Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
स्फुटार्था अभिधर्मकोशव्याख्या
- Tác giả
- यशोमित्र
- Thông tin
- GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
इति वचनात्. तच् चानागतस्यायुक्तं. तन् निष्यन्दफलम् अयुक्तं. कस्मात्. पूर्वपश्चिमताभावात्. अनागतावस्थायाम् इदं पूर्वम् इदं पश्चिमम् इति न परिच्छिद्यते विप्रकीर्णत्वात्. न चासति पूर्वापरभावे सदृशः सदृशस्य निष्यन्दो युज्यते. अथ मतम्. उत्पन्नम् अतीतं वर्तमानं वा अनागतस्य निष्यन्द इति. अत आह. न चोत्पन्नम् अनागतस्य निष्यन्दो युज्यत इति. यथातीतं [तिब्. 189अ] वर्तमानस्य निष्यन्दो न भवति. तथानागतस्याप्य् उत्पन्नो न निष्यन्दो भवितुम् अर्हति. कस्माद् इत्य् आह. मा भूद् धेतोः पूर्वं फलम् इति दोषाट्. विपाकफलस्य पूर्वं सह चायोगाद् इति. मा भूद् धेतोः पूर्वं फलम् इति पूर्वम् अयोगः. सह चायोगो ऽनागतावस्थायां. न हि प्रत्युत्पन्नावस्थायां सहभूहेतोर् इव विपाकहेतोः सहोत्पन्नं फलम् उपलभ्यते. तस्मात्. अनागते चाध्वनि पूर्वपश्चिमताभावात्. विप्रकीर्णत्वाद् अनागतस्याध्वनो न पूर्वं विपाकहेतुः पश्चाद् विपाकफलं युज्यते. तस्माच् च सभागहेतुवद् विपाकहेतुर् अप्य् अनागतो न प्राप्नोति. वैभाषिक आह. नैतद् अस्ति यद् उक्तं विपाकहेतुर् अप्य् एवम् इति. न चान्योन्यनिष्यन्दता युक्तिमतीति. यस्य यः सभागहेतुः सदृशो धर्मः. तस्य स एव धर्मस् तदानीं एव कथं निष्यन्दो योक्ष्यते. न हि पुत्रः स्वस्यैव पितुस् तदानीम् एव पिता भवतीति. न त्व् एवं विपाकहेतुः. किम्. अन्योन्यहेतुफलता न पौर्वापर्येण विना संप्रसज्यते प्राप्नोति. कस्मात् भिन्नलक्षणत्वाद् धेतुफलयोः. हेतोर् अन्यल् लक्षणं स्वभाव इत्य् अर्थः. अकुशलता कुशलसास्रवता वा तस्य लक्षणं. फलस्य [तिब्. 189ब्] चान्यल् लक्षणम् अनिवृतव्याकृतत्वं.
विपाकहेतुर् अशुभाः कुशलाश् चैव सास्रवाः विपाको ऽव्याकृतो धर्म
इति वचनात्. तस्माद् इति विस्तरः. अवस्थाव्यवस्थित एव सभागहेतुः. अवस्थायां व्यवस्थितः. अतीतावस्थः प्रत्युत्पन्नावस्थश् च सभागहेतुर् नानागतावस्थः. लक्षणव्यवस्थितस् तु विपाकहेतुः. लक्षणेन व्यवस्थितस् त्रिष्व् अपि कालेषु यथोक्तलक्षण इत्य् अनागतो ऽपि विपाकहेतुर् न वार्यते न प्रतिषिध्यते. इदम् इह विचार्यते. किम् अनागते ऽध्वनि सदृशा धर्मा विप्रकीर्णा इति न शक्यते परिच्छेतुं अयं हेतुर् इदम् इदम् अस्य निष्यन्दफलम् इति. अतो नानागतः सभागहेतुर् व्यवस्थाप्यते. आहोस्वित् यो धर्मो यस्य धर्मस्य सभागहेतुर् भवेत्. स धर्मस् तस्य हेतुप्रत्ययवशान् निष्यन्दफलं भवेद् इति. अतो ऽनागतस् सभागहेतुर् न व्यवस्थाप्यते. नैतद् व्याख्यानकारैर् विचारितं. मम तु पूर्वक एवायं पक्षः प्रतिभातीति.
किम् एष नियम इति. किं स्वभूमिक एवेत्य् अवधार्यते. नान्यथाप्य् अस्तीत्य् अभिप्रायः.
अन्योन्यं नवभूमिस् तु मार्ग
इति. तुशब्दो विशेषणे. मार्ग इति मार्गसत्यं विवक्षितं. सास्रवान् मार्गसत्यं विशिष्यते. सास्रवो हि धर्मः स्वभूमिक एव सभागहेतुः. नान्यभूमिकः मार्गस् त्व् अन्यभूमिको ऽपि सभागहेतुः. इह भूमिग्रहणे सारवानास्रवग्रहणं. धातुग्रहणे तु सास्रवस्यैवेत्य् [तिब्. 190अ] अत आह. यत् सास्रवाणां मार्गस्य च तुल्ये भूमिभेदे मार्ग एव नवभूमिको ऽन्योन्यं सभागहेतुर् न सास्रव इति. कुत इत्य् आह. आगन्तुको ह्य् असौ तासु भूमिषु न तद्धातुपतितः. तद्भूमिकाभिस् तृष्णाभिर् अस्वीकृतत्वाद् इति. न हि कामरूपारूप्य(नवभूमिसंनिश्रयाधिगम्यत्वात् नवभूमिको न तद्भूमिसंगृहीतत्वात्) चर्यस् तृष्णाः सास्रवान् इवानास्रवान् धर्मान् स्वीकुर्वन्ति. यदा तर्हि निर्वाणं मार्गं वाभिलषति कुशलो ऽसौ धर्मच्छन्दः. न रागः. तस्य वर्ज्यत्वाद् इति वचनात्. समानजातीयस्येत्य् अनास्रवजातीयस्य. एवं तर्हि सर्वः सर्वस्य सभागहेतुः प्राप्नोति. अत आह.
समविशिष्टयोर्
इति.
अन्योन्य-
ग्रहणं तर्हि किम् अर्थं. ऊर्ध्वभूमिकाधरभूमिकयोर् अन्योन्यम् इत्य् एवम् अर्थं. ऊर्ध्वभूमिको ऽप्य् अधरभूमिकयोः समविशिष्टयोः सभागहेतुर् भवति. अधरभूमिको ऽप्य् ऊर्ध्वभूमिकयोर् इति. तद्यथेति विस्तरः. दुःखे धर्मज्ञानक्शान्तिस् तस्या एवानागतायाः समेति कृत्वा सभागहेतुः. विशिष्टस्य च दुःखे धर्मज्ञानस्य दुःखे ऽन्ब्वयज्ञानक्षान्तेर् यावद् अनुत्पादज्ञानस्य (अभिध्-क्-व्य् 204). न तु न्यूनस्य. न हि दुःखे धर्मज्ञानम् अनागतायाः दुःखे धर्मज्ञानक्षान्तेः सभागहेतुर् भवति. दर्शनभावनाशैक्षमार्गास् त्रिद्व्येकेषाम् इति. दर्शनमार्गो दर्शनमार्गान्तरस्य भावनामार्गस्याशैक्षमार्गस्य च सभागहेतुर् इति त्रयाणां. भावनामार्ग भावनामार्गान्तरस्याशैक्षमार्गस्य च सभागहेतुः. न दर्शनमार्गस्येति [तिब्. 190ब्] द्वयोः. अशैक्षमार्गो ऽशैक्षमार्गान्तरस्य न दर्शनमार्गभावनामार्गयोर् इत्य् एकस्य सभागहेतुः. तत्रापीति. तत्र दर्शनमार्गादिषु मृद्विन्द्रियमार्गो दर्शनमार्गस्वभावो मृदुतीक्ष्णेन्द्रियमार्गस्य तत्स्वभावस्यैव. तिक्ष्णेन्द्रियमार्गस् तीक्ष्ण्द्रियमार्गस्यैव. न मृद्विन्द्रियमार्गस्य न्यूनत्वात्. एवं भावनामार्गो ऽशैक्षमार्गश् च वक्तव्यः. तद् दर्शयन्न् आह. तद्यथेति विस्तरः. एकस्यापि मृद्विन्द्रियस्य पुद्गलस्य षण्मार्गाः सन्ति. प्रकृतितीक्ष्णेन्द्रियस्य त्रयः. तत्र श्रद्धानुसारिमार्गः श्रद्धानुसारिमार्गान्तरस्यात्मीयस्य सभागहेतुः. धर्मानुसारिमार्गस्य चात्मीयस्यानागतावस्थस्य श्रद्धाधिमुक्तदृष्टिप्राप्तसमयविमुक्तासमयविमुक्तमार्गाणां चात्मीयाणां यथायोगम् उत्पत्त्यनुत्पत्तिधर्माणां चेति षण्णां सभागहेतुः. श्रद्धाधिमुक्तमार्गः श्रद्धाधिमुक्तमार्गान्तरस्य
दृष्टिप्राप्तसमयविमुक्तासमयविमुक्तमार्गाणां चापरेषाम् अपि त्रयाणाम् इति चतुर्णां सभागहेतुः. समयविमुक्तमार्गः समयविमुक्तमार्गान्तरस्यासमयविमुक्तमार्गस्य चेति द्वयोः सभागहेतुः. न तु श्रद्धाधिमुक्तमार्गः श्रद्धानुसारिधर्मानुसारिमार्गयोर् हेतुः पूर्वकालीनत्वात् दर्शनमार्गस्य. भावनामार्गस्य च विशिष्टत्वात्. एवम् अन्यत्रापि योज्यं. [तिब्. 191अ] धर्मानुसारिमार्गः धर्मानुसारिमार्गान्तरस्य दृष्टिप्राप्तासमयविमुक्तमार्गयोश् चेति त्रयाणां सभागहेतुः. दृष्टिप्राप्तमार्गो दृष्टिप्राप्तमार्गान्तरस्यासमयविमुक्तमार्गस्य चेति द्वयोः. असमयविमुक्तमार्गो ऽसमयविमुक्तमार्गान्तरस्यैवेत्य् एकस्य सभागहेतुः. न तु धमानुसारिमार्गः श्रद्धानुसारिमार्गस्य सभागहेतुः. धर्मानुसारिमार्गस्येन्द्रियतो विशिष्तत्वात्. नापि श्रद्धाधिमुक्तमार्गस्येन्द्रियतो विशिष्टत्वात्. नापि समयविमुक्तमार्गस्येन्द्रियतो विशिष्टत्वात्. समयविमुक्तमार्गस् तर्हीन्द्रियतो विशिष्टस्य दृष्टिप्राप्तमार्गस्य सभागहेतुः प्राप्नोति. न प्राप्नोति. अशैक्षमार्गसंगृहीतत्वात्. न हि पूर्वकालीनं फलं पश्चात्कालीनो हेतुर् इति. दृष्टिप्राप्तमार्गः पुनः समयविमुक्तमार्गस्य न सभागहेतुर् इन्द्रियतो न्यूनत्वात्. कथं पुनर् इति विस्तरः. कथं पुनर् ऊर्ध्वब्कूमिकस्य द्वितीयध्यानात् प्रभृति यावद् आकिंचन्यायतनभूमिकस्य दर्शनमार्गस्य भावनामार्गस्य वा अशैक्षमार्गस्य वा यथायोगम् अधोभूमिको मार्गो विज्ञानानम्त्यायतनात् (अभिध्-क्-व्य् 205) प्रभृति यावद् अनागम्यभूमिको यथायोगं दर्शनमार्गो भावनामार्गो वा अशैक्षमार्गो वा समो वा विशिष्टो वा भवति. कथंचन भवितव्यं. हीनत्वाद् अधराया भूमेः. [तिब्. 191ब्] इन्द्रियतो
हेतूपचयतश् च. इन्द्रियतस् तावत् समो भवति विशिष्टो वा. दर्शनमार्गे श्रद्धानुसारिमार्गश् चतुर्थध्यानभूमिको ऽधरभूमिकस्य तस्यैव श्रद्धानुसारिमार्गस्य समः. उभयोर् मृद्विन्द्रियत्वात्. तस्यैवाधरभूमिको धर्मानुसारिमार्गो विशिष्टः. तीक्ष्णेन्द्रियत्वात्. तथा धर्मानुसारिमार्गश् चतुर्थध्यानभूमिको ऽधरभूमिकस्य धर्मानुसारिमार्गस्य समः. एवम् एताव् एव श्रद्धानुसारिधर्मानुसारिमार्गौ चतुर्थध्यानभूमिकाव् अधरभूमिकयोर् भावनाशैक्षमार्गयोः प्रत्येकं भूमीन्द्रियभेदभिन्नयोः समौ वा विशिष्टौ वेति संभवतो योज्यौ. तथा भावनामार्गे आकिंचन्यायतनभूमिकस्य श्रद्धाधिमुक्तमार्गस्याधरभूमिकः श्रद्धाधिमुक्तमार्गः समः. उभयोर् मृद्विन्द्रियत्वात्. तस्यैवाधरभूमिको दृष्टिप्राप्तमार्गो विशिष्टः. तीक्ष्णेन्द्रियत्वात्. तथा तस्यैव समयविमुक्तमार्गो ऽधरभूमिकः समः. उभयोर् मृद्विन्द्रियत्वात्. तस्यैवासमयविमुक्तमार्गो ऽधरभूमिको विशिष्टः. तीक्ष्णेन्द्रियत्वात्. एवम् अशैक्षमार्गे आकिंचन्यायतनभूमिकस्याशैक्षमार्गस्याधरभूमिकः समो विशिष्टो वेति यथायोगं योज्यम्. अनया दिशा सर्वभूमयो योज्याः कथं हेतूपचयतः. ऊर्ध्वभूमिकस्याधरभूमिको मार्गः समो विशिष्टो वा भवतीत्य् अत इदम् उच्यते. तत्र [तिब्. 192अ] दर्शनादिमार्गाणाम् इति विस्तरः. आदिग्रहणेन भावनाशैक्षमार्गोपसंग्रहः. ऊर्ध्वभूमिकाया दुःखे धर्मज्ञानक्षान्तेः अधोभूमिकं दुःखे धर्मज्ञानं हेतूपचयतो विशिष्टं भवति. दुःखे धर्मज्ञानाद् अप्य् ऊर्ध्वभूमिकाद् अधरभूमिका दुःखे ऽन्वयज्ञानक्षान्तिर् यावद् ऊर्ध्वभूमिकान् मार्गे धर्मज्ञानाद् अधरभूमिका मार्गे ऽन्वयज्ञानक्षान्तिर्
हेतूपचयतो विशिष्टा भवति. एकैकाधिकसभागहेतूपचितत्वात्. दर्शनमार्गाद् ऊर्ध्वभूमिकाद् अधोभूमिको भावनामार्गो हेतूपचयतो विशिष्टो भवति. दर्शनमार्गो हि दर्शनमार्गहेतूपचितो भावनामार्गस् तु दर्शनभावनामार्गहेतूपचितः. ऊर्ध्वभूमिकाभ्यां दर्शनभावनामार्गाभ्याम् अधरभूमिको ऽशैक्षमार्गो हेतूपचयतो विशिष्टो भवति. दर्शनभावनामार्गहेतूपचितत्वात्. ऊर्ध्वभूमिकस्य दर्शनमार्गस्याधोभूमिको दर्शनमार्गो हेतूपचयतः समानक्षणापेक्षया समो भवति. एवं भावनामार्गस्य भावनामार्गो ऽशैक्षमार्गस्याशैक्षमार्ग इति. तद् एवं कश्चिद् इन्द्रियतः समो भवति हेतूपचयतो विशिष्टः सत्य् अप्य् अधरभूमिकत्वे. तद्यथा प्रथमध्यानभूमिकाच् छ्रद्धानुसारिमार्गाद् अधरभूमिकौ श्रद्धाधिमुक्तसमयविमुक्तमार्गौ. कश्चिद् धेतूपचयतः समो भवति इन्द्रियतो विशिष्टः. तद्यथा (अभिध्-क्-व्य् 206) चतुर्थध्यानभूमिकाच् छ्रद्धानुसार्यादिमार्गाद् अधोभूमिकधर्मानुसार्यादिमार्गः समानक्षणापेक्षया. [तिब्. 192ब्] कश्चिद् इन्द्रियतो हेतूपचयतश् च विशिष्टः. तद्यथा चतुर्थध्यानभूमिकाच् छ्रद्धानुसारिमार्गाद् अधरभूमिकौ दृष्टिप्राप्तसमयविमुक्तमार्गौ. मृदुमृद्वादीनां चोत्तरोत्तरे हेतूपचिततरा इति. दर्शनमार्गवर्ज्याः. तस्मिन् मृदुमृद्वाद्यसंभवात्. तत्र मृदुमृदोः प्रकाराद् ऊर्ध्वभूमिकाद् अधरभूमिको ऽपि मृदुमध्यो यावद् अधिमात्रमध्याद् अधिमात्राधिमात्रः समानासमानक्षणापेक्षया हेतूपचयतः समो विशिष्टो वा भवति. एकैकाधिकप्रकारहेतूपचितत्वात्. यद् उक्तं श्रद्धानुसारिमार्गः षण्णां सभागहेतुर् इति कथं श्रद्धानुसारिमार्गो धर्मानुसारिमार्गस्य सभागहेतुर्
भवति. न हि तयोर् एकसंताने संमुखीभावो ऽस्ति. तेनाह. यद्य् अप्य् एकसंताने श्रद्धाधर्मानुसारिमार्गयोर् असंभवः. उत्पन्नस् त्व् अनागतस्य हेतुर् इति. असंभवो ह्य् अत्रासंमुखीभावः. न त्व् अभावः. सन्ति हि मृद्विन्द्रियाणां मृद्विन्द्रियमार्गवद् आत्मीयास् तीक्ष्णेन्द्रियमार्गा अपि. दृष्टिप्राप्तसमयविमुक्तमार्गास् तु तत्संताने संमुखीभवेयुर् अपि यदीन्द्रियसंचारः क्रियेत. तस्माद् उत्पन्नः श्रद्धानुसारिमार्गो ऽनुत्पत्तिधर्मिणो धर्मानुसारिमार्गस्य श्रद्धाधिमुक्तदृष्टिप्राप्तसमयविमुक्तासमयविमुक्तमार्गाणां च यथायोगम् अनागतानाम् उत्पत्तिधर्माणाम् अनुत्पत्तिधर्माणां वा समविशिष्टानां सभागहेतुर् इति. आचार्यवसुमित्रस् त्व् आह. [तिब्. 193अ] उत्पन्नः श्रद्धानुसारिमार्गो ऽनुत्पन्नस्य धर्मानुसारिमार्गस्य दृष्टिप्राप्तमार्गस्य वा हेतुर् यदा श्रद्धानुसार्यादय इन्द्रियाणि संचरन्तो धर्मानुसारिमार्गादीन् संमुखीकुर्वन्ति. तद् अयुक्तं. न हि श्रद्धानुसारीन्द्रियाणि संचरति. श्रद्धाधिमुक्तादयस् तु संचरेयुः.
