Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 7/25

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

स्फुटार्था अभिधर्मकोशव्याख्या

Tác giả
यशोमित्र
Thông tin
GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

प्रतिसरणानि. कतमानि चत्वारि. धर्मः प्रतिसरणं न पुद्गलः. अर्थः प्रतिसरणं न व्यंजनं. नीतार्थसूत्रं प्रतिसरणं. न नेयार्थं. ज्ञानं प्रतिसरणं न विज्ञानम् इति. तथार्थप्रतिसरणो भवति. न व्यंजनप्रतिसरण इति. कः पुनः अस्यार्थ इति. अस्योपन्यस्तस्य संस्कृतलक्षणसूत्रस्य. तम् अर्थम् आह. अविद्यांधा हि बाला इति विस्तरः. संस्कारप्रबन्धम् आत्मत आत्मीयतश् चाधिमुक्ताः कृतरुचयो ऽभिष्वजंते इत्य् अर्थः. संस्कृतत्वं प्रतीत्यसमुत्पन्नत्वम् इति पर्यायाव् एतौ. समेत्य संभूय प्रत्ययैः कृतं संस्कृतं. तं [तिब्. 161ब्] तं प्रत्ययं प्रतीत्य समुत्पन्नं प्रतीत्यसमुत्पन्नम् इति. न तु क्षणस्येति. प्रवाहस्यैव संस्कृतत्वं द्योतयितुकाम इदम् आह. न तु क्षणस्य संस्कृतत्वं. न हि क्षणस्योत्पादादय उत्पादव्ययस्थित्यन्यथात्वलक्षणा धर्माः प्रज्ञायंते क्षणस्य दुरवधारत्वात्. ब्रूयास् त्वम् अप्रज्ञायमाना अप्य् एते लक्षणं भवितुम् अर्हंतीत्य् अत आह. न चाप्रज्ञायमाना एते लक्षणं भवितुम् अर्हंतीति. प्रज्ञायमानम् एव हि लक्षणं भवति. तद्यथा जलस्य बलाकेति. अत एवात्रेति. अत एवात्र सूत्रे प्रज्ञायत इति पदग्रहणम्. अन्यथा हि संस्कृतस्योत्पादो ऽपि व्ययो ऽपि स्थित्यन्यथात्वम् अपीत्य् एवावक्ष्यत्. संस्कृतत्वे लक्षणानीति. संस्कृतम् इति लक्षणानीत्य् अर्थप्रतिग्रहार्थं पुनः संस्कृतग्रहणं. जलबलाकावद् इति. वैधर्मदृष्टांतो ऽयं यथा बलाका जलास्तित्वे लक्षणं न पुनर् जलस्य जलत्वे लक्षणं. मैवं विज्ञायि. किं. संस्कृतस्य वस्तुनः अस्तित्वे ऽमूनि लक्षणानि. साध्वसाधुत्वे वा कन्यालक्षणवद् इति. यथा कन्यायाः शुभाशुभानि लक्षणानि

यथाक्रमं साध्वसाधुत्वे लक्षणानीति. यदि ह्य् अमूनि तथा संस्कृतस्य वस्तुनो ऽस्तित्वे साध्वसाधुत्वे वा लक्षणानीष्येरन् त्रीणीमानि संस्कृतलक्षणानीत्य् उच्येत. संस्कृतस्य संस्कृतलक्षणानीति न क्रियेत. कृतम् च. तेन ज्ञायते संस्कृतत्वे लक्षणानीति. [तिब्. 162अ] कथं पुनर् अविद्यमाना जात्यादयः प्रवाहे व्यवस्थाप्यंते प्रज्ञायंते वा. न ब्रूमो जात्यादयो न संविद्यंत इति. यथा तु द्रव्यरूपेण विभज्यंते. तथा न संविद्यंत इति ब्रूमः. यथा तर्हि भवतां (अभिध्-क्-व्य् 175) संविद्यंते. तथा कथ्यतां. अत आह. प्रवाहस्यादिर् उत्पाद इति विस्तरः. निवृत्तिर् व्यय इति. प्रवाहस्योपरतिर् व्ययः. स एव प्रवाहो ऽनुवर्तमान इति. सदृशक्षणानुवृत्तेर् अनुवर्तमानः प्रवाहः. स्थितिर् इति उच्यते. तस्याः पूर्वापरविशेष इति. पूर्वस्माद् अपरस्य क्षणस्य विशेषः. पूर्वापरयोः क्षणयोर् वा विशेषः पूर्वापरविशेषः. एवं च कृत्वोक्तम् इति. प्रवाहरूपान् एवोत्पादादीन् कृत्वानित्योपस्थितस्मृतिताम् आयुष्मतः सुंदरनन्दस्यारभ्योक्तं. प्रवाहगता हि वेदनास् तस्य विदिता इवोत्पद्यंते विदिता इव तिष्ठंते विदिता इव परिक्षयं पर्यादानं गच्छंति न क्षणगताः. क्षणस्य दुरवधारत्वाद् इति. विदितस्य च क्षणस्यावस्थानासंभवात्. एतम् एवार्थं श्लोकद्वयेन संगृह्णन्न् आह.

जातिर् आदिः प्रवाहस्येत्य्

आदि सर्वम् उक्तं.

स्थितिस् तु स

इति. स एव प्रवाहः स्थितिः.

तस्यैवेति.

तस्यैव प्रवाहस्य.

तदुच्छेद इति.

प्रबन्धोच्छेदः.

क्षणिकस्य हि धर्मस्येति

श्लोकः. क्षणिको हि धर्मः.

स्थितिम् अंतरेण

विनश्येद् इत्य् अर्थः. स्थितिर् अस्तीति मन्यसे चेत्. स च धर्मो व्येत्य् एव सत्याम् अपि स्थितौ. विनश्यत्य् एव क्षणिकत्वात्. विनाशहेत्वभावात्.

तस्माद् वृथा तत्परिकल्पना

निष्प्रयोजना स्थितिपरिकल्पनेनेत्य् अर्थः. द्वितीयादिक्षणावस्थानेन [तिब्. 162ब्] हि स्थितिपरिकल्पना न वृथा भवेत्. तस्मात् प्रवाह एव स्थितिः. यस्मात् क्षणिकस्य हि धर्मस्य स्थितिपरिकल्पना व्यर्थेति. एवं च कृत्वायम् अपीति. प्रवाह एव स्थितिर् इति कृत्वेत्य् अर्थः. न हि क्षणस्योत्पन्नस्याविनाशो ऽस्तीति. अत्र कस्यचिद् एवम् अभिप्रायो भवेत्. स्थितिसद्भावाद् एकं क्षणम् अविनाशो धर्मस्योत्पन्नस्य. यदि हि स्थितिर् न स्यात्. सो ऽप्य् एकः क्षणो न स्याद् इति. न. हेतुप्रत्ययपूर्वकत्वात् तदस्तित्वस्य. अस्मिन् सतीदं भवतीति वचनात्. स्थितिर् उपगृह्णातीति चेत्. स्यान् मतं हेतुप्रत्ययेभ्य उत्पद्यमानं धर्मं स्थितिर् उपगृह्णातीति. यदि स्थितिर् नोपगृह्णीयात् किं स्यात्. आत्मसत्ता धर्मस्य न भवेत्. (अभिध्-क्-व्य् 176) जनिका तर्हि स्थितिः प्राप्नोति न स्थापिका. संतानम् अवस्थापयतीति चेत्. हेतुप्रत्ययेषु स्थित्याख्या प्रसज्यते. हेतुप्रत्ययानां संतानहेतुत्वात्. निकायसभागचित्तं युज्यत इति. एकस्मिं निकायसभागे ऽनेकम् अपि चित्तं एकम् इत्य् उच्यते. एकनिकायसभागसंभूतत्वाद् इत्य् अभिप्रायः. तच् चित्तं युज्यत एकस्मिंश् चित्त इति वक्तुम्. अन्यथा हि कथम् एकस्यैव चित्तक्षणस्य जातिश् च मरणं चान्यथात्वं च स्यात्.

