Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 9/25

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

स्फुटार्था अभिधर्मकोशव्याख्या

Tác giả
यशोमित्र
Thông tin
GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

कोटिः. अकुशलानंतरं कुशलम् अनिवृताव्याकृतं वा चित्तं संमुखीकरोति. [तिब्. 218ब्] द्वितीया. विपर्ययात्. तृतीया. ऽकुशलानन्तरं अकुशलम् एव. चतुर्थी एतान् आकारान् स्थापयित्वा. आदिशब्देन निवृताव्याकृतः अनिवृताव्याकृतश् च सभागहेतुर् योज्यः. निवृतस्य तावत् प्रथमा कोटिः. निवृताव्याकृतचित्तानन्तरं कुशलं अनिवृताव्याकृतं वा चित्तं सम्मुखीकरोति. द्वितीया. विपर्ययात्. तृतीया. निवृताव्याकृतचित्तानन्तरं निवृताव्याकृतम् एव. चतुर्थी. एतान् आकारान् स्थापयित्वा. अनिवृतस्य प्रथमा कोटिः. अनिवृताव्याकृतानन्तरं कुशलं क्लिष्टं वा चित्तं संमुखीकरोति. द्वितीय. विपर्ययात्. तृतीया. अनिवृताव्याकृतानन्तरं अनिवृताव्याकृतम् एव. चतुर्थी. एतान् आकारान् स्थापयित्वा. तस्य बीजभावोपगमनाद् इति. तस्य फलस्य हेतुभावोपगमनाद् इत्य् उपमा सौत्रान्तिकप्रक्रियैषा. क्वचित् पुस्तके नास्त्य् एवंपाठः. यथा जलमण्डलम् इति विस्तरः. यथेति दृष्टान्तप्रदर्शनं. जलमण्डलं वायमण्डलस्य प्रतिष्थाफलं. यावच्छब्देन जलमण्डलस्य कांचनमयी पृथिवी. कांचनमय्याः पृथिव्यास् तथा सस्यौषधिप्रभृतयः प्रतिष्ठाफलम् इत्य् अधिकारः. अशुभायाः स्मृत्युपस्थानान्य् आरभ्य यावाद् अनुत्पादज्ञानं. [तिब्. 219अ] एवम् अन्यस्याप्य् आनापानस्मृत्यादेः. प्रयोगस्य फलं योज्यं. सामग्र्याः फलं सामग्रीफलं. चक्षुरादीनाम् इति. आदिशब्देन चक्षूरूपालोकमनस्काराणां ग्रहणं. एवं भावनायाः फलं भावनाफलम् इति समासः. एतत् तु सर्वम् इति विस्तरः. एतच् चतुर्विधं फलं पुरुषकाराधिपतिफलयोर् अन्तर्भूतं. प्रतिष्ठाफलं. अधिपतिफलान्तर्भूतं. प्रयोगफलादिपुरुषकाराधिपतिफलयोः.

(ii.61, 62अब्) क्लिष्टा इति विस्तरः. क्लेशतत्संप्रयुक्ततत्समुत्थाः क्लिष्टाः. विपाकहेतुजाता विपाकजाः. दुःखे धर्मज्ञानक्षान्तितत्सहभुवः प्रथमानास्रवाः.(अभिध्-क्-व्य् 231) तेभ्यश् च शेषाः क्लिष्टादिभ्यस् त्रिभ्यः. विपाकवर्ज्या अव्याकृता ऐर्यापथिकशैल्पस्थानिकनैर्माणिकाः. प्रथमानास्रवक्षणवर्ज्याश् च कुशला इति. कुशलग्रहणेन सास्रवानास्रवा गृह्यन्ते. तत्र दुःखे धर्मज्ञानकलापादयः सर्व एव शैक्षाशैक्षमार्गा लौकिकाश् च कुशलाः शेषा इत्य् अवगन्तव्यं शेषाश् चात्र तृतीयो राशिः क्रियते. तेनाह. त एते चतुर्विधा धर्माः

क्लिष्टा विपाकजाः [तिब्. 219ब्] शेषाः प्रथमार्या यथाक्रमं विपाकं सर्वगं हित्वा तौ सभागं च शेषजा

इति. विपाकम् इति विपाकहेतुं. क्लिष्ता धर्मा विपाकहेतुं हित्वा शेषेभ्यः पंचभ्यः कारणसहभूसभागसंप्रयुक्तकसर्वत्रगेभ्यो यथासंभवं जायन्ते. स्वभाववर्ज्यात् सर्वधर्मलक्षणात् कारणहेतोः. स्वकलापचित्तादिलक्षणात् सहभूहेतोः. पूर्वोत्पन्नस्वसंतानक्लिष्टलक्षणात् सभागहेतोः. स्वकलापचित्तलक्षणात् संप्रयुक्तकहेतोः. यस्मात् ते चित्तचैत्तस्वभावाः पूर्वोत्पन्नसत्कायदृष्ट्यादिलक्षणात् सर्वत्रगहेतोर् जायन्ते. न तु विपाकहेतोः. विपाकफलेन हि सफलो विपाकहेतुः. न च क्लिष्टा धर्मा विपाकस्वभावा इति ते न ततो जायन्ते. विपाकजाः सर्वत्रगहेतुं हित्वा शेषेभ्यः पंचभ्य एव हेतुभ्यो जायन्ते. न तु सर्वत्रगहेतोः. विपाकजानाम् अक्लिष्टत्वात्. सर्वत्रगाख्यः क्लिष्टानाम् इति हि सर्वत्रगहेतुलक्षणं. यद्य् अपि मिथ्यादृष्ट्यादिभ्यः सर्वत्रगेभ्यो विपाकजा जायन्ते. न तु सर्वत्रगहेतोर् इति कृत्वा ततो जायन्ते. किं तर्हि. विपाकहेतोर् इति. शेषा इति विस्तरः. शेषाणाम् [तिब्. 220अ] अविपाकस्वभावत्वात्. न विपाकहेतुर् अस्ति. अक्लिष्टस्वभावत्वाच् च न सर्वत्रगहेतुर् अस्ति. अतस् तौ विपाकसर्वत्रगहेतू वर्जयित्वा शेषेभ्यश् चतुर्भ्यो जायन्ते. पूर्ववद् व्याख्यानं. प्रथमानास्रवाः तौ विपाकसर्वत्रगहेतू पूर्वोक्तौ. चशब्देनानुकृष्टौ सभागहेतुं च हित्वा शेषेभ्यः कारणसहभूसंप्रयुक्तकहेतुभ्यो यथासंभवं जायन्ते. अनास्रवाणाम् अविपाकस्वभावत्वात् न विपाकहेतुर् अस्ति. अक्लिष्टत्वात् न सर्वत्रगहेतुः. मार्गस्य पूर्वमनुत्पादितत्वात् न सभागहेतुर् अस्ति. न हि सास्रवा अग्रधर्मा अनास्रवस्य कलापस्य सभागहेतुर् युज्यते. तस्मान् न तेभ्यो जायन्ते.

चित्तचैत्ता

इति. संप्रयुक्तकहेतुसंभवार्थं चित्तचैत्तग्रहणं. प्राप्तिजात्यादयश् च चित्तविप्रयुक्ताः. अनास्रवसंवरश् च रूपिस्वभावो ऽनास्रवेषु वेदितव्यः. ते चित्तविप्रयुक्ता रूपिणश् च चित्तचैत्तेभ्यो ऽन्ये क्लिष्तादयः क्लिष्टविपाकजशेषप्रथमानास्रवसंगृहीताः तथैवोत्पद्यन्ते यथा चित्तचैत्ताः. केवलं तु संप्रयुक्तकहेतुनैकेन वर्जिताः. तेषाम् असंप्रयुक्तकस्वभावत्वात् न संप्रयुक्तकहेतोर् जायन्ते. कथम् इति. क्लिष्टा चित्तविप्रयुक्तरूपिणो [तिब्. 220ब्] (अभिध्-क्-व्य् 232) विपाकसंप्रयुक्तकहेतू हित्वा शेषेभ्यश् चतुर्भ्यो हेतुभ्यो जायन्ते. विपाकजा अपि संप्रयुक्तकसर्वत्रगहेतू हित्वा शेषेभ्यश् चतुर्भ्य एव. शेषा विपाकसर्वत्रगसंप्रयुक्तकहेतून् हित्वा शेषेभ्यस् त्रिभ्यः. प्रथमानास्रवा विपाकसर्वत्रगहेतू सभागहेतुं च संप्रयुक्तकहेतुं च हित्वा शेषाभ्यां हेतुभ्यां जायंत इति. एकहेतुसंभूतो नास्तीति. कारणसहभूहेत्वोर् अवश्यम् अविनाभावात्.

(ii.62च्द्, 63) जनस्य जनैका जातिर् न हेतुप्रत्ययैर् विनेत्य् उक्तं. अतो हेतुविस्तरवचनानन्तरं पृच्छति प्रत्ययाः कतम इति. प्रत्ययजातिः प्रत्ययतेति. प्रत्ययप्रकार इत्य् अर्थः. गोतावत्.

चित्तचैत्ता

इति विस्तरः. चित्तचैत्ता एव

समनन्तर

इत्य् अवधारणं

अचरम-

ग्रहणं सोत्तराणां समनन्तरत्वात्.

उत्पन्न-

ग्रहणं अनागतनिरासार्थं. समश् चायम् अनन्तरश् च प्रत्यय इति समनन्तरप्रत्यय इति. समानार्थे संशब्दः. कामावचरस्य रूपस्येति. अविज्ञप्तिरूपस्य कदाचित् कामावचरं अविज्ञप्तिरूपं रूपावचरं चाविज्ञप्तिरूपम् उत्पद्यते सास्रवध्यानसंमुखीभावे गृहीतसम्वरस्य. कदाचित् कामावचरं चानास्रवं चानास्रवध्यानसंमुखीभावे. न तु कामावचरचित्तानन्तरं कदाचित् [तिब्. 221अ] कामावचरं रूपावचरं च युगपच् चित्तम् उत्पद्यते. कामावचरं च अनास्रवं चेत्य् आकुलो रूपसंमुखीभावः.

द्वितीयोत्पत्तेर् इति. द्वितीयौपचयिकोत्पत्तेः. यदा हि भुक्त्वा स्वपिति ध्यानम् वा समापद्यते. तदाहारज औपचयिकः स्वप्नजश् च समाधिजो वा औपचयिक उत्पद्यते.

अल्पबहुतरोत्पत्तेर् इति. किं. रूपं न समनन्तरप्रत्यय इति प्रकृतं. भदन्तः स्थविरः सौत्रान्तिकः.

कुशलाकुशलाव्याकृतेषु चित्तेष्व् इति.

सवितर्कविचारित्वात्. कुशले कामचेतसि द्वाविंशतिश् चैतशिकाह्. कौकृत्यम् अधिकं क्वचित्. आवेणिके त्व् अकुशले दृष्तियुक्ते च विंशतिः. क्लेशैश् चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिः. निवृते ऽष्टादशान्यत्र द्वादशाव्याकृते मता

इत्य् अनेन क्रमेण कदाचिद् बहुभ्यश् चैत्तेभ्यस् त्रयोविंशतेर् एकविंशतिर् अष्टादश द्वादश वाल्पे चैत्ता उत्पद्यन्ते. कदाचिद् अल्पाद् बहवो विपर्ययात्. सवितर्कविचारादौ च समाधित्रये अस्ति सवितर्कः सविचारः समाधिः अस्ति अवितर्को विचारमात्रः. अस्त्य् अवितर्को ऽविचार इति. एतस्मिं समाधित्रये चैत्तानाम् अल्पबहुतरोत्पत्तिः. अतश् च चित्तचैत्ता अपि न समनन्तरप्रत्ययाः स्युर् इति. अस्ति जात्यंतरं प्रति न स्वजातिम् [तिब्. 221ब्] इति. अस्त्य् अल्पबहुतरोत्पत्तिर् जात्यन्तरं प्रति न स्वजातिं. वितर्कविचारादीनां हि क्वचिच् चित्ते जात्यन्तरभूतानां सतां वृत्तिर् अवृत्तिश् च भवति. न कदाचिद् बहुतरा वेदनेति. न हि कदाचिद् वेदनैकस्मिंश् चित्ते एका क्वचिद् अपरस्मिं द्वे तिस्रो वेति. रूपस्य तु स्वजातिं प्रत्य् अल्पबहुतरोत्पत्तिः.

किं पुनः स्वजातेर् एवेति. किं वेदना वेदनाया एव समनन्तरप्रुत्ययः. अनेकवेदनोत्पत्ताव् असामर्थ्यात्. एवं संज्ञादयः. न परजातेः. न वेदना संज्ञादीनां. यतश् चैत्तानाम् अल्पबहुतरोत्पत्तिर् न परिगृहीता भवेत्.

सांतानसबागिकास् त्व् इति विस्तरः. चित्तं चित्तान्तरस्य समनन्तरप्रत्ययः. न वेदनायाः. वेदना वेदनान्तरस्य. न चित्तस्येति. संतानसभागः सभागहेतुर् इत्य् अर्थः. संतानसभागेन दीव्यन्ति व्यवहरन्ति वा सांतानसभागिकाः केचिद् आभिधर्मिकाः. यदि संतानः संतानान्तरस्य सभागहेतुः. अक्लिष्टानन्तरं यदा क्लिष्टम् उत्पद्यते. कथं तत्र समनन्तरप्रत्ययव्यवस्थेति. अत आह. यदा तु अक्लिष्टानन्तरम् इति विस्तरः. तस्य क्लेशस्य पश्चादुत्पन्नस्य पूर्वनिरुद्धक्लेशः क्षणान्तरव्यवहितः समनन्तरप्रत्यय इति व्यवस्थापयंति. तुल्यजातीयेन चित्तान्तरेणायवधानात्. अक्लिष्टेन व्यवधानं त्व् अव्यवधानम् एव. अतुल्यजातीयत्वात्. [तिब्. 222अ] तद्यथा निरोधसमापत्तिचित्तं व्युत्थानचित्तस्य. चित्तान्तरेणाव्यवधानात्. समापत्तिद्रव्येण व्यवहितम् अपि समनन्तरप्रत्ययो व्यवस्थाप्यते. तद्वत्.

त्रैधातुकप्रतिसंयुक्तानां युगपत्संमुखीभावाद् इति. कामधात्ववीतरागस्यार्यस्य कामावचर्याः प्राप्तेर् अनन्तरं त्रैधातुकाप्रतिसंयुक्तानां प्राप्तय उत्पद्यन्ते. त्रैधातुकैः क्लेशैः समन्वागतत्वात्. एवं तज्जात्यादयो ऽप्य् उत्पद्यन्ते. इत्य् एवं व्याकुलसम्मुखीभावात् विप्रयुक्ता अपि संस्काराः प्राप्तिजात्यादयो न समनन्तरप्रत्ययः.

