषतः परशोणितमप्येके दृष्ट्वा मूर्च्छां व्रजन्ति यत् // Bca_6.17

तच्चित्तस्य दृढत्वेन कातरत्वेन चागतम् दुःखदुर्योधनस्तस्माद् भवेदभिभवेद्व्यथाम् // Bca_6.18

दुःखे ऽपि नैव चित्तस्य प्रसादं क्षोभयेद्बुधः सङ्ग्रामो हि सह क्लेशैर् युद्धे च सुलभा व्यथा // Bca_6.19

उरसारातिघातान् ये प्रतीच्छन्तो जयन्त्यरीन् ते ते विजयिनः शूराः शेषास्तु मृतमारकाः // Bca_6.20

गुणो ऽपरश्च दुःखस्य यत्संवेगान्मदच्युतिः संसारिषु च कारुण्यं पापाद्भीतिर्जिने स्पृहा // Bca_6.21

पित्तादिषु न मे कोपो महादुःखकरेष्वपि सचेतनेषु किं कोपः ते ऽपि प्रत्ययकोपिताः // Bca_6.22

अनिष्यमाणमप्येतच् छूलमुत्पद्यते यथा अनिष्यमाणो ऽपि बलात् क्रोध उत्पद्यते तथा // Bca_6.23

कुप्यामीति न संचिन्त्य कुप्यति स्वेच्छया जनः उत्पत्स्य इत्यभिप्रेत्य क्रोध उत्पद्यते न च // Bca_6.24

ये केचिदपराधास्तु पापानि विविधानि च सर्वं यत्प्रत्ययबलात् स्वतन्त्रं तु न विद्यते // Bca_6.25

न च प्रत्ययसामग्र्या जनयामीति चेतना न चापि जनितस्यास्ति जनितो ऽस्मीति चेतना // Bca_6.26

यत्प्रधानं किलाभीष्टं यत्तदात्मेति कल्पितम् तदेव हि भवामीति न संचिन्त्योपजायते // Bca_6.27

अनुत्पन्नं हि तन्नास्ति क इच्छेद्भवितुं तदा विषयव्यापृतत्वाच्च निरोद्धुमपि नेहते // Bca_6.28

नित्यो ह्यचेतनश्चात्मा व्योमवत् स्फुटमक्रियः प्रत्ययान्तरसङ्गे ऽपि निर्विकारस्य का क्रिया // Bca_6.29

यः पूर्ववत्क्रियाकाले क्रियायास्तेन किं कृतम् तस्य क्रियेति संबन्धे कतरत्तन्निबन्धनम् // Bca_6.30

एवं परवशं सर्वं यद्वशं सो ऽपि चावशः निर्माणवदचेष्टेषु भावेष्वेवं क्व कुप्यते // Bca_6.31

वारणापि न युक्तैवं कः किं वारयतीति चेत् युक्ता प्रतीत्यता यस्माद् दुःखस्योपरतिर्मता // Bca_6.32

तस्मादमित्रं मित्रं वा दृष्ट्वाप्यन्यायकारिणम् ईदृशाः प्रत्यया अस्येत्य् एवं मत्वा सुखी भवेत् // Bca_6.33

यदि तु खेच्छया सिद्धिः सर्वेषामेव देहिनाम् न भवेत्कस्यचिद्दुःखं न दुःखं कश्चिदिच्छति // Bca_6.34

प्रमादादात्मनात्मानं बाधन्ते कण्टकादिभिः भक्तच्छेदादिभिः कोपाद् दुरापस्त्र्यादिलिप्सया // Bca_6.35

उद्वन्धनप्रपातैश्च विषापथ्यादिभक्षणैः निघ्नन्ति केचिदात्मानम् अपुण्याचरणेन च // Bca_6.36

यदैवं क्लेशवश्यत्वाद् घ्नन्त्यात्मानमपि प्रियम् तदैषां परकायेषु परिहारः कथं भवेत् // Bca_6.37

क्लेशोन्मत्तीकृतेष्वेषु प्रवृत्तेष्वात्मघातने न केवलं दया नास्ति क्रोध उत्पद्यते कथम् // Bca_6.38

यदि स्वभावो बालानां परोपद्रवकारिता तेषु कोपो न युक्तो मे यथाग्नौ दहनात्मके // Bca_6.39

अथ दोषो ऽयमागन्तुः सत्त्वाः प्रकृतिपेशलाः यथाप्ययुक्तस्तत्कोपः कटुधूमे यथाम्बरे // Bca_6.40

मुख्यं दण्डादिकं हित्वा प्रेरके यदि कुप्यते द्वेषेण प्रेरितः सो ऽपि द्वेषे द्वेषो ऽस्तु मे वरम् // Bca_6.41

मयापि पूर्वं सत्त्वानाम् ईदृश्येव व्यथा कृता तस्मान्मे युक्तमेवैतत् सत्त्वोपद्रवकारिणः // Bca_6.42

तच्छस्त्रं मम कायश्च द्वयं दुःखस्य कारणम् तेन शस्त्रं मया कायो गृहीतः कुत्र कुप्यते // Bca_6.43

गण्डो ऽयं प्रतिमाकारो गृहीतो घट्टनासहः तृष्णान्धेन मया तत्र व्यथायां कुत्र कुप्यते // Bca_6.44

दुःखं नेच्छामि दुःखस्य हेतुमिच्छामि बालिशः स्वापराधागते दुःखे कस्मादन्यत्र कुप्यते // Bca_6.45

असिपत्रवनं यद्वद् यथा नारकपक्षिणः मत्कर्मजनिता एव तथेदं कुत्र कुप्यते // Bca_6.46

मत्कर्मचोदिता एव जाता मय्यपकारिणः येन यास्यन्ति नरकान् मयैवामी हता ननु // Bca_6.47

एतानाश्रित्य मे पापं क्षीयते क्षमतो बहु मामाश्रित्य तु यान्त्येते नरकान् दीर्घवेदनान् // Bca_6.48

अहमेवापकार्येषां ममैते चोपकारिणः कस्माद्विपर्ययं कृत्वा खलचेतः प्रकुप्यसि // Bca_6.49

भवेन्ममाशयगुणो न यामि नरकान्यदि एषामत्र किमायातं यद्यात्मा रक्षितो मया // Bca_6.50

अथ प्रत्यपकारी स्यां तथाप्येते न रक्षिताः हीयते चापि मे चर्या तस्मान्नष्टास्तपस्विनः // Bca_6.51

मनो हन्तुममूर्तत्वान् न शक्यं केनचित् क्वचित् शरीराभिनिवेशात्तु कायदुःखेन बाध्यते // Bca_6.52

न्यक्वारः परुषं वाक्यम् अयशश्चेत्ययं गणः कायं न बाधते तेन चेतः कस्मात्प्रकुप्यसि // Bca_6.53

मय्यप्रसादो यो ऽन्येषां स किं मां भक्षयिष्यति इह जन्मान्तरे वापि येनासौ मे ऽनभीप्सितः // Bca_6.54

लाभान्तरायकारित्वाद् यद्यसौ मे ऽनभीप्सितः नङ्क्ष्यतीहैव मे लाभः पापं तु स्थास्यति ध्रुवम् // Bca_6.55

वरमद्यैव मे मृत्युर् न मिथ्याजीवितं चिरम् यस्माच्चिरमपि स्थित्वा मृत्युदुःखं तदैव मे // Bca_6.56

स्वप्ने वर्षशतं सौख्यं भुक्त्वा यश्च विबुध्यते मुहूर्तमपरो यश्च सुखी भूत्वा विबुध्यते // Bca_6.57

ननु निवर्तते सौख्यं द्वयोरपि बिबुद्धयोः सैवोपमा मृत्युकाले चिरजीब्यल्पजीविनोः // Bca_6.58