उत्तरोत्तरक्षणानुबन्धः स्थितिर् इति. पूर्वस्य क्षणस्य उत्तरः क्षणः प्रतिनिधिभूतः सादृश्यात्. अतः स पूर्वः क्षणो ऽद्यापि अवतिष्ठत इवेति कृत्वोत्तरः क्षणः स्थितिर् उच्यते. यदा तर्हि सदृशा उत्पद्यन्ते इति. यदा सदृशा उत्पद्यन्ते. तदा विसदृशत्वं [तिब्. 163अ] नास्ति. विसदृशत्वं च स्थित्यन्यथात्वम् उक्तम्. अतः सदृशोत्पत्तौ स्थित्यन्यथात्वं नास्तीति अव्यापिलक्षणं स्याद् इत्य् अभिप्रायः. क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तस्येति विस्तरः. क्षिप्तं च तद् अक्षिप्तं च क्षिप्ताक्षिप्तं. बलिदुर्बलाभ्यां क्षिप्तं बलिदुर्बलक्षिप्तं. क्षिप्ताक्षिप्तं च तद् बलिदुर्बलक्षिप्तं च क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तं. किं तत्. वज्रादि. आदिग्रहणेन लोहपासाणादेर् ग्रहणं. अपरे पुनर् एवं विग्रहं कुर्वन्ति. क्षिप्तश् चाक्षिप्तश् च क्षिप्ताक्षिप्तौ. बलिदुर्बलाभ्यां क्षिप्तौ बलिदुर्बलक्षिप्तौ. क्षिप्तस्यैवायं द्विधाभेदः. क्षिप्ताक्शिप्तौ च बलिदुर्बलक्षिप्तौ च क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तं. वज्रादिर् अस्य वज्रादिः. अस्मिन् विज्रहे वज्रादि विशेषणं. क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तं विशेष्यं. तस्य वज्रादेर् एवंविधस्य यथासंभवं चिराशुतरपातः. क्षिप्तस्य चिरंपातः. अक्षिप्तस्य चिरतरः पातः. दुर्बलक्षिप्तस्याशुपातः. बलिक्षिप्तस्याशुतरः पातः. तस्य कालः. कालस्य भेदः. चिराशुतरपातकालभेदात्. [तिब्. 163ब्] तद्भूतानां वज्रादिमहाभूतानां. परिणामविशेषः क्षिप्तस्यान्यथापरिणामो येन चिरंपातः. एवं यावद् बलिक्षिप्तस्यान्यथापरिणामो येनाशुतरः पातः. तस्य परिणामविशेषस्य सिद्धिः. तस्याः परिणामविशेषसिद्धेः न ते निर्विशेषा भवन्तीत्य् अधिकृतं. अन्तिमस्य तर्हीति विस्तरः. शब्दस्यार्चिषश् च

दीपादेर् यो ऽन्त्यः क्षणः संतानोपरतिकाले. निरुपधिशेषनिर्वाणकाले वार्हतः. तस्य षडायतनस्य उत्तरक्षणाभावात् स्थितिर् नास्ति. स्थितेर् अभावात् स्थित्यन्यथात्वं नास्तीति अव्यापिनी लक्षणव्यवस्था प्राप्नोति. येयम् उक्ता तस्या विसदृशत्वम् स्थित्यन्यथात्वम् इति. यस्यास्ति स्थितिः. तस्यावश्यम् अन्यथात्वं भवति. यस्य नास्ति स्थितिः. तस्य नास्ति स्थित्यन्यथात्वम् इत्य् उक्तं भवति. संभवं हि प्रत्य् एवम् उक्तं सूत्रे त्रीणीमानि संस्कृतलक्षणानीति. तस्माद् अंत्यशब्दार्चिःक्षणप्रभृतीनाम् उत्पादव्ययाव् एव द्वे लक्षने इति अभिप्रीयेते. तदन्येषां तु स्थित्यन्यथात्वम् अपीति. अपर आह. (अभिध्-क्-व्य् 177) अंत्यानाम् अपि शब्दार्चिःक्षणप्रभृतीनां स्थितिर् अस्ति यत् स्वावस्थानं. तस्याश् चान्यथात्वं पूर्वक्षणापेक्षम् इति. तेषाम् अपि त्रीणि संस्कृतलक्षणानि व्यवस्थाप्यंत इति. कथम् इदानीं स एव धर्ंओ लक्ष्यः. तस्यैव च लक्षणम् इति. लक्ष्यलक्षणयोर् [तिब्. 164अ] जलबलाकावत् अन्यत्वं पश्यंतश् चोदयंति. तद् व्यभिचारयंतः सौत्रांतिका आहुः. कथं तावन् महापुरुषलक्षणानीत्यादि. महापुरुषलक्षणानि महापुरुषसंगृहीतत्वान् नातो ऽन्यानि. ब्रूयान् न महापुरुषलक्षणमात्रं महापुरुषः. धर्ममात्रं त्व् अभूत्वा भवति भूत्वा च न भवतीति अदृष्टांत एषः. अत्र ब्रूमः. समम् एवैतत्. यथा हि महापुरुषलक्षणानि महापुरुषाख्यानि महापुरुषलक्षणाख्यानि च भवंति. एवं संस्कृतो धर्मः संस्कृतं चोयते संस्कृतलक्षणं च. उत्पादादिलक्षणेन ह्य् अवस्थाविशेषेण स धर्मो लक्ष्यते. यदा च प्रवाहलक्षणव्यवस्था क्रियते. तदा समुदायिभिः समुदायो लष्यते. यथा महापुरुषसंज्ञः समुदायो

महापुरुषलक्षणैः समुदायिभिर् इति. एतेन सास्नादीनि लक्षणानि व्याख्यातानि. कूठिन्यादीनि चेति विस्तरः. उभयसिद्धो ऽयं दृष्टांतः प्रवचनसिद्धत्वात्. कठिनलक्षणो हि पृथिवीधातुर् उच्यते. न च पृथिवीधातोर् अन्यत् काठिन्यम्. एवं सर्वत्र योज्यं. स एव हि पृथिवीधातुः कठिनलक्ष्यमाणः कठिनलक्षण उच्यते. एतद् एव संस्कृतम् अभूत्वाभवद्भूत्वाचाभवल्लक्ष्यमाणं संस्कृतलक्षणम् उच्यते. लक्ष्यत इति लक्षणम् इति कृत्वा. न च तत् तस्माद् अन्यत्. यथा चोर्ध्वगमनेनेति विस्तरः. क्सणिकवादिनो वैभाषिकस्य धूमस्योर्ध्वगमनं [तिब्. 164ब्] नान्यद् अस्ति. स एवोर्ध्वदेशांतरेषु निरंतरम् उत्पद्यमान ऊर्ध्वगमनाख्यां लभते. तद् ऊर्ध्वगमनं ततो भिन्नम् इव लक्ष्यते. न च धूमस्य ऊर्ध्वगमनत्वम् अन्यद् इष्यते. न च तत् तस्माद् अन्यत्. न च तद् ऊर्ध्वगमनं तस्माद् धूमात् अन्यत्. स एवात्र न्याय इति. एवम् उत्पादो विनाशो ऽन्यथात्वं च ततो भिन्नम् इव लक्ष्यते. न च संस्कृतस्य संस्कृतम् अन्यद् भवतीति. न च संस्कृतानां रूपादीनां तावत् संस्कृतत्वं लक्ष्यते गृह्णतापि स्वभावं गृह्णतापि रूपादीनां स्वभावं. यावत् प्रागभावो न ज्ञायते. यावत् तेषां रूपादीनां प्रागुत्पत्त्यभावो न ज्ञायते. पश्चाच् च. किम्. अभावः. प्रागभावश् च प्रध्वन्साभावश् च यावन् न ज्ञायते. संततेश् च विशेषो यावन् न ज्ञायते इति वर्तते. तस्मान् न तेनैव तल् लक्षितं भवति. न तेनैव संस्कृतत्वेन संस्कृतत्वं लक्ष्यते. किं तर्हि. प्रागभावादिभिस् तत् संस्कृतत्वं लक्ष्यते. यदि हि रूपादीनां स्वभावं गृह्णन् संस्कृतम् इति गृह्णीयात् प्रागभावं पश्चादभावं च संततेश् च विशेषं अज्ञात्वा

तेनैव तल् लक्षितं स्यात्. न त्व् एवं जानीत इति न तेनैव तल् लक्षितं भवति. न च तेभ्यो ऽपि रूपादिभ्यो द्रव्यांतराण्य् एव जात्यादीनि विद्यंते.