कस्माद् अनागत इति विस्तरः.

उत्पन्नाः समनंतर इति अतीतप्रत्युत्पन्ना एव समनन्तरप्रत्यय इति पूर्वम् उक्तं. अत एवं पृच्छति. व्याकुलत्वाद् इति. व्याकुलत्वाद् अनागतो नेष्यते समनन्तरप्रत्ययः. व्याकुलत्वं पुनर् अनागतस्याध्वनः पूर्वोत्तराभावात्. पूर्वोत्तरताया अभावात्. (अभिध्-क्-व्य् 234) वर्तमानो हि अनागतात् पूर्वो वर्तमानाद् अतीत इति शक्यते वक्तुं. पूर्वोत्तरकालयोगात्. न त्व् अनागतस्य पूर्वपश्चिमतास्ति. अत एव च वर्तमानो वर्तमानस्य न समनन्तरप्रत्यय इष्यते. पूर्वपश्चिमताया अभावात् तुल्यवर्तमानस्य न समनन्तरप्रत्यय इष्यते. पूर्वपश्चिमताया अभावात् तुल्यकालत्वात्. अतीतसांप्रतानुमानाद् इति. अतीतेन च सांप्रतेन चानुमानात्. अतीतेनानुमानम् इति दर्शयन्न् आह. अतीतं किलाध्वानं [तिब्. 222ब्] पश्यतीति विस्तरः. सांप्रतेनानुमानम् इति दर्शयन्न् आह. इदं चापि संप्रत्य् एवंजातीयकम् इति विस्तरः. अपरान्तं न जानीयाद् इति. सर्ववित्त्वम् अस्य हीयेतेति अभिप्रायः. फलचिह्नभूतः फललिंगभूतः. न साक्षात्कारी न साक्षाद्दर्शी.

अनागतो नेष्यते समनंतरप्रत्ययो व्याकुलत्वात् पूर्वपश्चिमताया ऽभावाद् इत्य् उक्ते ऽयम् आह. कस्माद् अग्रधर्मानन्तरम् इति विस्तरः. तस्य वैभाषिकः परिहारम् आह. यस्य यत्प्रतिबद्ध उत्पाद इति विस्तरः. यस्य धर्मस्य दुःखे धर्मज्ञानक्षान्त्यादेर् यस्मिं धर्मे लौकिकाग्रधर्मादौ प्रतिबद्ध उत्पादः. स तस्यानन्तरम् उत्पद्यते. तद्यथा बीजादीनाम् अंकुरादयः. अंकुरस्य हि बीजे प्रतिबद्ध उत्पादः. तस्मात् तदनन्तरम् उत्पद्यते. एवं काण्डादीनां अंकुरादिषु. विनापि समनन्तरप्रत्ययेनासत्य् अपि समनन्तरप्रत्यये. अपिशब्दात् सति समनन्तरप्रत्यये सुतराम् उत्पद्यत इत्य् अभिप्रायः. तस्मान् नास्ति च क्रमनियमावस्थानं तद्वत् समनन्तरोत्पत्तिनियमश् च भवतीति वाक्यार्थः.

कस्माद् अर्हतश् चरमा इति.

अचरमा

इति वचनाद् अयं प्रश्न आगतः. अन्यचित्तसम्बन्धाद् इति. यस्मात् तदनन्तरं अन्यचित्तं न सम्बध्नन्ति. आश्रयभावप्रभावितं [तिब्. 223अ] मन इति. यथा चक्षुर् उत्पन्नं चक्षुर्विज्ञानाश्रयभावेनावस्थितं यदि कारणान्तरवैकल्याच् चक्षुर्विज्ञानं नोत्पद्यते न तत्र चक्षुर् अपराध्यते. एवम् अर्हतो ऽपि चरमं चित्तं आश्रयभावेनावस्थितं. कारणान्तरवैकल्यात् तु विज्ञानान्तरं नोत्पद्यते इति न तद् अपराध्यते. तद् धि न कारित्रप्रभावितं न जननपुरुषकारप्रभावितम् इत्य् अर्थः. यदि हि तज् जननप्रभावितं स्यात् जायमान एव सति कार्ये तन् मनः स्यात्. न चैवम्. अतो ऽसत्य् अपि जन्ये तन् मनो भवत्य् एव. कारित्रप्रभावितस् तु समनन्तरप्रत्ययः सत्य् एव जन्ये समनन्तरप्रत्ययो भवति. नासति. तेन यो धर्मः फलं प्रतिगृहीतः तेन समनंतरप्रत्ययेन यो धर्मः फलं प्रतिगृहीतो जायताम् एतद् इति. स सर्वैर् अपि धर्मैर् अबुद्धिमद्भिः सर्वप्राणिभिर् वा संचिन्त्यकारिभिर् न शक्यः प्रतिबन्द्धुं यथा नोत्पद्येत मोत्पादीति.

ये धर्माश् चित्तसमनन्तरा इति विस्तरः. समनंतरप्रत्ययचित्तजनिताश् (अभिध्-क्-व्य् 235) चित्तसमनन्तराः. चित्तस्य समाश् च ते ऽनन्तराश् च ते इति चित्तसमनन्तराः. अथ वा चित्तं समनंतरं. समनंतरप्रत्यय एषाम् इति चित्तसमनन्तराः. क्षणान्तराव्यवहितात् तु चित्तनिरंतराः. ते पुनश् चित्तसमनन्तराः चित्तचैत्ता [तिब्. 223ब्] द्वे च समापत्ती असंज्ञिनिरोधसमापत्ती. नासंज्ञिकं चित्तसमनन्तरं शास्त्रे पठितं कर्मसामर्थ्योत्पत्तेः. प्रथमा कोटिर् इति विस्तरः. समापत्तिव्युत्थानचित्तं समापत्तिप्रवेशचित्तजनितम्. अतश् चित्तसमनन्तरं न चित्तनिरंतरं. समापत्तिक्षणव्यवहितत्वात्. द्वितीयादयश् च समापत्तिक्षणाः. प्रथमक्षणवर्ज्या इत्य् अर्थः. चित्तसमनंतराः. तत्प्रत्ययजनितत्वात्. न चित्तनिरन्तराः. यथायोगं प्रथमादिक्षणव्यवहितत्वात्. द्वितीया. प्रथमस्य समापत्तिक्षणस्य जात्यादयः चित्तनिरन्तराः. क्षणान्तरव्यवहितत्वात्. न तु चित्तसमनन्तराः. अचित्तसमनन्तरस्वभावत्वात्. चित्तचैत्ता एव हि सह समापत्तिद्वयेन चित्तसमनन्तरा इष्टाः. सचित्तिकावस्थायां च जात्यादयः. तेषाम् अविशेषितत्वात् सर्वेषां चित्तचैत्तादीनां जात्यादयः. आदिग्रहणेन च सर्व एव विप्रयुक्ता गृह्यन्ते समापत्तिद्वयं वर्जयित्वा. ते च तथैव चित्तनिरंतरा न चित्तसमनन्तराः. पूर्ववद् व्याख्यानं. सचित्तिकावस्थेति. यदा चित्ताच् चित्तांतरम् उत्पद्यते. तदा पश्चिमाश् चित्तचैत्ताः [तिब्. 224अ] पूर्वकेण चित्तेन चित्तसमनंतराश् चित्तनिरंतराश् च भवंति. चतुर्थी. द्वितीयादीनां समापत्तिक्षणानां व्युत्थानचित्तस्य च जात्यादयः न चित्तसमनन्तराः.

अचित्तसमनन्तरस्वभावत्वात्. न चित्तनिरंतराः. प्रथमादिसमापत्तिक्षणव्यवहितत्वात्. ये तृतीयचतुर्थ्यौ ते प्रथमद्वितीये इति विस्तरः. प्रथमा कोटिः. प्रथमसमापत्तिक्षणः सचित्तिका चावस्था. ते हि चित्तसमनंतराः समनंतरप्रत्ययजनितत्वात्. न समापत्तिनिरंतराः. प्रथमसमापत्तिक्षणस्य सर्वसमापत्तिक्षणभावेन न तन्निरंतरत्वाभावात्. सचित्तिकावस्थायां च समापत्त्यभावात्. द्वितीया. द्वितीयादीनां समापत्तिक्षणानां जात्यादयो व्युत्थानचित्तस्य च. इमे धर्माः समापत्तिनिरंतर न चित्तसमनन्तराः. तृतीया. अच्चित्तिकायाः समापत्तेर् व्युत्थानचित्तं द्वितीयादयश् च समापत्तिक्षणाः. एते चित्तसमनन्तराः समापत्तिनिरन्तराश् च. चतुर्थी. प्रथमस्य समापत्तिक्षणस्य सचित्तिकायां चावस्थायां जात्यादयः. इमे धर्मा न चित्तसमनन्तरा न समापत्तिनिरन्तराः. अचित्तसमनन्तरस्वभावत्वात्. [तिब्. 224ब्] पूर्वसमापत्तिक्षणभावाच् च.

ससंप्रयोगस्य सचैतसिकस्य. तथालक्षणत्वाद् इति. आलम्ब्यलक्षणत्वात्. आयतनद्रव्यक्षणनियमेनेति. आयतनं च द्रव्यं च क्षणश् च तेषां नियमः. तेनैव. ते चित्तचैत्ताः स्वस्मिन्स्वस्मिन् आलम्बने नियताः. यथा तावच् चक्षुर्विज्ञानं ससंप्रयोगं रूपायतने आलम्बने नियतं न शब्दायतनादौ. (अभिध्-क्-व्य् 236) एवम् आयतननियमेन. तत्राप्य् आयतने द्रव्यनियमेन नीलरूपे नीलरूपग्राहकम् एव चक्षुर्विज्ञानं ससंप्रयोगं नियतं. नान्यत्र पीतादौ. एवं द्रव्यनियमेन. तत्रापि नीलरूपे आलम्बने यो नीलरूपक्षणो यस्यालम्बनं. स तस्यैव. नान्यस्य. इत्य् एवं क्षणनियमेन. एवं शब्दायतनादिष्व् अपि श्रोत्रादिविज्ञानं ससंप्रयोगं योज्यं. किम् आश्र्यनियमेनापीति. किं चक्षुराद्याश्रयनियमेनाप्य् एते चित्तचैत्ता नियताः. ओम् इत्य् आह. एवम् इत्य् अर्थः.

आलम्बनप्रत्ययो ऽपि सर्वधर्मा इति मनोविज्ञानापेक्षया. अधिको ऽयं प्रत्यय इत्य् अधिपतिप्रत्यय इति. हेतुप्रत्ययादिभ्यः. हेतुप्रत्ययो हि परं पंच हेतवः. आलम्बनप्रत्ययो हि सहभुवां न संभवतीति नाधिकः. अधिकस्य वा प्रत्यय इति. पूर्वम् अधिकः पतिर् अधिपतिः. स प्रत्यय इति [तिब्. 225अ] समासः. इदानीम् अधिकस्य भूयसः पतिर् अधिपतिः. स प्रत्यय इत्य् अधिपतिप्रत्यय इति समासः. कथम् इत्य् आह. सर्व इति विस्तरः. सर्वः संस्कृतासंस्कृतः सर्वस्य संस्कृतस्य स्वभाववर्ज्यस्य सालम्बनस्यानालम्बनस्य च प्रत्ययो ऽधिपतिप्रत्ययः. आलम्बनप्रत्ययस् तु सालम्बनस्यैव नानालम्बनस्य. प्रथमे विग्रहे प्रत्ययस्याधिक्यं दर्शितं. द्वितीये प्रत्ययवतः.

(ii.64) निरुध्यमाने कारित्रम्

इति. निरुध्यमान एवेत्य् अवधारणं. मिथःफलत्वात् समाश्रयत्वाच् च सहभूसंप्रयुतकहेत्वोर् यथाक्रमं.

त्रयो जायमान

इति. जायमान एवेत्य् अवधारणं.

ततो ऽन्यौ तु प्रत्ययौ तद्विपर्ययाद्

इति. समनन्तरप्रत्ययः पूर्वोक्तस् तं पश्चादुक्तं कारित्रकालनियमम् आश्रयते. जायमाने कारित्रं करोतीत्य् अर्थः. पश्चादुक्त आलम्बनप्रत्ययः पूर्वोक्तं कारित्रकालनियमम् आश्रयते. निरुध्यमाने कारित्रं करोतीत्य् अर्थः. एवं तौ

विपर्ययात्

कारित्रं कुरुतः. तेनाह. समनन्तरप्रत्ययो जायमाने कारित्रं करोत्य् अवकाशदानात्. आलम्बनप्रत्ययो निरुध्यमाने. वर्तमानैश् चित्तचैत्तैर् वर्तमानग्रहणाद् इति. ग्रहणार्थेन ह्य् आलम्बनप्रत्ययो व्यवस्थाप्यते. न चातीतनागताश् चित्तचैत्ता ग्राह्यम् अर्थं गृह्णन्तीति.

एतद् एवास्य कारित्रम् इति. यद् अनावरणभावेन सर्वस्याम् अवस्थायाम् अवस्थानं एतद् एवास्याधिपतिप्रत्ययस्य कारित्रम् इति सुगमत्वान् नाधिपतिप्रत्ययस्य [तिब्. 225ब्] कारित्रकालनियमः सूचित इत्य् अभिप्रायः.

(65) द्विविधो हेतुर् इति. संप्रयुक्तकसर्वत्रगविपाकहेतूनाम् असंभवात्. समानभूमिकाः कुशला धर्मा इति. निरोधसमापत्तेर् भावाग्रिकाः कुशला धर्माः सभागहेतुर् हेतुप्रत्ययः. असंज्ञिसमापत्तेर् अपि चतुर्थध्यानभूमिकाः. येषां बलेन ते समापत्ती भवतः. समनन्तरप्रत्ययः ससंप्रयोगं समापत्तिचित्तम् इति. सर्वेषां निरोधसमापत्तिक्षणानाम् असंज्ञिसमापत्तिक्षणानां च चित्तान्तरेणाव्यवधानात्. पूर्ववद् इति. स्वभाववर्ज्याः सर्वधर्माः. चित्ताभिसंस्कारजत्वाद् इति. चित्ताभोगजत्वाद् इत्य् अर्थः. चित्तोत्पत्तिविबन्धनात् न समनंतरप्रत्यय इति. समनन्तरप्रत्ययस्य चित्तोत्पत्तिहेतुत्वात्.