प्रायोगिका इति. प्रयोगेन निर्वृत्ताः प्रायोगिकाः. प्रायोगिकग्रहणम् उपपत्तिप्रतिलंभिकनिरासार्थं. कामावचराः श्रुतमया इति. ये बुद्धवचनश्रुतेन निर्याताः. ते श्रुतमयाः. चिन्तामयाश् चिन्तामयानाम् इति. चिन्तामयानाम् एव न श्रुतमयानां.
तयोर् एव समविशिष्टयोर्
इति वचनात्. भावनामयभावाद् इति. कामधातोर् असमाहितत्वात् भावनामया न सन्ति. चिन्तामयाभावाद् इति. यदा हि चिन्तयितुम् आरभन्ते. तदैषां समाधिर् एवोपतिष्ठत इति चिन्तामयाभावकारणं. तेषाम् अपीति. श्रुतमयादीनां. मृदुमृदवः सर्वेषाम् इति. मृदुमृदवो मृदुमृद्वन्तराणां समानां मृदुमध्यादीनां चान्येषाम् अष्टानां विशिष्टानाम् इति सर्वेषां सभागहेतुः. मृदुमध्या अष्टानां मृदुमृदुप्रकारम् अपास्यते ऽस्य न्यूनत्वात्. [तिब्. 173ब्] (अभिध्-क्-व्य् 207) एषा नीतिर् इति. तद्यथा मृद्वधिमात्राः सप्तानां मध्यमृदवः सण्णां यावद् अधिमात्राधिमात्रा अधिमात्राधिमात्रान्तराणां एकरूपाणां सभागहेतुर् इति. पूर्वान् पूर्वान् अपास्य तेषां तेषां न्यूनत्वात्. उपपत्तिप्रतिलंभिकास् तु कुशला इति. उपपत्त्या प्रतिलंभ उपपत्तिप्रतिलंभः. स एशाम् अस्तीत्य् उपपत्तिप्रतिलंभिकाः. अत इनिठनाव् इति ठन्. सर्वे ते नव प्रकाराः परस्परं सभागहेतुः. मृदुमृदूनां यावद् अधिमात्राधिमात्राणाम् एव. अधिमात्राधिमात्रा मृदुमृदूनां यावद् अधिमात्राधिमात्राणां सभागहेतुः. न समविशिष्टानाम् एव. अनाभिसंस्कारिकत्वात्. आभिसंस्कारिकस्य हि सभागहेतोर् न्यूनं फलं नेष्यते. नानाभिसंस्कारिकस्य. क्लिष्टा अप्य् एवम् इति. सर्वे नवप्रकाराः परस्परं सभागहेतुर् अप्रायत्निकत्वात्. पूर्वोत्पन्नाः सर्वे समानभूमिकानां पश्चाद्वर्तिनां सर्वेषां सभागहेतुः. नात्र समविशिष्टते अपेक्ष्येते. ते यथाक्रमं चतुस्त्रिद्व्येकेषां सभागहेतुर् इति. विपाकजा विपाकाजादीनां चतुर्णां सभागहेतुः. ऐर्यापथिका ऐर्यापथिकादीनां एव त्रयाणां. व विपाकजानां. तेषाम् अनाभिसंस्कारिकत्वेन न्यूनत्वात्. शैल्पस्थानिका द्वयोः
शैल्पस्थानिकनैर्माणिकयोः. नैर्माणिका नैर्माणिकानाम् एव. [तिब्. 194अ] न पूर्वेषाम्. उत्तरेषाम् उत्तरेषाम् आभिसंस्कारिकत्वात्. निर्माणचित्तम् अपि कामावचरं चतुर्ध्यानफलम् इति. चतुर्णां ध्यानानां फलं प्रथमद्वितीयतृतीयचतुर्थध्यानफलम् इति चतुष्प्रकारं कामावचरं निर्माणचित्तं. तद् यथाक्रमं चतुस्त्रिद्व्येकेषां च सभागहेतुर् इति वर्तते. प्रथमध्यानफलं चतुर्णां प्रथमद्वितीयतृतीयचतुर्थध्यानफलानां सभागहेतुः. द्वितीयध्यानफलं त्रयाणां द्वितीयतृतीयचतुर्थध्यानफलानां. तृतीयध्यानफलं द्वयोस् तृतीयचतुर्थध्यानफलयोः. चतुर्थध्यानफलं एकस्य चतुर्थध्यानफलान्तरस्यैव सभागहेतुः. का पुनर् अत्र युक्तिर् ययैवं नियम इति तां युक्तिं निर्दिक्षुर् आह. नोत्तरध्यानफलं अधरध्यानफलस्येति विस्तरः. न चतुर्थध्यानफलं कामावचरं निर्माणचित्तं प्रथमध्यानफलस्य कामावचरस्य निर्माणचित्तस्य यावत् तृतीयध्यानध्यानफलस्य कामावचरस्य निर्माणचित्तस्य सभागहेतुः. कस्माद् इत्य् आह. न ह्य् आभिसंस्कारिकस्य महायत्नसाध्यस्य सभागहेतोर् हीयमानम् अमहायत्नसाध्यं फलं भवति. यादृशेन हि यत्नविशेषेण प्रथमं ध्यानं यावत् तृतीयं ध्यानं निष्पाद्यते. न तादृशेनैव चतुर्थं ध्यानं निष्पाद्यते. [तिब्. 194ब्] किं तर्हि. उत्कृष्टतरेण यत्नविशेषेण निष्पाद्यते. तस्मात् फलम् अस्योत्कृष्टतरेणैव यत्नविशेषेण निष्पाद्यते इत्य् अवगम्यते. तेन अधरध्यानफलं उत्तरध्यानफलस्य सभागहेतुः. न तूत्तरध्यानफलं अधरध्यानफलस्य (अभिध्-क्-व्य् 208). यथा च चतुर्थध्यानफलं योजितं. एवं
तृतीयद्वितीयध्यानफलम् अपि योज्यं. अत एवाहुर् इति. यस्माद् आभिसंस्कारिकस्य सभागहेतोर् हीयमानं फलं न भवति. तस्माद् आहुर् इत्य् अर्थः. किम् आहुर् इत्य् आहुः. स्याद् उत्पन्न इति विस्तरः. दुःखे धर्मज्ञानम् अनास्रवम् उत्पन्नम् अनुत्पत्तिधर्माणाम् अनास्रवाणां दुःखे धर्मज्ञानक्षान्तिनां न हेतुः. दुःखे धर्मज्ञानक्षान्तिभ्यो दुःखे धर्मज्ञानस्याभिसंस्कारिकत्वेन विशिष्टत्वात्. एवं हि तद् विशिष्टं. यत् क्लेशविसंयोगप्राप्त्या सह उत्पद्यते. विशिष्टं च न्यूनस्य न हेतुः. तद्यथार्हत्त्वात् परिहीणस्य अशैक्षो मार्गः पूर्वोत्पन्नः सकृदागाम्यनागामिमार्गयोः पश्चादुत्पद्यमानयोर् न सभागहेतुः. स्याद् एकसंताननियतः पूर्वप्रतिलब्ध इति विस्तरः. अनागता दुःखे धर्मज्ञानक्षान्तयः प्रथम एव क्षणे प्रतिलब्धा एकसंतानगताः. दुःखे धर्मज्ञानं द्वीतियक्षणोत्पन्नं. तस्य ता न हेतुः. [तिब्. 195अ] यस्मान् न पूर्वतरं फलं. पूर्वतरं हि दुःखे धर्मज्ञानं दुःखे धर्मज्ञानक्षान्तिभ्यः. तस्योत्पन्नत्वात्. तासां चानुत्पन्नत्वात्. अनागतो वा धर्मः यस्मान् न सभागहेतुः. अनागता दुःखे धर्मज्ञानक्षान्तयः अपरिमिताः प्रतिलब्धा एव न तूत्पन्नाः. स्यात् पूर्वोत्पन्न इति विस्तरः. पूर्वं प्रतिलब्धमात्रो धर्मः पृष्टो न तूत्पन्नः अनुत्पन्नश् च न सभागहेतुर् भवतीति. इदानीं पूर्वोत्पन्नो ऽपि किम् अस्ति न सभागहेतुर् इति अतिशयरूपेण पृच्छ्यते. अधिमात्रो न्यूनस्येति. विशिष्टो न्यूनस्येत्य् अर्थः. तद्यथोत्तरफलपरिहीणस्य अर्हत्त्वफलपरिहीणस्यानागामिफलपरिहीणस्य वा अधरफलसंमुखीभावे ऽनागामिफलसंमुखीभावे सकृदागामिफलसंमुखीभावे वा. यो ऽर्हत्त्वमार्गो
ऽधिमात्रः पूर्वोत्पन्नः. स पश्चादुत्पन्नस्यानागामिफलस्य सकृदागामिफलस्य वा न सभागहेतुः. न्यूनत्वात्. एवम् अनागामिफलपरिहीणस्य यो ऽनागामिफलमार्गः. स पूर्वोत्पन्नः पश्चादुत्पन्नस्य सकृदागामिफलस्य न सभागहेतुः. न्यूनत्वात्. दुःखे धर्मज्ञानप्राप्तिश् चेति विस्तरः. दुःखे धर्मज्ञानप्राप्तिर् या पूर्वोत्पन्ना. सा उत्तरक्षणसहोत्पन्नानां उत्तरैः क्षणैर् दुःखे ऽन्वयज्ञानक्षान्तिक्षणादिभिर् आ मार्गे ऽन्वयज्ञानक्षान्तेः सहोत्पन्नानां दुःखे [तिब्. 195ब्] धर्मज्ञानक्षान्तिप्राप्तीनां न सभागहेतुः. किं कारणं. तासां न्यूनत्वात्. तस्याश् च विशिष्टत्वात्. कथं पुनस् तासां न्यूनत्वं तस्याश् च विशिष्टत्वं. दुःखे धर्मज्ञानक्षान्तेर् दुःखे धर्मज्ञानं विशिष्टं तद्वध्यक्लेशप्राप्तेर् विमुक्तत्वात्. हेतूपचिततरत्वाच् च. तस्माद् धेतूपचिततराभ्यो ऽपि दुःखे धर्मज्ञानक्षानिप्राप्तिभ्यो दुःखे धर्मज्ञानप्राप्तिर् विशिष्टा ताश् च न्यूनास् तत्प्राप्तित्वात्. किं च प्रथमक्षणोत्पन्नाया दुःखे धर्मज्ञानक्षान्तिप्राप्तेर् दुःखे धर्मज्ञानप्राप्तिस् तस्माद् एव हेतुद्वयाद् (अभिध्-क्-व्य् 209) विशिष्टा. न्यूना च सा दुःखे धर्मज्ञानक्षान्तिप्राप्तिः. अतस् तत्पूर्विका अप्य् अन्या उत्तरक्षणसहोत्पन्ना दुःखे धर्मज्ञानक्षान्तिप्राप्तयो हेतूपचिततरत्वे ऽपि न्यूना एवेति. तस्मान् न सा तासां सभागहेतुर् इति.
