Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/2

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

प्रमाणवार्त्तिकटीका

Tác giả
शाक्यबुद्धि
Thông tin
GRETIL — M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

3 /// त्* / यथोक्तविधिना संबन्धिरूप एवेति / न स्वरूपेणाभिधीयते / तस्मान् नाभावत् संबन्धे ऽपि प्रसंग इति / अभावो यथा बुद्ध्या विषयीक्रियत इति / वाच्यः प्रसक्तो नैवं संबन्धे ऽपि वाच्यत्वम् इत्य् अर्थः / अभावो हि स्वेन रूपेण बुद्ध्या विषयीक्रियते शब्देनापि तथैवाभिधीयते / संबन्ध ///

4 /// प्य् अभिधीयते / संबन्धिरूपापन्नस्यैव विषयीकरणाहाभिन्नाच / तथा चाह असत्वभूतः संबन्धो रूपं तस्य न गृह्यते नाभिधानं स्वरूपेण संबन्धस्यास्ति किञ्चिन्नेति / तस्मात् स्थितम् एतद् विकल्पविषयो ऽवश्यं वाच्य इति / ततश् च यदि नास्ति संबन्ध इति मतिस् तदा तत्प्रभवो ऽपि शब्दः प्रवर्तत एव तथा चाभावविषयः .. ///

5 /// .ईकरणं नेष्यते / तदा नेह घट इत्य् अत्र कस्य निषेधो न तावद् देशादेस् तस्य सत्वात्* / न संबन्धस्य तदभावस्याग्रहणाद् इति यत्किञ्चिद् एतत्* / अपि चाभावम् अभिधेयं यो ब्रूते तं ब्रुवाणं प्रत्य् अयम् अभावनभिधानवादी अभावो न वाच्य इति / प्रतिविदधत्* / अब्रुवाणः कथं प्रतिविदध्यात्* / न ह्य् अभावशब्दम् अनुच्चारयता तस्यावाच्य .. ///

6 /// .. .. /// .. .. .. .. .. .. .. + + + .. .. + + .. नेनैवाभावशब्देन तस्योक्तः .. .. .. .. स्यात्* / कथंचन स्याद् अभावस्यैवानभ्युपगमात्* / अभावो नैवास्ति तेनासत्वाद् अवचनम् अभावस्येति चेद् आह / अथाभावम् एवेत्यादि / तेनेत्य् अभावस्यासंबन्धेन / इदानीम् इति अभावस्यासत्वे / तद् एवाभावो नास्तीति वचनं कथं अभावो नास्तीत्य् अस्यैवाभावशब्दस्य प्रयोगो न स्यात्* / कथंचन स्यात् / क .. ///

7 /// .. .. .. रपरिकल्पितस्याभावस्य प्रतिषेध इति चेद् इष्टस् तावद् अभावविषयः / शब्दः तस्मात् कथंचिद् अभावव्यवहारं प्रवर्तयता अवश्यम् अभावविषया ज्ञानशब्दा एष्टव्या / यत् पुनर् एतद् उक्तं अर्थनिषेधे सति / अनर्थकशब्दाप्रयोगात् कारणान् निर्विषयस्य नञो ऽप्रयोग इत्य् अत्रोत्तरं वक्ष्यते / अनादिवासनोद्भूतविक ///

प् प्रमाणवार्त्तिकटीका र्1 /// त्* / स्वभावाभावाद् अभावस्य रूपाभिधायिनः / स्वभावाब्भिधायिनः शब्दा नाशङ्क्या एव यतस् ते शब्दा अभावविषयाः व्यवच्छेदस्यान्यापोहस्य वाचकाः सिद्धा एव / वस्तुनि वृत्तिर् व्यापारो येषां शब्दानां तेषां किं रूपम् अभिधेयं विधिरूपेण वस्त्व् अभिधेयम् आहोस्विद् भ्. ///

2 /// .. .. .. त्तव्यस्य विषयीकर्तव्यस्य रूपस्य वस्तुस्वभावस्य तद्भावे तस्य रूपस्य सत्तायम्म् अभावायोगात्* / तस्य रूपस्य भावस् तद्भावः / स एव लक्षणं यस्य भावस्य स तथोक्तः अयम् एव स मुख्यो विवेको ऽन्यापोहो यः सर्वभावविरहः / तस्य विवेकस्य तथाभावख्यापिन इति विवेकरूपाभि .. ///

3 /// ..ंबन्धः / ते शब्दा विकल्पाश् च एकं व्यावृत्तिसमाश्रयभूतं वस्तुप्रतिसरणम् अधिष्ठानं येषां शब्दानां विकल्पानाञ् च ते तथोक्ताः / तथा ह्य् अकृतकव्यवच्छेदेन यद् एव वस्तु कृतकशब्दस्य विकल्पस्य वाधिष्ठानं / तद् एवानित्यानात्मादिशाब्दानां विकल्पानाञ् च / ते तथाभूता अपि भिन्नविषया एवेति संबन्धः / कस्माद् यथास्वम् इत्यादि / या व्यावृत्तिर् यतो .. .. ///

4 /// त्यत्वलक्षणस्य व्यवच्छेदस्य नित्य इत्यादि / तेषां यथास्वं अवधीनां भेदास् तैर् भेदैर् उपकल्पिता नचिता अनित्यत्वादीनां विवेकानां भेदाः परस्परं विशेषास् तैर् भेदैः भिन्नेष्व् इव विवेकेषु विकल्पबुद्धौ प्रतिभात्सु / प्रतिभासमानेषु तेषां शब्दानां विकल्पानां चोपलयनात्* / यथाक्रमं वाचकत्वेन ग्राहकत्वेन चोपश्लेषात्* / .. ///

5 /// स्यैव साध्यसाधनभावे ऽपि न साध्यसाधनयोः संसर्ग एकत्वं ततश् च यद् उक्तं स्वभावे साध्ये प्रतिज्ञार्थैकदेशो हेतुः स्याद् इति स दोषो नास्तीत्य् आह / तं नेत्यादि / तद् इति तस्मात्* / स चायं स्वभाव इति संबन्धः / हेतुत्वेनापदिश्यमान उच्यमान उपाधिभेदापेक्षो विशेषणभेदापेक्ष उच्यते / केवलो वेत्य् उपाध्यन .. ///

6 /// अनित्यत्वे साध्ये कृतकत्वम् उपाधिभेदापेक्षम्* तदनपेक्षं तु सत्वं / अपेक्षितेत्यादिनोपाधिभेदापेक्षित्वं कृतकत्वस्याह / वस्तुभूतायाः असिद्धेः परस्य हेत्वभिमतस्य जननशक्तिर् एव परव्यापारः / अन्वयव्यतिरेकानुविधानम् एव चापेक्षा / स्वभावनिष्पत्तौ स्वभावनिष्पत्तिनिमित्तम् अपेक्षितः / परव्यापारो येन भावे .. .. ///

7 /// ः / स्वभावाभिधायिन्य् अपि सती परोपाधिर् इत्य् अन्यविशेषणम् एनं स्वभावम् आक्सिपति / एतेनेति कृतकत्वस्योपाधिभेदापेक्षप्रतिपादनेन / प्रत्ययानां काराणां भेदः प्रत्ययभेदस् तेन भेत्तुं शीलं यस्य स तथा / तद्भावः प्रत्ययभेदभेदित्वं / स्थानप्रयत्नादिकारणभेदेन हि भिद्यते शब्दः / आदिशब्दात् प्रयत्नानन्तरीयकत्वादयो व्याख्याताः / एते ऽपि हेतु .. ///

8 /// इति / एवम् इत्यादिनोपसंहारः / क्वचिद् इति प्रयोगे / उपाधिभेद .. .. .. पेक्षं / अत एव सामान्येन हेतुफलभावेन पदद्वयं अनित्य एव साध्ये यथा सत्वं / स्वभावभूतश् चासौ धर्मविशेषश् चेति विग्रहः / तस्य परिग्रहेण क्वचित् स्वभावो हेतुर् उच्यते इति प्रकृतं / यथा तत्रैवेति अनित्यत्वे साध्ये 9 /// ः / स्वभावभूतो ऽपि धर्मविशेषत्वेन प्रतीयते / प्रादुर्भावस्य धर्मविशेषत्वेन प्रतीतेः / न तु सत्तावच् छुद्धस्य स्वभावमात्रस्य प्रतीतिः / व्1 /// .. भावभूतो ऽपि धर्मविशेषत्वेन प्रतीयते / प्रादुर्भावस्य धर्मविसेषत्वेन प्रतीतेः / न तु सत्तावच् छुद्दस्य स्वभावमात्रस्य प्रतीतिः / अयम् अप्य् उपाध्यपेक्ष एव स्वभावो द्रष्टव्यः / कृतकत्वादौ परभूत उपाधिर् इह त्व् आत्मभू एव धर्मविशेष इत्य् एतावान् भेदः / अनया दिशेति / उपाध्यपेक्षहेतुप्रविभागदिसा / धर्मी सामान्येन सिद्धो विशेषेण / 2 /// साध्येति न्यायः तत्र यदि सत्ताख्यः स्वभावः सत्तास्वभावः / सत्वम् इ .इ + .. .. कृतकत्वादिको ऽपि स्वभावस् तन्निवृत्यर्थं / सत्ताग्रहणं व्यतिरिक्तापि सत्ता कैश्चिद् इष्टेति स्वभावग्रहणं / आत्मभूता सत्तेत्य् अर्थः / सत्तास्वभावश् चेत्* हेतुः न सत्ता साध्यते / कथं साध्यापि स्यात्* / अथ मतं सत्तासामान्ये साध्ये सिद्धसाध्यता स्याद् अतः सत्ताविशेषः साध्यस् तस्मिंश् च साध्ये ///