लब्ध्वापि च बहू/ल्लाभान् चिरं भुक्त्वा सुखान्यपि रिक्तहस्तश्च नग्नश्च यास्यामि मुषितो यथा // Bca_6.59

पापक्षयं च पुण्यं च लाभाज्जीवन् करोमि चेत् पुण्यक्षयश्च पापं च लाभार्थं क्रुध्यतो ननु // Bca_6.60

यदर्थमेव जीवामि तदेव यदि नश्यति किं तेन जीवितेनापि केवलाशुभकारिणा // Bca_6.61

अवर्णवादिनि द्वेषः सत्त्वान्नाशयतीति चेत् परायशस्करे ऽप्येवं कोपस्ते किं न जायते // Bca_6.62

परायत्ताप्रसादत्वाद् अप्रसादिषु ते क्षमा क्लेशोत्पादपरायत्ते क्षमा नावर्णवादिनि // Bca_6.63

प्रतिमास्तूपसद्धर्मनाशकाक्रोशकेषु च न युज्यते मम द्वेषो बुद्धादीनां न हि ब्यथा // Bca_6.64

गुरुसालोहितादीनां प्रियाणां चापकारिषु पूर्ववत्प्रत्ययोत्पादं दृष्ट्वा कोपं निवारयेत् // Bca_6.65

चेतनाचेतनकृता देहिनां नियता व्यथा सा व्यथा चेतने दृष्टा क्षमस्वैनां व्यथामतः // Bca_6.66

मोहादेके ऽपराध्यन्ति कुप्यन्त्यन्ये ऽपि मोहिताः ब्रूमः कमेषु निर्दोषं कं वा ब्रूमो ऽपराधिनम् // Bca_6.67

कस्मादेवं कृतं पूर्वं येनैवं बाध्यसे परैः सर्वे कर्मपरायत्तः को ऽहमत्रान्यथाकृतौ // Bca_6.68

एवं बुद्ध्वा तु पुण्येषु तथा यत्नं करोम्यहम् येन सर्वे भविष्यन्ति मैत्रचित्ताः परस्परम् // Bca_6.69

दह्यमाने गृहे यद्वद् अग्निर्गत्वा गृहान्तरम् तृणादौ यत्र सज्येत तदाकृष्यापनीयते // Bca_6.70

एवं चित्तं यदासङ्गाद् दह्यते द्वेषवह्निना तत्क्षणं तत्परित्याज्यं पुण्यात्मोद्दाहशङ्कया // Bca_6.71

मारणीयः कथं छित्त्वा मुक्तश्चेत्किमभद्रकम् मनुष्यदुःखैर्नरकान् मुक्तश्चेत्किमभद्रकम् // Bca_6.72

यद्येतन्मात्रमेवाद्य दुःखं सोढुं न पार्यते तन्नारकव्यथाहेतुः क्रोधः कस्मान्न वार्यते // Bca_6.73

कोपार्थमेवमेवाहं नरकेषु सहस्रशः कारितो ऽस्मि न चात्मार्थः परार्थो वा कृतो मया // Bca_6.74

न चेदं तादृशं दुःखं महार्थं च करिष्यति जगद्दुःखहरे दुःखे प्रीतिरेवात्र युज्यते // Bca_6.75

यदि प्रीतिसुखं प्राप्तम् अन्यैः स्तुत्वा गुणोर्जितम् मनस्त्वमपि तं स्तुत्वा कस्मादेवं न हृष्यसि // Bca_6.76

इदं च ते हृष्टिसुखं निरवद्यं सुखोदयम् न वारितं च गुणिभिः परावर्जनमुत्तमम् // Bca_6.77

तस्यैव सुखमित्येवं तवेदं यदि न प्रियम् भृतिदानादिविरतेर् दृष्टादृष्टं हतं भवेत् // Bca_6.78

स्वगुणे कीर्त्यमाने च परसौख्यमपीच्छसि कीर्त्यमाने परगुणे स्वसौख्यमपि नेच्छसि // Bca_6.79

बोधिचित्तं समुत्पाद्य सर्वसत्त्वसुखेच्छया स्वयं लब्धसुखेष्वद्य कस्मात्सत्त्वेषु कुप्यसि // Bca_6.80

त्रैलोक्यपूज्यं बुद्धत्वं सत्त्वानां किन्न वाञ्छसि सत्कारमित्वरं दृष्ट्वा तेषां किं परिदह्यसे // Bca_6.81

पुष्णाति यस्त्वया पोष्यं तुभ्यमेव ददाति सः कुटुम्बजीविनं लव्ध्वा न हृष्यसि प्रकुप्यसि // Bca_6.82

स किं नेच्छति सत्त्वानां यस्तेषां बोधिमिच्छति बोधिचित्तं कुतस्तस्य यो ऽन्यसंपदि कुप्यति // Bca_6.83

यदि तेन न तल्लब्धं स्थितं दानपतेर्गृहे सर्वथापि न तत्ते ऽस्ति दत्तादत्तेन तेन किम् // Bca_6.84

किं वारयतु पुण्यानि प्रसन्नान् स्वगुणानथ लभमानो न गृह्णातु वद केन न कुप्यसि // Bca_6.85

न केवलं त्वमात्मानं कृतपापं न शोचसि कृतपुण्यैः सह स्पर्धाम् अपरैः कर्तुमिच्छसि // Bca_6.86

जातं चेदप्रियं शत्रोस् त्वत्तुष्ठ्या किं पुनर्भवेत् त्वदाशंसनमात्रेण न चाहेतुर्भविष्यति // Bca_6.87

अत त्वदिच्छया सिद्धं तद्दुःखे किं सुखं तव अथाप्यर्थो भवेदेवम् अनर्थः कोन्वतः परः // Bca_6.88

एतद्धि बडिशं घोरं क्लेशबाडिशिकार्पितम् यतो नरकपालास्त्वां क्रीत्वा पक्ष्यन्ति कुम्भिषु // Bca_6.89

स्तुतिर्यशो ऽथ सत्कारो न पुण्याय न चायुषे न बलार्थं न चारोग्ये न च कायसुखाय मे // Bca_6.90

एतावांश्च भवेत्स्वार्थो धीमतः स्वार्थवेदिनः मद्यद्यूतादि सेव्यं स्यान् मानसं सुखमिच्छता // Bca_6.91

यशो ऽर्थं हारयन्त्यर्थम् आत्मानं मारयन्त्यपि किमक्षराणि भक्ष्याणि मृते कस्य च तत्सुखम् // Bca_6.92

यथा पांशुगृहे भिन्ने रोदित्यार्तरवं शिशुः तथा स्तुतियशोहानौ स्वचित्तं प्रतिभाति मे // Bca_6.93

शब्दस्तावदचित्तत्वात् स मां स्तौतीत्यसंभवः परः किल मयि प्रीत इत्येतत्प्रीतिकारणम् // Bca_6.94

अन्यत्र मयि वा प्रीत्या किं हि मे परकीयया तस्यैव तत्प्रीतिसुखं भागो नाल्पो ऽपि मे ततः // Bca_6.95

तत्सुखेन सुखित्वं चेत् सर्वत्रैव ममास्तु तत् कस्मादन्यप्रसादेन सुखितेषु न मे सुखम् // Bca_6.96

तस्मादहं स्तुतो ऽस्मीति प्रीतिरात्मनि जायते तत्राप्येवमसंबन्धात् केवलं शिशुचेष्टितम् // Bca_6.97

स्तुत्यादयश्च मे क्षोभं संवेगं नाशयन्त्यमी गुणवत्सु च मात्सर्यं संपत्कोपं च कुर्वते // Bca_6.98

तस्मात्स्तुत्यादिघाताय मम ये प्रत्युपस्थिताः अपायपातरक्षार्थं प्रवृत्ता ननु ते मम // Bca_6.99