द्वाभ्याम् अन्ये त्व्

इति. तुशब्दो ऽवधारणे भिन्नक्रमश् च. द्वाभ्याम् एव हेत्वधिपतिप्रत्ययाभ्याम् अन्ये वै चित्तचैत्तसमापत्तिद्वयविनिर्मुक्ता धर्मा जायन्ते. ईश्वरपुरुषप्रधानादिकम् इति. आदिशब्देन कालस्वभावपरमाण्वादि गृह्यते. ननु चात एवेति. यदि वेश्वर एकं कारणं पुरुष इति वात्र पक्षे को हेतुर् इति हेतुर् मृग्यते. ईश्वरव्यतिरिक्तं हेतुं कृत्वा तत्सिद्धेर् इति अभ्युपगतं भवति. तदभ्युपगमाच् चैकम् ईश्वरः पुरुष इति वा कारणं सर्वस्य जगत इति अस्य वादस्य व्युदासः परित्यागः प्राप्नोतीति पिण्डेन वाक्यर्थः. [तिब्. 226अ]

नेश्वरादेः क्रमादिभिर्

इति. नेश्वरादेर् भावा जायन्ते. कस्मात्. क्रमादिभिः. आदिग्रहणेन देशकालादीनां ग्रहणं. अथ वानेककारणत्वानवस्थाप्रसंगाद् अन्यपुरुषकालनिह्नवादीनां ग्रहणं. यदि ह्य् एकम् एवेति विस्तरः. यदि ह्य् एकम् एव कारणम् ईश्वरः स्यात् महादेवो वा वासुदेवो वा अन्यद् वा पुरुषादि वेत्य् अर्थः. युगपत् सर्वेण जगता भवितव्यं कारणस्य सद्भावात्. न ह्य् एतद् इष्टं. सति कारणे कार्यं न भवतीति. दृश्यते च भावानां कललादीनाम् अंकुरादीनां च क्रमसंभवः. तस्मात् स्वकारणपरंपरानिर्वृत्त इति नेश्वरादिकारणम् इति गम्यते. ईश्वराद्येककारणं जगद् इति हि प्रतिजानानस्य स्वकारणक्रमोत्पादित्वादिलक्षणेन धर्मविशेषेण तस्य सापक्षालत्वं पक्षस्योपलक्ष्यते. स तर्हि छन्दवशाद् इति. स क्रमभेद इच्छावशाद् ईश्वरस्य स्यात्. कथम् इत्य् आह. अयम् इदानीं भाव उत्पद्यतां यावद् अयं पश्चाद् उत्पद्यताम् इति. एवं क्रमसंभवश् च भावानां ईश्वरश् च कारणम् इति ईश्वरकारणिकाभिप्रायः. छन्दभेदाद् इति विस्तरः. ईश्वरच्छन्दभेदाच् चैककारणत्वाभ्युपगमाच् च प्राक्पक्षविरोधाद् धर्मस्वरूपविपर्ययः पक्षस्योत्पद्यते. स चापीति विस्तरः. [तिब्. 226ब्] स चापि छन्दभेदो युगपत् स्यात्. तद्धेतोश् छन्दभेदहेतोर् ईश्वरस्याभिन्नत्वाद् एकत्वाद् इत्य् अर्थः. (अभिध्-क्-व्य् 238) ततश् च एव स पूर्वोक्तो दोशो युगपत् स्याद् इति. अथ मन्यसे. अन्यद् अपि कारणान्तरं भिन्नं तदुत्पत्तौ ईश्वरो ऽपेक्षत इत्य् अत इदम् उच्यते. कारणान्तरभेदापेक्षणे चे ति विस्तरः. नेश्वर एव कारणम् इत्य् अभ्युपगमे स एव दोषः. तेषाम् अपि चेति विस्तरः. तेषाम् अपि च कार्णान्तराणां क्रमोत्पत्ताव् इष्यमाणायां

कारणान्तरभेदानाम् अपि पुनः कारणान्तरभेदापेक्षणाद् अनवस्थाप्रसंगः. तेषाम् अपि कारणान्तरभेदापेक्षणं तेषाम् अपि कारणान्तरभेदापेक्षणम् इत्य् अपर्यवसानप्रसंगः स्यात्. शाक्यपुत्रीयम् एव न्यायम् इति. अनादिः संसार इति शाक्यपुत्रीयं न्यायं नातिक्रान्तः स्यात्. यौगपद्ये ऽपीति विस्तरः. अथापि स्यात्. यौगपद्ये ऽपीश्वरछन्दानां न जगतो यौगपद्यं. कस्मात्. यथाछन्दं उत्पादात्. यश् छन्दः अयम् इदानीम् उत्पद्यताम् इति. तस्य तस्माच् छन्दाद् इदानीम् एवोत्पत्तिः. यः पश्चाद् उत्पद्यताम् इति. तस्य तस्मात् पश्चाद् उत्पत्तिः. इदं च पश्चात् पश्चात्तरम् एवंप्रकारम् इति तस्य तस्मात् पश्चात्तरं तथैवोत्पत्तिर् इति. तच् च न. तेषां पश्चाद् विशेषाभावात्. तेषां छन्दानां पश्चान् न कश्चिद् विशेष इति. यथैव पूर्वं नारभन्ते. तथा पश्चाद् अपि नारभेरन्. यथा वा पश्चाद् आरभन्ते. तथा पूर्वम् अपीति. अथ वा एक एवोत्पादयिता नेतर इति तेसां विशेषाभावः. अतः प्राप्तम् एव भावानाम् ईश्वरच्छन्दानाम् [तिब्. 227अ] इव यौगपद्यं. कारणान्तरापेक्षत्वे वा छन्दविशेषाणां पूर्ववद् दोशः. न तस्याम् ईश्वरः स्याद् इति. न तस्यां प्रीतौ ईश्वरः स्याद् विनोपायेन तत्कारणशक्तेः. एतद् ईश्वरस्येश्वरत्वं. यद् असौ कारणान्तरानपेक्षः कुर्यात्. तथैव चान्यस्मिन्न् इति. यथा प्रीताव् अनीश्वरः. एवम् अन्यस्मिन्न् अपि त्रैलोक्ये नेश्वर इत्य् अनुमीयते. यदि चेश्वर इति विस्तरः. नरकादिषु प्रजां सृष्ट्वा बहुभिश् चेतिभिर् उपसृष्टां. बहुभिर् अनेकैः प्रकारैर् ईतिभिर् उपसर्गै रोगादिभिर् उपसृष्ताम् उपद्रुतां प्रजां सृष्ट्वा यदि प्रीयेत नमो ऽस्तु तस्मै इत्य् उत्प्रासवचनम् एतत्. सुगीतश् चेति विस्तरः. सूक्तश् चायं तम्

आरभ्य तम् ईश्वरम् अधिकृत्य श्लोकः शतरुद्रीये व्यासेन

यन् निर्दहतीत्यादि.

यस्मान् निर्दहति तस्माद्

रुद्र

इत्य् एवं सर्वत्र. अन्येषाम् इति. बीजादीनां अंकुरादिषु प्रत्यक्षः पुरुषकारो निह्नुतः स्यात्. कारणेभ्यो ऽन्यस्य व्यापारदर्शनाद् इति. चक्षूरूपालोकमनस्कारादिभ्यश् च एअक्षुर्विज्ञानाद्युत्पत्तौ बीजक्षेत्रोदकादिभ्यश् चांकुराद्युत्पत्तौ अन्यस्य व्यापारानुपलब्धेः. यथा हि चक्षुरादीनां चक्षुर्विज्ञानाद्युत्पत्तौ बीजादीनां चांकुराद्युत्पत्तौ व्यापारो दृश्यते. तद्भावे (अभिध्-क्-व्य् 239) भावात् तदभावे चाभावात्. न तथा चक्षुरादिभावे बीजादिभावे च [तिब्. 227ब्] ईश्वरस्याभावे चक्षुर्विज्ञानांकुराद्यभावो दृष्टः. पुनश् च तद्भावे भावः. यतस् तस्यापि तदुत्पत्तौ व्यापारो गम्यते. अतस् तद्व्यापारदर्शनात् सह कारणैर् ईश्वरं कारणं कल्पयतां केवलो भक्तिवादः स्यात्. किं च सहकारिषु चेति विस्तरः. यानि सहकारीण्य् अन्यानि तस्येश्वरस्य. किं तेष्व् ईश्वरो नेश्वरः स्यात्. तानि हि कार्योत्पत्तौ स्वसामर्थ्येन व्याप्रियंते. अन्येषु तु सहकारिष्व् ईश्वरः स्याद् इति अन्यग्रहणं. आदिसर्ग ईश्वरहेतुकः. तथा हि प्रत्यक्षपुरुषकारनिह्नवो न स्यात्. कारणेभ्यो ऽन्यस्य व्यापारादर्शने चादोशो जगतश् चेश्वरः कारणम् इति. तस्याप्य् अन्यकारणानपेक्षत्वात्. तस्याप्य् आदिसर्गस्यान्यकारणानपेक्षत्वात्. ईश्वर एवैकः. कारणं नान्यद् इति. ईश्वववद् अनादित्वप्रसंगः. अनिष्टं चैतत् तस्मान् नेश्वरः कारणं.

एवं प्रधाने ऽपि यथागोगं योज्यम् इति. प्रधानम् अचेतनं. तस्मात् तत्र छन्दविकल्पनां हित्वा शेषप्रतिषेधविधानं योज्यं. यद्य् एकम् एव कारणं प्रधानं स्यात्. युगपत् सर्वेण जगता भवितव्यं स्यात्. दृश्यते च भावानां क्रमसंभवः. कारणान्तरभेदापेक्षणे वा न प्रधानम् एव कारणं स्यात्. तेषाम् अपि क्रमोत्पत्तौ कारणान्तरभेदापेक्षनाद् अनवस्थाप्रसंगः स्याद् इति विस्तरः. एवं खल्व् अपि जगतः कारणं परिगृह्णता अन्येषाम् अर्थानां प्रत्यक्षः पुरुषकारो निह्नुतः स्यात्. सहापि च कारणैः कारणं प्रधानं कल्पयताम् [तिब्. 228अ] केवलो भक्तिवादः स्यात्. कारणेभ्यो ऽन्यस्य व्यापारदर्शनात्. सहकारिषु चान्येषु कारणेषु तत्प्रधानम् अप्रधानं स्यात्. अथादिसर्गः प्रधानहेतुकः. तस्यापि महदाद्युत्पादस्वभावस्यादिसर्गस्याद्यलक्षणत्वात् प्रधानवत् अनादित्वप्रसंगः. नित्यं हि प्रधानं प्रधानं च महतः कारणम् इति पूर्वप्रधानं पस्चान् महान् इति न सिध्यति. प्रसवधर्मि च प्रधानम् इति तेन नित्यं प्रवर्तितव्यं कारणान्तरनिरपेक्षत्वात्. न हि प्रकाशः प्रकाश्यम् अर्थं प्रकाश्य पुनर् न प्रकाशयतीति. स्वभावो हि कृतार्थतां नोपेक्षते. अकृतबुद्धयः परमार्थशास्त्रैर् असंस्कृतबुद्धय इत्य् अर्थः.

(ii.66) द्विधा भूतानि तद्धेतुर्

इति. पूर्वोत्पन्नानि भूतानि पश्चादुत्पन्नानां स्वासंतानिकानां सभागहेतुर् अविनिर्भागवर्तीनि सहभूहेतुः. भूतानुविधायित्वाद् इति. भौतिकं भूतान्य् अनुविधत्ते. तद्विकारे विकारात्. आचार्यादिनिश्रयवद् इति. यथाभिक्षुर् आचार्यम् आश्रयते. आदिशब्देन उपाध्यायं च निश्रयते. तद्वत्. भूतानि भौतिकं निश्रयते. एवम् एषाम् इति विस्तरः. जन्महेतुत्वम् एषां भूतानाम् आख्यातं तु भौतिकस्य तेभ्य उत्पत्तेः. विकारहेतुत्वं तदनुविधायित्वात्. आधारहेतुत्वं (अभिध्-क्-व्य् 240) आधारभावात्. स्थितिहेतुत्वम् अनुच्छेदहेतुत्वात्. वृद्धिहेतुत्वम् उपबृम्हणहेतुत्वाद् इति. अविशेषवर्तित्वाद् इति [तिब्. 228ब्] अविघ्नभाववस्थानेनान्येषाम् अपि हेतुत्वाद् इत्य् अर्थः. अन्योन्यं चित्तानुपरिवर्तिकायवाक्कर्नेति. कायकर्म चित्तानुपरिवर्ति ध्यानानास्रवसंवरसंगृहीतं त्रिविधं प्राणातिपातादत्तादानकाममिथ्याचारविरतिभेदेन. वाक्कर्मापि चित्तानुपरिवर्ति ध्यानानास्रवसंवरसंगृहीतम् एव चतुर्विधं. मृषावादपैशुन्यपारुष्यसंभिन्नप्रलापविरतिभेदेन. तद् एवं सप्तविधं कायवाक्कर्मान्योन्यं सहभूहेतुः. प्राणतिपातविरतिर् उपादायरूपं इतरेषां षण्णां सहभूहेतुः. तान्य् अपि षट् तस्य सहभूहेतुर् इति सर्वं योज्यं. नान्यद् इति. चक्षुरादिकं सर्वम् उपादायरूपं प्रातिमोक्षसंवरादिसंगृहीतम् अपि यावन् नान्योन्यं सहभूहेतुः पृथक्कलापत्वात्. सभागस्येति. कुशलं कुशलस्य स्वासंतानिकस्य क्लिष्टं क्लिष्टस्येत्यादि. यस्य कायवाक्कर्मण इति. विज्ञप्त्यविज्ञप्तिस्वभावस्य समाहितस्यासमाहितस्य वा यथायोगं. एकधैव तद् इति. विपाकहेतुर् एवैक इत्य् अवधारणं. कारणहेतोस् तथैवागण्यमानत्वात्. पृथक्कलापत्वाद् इति सहभूहेत्वाद्ययोगात्.

(ii.67) रूपधाताव् अकुशलं नास्तीति. स विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् [तिब्. 229अ] उपसंपद्य विहरतीति वचनात्. तत्र रूपधाताव् अकुशलं नास्ति. अकुशलविवेकाद् धि यज् जातं शुभं. तद् विवेकम् इत्य् उच्यते. यथा च हेतुः. तथा फलम् इति. तत्रोपपत्ताव् अपि नास्त्य् अकुशलम् इति गम्यते. रूपारूप्यधातौ सर्व एव क्लेशोपक्लेशाव् अविपाकत्वान् निवृता एव नाकुशलाः.

(ii.68-71) अनन्तरम् इति पश्चाद् वक्ष्यत इति कारिकान्ते. तद् इह संबन्धनीयं. समापत्तिकाले कुशलम् इति. कामावचरप्रायोगिककुशलचित्तानन्तरं प्रथमध्यानभूमिकं सामन्तकीयं मौलीयं वा चित्तम् उत्पद्यते. प्रतिसंधिकाले निवृतम् इति. कामावचरोपपत्तिप्रतिलम्भिकमरणचित्तानन्तरं रूपावचरं निवृताव्याकृतं चित्तम् उत्पद्यते प्रतिसंधिकाले.