3 /// .. .. दृष्टान्तः / स्याद् अतो न सत्ता साध्यते / तदा हेताव् अपि सत्वे विशेषस्यानन्वयात् साधनशून्यो दृष्टान्तः स्यात्* तद् आहानन्वयो हीत्यादि / भेदानां विशेषाणां व्याहतो दुष्टः / हेतुसाधयोर् इति सप्तमीद्विवचनं / हेतौ साध्ये चेत्य् अर्थः / अन्यत्र चानात्मादौ / तद् इति सत्वं / किलशब्दो ऽनभिमतद्योतकः एवं प्रसाध्यमानम् इति अस्ति प्रधानम् इत्यादिना प्रधानादि ///

4 /// साधयितुं शक्यते / कस्मात् तस्य विशेषस्यानन्वयात्* / यथाहेत्य् आचार्यदिङ्नागः / अस्ति प्रधानं इत्य् अन्नेन प्रधान{म् इत्य् अनेन प्रधा} स्वलक्षणम् एव साध्यत इति यत् सांख्येनोक्तं तत् प्रमाणस्यानुमानस्य विषयाज्ञानात्* / सामान्यविषयं ह्य् अनुमानं न स्वलक्षण[योगेन} विषयं / व्याहन्यते दुष्यति किं तर्हि हेताव् अपि / तुल्यदोषत्वात्* / तद् एवाह न हेतुर् इत्यादि / .. .. ///

5 /// .. .इत्य् आह तत इत्यादि / ततो ऽसाधारणाद् धेतोः / भावः सत्ता सा उपादानं विशेषणं यस्य धर्मिणः स तथा / मात्रशब्दो ऽवधारणे / सत्ताविशेषणमात्र इत्यः / एवंभूते साध्ये सामान्यधर्मिणि सांख्यस्य न कश्चिद् अर्थः सिद्धः स्यात्* / त्रैगुण्यादिलक्षणस्यासिद्धेः तद् एवं स्व .. क्ष्यासिद्ध्या साधनं वैफल्यम् उक्तं / परस्यापी .. ///

6 /// .. म् इति सामान्यमात्रं / अनेन सिद्धसाध्यतोक्ता / अथ वा न कश्चिद् अर्थः सिद्धः स्यात्* / अनिषिद्धं च तादृशं ह्यर्थे चशब्दः यस्मात् तादृशम् अनिषिद्धम् अतः सिद्धसाध्यतादोषान् न कश्चिद् अर्थः सिद्धः / स्याद् इति / न सर्वथेत्यादिना व्याचष्टे / सत्तासाधन इति सात्तासिद्धौ / भावमात्रविशेषण इति सत्तामात्रविशेषणः / अनिर्दिष्टः विशेषो यस्य्. ///

7 /// .. / किं तु स वादी तथा सामान्येन नास्ति कश्चिद् इति / कञ्चनास्य धर्मिणो भेदं विशेषम् अपरामृष्यानुपादाय अनेनेति वादिना उपात्तभेद इत्य् अपात्तविशेषः त्रिगुणात्मको नित्य इत्यादिना उपात्तभेदे साध्ये ऽस्मिन् प्रधानादिके धर्मिणि / भवेद् धेतुर् अनन्वयः / नास्य साध्यविशेषेण द्षृटान्ते ऽन्वयो ऽस्तीत्य् अनन्वयः / साध्यशून्यो दृष्टान्त इति ///

8 /// .. .. .. क इति सुखदुःखमोहात्मकः / तथाभूतो ऽप्य् एको ऽनवयवः / परेणेष्यते अन्यो वेति कर्तृत्वादियुक्तः यथाकथंचिद् अपीति यथोक्तैर् धर्मैः समस्तैर् व्यस्तैर् वा विशेषितः तत्स्वभाव इति यथोक्तविशेषणविशिष्टस्वभावः / स च धर्मी तथे 9 /// .. .. ति सत्तामात्रे विवादाभावात्* /

q pramāṇavārttikaṭīkā r1 /// vikalpena sattāyām uktaḥ / tathā hi ādhāraviseṣeṇa kenacid aviśeṣitam agnyādisattāmātram* sādhyam ādhāraviśiṣṭaṃ vā / ādye pakṣe siddhasādhyatā / yad āha tatrāpītyādi / yatrāpīty agnyādike sādhye / dvitīye pakṣe sādhyaśūnyo dṛṣṭāntaḥ syād āha viśiṣṭetyādi / viśiṣṭa ādhāro yatrāgnyādikaṃ sā .. ///

2 /// .. भिमतस्य सपक्षे ऽनन्वयाद् असिद्धिः न ह्य् आधारान्तरसंबन्धो ऽग्निर् आधारान्तरे वर्तते / नेत्याद्य् आचार्यः न वै स आधारः साध्यधर्मित्वेनाभिमतस् तम् अग्न्यादिकं विशेषीकरोति यत्र धूमस् तत्राग्निसामान्यम् अस्ति चात्र धूमस् तस्मायत्राप्य् अग्न्य्सामान्यम् इत्य् एवं सामान्यस्यैव प्रतीतेः यद्य् आधारेण न विशेषीक्रियते / कथं तर्हि पक्षस्य धर्म इत्य् एवं विशे .. ///

3 /// .. .. .. स्तस्य व्यवच्छेदेन विशेषणात्* पक्षस्य धर्म एवेति न तु पक्षस्यैव धर्मेत्य् उक्तं प्राक्* पक्षधर्मस् तदङ्शेन व्याप्त इत्य् अस्य श्लोकस्य विवरणे वक्ष्यते च चतुर्थे परिच्छेदे / तस्माद् इत्य् उपसंहारः / तत्रेति प्रदेशादौ / तदयोगव्यवच्छेनेति तस्मिन् प्रदेशादौ धर्मिणि साध्यधर्मस्यायोगव्यवच्छेदेन / ततश् च सामान्यस्य साधनान् ना ///

4 /// .. वः / प्रधानादिके ऽपि धर्मिणि अयोगव्यवच्छेदेन सत्तामात्रं साध्यम् इति चेद् आह न तथेहापीति / क्वचिद् इति प्रधानादिके धर्मिणि कस्मात् प्रधानादिशब्दवाच्यस्यैवार्थस्य त्रैगुण्यादिलक्षणस्याभावात्* / निर्विशेषणैव सा सत्ता / विशेषणभूतस्याधारस्याभावात्* / कथम् इत्यादि परः / सत्वज्ञेयत्वादयो बहवो ध .. ///

5 /// धर्मत्वेनेष्टैः सो ऽपि प्रधानादिः सिद्ध एव तस्मिन् सत्तासामान्यं साध्यते / अत्रापि ज्ञेयादिरूपेण धर्मी कल्प्यमानो न तावत् सुखाद्यात्मकः एको नित्यत्वादिभिर् विशेषैः सिद्धः शक्यते कल्पयितुम्* / तस्यैवं विशेषस्य साध्यत्वात्* / तस्माद् अनेन किञ्चिज् ज्ञेयम् अस्तीति साध्यं त .. ///

6 /// निर्विशेषणम् अस्तीत्य् अस्मिन्न् अर्थे सिद्धे ऽपि सति प्रधानादेः सिद्धिर् अस्तु नैवेति यावत्* / न हि ज्ञेयसत्तामात्रे विवादस् तद् एवाह तथापीति नैवाभिमतं / किञ्चित् सिद्धं स्याद् इत्य् अर्थः / अन्यत्रेति अग्निर् अत्र धूमाद् इत्यादिके प्रयोगे त ///

व्1 /// .. विरहिणेति तेन प्रदेशेनायोगस् तेन विरहः प्रदेशेनायोग इत्य् अर्थः / सो ऽस्ति यस्य सामान्यस्य तत् तथोक्तं विशिष्टप्रदेशसंबन्धिनेति यावत्* / अन्वयो न सिद्ध एव विशिष्टप्रदेशसंबन्धिनः / सामान्यस्यान्यत्रावृत्तेः नेत्यादिना परिहरति / न वै कश्चि ///

2 /// .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. + + .. नान्तरीयकाग्न्यविनाभावी दर्शनीयः कीदृशेन वाक्येनेत्य् आह यत्रेत्यादि / यत्र क्वचिद् धूमस् तत्राग्निर् इति / स धूमस् तथेति सर्वोपसंहारव्याप्तिदर्शनेन / अग्निमात्रेण व्याप्तः सिद्धो यत्रैव प्रदेशे धर्मिणि स्वयं स्वेन धूमरूपेण निराकृतभ्रान्तिकारणेन दृश्यते तत्रैव प्र ///

3 /// .. नुमेयप्रतीतौ साध्यनिर्देशेन न किञ्चित् प्रयोजनं / तेन विनापि साध्यसिद्धेः तद् एवाह तत्रेत्यादि / तत्र सामान्यधर्मिणि लिङ्गस्य दर्शनं तस्याख्यानमात्रात् साध्यधर्मिणं लिङ्गस्य यः संबन्धो ऽन्वयव्यतिरेकलक्षणस् तस्य चाख्यानमात्रात्* / इष्टस्य साध्यस्य सिद्धेः यतश् च साध्यधर्मिणो न निर्देशस् तदा तदनिर्देशे च कथं तद्विशिष्टेन धर्मवि .. ///