मुक्त्यर्थिनश्चायुक्तं मे लाभसत्कारबन्धनम् ये मोचयन्ति मां बन्धाद् द्वेषस्तेषु कथं मम // Bca_6.100

दुःखं प्रवेष्टुकामस्य ये कपाटत्वमागताः बुद्धाधिष्ठानत इव द्वेषस्तेषु कथं मम // Bca_6.101

पुण्यविघ्नः कृतो ऽनेनेत्य् अत्र कोपो न युज्यते क्षान्त्या समं तपो नास्ति नन्वेतत्तदुपस्थितम् // Bca_6.102

अथाहमात्मदोषेण न करोमि क्षमामिह मयैवात्र कृतो विघ्नः पुण्यहेतावुपस्थिते // Bca_6.103

यो हि येन विना नास्ति यस्मिंश्च सति विद्यते स एव कारणं तस्य स कथं विघ्न उच्यते // Bca_6.104

न हि कालोपपन्नेन दानविघ्नः कृतो ऽर्थिना न च प्रव्राजके प्राप्ते प्रव्रज्याविघ्न उच्यते // Bca_6.105

सुलभा याचका लोके दुर्लभास्त्वपकारिणः यतो मे ऽनपराधस्य न कश्चिदपराध्यति // Bca_6.106

अश्रमोपार्जितस्तस्माद् नृहे निधिरिवोत्थितः बोधिचर्यासहायत्वात् स्पृहणीयो रिपुर्मम // Bca_6.107

मया चानेन चोपात्तं तस्मादेतत्क्षमाफलम् एतस्मै प्रथमं देयम् एतत्पूर्वा क्षमा यतः // Bca_6.108

क्षमासिद्ध्याशयो नास्य तेन पूज्यो न चेदरिः सिद्धिहेतुरुचितो ऽपि सद्धर्मः पूज्यते कथम् // Bca_6.109

अपकाराशयो ऽस्येति शत्रुर्यदि न पूज्यते अन्यथा मे कथं क्षान्तिर् भिषजीव हितोद्यते // Bca_6.110

तद्दुष्टाशयमेवातः प्रतीत्योत्पद्यते क्षमा स एवातः क्षमाहेतुः पूज्यः सद्धर्मवन्मया // Bca_6.111

सत्त्वक्षेत्रं जिनक्षेत्रम् इत्यतो मुनिनोदितम् एतानाराध्य बहवः संपत्पारं यतो गताः // Bca_6.112

सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे समे जिनेषु गौरवं यद्वन् न सत्त्वेष्विति कः क्रमः // Bca_6.113

आशयस्य च माहात्म्यं न स्वतः किं तु कार्यतः समं च तेन माहात्म्यं सत्त्वानां तेन ते समाः // Bca_6.114

मैत्र्याशयश्च यत्पूज्यः सत्त्वमाहात्म्यमेव तत् बुद्धप्रसादाद्यत्पुण्यं बुद्धमाहात्म्यमेव तत् // Bca_6.115

बुद्धधर्मागमांशेन तस्मात्सत्त्वा जिनैः समाः न तु बुद्धैः समाः केचिद् अनन्तांशैर्गुणार्णवैः // Bca_6.116

गुणसारैकराशीनां गुणो ऽणुरपि चेत्क्वचित् दृश्यते तस्य पूजार्थं त्रैलोक्यमपि न क्षमम् // Bca_6.117

बुद्धधर्मोदयांशस्तु श्रेष्ठः सत्त्वेषु विद्यते एतदंशानुरूप्येण सत्त्वपूजा कृता भवेत् // Bca_6.118

किं च निश्छद्मबन्धूनाम् अप्रमेयोपकारिणाम् सत्त्वाराधनमुत्सृज्य निष्कृतिः का परा भवेत् // Bca_6.119

भिन्दन्ति देहं प्रविशन्त्यवीचीं येषां कृते तत्र कृते कृतं स्यात् महापकारिष्वपि तेन सर्वकल्याणमेवाचरणीयमेषु // Bca_6.120

स्वयं मम स्वामिन एव तावत् तदर्थमात्मन्यपि निर्व्यपेक्षाः अहं कथं स्वामिषु तेषु तेषु करोमि मानं न तु दासभावम् // Bca_6.121

येषां सुखे यान्ति मुदं मुनीन्द्रा येषां व्यथायां प्रविशन्ति मन्युम् तत्तोषणात्सर्वमुनीन्द्रतुष्टिस् तत्रापकारे ऽपकृतं मुनीनाम् // Bca_6.122

आदीप्तकायस्य यथा समन्तान् न सर्वकामैरपि सौमनस्यम् सत्त्वव्यथायामपि तद्वदेव न प्रीत्युपायो ऽस्ति दयामयानाम् // Bca_6.123

तस्मान्मया यज्जनदुःखदेन दुःखं कृतं सर्वमहाकृपाणाम् तदद्य पापं प्रतिदेशयामि यत्खेदितास्तन्मुनयः क्षमन्ताम् // Bca_6.124

आराधनायाद्य तथागतानां सर्वात्मना दास्यमुपैमि लोके कुर्वन्तु मे मूर्ध्नि पदं जनौघा विघ्नन्तु वा तुष्यतु लोकनाथः // Bca_6.125

आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिर्नैव हि संशयो ऽस्ति दृश्यन्त एते ननु सत्त्वरूपास् त एव नाथाः किमनादरो ऽत्र // Bca_6.126

तथागताराधनमेतदेव स्वार्थस्य संसाधनमेतदेव कोकस्य दुःखापहमेतदेव तस्मान्ममास्तु व्रतमेतदेव // Bca_6.127

यथैको राजपुरुषः प्रमथ्नाति महाजनम् विकर्तुं नैव शक्नोति दीर्घदर्शी महाजनः // Bca_6.128

यस्मान्नैव स एकाकी तस्य राजबलं बलम् तथा न दुर्बलं कंचिद् अपराद्धं विमानयेत् // Bca_6.129

यस्मान्नरकपालाश्च कृपावन्तश्च तद्बलम् तस्मादाराधयेत्सत्त्वान् भृत्यश्चण्डनृपं यथा // Bca_6.130

कुपितः किं नृपः कुर्याद् येन स्यान्नरकव्यथा यत्सत्त्वदौर्मनस्येन कृतेन ह्यनुभूयते // Bca_6.131

तुष्टः किं नृपतिर्दद्याद् यद्बुद्धत्वसमं भवेत् यत्सत्त्वसौमनस्येन कृतेन ह्यनुभूयते // Bca_6.132

आस्तां भविष्यद्बुद्धत्वं सत्त्वाराधनसंभवम् इहैव सौभाग्ययशः सौस्थित्यं किं न पश्यसि // Bca_6.133

प्रासादिकत्वमारोग्यं प्रामोद्यं चिरजीवितम् चक्रवर्तिसुखं स्फीतं क्षमी प्राप्नोति संसरन् // Bca_6.134

बोधिचर्यावतारे क्षान्तिपारमिता षष्ठः परिच्छेदः ॥

परिच्छेद 7

एवं क्षमो भजेद्वीर्यं वीर्ये बोधिर्यतः स्थिता न हि वीर्यं विना पुण्यं यथा वायुं विनागतिः // Bca_7.1

किं वीर्यं कुशलोत्साहस् तद्विपक्षः क उच्यते आलस्यं कुत्सितासक्तिर् विषादात्मावमन्यना // Bca_7.2

अव्यापारसुखास्वादनिद्रापाश्रयतृष्णया संसारदुःखानुद्वेगाद् आलस्यमुपजायते // Bca_7.3

क्लेशवागुरिकाघ्रातः प्रविष्टो जन्मवागुराम् किमद्यापि न जानासि मृत्योर्वदनमागतः // Bca_7.4

स्वयूथ्यान्मार्यमाणांस्त्वं क्रमेणैव न पश्यसि तथापि निद्रां यास्येव चण्डालमहिषो यथा // Bca_7.5