उपपत्तिभवः क्लिष्टः सर्वक्लेशैः स्वभूमिकैर्

इति वचनात्. उपपत्तिर् अत्रान्तराभवोपपत्तिर् अभिप्रेता. एवम् अन्तराभवप्रतिसंधिर् अपि क्लिष्टो वेदितव्यः. चतसृभिर् दूरताभिर् दूर इति. तत्रेयम् आश्रयदूरता. यद् आरूप्यावचरेण आश्रयेण कामावचरः कश्चिद् अपि धर्मो न संमुखीक्रियते. यथा रूपावचरेणाश्रयेण कामावचरं निर्माणचित्तं संमुखीक्रियत इति. अनयाश्रयदूरतया कामधातोर् आरूप्या दूरे भवंति. आकारदूरता. यद् आरूप्यावचरेण चित्तेन कामधातुर् नाकार्यते. यथा रूपावचरेण औदारिक इत्यादिभिर् आकारैः. आलम्बनदूरता. यद् आरूप्यावचरेण (अभिध्-क्-व्य् 241) चित्तेन न कामधातुर् आलम्ब्यते. यथा रूपावचरेण. ननु च रूपधातुर् अपि नारूप्यावचरेण चित्तेनालंब्यते.

न मौलाः कुषलारूप्याः सास्रवाधरगोचरा

[तिब्. 229ब्] इति वचनात्. तत् कथम् इदम् उच्यते कामधातोर् एवारूप्या दूरत इति. सत्यं न मौलारूप्यावचरेण चित्तेन रूपधातुर् अध्यालंब्यते. किं तु आकाशानंत्यायतनसामन्तकचित्तेन औदारिकाद्याकारैश् चतुर्थध्यानम् आलंब्यत इति. अतो न कामधातोर् इव रूपधातोर् आरूप्या दूरे व्यवस्थाप्यंते. प्रतिपक्षदूरता. यद् आरूप्या न कामधातोः प्रतिपक्षः. यथा रूपधातुः. इत्य् एवम् आश्रयालम्बनाकारप्रतिपक्षदूरताभिर् अपि कामधातोर् आरूप्या दूरे भवंति. तस्मान् न कामावचरकुशलानन्तरं आरूप्यावचरं कुशलम् उत्पद्यते. शैक्षम् अशैक्षं चेति. कामावचरप्रायोगिककुशलचित्तानन्तरं समापत्तिकाले लब्धपूर्वं शैक्षम् उत्पद्यते. तथैव चाशैक्षं. क्लिष्टसमापत्त्युत्पीडितस्येति. क्लिष्टया समापत्त्या उत्पीडितस्य योगिनो ऽधरायाः कुशलाया भूमेः संश्रयणान् निवृताव्याकृताद् अपि कुशलं चित्तम् उत्पद्यते. वरम् अधरापि कुशला भूमिर् नोर्ध्वा क्लिष्टेति. सर्वेभ्यो रूपारूप्यचित्तेभ्य इति. कुशलाव्याकृतचित्तस्य मरणसंभवात्.

तस्माच् चत्वारीति.

तस्माद् अकुशलाच् चत्वारि स्वभूमिकान्य् एव. अकुशलस्योर्ध्वभूमिकुशलप्रयोगत्वासंभवाद् अप्रहाणाच् चोर्ध्वभूम्युपपत्तिचित्तानुत्पादात्. [तिब्. 230अ] कुशलं निर्माणचित्ताद् अनन्तरम् इति. निर्माणाद् व्युत्थानकाले. तस्माद् अनन्तरम् एकादशेति. प्रतिसंधिसमापत्तितद्व्युत्थाननिर्माणप्रवेशकालेष्व् एकादशचित्तोत्पत्तिसंभवः. कथं. स्वभूमिकानि त्रीणि कामावचराणि च. व्युत्थानकाले कुशलं. प्रतिसंधिकाले क्लिष्टद्वयं. अनिवृताव्याकृतं च निर्माणचित्तं. आरूप्यावचरं. च निवृताव्याकृतं प्रतिसंधिकाले. कुशलं च समापत्तिकाले. शैक्षम् अशैक्षं चेति. न त्व् आरूप्यावचरम् अनिवृताव्याकृतम्. अवश्याक्लिष्टत्वात्. समापत्त्याद्ययोगाच् च. न हि तत् प्रयोगलभ्यं यथा रूपावचरं कामावचरं च निर्माणचित्तं. कामावचरं च क्लिष्टद्वयं आरूप्यावचरं चानिवृताव्याकृतं हित्वेति. न कामावचरात् क्लिष्टद्वयात् रूपावचरं कुशलम् उत्पद्यते. तस्य क्लिष्टद्वयस्य तत्प्रयोगानर्हत्वात्. अत एव च नारूप्यावचराद् अनिवृताव्याकृतात् तद् उत्पद्यते. कुशलेन च प्रतिसंधिबन्धाभावात्. कामावचरं क्लिष्तद्वयं शैक्षाशैक्षे च स्थापयित्वेति. न कामावचरात् क्लिष्टद्वयाद् रूपावचरं निवृताव्याकृतम् उत्पद्यते. तदप्रहाणे रूपधातौ प्रतिसंधिबन्धाभावेन निवृताव्याकृतचित्तसंभवात्. न शैक्षाशैक्षाभ्यां. ततस्त्येन [तिब्. 230ब्] क्लिष्टेन व्युत्थानासंभवात्. कामावचराणि (अभिध्-क्-व्य् 242) चेति. त्रीणीत्य् अधिकृतं. प्रतिसंधिकाले क्लिष्टद्वयं क्लिष्टसमाध्युत्पीडितस्य च कुशलं. कामावचरे च क्लिष्टे आरूप्यावचरं चेति. प्रतिसंधिकाले. अधरधातुकानि च क्लिष्टानि प्रतिसंधिकाले. आरूप्यावचरात् कुशलान् नवेति.

स्वभूमिकानि त्रीणि. रूपावचरं कुशलं तत्समापत्तिव्युत्थानकाले प्रतिलोमसमापत्तौ च. अधरभूमिकानि च क्लिष्टानि प्रतिसंधिकाले. शैक्षम् अशैक्षं च. कामावचरं कुशलं कामरूपावचरानिवृताव्याकृते हित्वेति. न कामावचरेण कुशलेन तत्समापत्तेर् व्युत्थानं संभवति अतिविप्रकृष्टत्वात्. अत एव च नानिवृताव्याकृतेनापि अपटुत्वात्. अत एव च न रूपावचरेणानिवृताव्याकृतेन व्युत्थानं. न चैभिः प्रतिसंधिबन्धो ऽस्तीति नैषाम् अत उत्पत्तिः. तत्षण्णाम् अनंतरम् इति वर्तते. रूपावचरात् कुशलाद् इति. समापत्तिकाले. शैक्षाशैक्षाभ्यां चेति. व्युत्थानकाले. रूपावचरं कुशलम् इति. क्लिष्टसमाध्युत्पीडितस्य. निवृतं चेत्यादि. प्रतिसंधिकाले. कामरूपावचराणि क्लिष्तानि शैक्षाशैक्षे च हित्वेति. अधोभूम्यवीतरागस्य तेन [तिब्. 231अ] प्रतिसंधेर् अभावात्. शैक्षाशैक्षाभ्यां च तेन व्युत्थानासंभवान् न तेभ्यस् तदुत्पत्तिः. तान्य् एव चत्वार्य् अशैक्षं चेति. त्रीणि त्रैधातुकानि कुशलानि व्युत्थानकाले. शैक्षं च प्रवाहे. वज्रोपमानन्तरं क्षयज्ञानम् इति अशैक्षं चेति. पंच पंचकाद् अत एवानन्तरोक्ताद् इति. त्रैधातुकेभ्यः कुशलेभ्यः समापत्तिकाले. वज्रोपमानन्तरोत्पत्तौ प्रवाहे चेति. तस्माच् चत्वारीति. शैक्षं हित्वा. न ह्य् अशैक्षात् शैक्षम् उत्पद्यते. परिहाणिकाले कथं नोत्पद्यते. क्लेशोत्पादव्यवहितत्वात्. व्युत्थितस्यैव परिहाणेश् च.

(ii.72, 73) प्रायोगिकं चोपपत्तिलाभिकं चेति. प्रायोगिकं यत् प्रयोगाल् लभ्यते. श्रुतचिन्ताभावनामयं त्रिषु धातुषु यथासंभवं. उपपत्तिलाभिकं कामरूपधात्वोर् अन्तराभवप्रतिसंधिक्षणे प्रथमतो यस्य प्राप्तिर् उत्पद्यते. आरूप्यधातौ चोपपत्तिभवे यस्य प्राप्तिर् उत्पद्यते. विपाकजम् ऐर्यापथिकं शैल्पस्थानिकं निर्माणचित्तं चेति. हेतुकर्मभेदाद् अयं भेदः. विपाकहेतोर् जातं विपाकजं. ईर्यापथेषु शयनासनस्थितिचंक्रमणेषु भवं ऐर्यापथिकं. शिल्पस्थानेषु भवं शैल्पस्थानिकं. निर्माणे चित्तं निर्माणचित्तं. निर्मिते निर्माणे वा भवं नैर्मितं नैर्माणिकम् इति वा. तद् एवोच्यते. पुनर् विंशतिर् भवन्तीति. कथम् इत्य् आह. षोढा कुशलम् अनिवृताव्याकृतं च सप्तधा भित्त्वेति. त्रिषु धातुषु प्रायोगिकोपपत्तिप्रतिलंभिकभेदेन [तिब्. 231ब्] कुशलं षोढा भित्त्वा. कामरूपधात्वोश् चानिवृताव्याकृते सप्तधा भित्त्वा. कामधातौ विपाकजैर्यापथिकशैल्पस्थानिकनैर्माणिकभेदेन. रूपधातौ च विपाकजैर्यापथिकनैर्माणिकभेदेनेति. तान्य् एतानि त्रयोदश शेषाणि च सप्ताभिन्नान्य् एव. तद्यथा (अभिध्-क्-व्य् 243) कामावचरम् अकुशलं निवृताव्याकृतं च. रूपावचरं निवृताव्याकृतम् एव आरूप्यावचरं निवृताव्य्कृतम् अनिवृताव्याकृतं च. शैक्षम् अशैक्षं चेति विंशति चित्तानि भवंति. ईर्यापथाद्यधावाद् इति. ईर्यापथशिल्पस्थाननिर्माणाभावात्. एतानि त्रीण्य् आरूप्यधातौ न संति. आलम्बनभूतस्य रूपस्याभावात्. रूपगन्धरसस्प्रष्टव्यान्य् एषाम् आलम्बनम् इति. तत्र शय्यासनरूपादयः स्वशरीरावयवरूपादयश् चैर्यापथिकस्यालम्बनं. शैल्पस्थानिकस्य शिल्पस्थानरूपादयः नैर्माणिकस्य

निर्माणरूपादयः. शैल्पस्थानिकस्य तु शब्दो ऽपीति. तुशब्दो विशेषणे अपिशब्देन रूपादयः. शब्दो ऽप्य् अस्यालम्बनं. शिल्पोपदेशशब्दम् आलम्ब्य मनोविज्ञानेन शिल्पं शिक्षते इति. विपाकजस्यावचनात् सर्वे ऽपि रूपादय आलम्बनम् इत्य् अवगन्तव्यं. मनोविज्ञानान्य् एवेति. मनोविज्ञानस्वभावान्य् ऐर्यापथिकादीनि त्रीणि. विकल्पाभिसंस्करणे [तिब्. 232अ] प्रवृत्तत्वात्. विपाकजम् अवचनात् षड्विज्ञानस्वभावम् इति ज्ञापितं भवति. पंच तु विज्ञानकायम् ऐर्यापथिकशैल्पस्थानिकयोः प्रायोगिका इति. तत्प्रयोगावस्थायां भवत्वात् प्रायोगिकाः. यस्मात् ते दृष्ट्वा यावत् स्पृस्ट्वोत्पद्यंत इति. विपाकस्य प्रयोगो नास्ति. कर्मसामर्थ्येन स्वरसवाहित्वात्.

ऐर्यापथिकाभिनिर्हृतम् इति विस्तरः. ऐर्यापथिकेन मनोविज्ञानेनाभिनिर्हृतम् उत्पादितं मनोविज्ञानम् अस्ति द्वादशायतनालम्बनं. चक्षुरायतनालम्बनं यावद् धर्मायतनालंबनम् अनिवृताव्याकृतस्वभावम् इत्य् अपरे. तद् एवं प्रदर्शयंति. अन्यद् अप्य् अनिवृताव्याकृतम् अस्ति यद् ऐर्यापथिकादिषु नान्तर्भवतीति. इत्थम् एव च प्रतिपत्तव्यं. अन्यथा हि यद् वक्ष्यति

कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् द्वितीयादौ तद् आद्याप्तम् अक्लिष्टाव्याकृतं च तत्. स्वभूमिकेन निर्माणं भाषणं त्व् अधरेण चेत्यादि.

तानि विज्ञानानि एषां चतुर्णां कतमेन संगृहीतानि. न तावद् विपाकजानि. ऊर्ध्वोपपन्नानाम् अधरभूमिकविपाकासंभवात्. नैर्यापथिकादीनि. ईर्यापथाद्यभावात्. अज्ञानादिवासनाचित्तं च क्व प्रवेशयितव्यं भदन्तानन्तवर्मणा ऽपि विभाषाव्याख्यान उक्तम्. एतच् चतुष्टयव्यतिरिक्तान्य् अव्याकृतानि विज्ञानानि [तिब्. 232ब्] सन्तीति. सावशेषम् एतद् भाष्यम् इत्य् अवगन्तव्यं.