जातिर् आदिः प्रवाहस्येति

विस्तरेण वचनात्. एषां सहभूतत्वात् जात्यादीनां समानकालोत्पादत्वात्. न. कारित्रकालभेदाद् इति. नैतद् एवं. कस्मात्. कारित्रकालभेदात्. पुरुषकारकालभेदाद् इत्य् अर्थः. तत् प्रतिपादयन्न् आह. अनागता हि जातिः कारित्रं करोतीति विस्तरः.

किम् अनागतं [तिब्. 165अ] द्रव्यतो ऽस्ति नास्तीति. अनागतम् एव तावद् द्रव्यतो नास्तीति प्रतिपादयिष्यते. कुतो ऽनागता जातिः कारित्रं करोतीत्य् अभिप्रायः. सत्य् अपि तु तस्मिन्न् इति. सत्य् अपि तु द्रव्यतो ऽनागते जातिर् अनागतावस्थायां कारित्रं कुर्वती कथम् अनागता सिध्यति. अप्राप्तकारित्रं हि अनागतम् इति सिद्धांतः. स विरुध्येत. तस्मात् तद् वक्तव्यं. कथं वर्तमाना सिध्यतीति. उपरतकारित्रो ऽतीत इष्यते. जातिश् चानागतैव. उपरतकारित्रे हि वर्तमानावस्थायाम् एवातीता प्राप्नोतीति न वर्तमाना भवेद् इति वर्तमानलषणं वक्तव्यम् इति. अपरिसमाप्तकारित्रो वर्तमान इति चेत्. अतीतो ऽप्य् वर्तमानः स्यात्. अतीतस्यापि हि फलदानकारित्रम् इष्यते. यदैवं ह्य् एनं स्थितिर् इति विस्तरः. स्थितिजराविनाशवृत्तयो ह्य् अन्योन्यविप्रतिषिद्धाः. न हि स एव धर्मस् तिष्ठति च जीर्यति च विनश्यति चेति युक्तो व्यवस्थापयितुं. तस्य क्षणिकत्वं बाध्यत इति. प्रथमं स्थितिः स्थापयति. ततो जरा जरयति. ततो ऽनित्यता विनाशयति. क्षणत्रयावस्थानात्. क्षणिकत्वं बाध्यत इति. एष एव हि नः क्षण इति. कार्यपरिसमाप्तिलक्षणो न तूत्पत्त्यनंतरविनाशलक्षण इत्य् अर्थः. एवम् अपीति विस्तरः. सहोत्पन्नानां क्रमेण कारित्रं न युज्यते. कुत एतत्. स्थितिस् तावत् स्थापयति. न तु तस्मिन् काले जरा जरयति नाप्य् अनित्यता विनाशयतीति. पुनः केनाबलीयस्त्वं [तिब्. 165ब्] पश्चात् केनाबलीयस्त्वं यद् एनां यस्माद् एनां स्थितिं सह धर्मेण यस्यासौ स्थितिः. तेन धर्मेण सहानित्यता निहंति. कृतकृत्या पुनः कर्तुं नोत्सहते जातिवद् इति. यथा जातिः कृतकृत्या जन्यं जनयित्वा परिक्षीणशक्तिर् न पुनर् जनयति. तथा स्थितिर् अपि तद्वद् एव न पुनः स्थापयतीति. न हि शक्यम् इति विस्तरः. न वर्तमानताम् आनीतं जन्यं पुनर् आनेतुं शक्यते ऽनवस्थाप्रसंगात्. शक्यं तु खलु स्थित्या स्थाप्यम् अत्यंतं स्थापयितुं. स्थितेर् विनाशप्रतिबन्धलक्षणत्वात्. ते एव जरानित्यते इति. ते एव जरानित्यते प्रतिबन्धः. येन स्थितिः स्थाप्यम् अत्यंतं स्थापयितुं न शक्नोति. जरा हि स्थितिं दुर्बलीकरोति दुर्बलाम् अनित्यता निहंतीति.

आचार्य आह. यदीति सर्वं. यदि हि ते जरानित्यते बलीयस्यौ स्यातां पूर्वम् एव स्यातां स्थितिकारित्रकाले. यतः सा स्थितिर् न लभते कारित्रं कर्तुं. निवृत्तकारित्रायाम् इति विस्तरः. यदा निवृत्तकारित्रा स्थितिः. तदा ते ऽपि जरानित्यते न तिष्ठतः. स चापि धर्मः. स्थितिकारित्राद् धि तेषां स्थितिः कल्पते. (अभिध्-क्-व्य् 179) तस्मात् ते ऽपि न तिष्ठतः. कथम् अतिष्ठन्त्यौ जरानित्यते कुत्र वा धर्मिण्य् अतिष्ठति कारित्रं कर्तुम् उत्सहिष्येते. किं वा पुनस् ताभ्यां जरानित्यताभ्यां कर्तव्यं. स्थितिसामर्थ्याद् धि स धर्म उत्पन्नमात्रो न विनष्टो ऽभूत्. स तया उपरतकारित्रया स्थित्याप्य् उपेक्ष्यमाणो ऽस्थाप्यमानो ध्रुवं न स्थास्यतीति. अयम् एवास्य विनाशो यद् इदम् अनवस्थानं. किं पुनर् जरानित्यताभ्यां [तिब्. 166अ] कार्यम् इत्य् अभिप्रायः. न च तस्माद् एव तस्यान्यप्रकारता युज्यत इति. यदि स एव नासाव् अन्यथा. अथान्यथा न स एव. ययोर् हि अन्यथात्वं. तयोर् अन्यत्वं दृष्टं तद्यथा देवदत्तयज्ञदत्तयोः.

यो ऽप्य् आह निकायांतरीय इति आर्यसंमतीयः. स घटादेर् मुद्गरादिकृतो विनाश इति मन्यते कालांतरावस्थायि हि तस्य रूपं. चित्तचैत्तानां तु क्षणिकत्वं. अत उच्यते. चित्तचैत्तानां च क्षणिकत्वाभ्युपगमात् तदनित्यतायाश् चित्तचैत्तानित्यताया विनाशकारणानपेक्षत्वात् स्वयं विनश्वरत्वात् स्थित्यनित्यते कारित्रं युगपत् कुर्यातां. अत एकस्य चित्तस्य चैत्तस्य वा युगपत्स्थितिविनष्टता अन्योन्यविरुद्धो ऽपि संप्रसज्यते. एवम् एतत् सूत्रं सुनीतम् इति. यद् एतत् त्रीणीमानि भिक्षवः संस्कृतस्य संस्कृतलक्षणानीति.