4 /// .आद् अयं धूमो ऽग्निना साध्यधर्मेणाविनाभावी सिद्धो यत्र प्रदेशे दृश्यते तत्रार्थाद् एवाग्निस् तेन प्रदेशेनायोगं व्यवच्छिनत्ति / अग्निमन्तं प्रदेशं साधयतीति यावत्* / इति हेतोः स प्रदेशस् तथेत्य् अग्निमत्वेन साध्य उच्यते / प्रमाणव्यापारपृष्टभावितया / न पुनस् तथोपन्यासपूर्वकः विशिष्टप्रदेशसंबन्ध्यग्नि .. .. .. ///

5 /// .. .. .. .. .. .. त्* / अथ पुनः पक्षोपन्यासपूर्वक एवान्वयस् तत्पूर्वकत्वे वा पाक्षोपन्यासपूर्वकत्वे वान्वयस्य न्यायप्राप्ते कः प्रतिज्ञां साधनाद् अपाकरोति / पक्षनिर्देशस्यापि तदानीं साधनत्वात्* / न चैवं तस्मात् स्थितम् एतत्* / पक्षम् अनुपदर्शयैव साधयधर्मसामान्येन लिङ्गस्य व्याप्तिः / कथनी .. .. .. .. चार्यदिङ्नागस्य्. ///

6 /// त्य् आह / तथा चेत्यादि / लिङ्गस्य धूमादेर् अव्यभिचारस् तु साध्यधर्मेण / अन्यत्रेति विशिष्टधर्मिसंबन्धत्यागेनान्यस्मिन्न् अपरामृष्टाधारविशेषे धर्मिमात्रे / अन्ये तु साध्यधर्मिणो ऽन्यत्र दृष्टान्तधर्मिणीति व्याचक्षते / त ///

र् प्रमाणवार्त्तिकटीका र्1 /// .. न दर्शितं लिङ्गं तत्र विवादाश्रये धर्मिणि / प्रसिद्धं निश्चितं तद्युक्तं तेन व्यापकेन धर्मेण युक्तं साध्यधर्मिणं गमयिष्यतीति / तस्माद् इत्यादिनोपसंहारः / यत् तूक्तं यथा सत्तायां साध्यायां अनन्वयो दोषः / तथा हेताव् अपीति तत्रोत्तरं अपरामृष्टेत्यादि / अपरामृ .. ///

2 /// सत्तामात्रस्य हेतोर् अन्वयो दृष्ट्यान्तधर्मिणि वृत्तिर् न विहन्यते / किंभूतस्य साध्यस्य वस्तुमात्रे साधने क्रियमाणे इत्य् आह तन्मात्रव्यापिनः सत्तामात्रव्यापिनः साधनेत्यादिना व्याचष्टे / वस्तुमात्रव्यापिनि साध्यधर्मे स्वभावविशेषापरिग्रहेण साधने पुनः सत्वे क्रियमाणे नान्वयव्याघातः न साधनशून्यो दृष्टा ///

3 /// .. त्वमात्रस्य हेतुत्वेनाश्रयणे ऽपीत्य् अर्थः / न पुनः साध्यत्वे सत्ताया विशेषानाश्रयः कस्मात् सत्तामात्रे साध्ये साधनवैफल्यात्* / सत्तायां साध्यमुखेन दोषम् उक्त्वा साधनमुखेनाह / अपि चेत्यादि / सत्तायां साध्यायां हेतुर् भावधर्मो वा उपादीयेत / भावाभावधर्मो वा एकान्तेनैव धर्. .. .. तत्रासिद्धे प्रधाना .. ///

4 /// .. स्य स सत्वे साध्ये व्यभिचारी अनैकान्तिकः / यो ऽप्य् अभावस्य धर्मः स सत्वे साध्ये विरुद्धो सत्वस्यैव साधनात्* / यस्याश् च सत्तायां साध्यायाम् असिद्धादिदोषाद् धेतुर् एव नास्ति सा सत्ता साध्यते कथं तद्धेतुर् इति सत्तासाधनहेतुः त्रय अवयवा यस्या दोषजातेर् दोषप्रकृतेः सा त्रयि तां यथासंभवं नाति ///

5 /// .. दिनैतद् एव विभजते / भावधर्मो हि हेतुर् उपादीयमानस् तत्कार्यात्मको वा स्यात् तत्स्वभावभूतो वा न तावद् आद्यः पक्षः कार्यकारणभावस्यैवासिद्धेः / कारणविशेषेण हि कार्यकारणभावः प्रत्यक्षानुपलंभसाधनः स च प्रधाने नास्ति कार्यव्यतिरेकलक्षणो ऽपि कार्यकारणभावः कारणम्. ///

6 /// .. स्वभावतया भावधर्मो हेतुर् उच्यते / स कथम् असिधसत्ताके प्रधानादौ स्यात्* / यस्माद् यो हि वादी भावधर्मं हेतुं तत्र प्रधानादाव् इच्छति स कथं प्रधानादिकं भावं नेच्छेत्* / भावस्वभावस्यैव तद्धर्मत्वात्* / कथं तर्हि स्वभावस्यायं धर्म इति व्यतिरेकेण कथ्यत इति चेद् आह / स्वभाव एव हीत्यादि / कया ///

7 /// .. क्षिप्तभेदान्तरत्वेन धर्मिणं व्यवस्थाप्य पुनस् तम् एव प्रतिक्षिप्तभेदान्तरतया धर्मत्वेन व्य्वस्थाप्य तथाकृतसंकेतेन शब्देन व्यतिरेकीव भिन्नरूप इव धर्मिणः / सकाशात्* ज्ञातृवाञ्छेतुरोधेन निर्दिश्यते / एतच् च प्राग् एव निञ्ञीतम् इत्य् आह / न हीत्यादि / उक्तम् एतद् भेदान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर् द्वयोर् इत्यादिना ///

8 /// ऽप्य् अभावधर्मः स्य्. + + .. .. भयधर्मो हेतुः स्याद् इत्य् आह / अनाश्रितेत्यादि / एतद् आह / यदि विधिना भावात्मकं धर्मम् अङ्गीकृत्याभावस्योच्येत / एकप्रतिषेधेन वा तद्विपरीतवस्तुभागात्मकं व्1 /// द् विरोधस् तच् च नास्ति यतो व्यति + + + .. .यार्थप्रतिषेधमात्रस्य धर्मत्वेन कल्पितस्याभावे ऽप्य् अविरोधात्* / तत्र व्यतिरेकग्रहणेन विधिमुखोपात्तं धर्मम् अपनयति मात्रग्रहणेन प्रतिषेधोपायलभ्यं वस्तुभागात्मकं / व्यतिरेकमात्रम् एव कस्माद् भवतीत्य् आह / अपर्युदासेनेति प्रतिषेधोपसर्जनो हि विधिः पर्युदा ///

2 /// नाश्रितवस्तुन इति यत्रान्याव्यवच्छेदेन + स्त्व् आश्रीयते स पर्युदासस्य विषयो न चेह वस्तु किञ्चिद् आश्रितं तद् एव व्यवच्छेदमात्रम् आह नेत्यादि / न भवति मूर्त इत्य् अमूर्तत्वं मूर्तप्रतिषेधलक्षणम् अभावे ऽपि स्यान् निरुपाख्यस्येत्यादि / अयं भावः प्रतिषेधो हि निवृत्तिः / सा च क्रिया न च क्रियाश्रयम् अन्तरेण क्रिया युज्यते / तस्माद् अभावो न प्रति ///

3 /// .. त्य् अभिप्रायः / ननु सन्त्य् अभावे ऽपि शब्दा इत्य् अत्रान्तरे निरुपाख्यस्यापि प्रतिषेधविषयत्वं प्रतिपादितम् एव सत्यं किंतु निर्विषयस्य नञो ऽप्रयोगाद् इत्य् अनेन पूर्वपक्षेणोक्तम् इदं तु क्रियाकारकसंबन्धद्वारेणेति विशेषः / यदि न प्रतिषेधविषयता निरुपाख्यस्य तत् किम् इदानीं निरुपाख्यं विधिविषयो ऽस्तु त .. ///

4 /// षयः प्रतिषेधविषय एव / कस्माद् विधीत्यादि / विधेर् या निवृत्तिः स एव प्रतिषेधो विधिप्रतिषेधाभ्याम् अपरस्याभावात्* न च निवृत्तिर् नाम काचिद् वस्तुभूता क्रियास्ति येनाभावेषु न स्यात्* / तद् एतद् अनन्तरोक्तं व्यवच्छेदमात्रं द्वयोर् अपि भावाभावयोः संभवत् सत्वे साध्ये गमकत्वं कथम् आत्मसात् कुर्यात्* यस्माद् वि .. ///

5 /// त्र शंका तस्या व्यवच्छेदेन सत्वे च साध्ये विपक्षो ऽसत्वं न चोभयधर्मस्य हेतोर् विपक्षाद् असतो व्यावृत्तिर् अस्ति स च वादी स्ववाचा स्ववचनेन सत्तासाधनस्य हेतोर् उभयधर्मतां ब्रुवाणः / सतो ऽन्यत्रापि असत्य् अप्य् उभयधर्मस्य हेतोर् वृत्तिं भाषते / एवं ह्य् अस्योभयधर्मत्वं स्याद् यदि सति चासति + वर्तेत / सत्ताया .. ///

6 /// .. .. .. ..ं .. .. तुं सत्तायां वदतो ऽस्य वादिनो विरुद्धो हेतुः स्यात्* / सत्वविपरीतस्यासत्वस्य साधनात्* कः पुनर् अभावस्यैव धर्मो भवतीत्य् आह / भावमात्रेत्यादि / यो हि वस्तुमात्रव्यापी अर्थक्रियाकारित्वकृतकत्वादिलक्षणो ऽर्थः / तस्य व्यवच्छेदो नियमेनाभावस्यैव धर्मः / सर्वभावनिषेधस्याभाव एव भा .. ///