अन्यत्राभिज्ञाफलाद् इति. कामावचरं निर्माणचित्तं रूपावचरप्रायोगिकानन्तरम् एवोत्पद्यते. न कामावचरप्रायोगिकानन्तरं. रूपावचरं प्रायोगिकं शैक्षम् अशैक्षं चेति. समापत्तिकाले. स्वेभ्यः कुशलक्लिष्टेभ्य इति. स्वाभ्यां कुशलाभ्यां क्लिष्टाभ्यां च. प्रयोगकाले क्लिष्टासद्भावात्. क्लेशपरिखिन्नस्य च प्रायोगिकोत्पत्तेः. नानिवृताव्याकृतेभ्यः दुर्बलानभिसंस्कारित्वात्. रूपावचराभ्यां प्रायोगिकक्लिष्टाभ्याम् इति. प्रायोगिकात् क्लिष्टात्. शैक्षाशैक्षाभ्यां (अभिध्-क्-व्य् 244) च व्युत्थानकाले. क्लिष्टात् क्लिष्टसमाध्युत्पीडितस्य. रूपारूप्यावचरे च क्लिष्टे इति. प्रतिसंधिकाले. संभवति ह्य् उपपत्तिप्रतिलंभिकचित्तस्य मरणं. पूर्ववद् इति. अन्यत्राभिज्ञाफलाद् इत्य् अर्थः. तद् धि रूपावचरप्रायोगिकानन्तरम् एवेत्य् उक्तं. रूपावचराभ्यां चेति विस्तरेण पूर्ववद् व्याख्यानं. अकुशलनिवृताव्याकृतानन्तरम् इति. अकुशलानन्तरं निवृताव्याकृतानन्तरं चेति विभक्तव्यं. तुल्यत्वाद् धि तद् युगपद्वचनं. रूपावचरेभ्यश् चतुर्भ्यः. अन्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् इति. प्रतिसंधिकाले. प्रायोगिके ऽभिज्ञाफले च स्थितस्य नास्ति मरणम्. अतस् ताभ्यां तत् क्लिष्टद्वयं नोत्पद्यते. शेषेषु तु स्थितस्यास्ति मरणं. [तिब्. 233अ] अतस् तेभ्यस् तत् क्लिष्टद्वयम् उत्पद्यते. प्रतिसंधिकाले. एवम् अन्यत्राप्य् अन्यत्र प्रायोगिकाद् इति व्याख्येयं. षड् अन्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् इति. दुर्बलानभिसंस्कारकत्वात्. अनयोर् अनन्तरं प्रायोगिकं नोत्पद्यते. रूपावचरप्रायोगिकानन्तरोत्पत्तेश् च न ताभ्याम् अभिज्ञाफलोत्पत्तिः. रूपारूप्यावचरे च क्लिष्टे इति. प्रतिसंधिकाले. शैल्पस्थानिकानन्तरं षड् इति. तत्रस्थस्य

मरणासंभवात् ऐर्यापथिकविपाकजवद् इह रूपारूप्यावचरक्लिष्टयोर् असंभवः. स्वं चाभिज्ञाफलम् एवेति. प्रवाहकाले. रूपावचरं च प्रायोगिकम् इति. तद्व्युत्थाने. न ह्य् अप्रविश्य ध्यानं अभिज्ञाफलाद् व्युत्थानम् अस्तीति. तदप्य् अस्माद् एव द्वयाद् इति. तद् अभिज्ञाफलं प्रवाहे तत्प्रवेशकाले च. कामावचरकुशले इति. व्युत्थानकाले. अस्ति हि संभव उपपत्तिप्रतिलंभिकेनापि समापत्तिव्युत्थानं पटुत्वात्. अतो द्वयोर् अपि कुशलयोर् ग्रहणं. अभिज्ञाफलं चेति. कामावचरं निर्माणचित्तं. आरूप्यावचरं प्रायोगिकं शैक्षाशैक्षं च समापत्तिकाले. अन्यत्रैर्यापथिकविपाकजाभ्याम् इति. तयोर् दुर्बलानभिसंस्कारिकत्वात्. प्रायोगिकक्लिष्टाभ्याम् [तिब्. 233ब्] इति. व्युत्थानक्लिष्टसमापत्त्युत्पीडितकालयोः. कामावचरे क्लिष्टे इति प्रतिसंधिकाले. अन्यत्राभिज्ञाफलाद् इति. निर्माणचित्तस्य प्रायोगिकानन्तरोत्पत्तेः. आरूप्यावचरं क्लिष्तम् इति. प्रतिसंधिकाले. कुशलक्लिष्टानीति. कुशले च क्लिष्टे च कुशलक्लिष्टानीति समासः. कुशलाधरभूमिकाश्रयणात् कुशले. क्लिष्टे तु प्रतिसंधिकाले.कामावचरेभ्य इति विस्तरः. प्रतिसंधिकाले. प्रायोगिकशैल्पस्थानिकाभिज्ञाफलेषु मृत्युर् नास्तीति न तेभ्यः. कामावचरे क्लिष्टे इति. प्रतिसंधिकाले. आरूप्यावचरम् अपि क्लिष्टम् अस्मिन्न् एव स्वं प्रायोगिकं अतो नोत्पद्यते. ऐर्यापथिकस्य दुर्बलानभिसंस्कारित्वेन प्रयोगानर्हत्वात्. एवं विपाकजम् इति. यथैर्यापथिकम् उक्तं. तथेदं विपाकजानन्तरं सप्त यावद् अन्यत्राभिज्ञाफलाद् इति. ताव् एव ग्रन्थार्थौ. अभिज्ञाफलानन्तरं द्वे स्वे इति. व्युत्थाने प्रवाहे च. तद् अप्य् आभ्याम् एवेति. प्रवेशे प्रवाहे च. (अभिध्-क्-व्य् 245)

रूपावचरं प्रायोगिकम् इति. व्युत्थानकाले. एवं शैक्षम् अशैक्षं [तिब्. 234अ] स्वानि चत्वारीति. कुशलं भवतीति स्फुटं. क्लिष्टं आस्वादनाकाले. ऽनिवृताव्याकृतं तु व्युत्थानकाले. रूपावचरात् प्रायोगिकाद् इति. समापत्तिकाले. अन्यत्र विपाकजाद् इति. दुर्बलानभिसंस्कारवाहित्वाद् इति कारणं वक्ष्यते. शैक्षाशैक्षाभ्यां चेति. समापत्तिकाले. अधरधातुकानि च क्लिष्टानीति. रूपावचरकामावचराणि प्रतिसंधिकाले. प्रायोगिकक्लिष्टे इति. प्रायोगिकं क्लिष्टसमाध्युत्पीडनात्. क्लिष्तं प्रतिसंधिकाले. कामावचरे ऽपि क्लिष्टे प्रतिसंधिकाल एव. कामावचररूपावचरेभ्य इति विस्तरः. तच्चित्तस्थमरणसंभवात्. अन्यत्र प्रायोगिकाद् इति. विपाकजानन्तरं प्रायोगिकानुत्पत्तेः. अधराणि त्रीणि क्लिष्टानीति. द्विधातुकानि प्रतिसंधिकाले. कामावचरम् उत्पत्तिलाभिकम् इति. पटुत्वाद् एतच् छैक्षाद् व्युत्थानचित्तं संभवति. पटुत्वाद् इति कारणं वक्ष्यति. न तु तथा रूपारूप्यावचरे उपपत्तिलाभिके पटुनी इति न ते संभवतः. शैक्षं प्रवाहे अशैक्षं च वज्रोपमानन्तरं. शैक्षम् एकं हित्वेति. अशैक्षाच् छैक्षं नोत्पद्यते. तस्माद् अशैक्षानंतरं पंच. न तु षट् यथा शैक्षात्. तानि च पंच शैक्षवद् वक्तव्यानि [तिब्. 234ब्].

अत्र विंशतिचित्तानां समनन्तरप्रत्ययस्य असूत्रितस्य सूत्ररूपाः संग्रहश्लोकाः.

प्रायोगिकाच् छुभात् कामे दशाष्टभ्यस् तद् अन्यथः शुभान् नवैकादशतस् तत् सप्त क्लिष्टतः पृथक् चतुर्दशभ्यश् ते ऽष्टाव् ऐर्यापथिकविपाकजात् ते तु सप्ततः षट् शैल्पस्थानिकात् तत् तु सप्ततः नैर्मिताद् द्वे द्वयोश् चैतद् रूपे प्रायोगिकाच् छुबात् द्वादशैतत् तु दशतः शुभाद् अष्टाव् अयत्नजात् तत् पंचभ्यो नव क्लिष्टात् तद् एकादशतः पुनः विपाकजैर्यापथिकात् सप्त तत् पंचतो द्वयं द्वे अभिज्ञाफलाच् चित्ताद् द्वाभ्याम् एव तथैव तत् आरूप्ये यात्निकात् सप्त कुशलात् षड्भ्य एव तत् अयात्निकाच् छुभात् सप्त चतुर्भ्यस् तत् पुनः स्मृतं क्लिष्टाद् अष्टौ दशभ्यस् तत् षट् चित्तानि विपाकजात् चतुर्भ्यस् तत् तु षट् शैक्षाच् चतुर्भ्यः पुनर् एव तत्. अशैक्षात् पंच तद् अपि पंचभ्यः समनंतरं.

ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात्. न पुनर् एभ्यः प्रायोगिकम् उत्पद्यत इत्य् अधिकृतं. अतो ऽसंभवाद् ऐर्यापथिकशैल्पस्थानिकानन्तरं (अभिध्-क्-व्य् 246) प्रायोगिकं नोत्पद्यते. तद् अन्याभिसंस्करणप्रवृत्तत्वाद् इत्य् अभिप्रायः. यस्माद् ऐर्यापथिकम् ईर्यापथाभिसंस्करणे प्रवृत्तं. गमनाद्याकारत्वात्. शैल्पस्थानिकं च श्लिपाभिसंस्करणे प्रवृत्तम्. इदं एवं करोमीदम् एवं करोमीतीत्य् एवमाकारप्रवृत्तत्वात्. दुर्बलानभिसंस्कारवाहित्वाच् च विपाकजानन्तरं प्रायोगिकं नोत्पद्यते. [तिब्. 235अ] तद् धि विपाकजम् अव्याकृतत्वाद् दुर्बलं. पूर्वकर्माक्षेपात्. अयत्नेन च प्रवृत्तेर् अनभिसंकारवाहीति. अथ वा ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात्. ऐर्यापथिकशैल्पस्थानिकानन्तरं न प्रायोगिकम् उत्पद्यते. दुर्बलानभिसंस्कारवाहित्वाच् च ऐर्यापथिकशैल्पस्थानिकविपाकजानन्तरं प्रायोगिकं नोत्पद्यते. सर्वेषाम् अव्याकृतत्वेन दुर्बलत्वात्. अनभिसंस्कारवाहित्वाच् च विपाकजस्यैवैकस्य ऐर्यापथिकशैल्पस्थानिकयोर् अपि वा प्रायोगिकाभिसंस्काराभावात्. अन्यव्यापारपरत्वमात्राद् धि तयोर् अभिसंस्करणप्रवृत्तत्वम् उक्तं. अथ वायम् एवास्य वाक्यस्याभिसंबन्धः. ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात्. दुर्बलानभिसंस्कारवाहित्वाच् चैतानि विपाकजैर्यापथिकशैल्पस्थानिकानि न प्रयोगिकानुकूलानि. अतो न तदनन्तरं प्रायोगिकम् उत्पद्यत इति संबन्धनीयं. निष्क्रमणचित्तं तु अनभिसंस्कारवाहीति. प्रायोगिकचित्तप्रवाहाद् यद् अन्यच् चित्तं. तन् निष्क्रमणचित्तं. तेन ह्य् असौ योगी ततः प्रवाहान् निष्क्रामति तदवतारत्वात्. निष्क्रमणचित्तम् अन्भिसंस्कारवाहि अनाभोगवाहीति युक्तो ऽस्य

निष्क्रमणचित्तस्य विपाकजादीनाम् अन्यतमस्वभावस्य [तिब्. 235ब्] प्रायोगिकचित्तानन्तरम् उत्पादः. एवं तर्हीति. यदि न प्रायोगिकानुकूलानीति विपाकजादिभ्यो ऽनन्तरं प्रायोगिकं नोत्पद्यते. एवं तर्हि क्लिष्टेभ्यो ऽपि प्रायोगिकं नोत्पद्यते विगुणत्वात्. विगुणो हि क्लिष्टो धर्मः कुशलस्य नानुकूल इत्य् अर्थः तद्विरोधित्वात्. तथापीति विस्तरः. यद्य् अपि तद् विगुणं तथापि क्लेशसमुदाचारपरिखिन्नस्य योगिनः तत्परिज्ञानात् क्लेशसमुदाचारपरिज्ञानाद् युक्तः प्रायोगिकसंमुखीभावः. तत्परिज्ञानम् एव हि प्रायोगिकं चित्तम् इति. पटुत्वाद् इति. कामावचरम् उत्पत्तिप्रतिलंभिकं पटु तच् छैक्षादिभ्यो व्युत्थानचित्तं संभवति. अत एव च क्लिष्टसमाध्युत्पीडितस्य तदाश्रयणं भवति. अनभिसंस्कारवाहित्वात् तु तस्य तस्माच् छैक्षादीनि नोत्पद्यन्ते. रूपावचरं तूपपत्तिप्रतिलंभिकं न कामावचरवत् पटु. तस्मात् क्लिष्टसमाध्युत्पीडितस्य तदाश्रयणं न भवति. प्रायोगिकम् एवाश्रीयते. अन्योन्यानन्तरं चित्तानाम् उत्पादः.

तानि च मनस्कारवशाद् उत्पद्यंत इति अतो मनस्कारोपक्षेपः. त्रयो मनस्कारा इति विस्तरः. स्वलक्षणस्य मनसिकरणं स्वलक्षणमनस्कारः. तद्यथा रूपणालक्षणं रूपम् इत्य् एवमादि. आदिशब्देनानुभवनलक्सणा वेदनेति एवमादि.[तिब्. 236अ] अनित्यत्वादिमनसिकरणं सामान्यलक्षणमनस्कारः (अभिध्-क्-व्य् 247) षोडशाकारसंप्रयुक्तः. अनित्यतो यावन् नैर्याणिकत इति. अधिमुक्त्या न भूतार्थे मनसिकरणं अधिमुक्तिमनस्कारः. अशुभायां यावत् कृत्स्नायतनादिषु. आदिशब्देन ऋद्ध्यादीनाम् अभिनिर्हारे लगुत्वाद्यधिमोक्षो गृह्यते. तद्यथा महर्द्धिको महानुभावः परीत्तां पृथिवीसंज्ञाम् अप्य् अधितिष्ठति. अप्रमाणाम् अपि संज्ञां. स आकांक्षन् पृथिवीं चलयतीति विस्तरः. अशुभया सहगतं सम्बद्धं अशुभासहगतं. एतद् उक्तं भवति. अशुभामनस्कारानन्तरं स्मृतिसंबोध्यंगं भावयति जनयति उत्पादयतीति. समृतिसंबोध्यंगं ह्य् आर्यमार्ग इति अस्त्य् अधिमुक्तिमनस्कारानन्तरं आर्यमार्गोत्पाद इति दर्शयति. आह. यदि सामान्यमनस्कारानान्तरम् एव नाधिमुक्तिमनस्कारानंतरम् आर्यमार्गं संमुखीकरोति. इदं कथं नीयते. अशुभासहगतं स्मृतिसंबोध्यंगं भावयतीति. अत इदम् उच्यते. अशुभया तु चित्तं दमयित्वेति विस्तरः. प्रायोगावस्थायाम् अशुभया चित्तं दमयित्वा यावद् अवसाने सामान्यमनस्कारानन्तरम् आर्यमार्गं संमुखीकर्तोइ. अतो न सूत्रविरोध इति. आर्यमार्गानन्तरम् अपीति विस्तरः. न केवलं सामान्यमनस्कारानन्तरं आर्यमार्गं संमुखीकरोति. [तिब्. 236ब्] आर्यमार्गानन्तरम् अपि सामान्यमनस्कारम् एव संमुखीकरोतीत्य् अपरे. स्यात् तावद् इति विस्तरः. अनायम्यादीति.