(ii.47च्द्) सति सामग्र्ये भावात्. असति चाभावाद् इति. सति हेतुप्रत्ययानां सामग्र्ये भावात् जन्यस्य. असति चाभावात्. न जातेः. किं. सामर्थ्यं पश्याम इत्य् अधिकृतं. न हि हेतुप्रत्ययसामग्र्ये ऽपि तज् जन्यं कदाचिद् भवति कदाचिन् न भवति. अत्र भदंतानंतवर्मा आह. यथा चक्षुर् न विना आलोकादिभिश् चक्षुर्विज्ञानं जनयति. न चातस् तदुत्पत्तौ न कारणं. एवं जातिर् न विना हेतुप्रत्ययैर् धर्मं जनयति. न चातस् तदुत्पत्तौ न कारणम् इति. अत्रोच्यते. [तिब्. 166ब्] असमानम् एतत्. चक्षुर् हि दृष्तसामर्थ्यम् सत्स्व् आलोकादिषु अन्धानन्धयोश् चक्षुर्विज्ञानस्यानुत्पत्त्युत्पत्तिदर्शनात्. न त्व् एवं जातिर् इति. सूक्ष्मा अपि हि धर्मप्रकृतय इति. तद्यथा स्पर्शादीनां चैतसिकानां प्रकृतयः स्वभावा दुःपरिच्छेद्यत्वात् सूक्ष्माह्. अस्त्य् एतद् एवं. अदृश्यमानो ऽपि कश्चिद् धर्मः कारित्रेण निर्धार्यते. न त्व् एवं जातिः कारित्रेण निर्धार्यते. स्पर्शस्य हि कारित्रं भगवतैवनिर्धारितं. यः कश्चिद् वेदनास्कंधः संज्ञास्कंधः संस्कारस्कंधः. सर्वस् स स्पर्शं प्रतीत्येति विस्तरः. जातम् इत्य् एव तु न स्यात् असत्यां जाताव् इति. स्वलक्षणापेक्षा रूपे रूपबुद्धिः. न तु जातम् इति स्वलक्षणापेक्षा जातबुद्धिः. वेदनादिष्व् अपि भावात्. तस्माद् अर्थांतरभूतजातिद्रव्यापेक्षेयं जातबुद्धिर् इति निर्धार्यते. षष्ठीवचनं च न स्यात् रूपस्योत्पाद इति. वैयधिकरण्ये हि षष्ठीनिर्देशो न सामानाधिकरण्ये. तेनाह. यथा रूपस्य रूपम् इति. वैधर्मदृष्टांत एषः. यथा रूपं रूपाद् अनन्यद् इति कृत्वा षष्ठीनिर्देशो न भवति (अभिध्-क्-व्य् 180) रूपस्य रूपम् इति. तथा रूपस्योत्पाद इति न स्यात्. तस्माज् जातिनिमित्तो ऽयं षष्ठीनिर्देश इति गम्यते. एवं यावद् अनित्यता यथायोगं वक्तव्येति. स्थितम् एव तु न स्यात् असत्यां स्थितौ. षष्ठीवचनं च रूपस्य स्थितिर् इति यथा रूपस्य रूपम् इति. जीर्णम् इत्य् एव तु न स्यात् असत्यां जरायां. षष्ठीवचनं च रूपस्य [तिब्. 167अ] जरेति यथा रूपस्य रूपम् इति. तथा विनष्टम् इत्य् एव तु न स्यात् असत्याम् अनित्यतायां. षष्ठीवचनं च रूपस्य विनाश इति यथा रूपस्य रूपम् इति.

तेन तर्हीति विस्तरः. यदि जातमित्येवमादिबुद्धिसिद्ध्यर्थं षष्ठीविधानार्थं च जात्यादयः कल्प्यंते अनात्मत्वम् अप्य् एष्ट्व्यं. न हि निर्निमित्ता अनात्मबुद्धिर् भवितुम् अर्हति. अथानात्मत्वं प्रज्ञप्तिसद् इष्यते. तन्निमित्तानात्मबुद्धिः. जात्याद्य् अपि प्रज्ञप्तिसद् एष्टव्यं. तन्निमित्ता च जात्यादिबुद्धिर् इति. साधनं चात्र. प्रज्ञप्तिसत् जात्यादि. द्रव्यसद् अपेक्ष्य गृह्यमाणत्वाद्. अनात्मत्ववद् इति. सत्तादयो ऽपीति. आदिशब्देन द्रव्यत्वरूपघटत्वादि गृह्यते. एकं रूपं द्वे रूपे महद् अणु पृथक् संयुक्तं विभक्तं परम् अपरं सद्रूपम् इति. तथा द्रव्यम् एतद् रूपम् इदं घटो ऽयम् इत्य् एवमादिबुद्धिसिद्धार्थं संख्यादयो ऽपि वैशेषिकपरिकल्पिता अभ्युपगंतव्याः. षष्थीविधानार्थं च रूपस्य संयोग इति. संयोगग्रहणम् उदाहरणमात्रं. रूपस्य विभागः परत्वापरत्वम् इत्येवमाद्य् अपि योज्यं. एषा च षष्ठी कथं कल्प्यते रूपस्य स्वभाव इति. न हि वैभाषिकाणां [तिब्. 167ब्] रूपाद् अन्यो रूपस्य स्वभाव इष्टः. जातम् इति. जातम् एव न विनष्टम् इत्य् अभूत्वाभावज्ञापनार्थं क्रियते प्रज्ञप्तिः. बहुविकल्प इति. बहुभेदो रूपवेदनादिभेदात्. तस्य विशेषणार्थं रूपस्योत्पाद इति न वेदनादीनाम् उत्पाद इति विशेषणार्थं षष्ठीं कुर्वंति. मान्यः प्रत्यायि रूपसंज्ञक एवोत्पादो न वेदनादिसंज्ञक इति. दृष्टांतं कथयंति. चन्दनस्य गन्धादयः शिलापुत्रकस्य शरीरम् इति. अनर्थांतरभावे ऽपि षष्ठीनिर्देशः क्रियते. गन्धादिसमूहमात्रं हि चन्दनम् इति बौद्धसिद्धान्तः. वैशेषिकसिद्धान्तापेक्षया तु असिद्धश् चन्दन इत्य् अपरो दृष्टान्त उपन्यस्यते. शिलापुत्रकस्य शरीरम् इति.

शिलापुत्रकशरीरयोर् वैशेषिकाणाम् अपि सिद्धान्ते नार्थान्तरभावो भवति च षष्ठीनिर्देशः. अर्थान्तरपरिकल्पकृतो हि तथा निर्देशः. एवं स्थित्यादयो ऽपि यथायोगं वेदितव्या इति. तस्मात् प्रज्ञप्तिमात्रम् एवेदं प्रवाहावस्थानज्ञापनार्थं क्रियते स्थितम् इति. सा च प्रवाहावस्थानलक्षणा स्थितिर् बहुविकल्पा. तस्या विशेषणार्थं रूपस्य स्थितिर् इति षष्ठीं कुर्वन्ति. यथा रूपसंज्ञकैव [तिब्. 168अ] स्थितिः प्रतीयेत मान्या प्रत्यायीति. तथा प्रज्ञप्तिमात्रम् एवैतत् पूर्वपरविशेषज्ञापनार्थं (अभिध्-क्-व्य् 181) क्रियते जीर्णम् इति. सा च पूर्वापरविशेषलक्षणा जरा बहुविकल्पा. तस्या विशेषणार्थं रूपस्य जरेति षष्ठीं कुर्वन्ति. यथा रूपसंज्ञकैव जरा प्रतीयेत मान्या प्रत्यायीति. तथा प्रज्ञप्तिमात्रम् एवैतत् प्रवाहनिवृत्तिज्ञपनार्थं क्रियते विनष्टम् इति. स च प्रवाहनिवृत्तिलक्षणो विनाशो बहुविकल्पः. तस्य विशेषणार्थं रूपस्य विनाश इति षष्ठीं कुर्वन्ति. यथा रूपसंज्ञक एव विनाशः प्रतीयेत मान्यः प्रत्यायीति. सर्वत्र च दृष्टान्तद्वयं वक्तव्यं. तद्यथा चन्दनस्य गन्धादयः शिलापुत्रकस्य शरीरम् इति.

यथा च धर्मतयेति. धर्मता धर्मप्रक्र्तिः धर्मस्वभावो धर्मशैलीत्य् अर्थः. धर्मता धर्मप्रकृतिर् इति कुत एतत्. चक्षुः समृद्धे शून्यं नित्येन ध्रुवेण शाश्वतेन अविपरिणामधर्मेण आत्मनात्मीयेन च. तत् कस्य हेतोः. प्रकृतिर् अस्यैषेति. यथा च धर्मतया न सर्वं जातिमद् इष्यते आकाशादि. तथा धर्मतया न सर्वं जायत इत्य् एष्टव्यम्. न ह्य् अत्र किंचित् काराणम् अस्ति. यत् संस्कृतम् एव जातिमद् भवति नासंस्कृतम् इति अन्यत्र धर्मतायाः. एवम् असत्याम् अपि जातौ संस्कृतम् एवोत्पद्यते. नासंस्कृतम् इति. यथा च तुल्यजातिमतां केषांचिद् रूपवेदनादीनां तदन्ये प्रत्ययास् तेभ्यो रूपोत्पत्तिप्रत्ययेभ्यो ऽन्ये वेदनाद्युत्पत्तिप्रत्ययास् तदन्ये. ते तदन्ये प्रत्ययास् तदन्यस्योत्पादने न समर्था भवन्ति. तेभ्यो वेदनादिभ्यो ऽन्यत् तदन्यत् [तिब्. 168ब्]. किं तद्. रूपं. तस्य. तदन्यस्य ते वेदनादिप्रत्यया उत्पादने यथा न समर्था भवन्ति. एवम् असंस्कृतस्याकाशादेर् उत्पादने सर्वे ऽपि रूपवेदनादिप्रत्यया न समर्थाः स्युर् इति. पूर्वं स्वभावनियमेनोक्तम् इदानीं शक्तिनियमेनेति.