7 /// .. .. .. / अभाव एवेत्यादिना विपक्ष एव सत्वम्+ / तद् इति तस्मात्* अयं यथाविभक्तस् त्रिप्रकारो ऽपि हेतुः सत्तासाधने सत्तासिद्धौ यथाविभक्ताद् धेतुत्रयान् न दान्या गतिर् अस्ति / साधनत्वे लिङ्गत्वे / अस्याः सत्तायाः सामान्येनानुपात्तविशेषत्वेन सिद्धसत्ताके पक्षे धर्मिणि .. ///

स् प्रमाणवार्त्तिकटीका र्1 /// .. .. .. .. तेनासिद्धतादोषः परिहृतः / विरुद्धत्वं अनिकान्तिकत्वं च परिहरन् आह / तेन चेत्यादि / तेन साध्याधर्मेण लिङ्गस्य व्याप्तिः / कथञ्चिद् इत्य् अन्वयमुखेन व्यतिरेकमुखेन वा यदि निश्चीयते न विरोधव्यभिचारौ / न विरुद्धम् अनैकान्तिकत्वं वा / नायं प्रसंगः सत्ता ///

2 /// .. .. .. .. .. .. .. .. .. .. .. समाश्रये वा पक्षधर्मत्वे वा अनिश्चिते सति / तत्स्वभावतया निश्चितव्याप्तिधर्मिसमाश्रयस्वभावतया यो गमको ऽभिमतो न स कश्चिद् गमकः / अत एव हेतोः / स्वधर्मेण स्वेन साध्यधर्मेण व्याप्तो हेतुः / पक्षधर्मिणि सिद्धस्वभावो वाच्यः / निश्चितत्रैरूप्य्. वाच्य इत्य् अर्थः ///

3 /// .. .. .. .. .. .. .. .. ..* उपलंभयन्* प्रदीपः स एवंभूतः कदाचिद् घटाद्युदरान्तर्वर्ती तद्रूपाप्रतिपत्तौ / सत्यां स्वाम् अर्थक्रियां स्तम्भादिप्रकाशनलक्षणं न हि करोति यादृशो गमकः स्वभावस् तथोक्तं गम्यस् तर्हि कीदृश इत्य् आह / व्यापकस् तस्येत्यादि / यो ऽसौ गमको व्याप्यः स्वभावस् तस्य व्यापको निश्चितो व्य्. ///

4 /// धर्मो गम्यः / कीदृशस् तस्य गमकत्वेनाभिमतस्य व्यापकत्वेन निश्चितः कथं पुनर् व्यापकत्वेन निश्चितो भवतीत्य् आह / तद्धर्मनिश्चयाद् एवेति / तस्य धर्मस्य गमकधर्मतया स्वभावतया निश्चयः / तद्धर्मनिश्चयः साध्यस्य साधनस्वभावतया निश्चयाद् एवेत्य् अर्थः / इयतानुवर्त्यानुवर्त्तकभाव उक्तः / निर्वर्.. ///

5 /// ः स्वयन्निवृत्तौ सत्यां तस्य व्याप्यस्य निवर्त्तकः तस्येत्यादिना व्याचष्टे / अयं व्यापको धर्मः स्वयं निवर्त्तमानः तस्य व्याप्यस्य निवर्त्तक इति संबन्धः / किं कारणं यस्माद् एवं ह्य् अस्यायं साध्यो धर्मो व्यापकः सिद्धो भवति / यद्य् अस्य व्यापकस्याभावे त्याप्यो न भवेत्* / तद् इति वाक्योपन्यासे / अनेनेत्य् अनन्तरोक्तेनानुवर्त्यानुव .. ///

6 /// पीति साधर्म्यवतो वैधर्म्यवतश् च साधनप्रयोगस्य यथाक्रमं गमकलक्षणं साध्यसाधकत्वलक्षणम् उक्तं वेदितव्यम्* / तद् एव प्रयोगद्वैविध्यम् आह / द्विविधो हीत्यादि / यथाहुर् एक इति नैयायिकाः साधर्म्यवान् एव हि प्रयोगो ऽन्वयी वैधर्म्यवांश् च व्यतिरेकी / ननु चान्यथान्वयव्यतिरेकिणो व्यवस्थापितो यस्य विपक्षाभावां नास्ति व्यतिरेकः केवलं सपक्ष एव सत्वं सो ऽन्ययी यस्य तु विपक्षाद् एकान्तेन व्यव्. ..ः सपक्षाभावा .. .. .. .. /// .. न्वयस्यायोगात्* अन्वयम् अन्तरेण व्यतिरे ///

7 /// .. गभेदाद् अन्वयी व्यतिरेकी चेति कथ्यते / इति / वस्तुबलात् तैर् अप्य् अङ्गीकर्तव्यं / एतद् एव साधयन्न् आह नानयोर् इत्यादि / अनयोर् इत्य् अन्वयव्यतिरेकिणोर् हेत्वो वस्तुतः स्वरूपतो न कश्चिद् भेदो द्वयोर् अप्य् अन्वयव्यतिरेकवत्वात्* अन्यत्र प्रयोगभेदाद् इति / ताव् एवान्वयव्यतिरेकौ कदाचिद् अन्वयवता प्रयोगेन प्रतिपा ///

8 /// वति प्रयोगे साधर्म्यम् एव प्रतीयते वैधर्म्यवति च वैधर्म्यम् एव ततो .. .. .. .. .. दाप्य् अस्तीति चेत् तन् न यस्मात् साधर्म्येणापि हि प्रयोगे ऽर्थात् सामर्थ्यात् साध्यविपक्षाद् धेतोर् व्यावृत्तिर् वैधर्म्यं तस्य गतिस् तद् एव सामर्थ्यम् आहासतीत्यादि / तस्मिन्न् इति वैधर्म्ये एवं हि साध्येन हेतुर् व्याप्तः स्याद् यदि साध्यविपक्षा 9 /// .. .. योगो वैधर्म्यशब्देनोक्तस् तस्मिन्न् अन्वयगतिः कथम् इत्य् आहासतीत्यादि / व्1 /// .य्. .. .. तुर् व्याप्तः स्याद् एवं तन्निवृत्या निवर्तेत / एतच् च व्यतिरेकिहेतुचिन्तायां विस्तरेण वक्ष्यामः / अनित्यत्वे यथा कार्यम् इति अनित्य एव कृतकत्वम् इत्य् अर्थः / एतच् चान्वयिन उदाहरणं / अकार्यं विनाशिनीति / कृतकत्वाभावो कार्यं विनाश्यभावश् चाविनाशी तेनायम् अर्थो भवति अविनाशि विनाशाभावे सति अकार्यं कृत .. ///

2 /// त्यादि / अनयोर् इत्य् अन्वयिव्यतिरेकिणोः / यत्किंचिद् इति सर्वोप + + + + व्याप्तिकथनं ततश् चार्थान् नित्याद् व्यावृतिः कृतकत्वस्येति व्यतिरेकगतिः / एवं हि सर्वं कृतकम् अनित्यं स्याद् यदि न किंचिन् नित्यं भवेत्* यस्य नित्यम् एव नास्ति तस्य कथं ततो व्यतिरेक इति चेत्* तदा संदेह एव नास्ति तदभावात् तत्रावृत्तेः .. .. ///

3 /// .. .. शंक्याह कृतकत्वस्येत्यादि शब्दस्य च / कृतकत्वे कथित इति अनित्यत्वेन व्याप्तं कृतकत्वं यदा शब्दे कथितं तत्र नियमेन स्वं व्यापकं सन्निधापयतीति सामर्थ्याद् एवानित्यः शब्द इति भवति / तस्मान् नावश्यम् इत्यादि / अवश्यं न निर्देश इति संबन्धः / इहेति साधर्म्यप्रयोगे / अविधर्म्यवन्तं प्रयोगम् आह / व्यतिरेक्य् अपी ///

4 /// .. ..ं .. .इ .. .इनीत्य् अस्य विवरणं / कृतकश् च शब्द इति पक्षधर्मकथनं / इहापि न प्रतिज्ञावचनं / यस्मात् सिद्धतत्स्वभावतया सिद्धानित्यस्वभावतया करणभूतया तदभाव इति अनित्यत्वाभावे सति न भवतः कृतकत्वस्य शब्दे च भावख्यातौ सत्वप्रकाशने कृतकश् च शब्द इत्य् एवं कृते तदात्मनः सत ///

5 /// .. .. .. .. त्यः शब्द इति सिद्धेः पूर्ववद् इति साधर्म्यप्रयोगात्* / नन्व् अनित्यत्वाभावे कृतकत्वं न भवतीति प्रयोगे वैधर्म्यमात्रम् उक्तम् अन्वयो नोक्त इत्य् आहान्वयस् त्व् इत्यादि / अन्वयम् अन्तरेण वैधर्म्यस्यानुपपत्तिर् अर्थापत्तिः ताम् एव न हीत्यादिनाह / अतदात्मनियतस्येति अनित्यस्वभा ///

6 /// .. .. .. .. नियतस्यैव तन्निवृत्तौ निवृत्तिर् इति यावत्* / यत एवं तस्मान् नियमं तादात्म्यलक्षणं प्रतिबन्धं / प्रमाणेन प्रसाध्य साध्यनिवृत्त्या हेतोर् निवृत्तिर् वक्तव्या / ननु साध्यनिवृत्त्या निवृत्तिः कथ्यते नियमस्यैव प्रसाधनाय प्रमाणान्तरेण चेन् नियमः प्रसाधितः किं निष्फलेन निवृत्तिवच .. ///