(ii.54च्द्) संप्रयुक्तकहेतुस् तु चित्तचैत्ता
इति. तुशब्दो ऽवधारणे भिन्नक्रमश् च. चित्तचैत्ता एव संप्रयुक्तकहेतुर् इति. एवं सतीति विस्तरः. यदि चित्तचैत्ता एव संप्रयुक्तसहेतुर् इत्य् एतावद् उच्यते भिन्नकालजा अपि भिन्नकालजैः सह भिन्नसंतानजा अपि च भिन्नसंतानजैः सह संप्रयुक्तकहेतुः [तिब्. 196अ] संप्रसज्यते. न हि ते कालसंतानभिन्ना न चित्तचैत्ता भवन्ति. एकाकारालम्बनास् तर्हीति. यदि चित्तचैत्ता एकाकारा एकनीलाद्याकारा एकालम्बनाश् च एकनीलाद्यालम्बना एवं ते संप्रयुक्तकहेतुर् नान्यथेति. एवं भिन्नकालजत्वं भिन्नसंतानजत्वं च व्यावर्तितं भवतीत्य् अभिप्रायः. एवम् अपि स एव प्रसंगः. भिन्नकालसंतानजानां अन्योन्यं संप्रयुक्तकहेतुत्वप्रसंग इति अर्थः. संभवति हि भिन्नकालसंतानजानाम् अपि चित्तचैत्तानाम् एकाकारालम्बनत्वं. भिन्नसंतानजानाम् अपि प्रसंग इति. भिन्नकालजत्वम् एकं परिकृतं. नवचन्द्रादीनि हि पश्यतां बहूनां एकाकारालम्बनाश् चित्तचैत्ता वर्तन्ते.
समाश्रया
इति. समः अभिन्न आश्रय एषाम् इति
समाश्रयाः.
तुल्यार्थे समशब्दग्रहणे हि जातितुल्यत्वात् स एव प्रसंगः स्यात्.
अन्योन्यफलार्थेनेति विस्तरः. यथा सहसार्थिकानां परस्परबलेन मार्गप्रयाणं. एवं चित्तं चैत्तस्य फलं. चैत्तो ऽपि चित्तस्येत्य् अन्योन्यफलम् इति तेनार्थेन सहभूहेतुः. पंचभिर् इति विस्तरः. पंचभिस् समताभिः. आश्रयालम्बनाकारकालद्रव्यसमताभिर् इत्य् अर्थः. [तिब्. 196ब्] समप्रयोगार्थेन समप्रवृत्त्यर्थेन संप्रयुक्तकहेतुः. यथा तेषाम् एव सार्थिकानाम् अन्योन्यबलेन मार्गं गच्छतां समो ऽन्नपानस्नानशयनादिपरिभोगक्रियायां प्रयोगः. तद्वत् समप्रयोगत्वम् एषाम् अन्योन्यं भवति. अत एवाह. एकेनापि हि विना न सर्वे संप्रयुज्यन्त इति.
(ii.55अब्) पूर्वसर्वगा
इति. पूर्वे च ते सर्वगाश् च सर्वपूर्वगाः. पूर्वोत्पन्नाः सर्वगा इत्य् अर्थः. स्वभूमिकाः पूर्वोत्पन्ना अतीताः प्रत्युत्पन्ना वा सर्वत्रगा अनुशयाः क्लिष्टानां क्लेशस्वभावसंप्रयुक्तसमुत्थानां पश्चिमानां पश्चादतीतप्रत्युत्पन्नानां अनागतानां च सर्वत्रगहेतुः. व्याख्यास्याम इति.
सर्वत्रगा दुःखहेतुदृग्घेया दृष्टयस् तथा विमतिः सह ताभिश् च याविद्यावेणिकी च येत्य्
अत्र पंचमे कोशस्थाने निर्देक्ष्यामः. क्लिष्टधर्मसामान्यकारणत्वेनेति विस्तरः. यस्माद् अयं सर्वत्रगहेतुः क्लिष्टानाम् एव सामान्येन पंचनिकायानाम् अपि भवति. सभागहेतुस् तु क्लिष्टानां चाक्लिष्टानां च. तस्मात् पृथग् व्यवस्थाप्यते. कथं क्लिष्टधर्मसामान्यकारणत्वम् अस्येति प्रतिपादयन्न् आह. निकायान्तरीयाणाम् अपि हेतुत्वाद् इति. एषां हि प्रभावेनेति. एषां हि सर्वत्रगाणां प्रभावेन अन्यनैकायिका अन्यनिकायभवाः क्लेशा रागादय उपजायन्ते. के पुनस् ते. दुःखदर्शनप्रहातव्यस्य सर्वत्रगहेतोः [तिब्. 197अ] समुदयनिरोधमार्गदर्शनभावनाप्रहातव्या निकायान्तरीया भवन्ति. समुदयदर्शनप्रहातव्यस्य सर्वत्रगहेतोर् दुःखनिरोधमार्गदर्शनभावनाप्रहातव्या निकायान्तरीया भवन्ति. सर्वान् क्लेशनिकायान् गच्छन्ति भजन्ते आलम्बने. सर्वेषां वा क्लेशनिकायानां हेतुभावं गच्छन्तीति सर्वत्रगाः. अत एवोक्तं. सत्कायदृष्टिमूलकाः सर्वक्लेशाः सत्कायदृष्टिप्रभवाः सत्कायदृष्टिसमुदया इति. आत्मग्राहद्वारेण रागमानप्रतिघादिसमुदाचारात्. किम् आर्यपुद्गलस्यापीति. सर्वत्रगा आर्यपुद्गलस्य सर्व एव प्रहीणा दर्शनप्रहातव्यत्वात्. रागादयश् च शैक्षानां समुदाचरन्ति. ते रागादयस् तेषां न सर्वत्रगहेतुका इति मन्यमान एवं पृच्छति. क्लिष्टा धर्मा इति. अविशेषितत्वात् पृथग्जनार्यसंतानजा इति गम्यते. यश् च दर्शनप्रहातव्यानां धर्माणां विपाक इति. अर्थपरिसमाप्त्यर्थम् एतद् उक्तं. नैतद् उदाहरणं. अव्याकृताः संस्कृता धर्मा इति. निवृताव्याकृता अनिवृताव्याकृताश् च गृह्यन्ते. निवृताव्याकृताः कामधातौ सत्कायान्तग्राहदृष्टितत्संप्रयुक्तसमुत्था धर्मा रूपारूप्यावचरास् [तिब्. 197ब्] च क्लिष्टा धर्माः. संस्कृतग्रहणं आकाशाप्रतिसंख्यानिरोधनिरासार्थं.
परमव्याकृते ध्रुवे
इति तयोर् अव्याकृतत्वात्. तत्र कामावचराः क्लिष्टा धर्मा यथायोगं सभागसर्वत्रगसहभूसंप्रयुक्तकहेतुभूतैस् तैर् एव सत्कायदृष्ट्यादिभिर् अव्याकृतहेतुकाः. नान्यै रागादिभिः. ऊर्ध्वभूमिकास् त्व् अन्यैर् अपीति सुगमम् एतत्. अनिवृताव्याकृताः सभागहेतुनानिवृताव्याकृतहेतुकाः. अकुशलाः कामावचरा रागादयः. ते च सर्वत्रगहेतुना सत्कायदृष्ट्यादिहेतुकाः. इदम् अत्रोदाहरणं. अकुशलाश् चेति ह्य् अविशेषितत्वात् दर्शनप्रहातव्या भावनाप्रहातव्याश् च गृह्यन्ते. इदम् अत्र द्वितीयज्ञापकं. यत् तद् अन्यत् क्लिष्टं दुःखं सत्यम् इति तृतीयं ज्ञापकं. तदन्यद् धि क्लिष्टं दुःखसत्यं दर्शनप्रहातव्यं भावनाप्रहातव्यं च अविशेषितत्वात् गृह्यते. सर्वत्रगहेतुना (अभिध्-क्-व्य् 211) हि भावनाप्रहातव्यं पृथग्जनानाम् इवार्याणाम् अपि सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर् हेतुर् इति व्याख्यातम् एतत्. इदं तर्हि प्रज्ञप्तिभाष्यम् इति. यद्य् अकुशला अव्याकृतहेतुका अपि भवन्ति न केवलम् अकुशलहेतुकाः प्रज्ञप्तिभाष्यं कथं नीयते. स्यात्. आर्यपुद्गलः कामवैराग्यात् [तिब्. 198अ] परिहीयमाणो यस् तत्प्रथमतः क्लिष्टां चेतनां संमुखीकरोतीति.कामवैराग्यपरिहाणिकाले हि सा आर्यपुद्गलस्य चेतना सहभूहेतुना च संप्रयुक्तकहेतुना च अकुशलहेतुकैव. नाव्याकृतहेतुका सत्कायान्तग्राहदृष्ट्योः प्रहीणत्वात्. इति प्रज्ञप्तिभाष्यार्थो लक्ष्यत इति. अनेनाभिप्रायेण चोदयति. वैभाषिक आह. अप्रहीणं हेतुम् एतत् संधायोक्तम् इति. अप्रहीणं सहभूहेतुं संप्रयुक्तकहेतुं च संधाय अभिप्रेत्य एतत् प्रज्ञप्तिभाष्यम् उक्तं. दर्शनप्रहातव्यो हि सत्कायदृष्ट्यादिकः तस्याश् चेतनाया हेतुः. प्रहीणत्वात् दर्शनमार्गेण नोक्तः प्रज्ञप्तिभाष्य इति.
(ii.55च्द्) अकुशलाः कुशलसास्रवाश् चेति.
अकुशला अवश्यं सास्रवा एवेति न विशेष्यन्ते. कुशलास् तु द्विप्रकाराः सास्रवा अनास्रवाश् चेति. अतो विशेष्यन्ते. ये सास्रवाः कुशलाः. ते विपाकहेतुर् नानास्रवा इति. विपाकधर्मत्वाद् इति. विपक्तिप्रकृतित्वाद् इत्य् अर्थः.
दुर्बलत्वात् पूतिबीजवद् इति विस्तरः. यथा पूतीनि बीजानि अभिष्यन्दितान्य् अपि दुर्बलत्वान् नांकुरोत्पत्तिहेतुर् भवति. एवम् अव्याकृता धर्मास् तृष्णाभिष्यन्दिता अपि न विपाकोत्पत्तिहेतुर् भवन्ति दुर्बलत्वात्. अनास्रवा बलवन्तो ऽपि तृष्णानभिष्यन्दितत्वाद् विपाकं [तिब्. 198ब्] न निर्वर्तयंति. यथाद्भिर् अनभिष्यन्दितवाच् छुष्काणि बलवंत्य् अपि सारबीजानि नांकुरं निर्वर्तयंति. तद्वत्. पूर्वेषां स्वशक्तिवैकल्यम् अपरेषां सहकारिकारणान्तरवैकल्यं. किंप्रतिसंयुक्तम् इति. कस्मिं प्रतिसंयुक्तम्. किंप्रतिसंयुक्तं विपाकम् अप्रतिसंयुक्ताः कामादिष्व् अप्रतिसंयुक्ता अनास्रवा अभिनिर्वर्तयेषु. प्रतिसंयुक्तेन विपाकेन भवितव्यं. नाप्रतिसंयुक्तेन. कामधात्वादिप्रतिसंयुक्तधर्मस्वभावत्वात्. शेषास् त्व् इति विस्तरह्. अकुशलाः कुशलसास्रवाश् च शेषा उभयविधत्वात् उभयप्रकारत्वात् बलवदभिष्यंदितप्रकारत्वाद् इत्य् अर्थः. निर्वर्तयंति विपाकं यथा साराण्य् अभिष्यंदितानि बीजान्य् अंकुरं. तद्वत्.
विपाकस्य हेतुर् इति विस्तरः. यदि विपाक इति भावसाधनो घञ्. विपक्तिर् विपाक इति तत्र षष्ठीसमासः. विपाकस्य हेतुर् इति. अथ विपच्यते स्वयम् इति कर्मसाधनो घञ्. तत्र कर्मसाधनो विपाक एव हेतुर् विपाकहेतुर् इति. किं चातः कश् चातो दोषः. यदि विपाकस्य हेतुर् इति भावसाधनपरिग्रहः. विपाकजं चक्षुर् इत्य् एतन् न प्राप्नोति. न हि चक्षुर् विपक्तेर् जातं. किं तर्हि. विपक्तिहेतोः कर्मण इत्य् अर्घः. न हि विपाको हेतुह्. अथ विपाक एव (अभिध्-क्-व्य् 212) हेतुर् इति कर्मसाधनपरिग्रहः. सिध्यते तद् विपाकजं चक्षुर् इति. कर्मैव हि [तिब्. 199] विपाको विपच्यत इति कृत्वा. किं तु कर्मणो विपाक इत्य् एतन् न प्राप्नोति. विपाको हि कर्मैवोच्यते न विपक्तिः. कर्मणो विपाक इति चात्र भावसाधनार्थ इष्टे न कर्मसाधनार्थ इति. तस्मात् कर्मणो विपाक इत्य् एतन् न प्राप्नोति. उभयथापि योग इत्य् उक्तं प्राग् इति
विपाकजौपचयिकाः. पंचाध्यात्मम्
इति अत्रोक्तं विपाकहेतोर् जाता विपाकजाः. मध्यपदलोपाद् गोरथवद् इति भावसाधनपरिग्रहः. फलकालप्राप्तं वा कर्म विपाक इत्य् उच्यते. विपच्यत इति कृत्वा. तस्माज् जाता विपाकजा इति कर्मसाधनपरिग्रहः. फलं तु विपक्तिर् एवेति विपाकः. फलविवक्ष्यायां भावसाधन एवं परिगृह्यत इत्य् अर्थः. तस्माद् विपाकजं चक्षुर् इति मध्यपदलोपात् कर्मसाधनपरिग्रहाद् वा सिध्यति. कर्मणो विपाक इति च सिध्यति. भावसाधनपरिग्रहात्. विवक्षितपूर्विका हि शब्दप्रतिपत्तिर् इति. विसदृशः पाको विपाक इति. हेतोर् विसदृशं फलम् इत्य् अर्थः. हेतुर् हि व्याकृत एव. फलं तु अव्याकृतम् एवेति. सहभूहेत्वादीनां तु सदृश एव पाक इति विशेषणं. [तिब्. 199ब्] अभिधर्मशास्त्र एवं व्युत्पाद्यते तेनेदं प्रत्य् आदिश्यते.