न हि दूषकाः सन्तीति विस्तरः. यथा न मृगाः सन्तीति यवा नोप्यंते उप्यन्त एवेत्य् अर्थः. द्वौ प्रतिषेढौ प्रकृतम् अर्थं गमयतः. यथा न मक्षिकाः पतन्तीति मोदका न भक्ष्यन्ते. किं तर्हि. भक्ष्यन्त एव. तथा न दूषकास् सन्तीति आगमो ऽभिधर्मशास्त्राण्य् अपास्यन्ते. तस्माद् दोषेषु प्रतिविधातव्यं. दोषेषु परव्यवस्थापितेषु परिहारः कर्तव्यः. सिद्धान्तश् चानुसर्तव्यो न परित्याज्य इत्य् अभिप्रायः.

(ii.48अब्) नामकायादयः संज्ञावाक्याक्षरसमुक्तय इति. संज्ञासमुक्तयो नामकायाः. वाक्यसमुक्तयः पदकायाः. अक्षरसमुक्तयो व्यंजनकायाः. संज्ञाकरणम् इति लोकभाषेयं. संज्ञाकरणं नामधेयम् इति पर्यायः. तथा हि लोके वक्तारो भवन्ति. देवदत्त इत्य् अस्य संज्ञाकरणम् इति. संज्ञायाः करणं संज्ञाकरणं. येन संज्ञा चैतसिको धर्मः क्रियते जन्यते. संज्ञैव वा करणं संज्ञाकरणं. संज्ञाग्रहणं चान्यकरणनिवृत्त्यर्थं. करणग्रहणं चैतसिकविशेषणार्थं (अभिध्-क्-व्य् 182). यदि हि संज्ञा नामेत्य् उच्येत चैतसिको ऽपि संभाव्येत. तत् पुनः संज्ञाकरणं [तिब्. 169अ] नाम रूपं शब्दो रसो गन्धो वेत्य् एवमादि. वाक्यं पदम् इति. पद्यते गम्यते ऽनेनेति. पदं तु सुप्तिङन्तं पदं गृह्यते. तेनाह. यावतार्थपरिसमाप्तिस् तद्यथा

अनित्या बत संस्कारा

इति एवमादीति. आदिशब्देन

उत्पादव्ययधर्मिणः उत्पद्य हि निरुध्यन्ते. तेषां व्युपशमः सुखम्

इत्य् एवमादि. अस्या गाथाया एवम् अर्थं व्याचक्षते.

अनित्या बत संस्कारा

इति प्रतिज्ञा.

उत्पादव्ययधार्मिण

इति हेतुः. यस्माद् उत्पादव्ययधर्मवन्तस् तस्माद् अनित्या इति परिच्छिद्यन्ते

उत्पद्य हि निरुध्यन्त

इति दृष्टान्तः. य उत्पद्यन्ते निरुध्यन्ते च ते अनित्याः. तद्यथा घटादयः. तथा च संस्कारा इति. अपरे पुनर् व्याचक्षते. असिद्धहेतुसाधनार्थम् एतद् इति. कथम् एतद् गम्यते.

उत्पादव्ययधर्मिणस्

त इति यस्माद् एते उत्पद्य निरुध्यमाना दृष्ता इति. अपरे वर्णयन्ति.

अनित्या बत संस्कारा उत्पादव्ययधर्मिण

इति पर्यायद्वयम् एतद् उच्यते. कस्माद् इत्य् आह. यस्माद्

उत्पद्य निरुध्यन्त

इति हेतुवचनं.

तेषां व्युपशमः सुखं

ये ह्य् अनित्यास् ते दुःखा अतस्

तेषां व्युपशमः सुखम्

इति विनेयजनं नियोजयति. येन क्रियागुणकालसंबन्धविशेषा गम्यन्ते. साव्ययकारकविशेषणं वाक्यम् इति वाक्यविदो वदन्ति. तद्यथा पचति पठति गच्छतीति कृष्णो गौरो [तिब्. 169ब्] रक्त इति पचति पक्ष्यति अपाक्षीद् इति क्रियागुणकालानां संबन्धविशेषा गम्यन्ते. तत् पदं. तथा हि सामान्यवर्तमानानां पदानां यद् विशेषे ऽवस्थानं स वाक्यार्थ इत्य् आहुः. तद् एवं स्वलक्षणाभिद्योतकं नाम क्रियादिसंबन्धविशेषाभिद्योतकं पदम् इत्य् उक्तं भवति. व्यंजनम् अक्षरम् इति वर्ण इत्य् अर्थः. न तु हल् एव अचाम् अपि व्यंजनकत्वेनेष्टत्वात्.

ननु चाक्षराण्य् अपि लिप्यवयवानां नामानीति. लिपयो मनुष्यादिभिः पत्त्रादिषु ये लिखिताः. तेषाम् अक्षराणि नामानि. रूपनामग्रहणे रूपप्रतीतिवद् व्यंजनग्रहणे लिपिप्रतीतिः. अतो व्यंजनम् अपि लिप्यवयवानां नाम भवतीति लक्षणसांकर्यं. ततश् च यद् अभिप्रेतं नाम्नो व्यतिरिक्तम् अन्यद् एव व्यंजनम् अक्षरम् इति. तन् नोपपद्यते. न वै लिप्यवयवानाम् इति विस्तरः. विपरीतम् एतद् इति व्याचष्टे. यत् तु व्यंजनग्रहणे लिपिप्रतीतिर् इति. तत् प्रत्याय्यप्रत्यायकभावेन संकेतितत्वात्. न तु तन्नामभावात्.

समुक्तिर् इति उच समवाय इत्य् एतस्य धातोः क्तिनि समुक्तिर् इति एतद् रूपं भवति. यो ऽर्थः समवाय इति. सो ऽर्थः समुक्तिर् इति. समवाय इत्य् अर्थः.

ननु च ते इति सौत्रान्तिकवचनं. नैते वाक्स्वभावा इति विस्तरेण वैभाषिकवचनं. न च घोषमात्रेणेति. नानक्षरात्मकेन घोषेणार्थो ऽवगम्यते. किं तर्हि. वाङ् नाम्नि प्रवर्तते. तन् नामात्मरूपताम् इव वाच आपादयद् अर्थत्वं द्योतयति. तां वाचम् उपादाय पदार्थं द्योतयति. [तिब्. 170अ] प्रत्याययतीत्य् अर्थः. सौत्रान्तिक आह. न वै घोषमात्रं वाग् इति विस्तरः. न वयं घोषमात्रं वाग् इति वर्णयामः. कश्चिद् एव तु घोषो वर्णात्मकः. सैव वाक्. यो ऽर्थेषु कृतावधिः कृतमर्यादः. एतेन संकेतापेक्षः शब्दो ऽर्थं प्रत्याययति. न यः कश्चिच् छब्द इति दर्शयति. कृतसंकेतः शब्दो ऽर्थं प्रत्याययतीति. तच् चैतच्छब्दमात्रात् प्रतीतपदार्थकात् सिध्यतीति. तच् चैतदर्थद्योतनं नामरहिताच् छब्दाज् जात्याद्यभिधेयपदार्थकात् सिध्यतीत्य् अयम् अस्यार्थ इति. यद्य् उत्पादयतीति विस्तरः. वाचि सत्यां स चित्तविप्रयुक्त उत्पद्यत इतीष्यते तेनाशंक्यते यद्य् उत्पादयतीति. एवं चेत् सर्वं घोषमात्रं वृषभादिगर्जितम् अपि नामोत्पादयिष्यति. घोषस्वभावा वाग् इति कृत्वा. ब्रूयास् त्वं विशिष्ट एव घोषो यो वर्णात्मकः संभावितः. स एव नामोत्पादयतीति. अत्रोच्यते. यादृशो वा घोषविशेष इष्यते नाम्न उत्पादकः. स एवार्थस्य द्योतको भविष्यति. न तु स चित्तविप्रयुक्त इत्य् अभिप्रायः. अथ प्रकाशयतीति विस्तरः. घोषेणोत्पद्यमानेन स चित्तविप्रयुक्त उत्पद्यते. स तं प्रकाशयत्य् अर्थद्योतनायेति यदीष्यते. अत्रोच्यते. सर्वं घोषमात्रं नाम प्रकाशयिष्यतीति पूर्ववद् वाच्यं. न खल्व् अपि शब्दानां सामग्र्यम् अस्तीति. यद् अनेकाक्षरं नाम. तदुत्पत्तिपरिकल्पो ऽनेकशब्दापेक्षः. तेनैवं