यमेनोद्वीक्ष्यमाणस्य बद्धमार्गस्य सर्वतः कथं ते रोचते भोक्तुं कथं निद्रा कथं रतिः // Bca_7.6

यावत्संभृतसंभारं मरणं शीघ्रमेष्यति संत्यज्यापि तदालस्यम् अकाले किं करिष्यसि // Bca_7.7

इदं न प्राप्तमारब्धम् इदमर्धकृतं स्थितम् अकस्मान्मृत्युरायातो हा हतो ऽस्मीति चिन्तयन् // Bca_7.8

शोकवेगसमुच्छूनसाश्रुरक्तेक्षणाननान् बन्धून् निराशान् संपश्यन् यमदूतमुखानि च // Bca_7.9

स्वपापस्मृतिसंतप्तः शृण्वन्नादांश्च नारकान् त्रासोच्चारविलिप्ताङ्गो विह्वलः किं करिष्यसि // Bca_7.10

जीवमत्स्य इवास्मीति युक्तं भयमिहैव ते किं पुनः कृतपापस्य तीव्रान्नरकदुःखतः // Bca_7.11

स्पृष्ट उष्णोदकेनापि सुकुमार प्रतप्यसे कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते // Bca_7.12

निरुद्यमफलाकाङ्क्षिन् सुकुमार बहुव्यथ मृत्युग्रस्तो ऽमराकार हा दुःखित विहन्यसे // Bca_7.13

मानुष्यं नावमासाद्य तर दुःखमहानदीम् मूढ कालो न निद्राया इयं नौर्दुर्लभा पुनः // Bca_7.14

मुक्त्वा धर्मरतिं श्रेष्ठाम् अनन्तरतिसंततिम् रतिरौद्धत्यहासादौ दुःखहेतौ कथं तव // Bca_7.15

अविषादबलव्यूहतात्पर्यात्मविधेयता परात्मसमता चैव परात्मपरिवर्तनम् // Bca_7.16

नैवावसादः कर्तव्यः कुतो मे बोधिरित्यतः यस्मात्तथागतः सत्यं सत्यवादीदमुक्तवान् // Bca_7.17

ते ऽप्यासन् दंशमशका मक्षिकाः कृमयस्तथा यैरुत्साहवशात् प्राप्ता दुरापा बोधिरुत्तमा // Bca_7.18

किमुताहं नरो जात्या शक्तो ज्ञातुं हिताहितम् सर्वज्ञनीत्यनुत्सर्गाद् बोधिं किं नाप्नुयामहम् // Bca_7.19

अथापि हस्तपादादि दातव्यमिति मे भयम् गुरुलाघवमूढत्वं तन्मे स्यादविचारतः // Bca_7.20

छेत्तव्यश्चास्मि भेत्तव्यो दाह्यः पाट्यो ऽप्यनेकशः कल्पकोटीरसंख्येया न च बोधिर्भविष्यति // Bca_7.21

इदं तु मे परिमितं दुःखं संबोधिसाधनम् नष्टशल्यव्यथापोहे तदुत्पादनदुःखवत् // Bca_7.22

सर्वे ऽपि वैद्याः कुर्वन्ति क्रियादुःखैररोगताम् तस्माद्बहूनि दुःखानि हन्तुं सोढव्यमल्पकम् // Bca_7.23

क्रियामिमामप्युचितां वरवैद्यो न दत्तवान् मधुरेणोपचारेण चिकित्सति महातुरान् // Bca_7.24

आदौ शाकादिदाने ऽपि नियोजयति नायकः तत्करोति क्रमात्पश्चाद् यत्स्वमांसान्यपि त्यजेत् // Bca_7.25

यदा शाकेष्विव प्रज्ञा स्वमांसे ऽप्युपजायते मांसास्थि त्यजतस्तस्य तदा किं नाम दुष्करम् // Bca_7.26

न दुःखी त्यक्तपापत्वात् पण्डितत्वान्न दुर्मनाः मिथ्याकल्पनया चित्ते पापात्काये यतो व्यथा // Bca_7.27

पुण्येन कायः सुखितः पाण्डित्येन मनः सुखि तिष्ठन् परार्थं संसारे कृपालुः केन खिद्यते // Bca_7.28

क्षपयन् पूर्वपापानि प्रतीच्छन् पुण्यसागरान् बोधिचित्तबलादेव श्रावकेभ्यो ऽपि शीघ्रगः // Bca_7.29

एवं सुखात्सुखं गच्छन् को विषीदेत्सचेतनः बोधिचित्तरथं प्राप्य सर्वखेदश्रमापहम् // Bca_7.30

छन्दस्थामरतिमुक्तिबलं सत्त्वार्थसिद्धये छन्दं दुःखभयात्कुर्याद् अनुशंसांश्च भावयन् // Bca_7.31

एवं विपक्षमुन्मूल्य यतेतोत्साहवृद्धये छन्दमानरतित्यागतात्पर्यवशिताबलैः // Bca_7.32

अप्रमेया मया दोषा हन्तव्याः स्वपरात्मनोः एकैकस्यापि दोषस्य यत्र कल्पार्णवैः क्षयः // Bca_7.33

तत्र दोषक्षयारम्भे लेशो ऽपि मम नेक्ष्यते अप्रमेयव्यथाभाज्ये नोरः स्फुटति मे कथम् // Bca_7.34

गुणा मयार्जनीयाश्च बहवः स्वपरात्मनोः तत्रैकैकगुणाभ्यासो भवेत्कल्पार्णवैर्न वा // Bca_7.35

गुणलेशे ऽपि नाभ्यासो मम जातः कदाचन वृथा नीतं मया जन्म कथंचिल्लब्धमद्भुतम् // Bca_7.36

न प्राप्तं भगवत्पूजामहोत्सवसुखं मया न कृता शासने कारा दरिद्राशा न पूरिता // Bca_7.37

भीतेभ्यो नाभयं दत्तम् आर्ता न सुखिनः कृताः दुःखाय केवलं मातुर् गतो ऽस्मि गर्भशल्यताम् // Bca_7.38

धर्मच्छन्दवियोगेन पौर्विकेण ममाधुना विपत्तिरीदृशी जाता को धर्मे छन्दमुत्सृजेत् // Bca_7.39

कुशलानां च सर्वेषां छन्दं मूलं मुनिर्जगौ तस्यापि मूलं सततं विपाकफलभावना // Bca_7.40

दुःखानि दौर्मनस्यानि भयानि विविधानि च अभिलाषविघाताश्च जायन्ते पापकारिणाम् // Bca_7.41

मनोरथः शुभकृतां यत्र यत्रैव गच्छति तत्र तत्रैव तत्पुण्यैः फलार्घेणाभिपूज्यते // Bca_7.42

पापकारिसुखेच्छा तु यत्र यत्रैव गच्छति तत्र तत्रैव तत्पापैर् दुःखशस्त्रैर्विहन्यते // Bca_7.43

विपुलसुगन्धिशीतलसरोरुहगर्भगता मधुरजिनस्वराशनकृतोपचितद्युतयः मुनिकरबोधिताम्बुजविनिर्गतसद्वपुषः सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः // Bca_7.44

यमपुरुषापनीतसकलच्छविरार्तरवो हुतवहतापविद्रुतकताम्रनिषिक्ततनुः ज्वलदसिशक्तिघातशतशातितमांसदलः पतति सुतप्तलोहधरणीष्वशुभैर्बहुशः // Bca_7.45

तस्मात्कार्यः शुभच्छन्दो भावयित्वैवमादरात् वज्रध्वजस्य विधिना मानं त्वारभ्य भावयेत् // Bca_7.46

पूर्वं निरूप्य सामग्रीम् आरभेन्नारभेत वा अनारम्भो वरं नाम न त्वारभ्य निवर्तनम् // Bca_7.47