एकस्कंधको विपाकहेतुर् एकफल इति विस्तरः. इह प्राप्तयो वृक्षप्रपाटिकावच् चित्तादिभ्यः पृथग् अवस्थिताः. तासां परिपूरकन्यायेन पृथक् फलं वर्ण्यते. एकः स्कंधो ऽस्येत्य् एकस्कंधको विपाकहेतुः. (कायवाक्कर्म तज्जात्यादयश् च. वाक्कर्मणो रूपस्कंधसंगृहीतत्वात्.) यत्र स्कंधे प्राप्तयः. तत्रैव च तज्जात्यादय इत्य् एकस्कंधकः. यद् एव च प्राप्तीनां फलं तद् एव तज्जात्यादीनाम् इति. साधारणफलत्वात् एकफलः. द्विस्कंधक एकफलो विपाकहेतुः. कायवाक्कर्म तज्जात्यादयश् च. कायवाक्कर्मणो रूपस्कंधसंगृहीतत्वात् तज्जात्यादीनां च चंस्कारस्कंधसंगृहीतत्वात् द्विस्कंधकः. एकफलश् च. तेषाम् अपृथक्फलत्वात्. चतुःस्कंधक एकफलः कुशलाकुशलाश् चित्तचैत्ता इति. ते सह जात्यादिभिर् इति. तेषां चित्तचैत्तानां यथायोगं वेदनासंज्ञासंस्कारविज्ञानस्कंधसंगृहीतत्वात्. जात्यादीनं च संस्कारस्कंधसंगृहीतत्वाच् चतुःस्कंधको विपाकहेतुर् एकफलः साधारणफलत्वात्. न हि चित्तस्यान्यत् फलम् अन्यच् चैत्तादीनाम् इति असमाहितत्वात्. कामधातौ पंचस्कंधको विपाकहेतुर् नास्ति. न ह्य् अत्र रूपस्कंधसंगृहीतं कायवाक्कर्म चित्तचैत्तैर् एकफलं [तिब्. 200अ] भवति. पृथक्कलापत्वात्. त्रिस्कंधकस् तु त्रिष्व् अपि धातुषु नास्ति चित्तचैत्तानाम् अवश्यम् एकफलत्वात्. यथायोगं चतुःस्कंधस्वभावत्वात्. (अभिध्-क्-व्य् 213) रूपधाताव् एकस्कंधक इति विस्तरः. प्राप्तिः सह जात्यादिभिः संस्कारस्कंधसंगृहीतेत्य् एकस्कंधकः. तथैव साधारणफलत्वात् एकफलः. असंज्ञिसमापत्तिर् अपि सह जात्यादिभिः तथैव वक्तव्या. विज्ञप्ते रूपस्कंधसंगृहीतत्वात्. जात्यादीनां च
संस्कारस्कंधस्वभावत्वात्. द्विस्कंधक एकफलः पूर्ववत्. कुशले चेतस्य् असमाहिते ऽनुपरिवर्तिरूपं नास्तीति रूपस्कंधवर्जितवेदनादिस्कंधसंगृहीतत्वात् चतुःस्कंधकः. पंचस्कंधकः समाहिते चेतसि. अनुपरिवर्तिरूपस्य चित्तादिभिर् एकवर्तित्वात्. आरूप्यधाताव् इति विस्तरः. तत्र सर्वम् एव रूपं नास्तीत्य् एकस्कंधकश् चतुःस्कंधकश् च विपाकहेतुः. प्राप्तिर् इति. तत्र सह स्वजात्यादिभिर् एकस्कंधकः पूर्ववत्. निरोधसमापत्तिर् अपि सह स्वजात्यादिभिर् एकस्कंधको विपाकहेतुर् एकफल इति सुगमं.
अस्ति कर्मेति विस्तरः. यस्य जीवितेन्द्रियं विपाकः. तस्य कर्मणो ऽवश्यं तज्जीवितेन्द्रियं तज्जात्यादयश् च विप्रयुक्ता विपाकः. [तिब्. 200ब्] तच् चैतत् सर्वं धर्मायतनसंगृहीतम् इत्य् एकम् आयतनं विपाको विपच्यते. यस्य मनआयतनं. तस्य द्वे मनोधर्मायतने. तस्य हि मनआयतनस्य कलापे अवश्यं वेदनादयः सहभुवो जात्यादयश् च विपाकरूपा भवंति. वेदनादिजात्यादयो धर्मायतनसंगृहीता इति ते द्वे मनोधर्मायतने विपाको विपच्यते. एवं यस्य स्प्रष्टव्यायतनम् इति. तस्य स्प्रष्टव्यस्यावश्यं जात्यादयस् संतीति धर्मायतनम् अपि विपच्यते. न केवलं स्प्रष्टव्यायतनम् इति द्वे आयतने तस्य विपच्येते. यस्य कायायतनं तस्य तृईणि. तद् एव कायायतनं स्प्रष्टव्यायतनं च तदाश्रयभूतचतुष्कं. तस्यावश्यं भूतचतुष्काश्रितत्वात्. तस्य च जात्यादिभिर् भवितव्यम् इति धर्मायतनम् अपि तत्र तृतीयं विपच्यते. एवम् इति विस्तरः. एवं यस्य रूपगंधरसायतनानाम् अन्यतमद् विपाकः. तस्य त्रीण्य् आयतनानि विपाकः. तद् एवायतनं रूपादीनाम् अन्यतमत् स्प्रष्टव्यायतनं च तदाश्रयभूतस्वभावं धर्मायतनं च तज्जात्यादिस्वभावम् इति. यस्य चक्षुरायतनं. तस्य चत्वारि. तद् एव चक्षुः कायायतनं चावश्यं चक्षुःकायप्रतिबद्धवृत्तिवात्. स्प्रष्टव्यधर्मायतने च पूर्ववत्. एवं यस्येति विस्तरः. एवं यस्य श्रोत्रादीनाम् [तिब्. 201अ] अन्यतमद् विपाकः. तस्यापि चत्वार्य् आयतनानि विपाकः. तद् एव श्रोत्रादीनाम् अन्यतमद् आयतनं कायस्प्रष्टव्यधर्मायतनानि च पूर्ववत्. अस्ति तत् कर्मेति विस्तरः. पंच यावद् एकादशायतनानीति संभवतः. न तु द्वादशायतनानि विपाकः. शब्दायतनस्याविपाकस्वभावत्वात्.
अत्राचार्यवसुमित्रो व्याख्यापयति. अस्ति कर्म यस्यैकम् एव धर्मायतनं विपाको विपच्यत इति नोपपद्यते. किं कारणं. आक्षेपककर्मफलत्वाज् (अभिध्-क्-व्य् 214) जीवितेंद्रियस्य. यदि तावत् कामधातौ जीवितं विपाको विपच्यते. कर्मणस् तत्रावश्यं कायजीवितेंद्रिये भवतः कललाद्यवस्थासु अनुत्पन्ने षडायतने. उत्पन्ने तु षडायतने सप्तभिर् आयतनैर् भवितव्यं. चक्षुरादिभिः षड्भिर् मनआयतनेन चेति. रूपधाताव् अपि सप्तभिर् आरूप्यधाताव् अपि मनोधर्मआयतनाभ्याम् अवश्यं भवितव्यं. सकलजन्माक्षेपकफलत्वाज् जीवितेंद्रियस्य. को वात्र धातुर् अभिप्रेत इति ब्रूमः. आरूप्यधातुः. ननु च तत्राक्षेपककर्मफलत्वाज् जीवितेंद्रियस्य अवश्यं मनआयतनेनापि भवितव्यं. न च जीवितेंद्रियम् एव विपाको विपच्यते. वेदनाप्रभावितत्वाद् विपाकस्येति. वेदनया ऽपि तत्र भवितव्यम् इति. अत्रोच्यते. क्षणोत्पत्तिम् एतत् संधायोक्तं. यस्मिं क्षणे आरूप्योपपन्नस्य [तिब्. 201ब्] विपाकजं चित्तं न समुदाचरति. तस्मिन् क्षणे जीवितेंद्रियम् एव विपाको विपच्यते. विपाकस्य जीवितेंद्रियस्यैवोत्पादान् मनआयतनस्य चासमुदाचाराद् इति किम् अर्थं तत्समुदाचारे मनआयतनम् अपरं न भवतीति तस्य द्वे मनोधर्मायतने इति. तद् इदं विचार्यते. भवत्य् एवं चाक्सेपकस्य कर्मणो जीवितेंद्रियं विपाक इति. जीवितेंद्रिये च विपच्यमाने मनआयतनादीन्य् अपि विपच्यंते. नायतनांतरविपाकः प्रतिषिध्यते. विपाकहेतुर् इह चिंत्यते. अस्ति तत् कर्म यस्यैकम् एव धर्मायतनं विपच्यते. नान्यद् आयतनम् इत्य् एतावद् विवक्षितं. अथ मतं जीवितेंद्रियाक्षेपकस्यैव कर्मणो मनआयतनादीन्य् अपि विपच्यंते. नैकम्
आयतनम् इति. अत्र ब्रूमः. तस्यैव कर्मणो ऽन्ये ऽपि मनआयतनादयस् तत्र वर्तमाना विपाको न पुनर् अन्यस्य कर्मण इति. किं कृतो ऽयं नियमः. अस्ति हि संभवो यद् एकस्य कर्मणो निकायसभागो विपाकः. ऽन्यस्य जीवितेंद्रियं. अन्यस्यैव च मनआयतनादीनि इति. ब्रूयास् त्वं यथा यस्य चक्षुरायतनं. तस्य चक्षुःकायस्प्रष्टव्यधर्मायतनानीति वचने यस्य चक्षुरायतनं विपाकः. तस्य कायायतनम् आवश्यकत्वात्. एवं मनआयतनादीन्य् अपि तस्यैव कर्मणो विपाक इति. [तिब्. 202अ] तन् न. क्वचिद् एव कस्यचित् प्रतिबद्धवृत्तित्वात्. न हि विना कायेंद्रियेण चक्षुरिंद्रियप्रादुर्भावो ऽस्ति. असत्य् अपि तु विपाके मनसि जीवितेंद्रियप्रादुर्भावो ऽस्तीति असमम् एतत्. आचार्यसंघभद्रस् त्व् आह. अस्ति कर्म यस्य धर्मायतनम् एव विपाको विपच्यते. यस्य जीवितेंद्रियं. यस्य चक्षुरायतनं. तस्य पंच. चक्षुःकायरूपस्प्रष्टव्यधर्मायतनानि. एवं यावज् जिह्वायतनं. यस्य कायायतनं. तस्य चत्वारः. कायरूपस्प्रष्टव्यधर्मायनानीति. रूपाविनाभावित्वात् रूपायतनम् अपि तस्यैव चक्षुर्निर्वर्तकस्य (अभिध्-क्-व्य् 215) कर्मणो विपाक इति समयान्तरम् इच्छति. अयं त्व् आचार्यो न रूपायतनम् अवश्यं तस्यैव कर्मणो विपाक इत्य् अपरं पक्षम् अवलंबते. यस्य कायायतनं. तस्य त्रीणि. यस्य चक्षुरायतनं. तस्य चत्वारीति. न ह्य् अन्योन्यमविनाभाविनो जीवितनिकायसभागादीन्य् आवश्यकम् एकस्यैव कर्मणो विपाक इत्य् अभिप्रायः. ताव् एतौ पक्षौ विभाष्यकारैर् लिखितौ. तयोर् यो यस्मै रोचते. स तेन परिगृह्यते. इत्य् अलं प्रसंगेन.
अथ कथं कस्यचित् कर्मण एकम् आयतनं विपाको विपच्यते. कस्यचिद् यावद् एकादशेत्य् अत आह. विचित्राविचित्रफलत्वात् कर्मणो बाह्यबीजवद् इति विस्तरः. पद्मदाडिमन्यग्रोधादीनां [तिब्. 202ब्] बीजानि विचित्रफलानि. मूलांकुरनालपत्त्रकेशराकिंजल्ककर्णिकारैश् च रूप्यं हि पद्मबीजादीनां. अनेकस्कंधशाखाविटपपत्त्रपल्लवांकुरपुष्पफलसमृद्धाश् च न्यग्रोधादयः पादपा जलधरायमाणा दृश्यंते. कानिचिद् अविचित्रफलानि. तद्यथा यवगोधूमादीनां बीजानि. एकरूपफलत्वात्. बीजधर्मतैषा. एकध्विकस्य कर्मणो ऽतीतस्य त्रैयध्विको विपाको विपच्यते अतीतप्रत्युत्पन्नानागतः. न तु द्वैयध्विकस्याप्य् अतीतस्य प्रत्युत्पन्नस्य चैकाध्विको ऽनागतः. न तु विपर्ययाद् इति. बहुक्षणिकस्य कर्मण एकक्षणिकः. मा भूद् अतिन्यूनं हेतोः फलम् इति वर्तते. न च कर्मणा सह विपाको विपच्यते. सहोत्पन्ने सहभूसंप्रयुक्तकहेत्वोर् व्यापारात्. विपाकहेतोश् च विसदृशपाकापेक्षत्वात्. नाप्य् अनंतरं विपाको विपच्यते. किं कारणं. समनंतरप्रत्ययआकृष्टत्वात् समनंतरक्षणस्य. यस्मात् समनंतरक्षणः समनंतरप्रत्ययबलेनाकृष्टो न विपाकहेतुबलेन. यद्य् अप्य् असौ समनंतरप्रत्ययो विपाकहेतुः इत्थं चैतद् एव. यस्मात् समनंतरक्षणो विपाकहेतोः समनंतरप्रत्ययात् कदाचित् कुषलः कदाचिद् अकुशलः कदाचिद् अव्याकृतः. [तिब्. 203अ] अन्यथा हि अव्याकृत एव स्यात्. अथ वा समनंतरक्षणस्य अविपाकस्वभावस्य समनंतरप्रत्ययाकृष्टत्वाद् इत्य् अभिप्रायः. प्रवाहापेक्षो हि विपाकहेतुः चित्तचैत्तादिप्रवाहे सति अतिक्रांते विपाकहेतुर् विपाकं दद्यात्. धर्मतैषेत्य् अभिप्रायः.
(ii.56अब्) उक्तम् एषाम् अर्थतो ऽध्वनियम इति. अर्थत उक्तो न शब्दत इत्य् अर्थः. द्विविधं हि वचनं स्वशब्दाभितं अर्थोक्तं च. कथं.
सभागहेतुः सदृशाः स्वनिकायभुवो ऽग्रजाः.