विचार्यते. इहोच्चरितप्रध्वन्सिनः शब्दाः. तस्माद् एषां युगपदवस्थानं नास्ति. एकस्य च द्रव्यसतो [तिब्. 170ब्] धर्मस्य भागशः खण्डश उत्पादो न युक्तो यथा घटपटादेः प्रज्ञप्तिसतः कल्प्यत इति कथम् उत्पादयन्ती वाङ् नामोत्पादयेत्. यदा तद् उत्पादयति. तदा (अभिध्-क्-व्य् 184) कथं सा तद् उत्पादयतीति वाक्यार्थः. वर्तमाना हि वाङ् नामोत्पादयन्त्य् उत्पादयेत्. न च सर्वे वाच्छब्दक्षना युगपद्वर्तमाना भवन्ति. यदा हि रूपम् इति रशब्दो वर्तमानो भवति. तदा ऊकारपकाराकारा अनागता भवन्ति. यदा ऊकारो वर्तमानो भवति. तदा रशब्दो ऽतीतः. पकाराकाराव् अनागताउ. एवं पकाराकाराव् अपि क्रमशो यदा वर्तमानौ भवतः. तदेतरे न वर्तमाना इति. एवम् सा वाङ् नाम नैवोत्पादयेत्. ब्रूयास् त्वं वर्तमानो रशब्दस् तस्य रूपनाम्नः पूर्वं भागम् उत्पाद्यति. ऊशब्दो ऽपि वर्तमानो द्वितीयं भागम् एवं यावद् अकारशब्दस् तस्य चतुर्थभागम् उत्पादयतीति. तद् अयुक्तम्. एकस्य धर्मस्य भागश उत्पादसंभवाद् इति. उक्तम् एतत्. कथं तावद् अतीतापेक्षः पश्चिमो विज्ञप्तिक्षण उत्पादयत्य् अविज्ञप्तिम् इति. प्रातिमोक्षसंवरसमादाने कायवाग्विज्ञप्तयः प्रवर्तन्ते. तासां नास्ति सामग्र्यं. अथ चातीतकायवाग्विज्ञप्तिक्षणापेक्षः पश्चिमो विज्ञप्तिक्षणः प्रातिमोक्षसंवरसंगृहीताम् अविज्ञप्तिम् उत्पादयति. एवम् अतीतशब्दक्षणापेक्षः पश्चिमो वाच्छब्दक्षणो नामोत्पादयतीति. एवं तर्हीति विस्तरः. पश्चिमशब्द एव नाम्न उत्पादात् [तिब्. 171अ] यो ऽपि तम् एवैकं शृणोति यो ऽपि पश्चिमम् एवैकं शब्दं शृणोति रूपम् इति. सो ऽप्य् अर्थं प्रतिपद्येत. सो ऽपि रूपनामार्थं गृह्णीयात्. तन्नामोत्पत्तेः. न चैवं

प्रतिपद्यते. तस्माद् अयुक्तम् एतत्. अथाप्य् एवं कल्प्येतीति विस्तरः. क्षणप्रतिभासा वर्णवाग् व्यंजनम् अपि तत्प्रतिभासम् इति पक्षान्तरम् उपन्यस्यते. वाग् व्यंजनं जनयति. व्यंजनं तु नाम जनयतीति. अत्रापि स एव प्रसंगो व्यंजनानां सामग्र्याभावात्. कथं. न खलु व्यंजनानां सामग्र्यम् अस्ति. न चैकस्य धर्मस्य भागश उत्पादो युक्त इति कथम् उत्पादयद् व्यंजनं नामोत्पादयेत्. कथं तावद् अतीतापेक्षः पश्चिमो विज्ञप्तिक्षण उत्पादयत्य् अविज्ञप्तिम्. एवं तर्हि पश्चिम एव व्यंजने नाम्न उत्पादात् यो ऽपि तम् एवैकं पश्चिमं व्यंजनोत्पादकं शब्दं शृणोति. यो वा तद् एवैकं पश्चिमं व्यंजनं शृणोति. सो ऽप्य् अर्थं प्रतिपद्येत. एष एव तु प्रसंगो नाम्नः प्रकाशत्वे वाच इति. न खल्व् अपि शब्दानां सामग्र्यम् अस्ति. न चैकस्य धर्मस्य भागशः प्रकाशो युक्त इति कथं प्रकाशयन्ती वाक् नाम प्रकासयेत्. कथं तावद् अतीतापेक्षः पश्चिमो विज्ञप्तिक्षणः प्रकाशयत्य् अविज्ञप्तिं. एवं तर्हि पश्चिम एव शब्दे नाम्नः प्रकाशाद् यो ऽपि तम् एवैकं शब्दं शृणोति. सो ऽप्य् अर्थं प्रतिपद्येत. अथाप्य् एवं कल्प्येत. वाग् व्यंजनं प्रकाशयति. व्यंजनं तु नामेति. अत्रापि स एव प्रसंगो व्यंजनानां सामग्र्यभावात्. यस्य तर्हि शब्दमात्रं नामानेकाक्षरं च नाम भवति न च शब्दानां (अभिध्-क्-व्य् 185) सामग्र्यम् अस्ति. तस्य कथं नामार्थं प्रत्याययति. [तिब्. 171ब्] सर्वाक्षरस्मृत्यनन्तरत्वात् अर्थप्रतिपत्तेः. अत एव च नान्तरीयकन्यायेन प्रथमाक्षरश्रवणकाल एव शेषाक्षरानुस्मृतिबलेन कश्चिद् अर्थं प्रतिपद्यत एवेति. व्यंजनस्यापि वाङ् नैवोत्पादिका न प्रकाशिका युज्यत इति. पूर्वं

शब्दस्योत्पाद्यं शब्दस्य व्यंग्यं वा व्यंजनम् अभ्युपगम्य दोष उद्ग्राहितः. इदानीं शब्दव्यतिरिक्तानुपलब्धेः उत्पाद्यव्यंग्यत्वम् अपि तस्य नास्तीति तद् एव उन्मूलयति. न तु शब्दानां सामग्र्यभावाद् इति दोशो वक्तव्यः. न ह्य् अनेकशब्दापेक्षा व्यंजनप्रतिपत्तिः. अपि च घोषस्वभावत्वाद् वाचः सर्वं घोषमात्रं व्यंजनम् उत्पादयिष्यति प्रकाशयिष्यति वा. यादृशो वा घोषविशेष इष्यते व्यंजनस्योत्पादकः प्रकाशको वा. स एव व्यंजनार्थं करिष्यतीति. अथाप्य् अर्थसहजं नाम जात्यादिवद् इष्येतेति विस्तरः. अथ सहजे नाम्नि कल्प्यमाने वाचोत्पाद्यं प्रकाश्यं वा नामेत्य् एवमादिघोषप्रसंगो न भविष्यतीति मत्वा पक्षान्तरम् इदं विकल्प्यते. यथा जात्यादीनि लक्षणानि अर्थसहजान्य् एवेष्यन्ते नातीतानागतस्यार्थस्य वर्तमानानि भवन्ति. एवम् एव यदि नामेष्यते. अतीतानागतस्यार्थस्य वर्तमानं नाम न स्यात्. ततश् चातीतानागतार्थव्यवहारो न शक्येत कर्तुं. न ह्य् अतीतानागतं नामार्थं द्योतयितुम् अर्हति. यथातीतानागता वाङ् नाम नोत्पादयितुं व्यंजयितुं चार्हति. नामबहुत्वे च न सहजं नाम परिच्छिद्येत. असंस्कृतानां [तिब्. 172अ] चानुत्पत्तिमत्त्वात् सहजनाम न स्याद् इति अनिष्टिर् एवेयं न कर्तव्यैवेयम् इष्टिर् इत्य् अभिप्रायः.