जन्मान्तरे ऽपि सो ऽभ्यासः पापाद्दुःखं च वर्धते अन्यच्च कार्यकालं च हीनं तच्च न साधितम् // Bca_7.48

त्रिषु मानो विधातव्यः कर्मोपक्लेशशक्तिषु मयैवैकेन कर्तव्यम् इत्येषा कर्ममानिता // Bca_7.49

क्लेशस्वतन्त्रो लोको ऽयं न क्षमः स्वार्थसाधने तस्मान्मयैषां कर्तव्यं नाशक्तो ऽहं यथा जनः // Bca_7.50

नीचं कर्म करोत्यन्यः कथं मय्यपि तिष्ठति मानाच्चेन्न करोम्येतन् मानो नश्यतु मे वरम् // Bca_7.51

मृतं दुण्डुभमासाद्य काको ऽपि गरुडायते आपदाबाधते ऽल्पापि मनो मे यदि दुर्बलम् // Bca_7.52

विषादकृतनिश्चेष्ट आपदः सुकरा ननु व्युत्थितश्चेष्टमानस्तु महतामपि दुर्जयः // Bca_7.53

तस्माद्दृढेन चित्तेन करोम्यापदमापदः त्रैलोक्यविजिगीषुत्वं हास्यमापज्जितस्य मे // Bca_7.54

मया हि सर्वं जेतव्यम् अहं जेयो न केनचित् मयैष मानो वोढव्यो जिनसिंहसुतो ह्यहम् // Bca_7.55

ये सत्त्वा मानविजिता वराकास्ते न मानिनः मानी शत्रुवशं नैति मानशत्रुवशाश्च ते // Bca_7.56

मानेन दुर्गतिं नीता मानुष्ये ऽपि हतोत्सवाः परपिण्डाशिनो दासा मूर्खा दुर्दर्शनाः कृशाः // Bca_7.57

सर्वतः परिभूताश्च मानस्तब्धास्तपस्विनः ते ऽपि चेन्मानिनां मध्ये दीनास्तु वद कीदृशाः // Bca_7.58

ते मानिनो विजयिनश्च त एव शूरा ये मानशत्रुविजयाय वहन्ति मानम् ये तं स्फुरन्तमपि मानरिपुं निहत्य कामं जने जयफलं प्रतिपादयन्ति // Bca_7.59

संक्लेशपक्षमध्यस्थो भवेद्दृप्तः सहस्रशः दुर्योधनः क्लेशगणैः सिंहो मृगगणैरिव // Bca_7.60

महत्स्वपि हि कृच्छ्रेषु न रसं चक्षुरीक्षते एवं कृच्छ्रमपि प्राप्य न क्लेशवशगो भवेत् // Bca_7.61

यदेवापद्यते कर्म तत्कर्मव्यसनी भवेत् तत्कर्मशौण्डो ऽतृप्तात्मा क्रीडाफलसुखेप्सुवत् // Bca_7.62

सुखार्थं क्रियते कर्म तथापि स्यान्न वा सुखम् कर्मैव तु सुखं यस्य निष्कर्मा स सुखी कथम् // Bca_7.63

कामैर्न तृप्तिः संसारे क्षुरधारामधूपमैः पुण्यामृतैः कथं तृप्तिर् विपाकमधुरैः शिवैः // Bca_7.64

तस्मात्कर्मावसाने ऽपि निमज्जेत्तत्र कर्मणि यथा मध्याह्नसंतप्त आदौ प्राप्तसराः करी // Bca_7.65

बलनाशानुबन्धे तु पुनः कर्तुं परित्यजेत् सुसमाप्तं च तन्मुञ्चेद् उत्तरोत्तरतृष्णया // Bca_7.66

क्लेशप्रहारान् संरक्षेत् क्लेशांश्च प्रहरेद्दृढम् खड्गयुद्धमिवापन्नः शिक्षितेनारिणा सह // Bca_7.67

तत्र खड्गं यथा भ्रष्टं गृह्णीयात्सभयस्त्वरम् स्मृतिखड्गं तथा भ्रष्टं गृह्णीयान्नरकान् स्मरन् // Bca_7.68

विषं रुधिरमासाद्य प्रसर्पति यथा तनौ तथैव च्छिद्रमासाद्य दोषश्चित्ते प्रसर्पति // Bca_7.69

तैलपात्रधरो यद्वद् असिहस्तैरधिष्ठितः स्खलिते मरणत्रासात् तत्परः स्यात्तथा व्रती // Bca_7.70

तस्मादुत्सङ्गगे सर्पे यथोत्तिष्ठति सत्वरम् निद्रालस्यागमे तद्वत् प्रतिकुर्वीत सत्वरम् // Bca_7.71

एकैकस्मिंश्छले सुष्ठु परितप्य विचिन्तयेत् कथं करोमि येनेदं पुनर्मे न भवेदिति // Bca_7.72

संसर्गं कर्म वा प्राप्तम् इच्छेदेतेन हेतुना कथं नामास्ववस्थासु स्मृत्यभ्यासो भवेदिति // Bca_7.73

लघुं कुर्यात्तथात्मानम् अप्रमादकथां स्मरन् कर्मागमाद्यथा पूर्वं सज्जः सर्वत्र वर्तते // Bca_7.74

यथैव तूलकं वायोर् गमनागमने वशम् तथोत्साहवशं यायाद् ऋद्धिश्चैवं समृध्यति // Bca_7.75

बोधिचर्यावतारे वीर्यपारमिता नाम सप्तमः परिच्छेदः ॥

परिच्छेद 8

वर्धयित्वैवमुत्साहं समाधौ स्थापयेन्मनः विक्षिप्तचित्तस्तु नरः क्लेशदंष्ट्रान्तरे स्थितः // Bca_8.1

कायचित्तविवेकेन विक्षेपस्य न संभवः तस्माल्लोकं परित्यज्य वितर्कान् परिवर्जयेत् // Bca_8.2

स्नेहान्न त्यज्यते लोको लाभादिषु च तृष्णया तस्मादेतत्परित्यागे विद्वानेवं विभावयेत् // Bca_8.3

शमथेन विपश्यनासुयुक्तः कुरुते क्लेशविनाशमित्यवेत्य शमथः प्रथमं गवेषणीयः स च लोके निरपेक्षयाभिरत्या // Bca_8.4

कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः // Bca_8.5

अपश्यन्नरतिं याति समाधौ न च तिष्ठति न च तृप्यति दृष्ट्वापि पूर्ववद् बाध्यते तृषा // Bca_8.6

न पश्यति यथाभूतं संवेगादवहीयते दह्यते तेन शोकेन प्रियसंगमकाङ्क्षया // Bca_8.7

तच्चिन्तया मुधा याति ह्रस्वमायुर्मुहुर्मुहुः अशाश्वतेन मित्रेन धर्मो भ्रश्यति शाश्वतः // Bca_8.8

बालैः सभागचरितो नियतं याति दुर्गतिम् नेष्यते विषभागश्च किं प्राप्तं बालसंगमात् // Bca_8.9

क्षणाद् भवन्ति सुहृदो भवन्ति रिपवः क्षणात् तोषस्थाने प्रकुप्यन्ति दुराराधाः पृथग्जनाः // Bca_8.10

हितमुक्ताः प्रकुप्यन्ति वारयन्ति च मां हितात् अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम् // Bca_8.11

ईर्ष्योत्कृष्टात् समाद्वन्द्वो हीनान्मानः स्तुतेर्मदः अवर्णात् प्रतिघश्चेति कदा बालाद्धितं भवेत् // Bca_8.12

आत्मोत्कर्षः परावर्णः संसाररतिसंकथा इत्याद्यवश्यमशुभं किंचिद्बालस्य बालतः // Bca_8.13