7 /// .. प्रसाध्य पश्चान् निवृत्तिर् अभिधीयेत / अत्रैको ब्रुवतो यत् तावद् उच्यते नियमप्रदर्शनाय निवृत्तिवचनम् इति तन् न यतो निवृत्तिवचनं विपक्षप्रचाराशंकानिवृत्त्यर्थं न तु तेन संबन्धः कथ्यते / साध्याभावे हेत्वभावस्य शब्दात् प्रतीतेः / अन्यद् एव तादात्म्यम् अन्यद् विपक्षासत्वं अस्ति कश्चिद् अविद्व ///

8 /// .. .. .इ .. .. .. .. .. ..ः प्रमाणेन सिद्धः तस्मात् तन्निवृत्त्या निवर्तत इति सा चेत् सिध्यतीति नियमम् इत्य् उत्तरकालभाविनीति वृत्तिः तदात्मनियमं .. .. .. .. .. .. त्वम् इत्य् अर्थः /

त् प्रमाणवार्त्तिकटीका र्1 /// न्ये .. न्यथा व्याचक्षते साध्य एव साधनस्य भावे नियमः / प्रसाध्य शब्दश् चार्थाद् आक्षेपवचनस् तेनायम् अर्थस् तस्मान् नियमं प्रसाध्य / नियमम् अर्थाद् आक्षिप्य निवृत्तिर् वक्तव्येति तथाभूतेन वचनेन निवृत्तिर् वक्तव्या या सामर्थ्यान् नियमम् आक्षिपतीति अतत् एवाह सा चे .. ///

2 /// .. तेन वचनेन प्रकाश्यते / तदात्मनियमं साध्यात्मनियमम् अर्थाद् उक्तिसामर्थ्याद् आक्षिपति इति हेतोः सिद्धो ऽन्वयः / कथम् इत्यादि / परो हि कृतकं विनाशनियतम् इच्छत्य् एव कालान्तरस्थापिनं तु तेनायं प्रश्नार्थः / कृतक उत्पादानन्तरविनाशित्वेनावश्यम् अनित्य इति / कथम् अवगन्तव्यं कालान्तरं ///

3 /// ..ः कृतक उत्पादानन्तरविनाशीत्य् उच्यते च सिध्यतु नाम कृतकत्वाद् अनित्यत्वं क्षणिकत्वं न सिध्यतीति उत्तरम् आह यस्माद् इत्यादि / स्वभावाद् इति स्वस्य कृतकरूपस्य भावाद् उत्पादाद् एवानुबन्धिता कृतकस्वभावनिष्पत्ताव् एवानित्यतास्वभावनिष्पत्तेर् इत्य् अर्थः / तद्भाव इत्य् अनित्यत्वभा .. ///

4 /// .. .. तोर् विनश्वराणाम् अनित्यस्वभावानां भावाद् उत्पादात्* एतच् च स्वभावाद् अनुबन्धितेत्य् अस्य विवरणं यत एवं तस्माद् इत्यादि / प्रकृत्यैवेत्य् स्वभावेनैव यदि तु सहेतुको विनाशः ततो ऽवश्यं भावी न स्यात्* तद् एव दर्शयन्न् आह सापेक्षाणाम् इत्यादि / तस्मान् निरपेक्षो भावो विनाशे चशब्दो ऽवधारण्. ///

5 /// .. त्यता स्या .. षां विनाशकारणम् असन्निहितम्* बाहुल्याद् विनाशकारणानां न क्वचिद् असन्निधानम् इति चेद् आह येनेत्यादि / येनेति यस्मात्* / तद्धेतोर् इति विनाशहेतोः / तेषाम् अपि विनाशकारणानां नावश्यं सन्निधानम् इति संबन्धः / कस्मात् स्वप्रत्ययाधीनसन्निधित्वात्* स्वकारणाय तु सन्निधानत्वात्* न च विना .. ///

6 /// .. विनाशहेतोर् असन्निधानात् कश्चिन् न विनश्येद् अपि / स .. .. हेतुसन्निधानेन नियतो विनाशो यतो न ह्य् अवश्यं हेतवः फलवन्तः विनाशाख्यकार्यवन्तः / कस्माद् वैकल्येत्यादि सहकारिसन्निधानवैकल्यं / विरुद्धोपनिपातः प्रतिबन्धः / एतेनेति सापेक्षस्य नावश्यंभावित्वे इन् मर्गिन् (line 8) /// नाशहेतूनां नाशस्य लिङ्गत्वेन ये हे .. .. + + + + + + न्ते तेषां / कस्मात् कार्याव्यवस्थितेः नाशहेतोर् नाशस्वभावकार्योत्पत्तिनियमाभावात्* / केषां पुनर् वादिनाम् अयं प्रसंग इत्य् आह हेयुम .. त्यादि / हेतुमन्तं 7 /// .. / तद् इत्यादिनोपसंहारः / तद् इति तस्मात्* / + + + + + .इ .. शस्यायं भावः / कृतको ऽनपेक्षस् तद्भावं प्रति / विनाशभावं प्रति / व्1 /// .इनाशभावनियतः / अनेन साधनफलं / असंभव + + + + + .. .. अन्त्यायाः सामग्र्याः सा तथोक्ता / का पुनर् संभवत्प्रतिबन्धेत्य् आह सकलेति / सहकारिप्रत्ययेन सन्तानपरिणामेन च परिपूरणेत्य् अर्थः / अनेन दृष्टान्त उक्तः / प्रयोगस् तु / ये यद्भावं प्रत्य् अनपेक्षास् ते तद्भावनियतास् तद्यथासंभवत्प्रतिबन्धाकारण .. ///

2 /// वो विनाश इति स्वभावहेतुः / नन्व् इत्यादिनानेकान्तम् आशंकते / क्वचित् कार्ये ऽनपेक्षाणाम् अपि केषांचित् कारणानां नावश्यं तद्भाव इति यत्रानपेक्षास् तद्भावनियमो नास्तीत्य् अर्थः / क्व पुनर् एतद् इत्य् आह भूमीत्यादि / सा हि कार्यजनने ऽनपेक्षा तथाभूतायां सत्याम् अपि कदाचित् प्रतिबन्धकाले ऽङ्कुरानुत्पत्तेः / एतच् च सन्तान ///

3 /// .. नेकान्तस् त .. यथोक्तायां सामग्र्या सन्तानपरिणामो ऽपेक्षत्वात् कार्योत्पादनस्य ततो ऽनपेक्षत्वाद् इत्य् अस्य हेतोस् तत्रावृत्तिः कृतकस्याप्य् अस्ति विनाशं प्रति कालान्तरप्रतीक्षा ततो हेतुर् असिद्ध इत्य् आह नैवम् इत्यादि कृतकस्य भावस्य नाशे काचित् कालान्तरापेक्षा / यदि हि स्यात् स्वभावस्याविशेषात् प्राग्वत् पश्चाद् पि न .इ ///

4 /// णामापेक्षत्वम् अतो व्यभिचार एव हेतोर् इत्य् आह तत्रापीत्यादि / न भूमिबीजादय एकस्वभावाः पश्चाद् इव प्राग् अपि कार्योत्पादप्रसंगात्* किंतूत्तरोत्तरपरिणामेन भिन्नाः / तत्रेति तस्यां सन्तानपरिणामेन भिन्नायां सामग्र्याम्* / अन्ते भावा अन्त्या पश्चाद् उत्पन्ना सामग्री या कार्योत्पादने क्ष ///

5 /// .. अनन्तरोक्ता सामग्री परिणामेषु मध्ये / पूर्वस् तर्हि परिणामः किमर्थः कथं वा कारणम् इत्य् उच्यत इत्य् आह अन्यस् त्व् इत्यादि / तस्माज् जनकाभिमताद् अन्त्यात् परिणामाद् अन्यः ततो ऽन्यः परो ऽप्य् अस्तीत्य् आह / पूर्व इति तदर्थ इति समर्थक्षणार्थः / अतश् च कारणकारणत्वाद् उपचारेण कारणव्यपदेश इ .. ///

6 /// दृष्टान्त इत्य् आह न चेत्यादि / ताम् इत्य् अन्त्यां सामग्रीम्* / तत्रेति कार्ये जन्ये एकत्र भाव इति कारणभूते ऽन्त्ये क्षणे विकारस्योत्पत्तौ वा तस्यान्त्यस्य क्षणस्य एकत्वहानेः पूर्वस्य प्रच्युतेर् विकाराख्यस्य च द्वितीयस्योत्पत्तेः / ततश् च नासाव् अन्त्यः स्यात्* अथ मा भूद् एष दोष इति त .. ///

7 /// .. .. .. .. .आरण्. .. .. क्षणसंगृहीतस्य तदुत्पादनं कार्योत्पादनं प्रति वैगुण्यम् अकुर्वाणस्य

उ प्रमाणवार्त्तिकटीका र्1 /// .. .कार्ये शाल्यङ्कुरे जन्ये / कस्मात् तदुत्पत्तिप्रत्ययानां भूम्युदकादीनां कदाचित् तत्रापि यवबीजादौ सन्निधानात्* / ते निरपेक्षा अपि न शाल्यङ्कुरं जनयन्ति / ततस् तदवस्थो ऽनेकान्त इति / कथम् इति सिद्धान्तवादी / सापेक्षा एवेत्य् अर्थः एषाम् इति ///