आदिशब्देनानागम्यप्रथमध्यानध्यानान्तरत्रिभूमिसंनिश्रयेण नियामावक्रान्तौ तन्मार्गानन्तरं त्रिमार्गानन्तरं कामावचरं सामान्यमनस्कारं श्रुतमयं चिन्तामयं वा संमुखीकुर्यात् संनिकृष्टत्वात्. अथ द्वितीयादिध्यानसंनिश्रयेण द्वितीयतृतीयचतुर्थध्यानसंनिश्रयेण नियामावक्रान्तौ कथम् आर्यमार्गानन्तरं कथं सामान्यमनस्कारं संमुखीकरोति. न हि कामावचरः शक्यः संमुखीकर्तुम् इति वाक्यशेषः. कस्मात्. प्रथमध्यानव्यवहितत्वेनातिविप्रकृष्टत्वात्. ब्रूयास् त्वं द्वितीयादिध्यानभूमिकम् एव संमुखीकरोतीति. अत आह. न च तद्भूमिकः प्रतिलब्धो ऽन्यत्र निर्वेधभागीयाद् इति. द्वितीयध्यानादिभूमिको ऽनागम्यादिभूमिको वानास्रवो मार्गो ऽन्यत्र निर्वेधभागीयान् न प्रतिलब्ध आसीत्. अनाकारपतितस् तु लौकिको मार्गः प्रतिलब्ध आसीत्. न तु सः. तस्माद् आर्यस्य व्युत्थानार्थं रोचते. निर्वेधभागीयं तर्हि सामान्यमनस्कारं संमुखीकरिष्यतीति. अत आह. न चार्यो निर्वेधभागीयम् इति विस्तरः. किम् अर्थम् इति चेत्. अत आह. न हि प्राप्तफलस्य तत्प्रयोगसंमुखीभावो युक्त इति. प्रयोगस्य कृतार्थत्वान् [तिब्. 237अ] निहीनत्वाच् च निर्वेधभागीयानि चार्यमार्गस्य प्रयोग इति. अन्यो ऽप्य् अस्य तज्जातीय इति. यः सत्यालम्बनत्वान् निर्वेधभागीयजातीयः सामान्यमनस्कारो भावनां गच्छति. अनास्रवमार्गोत्पत्तिकाले प्राप्यते इत्य् अर्थः. कथं. शान्तं निर्वाणम् इति सामान्यमनस्कारः सर्वनिर्वाणालम्बनत्वात्. (अभिध्-क्-व्य् 248) तत् संमुखीकरिष्यतीति. सर्वसंस्कारा अनित्या इति वा सर्वधर्मा अनात्मान इति वा शान्तं निर्वाणम् इति वार्यमार्गानन्तरं संमुखीकरिष्यतीति. तद् एतन् न वर्णयन्ति. कस्मात्

एषां तज्जातीयानां सामान्यमनस्काराणां निर्वेधभागीयप्रतिबद्धभावनत्वात्. न किलैषाम् अनास्रवमार्गप्रतिबद्धाभावेनेति. अनागम्यं निश्रित्येति विस्तरः. तद्भूमिकम् इति. अनागम्यभूमिकं. तद्भूमिकं भावाग्रिकं वेति. आकिंचन्यायतनभूमिकं भावाग्रिकं वा यदि भवाग्रोपपन्नो भवति. शेषासु भूमिषु स्वभूमिकम् एव व्युत्थानचित्तं. नान्यभूमिकं. अन्यभूमिकस्य प्रयोगसाध्यत्वात्. स्वभूमिकम् अनभिसंस्कारेण भवतीति. प्रयोगप्रतिबद्धत्वाद् इति. कस्य. आर्यमार्गस्य. मार्गानन्तरं तूपपत्तिप्रतिलंभिकस्यापि कामावचरस्य संमुखीभाव इत्य् अधिकृतं.

(ii.74) क्लिष्टे त्रिधातुके लाभः षण्णां षण्णां द्वयोर्

इति. यथासंख्येन [तिब्. 237ब्] निर्देशः. कामावचरे क्लिष्ते षण्णां चित्तानां लाभः. प्रतिलंभ इत्य् अर्थः. रूपावचरे षण्णां. आरूप्यावचरे द्वयोर् इति. तेनाह. कामावचरे हि क्लिष्ट इति विस्तरः. तैर् असमन्वागतस्येति. तैः षड्भिश् चित्तैर् असमन्वागतस्य पुद्गलस्य. कथं. इह कुशलप्रतिसंधानं सम्यग्दृष्ट्या वा विचिकित्सया वा. तद् यदि विचिकित्सया प्रतिसंधत्ते. तत्र विचिकित्सासंप्रयुक्ते क्लिष्टे चित्ते संमुखीभूते यदा रूपधातोर् आरूप्यधातोर् वा कामधातुं प्रत्यागच्छति. तदास्यान्तराभवप्रतिसंधिचित्ते ऽवश्यक्लिष्टे तस्य कुशलस्य लाभस् तेनासमन्वागतस्येति. अकुशलनिवृताव्याकृतयोर् इति विस्तरः. अकुशलं च निवृताव्याकृतं च कामावचरम् एव अधिकाराद् रूपावचरस्य च निवृतस्य पृथक्पाठात्. तयोर् अकुशलनिवृताव्याकृतयो रूपावचरस्य क्लिष्तस्य. किं. लाभ इति प्रकृतं. कथं लाभ इत्य् आह. धातुप्रत्यागमनात् परिहाणितश् चेति. यदा रूपधातोर् आरूप्यधातोर् वा कामधातुं प्रत्यागच्छति. तदास्यांतराभवप्रतिसंधिचित्ते ऽवश्यं क्लिष्टे ऽकुशलनिवृताव्याकृतयोर् अन्यतरस्मिं संमुखीभूते तयोर् अकुशलनिवृताव्याकृतयोर् लाभो भवति पूर्वविहीनत्वात् तेनासमन्वागतस्य. परिहाणितश् च. [तिब्. 238अ] यदा च कामवैराग्यात् परिहीयते. तदास्य क्लिष्टे परिहाणिचित्ते संमुखीभूते तयोः क्लिष्टयोर् लाभस् तेनासमन्वागतस्य. रूपावचरस्य च क्लिष्टस्य धातुप्रत्यागमनात्. यदारूप्यधातोः कामधातुं प्रत्यागच्छति. तदास्यान्तराभवप्रतिसंधिचित्ते ऽवश्यं क्लिष्टे रूपावचरस्य क्लिष्टस्य पूर्वविहीनस्य लाभो भवति तेनासमन्वागतस्य. परिहाणितश् च. यदा रूपवैराग्यात् परिहीयते

कामावचरेण चित्तेन. तदास्य वैराग्यत्यक्तस्य रूपावचरस्य क्लिष्टस्य लाभो भवति तेनासमन्वागतस्य. (अभिध्-क्-व्य् 249) आरूप्यावचरस्य क्लिष्टस्य परिहाणितः. यदा कामावचरेण चित्तेनारूप्यवैराग्यात् परिहीयते. तदास्यारूप्यावचरस्य क्लिष्टस्य लाभो भवति तेनासमन्वागतस्य. शैक्षस्य च परिहाणित इत्य् अधिकृतं. यदा कामावचरेण चित्तेनार्हत्त्वात् परिहीयते. तदास्य शैक्षचित्तस्य लाभो भवति तेनास्मन्वागतस्य. एवं तावत् कामावचरे क्लिष्टे चित्ते संमुखीभूते षण्णां चित्तानां लाभ उक्तस् तैर् असमन्वागतस्य. रूपावचरे क्लिष्ते चित्ते संमुखीभूते षण्णां लाभः तैर् असमन्वागतस्य. रूपावचराणाम् इति विस्तरः. यदारूप्यधातो रूपधातुं प्रत्यागच्छति. तदास्य रूपावचरान्तराभवप्रतिसंधिचित्ते ऽवश्यं क्लिष्टे रूपावचराणां त्रयाणां कुशलस्योपपत्तिप्रतिलंभिकस्य [तिब्. 238ब्] क्लिष्टस्यानिवृताव्याकृतस्य च. निर्माणचित्तस्याग्रजप्राप्तिसद्भावात्. कामावचरस्य चानिवृताव्याकृतस्य निर्माणचित्तस्यैव. आरूप्यावचरस्य क्लिष्टस्य शैक्षस्य च लाभः. परिहाणितो रूपावचरेण चित्तेनार्हत्त्वात् परिहीयमाणस्य तदसमन्वागतस्य. एवं रूपावचरे ऽपि क्लिष्टे षण्णां लाभ उक्तः. आरूप्यावचरे तु क्लिष्टे द्वयोर् लाभस् ताभ्याम् असमन्वागतस्य. परिहाणित आरूप्यावचरेण चित्तेनार्हत्त्वात् परिहीयमाणस्यैव क्लिष्टस्य यस्यैकदेशः संमुखीभूतः शैक्षस्य चेति.

रूपावचरे कुशले त्रयाणाम्

इति. कुशल इति जातिनिर्देशः. कुशले कस्मिंश्चिद् रूपावचरे त्रयाणां लाभः संभवः. कथम्. आद्ये तावद् रूपावचरे कुशले चित्ते संमुखीभूते तस्यैव कुशलस्य रूपावचरस्य लाभस् तेनासमन्वागतस्य. मौलध्यानसंगृहीते तु कुशले चित्ते संमुखीभूते कामावचररूपावचरयोर् अनिवृताव्याकृतयोर् निर्माणचित्तयोर् लाभः ताभ्याम् असमन्वागतस्य. इत्य् एवं कुशले रूपावचरे चित्ते संमुखीभूते त्रयाणां लाभ इत्य् उच्यते. न तु युगपल्लाभ इति.

शैक्षे चतुर्णाम्

इति. शैक्षे चित्ते संमुखीभूते दुःखे धर्मज्ञानक्षांतिचित्ते तस्यैव शैक्षस्य दुःखे धर्मज्ञानक्षांतिकलापस्वभावस्य लाभस् तेनासमन्वागतस्य. कामरूपावचरयोश् चानिवृतव्याकृतयोर् [तिब्. 239अ] आरूप्यावचरस्य च कुशलस्य. कस्मिं कलाप इत्य् आह. आर्यमार्गेण कामरूपधातुवैराग्ये. कथम् इति. यदायम् अनागम्यभूमिकेनार्यमार्गेण कामवैराग्यं करोति. तदा नवमविमुक्तिमार्गसंगृहीते शैक्षे चित्ते संमुखीभूते कामरूपावचरयोर् अनिवृताव्याकृतयोर् निर्माणचित्तयोर् लाभस् ताभ्याम् असमन्वागतस्य. यदा तु षड्भूमिकानाम् आर्यमार्गाणाम् अन्यतमेन रूपवैराग्यं करोति. तदाद्यप्रकारचित्ते शैक्षे संमुखीभूते ऽतीतानागतप्राप्तिन्यायेनारूप्यावचरस्य कुशलस्य लाभस् तेनासमन्वागतस्य. आर्यमार्गग्रहणं सास्रवचित्तनिरासार्थं. शैक्षे चित्ते संभूते ऽयं लाभो वर्ण्यते.

अत्राचार्यगुणमतिर् व्याचष्टे.

शैक्षे चतुर्णां

तस्यैव शैक्षस्य कामरूपावचरयोश् चानिवृताव्याकृतयोर् अरूप्यावचरस्य च कुशलस्येति. कथम् इत्य् अतो ब्रवीति. आर्यमार्गेण कामरूपवैराग्ये यदायम् अनागम्यभूमिकेनार्यमार्गेण कामधातुवैराग्यं करोति. तदा यो नवमो विमुक्तिमार्गः. तस्मिं मौलध्यानभूमिकम् अपूर्वकं शैक्षं लभत इति शैक्षस्य लाभ उच्यते. कामरूपावचरयोश् चानिवृताव्याकृतयोर् निर्माणचित्तयोर् एव तस्मिं लाभः. षड्भूमिकेन त्व् आर्यमार्गेण [तिब्. 239ब्] कामरूपवैराग्ये यो नवमो विमुक्तिमार्गः. तस्मिन्न् आरूप्यावचरं कुषलं प्रतिलभत इति. तच्छिष्यो ऽप्य् आचार्यवसुमित्रस् तम् एवार्थं तेन वाक्येन तैर् एव पदव्यंजनैर् लिखति. तद् एतद् अयुक्तं व्याख्यानं. न ह्य् एवं एकवाक्येन व्याख्यातार्थो घटते. वाक्यभेदेन घटते. तस्यैव शैक्षस्य लाभ इत्य् एतद् एकं वाक्यं. कामरूपावचरयोश् च यावत् कामरूपधातुवैराग्य इत्य् अपरं वाक्यम्. आर्यमार्गेण कामरूपधातुवैराग्य इत्य् एतेन विशेषेण तस्यैव शैक्षस्येत्य् एतत् पूर्वोक्तं न विशेष्यं वाक्यान्तरत्वात्. अतद्वतो ह्य् अयं चित्तलाभो वर्ण्यते.

चित्तलाभो ह्य् अतद्वत

इति वचनात्. कथं. नवमे विमुक्तिमार्गे शैक्षचित्तवतः पुद्गलस्य शैक्षचित्तलाभो व्यवस्थाप्यते. ननु चोक्तं मौलध्यानभूमिकम् अपूर्वं शैक्षं लभ्यत इति. न अतिप्रसंगात्. रूपावचरम् अपि कुशलं चित्तं मौलध्यानभूमिकम् अपूर्वं प्रतिलभ्यत इति तस्यापि लाभ इति प्रसज्येत. आचार्यवसुमित्र आह. शैक्षचित्तस्थितस्य कामधातुवैराग्ये कुशलम् उष्मगतावस्थायाम् एव रूपावचरं नियामवाक्रान्तौ लब्धम् इति कृत्वा न गण्यत इति. तद् अयुक्तं शैक्षस्याप्य् अगणनाप्राप्तेः. शैक्षम् अपि हि दर्शनमार्गावस्थायां लब्धम् इति न भवता तथा स्थापयितव्यम् इति प्राप्नोति. अतश् चेदम् अपव्याख्यानम् इति निश्चीयते. यस्माद् आचार्येणैव [तिब्. 240अ] मिश्रश्लोकव्याख्यान एवं लिखितं. शैक्षस्याशैक्षस्य च नियमावक्रान्त्यर्हत्त्वयोर् इति.