एवं तस्यापि तत्सङ्गात् तेनानर्थसमागमः एकाकी विहरिष्यामि सुखमक्लिष्टमानसः // Bca_8.14

बालाद्दूरं पलायेत प्राप्तमाराधयेत् प्रियैः न संस्तवानुबन्धेन किंतूदासीनसाधुवत् // Bca_8.15

धर्मार्थमात्रमादाय भृङ्गवत् कुसुमान्मधु अपूर्व इव सर्वत्र विहरिष्याम्यसंस्तुतः // Bca_8.16

लाभी च सत्कृतश्चाहम् इच्छन्ति बहवश्च माम् इति मर्त्यस्य संप्राप्तान् मरणाज्जायते भयम् // Bca_8.17

यत्र तत्र रतिं याति मनः सुखाभिमोहितम् तत्तत्सहस्रगुणितं दुःखं भूत्वोपतिष्ठति // Bca_8.18

तस्मात् प्राज्ञो न तमिच्छेद् इच्छातो जायते भयम् स्वयमेव च यात्येतद् धैर्यं कृत्वा प्रतीक्षताम् // Bca_8.19

बहवो लाभिनो ऽभूवन् बहवश्च यशस्विनः सह लाभयशोभिस्ते न ज्ञाताः क्व गता इति // Bca_8.20

मामेवान्ये जुगुप्सन्ति किं प्रहृष्याम्यहं स्तुतः मामेवान्ये प्रशंसन्ति किं विषीदामि निन्दितः // Bca_8.21

नानाधिमुक्तिकाः सत्त्वा जिनैरपि न तोषिताः किं पुनर्मादृशैरज्ञैस् तस्मात् किं कोकचिन्तया // Bca_8.22

निन्दन्त्यलाभिनं सत्त्वम् अवध्यायन्ति लाभिनम् प्रकृत्या दुःखसंवासैः कथं तैर्जायते रतिः // Bca_8.23

न बालः कस्यचिन्मित्रम् इति चोक्तं तथागतैः न स्वार्थेन विना प्रीतिर् यस्माद्बालस्य जायते // Bca_8.24

स्वार्थद्वारेण या प्रीतिर् आत्मार्थं प्रीतिरेव सा द्रव्यनाशे यथोद्वेगः सुखहानिकृतो हि सः // Bca_8.25

नावध्यायन्ति तरवो न चाराध्याः प्रयत्नतः कदा तैः सुखसंवासैः सह वासो भवेन्मम // Bca_8.26

शून्यदेवकुले स्थित्वा वृक्षमूले गुहासु वा कदानपेक्षो यास्यामि पृष्ठतो ऽनवलोकयन् // Bca_8.27

अममेषु प्रदेशेषु विस्तीर्णेषु स्वभावतः स्वच्छन्दचार्यनिलयो विहरिष्याम्यहं कदा // Bca_8.28

मृत्पात्रमात्रविभवश् चौरासंभोगचीवरः निर्भयो विहरिष्यामि कदा कायमगोपयन् // Bca_8.29

कायभूमिं निजां गत्वा कङ्कालैरपरैः सह स्वकायं तुलयिष्यामि कदा शतनधर्मिणम् // Bca_8.30

अयमेव हि कायो मे एवं पूतिर्भविष्यति शृगाला अपि यद्गन्धान् नोपसर्पेयुरन्तिकम् // Bca_8.31

अस्यैकस्यापि कायस्य सहजा अस्थिखण्डकाः पृथक् पृथग्गमिष्यन्ति किमुतान्यः प्रियो जनः // Bca_8.32

एक उत्पद्यते जन्तुर् म्रियते चैक एव हि नान्यस्य तद्व्यथाभागः किं प्रियैर्विघ्नकारकैः // Bca_8.33

अध्वानं प्रतिपन्नस्य यथावासपरिग्रहः तथा भवाध्वगस्यापि जन्मावासपरिग्रहः // Bca_8.34

चतुर्भिः पुरुषैर्यावत् स न निर्धार्यते ततः आशोच्यमानो लोकेन तावदेव वनं व्रजेत् // Bca_8.35

असंस्तवाविरोधाभ्याम् एक एव शरीरकः पूर्वमेव मृतो लोके म्रियमाणो न शोचति // Bca_8.36

न चान्तिकचराः केचिच् छोचन्तः कुर्वते व्यथाम् बुद्धाद्यनुस्मृतिं चास्य विक्षिपन्ति न केचन // Bca_8.37

तस्मादेकाकिता रम्या निरायासा शिवोदया सर्वविक्षेपशमनी सेवितव्या मया सदा // Bca_8.38

सर्वान्यचिन्तानिर्मुक्तः स्वचित्तैकाग्रमानसः समाधानाय चित्तस्य प्रयतिष्ये दमाय च // Bca_8.39

कामा ह्यनर्थजनका इह लोके परत्र च इह बन्धवधच्छेदैर् नरकादौ परत्र च // Bca_8.40

यदर्थं दूतदूतीनां कृताञ्जलिरनेकधा न च पापमकीर्त्तिर्वा यदर्थं गणिता पुरा // Bca_8.41

प्रक्षिप्तश्च भये ऽप्यात्मा द्रविणं च व्ययीकृतम् यान्येव च परिष्वज्य वभूवोत्तमनिर्वृताः // Bca_8.42

तान्येवास्थीनि नान्यानि स्वाधीनान्यममानि च प्रकामं संपरिष्वज्य किं न गच्छसि निर्वृतिम् // Bca_8.43

उन्नाम्यमानं यत्नाद् यन् नीयमानमधो ह्रिया पुरा दृष्टमदृष्टं वा मुखं जालिकयावृतम् // Bca_8.44

तन्मुखं तूत्परिक्लेशम् असहद्भिरिवाधुना गृध्रैर्व्यक्तीकृतं पश्य किमिदानीं पलायसे // Bca_8.45

परचक्षुर्निपातेभ्यो ऽप्यासीद्यत्परिरक्षितम् तदद्य भक्षितं यावत् किमीर्ष्यालो न रक्षसि // Bca_8.46

मांसोच्छ्रयमिमं दृष्ट्वा गृध्रैरन्यैश्च भक्षितम् आहारः पूज्यते ऽन्येषां स्रक्चन्दनविभूषणैः // Bca_8.47

निश्चलादपि ते त्रासः कङ्कालादेवमीक्षितात् वेताडेनेव केनापि चाल्यमानाद् भयं न किम् // Bca_8.48

एकस्मादशनादेषां लालामेध्यं च जायते तत्रामेध्यमनिष्टं ते लालापानं कथं प्रियम् // Bca_8.49

तूलगर्भैर्मृदुस्पर्शै रमन्ते नोपधानकैः दुर्गन्धं न स्रवन्तीति कामिनो ऽमेध्यमोहिताः // Bca_8.50

यत्र च्छन्ने ऽप्ययं रागस् तदच्छन्नं किमप्रियम् न चेत्प्रयोजनं तेन कस्माच्छन्नं विमृद्यते // Bca_8.51

यदि ते नाशुचौ रागः कस्मादालिङ्गसे ऽपरम् मांसकर्दमसंलिप्तं स्नायुबद्धास्थिपञ्जरम् // Bca_8.52

स्वमेव बह्वमेध्यं ते तेनैव धृतिमाचर अमेध्यभस्त्रामपरां गूथघस्मर विस्मर // Bca_8.53

मांसप्रियो ऽहमस्येति द्रष्टुं स्प्रष्टुं च वाञ्छसि अचेतनं स्वभावेन मांसं त्वं कथमिच्छसि // Bca_8.54

यदिच्छसि न तच्चित्तं द्रष्टुं स्प्रष्टुं च शक्यते यच्च शक्यं न तद्वेत्ति किं तदालिङ्गसे मुधा // Bca_8.55

नामेध्यमयमन्यस्य कायं वेत्सीत्यनद्भुतम् स्वामेध्यमयमेव त्वं तं नावैषीति विस्मयः // Bca_8.56