2 /// .. त्. संबन्धः / तत्स्वभावापेक्षा इति शाल्यङ्कुरोत्पादनस्वभावापेक्षाः / तथा च न हेतोस् तत्र वृत्तिर् इति नानेकान्तः / एवं तर्हीति परः / उपाध्यपेक्षं शुद्धं च हेतुद्वयम् अप्य् अधिकृत्याह कृतकानां केषांचित् सतां वेति तत्रापि केषांचिद् इति संबन्धः / स एव स्वभावो नास्ति यो नश्वरः / प्रतिक्ष ///

3 /// .. श्वरस्वभावापेक्षत्वात्* न विनश्वराः / अनेनानपेक्षत्वाद् इत्य् एतस्य हेतोर् असिद्धताम् आह / शालिबीजेत्यादिना परिहरति आदिशब्दाद् यवबीजादीनां स स्वभाव इति अभिमतेतरकार्यजननाजननस्वभावः / स्वहेतोर् इति कृत्वा यो यवबीजादिर् न तद्धेतुः स शालिबीजहेतुर् यस्य हेतुर् न भवतीत्य् . ///

4 /// कत्वेन्. v. .. वाद् धेतुप्रविभाग एव नास्तीति यो मन्यते तं प्रत्य् आह नियतशक्तिश् चेत्यादि / नियता प्रविभक्ता शक्तिर् आत्मातिशयलक्षणा यस्य स नियतशक्तिः / स हेतुर् इति शालियवबीजजननः / न हि भूतभौतिकत्वं नाम किंचिद् एकं रूपम् इष्यते प्रत्यक्षप्रतीतश् च हेतुप्रविभाग इत्य् आह .. .. ///

5 /// नेना .इ .इ .. त इत्य् आह न चेत्यादि अर्थानां पदार्थानां स्वभावनियम इति प्रविभक्तस्वभावत्वम्* / आकस्मिक इत्य् अहेतुकः कस्मान् न युक्त इत्य् आह / अनपेक्षस्येत्यादि / हेतुनिरपेक्षस्य क्वचिद् एव देशे न सर्वत्र क्वचित् काले न सर्वदा क्वचिद् द्रव्ये यवभीजादौ न सर्वत्रेति / यो ऽयं .. ///

6 /// .आद् देशा .. ..म् अपेक्ष्य भवन्* हेतुमान् इति गम्यते / एतावन्मात्रनिबन्धनत्वाद् धेतुमत्वव्यवहारस्येति स्वभावहेतुः / यथा शलिबीजादीनां हेतुभेदात् स्वभावनियमः तथात्रात्रापि कृतकेषु सत्सु वा नियमहेतुर् वक्तव्यो यतो नियामकाद् धेतोर् इमे कृतकाः सन्तो वा केचिन् नश्वरात्मनो जाता नान्ये ///

7 /// .. येषां ते सर्वजन्मानः / कारणमात्राद् उत्पन्न .. .. विशेषेण नाशसिद्धेर् इत्य् अर्थः / एतच् च परप्रतीतम् एव कालान्तरविनाशं गृहीत्वोक्तम् इति प्रत्येतव्यम्* / न तु प्रतिक्षणविनाशं तस्यैव साधयितुं प्रस्तुतत्वात्* कालान्तरेणापि तु विनाशे सिद्धे / तस्य नश्वरात्मा सिध्यति अन्यथा प्राग्वत् पश्चाद् अपि ///

8 /// भावात्* तस्माद् अनश्वरात्मानं हेतुं जनयतीतीच्छता सर्वकालस्थापिनं जनयतीत्य् अङ्गीकर्तव्यम्* / तथाभूतं च कृतकं वस्तु नास्ति सर्वस्य कालान्तरेण व्1 /// वद् बुद्धीन्द्रियदेहाः प्रवाहच्छेदि .. उपलभ्यन्ते .. .. श्. .. वृक्षादयः पर्वतादयो ऽपि तदाश्रितवृक्षादिविनाशाद् विनश्यन्त्य् एवान्यथाश्रितविनाशाभावात्* / तज्जातीयतयान्ये ऽपि अन्तशो विज्ञानकार्यस्यापि कदाचिद् अनुत्पादाद् वज्रादेर् अपि विनाशः सिद्धः / न हेतुकृतो नश्वरानश्वर्विभागः .. .. .. .. ///

2 /// .. जन्मिस्वभावः स एव नास्तीति नश्वरः / एतद् उक्तं भवति ज .. एव कस्यचित् तादृशं येन कश्चिन् नश्वरो भवति अपरो नेति न वै जन्म नाशिस्वभावस्य हेतुः / न हि जन्म नाम किंचिद् व्यतिरिक्तम् अस्ति येन नाशिस्वभावं कंचित् कुर्यात्* स्वभाव एव हि पदार्थानां जन्म तस्यैव हेतुप्रविभागो निरूप्यते .. .. ///

3 /// .. .. .. + .आशसिद्धिः नापि जन्म नाशिस्वभावस्य हेतुस् तस्मान् नात्र कृतकेषु सत्सु वा हेतोर् विनश्वराविनश्वरजनकत्वेन स्वभावविभागः तदभावाद् धेतुप्रविभागाभावात् फलस्य कृतकस्य सतो वा नश्वरानश्वरत्वेन विभागो नास्तीति असमानं यवबीजादिना / कृतकत्वापेक्ष .. .. ///

4 /// .. .. .. .. .. .. .. .. तस्याभ्युपगतत्वात्* नैतद् अस्त्य् अकृतकस्य सत्वायोगात्* सर्वं हि सत्वं देशकालवस्तुप्रतिनियतं अहेतुत्वे तन्नियमायोगात्* परमाणूनाम् अणुमनसश् च मूर्तिमत्वाद् देशनियमः परेणाङ्गीकृतः तत्कृतोपकाराभावे ऽस्मिन् देशे परमाणुर् नान्यस्मिन्* तथा .. ///

5 /// .. .. .. .. .. .. तस्माद् इत्यादिना ये यद्भावं प्रत्य् अनपेक्षा इत्यादेः प्रयोगस्यार्थम् उपसंहरति सेयं विनाशस्य निरपेक्षता क्वचिद् वस्तुनि कदाचित् काले विनाशस्य यो भावस् तेन विरोधिनी किं करोति / तदभावं तस्य केचित् कदाचिच् च विनाशभावस्याभावं स्वभावेन सत्तया साधयति ///

6 /// .. ण .. .. .. + + + + + + + त्. यस्मिन् काले भवति यत्र वा द्रव्ये तं कालं द्रव्यं चापेक्षत इति निरपेक्ष एव न स्याद् इत्य् उक्तं प्राक्* / स तर्हीति परः / नेत्य् अचार्यः / सत्ताया यो हेतुभावस् तस्माद् एव तथोत्पत्तेः नश्वरस्वभावोत्पत्तेः / एतद् एव स्पष्टयन्न् आह सतो हीत्यादि / .. ///

7 /// श्चित् कारणाद् भाव उत्पाद इति चेत्* अयम् अभिप्रायो न सर्वस्य सतः कारणायत्तता / केचिद् धि सन्तः कूटस्थनित्या एव दिक्कालपरमाण्वादयः ततश् च सत्वाद् इत्य् अस्य हेतोस् तैर् एवानेकान्त इति / आकस्मिकीत्य् अहेतुका .. ///

व् प्रमाणवार्त्तिकटीका र्1 /// .. .. .. .. .. .. कस्माद् व्यवसायफलत्वान् निश्चयफलत्वात् प्रंआणानां प्रत्यक्षम् अपि हि प्रमाणं सर्वाकारग्रहणे ऽपि येष्व् एवाकारेषु निश्चयम् आ .. .. .. .. .. .. .. .. .. .. .. .. .. + + + न्. चेय्. .. .. .. .. .. .. .. .. .. ///

2 /// परिच्छेदो यस्य चेतस इति विग्रहः / संशये सत्य् अवश्यं न प्रवर्तितव्यम् इत्य् एवं निश्चितं चेतो न करोतीत्य् अर्थः / संशयाद् अपि क्वचिल् लोकस्य कृषीवलादेः प्रवृत्तेः कथं तर्ह्य् अप्रवृत्तिफलत्वेनास्याः प्रामाण्यम् उक्तम् इत्य् अत आह / तथात्वे तद् इ + + + .. .. .. ///

3 /// .. .य्. .. .. .र्. .. सेयम् अदृश्यविषयानुपलब्धिर् अप्रवृत्तिफलाप्रोक्ता / लिङ्गातिशयभाविनीति लिङ्गम् अनुपलब्धिस् तस्यातिशयो विशेष उपलब्धिलक्षणप्राप्तस्येति / तस्य भावः सत्वम्* / तद् यस्याम् अस्ति सा तथोक्ता / लिङ्गविशेषणवतीत्य् अर्थः / उपलब्धिलक्षण + + + + + + + यावत्* / ///

4 /// प्राप्तस्येत्य् अस्माद् विशेषणाद् उत्पद्यते / अत्रेत्यादिना व्याचष्टे / अतेत्य् असद्व्यवहारे / यथोदाहृता प्राग् इति / असज्ज्ञानफला काचिद् धेतुभेदव्यपेक्षयेत्यादिना / यत् पुनर् उक्तम् अप्रमाणम् अनुपलब्धिर् इति / नाविशेषेण बोद्धव्यं किंतु स्वभावेत्यादि / देशादिविप्रकर्ष .. भावः ज्ञापकं लिङ्गं तयो ///