शेषं कृतशेषितम्

इति. प्रातिपदिकधातुरूपम् एतद् इति दर्शयति. यत्र चित्ते लाभो न व्याख्यातः. तत्र तस्यैव लाभ इति. कथं कृत्वा. कामावचरे तावत् कुशलचित्त इयतां चित्तानां लाभ इति न व्याख्यातः. तत्र तस्यैव लाभो नान्येषां. तद्यथा सम्यग्दृष्ट्या कुशलमूलप्रतिसंधाने कामावचरे कुशले चित्ते संमुखीभूते तस्यैव कुशलस्य चित्तस्य लाभः तेनासमन्वागतस्य. नान्येषां क्लिष्टानां. (अभिध्-क्-व्य् 251) त्रैधातुकानाम् अपि पूर्वप्रतिलब्धत्वात्. न कामावचरस्यानिवृताव्याकृतस्य. विपाकजादीनां सहजप्राप्तित्वात्. निर्माणचित्तस्य प्राप्त्यभावात्. न रूपारूप्यावचराणां कुशलादीनां शैक्षशैक्षयोश् च प्राप्त्यभावात्. अनिवृताव्याकृते ऽपि कामावचरे चित्ते लाभो न व्याख्यातः. तत्र तस्यैव लाभः तेनासमन्वागतस्य.

अव्याकृताप्तिः सहजेति

कृत्वा. नन्येषां कुशलादीनां पूर्वप्रतिलब्धत्वात्. तथैव केषांचित् प्राप्त्यभावाच् च. निर्माणचित्ते तु संमुखीभूते न कस्यचिल् लाभ इति न वक्तव्यं. यत्र हि क्लिष्टे ऽन्यत्र वा कस्यचिल् लाभो नास्ति. न तद् उच्यते. क्लिष्ट एव हि त्रैधातुके षण्णां यावद् द्वयोर् लाभो न त्व् अवश्यम् इत्य् अवधारणं. रूपावचरे ऽप्य् [तिब्. 240ब्] अनिवृताव्याकृते संमुखीभूते तस्यैव लाभः. नान्येषां पूर्ववद् वक्तव्यं. तथारूप्यावचरे आकाशानन्त्यायतनसामन्तकाद्यप्रकारसंगृहीते कुशलचित्ते संमुखीभूते तस्यैव लाभस् तेनासमन्वागतस्य. नान्येषां केषांचित्. पूर्वप्रतिलब्धत्वात् केषांचित् प्राप्त्यभावात्. एवं अनिवृताव्याकृते शैक्षे च.

अन्ये पुनर् अभेदेनाहुर् इति. के. मिश्रककारा. अभेदेनेति त्रैधातुकानां क्लिष्टादीनाम् अपृथक्करणात्.

षण्णां तु कुशले चित्ते

इति. यद् उक्तं. तन् न्यूनं लक्षणं. कुशलं हि त्रैधातुकं सास्रवम् अनास्रवं च. तत्र सप्तानां कशले चित्ते इति वक्तव्य्ं न षण्णाम् इति तद् दर्शयन्न् आह. कामावचरस्येति विस्तरः. कुशलमूलेप्रतिसंधानाद् इति व्याख्यातम् एतत्. अनिवृताव्याकृतयोर् वैराग्यत इति. लौकिकेन लोकोत्तरेण वा मार्गेण कामधातोर् वैराग्ये नवमे विमुक्तिमार्गे कामरूपावचरयोर् निर्माणचित्तयोर् लाभस् ताभ्याम् असमन्वागतस्य. रूपाराप्यावचरयोः कुशलयोस् ततस्त्यसमाधिलाभत इति. यदा रूपावचरम् अनागम्यं प्रथमतो लभते. तदा रूपावचरस्य कुशलस्य लाभः. यदाकाशानंत्यायतनसामन्तकं प्रथमतो लभते. तदारूप्यावचरस्य कुशलस्य लाभः. [तिब्. 241अ] शैक्षस्य चाशैक्षस्य च नियमावक्रान्त्यर्हत्त्वयोर् इति. यदा नियमम् अवक्रामति. तदा शैक्षस्य दुःखे धर्मज्ञानक्षान्तिकलापस्य लाघः. यदार्हत्त्वं प्राप्नोति. तदाशैक्षस्य क्षयज्ञानकलापस्य लाभः. इत्य् आस्व् अवस्थास्व् अमीभिश् चित्तैर् यथोक्तैः सप्तभिर् असमन्वागतः समन्वागमनं प्रतिलभते. शेषम् अत एव व्याख्यानाद् उपधार्यम् इति. अत एव मदीयाद् व्याख्यानाच् छेषम् अवगन्तव्यं.

क्लिष्टे चित्ते नवानां हि लाभ

इत्य् एकं.

तस्यैवव्याकृते खल्व्

इति द्वितीयम्. इत्य् एतच् छेषं. कथं. क्लिष्टे त्रिधातुके चित्ते नवानां लाभः. कामावचराणां चतुर्णां रूपावचराणां त्रयाणाम् आरूयावचरस्य निवृतस्य शैक्षस्य चेति नवानां यथायोगं लाभः तैर् असमन्वागतस्य. को ऽयं यथायोगार्थः. कामावचरो च क्लिष्टे कुशलमूलप्रतिसंधानेन वा धातुप्रत्यागमनेन वा कामावचरस्य कुशलस्य लाभः. अकुशलनिवृताव्याकृतयोश् च धातुप्रत्यागमनेन परिहाण्या वा लाभः. रूपावचर एव क्ल्ष्टे रूपावचरस्य कुशलस्य कामावचररूपावचरयोश् चानिवृताव्याकृतयोर् निर्माणचित्तयोर् धातुप्रत्यागमनाल् लाभः. कामावचरे रूपावचरे वा क्लिष्टे रूपावचरस्य वा क्लिष्टस्य वा धातुप्रत्यागमनात् परिहाणितो वा लाभः. कामावचरे रूपावचरे आरूप्यावचरे वा क्लिष्टे [तिब्. 241ब्] आरूप्यावचरक्लिष्टशैक्षयोः परिहाणितो लाभः. इति यथायोगार्थः.

तस्यैवाव्याकृते खल्व्

इति. यच् छेषं. तत् तुल्यम् इति पूर्ववत्. अव्याकृतानां हि त्रैधातुकानाम् अन्यतमस्मिं संमुखीभूते तस्यैवाव्याकृतस्य लाभः. तेनतेनासमन्वागतस्य.

अव्याकृताप्तिः सहजेति

सिद्धान्तात्. संग्रहश्लोक इति. सर्वम्

उपपत्तौ

धातुप्रत्यागमनाद् इति वचनात्.

समापत्तौ

तस्यैव कुशलस्यैवमादिवचनात्. ततस्त्यसमाधिलाभत इति वचनात्.

वैराग्ये

कामरूपधातुवैराग्ये इति वचनात्.

परिहाणौ

परिहाणित इति वचनात्.

कुशलप्रतिसंधौ चेति

विचिकित्सया सम्यग्दृष्ट्या च कुशलमूलप्रतिसंधानाद् इति वचनात्.

चित्तलाभः

चित्तप्रतिलंभः.

अतद्वतः

पुद्गलस्य तैर् असमन्वागतस्येति वचनाद् इति.

आचार्ययशोमित्रकृतायाम् अभिधर्मकोशव्याख्यायाम् इन्द्रियनिर्देशो नाम द्वितीयं कोशस्थानं समाप्तं.

इइइ (लोकनिर्देशो नाम तृतीयं कोशस्थानम्)

(iii.1-3) इदम् इदानीं वक्तव्यम् इति. द्वितीयस्य तृतीयस्य च कोशस्थानस्य सम्बन्धप्रदर्शनार्थम् इदम् उक्तं. कामरूपारूप्यधातुनैयम्येन चित्तादीनां कृतो निर्देश इति. नियमस्य भावो नैयम्यं नियम एव वा नैयम्यं. तेन चित्तादीनां कृतो निर्देशः.

कुशलाकुशलं कामे [तिब्. 242अ] निवृतानिवृतं मनः. रूपारूप्येष्व् अकुशलाद् अन्यत्रेति

वाचनात्. आदिशब्देन चैत्तादीनां ग्रहणं.

सवितर्कविचारत्वात् कुशले कामचेतसि. कौकृत्यमिद्धाकुशलान्य् आद्ये न सन्त्य् अतः ध्यानान्तरे वितर्कश् च विचारश् चाप्य् अतः परम्

इति वचनात्. इन्द्रियाणां कामादिनैयम्येन कृतो निर्देशः.

कामाप्तम् अमलं हित्वा रूपाप्तम् स्त्रीपुम् इन्द्रिये. दुःखे च हित्वारूयाप्तं सुखे चापोह्ये रूपि चेति

वचनात्. तेन कामरूपारूप्यधातवो ऽनुक्तलक्षणा इत्य् अतः पृच्छति. तत्र कतमे ते कामरूपारूप्यधातव इति. अत इदम् उच्यते.

नरकप्रेततिर्यं च

इति विस्तरः. चतस्रो गतय इति. नरकप्रेततिर्यग्मनुष्यगतयश् चतस्रः साकल्येन कामधाताव् अन्तर्गताः. देवगतिस् तु न साकल्येन. किं तर्हि. षड् देवनिकाया इति दर्शयति. तत्र नीर्यन्त इति नॄ नये. न रंजयन्तीति रंजेः. नरेर् इति रि गतिरेषणयोर् इत्य् अस्य प्रतिषेधपूर्वस्य रूपं. नीर्यन्ते ऽस्मिं सत्त्वा अपुण्येनेति नरकाः. न रंजयन्त इति नरका इत्य् अपरे. नरेर् आसादनार्थस्यैतद् रूपं. न रंजयति प्रावंति नास्पृहयंति त्राणं इति नरका इति आचार्यसंघभभद्रः. भृशमितो ऽपुनरावृत्तेर् इताः प्रेताः. पिपासया (अभिध्-क्-व्य् 254) परीता इत्य् अपरे. तिर्यग्गमनात्

तिर्यंच.

मनस उद्भूतत्वान् मनुष्याः. [तिब्. 242ब्] मनोर् अपत्या इति लौकिकाः. द्यौर् ओको येषाम् इति

दिवौकसः.

कामप्रभावितो धातुः कामधातुर् इति वक्ष्यति. चत्वारो महाराजानो लोकपाला विरूढको विरूपाक्षो धृतराष्ट्रो वैश्रवणश् च. तेषु भवाश् चातुर्महाराजिकास् तन्मध्यगता इत्य् अर्थः. तद्यथा देवेषूपपद्यते देवमध्ये उत्पद्यत इत्य् अर्थः. चतुर्महाराजस्थाने भवाश् चातुर्महाराजिका मध्यपदलोपा गोरथवद् इत्य् अपरे. सहकृतसुकृतैर् अत्रोपपद्यंत इति त्रयस्त्रिंशाः. समानपुण्यैर् इत्य् अर्थः. अष्टौ वसवा द्वाव् अश्विनौ एकादश रुद्रा द्वादशादित्या इति तावत्प्रमुखत्वात् त्रयस्त्रिंशा इति लौकिकाः. तदनुसारेण प्रवचने ऽपि तथा नामव्यवहार इत्य् अपरे. दुःखात् याताः पुण्येनेति यामाः. दुःखानि वा यामयन्तीति यामाः. तुषा तुष्ट्या इताः. तुषो वा विद्यन्ते एषाम् इति तुषिताः. स्वयंकृते निर्माणे रतिर् एषाम् इति निर्माणरतयः. परनिर्मितान् भोगान् वशे वर्तयितुं शीलम् एषाम् इति परनिर्मितवशवर्तिनः. स्थानानीति वाक्यशेष इति. यानि विंशतिस्थानानि. स कामधातुः. यदि तु विंशतिस्थानो विंशतिर् इति उत्तरपदलोपः क्रियेत. तद्यथा पीततोया अश्वाः पीता इति [तिब्. 243अ] सुतरां श्लिष्यति. संजीवो यत्र सत्त्वान् म्रियमाणान् वायवो जीवयंति. कालसूत्रा यत्र कालसूत्राणि पातयित्वा सत्त्वास् तक्ष्यंते. संघातो यत्र मेषाकृतयः पर्वतादय उभयत आपतन्तः सत्त्वान् पीडयन्ति. रौरवो यत्र सत्त्वा यात्यमानाः परमविकृतं रुदंति. यत्र तु विशेषेण स महारौरवः. तपनो यत्राग्न्यादिभिस् तप्यन्ते सत्त्वाः. यत्र तु विशेषेण स प्रतापनः. अवीचिर् यत्रातिमात्राग्निज्वालालिंगितानां सत्त्वानां सुखवीचिर् अन्तरं नास्ति. जम्बूद्वीपो जम्बूचिह्नो द्वीपः. पूर्वविदेहः सुमेरोः पूर्वेण. अवरगोदानीयः पश्चिमेन. उत्तरकुरुर् उत्तरेण. एवं नामान एते द्वीपा लोकप्रतीताः. षट् चानन्तरोक्ता देवनिकायाः. इत्य् एतानि विंशतिः स्थानानीति. अष्तौ नरकाश् चत्वारो द्वीपाः षट् चानन्तरोक्ताश् चातुर्महाराजिकादयः प्रेतास् तिर्यञ्चश् चाभिन्ना इति विंशतिस्थानः कामधातुः. यावद् वायुमण्डलम् इति. अधस्ताद् यत्राप्मण्डलं तिष्ठति.

रूपधातुर्

इति. रूपप्रभावितो धातुः.