विघनार्कांशुविकचं मुक्त्वा तरुणपङ्कजम् अमेध्यशौण्डचित्तस्य का रतिर्गूथपञ्जरे // Bca_8.57

मृदाद्यमेध्यलिप्तत्वाद् यदि न स्प्रष्टुमिच्छसि यतस्तन्निर्गतं कायात् तं स्प्रष्टुं कथमिच्छसि // Bca_8.58

यदि ते नाशुचौ रागः कस्मादालिङ्गसे परम् अमेध्यक्षेत्रसंभूतं तद्बीजं तेन वर्धितम् // Bca_8.59

अमेध्यभवमल्पत्वान् न वाञ्छस्यशुचिं कृमिम् बह्वमेध्यमयं कायम् अमेध्यजमपीच्छसि // Bca_8.60

न केवलममेध्यत्वम् आत्मीयं न जुगुप्ससि अमेध्यभाण्डानपरान् गूथघस्मर वाञ्छसि // Bca_8.61

कर्पूरादिषु हृद्येषु शाल्यन्नव्यञ्जनेषु वा मुखक्षिप्तविसृष्टेषु भूमिरप्यशुचिर्मता // Bca_8.62

यदि प्रत्यक्षमप्येतद् अमेध्यं नाधिमुच्यसे श्मशाने पतितान् घोरान् कायान् पश्यापरानपि // Bca_8.63

चर्मण्युत्पाटिते यस्माद् भयमुत्पद्यते महत् कथं ज्ञात्वापि तत्रैव पुनरुत्पद्यते रतिः // Bca_8.64

काये न्यस्तो ऽप्यसौ गन्धश् चन्दनादेव नान्यतः अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यते // Bca_8.65

यदि स्वभावदौर्गन्ध्याद् रागो नात्र शिवं ननु किमनर्थरुचिर्लोकस् तं गन्धेनानुलिम्पति // Bca_8.66

कायस्यात्र किमायातं सुगन्धि यदि चन्दनम् अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यते // Bca_8.67

यदि केशनखैर्दीर्घैर् दन्तैः समलपाण्डुरैः मलपङ्कधरो नग्नः कायः प्रकृतिभीषणः // Bca_8.68

स किं संस्क्रियते यत्नाद् आत्मघाताय शस्त्रवत् आत्मव्यामोहनोद्युक्तैर् उन्मत्तैराकुला मही // Bca_8.69

कङ्कालान् कतिचिद्दृष्ट्वा श्मशाने किल ते घृणा ग्रामश्मशाने रमसे चलत्कङ्कालसंकुले // Bca_8.70

एवं चामेध्यमप्येतद् विना मूल्यं न लभ्यते तदर्थमर्जनायासो नरकादिषु च व्यथा // Bca_8.71

शिशोर्नार्जनसामर्थ्यं केनासौ यौवने सुखी यात्यर्जनेन तारुण्यं वृद्धः कामैः करोति किम् // Bca_8.72

केचिद्दिनान्तव्यापारैः परिश्रान्ताः कुकामिनः गृहमागत्य सायाह्ने शेरते स्म मृता इव // Bca_8.73

दण्डयात्राभिरपरे प्रवासक्लेशदुःखिताः वत्सरैरपि नेक्षन्ते पुत्रदारांस्तदर्थिनः // Bca_8.74

यदर्थमिव विक्रीत आत्मा कामविमोहितैः तन्न प्राप्तं मुधैवायुर् नीतं तु परकर्मणा // Bca_8.75

विक्रीतस्वात्मभावानां सदा प्रेषणकारिणाम् प्रसूयन्ते स्त्रियो ऽन्येषाम् अटवीविटपादिषु // Bca_8.76

रणं जीवितसंदेहं विशन्ति किल जीवितम् मानार्थं दासतां यान्ति मूढाः कामविडम्बिताः // Bca_8.77

छिद्यन्ते कामिनः केचिद् अन्ये शूलसमर्पिताः दृश्यन्ते दह्यमानाश्च हन्यमानाश्च शक्तिभिः // Bca_8.78

अर्जनरक्षणनाशविषादैर् अर्थमनर्थमनन्तमवैहि व्यग्रतया धनसक्तमतीनां नावसरो भवदुःखविमुक्तेः // Bca_8.79

एवमादीनवो भूयान् अल्पास्वादस्तु कामिनाम् शकटं वहतो यद्वत् पशोर्घासलवग्रहः // Bca_8.80

तस्यास्वादलवस्यार्थे यः पशोरप्यदुर्लभः हता दैवहतेनेयं क्षणसंपत्सुदुर्लभा // Bca_8.81

अवश्यं गन्तुरल्पस्य नरकादिप्रपातिनः कायस्यार्थे कृतो यो ऽयं सर्वकालं परिश्रमः // Bca_8.82

ततः कोटिशतेनापि श्रमभागेन बुद्धता चर्यादुःखान्महद्दुःखं सा च बोधिर्न कामिनाम् // Bca_8.83

न शस्त्रं न विषं नाग्निर् न प्रपातो न वैरिणः कामानामुपमां यान्ति नरकादिव्यथास्मृतेः // Bca_8.84

एवमुद्विज्य कामेभ्यो विवेके जनयेद्रतिम् कलहायासशून्यासु शान्तासु वनभूमिषु // Bca_8.85

धन्यैः शशाङ्ककरचन्दनशीतलेषु रम्येषु हर्म्यविपुलेषु शिलातलेषु निःशब्दसौम्यवनमारुतवीज्यमानैः चंक्रम्यते परहिताय विचिन्त्यते च // Bca_8.86

विहृत्य यत्र क्वचिदिष्टकालं शून्यालये वृक्षतले गुहासु परिग्रहरक्षणखेदमुक्तः चरत्यपेक्षाविरतो यथेष्टम् // Bca_8.87

स्वच्छन्दचार्यनिलयः प्रतिबद्धो न कस्यचित् यत्संतोषसुखं भुङ्क्ते तदिन्द्रस्यापि दुर्लभम् // Bca_8.88

एवमादिभिराकारैर् विवेकगुणभावनात् उपशान्तवितर्कः सन् बोधिचित्तं तु भावयेत् // Bca_8.89

परात्मसमतामादौ भावयेदेवमादरात् समदुःखसुखाः सर्वे पालनीया मयात्मवत् // Bca_8.90

हस्तादिभेदेन बहुप्रकारः कायो यथैकः परिपालनीयः तथा जगद्भिन्नमभिन्नदुःखसुखात्मकं सर्वमिदं तथैव // Bca_8.91

यद्यप्यन्येषु देहेषु मद्दुःखं न प्रबाधते तथापि तद्दुःखमेव ममात्मस्नेहदुःसहम् // Bca_8.92

तथा यद्यप्यसंवेद्यम् अन्यद्दुःखं मयात्मना तथापि तस्य तद्दुःखम् आत्मस्नेहेन दुःसहम् // Bca_8.93

मयान्यदुःखं हन्तव्यं दुःखत्वादात्मदुःखवत् अनुग्राह्या मयान्ये ऽपि सत्त्वत्वादात्मसत्त्ववत् // Bca_8.94

यदा मम परेषां च तुल्यमेव सुखं प्रियम् तदात्मनः को विशेषो येनात्रैव सुखोद्यमः // Bca_8.95

यदा मम परेषां च भयं दुःखं च न प्रियम् तदात्मनः को विशेषो यत्तं रक्षामि नेतरम् // Bca_8.96

तद्दुःखेन न मे बाधेत्य् अतो यदि न रक्ष्यते नागामिकायदुःखान्मे बाधा तत्केन रक्ष्यते // Bca_8.97

अहमेव तदापीति मिथ्येयं प्रतिकल्पना अन्य एव मृतो यस्माद् अन्य एव प्रजायते // Bca_8.98