तथा
सर्वत्रगाख्यः क्लिष्टानां स्वभूमौ पूर्वसर्वगा
इति वचनात्. सभागसर्वत्रगहेतू अतीतप्रत्युत्पन्नाव् एव स्तो नानागतौ. अविशेषवचनाद् एव सहभूसंप्रयुक्तकविपाकहेतवस् त्रैयध्विका इत्य् अर्थत उक्ताः. सभागसर्वत्रगहेतू एव हि पूर्वोत्पन्नौ. पूर्वोत्पन्नाव् एव च ताव् इत्य् अवधारणात्. परस्परफलत्ववचनात्. चिंताद्यकुशलादिस्वाभाव्याच् चैषाम् अनध्वपतितत्वं व्यावर्तितं. सूत्र्यत इति. सूत्रं सूत्री वा क्रियते सूत्र्यते. उक्तं चात्र कारणम् इति. कथम् उक्तं. [तिब्. 203ब्] निष्यंदफलेन हि सफलः सभागहेतुः. तच् चानागतस्यायुक्तं पूर्वपश्चिमताभावाद् इति एवमादि. यच् चैतत् कारणम् उक्तं सभागहेतोः. सर्वत्रगहेतोर् अप्य् उक्तरूपं वेदितव्यं. सभागहेतुकल्पो हि सर्वत्रगहेतुः. सभागहेतुर् हि क्लिष्टः क्लिष्टानां. सर्वत्रगहेतुर् अपि क्लिष्टः क्लिष्टानाम् एव. क्लिष्टधर्मसामान्यकारणत्वेन त्व् अयं सभागहेतुः पृथग् व्यवस्थाप्यत इत्य् उक्तम् एतत्. सभागहेतुवद् एव चायं नानागतः. निष्यंदफलेन च सफल इति. तद्वद् एवास्य वार्त्ता.
त्र्यध्वकास् त्रय
इति. त्र्यध्वका एव त्रयस् त्रय एव त्र्यध्वका इति अवधारणात्. कारणहेतुर् अन्यथा भवति. कथं चान्यथा. सर्वाध्वगश् चध्वविनिर्मुक्तश् चेति. स्वतो ऽन्ये हि स्वभाववर्ज्याः सर्वधर्माः कारणहेतुर् इति. अत एवम् एव भवति नान्यथा.
(ii.56च्द्) हेतुः फलम् इति अन्योन्यापेक्षयैतत् द्वयम् इत्य् अतः पृच्छति. किं पुनस् तत् फलं यस्यैतद्धेतवः इति.
संस्कृतसविसंयोगं फलम्
इति. आकाशाप्रतिसंख्यानिरोधवर्ज्याः सर्वधर्माः फलम् इत्य् उक्तं भवति.
एवं तर्हीति विस्तरः. फलत्वाद् असंस्कृतस्य फलम् असंस्कृतम् इति कृत्वा [तिब्. 204अ] हेतुना स्वतो ऽन्येनास्य भवितव्यं. यस्य हेतोस् तद् असंस्कृत फलं. हेतुत्वाच् चासंस्कृतस्य स्वतो ऽन्येनास्य फलेन भवितव्यं. यस्य फलस्य तद् असंस्कृतं हेतुः. न्संस्कृतस्य ते हेतुफले. असंस्कृतं प्रतिसंख्यानिरोधलक्षणं विसंयोगफलं भवति. न च तस्य हेतुर् अजन्यत्वात्. हेतुश् च भवति संस्कृतोत्पादाविघ्नभावावस्थानात्. न च तस्य फलं व्यवस्थाप्यते. फलप्रतिग्रहणदानासमर्थत्वाच् च. अत एव च षड्विधहेत्वसंभवाद् इति विस्तरः. न सहभूहेतुर् अस्य संप्रयुक्तकहेतुर् वा संभवति. तेन कस्यचिद् धर्मस्यासहभवत्वात्. असंप्रयोगाच् च. न सभागहेतुर् अस्य कश्चिद् भवति. असंस्कृतस्यासदृशत्वात्. समानभूमित्वायोगाच् च. अत एव चास्य न सर्वत्रगहेतुः. अस्य चाक्लिष्टत्वात्. (अभिध्-क्-व्य् 217) न चास्य विपाकहेतुः. असंस्कृतस्याविपाकस्वभावत्वात्. विपाको हि सत्त्वसंख्यातो धातुपतितो धर्मः. अनुत्पाद्यत्वाद् एव चास्यैते हेतवो न भवंति. अनुत्पाद्यत्वाद् एव चास्य कारणहेतुर् न भवति. अत एवोच्यते. कस्मान् मार्गो विसंयोगस्य कारणहेतुर् नेष्यते. यस्मात् स उत्पादाविघ्नभावेन व्यवस्थापितः. न चासंस्कृतम् उत्पत्तिमद् इति. अनध्वपतितत्वाच् चास्य हेतवो न भवन्ति. अध्वपतितस्य हि धर्मस्य हेतुर् व्यवस्थाप्यते. [तिब्. 204ब्] एवं षड्विधहेत्वसंभवान् नासंस्कृतस्य हेतुः. पंचविधफलासंभवाच् च नासंस्कृतस्य फलं. कस्मात्. सामान्यतस् तावद् अध्वविनिर्मुक्तस्य फलप्रतिग्रहणदानासमर्थत्वात्. तथा ह्य् उक्तं.
वर्तमानाः फलं पंच गृह्णन्ति. द्वौ प्रयच्छतः इत्य् एवमादि. किं च न तावद् अधिपतिफलं भवति. तद् धि सहोत्पन्नं पश्चादुत्पन्नं चेष्यते.
अपूर्वः संस्कृतस्यैव संस्कृतो ऽधिपतेः फलम्
इति. तच् चानुत्पत्तिमद् इति नास्य सहजं पश्चाज्जातं वा फलं भवति. अनुत्पत्तिमत्त्वाद् एव. न च निष्यन्दफलम्. उत्पत्तिमतो हि सदृशो धर्म उत्पत्तिमान् निष्यन्दफलम्. अत एव च न पुरुषकारफलं असंस्कृतस्य पुरुषकाराभावात्. यस्य हि बलेन य उत्पद्यते प्राप्यते वा. स तस्य पुरुषकारफलं. अत एव च न विसंयोगफलं. मार्गस्यैव हि बलेन विसंयोगः प्राप्यः. न चासंस्कृतो मार्ग इति. न चापि विपाकफलं. विपाकहेतुवैधर्म्यात्. सास्रवो हि विपाकहेतुः. न चासंस्कृतं सास्रवम् इति. अथ वा पंचविधहेतुवैधर्म्यात् पंचविधफलासंभव इति नासंस्कृतस्य फलं सम्भवति. यद् मार्गो विसंयोगस्य कारणहेतुर् नेष्यते कस्येदानीं तत् फलं. हेतुमता हि फलेन भवितव्यं कथं वा केन वा प्रकारेण तत् फलं. आह. यत् तावद् उक्तं कस्येदानीं तत् फलम् इति [तिब्. 205अ] मार्गस्य. यद् अप्य् उक्तं कथं वा तत् फलम् इति फलं तद्बलेन मार्गबलेन प्राप्तेर् इत्य् अर्थः. अथ वैवं पदसंबन्धः. कस्य तत् फलम् इति. मार्गस्य तत् फलं. कथम् वा तत् फलम् इति. तद्बलेन प्राप्तेर् इति. प्राप्तिर् एव तर्हि मार्गस्य फलं प्राप्नोति. तस्याम् एव प्राप्तौ तस्य मार्गस्य सामर्थ्यात् न विसंयोगः. किं. मार्गस्य फलम् इत्य् अधिकृतं. तत्रासामर्थ्याद् इति. एवं तत्र विसंयोगे मार्गस्यासामर्थ्याद् इत्य् अर्थः. तस्मान् न च तावद् अस्य मार्गः कथंचिद् अपि हेतुः. षण्णां हेतूनाम् अन्यतमो ऽपि हेतुर् अस्य मार्गो न भवति. फलं चास्य विसंयोगः. प्राप्यं फलं न जन्यम् इत्य् अभिप्रायः. पंचविधो हि हेतुर् इति केचिद् इच्छंति. कारको ज्ञापको व्यंजको ध्वंसकः प्रापकश् चेति. कारको हेतुर् बीजम् अंकुरस्य. ज्ञापको धूमो (अभिध्-क्-व्य् 218) ऽग्नेः. व्यंजको दीपो घटस्य. ध्वंसको मुद्गरो घटस्य. प्रापको रथो देशांतरप्रापणीयस्येति. तद् एवं मार्गः प्रापको ऽस्य. न जनको हेतुः. प्राप्यं च विसंयोगफलं न जन्यम् इति दर्शितं भवति. अथासत्य् अधिपतिफल इति विस्तरः. असंस्कृतस्य यदि फलं स्यात् अधिपतिफलं स्यात्. तस्य कारणहेतुत्वेन व्यवस्थापनात्.
नासंस्कृतस्य ते
इति वचनात् तद् अप्य् अस्य [तिब्. 205ब्] निवारितम् इति परिच्छिन्ने चोदकः पृच्छति. अथासत्य् अधिपतिफले कथम् असंस्कृतं कारणहेतुः. उत्पत्त्यनावरणभावेन कारणहेतुः. उत्पत्त्यनावरणभाववचनात्. संस्कृतम् एव प्रतीदम् असंस्कृतम् कारणहेतुर् व्यवस्थाप्यते. नासंस्कृतं प्रतीति दर्शितं भवति. कस्माद् अस्य संस्कृतवत् फलं न व्यवस्थाप्यत इत्य् अत आह. न चास्य फलम् अस्ति. अध्वविनिर्मुक्तस्य फलप्रतिग्रहणदानासमर्थत्वाद् इति. अध्वसंगृहीतस्यैव हि धर्मस्य फलप्रतिग्रहणदानसामर्थ्यम् अस्ति नान्यस्य. वक्ष्यति हि
वर्तमानाः फलं पंच गृह्णन्ति द्वौ प्रयच्छत
इति. उक्तं तु पर्यायेण हेतुर् इति. पर्यायेणोक्तं न स्वशब्देनेत्य् अर्थः.
ते ऽप्य् अनित्या इति. ते ऽप्य् अनित्या एवेत्य् अवधारणाद् अर्थान् न नित्यो हेतुर् इत्य् उक्तं भवति. आलंबनप्रत्ययो ऽपीति. यथा हेतवो ऽत्रानित्या उक्ताः. एवं प्रत्यया अप्य् अनित्या एवोक्ताः ये हेतवो ये प्रत्यया इति वचनात्. तस्माद् असंस्कृतम् आलंबनप्रत्ययो न प्राप्नोति. उत्पादायेत्य् अवधारणाद् इति. ये हेतवो ये प्रत्यया रूपस्योत्पादाय. ते ऽप्य् अनित्याः. न तु ये ऽनुत्पादाय. द्विविधा हि प्रत्ययाः. जनकाश् चाजनकाश् च. आलम्बनप्रत्ययश् चाजनकः आलम्बनमात्रत्वात्. आलम्बनप्रत्ययो हि निरुध्यमाने धर्मे कारित्रं करोति. वर्तमानैश् चित्तचैत्तैर् ग्रहणात्.
[तिब्. 206अ] निरुध्यमाने कारित्रं द्वौ हेतू कुरुत
इति वचनात्. ननु च हेतवो ऽपीति विस्तरः. हेतुर् अपि जनकश् चाजनकश् च. तस्माद् असंस्कृतस्यानावरणभावमात्रेणाजनकस्यापिकारणहेतुत्वाप्रतिषेधः. उक्त आलम्बनप्रत्ययः सूत्र इति. चतस्रः प्रत्ययता इत्य् अत्र सूत्रे. न तु प्रतिषिद्धः. धर्मताया अविरोधान् न दोष इत्य् अभिप्रायः. सूत्राणि च बहून्य् अन्तर्हितानि. मूलसंगीतिभ्रंशात्. अत्राचार्यो न निर्बंधं करोति. धर्मताविरोधो नास्तीति. किं तु असंस्कृतम् एव विचार्यते ऽस्ति वा न वेति. सर्वम् एवासंस्कृतम् इति. न केवलं प्रतिसंख्यानिरोधः. रूपवेदनादिवद् इति. आदिशब्देन संज्ञादीनां ग्रहणं. यथा रूपाद् वेदनाभावान्तरं वेदनायाश् च संज्ञा यावत् संस्कारेभ्यो विज्ञानं. तथा न रूपादिभ्यः पंचभ्यो (अभिध्-क्-व्य् 219) ऽसंस्कृतं भावान्तरम् अस्ति. अतो नासंस्कृतं द्रव्यम् इति सौत्रान्तिकाः. स्प्रष्टव्याभावमात्रम् इति. सप्रतिघद्रव्याभावमात्रम् इत्य् अर्थः. अविन्दन्त इत्य् अलभमानाः. उत्पन्नानुशयजन्मनिरोधे उत्पन्नानाम् अनुशयानां जन्मनश् च निरोधे प्रतिसंख्याबलेन प्रज्ञाबलेन अन्यस्यानुशयस्य जन्मनश् च अनुत्पादः प्रतिसंख्यानिरोधः [तिब्. 206ब्]. तद् एवं अनुशयनिरोधः समुदयसत्य निरोधो जन्मनिरोधो दुःखसत्यनिरोध इत्य् उक्तं भवति. सोपधिशेषनिरुपधिशेषनिर्वाणव्यवस्थापनार्थं चोभयनिरोधवचनं. सौत्रान्तिकनयेन के ऽ; नुशयाः. कथं च तेषां जन्मनश् च प्रतिसंख्याबलेन निरोधः. अष्टानवतेर् अनुशयानां वासना ऽनुशयः. यस्य चानुशयस्य यः प्रतिपक्षो मार्गः प्रतिसंख्या. तेन सह प्रथमे क्षणे सो ऽनुशय उत्पद्यते. तद्बलाद् द्वितीयादिषु क्षणेषु तस्य निरोधः. तद्बलाद् एव च
पौनर्भविकस्य जन्मनः अप्रतिसंधिको निरोधः. तद्यथा निकायसभागशेषस्येति विस्तरः. निकायसभागो मनुष्यत्वादिलक्षणः. आत्मभावो वा पंचस्कन्धलक्षणः. तस्य शेषस् तल्लक्षण एवोत्पद्यमानः. तस्य निकायसभागशेषयान्तरामरणे आयुष्यपरिसमाप्त एव प्रत्ययवैकल्याद् यो ऽनुत्पादः. सो ऽप्रतिसंख्यानिरोधः. प्रत्ययवैकल्यं पुनर् अंत्यानां स्कंधानां मरणभवाख्यानां निकायसभागसंबन्धने यद् असामर्थ्यं उपकरणादिप्रत्ययासामग्र्यात्. अतो ऽसौ प्रतिसंख्यानिरोध इति. सोपधिशेषो निर्वाणधातुः. दुःखस्यानुत्पाद इति निर्वुपधिशेषः. सो ऽपि तु दुःखस्यानुत्पादः. यो ऽप्रतिसंख्यानिरोध इत्य् उक्तः. नान्तरेण प्रतिसंख्यां सिध्यति. उत्पत्तिकारणानुशयवैकल्यस्य [तिब्. 207अ] प्रतिसंख्यानकृतत्वात्. अतः प्रतिसंख्यानिरोध एवासौ. स्वरसं निरोधाद् इति. स्वात्मना निरोधान् न प्रज्ञासामर्थ्येनेत्य् अर्थः. अविनष्टे तदभावाद् इति. अविनष्टे तस्मिं अनुशये तस्याप्रतिसंख्यानिरोधस्याभावात्. अकृतोत्पत्तिप्रतिबन्धानाम् इति. अकृते उत्पत्तौ प्रतिबन्ध एषाम् इति अकृतोत्पत्तिप्रतिबन्धाः. तेषां. य उत्पत्तिप्रतिबन्धभावः. एतद् अत्र प्रतिसंख्यायाः सामर्थ्यं. यदि तर्ह्य् अनुत्पाद एवेति विस्तरः. प्रहाणं हि निर्वाणम् अभिप्रेतं. अनागतस्यैव चानुत्पाद इति यदि निर्वाणम् उच्यते. अतीतप्रत्युत्पन्नस्योत्पन्नत्वात् नास्त्य् अनुत्पाद इति कथम् इदम् उक्तं सूत्रे. अतीतानागतप्रत्युत्पन्नस्य दुःखस्य प्रहाणाय संवर्तन्ते इति तत् सूत्रपदं कथं नीयते. यस्य पुनर् द्रव्यान्तरं निर्वाणं. तस्यातीतप्रत्युत्पन्नयोर् अपि तदासेवनादिभिर् निर्वाणं प्राप्यत इति सुनीतम् इदं सूत्रं भवतीति.