5 /// साध्ये नस्ति प्रामाण्यम् इति स्वभावाज्ञानं प्रत्यक्षनिवृत्तिः / ज्ञापकाज्ञानम् अनुमाननिवृत्तिः / अदृश्यविषयायाः प्रत्यक्षानुमाननिवृत्तेर् अयं न्याय उदाहृत इति समुदायार्थः / यस्येत्यादिना व्याचष्टे / यस्य कस्यचिद् अर्थस्य विप्रकृष्टस्य स्वभावः प्रत्यक्षेण नोपलभ्यते देशादिविप्रकर्षात्* कारणात्* स स्वभावः / तद् अनु ///

6 /// .. त्यक्षनिवृत्तिमात्रेणासन् नाम यथोक्तं प्राग् इति न च तथा विप्रक्षृटेषु स्वसामर्थ्योपादानाज् ज्ञानोत्पादनशक्तिर् अस्तीत्यादिना स्वभावाज्ञानस्येत्य् एतद् व्याख्याय / ज्ञापकाज्ञानस्येत्य् एतद् व्याख्यातुकाम आह यो ऽपीत्यादि / ज्ञापकस्येत्य् अस्य विवरणं लिङ्गस्येति / अतीन्द्रियः प्रतिक्षिप्यते ऽर्थः / सर्वथैव यथा नास्ति विरक्तं ///

7 /// .. वा प्रतिक्षिप्यते / अत्र विशेषः प्रतिक्षिप्यते न धर्मिसत्तामात्रं यथा नास्ति दानेत्यादि / दानं च हिंसाविरतिश् चेति द्वन्द्वः / तद्विषयाश् चेतनास् तथोक्ता दानचेतनानां हिंसाविरतिचेतनां चेत्य् अर्थः / अभ्युदयहेतुता विशिष्टानागतफलहेतुता / अत्र चेतनानां न स्वरूपं प्रतिक्षिप्यते ता .. .. .. ///

8 /// .. चेतनानां प्रत्यक्षत्वाद् अभ्युदयहेतुता / तदात्मभूता प्रत्यक्षैव तत् कुत इयं भ्रान्तिर् इत्य् आह / प्रत्यक्षे ऽप्य् अर्थ इत्यादि / प्रत्यक्षे ऽप्य् अर्थे विपर्यस्त इत्य् अनेन संबन्धः / अपवदेतापि प्रतिक्षिपेद् अपि / व्1 /// .त्. इत्य् आहातत्फलेत्यादि / अतत्फला अनभ्युदयफला ये दृष्टास् चेतनाविशेषाः / अव्याकृताः / तैः साधर्म्यात्* साधर्म्यम् एव कथम् इति चेद् आह / फलस्यानन्तर्याभावाद् इति या अन्या अतत्फलाश् चेतनाः याश् च तत्फलाः / उभयत्र तत्फलस्यानन्तर्यं न दृश्यते / न तावतेति फलस्यानन्तर्यद ///

2 /// .. त् कालान्तरेणोत्तरोत्तरावस्थापरिणामलक्षणेन व्यवहितानां फलानां दर्शनात्* मूषिका चालर्कश् चेति द्वन्द्वः / अलर्क उन्मत्तः श्वा / मूषिकालर्कयोर् दंशकृतं यद्विषं तस्मात् पूर्वम् अदृष्ट्वा विकारात् कालान्तरेण मूर्च्छादिलक्षणस्य विकारस्य दर्शनात्* मूषिकाविषादौ पश्चाद् विकारदर्शनाद् युक्तं तत्फलसामर्थ्यानुमान्. ///

3 /// सत्वम् एव न्याय्यम् इत्य् आह / तद् इत्यादि / तत्र दनादिचेतनाभ्य आयत्यां फलभावे विरोधाभावाद् बाधकप्रमाणाभावात्* अत्र फलदानसामर्थ्याभावे साध्ये ऽनुपलब्धिमात्रम् अप्रमाणं यदि बाधकं प्रमाणं नास्तीत्य् अप्रतिक्षेपो भावे ऽस्तित्वे किं प्रमाणं नैवास्ति प्रमाणं अतः सत्तानिश्चयो ऽपि न युक्त इति सत्यम् अत एव बाधकसा ///

4 /// .. .. .. इति विरक्तचित्तसर्वज्ञत्वे भवेद् वा प्रमाणम् इत्य् अप्रतिक्षेपः / तच् च संभवत् प्रमाणं द्वितीये परिच्छेदे ऽभिधायिष्यते / स्याद् एतद् यदि हिंसाविरतिचेतनानाम् अभ्युदयहेतुतालक्षणः स्वभावो ऽस्ति तदा तासु गृह्यमाणासु सो ऽपि गृह्येत न च गृह्यते / न च यस्मिन् गृह्यमाणे य .. गृह्यते / स तस्य स्वभाव्. ///

5 /// दृश्यते ततो ऽर्थक्रियाया अकरणाद् असत्वम् इत्य् एतद् बाधकं भविष्यतीत्य् आह तद् अत्रेत्यादि / तद् इति वाक्योपन्यासे / अत्रेति निर्धारणे एषु प्रक्रान्तेषु विप्रकृष्टेषु अर्थेषु मध्ये केषांचिद् अर्थानां स्वभावानां वेति .. .. .इ .. .. .. ..ः / तथापि .. ///

6 /// .. तवाभावात् तद्विषयस्यानुभवस्य यथागृहीतस्वरूपनिश्चयोत्पादनसामर्थ्याभावात्* केषांचिद् अर्थानां स्वभावादिविप्रकृष्टानां कार्यं ज्ञापकं तस्याभावाद् भवेज् ज्ञापकासिद्धिः / कार्यस्यैव कस्माद् अभाव इत्य् आह / कारणानाम् इत्यादि / न हि कार .. + + + + मात्म .. ///

7 /// अर्वाग्दर्शनाविषयभूतायाः कारणात्* / नेयतेति यथोक्तज्ञापकाभावमात्रेण / तदभाव इत्य् अतीन्द्रियानां देवताविशेषादीनां स्वभावविशेषाणां .. .. .. .. .. .. .. .. .. भावः / प्रत्यक्षानुमाननि .. .इ .. .. .. ///

8 /// .. .. .. .इ क्वचिद् दर्शनमान्द्या दृष्टः स्वभावो न निश्चीयते ///

w pramāṇavārttikaṭīkā r1 /// .. yathā viṣādidravyaṃ abhyāsād evaṃ dānādicetanāsv api āvirbhūtaprakāśānāṃ yogināṃ yoginām abhivvyaktiḥ saṃbhāvyatāṃ yogisiddhau ca saṃbhavat pramāṇaṃ vakṣyāmaḥ / tathā keṣāṃcid anārabdhakāryāṇāṃ bījādīnāṃ kālāntareṇa kāryābhinirvṛttir dṛśyate / evaṃ atīndriyeṣv api saṃbhāvyatāṃ / tathā hi piśācādayaḥ keṣu .. ///

2 /// .. नासत्तासाधनं नापि कार्यानुपलंभः / कारणानुपलम्भस् तु तत्राप्य् अभावसाधनम् इत्य् आह / कार्ये त्व् इत्यादि / कार्ये तु स्वभावादिविप्रकर्षिण्य् अपि कारकाज्ञानं कारणानुपलब्धिर् अभावस्य साधनम् एव स्वभावेत्यादिना व्याचष्टे / विप्रकृष्टविषयस्य स्वभावस्याभावे साध्ये स्वभावानुपलम्भ एवाप्रमाण्. ///

3 /// .. पलम्भ एव निश्चेतुम् अशक्यः / स्वभावादिविरकर्षिणां केनचित् सह कार्यकारणभावस्यैवानिश्चयात्* सत्यम् एतत् किंतु सनुद्दिष्टविषयस्याभावमात्रस्य प्रप्तिपत्तौ शक्यते / एतावद् वक्तुं कारणम् अन्तरेण कार्यं स्वभावादिविप्रक्षृटम् अप्य् अवश्यं न भवतीति / इयता लेशेनास्योपन्यासः / अत एव सा ///

4 /// .. नुद्दिष्टविषयो ऽपि शक्यते व्यवस्थापयितुं / नन्व् इत्यादि परः / अग्नेर् विनाशे ऽपि वासगृहादौ धूमस्य दर्शनात्* तथा चासत्य् अपि कारणे कार्यं दृष्टम् इति व्यभिचारः / असति कारणे कार्यं न स्याद् इत्य् अनेन वाक्येन कारणस्थितिकालभाविकार्यं / यावत् कारणसत्ता तावत् कार्यसत्तेत्य् अर्थः / एवं न ब्रूमो येन का ///

5 /// संगः स्यात्* / कारणात् सकृदुत्पन्नस्य कार्यस्य कारणनाशे ऽपि कालान्तरम् अव्स्थानात्* / किं तर्ह्य् अनेन वाक्येनोच्यत इत्य् आह हेतुरहितेत्यादि / यद्य् अप्य् अयं ग्रन्थेन च तथेत्यादि ग्रन्थेन व्यवहितः तथाप्य् अर्थ .. ///

व्1 /// ः कारणे नष्टे कार्यस्य स्थानम् एव नास्तीति कुतो व्यभिचाराशंका / तथा हि यो ऽग्निजन्यो धूमक्षणस् तस्याग्नौ विनष्टे नास्त्यवस्थानं / यतो यस्मिन् क्षणे द्वितीये अग्निजन्यस्य धूमक्षणस्य सत्ता तस्मिन्न् एव कारणभूतो ऽग्निक्षणो विनष्टस् तदनन्तरं च तृतीये क्षणे धूमक्षणो ऽपि विनष्ट इति कु ///