यदि यस्यैव यद्दुःखं रक्ष्यं तस्यैव तन्मतम् पाददुःखं न हस्तस्य कस्मात् तत्तेन रक्ष्यते // Bca_8.99

अयुक्तमपि चेदेतद् अहंकारात्प्रवर्तते यदयुक्तं निवर्त्यं तत् स्वमन्यच्च यथाबलम् // Bca_8.100

संतानः समुदायश्च पङ्क्तिसेनादिवन्मृषा यस्य दुःखं स नास्त्यस्मात् कस्य तत् स्वं भविष्यति // Bca_8.101

अस्वामिकानि दुःखानि सर्वाण्येवाविशेषतः दुःखत्वादेव वार्याणि नियमस्तत्र किंकृतः // Bca_8.102

दुःखं कस्मान्निवार्यं चेत् सर्वेषामविवादतः वार्यं चेत्सर्वमप्येवं न चेदात्मनि सर्ववत् // Bca_8.103

कृपया बहु दुःखं चेत् कस्मादुत्पद्यते बलात् जगद्दुःखं निरूप्येदं कृपादुःखं कथं बहु // Bca_8.104

बहूनामेकदुःखेन यदि दुःखं विगच्छति उत्पाद्यमेव तद्दुःखं सदयेन परात्मनोः // Bca_8.105

अतः सुपुष्पचन्द्रेण जानतापि नृपापदम् आत्मदुःखं न निहतं बहूनां दुःखिनां व्ययात् // Bca_8.106

एवं भावितसंतानाः परदुःखसमप्रियाः अवीचिमवगाहन्ते हंसाः पद्मवनं यथा // Bca_8.107

मुच्यमानेषु सत्त्वेषु ये ते प्रामोद्यसागराः तैरेव ननु पर्याप्तं मोक्षेणारसिकेन किम् // Bca_8.108

अतः परार्थं कृत्वापि न मदो न च विस्मयः न विपाकफलाकाङ्क्षा परार्थैकान्ततृष्णया // Bca_8.109

तस्माद्यथान्तशो ऽवर्णाद् आत्मानं गोपयाम्यहम् रक्षाचित्तं दयाचित्तं करोम्येवं परेष्वपि // Bca_8.110

अभ्यासादन्यदीयेषु शुक्रशोणितबिन्दुषु भवत्यहमिति ज्ञानम् असत्यपि हि वस्तुनि // Bca_8.111

तथाकायो ऽन्यदीयो ऽपि किमात्मेति न गृह्यते परत्वं तु स्वकायस्य स्थितमेव न दुष्करम् // Bca_8.112

ज्ञात्वा सदोषमात्मानं परानपि गुणोदधीन् आत्मभावपरित्यागं परादानं च भावयेत् // Bca_8.113

कायस्यावयवत्वेन यथाभीष्टाः करादयः जगतो ऽवयवत्वेन तथा कस्मान्न देहिनः // Bca_8.114

यथात्मबुद्धिरभ्यासात् स्वकाये ऽस्मिन् निरात्मके परेष्वपि तथात्मत्वं किमभ्यासान्न जायते // Bca_8.115

एवं परार्थं कृत्वापि न मदो न च विस्मयः आत्मानं भोजयित्वैव फलाशा न च जायते // Bca_8.116

तस्माद्यथार्तिशोकादेर् आत्मानं गोप्तुमिच्छसि रक्षाचित्तं दयाचित्तं जगत्यभ्यस्यतां तथा // Bca_8.117

अध्यतिष्ठदथो नाथः स्चनामाप्यवलोकितः पर्षच्छारद्यभयमप्य् अपनेतुं जनस्य हि // Bca_8.118

दुष्करान्न निवर्तेत यस्मादभ्यासशक्तितः यस्यैव श्रवणात्त्रासस् तेनैव न विना रतिः // Bca_8.119

आत्मानं च परांश्चैव यः शीघ्रं त्रातुमिच्छति स चरेत्परमं गुह्यं परात्मपरिवर्तनम् // Bca_8.120

यस्मिन्नात्मन्यतिस्नेहाद् अल्पादपि भयाद्भयम् न द्विषेत्कस्तमात्मानं शत्रुवद्यो भयावहः // Bca_8.121

यो मन्द्य क्षुत्पिपासादिप्रतीकारचिकीर्षया पक्षिमत्स्यमृगान् हन्ति परिपन्थं च तिष्ठति // Bca_8.122

यो लाभसत्क्रियाहेतोः पितरावपि मारयेत् रत्नत्रयस्वमादद्याद् येनावीचीन्धनो भवेत् // Bca_8.123

कः पण्डितस्तमात्मानम् इच्छेद्रक्षेत् प्रपूजयेत् न पश्येच्छत्रुवच्चैनं कश्चैनं प्रतिमानयेत् // Bca_8.124

यदि दास्यामि किं भोक्ष्य इत्यात्मार्थे पिशाचता यदि भोक्ष्ये किं ददामीति परार्थे देवराजता // Bca_8.125

आत्मार्थं पीडयित्वान्यं नरकादिषु पच्यते आत्मानं पीडयित्वा तु परार्थं सर्वसंपदः // Bca_8.126

दुर्गतिर्नीचता मौर्ख्यं ययैवात्मोन्नतीच्छया तामेवान्यत्र संक्राम्य सुगतिः सत्कृतिर्मतिः // Bca_8.127

आत्मार्थं परमाज्ञप्य दासत्वाद्यनुभूयते परार्थं त्वेनमाज्ञप्य स्वामित्वाद्यनुभूयते // Bca_8.128

ये केचिद् दुःखिता लोके सर्वे ते स्वसुखेच्छया ये केचित् सुखिता लोके सर्वे ते ऽन्यसुखेच्छया // Bca_8.129

बहुना वा किमुक्तेन दृश्यतामिदमन्तरम् स्वार्थार्थिनश्च बालस्य मुनेश्चान्यार्थकारिणः // Bca_8.130

न नाम साध्यं बुद्धत्वं संसारे ऽपि कुतः सुखम् स्वसुखस्यान्यदुःखेन परिवर्तमकुर्वतः // Bca_8.131

आस्तां तावत्परो लोको दृष्टो ऽप्यर्थो न सिध्यति भृत्यस्याकुर्वतः कर्म स्वामिनो ऽददतो भृतिम् // Bca_8.132

त्यक्त्वान्यो ऽन्यसुखोत्पादं दृष्टादृष्टसुखोत्सवम् अन्यो ऽन्यदुःखनाद्घोरं दुःखं गृह्णन्ति मोहिताः // Bca_8.133

उपद्रवा ये च भवन्ति कोके यावन्ति दुःखानि भयानि चैव सर्वाणि तान्यात्मपरिग्रहेण तत्किं ममानेन परिग्रहेण // Bca_8.134

आत्मानमपरित्यज्य दुःखं त्यक्तुं न शक्यते यथाग्निमपरित्यज्य दाहं त्यक्तुं न शक्यते // Bca_8.135

तस्मात्स्वदुःखशान्त्यर्थं परदुःखशमाय च ददाम्यन्येभ्य आत्मानं परान् गृह्णामि चात्मवत् // Bca_8.136

अन्यसंबद्धमस्मीति निश्चयं कुरु मे मनः सर्वसत्त्वार्थमुत्सृज्य नान्यच्चिन्त्यं त्वयाधुना // Bca_8.137

न युक्तं स्वार्थदृष्ट्यादि तदीयैश्चक्षुरादिभिः न युक्तं स्यन्दितुं स्वार्थम् अन्यदीयैः करादिभिः // Bca_8.138

तेन सत्त्वपरो भूत्वा काये ऽस्मिन्यद्यदीक्षसे तत्तदेवापहृत्यास्मात् परेभ्यो हितमाचर // Bca_8.139

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.