तदालम्बनक्लेशप्रहाणाद् इति. अतीतप्रत्युत्पन्नदुःखालम्बनक्लेशप्रहाणाद् इत्य् अर्थः. यो रूपे छन्दराग इति. छन्दो ऽनागते ऽर्थे प्रार्थना. रागस् तु प्राप्ते ऽर्थे ऽध्यवसानं. विस्तरेण यावद् विज्ञानम् इति. यो वेदनायां संज्ञायां संस्कारेषु विज्ञाने (अभिध्-क्-व्य् 220)([तिब्. 207ब्] छन्दरागः. तं प्रजहीत. छन्दरागे प्रहीणे एवं वस् तद् विज्ञानं प्रहीणं भविष्यते. एवं त्रियध्विकस्यापि दुःखस्येति. छन्दरागप्रहाणम् एव रूपादिदुःखप्रहाणं. तस्य चानागतस्य छन्दरागस्यानुत्पादो भवति. अतस् त्रियध्विकस्यापि दुःखस्य प्रहाणं युज्यत इति दर्शयति. एष एव नय इति. यद्य् अतीतानागतप्रत्युत्पन्नस्य क्लेशस्य प्रहाणायेति पाठः. तत्राप्य् एष एव नय इति. यः क्लेशे रागे द्वेषे वा छन्दरागः. तं प्रजहीतेति विस्तरः. तदालम्बनक्लेशप्रहाणाद् अपि क्लेशस्य प्रहाणं. न स्वभावत एवेति त्रैयध्विकस्यापि क्लेशस्य प्रहाणं युज्यते इत्य् अर्थः. अथ वेति विस्तरः. पूर्वजन्मनि भवः पौर्वजन्मिकः. इहजन्मनि भव ऐहजन्मिकः. तद् एवम् ऐकक्षणिकः क्लेशः पर्युदस्तो भवति. कथम् एतत् प्रत्येतव्यं. पौर्वजन्मिकः सर्वक्लेशः सम्बध्यते ऐहजन्मिकश् च. न पुनर् ऐकक्षणिक इत्य् अत आह. यथा तृष्णा विचरितेष्व् इति विस्तरः. अन्यत्राप्य् एवं दर्शनात् एवं प्रत्येतव्यं. अष्टादश तृष्णाविचरितानि कथम् अतीते ऽध्वनि एकस्मिं क्षणे योज्यंत इति अतो ऽतीतं जन्माधिकृत्योक्तं. अष्टादश तृष्णाविचरितानि. अस्मीति भिक्षवः सतीत्थम् अस्मीति [तिब्. 208अ] भवति. एवम् अस्मीति अन्यथास्मीति सद् अस्मीति असद् अस्मीति भवति. भविष्यामीत्य् अस्य भवति. न भविष्यामीत्थं भविष्यामि एवं भविष्यामि
अन्यथा भविष्यामीत्य् अस्य भवति. स्याम् इत्य् अस्य भवति. इत्थं स्याम् एवं स्यां अन्यथा स्याम् इत्य् अस्य भवति. अपि स्याम् इत्य् अस्य भवति. अपीत्थं स्याम् अप्य् एवं स्याम् अप्य् अन्यथा स्याम् इत्य् अस्य भवति. एवं यावत् प्रत्युत्पन्नं. तथेहापि पौर्वजन्मिकः कृत्स्नः क्लेशप्रवाहः अझजन्मिकश् च संबध्यते नैकक्षणिक इति. तद् एवं प्रसाध्यताभिप्रायं ब्रवीति. तेन च क्लेशद्वयेनेति विस्तरः. पौर्वजन्मिकेनैहजन्मिकेन चेति क्लेशद्वयेनास्यां संततौ प्रत्युत्पन्नायां बीजभावो वासनालक्षणं सामर्थ्यम् आहितो ऽनागते ऽस्योत्पत्तये. तस्य बीजभावस्य प्रहाणात् तद् अपि क्लेशद्वयं प्रहीणं भवति. यथा विपाकक्षयाद् विपाकोपभोगात् कर्म क्षीणं भवतीत्य् उपचर्यते. तद्वत्. [तिब्. 208ब्] अनागतस्य तर्हि कथं प्रहाणं व्यवस्थाप्यते. न हि तेन संततौ बीजभाव आहितो यस्य प्रहाणात् प्रहाणं भवेद् इत्य् अत आह. अनागतस्य पुनर् दुःखस्य क्लेशस्य वा बीजभावाद् अत्यन्तम् अनुत्प्डः प्रहाणम् इति. बीजभावश् च प्रतिसंख्याबलेन भवति. न हि निरुद्धे ऽतीते निरोधाभिमुखे च प्रत्युत्पन्ने यत्नः प्रतिपक्षोत्पादने यत्नः सार्थकः सप्रयोजनम् इत्य् अर्थः. विरागस् तेषाम् अग्र इति. रागक्षयो विरागः प्रतिसंख्यानिरोध इत्य् अर्थः. कथम् असताम् असन्न् अग्रो भवितुम् अर्हतीति. कथम् असताम् आकाशादीनाम् असंस्कृतानाम् असन्न् असंस्कृतो विरागो ऽग्रो भवितुम् अर्हतीति. अस्योत्तरं ब्रवीति. अभावो ऽपि कश्चिद् इति विस्तरः. द्वितीयस्य चेति. द्वितीयस्य समुदयसत्यस्यानंतरं (अभिध्-क्-व्य् 221) दृष्टं स्वयं प्रज्ञया उद्दिष्टं परेभ्यो देशनया त्रयाणां पूरणं तृतीयं भवति. किं स्याद् इति. को दोशः स्याद्
इत्य् अर्थः. किं च पुनः स्याद् इति. को गुणः स्याद् इत्य् अर्थः. किं च पुनः स्याद् इति गुणपरिप्रश्न आह. वैभाषिकपक्षः पालितः स्याद् इति. यत् तूक्तं किं स्यात् को दोषः स्याद् इति अत्रोच्यते. अभूतं तु परिकल्पितं स्याद् इति. दोषः स्याद् इत्य् अर्थः. रूपवेदनादिवद् इति. प्रत्यक्षतः. [तिब्. 209अ] चक्षुरादिवद् इति. कर्मतो नुमानत इत्य् अर्थः. असकृद्व्याख्यातम् एतत्. वस्तुन इति. रागादिवस्तुनः. हेतुफलादिभावसंभवाद् इति. आदिशब्देन स्वस्वाम्यवयवावयविसम्बन्धादयो गृह्यन्ते. न हि वस्तुनो निरोधे हेतुः फलम् अवयवावयवीत्येवमादि. तस्यैतर्हि प्राप्तिनियम इति विस्तरः. तस्य निरोधस्य यो ऽयं प्रातेर् नियमः. अस्यैव निरोधस्य प्राप्तिर् नान्यस्येति तस्मिं प्राप्तिनियमे को हेतुः. न हि निरोधस्य प्राप्त्या सर्धं कश्चित् संबन्धो ऽस्ति हेतुफलादिभावासंभवात्. दृष्तधर्मनिर्वाणप्राप्त इति. सोपधिशेषनिर्वाणस्थ इत्य् अर्थः. यद्य् अभावः कथम् अस्य प्राप्तिः स्यात्. प्रतिपक्षलाभेनेति विस्तरः. आर्यमार्गलाभेन क्लेशस्य पुनर्भवस्य चोत्पादे ऽत्यन्तविरुद्धस्याश्रयस्य लाभात् प्राप्तं निर्वाणम् इत्य् उच्यते. अभावमात्रत्वम् इति. मात्रशब्दो द्रव्यान्तरत्वनिवृत्त्यर्थः. यत् खल्व् अस्येति विस्तरः. प्रहाणं यावद् अप्रादुर्भाव इति पर्यायशब्दा एते. अप्रादुर्भाव इत्य् एतत् स्फुटम् इत्य् उदाहरणम् उक्तं. नास्मिं प्रादुर्भाव इत्य् अतो ऽप्रादुर्भावा इत्य् अधिकरणसाधनम् [तिब्. 209ब्] इति दर्शयन्ति. न तु अप्रादुर्भूतिर् अप्रादुर्भाव इति भावसाधनम् इत्य् अर्थः. यत एव तत्प्राप्तिः परिकल्प्यते यतो मार्गात् प्रहाणः प्राप्तः परिकल्प्यते. तस्मिं सति मार्गे प्राप्ते वा दुःखस्येष्यताम् अप्रादुर्भावः. किम्
अन्येन निर्वाणेन परिकल्पितेन. विमोक्षस् तस्य चेतस इति. निरुपधिशेषनिर्वाणकाले भगवतः. यथावस्तु यथालम्बनं. संयोगस्य वस्तु यत्र क्लेशेन संयुज्यते. स वस्तुका धर्मा इति सहेतुकाः. परिग्रहवस्तु परिगृह्यत इति परिग्रहः. स एव वस्तु परिग्रहवस्तु.
(ii.57) अन्ते ऽभिहितत्वाद् इति. कारिकाया अन्ते विपाकहेतुः पठितः. तस्य विपाकफलम् एव.
पूर्वः
कारणहेतुः श्लोकादौ पठितत्वात्. तस्य्-
आधिपजं फलं.
अधिपतिर् अधिपः. तस्माज् जातं अधिपजं अधिपतिफलम् इत्य् अर्थः. पूर्वस्याधिपतम् इति केचित् पठन्ति. अधिपतेर् इदं फलं आधिपतम् इति. आधिपत्यम् इति तु प्राप्नोति. दित्यदित्यादित्यपत्युत्तरपदाण् ण्य इत्य् अपवादात्. (अभिध्-क्-व्य् 222) अथापवादविषये ऽप्य् उत्सर्गसमावेश इति भवेत्. भवेच् च तद्रूपं. एतद् एवाधिपत्यम् इति. यद् अनावरणभावमात्रावस्थानं. अंगीभावो ऽपि वास्तीति. प्रधानभावो ऽपि जनकभावो ऽपीत्य् अर्थः. तद् अनेन द्विविधस्यापि कारणहेतोः कारकस्य वाध्युपेक्षकस्य वाधिपतिफलम् [तिब्. 210अ] अस्तीति दर्शितं भवति अन्यत्रासंस्कृताट्. यस्माद् वक्ष्यति.
अपूर्वः संस्कृतस्यैव संस्कृतो ऽधिपतेः फलम्.
इति. दशानाम् आयतनानाम् इति. चक्षूरूपायतनयोर् यावत् कायस्प्रष्टव्याय तनयोः. चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं यावत् कायं प्रतीत्य स्प्रष्टव्यानि चोत्पद्यते कायविज्ञानम् इति वचनात्. कारणहेतुर् एव चायं. न हि चक्षुरादीन्य् आयतनानि चक्षुर्विज्ञानादीनां सहभूहेत्वादयः. पंच हेतवः संभवंति. मनआयतनं तु मनोविज्ञानस्य सभागहेत्वादि संभवति. धर्मायतनम् अपि सहभूसंप्रयुक्तकहेत्वादि संभवतीति न कारणहेतुर् एवेत्य् अवधार्यते. तस्माद् दशानाम् इत्य् उक्तं न द्वादशानाम् इति. भाजनलोके च कर्मणां. किम्. अंगीभावो ऽस्ति कारणहेतोर् इत्य् अधिकृतं. भाजनलोको हि कुशलाकुशलकर्मजनितो ऽप्य् अव्याकृतो ऽपि न विपाकफलम् इष्यते. सत्त्वाख्यो विपाक इति लक्षणात्. तस्मात् कारणहेतोर् एतद् अधिपतिफलं. श्रोत्रादीनाम् अपि न केवलं चक्षुषो ऽस्ति. किं. चक्षुर्विज्ञानस्योत्पत्तौ पारंपर्येणाधिपत्यं. न साक्षात् यथा चक्षुषः. कथं ज्ञायत इति आह. श्रुत्वा द्रष्टुकामतोत्पत्तेः. द्रष्टुकामतायां च चक्षुर्विज्ञानम् उत्पद्यत इत्य् अभिप्रायः. [तिब्. 210ब्] एवमादि योज्यम् इति. घ्रात्वा द्रष्टुकामतोत्पत्तेर् इत्य् आदि योज्यं.
सभागसर्वत्रगयोर् निष्यन्दः
फलम् इति वर्तते. सभागसर्वत्रगहेत्वोर् एव निष्यन्दफलम् इत्य् अवधार्यते. पुरुषकारफलम् अपि हि तयोर् अनन्तरं संभवति.