2 /// ग्निहेतुकस् तद् एव दर्शयन्न् आह न च तथेत्यादि / तथा स्थायीति नष्टे ऽप्य् आद्ये कारणे कालान्तरस्थायी तदुपादानः पूर्वनिरुद्धहेतूपादानः कथं तर्हि पस्चात् यो ऽपि धूमो ऽग्निहेतुक इत्य् उच्यत इत्य् आह / पारंपर्येत्यादि / आद्यं तावद् धूमक्षणं वह्निर् एव जनयति स धूमक्षणो ऽपरं सो ऽप्य् अपर .. ///

3 /// .. .. .. .. मतो जननात्* / तत्कार्यव्यपदेशः / तस्याद्यस्य कारणस्य पश्चात्यम् अपि कार्यम् इत्य् एवं व्यपदेशः / यद्य् अस्य हेतोः कथंचित् प्रमाणेनाभावः सिध्येत्* तदा तत्फलं तस्य प्रतिषेध्यमानस्य हेतोः फलं नास्तीति निश्चियते / तदभावः प्रतीयेत हेतुना यदि केनचिद् इत्य् अस्यैव वक्ष्यमानस्य .. ///

4 /// .य्. .. अनुद्दिष्टविषये तु नैवम् अपेक्ष्यते / यदि कारणं न भवेत् कार्यम् अप्य् अवश्यं न भवेद् धेतुरहिताया भावोत्पत्तेर् असंभावाद् इत्य् एतावन्मात्रस्य प्रतिपादनात् तच् चानन्तरं एवोक्तम् इति स्वभावेत्यादि / अर्थस्येति व्यापकस्य स्वभावे लिङ्गिन्य् असत्वेन साध्ये स्वभावानुपलम्भश् च व्यापकानुपलम्भ ///

5 /// स्वभाव एवेत्यादिना व्याचष्टे / किंचिद् इति व्यापकानुपलम्भः / यदि अनुपलभ्यमानो व्यापकः स्वभावो ऽस्य निषेध्याभिमतस्य व्याप्यस्य सिद्धः स्यात्* तदा भवेत् प्रमाणं यथा वृक्षत्वं व्यापकं सि .. ///

x pramāṇavārttikaṭīkā r1 /// .. vaḥ pratīyeta hetunā kenacit svabhāvānupalaṃbhākhyena yadītyādinārtham āha yady asya kārakasyābhāvaḥ sidhyed iti saṃbandhaḥ / vyāpakasya ca svabhāvasyābhāvaḥ kutaścid gamakād dhetor iti upalabdhilakṣaṇaprāptānupalambhāt* sa eva hi pratiṣedhe ga .. .. .. .. .. .. .. .. .. ///

2 /// .. .. .. .. .. .. .. द्ध्. कारकव्यापकयोर् अभावासिद्धौ निवर्त्ये ऽपि कार्ये व्याप्ये च संशयात्* / एतच् चोद्दिष्टविषयस्याभावस्य साधने द्रष्टव्यं यथोक्तं प्राक्* / यदि स्वभावाभावे साध्ये तदनुपलम्भ एवाप्रमाणाम् उच्यते कथम् इदानीं भावस्य घटादेः स्वयम् अनुपलब्धेर् अभावसिद्धिः / उत्तरम् आह दृश्यस्ये .. ///

इन् मर्गिन् (line 7) /// न स्वभावाविप्रकर्षम् आह / तस्यैवंविधस्य भावस्यानुपलब्धस्य सतः भावाभावः सत्ताया अभावः प्रतीत्यते / कदा दर्शनाभावकारणासंभवे सति दर्शनाभावस्य कारनं कारणान्तराणां 3 /// तस्यासंभवे सति उपलम्भप्रत्ययान्तरसाकल्ये सतीत्य् अर्थः / भावो हीत्यादिना व्याचष्टे / आत्मानं भावयति बोधयतीति भावः / स्वभावाद्यविप्रकृष्टः स्वभावविशेषः / स यदि भवेद् यथास्वं ग्राहकेण कारणेन यस्य यद् ग्राहकम् इन्द्रियं तेनोपलभ्य एव भवेत्* एतेन दृश्यस्येत्य् एतद् व्याख्यातं स यथोक्तो ///

4 /// षु व्यवधानादिष्व् आदिशब्दाद् वैकल्यप्रतिबन्धादिषु असत्सूपलम्भप्रत्ययेषु सत्स्व् इति यावत्* / उपलभ्यत एव नान्यथा / तथाभूतो ऽनुपलब्धस् त्व् असन्न् इति निश्चीयते किं कारणं तादृशः सतः उपलब्धिलक्षणप्राप्तस्य सतः / उपलम्भाव्यभिचारात्* य एवायं स्वभावस्याभावं निश्चये दृश्यस्य दर्शनेत्यादिनोक्तो ऽयम् एव हेतुर् वे ///

5 /// .. ध्ये विरुद्धस्य चेत्यादि चशब्दो भिन्नक्रमः तद्विरुद्धोपलब्धौ चेति द्रष्टव्यः यस्याभावः साध्यस् तेन यो विरुद्धस् तेन यो विरुद्धस् तस्योपलब्धौ च स्याद् असत्तायाः प्रतिषेध्याभावस्य निश्चयः किं कारनं विरुद्धस्य भावस्य भावे सत्तायां तद्भावबाधनात्* / तस्य निषेध्याभिमतस्य सत्ताबाधनात्* द्रव्योः सहानवस्थानाद् इति यावत्* / यो हीत्यादिना / व्याचष्टे / यो हि भावो येन .. .. ///

6 /// .. .. .. .. .. .. .. .. .इ .. .. इत्य् आह तदुपादानयोर् इत्यादि तयोर् विरुद्धयोर् य उपादाने तयोर् अन्योन्यं परस्परं / द्वैगुण्यं तस्याश्रयत्वेन शीतोपादानम् उष्णोपादानवैगुण्यस्याश्रय इतरच् चेतरस्येत्य् अर्थः / तेन कारणेन विरुद्धयोः शीतोष्णकार्ययोर् एकत्र युगपदारम्भविरोधात्* / तयोर् अनन्तरोक्तेन प्रकारे ///

व्1 /// ब्धिप्रभेदे / न शीतः स्पर्शो ऽत्राग्नेर् इत्यादि / यद्य् अप्य् अत्रानुपलब्धिर् इति न श्रुतिस् तथापीदं स्वभावविरुद्धाख्यं लिङ्गम् अनुपलब्धेः सकाशान् न पृथग् उच्यते / किं कारणं तत एवानुपलम्भाद् विरोधगतेः विरोधाच् चाभावसाधनात्* विरुद्धो हि कथं निश्चीयेत / यदि तदुपलंभे प्रतियोगिनो ऽनुपल ///

2 /// पलब्धेर् अभावासिद्धेर् इत्य् अर्थाद् विरुद्धवि .. ने ऽनुपलब्धिर् एव प्रयु .. .. .. .इति / भवतु नामैवंविधायाया दृश्यविषया अनुपलब्धेः सकाशाद् अभावगतिर् अतश् चेयं प्रमाणं सा पुनः कथम् अनुमानं किंतु प्रमाणान्तरम् एवेति भावः / कथं वा न स्याद् इत्य् आचार्यः / दृष्टान्तानपेक्षणाद् इति परः / दृष्टान्तापेक्षं ह्य् अनुमानम् अन्वयव्यतिरेकव .. ///

3 /// .. .. .. .. मानं दृष्टान्तानपेक्षताम् एद्व न हीत्यादिना प्राह / अस्याम् इत्य् अनुपलब्धौ किं न निरुपाख्यम् इत्यादि आचार्यः दृष्टान्त एवेत्य् अर्थः / तद् असद् इत्यादि परः / तद् व्योमकुसुमादि असद् इति कथं केन प्रमाणेनावगन्तव्यं येनैवं स्यात्* / अनुपलअब्धेर् लिङ्गाद् अभावे साध्ये दृष्टान्तः स्याद् इत्य् अर्थः / अनुपलब्धेर् एव लिङ्गाद् व्योमकुसुमा ///

4 /// .इद्यते दृष्टान्तो यस्या असत्तासिद्धेर् इति विग्रहः / अथात्राप्य् अपरो दृष्टान्तस् तस्या व्योमकुसुमाद्यसत्तासिद्धेः सदृष्टान्तत्वे वानवस्थाप्रसंगः / तत्राप्य् अपरो दृष्टान्तस् तत्राप्य् अपरो ऽपीति कृत्वा / तथा चानवस्थायां सत्यां एकस्यापि सिद्धाव् अप्रतिपत्तिः / सर्वत्र तस्माद् अनवस्थादोषपरिहारार्थं निरुपाख्य ///

5 /// .. लब्धिलक्षणप्राप्तस्य अनुपलब्धेर् इत्यादाव् अपि प्रयोगे दृष्टान्तानपेक्षणाद् अननुमानम् अनुपलब्धिः / शृण्वन्न् अपीत्य् आचार्यः / सकृद् उक्तं यथा स्वभावानुपलब्धौ नाभावः साध्यते किंतु अभावव्यवहार इति तच्छृण्वन्न् अपि / मूर्खस्य त्रीणि नामानि देवो दिव्यः प्रजयतिर् इत्य् अतो देवानां मूर्खाणां प्रि .. ///

6 /// ..म् एवासद्व्यवहारं साध्यं दर्शयन्न् आह / निमित्तं हीत्यादि / दृश्यस्यानुपलब्धिर् उपलभ्यानुपलब्धिः / सा निमित्तं कारणं सद्व्यवहाराणां सानुपलब्धिः स्वसन्निधानाद् आत्मना सन्निधानात्* / स्वनिमित्तान्* स्वम् अनुपलब्धिरूप .. ///

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.