पृथक्पृथग् ध्यानं त्रिभूमिकं तत्र. चतुर्थं तु अष्टभूमिकम्

इति. तत्र रूपधातौ सर्वेषाम् अपि ध्यानानां मृदुमध्याधिमात्रभेदेन प्रत्येकं त्रिभूमिकं. [तिब्. 243ब्] ब्रह्मकायिकाः ब्रह्मपुरोहिताः महाब्रह्माण (अभिध्-क्-व्य् 255) इति प्रथमं. परीत्ताभा आप्रमाणाभा आभास्वरा इति द्वितीयं. परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना इति तृतीयं. अनभ्रकाः पुण्यप्रसवा बृहत्फला इति चतुर्थं. तस्य त्व् अधिमात्रस्यैवानास्रवध्यानव्यवकिरणेन मृदुमध्याधिमात्रधिमात्रतराधिमात्रतमभेदभिन्नेन पुनः पंच स्थानान्तराणि. अबृहा अतपाः सुदृषाः सुदर्शना आकनिष्ठाश् चेति. अतश् चतुर्थं ध्यानम् अष्टभूमिकम् इत्य् उच्यते. तत्र बृहत्कुशलमूलनिर्यातत्वाद् ब्रह्मा. कश् चासौ. यो महाब्रह्मेत्य् उच्यते. ध्यानांतरलाभात् पश्चात् पूर्वं च्युत्युपपत्तिलाभात् प्रमाणादिविशेषादिभिश् चास्य महान्. तस्य कायो निवास एषां विद्यते इति ब्रह्मकायिकाः. ब्रह्मा पुरोधीयते एषाम् इति ब्रह्मपुरोहिताः. आयुर्वर्णादिभिर् विशेषैर् महाब्रह्मा एषाम् इति महाब्रह्माणः. परीत्तैषाम् आभाभास्वरभूमिम् अपेक्ष्येति परीत्ताभाः. नाभाप्रमाणम् एषाम् शक्यं प्रमातुम् इत्य् अप्रमाणाभाः. कृत्स्नस्थानान्तरोद्भासनाद् आभास्वराः. मनोभूमिकं सुखं शुभम् इत्य् उच्यते. तद् एषाम् अन्यभूमिम् अपेक्ष्य परीत्तम् इति परीत्तशुभाः. अप्रमाणं शुभम् एषाम् अप्रमाणशुभाः. शुभं कृत्स्नम् एषाम् इति शुभकृत्स्नाः. [तिब्. 244अ] न तदुत्कृष्टतरम् अन्यत्रास्ति सुखम् इत्य् अभिप्रायः. अभ्रवद् एषां ब्बूमिसंबंधो नास्तीत्य् अनभ्रकाः. सह सत्त्वेन तद्विमानोदयव्ययाद् इति वचनान् नैषाम् उपरि भूम्यन्तरम् अस्तीति अनभ्रकाः. अभ्रम् इव ह्य् उपरि न भूमिसंबन्ध इत्य् अपरे. आनिंज्यकर्मसंभूतत्वात् पुण्येभ्यः प्रसव एषाम्

इति पुण्यप्रसवाः. स्थानान्तरप्रतिबद्धं पार्थग्जनिकं सर्वोत्कृष्टं बृहद् एषां फलम् उद्भवतीति बृहत्फलाः. पृथग्जनामिश्रत्वाच् छुद्ध आवास एषाम् इति शुद्धावासाः. शुद्धावासांतरेभ्यो ऽनुत्कृष्टत्वाद् अबृंहिता इत्य् अबृहाः. नाल्पेन वा कालेनात्मनः स्थानं बृंहंति जहतीत्य् अबृहाः. विशिष्टसमाधिलाभान् नात्र क्लेशास् तपंतीत्य् अतपाः. कल्याणाशयत्वाद् वा न परांस् तापयंतीत्य् अतपाः. परिशुद्धदर्शनत्वात् सुष्ठु पश्यन्तीति सुदृशाः. शोभनदर्शनत्वात् सुदर्शनाः. तदुत्कृष्टतरभूम्यन्तराभावान् नैते कनिष्ठा इत्य् अकनिष्ठाः ज्येष्ठत्वात्. स्थानिन एते निर्दिष्टाः. कथम् इदम् उच्यते इत्य् एतानि सप्तदश स्थानानीति. स्थानिशब्देन स्थाननिर्देशाद् अदोष एव. एवं बहिर्देशकनयेन सप्तदश स्थानानि रूपधातुः. षोडशेति काश्मीराः. षोडश स्थानानि रूपधातुर् इति काश्मीराः. [तिब्. 244ब्] परिगण इवेति. परिषण्ड इव. आटविककोट्ट इत्य् अपरे. न तु भूम्यंतरम् इति. न तु भूम्यंतरसंबंधम् इति. अतीतानागताविज्ञप्त्यरूपिणो हि धर्मा अदेशस्था इति. अतीतनागता रूपिणो ऽप्य् अदेशस्थाः. अविज्ञप्तिः रूपिणी वर्तमानाप्य् अदेशस्था. अरूपिणो वेदनादयस् तथैव वर्तमाना अप्य् अदेशस्थाः. किं अंगातीतानागताः.

उपपत्त्या चतुर्विध

इति कर्मनिर्वृत्ता जन्मान्तरे स्कन्धप्रवृत्तिर् उपपत्तिः. तया. आरूप्यधातुश् चतुर्विधश् चतुःप्रकारः. यद् उताकाशानंत्यायतनम् इति विस्तरः. अनन्तम् आकाशम् इति समापत्तिप्रपोगकालाकाराद् आकाशानंत्यं तस्य तद् एव चायतनम्. एवम् अनन्तं विज्ञानं नास्ति किंचिद् इति तदाकाराद् विज्ञानानंत्यायतनम् आकिंचन्यायतनं चोच्यते. संज्ञा गण्डः संज्ञा शल्यः आसंज्ञिकं सम्मोह इति संज्नामान्द्योत्पत्तेर् नैवसंज्ञानासंज्ञायतनम् इत्य् उच्यते. न त्व् एषां देशकृतम् अनुत्तराधर्यम् इत्य् अदेशस्थत्वात्.

यथा रूपिणाम् इति विस्तरः. किंकृतेयम् आशंका. इह नैरात्म्ये सति चित्तचैत्तानां कामरूपधात्वो रूपनिश्रया [तिब्. 245अ] प्रवृत्तिः कल्प्येत. आरूप्येषु तु रूपं नास्तीति. तत्र चित्तचैत्तप्रवृत्त्या न भवितव्यम् इत्य् आशंकानिवृत्त्यर्थम् इदम् उच्यते.

निकायं जीवितं चात्र निश्रिता चित्तसंततिर्

इति. चशब्देन पृथग्जनत्वसमन्वागमप्राप्तिजात्यादयः संगृह्यंते. दुर्बलत्वाद् इति. कस्यचित् संततेः. रूपिणां सत्त्वानां दुर्बला चित्तसंततिर् अविभूतरूपसंज्ञत्वाद् विना रूपेण न वर्तते. ततो रूपं निश्रित्य वर्तते. तस्याः केन बलवत्त्वम् इति. तस्या आरूप्यावचर्याः केन कारणेन बलवत्त्वम्. अत आह. समापत्तिविशेषजत्वाद् इति विस्तरः. विभूतरूपसंज्ञेति. विगतरूपसंज्ञेत्य् अर्थः. अतस् तज्जा आरूप्या चित्तसंततिर् अपि रूपनिरपेक्षा प्रवर्तते. तत एव तर्हि बलवत्त्वात् समापत्तिविशेषजनितत्वात् प्रवर्तिष्यते. किंचिद् अनिश्रित्येत्य् अभिप्रायः. यथा रूपिणाम् इति विस्तरः. यथा रूपिणां रूपनिश्रिते निकायसभागजीवितेन्द्रिये. एवम् अरूपिणां किं निश्रिते इति वाक्यार्थः. तद् एतत् द्वयम् अन्योन्यम् इति. निकायसभागो जीवितेन्द्रियं निश्रित्य प्रवर्तते. जीवितेन्द्रियं च निकायसभागम् इति. किम् अर्थं न तद् एव द्वयम् अन्योन्यम् इति. किं रूपनिश्रयेणेति अभिप्रायः. तत्रेदानीम् इति. [तिब्. 245ब्] तत्रारूप्यधातौ केन बलवत्त्वं तयोर् निकायसभागजीवितेन्द्रिययोः. तद् एतच् चित्तसंततौ समानम् इति. असाव् अपि चित्तसंततिः समापत्तिविशेषाज् जाता भवतीति न द्वयं निश्रित्य प्रवर्तिष्यति. अनाश्रितैव प्रवर्तिष्यत इति. चित्तचैत्तेषु वा समानम् इति प्रकृतं. किं पुनः समानं अन्योन्यनिश्रयत्वं. यथा निकायसभागो जीवितेन्द्रियं निश्रित्य प्रवर्तते. जीवितेन्द्रियं च निकायसभागं निश्रित्य प्रवर्तते. तथा चित्तं निश्रित्य चैत्ताः प्रत्वर्तिष्यंते. चैत्तांश् च निश्रित्य चित्तं प्रवर्तिष्यत इति. तदन्याश्रयकल्पना निःप्रयोजनेति. यस्याश् चित्तसंततेर् इति विस्तरः. चित्तसंततेर् आक्षेपाय हेतुर् आक्षेपहेतुः कर्मक्लेशलक्षणः. विगता तृष्णास्येति वीततृष्णः. न वीततृष्णो ऽवीततृष्णः. क्व. रूपे. तस्याश् चित्तसंततेः सह रूपेण संभवाद् रूपं निश्रीत्य (अभिध्-क्-व्य् 257) प्रवृत्तिः. हेतोस् तद्विमुखत्वाद् इति. आक्षेपहेतो रूपविमुखत्वाद् इत्य् अर्थः.

वज्रवालकवद् इति. वज्रेण प्रतिसंयुक्तो वालको ऽङ्गुलीयकः कटको वा वज्रवालकः. मरिचपानकवच् च. यथा मरिचैः प्रतिसंयुक्तं पानकं मरिचपानकं. मध्यपदलोपात्. तद्वत्. कामप्रतिसंयुक्तो धातुः कामधातुर् इत्यादिः. [तिब्. 246अ] रूपणीयो वेति. बाधनीय इत्य् अर्थः. रूपयोगाच् च स शक्यते बाधितुं. तद्भाव आरूप्यम् इति. यदा धातूत्तरपदम् एतद् भवति. तदारूप्यधातुर् इति युज्यते. यदा तु निरुत्तरपद आरूप्यशब्दप्रयोगः. तद्यथा अतिक्रम्य रूपाण्य् आरूप्या इति. तदा आरूपा एवारूप्या इति स्वार्थे तद्धितात् परिग्रहः कार्यः. आरूप्ये वा साधव आरूप्या इति पश्यामि. कामानां वा धातुर् इति षष्ठीसमासेनैव साधयति विनापि प्रतिसंयुक्तशब्दलोपेन. कश् चासौ कामानां धातुर् इत्य् आह. कामान् यो दधातीति. एवं रूपारूप्यधातू वेदितव्याव् इति. रूपाणां धातुः रूपधातुर् इति. रूपाणि यो दधातीति. आरूप्यस्य धातुर् आरूप्यधातुर् आरूप्यं यो दधातीति. कवडीकाराहारमैथुनोपसंहित राग इति. कवडीक्रियते इति कवडीकारः. स एवाहारः. कवडीकाराहारः. मिथुने भवो मैथुनं. द्वन्द्वालिंगनादि. कवडीकाराहारमैथुनाभ्याम् उपसंहितः संबद्धो जनित इति वा कवडीकाराहारमैथुनोपसंहितः. रागः कामः. काम्यते ऽनेनेति काम इति कृत्वा. कथम् एवं गम्यत इति स्थविरशारिपुत्रभाषितया गाथया तम् अर्थं दर्शयति.

[तिब्. 246ब्] न ते कामा यानीति

विस्तरः. आजीवकेन यद् उक्तं गाथांतरेण

भिक्षोः कामवितर्कं कल्पयतः कामभोगित्वम्

इति. तद् अभ्युपगतं स्थविरेण. त्रिविधो हि कामोपभोगः. कायेन वाचा मनसा च. तत्रावीतरागो मनसा कामोपभोगित्वे ऽपि सति नाभिक्षुर् भवति. केवलं त्व् अस्य शीलम् अपरिशुद्धं वर्तते. यस् तु कायेन वाचा ताथागतीं शिक्षापदबन्धलेखां लंघयित्वा कामां परिभुंक्ते. स कामोपभोग्य् अभिक्षुर् भवतीति. तस्मात् स दोषान्तरम् आह.

ते चेत् कामा

इति विस्तरः. यदि तव

चित्रा

रूपादयो विषयाः

कामा

इति पक्षः शास्ता ते अवीतराग इत्य् अभ्युपगतः. तेन

शास्तापि ते भविता

भविष्यति

कामभोगी दृष्ट्वैव रूपाणि मनोरमाणि.

कायेनाप्य् उपभुंजानो ऽपि तान् विषयान् इति प्रसक्तं. न चैवम् इष्यते. तस्मात्

संकल्परागः पुरुषस्य काम

इति सिद्धं.

केचनेति. केचिद् इत्य् अर्थः. नेत्य् आहेति. प्रतिषेधयति. यस्माद् धात्वन्तरधर्मा धात्वन्तरे समुदाचरंत्य् अधातुपतिताश् च. कामधातौ हि त्रैधातुकानास्रवा धर्माः समुदाचरंति. एवं रूपधातौ कामावचरं हि निर्माणचित्तं तत्र समुदाचरति. आरूप्यधाताव् आरूप्यावचरा [तिब्. 247अ] अनास्रवाश् च. तस्मात् प्रतिषेधयति नेति. किं तर्हि. येषु कामरूपारूप्यरागा अनुशेरते. येषु कामरागो ऽनुशेते आलंबनतः संप्रयोगतो वा यथासंभवं. ते कामप्रतिसंयुक्ताः. येषु रूपारूप्यरागाव् अनुशयाते. ते यथाक्रमं रूपारूप्यप्रतिसंयुक्ता इति. इदम् इदानीं तद् अश्वबन्धीयम् इति. अश्वश् चाश्वबन्धश् चाश्वबन्धं. अश्वबन्धम् इवाश्वबन्धीयं. अथ वाश्वबन्धस्येदम् अश्वबन्धीयम् अश्वबन्धीयम् इति. कस्यायम् अश्वबन्ध इति कश्चित् पृच्छति. तस्येतरः कथयति. यस्यायम् अश्व इति. स पुनः पृच्छति. कस्यायम् अश्व इति. इतरः पुनः कथयति. यस्यायम् अश्वबन्ध इति. उभयम् अपि न ज्ञायते. अश्वबन्धो ऽश्व इति च. यथेदम् उभयम् असिद्धेनान्योन्येन न परिच्छिद्यते. तथेहापि न रागैर् धातवः साध्यंते. धातुभिश् च रागा इत्य् उभयम् अप्य् एतन् न सिध्यति. कृतनिर्देशानि हि स्थानानि कामधाताव् इति.

नरकप्रेततिर्यञ्चो मनुष्याः षड् दिवौकसः कामधातुः स नरकद्वीपभेदेन विंशतिर्

इति कामधातौ कृतनिर्देशानि स्थानानि. तेषु स्थानेष्व् अवीतरागस्य यो रागः. स कामराग इति. एवंरूपारूप्यरागाव् इति. कृतनिर्देशानि हि स्थानानि. कामधातोर्

ऊर्ध्वम् सपदश स्थानो [तिब्. 247ब्] रूपधातुर्

इति. तेष्व् अवीतरागस्य यो रागः. स रूपरागः. तथा कृतनिर्देशोपपत्तिर् आरूप्यधातोः.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.