पौरुषं द्वयोर्
इति. पुरुषकारफलम् एव सहभूसंप्रयुक्तकहेत्वोर् इत्य् अवधारणं. पुरुषकारस्य फलं पौरुसं. पुरुषकारफलम् इत्य् अर्थः. पुरुषभावाव्यतिरेकात् पुरुषकारः पुरुषभावान् न व्यतिरिक्तः. पुरुषकर्मैव हि पुरुषकारो न पुरुषाद् अन्यः. न हि कर्म कर्मवद्भ्यो ऽन्यद् इष्यते बौद्धैः. तस्मात् पुरुषकारस्य यत् फलं. तत् पुरुषस्यैवेति पौरुषम् इत्य् उच्यते. यस्य धर्मस्य यत् कारित्रम् इति. यस्य धर्मस्य यत् कर्म या क्रिया. सा तस्य पुरुषकार इत्य् अर्थः. ननु चान्तर्व्यापारपुरुषाभावे धर्ममात्रं पुरुष इति अतो धर्मकार इति प्राप्नोति. न पुरुषकार इत्य् अत आह. पुरुषकार इव हि पुरुषकारः. यथा लोके कल्पितस्य पुरुषस्य पुरुषकारः. (अभिध्-क्-व्य् 223) एवं धर्मस्यापीति पुरुषकार इव पुरुषकारः. दृष्टान्तं कथयति. काकजंघा ओषधिर् इत्यादि. काकजंघाकारा ओषधिः काकजंघेत्य् उच्यते. मत्तहस्तीव यो दृष्टः शूरो वा. स मनुष्यो मत्तहस्तीति. किम् अन्येषाम् [तिब्. 211अ] इति. हेतूनां. अन्येषाम् अप्य् अस्तीति. सभागसर्वत्रगकारणहेतूनां. अन्यत्र विपाकहेतोः. कस्माद् इत्य् आह. यस्मात् सहोत्पन्नं समनन्तरोत्पन्नम् वा पुरुषकारफलम् इति. सहभूसंप्रयुक्तकहेत्वोर् हि सहोत्पन्नं फलम् उक्तं. तच् च पुरुषकारफलम् एव. न ह्य् अन्यत् फलं सहोत्पन्नम् अस्ति. सभागसर्वत्रगहेत्वोर् अनंतरोत्पन्नम् एव पुरुषकारफलं. कारणहेतोस् तूभयथा. किं पुनर् निष्यन्दफलाद् अधिपतिफलाद् वान्यत् पुरुषकारफलं. नेत्य् उच्यते. तद् एव हि फलं तत्तन् नाम लभते. तथा हि तद्धेतुसदृशोत्पत्तेर् निष्यन्दफलं. तद्बलेनोत्पत्तेः पुरुषकारफलं. अविघ्नभावावस्थानेनोत्पत्तेश् चाधिपतिफलम् इति. न चैव विपाकः. किं. सहोत्पन्नो वा समनन्तरोत्पन्नो वेत्य् अधिकृतं.
(ii.58, 59) विपाको ऽव्याकृतो धर्म
इति विस्तरः.
अव्याकृत
एव
सत्त्वाख्य
एव
व्याकृतोद्भव
एवेत्य् अवधारणं.
अव्याकृत
इति अनिवृताव्याकृतो विवक्षितः. सत्त्व इति आख्या यस्य. स
सत्त्वाख्यः.
सत्त्वसंतानज इत्य् अर्थः. व्याकृताद् उद्भवतीति
व्याकृतोद्भवः.
औपचयिकनैष्यन्दिकौ तु न व्याकृताद् उद्भवतः. [तिब्. 211ब्] ननु च इन्द्रियमहाभूतोपचयो ध्यानविशेषसमापन्नस्य भवति. असाव् अपि व्याकृताद् उद्भवति. स विपाकः प्राप्नोति. निर्माणचित्तं चापि. तथैव समाधिचित्तसंभूतत्वात्. नैष दोषः.
व्याकृतोद्भव
इत्य् उच्छब्द उत्तरकालार्थः. व्याकृतात् कुशलाद् अकुशलाद् वा य उत्तरकालम् एव भवति न युगपन् नाप्य् अनन्तरं. स विपाक इति. समाधिजस् तूपचयः समाधिना सह चानन्तरं च भवति. निर्माणचित्तं त्व् अनंतरम् एव च भवति. विपाकश् च समानभूमिक एवाभिप्रेत इत्य् एतच् चोभयं भिन्नभूमिकम् (अभिध्-क्-व्य् 224) अपि भवतीति न विपाकस्य प्रसंगः.
निष्यन्दो हेतुसदृश
इति. कुशलक्लिष्टानिवृतव्याकृतसादृश्यम् अधिकृत्य. यद्य् एवं कुशलसास्रवस्य हेतोर् अनास्रवं निष्यन्दफलं प्राप्नोति कुशलसादृष्यात्. न. निकायसादृश्याभावात्. समाननिकायो हि सभागहेतुर् इष्यते. न सर्वः. भूमितः क्लिष्टतया चास्य सादृश्यम् इति. अस्य सर्वत्रगहेतोः सादृश्यं भूमितः क्लिष्टतया च. केन सह. स्वफलेन. कथम् इति. भूमितस् तावत् सर्वत्रगहेतुः कामावचरो यावद् भावाग्रिकः. तत्फलम् अपि कामावचरं यावद् भावाग्रिकम् इति. क्लिष्टतया च सर्वत्रगहेतुर् अपि क्लिष्टः. तत्फलम् अपि क्लिष्टं. न तु प्रकारतः सादृश्यं यथा सभागहेतोः. [तिब्. 212अ] यस्य तु प्रकारतो ऽपि सादृश्यं. यस्य सर्वत्रगहेतोः स्वफलेन सह प्रकारतो ऽपि सादृश्यं. स सर्वत्रगहेतुर् अभ्युपगम्यते एव सभागहेतुर् इति. भूमिक्लिष्टत्वसादृश्याद् धि सर्वत्रगहेतुर् भवति. सभागहेतुश् च स भवति प्रकारतो ऽपि सादृश्यात्. अत एव चतुष्कोटिकः क्रियते. उभयस्वभावतया तृतीयकोटिसंभवात्. प्रथमा कोटिर् असर्वत्रगः सभागहेतुर् इति. रागादिकः सभागहेतुः. स हि सभागहेतुर् एव स्वनैकायिकस्य क्लेशस्य. न तु सर्वत्रगहेतुर् असर्वत्रगस्वभावत्वात्. द्वितीयान्यनैकायिकः सर्वत्रगहेतुर् इति. सत्कायदृष्ट्यादिकः सर्वत्रगः. स हि सर्वत्रगहेतुर् एव सर्वत्रगस्वभावत्वात्. अन्यनैकायिकक्लिष्टहेतुत्वाच् च. न सभागहेतुः. अन्यनैकायिके क्लिष्टे सभागहेतुत्वाभावात्. तृतीया एकनैकायिकः सर्वत्रगहेतुर् इति. सत्कायदृष्ट्यादिकः सर्वत्रगः. स हि एकनैकायिकस्य क्लेशस्य सभागहेतुः. एकनैकायिकक्लिष्टसादृश्यात्. सर्वत्रगहेतुश् च सः. तस्य सर्वत्रगत्वाद् एकनैकायिकक्लिष्टहेतुत्वयोगेन
सर्वत्रगहेतुत्वयोगाच् च. चतुर्थी एतान् आकारान् स्थापयित्वेति. त्रिकोट्युक्तां धर्मप्रकारां वर्जयित्वेत्य् अर्थः. तद्यथा क्लिष्टा धर्माः कुशलानां न सभागहेतुर् असादृश्यात्. न सर्वत्रगहेतुः. अत एव कुशलानां चाक्लिष्टत्वात्. [तिब्. 212ब्] एवं कुशलाः क्लिष्टानां योज्यं. क्लिष्टा अपि क्लिष्टानां न सभागहेतुः. नापि सर्वत्रगहेतुर् भवन्ति. तद्यथा रागादयो ऽन्यनैकायिकानां क्लिष्टानां न सभागहेतुर् अन्यनैकायिकत्वात्. न सर्वत्रगहेतुर् असर्वत्रगत्वाद् रागादीनाम् इति. सर्वत्रगा अपि धर्माः क्लिष्टानाम् एकनैकायिकानाम् अपि न सभागहेतुर् न सर्वत्रगहेतुः. यद्य् अनागतास् ते भवन्तीति योज्यं.
विसंयोगः क्षयो धियेति.
धिया प्राप्यमाणो निरोधो विसंयोगफलम् इत्य् अर्थः. तेनेति. तेन कारणेन. यस्मात् क्षयो निरोधो धीः प्रज्ञा. तेन कारणेन प्रतिसंख्यानिरोधो विसंयोगफलम् इत्य् उक्तं भवतीत्य् आचष्टे.
यद्बलाज् जायते
इति विस्तरः. यस्य बलं यद्बलम् इति षष्ठीसमासः. यस्य बलाज् जायते
यत्
संस्कृतं.
तत् फलं
तस्य
पुरुषकारजं
पुरुषकाराज् जातं पुरुषकारजं पुरुषकारफलम् इत्य् अर्थः. उदाहरणं कथयति. तद्यथा अधरभूमिकस्य कामावचरस्य प्रथमध्यानभूमिकस्य वा तत्प्रयोगचित्तस्य उपरिभूमिकः प्रथमध्यानभूमिको द्वितीयध्यानबूमिको वा समाधिः. फलं पुरुषकारजम् इत्य् अधिकृतं. सास्रवस्य धर्मस्य अनास्रवः. ध्यानचित्तस्य निर्माणचित्तं तद् एव फलं भवति. [तिब्. 213अ] आदिशब्देनान्यद् अपि. तद्यथा कामावचरान् मरणचित्ताद् रूपावचरः प्रथमो ऽन्तराभवक्षण इत्य् एवमादि विजातीयोदाहरणं निष्यन्दफलविवेचनार्थं. अधरभूमिकस्य हि प्रयोगचित्तस्य उपरिभूमिकः समाधिर् न निष्यन्दफलं. भिन्नभूमिकं हि न हेतुसदृशं. नापि सास्रवस्य अनास्रवम् इति वक्तव्यं. न तु सर्वं निष्यन्दफलं पुरुषकारफलं भवति यद् धि यस्य बलाज् जायते सदृशं समानभूमिकं अनंतरं च भवति. तत् तस्य पुरुषकारफलं निष्यन्दफलं च भवति. चतुःकोटिकं चात्र भवति. अस्ति पुरुषकारफलम् एव न निष्यन्दफलं. यथोदाहृतं. अस्ति निष्यन्दफलम् एव न पुरुषकारफलं. सभागसर्वत्रगहेत्वोर् व्यवहितं फलं. अस्त्य् उभयं. समनन्तरोत्पन्नं सभागसर्वत्रगहेत्वोः फलम्. अस्ति नोभयं. तद्यथा विपाकहेतोर् विपाकफलं. प्रतिसंख्यानिरोधो ऽपि पुरुषकारफलम् इष्यते. न चासौ हेतुबलाज् जायते नित्यत्वाद् इत्य् अतः कारिकायाम् अनुक्तं तद् उपसंचष्टे. प्रतिसंख्यानिरोधस् तु यद्बलात् प्राप्यत इति वक्तवयम् इति. प्रतिसंख्याबलेन हि प्रतिसंख्यानिरोधः प्राप्यते. तस्मात् स प्रतिसंख्यायाः पुरुषकारफलं [तिब्. 213ब्] भवति.
अपूर्व
इति विस्तरः. अपूर्वः पूर्वोत्पन्नाद् अन्यः. कः पुनर् असौ. सहोत्पन्नः पश्चादुत्पन्नश् च. न हि पूर्वं फलं पश्चाद् धेतुर् भवति. संस्कृत एव धर्मो ऽधिपतिफलं नासंस्कृतः. संस्कृतस्यैव नासंस्कृतस्य. फलप्रतिग्रहणदानासमर्थत्वात्. सर्वस्येति. जनकस्याविघ्नभावावस्थायिनश् च. कर्तुः पुरुषकारफलम् इति.
यद्बलाज् जायते यत् तत् फलं पुरुषकारजम्
इति वचनात्. अकर्तुर् अप्य् अधिपतिफलम् इति.
अपूर्वः संस्कृतस्यैव संस्कृतो ऽधिपतेः फलम्
इति वचनात्. अन्येषाम् अधिपतिफलम् एवेति. अशिल्पिनाम् अविघ्नभावावस्थायिनां तच्छिल्पम् अधिपतिफलम् एव न पुरुषकारफलं. तद् एवं चतुःकोटिकं भवति. अस्ति पुरुषकारफलम् एव नाधिपतिफलं. तद्यथा विसंयोगफलं. अस्त्य् अधिपतिफलम् एव न पुरुषकारफलं. उदासीनस्य हेतोर् व्यवहितं च फलं. अस्त्य् उभयं. सहोत्पन्नं अनन्तरोत्पन्नं च कारकस्य हेतोः. अस्ति नोभयं. तद्यथा आकाशम् अप्रतिसंख्यानिरोधश् चेति.
(ii.60) वर्तमानाः फलं पंचेति.
वर्तमाना एव फलं
गृह्णन्तीत्य्
अवधारणं. प्रतिगृह्णन्तीति. आक्षिपन्ति [तिब्. 214अ] हेतुभावेनावतिष्ठन्त इत्य् अर्थः. कारणहेतुर् अप्य् एवम् इति. वर्तमान एव फलं प्रतिगृह्णाति नतीतो नानागतो वा. स तु नावश्यं सफल इति नोच्यते. ह्य् असंस्कृतं कारणहेतुर् इष्यते. न चास्य फलम् अस्ति. अनागतश् च कारणहेतुः. न च पूर्वम् उत्पद्यमानेन धर्मेण सफलः.
द्वौ प्रयच्छत
इति. वर्तमानाव् अधिकृतं. सहभूसंप्रयुक्तकहेतू वर्तमानाव् एव फलं प्रयच्छतः. युक्तं तावद् यद् अतीताव् इति. निष्यन्दफलेन सफलाव् एताव् उक्तौ.
सभागसर्वत्रगयोर् निष्यन्द
इति वचनात्. अथ कथं वर्तमानौ निष्यन्दफलं प्रयच्छतः. न हि तयोर् वर्तमानावस्थायां निष्यन्दो दृश्यते इत्य् अत आह. समनन्तरनिर्वर्तनात्. किं. फलं प्रयच्छत इत्य् अधिकृतं. तौ चाप्य् अतीतौ भवत इति. हेतुफलयोर् असमवधानात्. न पुनस् तद् एव दत्त इति. न पुनस् तद् एव फलं प्रयच्छत इत्य् अर्थः. दत्त इति ह्य् आख्यातपदं द्विवचनान्तं. वर्तमानावस्थायाम् एव दत्तत्वात्. न हि वर्तमानताम् आनीतं पुनर् आनेतुं शक्यते. यदा च ताव् अतीतौ फलं प्रयच्छतः. तदैव तत् स्वफलं प्रयच्छतः. उत्पद्यमानावस्थायाम् एव हि फलं निर्वर्तते नान्यदा. केवलं तु व्यवहितम् तत् फलम् इत्य् अवगन्तव्यं. कुशलमूलानि समुच्छिन्दन् याः प्राप्तीः सर्वपश्चाद् विजहातीति. इह कुशलमूलानि [तिब्. 214ब्] क्रमेण समुच्छिद्यन्ते. कथं. मिथ्यादृष्टिर् नवप्रकारा. मृदुमृद्वी यावद् अधिमात्राधिमात्रा. कुशलमूलान्य् अपि नव प्रकाराणि तद्विपर्ययेण मृदुमृद्व्या मिथ्यादृष्ट्याधिमात्राधिमात्राणि कुशलमूलानि समुच्छिद्यन्ते यावद् अधिमात्राधिमात्रया (अभिध्-क्-व्य् 227) मिथ्यादृष्ट्या मृदुमृदूनि कुशलमूलानि समुच्छिद्यन्ते. भावनाहेयक्लेशवत्. तत्रांत्यावस्थायां मृदुमृदूनि कुशलमूलानि न समुदाचरंति. प्राप्तयस् तु तेषां मृदुमृदूनां समुदाचरन्ति. ताः सर्वपश्चिमकास् तदा विजहाति. तासां प्राप्तीनां प्राप्तीर् निरोधयतीत्य् अर्थः. ताः प्राप्तयो ऽन्त्यवस्थाः कुशलः सभागहेतुः फलं प्रतिगृह्णाति. फलपरिग्रहं करोति. न ददाति स्वनिष्यन्दफलं. कुशलस्य क्षणान्तरस्य जन्यस्याभावात्. द्वितीया कोटिह्. ददाति न प्रतिगृह्णातीति. कुशलमूलानि प्रतिसंदधानो याः सर्वप्रथमं प्रतिलभते.
याः प्राप्तीः सर्वपूर्वं प्रतिलभते. ताः कुशलः सभागहेतुः फलं ददातीति. प्राप्तिं स्वनिष्यन्दं जनयति. न तु प्रतिगृह्णाति पूर्वम् एव प्रतिगृहीतत्वात्. अयं तु सावद्यो द्वितीयकोटिनिर्देशः. कुशलमूलप्रतिसंधानकाले हि नवप्रकाराणाम् अपि कुशलमूलानां प्राप्तयो ऽतीतानागतप्रत्युत्पन्नाः समं प्रतिलभ्यंते. तासां या अतीताः प्राप्तयः. स कुशलः सभागहेतुः फलं ददाति न प्रतिगृह्णाति प्रतिगृहीतत्वाद् [तिब्. 215अ] इति युक्तम् एतत्. यास् तु वर्तमानास् तथैव प्रतिलब्धाः प्राप्तयः. स कुशलः सभागहेतुः कथम् अवधार्यते. फलं ददात्य् एव न प्रतिगृह्णातीति. स हि प्रतिगृह्णाति च ददाति चेति. एवम् अविशेषितत्वात् सावद्यो ऽयं द्वितीयकोटिनिर्देशः. तस्माद् आचर्य आह. एवं तु वक्तव्यं स्यात्. ता एव प्रतिसंदधानस्येति. ता एव प्राप्तयः कुशलः सभागहेतुः फलं ददात्य् एव स्वनिष्यन्दफलदानात्. न प्रतिगृह्णाति पूर्वप्रतिगृहीतत्वात्. तृतीया कोटिः. फलं प्रतिगृह्णाति ददाति चेति. असमुच्छिन्नकुशलमूलस्य शेषास्व् अवस्थास्व् इति. द्वे अवस्थे हित्वा. यस्याम् अवस्थायां कुशलमूलानि समुच्छिन्दन् याः प्राप्तीः सर्वपश्चाद् विजहाति. यस्यां चावस्थायां कुशलमूलानि प्रतिसंदधानो याः सर्वप्रथमं प्रतिलभते. यथास्मदादीनां कुशलाः प्राप्तयः फलं प्रतिगृह्णन्ति ददति चेति. विसभागक्षणान्तराव्यवहित इति वक्तव्यं. न वक्तव्यं. विसभागक्षणान्तरव्यवधाने ऽपि प्राप्तिलक्षणस्य सभागहेतोः फलप्रतिग्रहणदानसंभवात्. चतुर्थ्य् एतान् आकारान् स्थापयित्वा. तद्यथा ऊर्ध्वभूमेः परिहीणस्य [तिब्. 215ब्] ऊर्ध्वभूमिकानां कुशलानां याः प्राप्तयः. ताः कुशलः सभागहेतुर् न
फलं प्रतिगृह्णाति. पूर्वं प्रतिगृहीतत्वात्. न ददाति. तद्भूमिपरिहीणस्य तद्भूमिकानां कुशलमूलानां धर्माणां प्राप्त्यभावात्. एवं समुच्छिन्नकुशलमूलवस्थायाम् अपि वक्तव्यं.
अत्राचार्यसंघभद्र आह. नैतद् युज्यते यद् उक्तम्. एवं तु वक्तव्यं स्यात्. ता एव प्रतिसंदधानस्येति. कस्मात्. न हि यास् ताः सर्वपश्चाद्विहीनाः. तासाम् एव तन् निष्यन्दफलं. याः प्रतिसंदधानः सर्वप्रथमं (अभिध्-क्-व्य् 228) प्रतिलभत इति. पूर्वनिरुद्धस्यापि हि तत्प्राप्तिसंतानस्य स निष्यन्द इति. अतः कथं फलग्रहणात् कृत्स्न एव तत्सभागहेतुर् गृहीतः स्याद् इति तदर्थम् एवेदम् उच्यते. तस्माद् यथान्यास एव साध्व् इति. तद् एव उभयत्रापि पाठदोष उद्ग्राहिते कतरः पाठः श्रेयान् इति. अत्राभिधर्मपाठ एव श्रेयान् इति पश्यामः. ननु चोक्तम्. अविशेषितत्वात् कुशलप्रतिसंधानकाले प्रतिलब्धा वर्तमानाः प्राप्तयः फलं ददति प्रतिगृह्णन्त्य् अपि. ननु ददत्य् एव न प्रतिगृह्णन्तीति दोष इति. नैष दोषः. कुशलमूलानि प्रतिसंदधान इति कुशलमूलप्राप्त्युत्पद्यमानावस्थायाम् एतद् उच्यते न वर्तमानावस्थायां तत्र च न काश्चिद् अपि कुशलमूलप्राप्तयो वर्तमाना भवंति. ताः कथं फलं प्रतिगृह्णन्ति ददति चेति [तिब्. 216अ] शक्यते वक्तुं. अतीतास् तु स्वसंताने कुशलमूलप्राप्तयः सर्वा अपि सभागहेतुभूताः स्वनिष्यन्दफलं तदानीं ददत्य् एव. समनन्तरनिर्वर्तनन्यायेन. न प्रतिगृह्णन्ति. पूर्वं प्रतिगृहीतत्वात्. इत्य् अनया युक्त्याभिधर्मपाठम् एव समर्थयामः. ननु चैवम् अविशेषिते पाठे अनागतानां कुशलमूलप्राप्तीनां द्वितीयकोटित्ववचनप्रसंगः. ता अपि हि तदानीम् अतीतप्राप्तिवत् प्राप्यन्ते. नैष दोषः. अनागतानां सभागहेतुत्वाभावात् सभागहेतोश् चेहाधिकृतत्वात्. एवम् अपि न प्राप्तय एव वक्तव्याः. या एव सर्वप्रथमं प्रतिलभत इति. एवं तु वक्तव्यं स्यात्. यान् सर्वप्रथमं प्रतिलभत इति. यान् कुशलान् धर्मान् इत्य् अर्थः. चित्तचैत्ता अपि हि कुशलप्रतिसंधाने प्रथमतः प्रतिलभ्यन्ते. न केवलं तत्प्राप्तयः. अस्त्य् एतत्. किं तु प्राप्तीनाम् एव कुशलप्रतिसंधाने आवश्यकत्वाद् एवं वचनं. कुशलप्राप्तयो हि सम्यग्दृष्ट्या विचिकित्सयापि वा कुशलप्रतिसंधाने ऽवश्यम् उत्पद्यन्ते. चित्तचैत्तास् तु विचिकित्सया कुशलप्रतिसंधाने न तावद् उत्पद्यन्त इति प्राप्तय एवोत्पद्यन्त इति वर्णयम्ति.
अकुशलस्येति विस्तरः. अकुशलो ऽपि सभागहेतुश् चतुष्कोटिकः. अस्त्य् अकुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददातीति विस्तरेण. [तिब्. 216ब्] प्रथमा कोटिः. कामवैराग्यम् अनुप्राप्नुवन् याः प्राप्तीः सर्वपश्चाद् विजहाति. ता अकुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददाति. कथं कृत्वा. इह क्लेशो नवप्रकारः. मार्गो ऽपि नवप्रकारः. तत्र मृदुमृदुना मार्गेणाधिमात्राधिमात्रः क्लेशप्रकारः प्रहीयते. यावद् अधिमात्राधिमात्रेण मृदुमृदुः प्रहीयते. तत्प्राप्तयो ऽपि तथैव प्रहीयन्ते. कामवैराग्यम् अनुप्राप्नुवन् या मृदुमृदूनाम् अकुशलानां प्राप्तीः सर्वपश्चाद् विजहाति. ता अकुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददाति. अकुशलप्राप्तिक्षणान्तराभावात्. द्वितीया. कामवैराग्यात् परिहीयमाणो याः सर्वप्रथमं प्रतिलभते अकुशलानां प्राप्तीः. ता अकुशलः सभागहेतुः फलं ददाति न प्रतिगृह्णाति पूर्ववद् वक्तव्यं.
अत्राचार्यो ब्रवीति. एवं तु वक्तव्यं स्यात्. त एव परिहीयमाणस्येति. ता एव याः कामवैराग्यम् अनुप्राप्नुवन् प्राप्तीः सर्वपश्चाद् विजहातीति. ता हि प्रतिगृहीतत्वात् न प्रतिगृह्णन्ति. ददत्य् एव तु केवलं फलं. पूर्वपाठे तु द्वितीया कोटिर् न संभवति यथोक्तं प्राक्.
अत्राचार्यसंघभद्रस् तथैव प्रत्याचष्टे. नैतद् युज्यत इति. पूर्वेण समानम् एतत्. सर्वं प्रपंचयितव्यं.
[तिब्. 217अ] तृतीया. कामवीतरागस्य शेषास्व् अवस्थास्व् इति. द्वे अवस्थे हित्वा. एते एव यथोक्ते प्रथमद्वितीयावस्थे शेषास्व् अवस्थासु. यथास्माकं. या अकुशलानां प्राप्तयः. ता अकुशलः सभागहेतुः फलं प्रतिगृह्णाति ददाति च. चतुर्थी. एतान् आकारान् यथोक्तान् स्थापयित्वा. तद्यथा कामवीतरागस्यपरिहाणधर्मणो या अकुशलानां प्राप्तयः. सो ऽकुशलः सभागहेतुर् न फलं प्रतिगृह्णाति. पूर्वं प्रतिगृहीतत्वात्. न ददाति. तस्य प्राप्त्यभावात्. एवं निवृताव्याकृतस्यापीति विस्तरः. एवं निवृताव्याकृतस्यापि चतुःकोटिकविधानम्. अर्हत्त्वप्राप्तितो ऽर्हत्त्वपरिहाणितश् च यथायोगं योज्यं. अस्ति निवृताव्याकृतः सभागहेतुः फलं प्रतिगृह्णाति न ददातीति विस्तरः. प्रथमा कोटिः. अर्हत्त्वं प्राप्नुवन् याः प्राप्तीह् सर्वपश्चाद् विजहाति. स निवृताव्याकृतः सभागहेतुः फलं प्रतिगृह्णाति न ददाति. क्लिष्टक्षणान्तराभावात्. द्वितीया. अर्हत्त्वात् परिहीयमाणो याः सर्वप्रथमं प्रतिलभते. एवं तु वक्तव्यं स्यात्. ता एव परिहीयमाणस्येति. एवं हि फलदानम् एवैकम् [तिब्. 217ब्] उपपादितं भवति. पूर्वपाठसमर्थनम् अपि तेनैवानुक्रमेण वक्तव्यं. तृतीया. भवाग्रवीतरागस्य शेषास्व् अवस्थासु. चतुर्थी. एतान् आकारान् स्थापयित्वा. तद्यथा अर्हत्त्वं प्राप्तस्य यास् त्रिधातुक्यो निवृताव्याकृतानां प्राप्तयः यथासंभवं. स निवृताव्याकृतः सभागहेतुर् न फलं प्रतिगृह्णाति. प्रतिगृहीतत्वात्. न ददाति. प्रहीणत्वात्. अनिवृताव्याकृतस्य पश्चात्पादक इति. पश्चात्पादकलक्षणं व्याख्यातम् इति न पुनर् उच्यते. यो ऽनिवृताव्याकृतः सभागहेतुः फलं प्रतिगृह्णाति ददात्य् अपि सः. आह. यस् तावद् ददाति प्रतिगृह्णात्य्
अपि सः. अनिवृताव्याकृतस्य आ परिनिर्वाणात् संनिहितत्वात्. स्यात् प्रतिगृह्णाति न ददाति. अर्हतश् चरमाः स्कन्धाः सर्वोपधिनिःसर्गेणानिवृताव्याकृतनिष्यन्दाभावात्. सालम्बननियमेन तु क्षणश इति. पूर्वम् अनालम्बनानां सम्भवतो नियम उक्तः सालम्बननियमेन तु चित्तचैत्तानाम् एव सभागहेतुत्वम् उच्यते क्षणशः क्षणान्तरापेक्षया. न तु पर्यादाय विच्छेदत इत्य् अर्थः. कुशलचित्तानन्तरम् इति विस्तरः. यदा कुशल्चित्तानन्तरं क्लिष्टम् अव्याकृतं वा [तिब्. 218अ] चित्तं संमुखीकरोति. तदा तत् कुशलं चित्तं फलं प्रतिगृह्णाति यतस् तत्संतानपतितं व्यवहितम् अनागतं कुशलं फलं भविष्यति. अनुत्पत्तिधर्मि वा. न ददाति. यस्माद् (अभिध्-क्-व्य् 230) अस्यानन्तरं कुशलम् एव नास्ति. सदृशेन हि फलेन सफलः सभागहेतुर् इष्यते. द्वितीया. विपर्ययाद् इति. यदा क्लिष्टानिवृताव्याकृतचित्तानन्तरं कुशलं चित्तं संमुखीकरोति. तदा येन कुशलेन चित्तेन तत् कुशलं चित्तं फलत्वेन प्रतिगृहीतम् आसीत्. तद् ददाति न तत् प्रतिगृह्णाति. पूर्वं प्रतिगृहीतत्वात्. तृतीया. कुशलचित्तानन्तरं कुशलम् एवेति. संमुखीकरोतीत्य् अधिकृतं. तत् पूर्वकं कुशलं चित्तं द्वितीयं चित्तं फलत्वेन प्रतिगृह्णाति ददाति च. समनन्तरनिर्वर्तनात्. चतुर्थी. एतान् आकारान् स्थापयित्वेति. यदा क्लिष्टाव्याकृतचित्तानन्तरं क्लिष्टम् अव्याकृतं वा चित्तं संमुखीकरोति. तदासौ सालम्बनः कुशलः सभागहेतुर् न फलं प्रतिगृह्णाति. प्रतिगृहीतत्वात्. न ददाति. क्लिष्टाव्याकृतचित्तसंमुखीभावात्. एवम् अकुशलादयो ऽपि योज्या इति. अस्ति सालंबनो ऽकुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददाति चतुःकोटिकः. प्रथमा
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