नामसंनिश्रिता गाथेति.

गाथा वाक्यं. सा नानानि संनिश्रिता नामसूत्पन्नेषु भावात्. तस्मात् सन्ति नामानि वाक्यं चेति वचनावकाशो ऽस्तीत्य् आह. तत्रार्थेषु कृतावधिः शब्दो नामेति विस्तरः. अर्थकृतावधिशब्दस्वभावानां नाम्नां रचनाविशेषो गाथा. विन्यासविशेष इत्य् अर्थः. पंक्तिवद् इति. यथा पंक्तिः पिपीलीकादीनां रचनाविशेषो न ततो द्रव्यान्तरम् उपपद्यते. तद्वत्. एककालवर्तिनां पक्षिपिपीलिकादीनां रचनाविशेषः पंक्तिर् इत्य् उच्यते. क्रमवर्तिनां तु शब्दानां न रचनाविशेषः तेन वैषम्यम् इति वचनावकाशम् अभिसमीक्ष्य द्वितीयो दृष्टान्त उपन्यस्यते. चित्तानुपूर्व्यवच् चेती. यथानुक्रमवर्तिभ्यश् चित्तेभ्यो नान्यद् आनुपूर्व्यम् अस्ति. तद्वत्. अपार्थिका तत्प्रकॢप्तिर् इति. निस्प्रयोजना नामपदयोर् अर्थान्तरपरिकल्पनेत्य् अर्थः. न हि सर्वे धर्मास् तर्कगम्या इति. केचिद् एव तर्कगम्या न सर्वे. ये हि तथागतज्ञानगोचरपतिता एव. न ते तर्कगम्या इत्य् अभिप्रायः.

(ii.48च्द्) चित्तविप्रयुक्तप्रभेदविवक्षया इदम् उपन्यस्यते. अथ किं प्रतिसंयुक्ता इति विस्तरः. कस्मिन् धातौ प्रतिसंयुक्ताः किं प्रतिसंयुक्ताः. (अभिध्-क्-व्य् 186) सत्त्वाख्या असत्त्वाख्या इति किं इति.

कामरूपाप्तसत्त्वाख्या निष्यन्दाव्याकृता

इति. कामरूपाप्ता [तिब्. 172ब्] एव सत्त्वाख्या एव निष्यन्दा एवाव्याकृता एव चेत्य् अवधारणं. ते त्व् अनभिलाप्या इति. ते त्व् आरूप्याप्ता नामकायादयो ऽकथ्या वाचस् तत्राभावात्. कथं ते सन्तीति गम्यंते. यदा ते नाभिलप्यन्ते. तस्मात् कामरूपाप्ता एव नारूप्याप्ता इति वैभाषिकाः. सत्त्वाख्या एव च सत्त्वप्रयत्नाभिनिर्वृत्तवर्णादिस्वभावत्वात्. यश् च द्योतयति. स तैः समन्वागत इति. कुतः. पुनर् इयम् आशंका. अन्योन्यस्य तैः समन्वागमः स्याद् इति. अस्येदं नामेति व्यपदेशात्. यथा चक्षुरिन्द्रियेण द्रष्टैव समन्वागतो न दृश्यः सत्त्वः. तथा द्योतयितैव तैः समन्वागतो न द्योत्यः. नैष्यन्दिकाः सभागहेतुजनितत्वात्. न विपाकजा इच्छातः प्रवृत्तेः. नौपचयिका अरूपिणां चयाभावाद् इति. अनिवृताव्याकृताश् च. न कुशला नाकुशलाः. कस्मात्. समुच्छिन्नकुशलमूलकामवीतरागाणाम् अपि तत्समन्वागमप्रसंगात्. इतरथा हि यदा समुच्छिन्नकुशलमूलः कुशलान् धर्मान् द्योतयति. तदास्य कुशलधर्मसमन्वागमः स्यात्. एवं कामवीतरागस्याप्य् अकुशलधर्मद्योतने योज्यं. तस्माद् अनिवृताव्याकृता एव. अनिवृताव्याकृतानां कुशलाकुशलैर् अविरोधात्.

(ii.49) तथा सभागतेति. [तिब्. 173अ]

तथाशब्देन सत्त्वाख्यनैष्यन्दिकाव्याकृतत्वम् एव सभागताया अतिदिश्यते. त्रिधात्वाप्ताया अपवादरूपेण वक्ष्यमाणत्वात्.

सा त्व्

इति. तुशब्दो विशेषणार्थः. नामकायादिभ्यो हि सभागता विशिष्यते. कथम् इत्य् आह.

विपाकापीति.

विपाकजापीत्य् अर्थः. न केवलम् इयं नैष्यन्दिकी. किं तर्हि. विपाकजापीति. न त्व् औपचयिकी तथैव चयाभावात्.

आप्तयो द्विधेति

द्विधाशब्देन नैष्यंदिकविपाकजत्वप्रभेदाव् एव प्राप्तीनाम् उच्येते. प्रभेदान्तरस्योक्तत्वात्.

लक्षणानाम् अपि

जात्यादीनां ताव् एव प्रभेदाव् एवम् एव वक्तव्यौ.

असमन्वागमो

ऽप्राप्तिः. सानिवृताव्याकृतापि न विपाकजा. न हि विपाकस्याप्य् असमन्वागमो विपाको भवितुम् अर्हति. तथा ह्य् अकुशलस्य कुशलसास्रवस्य च विपाक इष्यते. न चानयोर् अप्राप्तिर् विपाको भवितुम् अर्हति. यो हि बुद्धिपूर्वकश् चेतनात्मकस् तत्संप्रयुक्तसमुत्थो वा धर्मः. स विपाकहेतुः. न चासमन्वागम (अभिध्-क्-व्य् 187) एवं बुद्धिपूर्वककर्ंअकृत इति अतो न विपाकजः. शेषम् एषां वक्तव्यम् उक्तम् इति. एषां प्राप्तिलक्षणसमापत्त्यसमन्वागमानां वक्तव्यं व्याख्यातव्यम् उक्तं व्याख्यातम् इत्य् अर्थः. [तिब्. 173ब्] किं पुनस् तच् छेषम् इति. धात्वाप्तता सत्त्वासत्त्वाख्यता कुशलाकुशलव्याकृतता च. कथं पुनस् तद् उक्तं. प्राप्तेस् तावद् धात्वाप्ततोक्ता

स्वधातुका तदाप्तानाम्

इति वचनात्. सत्त्वाख्यतोक्ता समन्वागमवचनात्. न ह्य् असत्त्वसंख्यातेन संस्कृतेन सन्ति समन्वागमाः.

प्राप्त्यप्राप्ती स्वसंतानपतितानाम्

इति वचनात्. कथं कुशलाकुशलाव्याकृततोक्ता.

शुभादीनां शुभादिकेति

वचनात्. लक्षणानाम् अपि त्रैधातुकप्रतिसंयुक्ततोक्ता

सर्वं संस्कृतलक्षणैर्

इति वचनात्. सत्त्वासत्त्वाख्यताप्य् अत एवोक्ता. सर्वसंस्कृतसहभूत्वात्. अत एव च कुशलाकुशलाव्याकृतताप्य् उक्ता.

चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च चित्तानुवर्तिनः कालफलादिशुभतादिभिर्

इति वचनात्. असंज्ञिसमापत्ते रूपधात्वाप्ततोक्ता

ध्याने ऽन्त्य

इति वचनात्. कुशलतापि

शुभेति

वचनात्. सत्त्वाख्यताप्य् अत

एवोपपद्यवेद्यैवेति

वचनात्. निरोधसमापत्तेर् अप्य् आरूप्यधात्वाप्ततोक्ता

भवाग्रजेति

वचनात्. कुशलतापि

शुभेति

वचनात्. सत्त्वाख्यतापि अत एव. कुशलसंस्कृतत्वात्. असमन्वागमस्य त्रिधात्वाप्ततोक्ता

कामाद्याप्तामलानां चेति

[तिब्. 174अ] वचनात्. सत्त्वाख्यता समन्वागमवचनात्. अव्याकृतताप्य् उक्ता

अक्लिष्टाव्याकृताप्राप्तिर्

(अभिध्-क्-व्य् 188) इति वचनात्. शेषयोश् चासंज्ञिकजीवितयोः. किं. वक्तव्यम् उक्तम् इति वर्तते. आसंज्ञिकस्य रूपाप्तसत्त्वाख्यविपाकाव्याकृततोक्ता

विपाकस् ते बृहत्फला

इति वचनात्. जीवितस्य त्रिधात्वाप्ततोक्ता

आयुर् जीवितम्

इति वचनात्. आयुषश् च त्रैधातुकत्वात्. सत्त्वाख्यताप्य् उक्ता

विपाको जीवितम्

इति सूत्रात्. विपाको हि सत्त्वाख्य एव

विपाको ऽव्याकृतो धर्मः सत्त्वाख्यो व्याकृतोद्भव

इति वचनात्. अत एवास्यानिवृताव्याकृतताप्य् उक्तेति. आचार्येण तु यद् दर्शनं वक्तव्यम् उक्तं. तद् विवृतं. कथं प्राप्तादीनां सत्त्वाख्यतोक्ता. समन्वागमवचनाद् इत्यादि.

(ii.50) क इमे हेतवः के च प्रत्यया इति. हेतूनां प्रत्ययानां च कः प्रतिविशेषः. न कश्चिद् इत्य् आह. तथा ह्य् उक्तं भगवता. द्वौ हेतू द्वौ प्रत्ययौ सम्यग्दृष्टेर् उत्पादाय. कतमौ द्वौ. परतश् च घोषो ऽध्यात्मं च योनिशोमनस्कार इति. हेतुः प्रत्ययो निदानं कारणं निमित्तं लिंगं उपनिषद् इति पर्यायाः. उपनिषच्छब्दस् तु कदाचिद् उपांशौ कदाचित् प्रामुख्य इति. तद्यथापि सूर्योपनिषदो देवा इति. उपांशुप्रयोग उपनिषत्प्रयोग [तिब्. 174ब्] इति. यदि प्रतिविशेषो नास्ति किम् अर्थं हेतूनां प्रत्ययानां च पृथग्निर्देशः. अन्येनार्थविशेषेण हेतुनिर्देशो ऽन्येन प्रत्ययनिर्देशः. हेतुनिर्देशे हि अविघ्नभावसहभूत्वसदृशत्वादिर् अर्थविशेष उक्तः. प्रत्ययनिर्देशे तु हेतुसमनन्तरत्वादिभिर् अपरो ऽर्थविशेष उक्त इति. अथ कतमस्मिन् सूत्रे षड् ढेतव उक्ताः. सर्वो ह्य् अभिधर्मः सूत्रार्थः सूत्रनिकषः सूत्रव्याख्यानम् इति. अंतर्हितं तत् सूत्रम् इति वैभाषिकाः. तथा हि एकोत्तरिकागम आ शताद् धर्मनिर्देश आसीत्. इदानीं त्व् आ दशकाद् दृश्यंत इति कथयन्ति. अपि तु संति प्रतिनियतहेतुवाचकानि सूत्राणि. तान्य् उदाहरिष्यामः. चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् इति कारणहेतुः. जननाविघ्नभावेन ह्य् एष व्यवस्थाप्यते. इमानि त्रीणि मार्गांगानि सम्यग्दृष्टिम् अनुपरिवर्तन्ते. तैः सह जाता वेदना संज्ञा चेतना चेति सहभूहेतुः. अन्योन्यानुपरिवर्तनैककृत्यार्थेन ह्य् एष व्यवस्थाप्यते. समन्वागतो ऽयं पुद्गलः कुशलैर् अपि धर्मैर् अकुशलैर् अपि यावद् अस्ति चास्याणुसहगतं कुशलमूलम् असमुच्छिन्नं यतो ऽस्य कुशलमूलाद् अन्यत् कुशलमूलम् उत्पत्स्यते (अभिध्-क्-व्य् 189). एवम्

अयं पुद्गल आयत्यां विशुद्धिधर्मा भविष्यतीति सभागहेतुः. एष ह्य् अतीतप्रत्युत्पन्नानां धर्माणां स्वफलनिर्वर्तनार्थेन व्यवस्थाप्यते. इयम् उच्यते दर्शनमूलिका श्रद्धावेत्यज्ञानसंप्रयुक्ता. यद् विजानाति. तत् [तिब्. 175अ] प्रजानातीति संप्रयुक्तकहेतुः. एकालंबनकृत्यार्थेन ह्य् एष व्यवस्थाप्यते. मिथ्यादृष्टेः पुरुषपुद्गलस्य यच् च कायकर्म तद्दृष्टेर् यच् च वाक्कर्म या चेतना यः प्रणिधिः ये च संस्कारास् तदन्वयाः. सर्वे ऽप्य् एते धर्मा अनिष्टत्वाय संवर्तन्ते ऽकान्तत्वायाप्रियत्वायामनआपत्वाय. तत् कस्य हेतोः. दृष्टिर् ह्य् अस्य पापिका यद् उत मिथ्यादृष्टिर् इति सर्वत्रगहेतुः. एष हि सभागविसभागक्लिष्टधर्मप्रबंधजनकार्थेन व्यवस्थाप्यते. इह कृतस्य कर्मणः कुशलस्य सास्रवस्य भावनामयस्य तत्रोत्पन्ना विपाकं प्रतिसंवेदयन्ते. संचेतनीयस्य कर्मणः कृतस्योपचितस्य विपाक इति विपाकहेतुः. एष हि विसदृशफलाक्षेपकत्वेन व्यवस्थाप्यते. इत्य् अत एते षड् ढेतवः सूत्रत एव प्रसिद्धा इति

षड्विधो हेतुर् इष्यते

वैभाषिकैर् इत्य् अभिप्रायः.

(ii.51अ) स्वतो ऽन्य

इति आत्मनो ऽन्य इत्य् अर्थः. स्वात्मनि वृत्तिविरोधात् स्वात्मा न हेतुः. सर्वधर्माः संस्कृतासंस्कृताः कारणहेतुर् इति. कारणम् एव हेतुः कारणहेतुः. यो हेतुर् विशेषसंज्ञया नोच्यते सामान्यं हेतुभावं परिगृह्योच्यते. स कारणहेतुः. अन्येषु हि विशेषसंज्ञानिरुक्तेषु हेतुषु यो न विशेषितः कारणं च. तस्य तद् विशेषणं भवति. यथा रूपायतनम् उक्तम् इति. [तिब्. 175ब्] उत्पादं प्रत्य् अविघ्नभावावस्थानाद् इति. यस्माद् उत्पादं प्रत्य् उत्पत्तिमतां स्वतो ऽन्ये धर्मा अविघ्नभावेनावतिष्ठन्ते. तस्मात् कारणहेतुर् इत्य् उच्यते.

ननु च ये ऽस्याजानत इति विस्तरः. ज्ञानं चेन् नोदयन्त्य् एते. उदपत्स्यन्त आस्रवास् त इति विस्तरो लृङ्य् अर्थः. तेनाह. अस्याजानतः अनुत्पन्नदर्शनभावनामार्गपुद्गलस्य ये दर्शनभावनामार्गवध्या रागादय आस्रवा उदपत्स्यंत. जानत उत्पन्नदर्शनदर्शनभावनामार्गस्य पुद्गलस्यास्य तद्वध्यास् ते रागादयो नोत्पद्यन्ते. ततः किम् इत्य् आह. ज्ञानम् एषां विघ्नम् उत्पत्तौ करोति दर्शनभावनामार्गसंगृहीतं. सूर्यप्रभा च ज्योतिषां दर्शनस्य विघ्नम् उत्पत्तौ करोतीत्य् अधिकृतं. एवं सति कथं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर् भवंति. यस्माद् आस्रवोत्पत्तौ न ज्ञानं कारणहेतुः. ज्योतिर्दर्शनोत्पत्तौ च सूर्यप्रभा. एवं हि वक्तव्यं स्यात्. आस्रवोत्पत्तौ स्वभावज्ञानवर्ज्याः सर्वधर्माः कारणहेतुः. (अभिध्-क्-व्य् 190) ज्योतिर्दर्शनोत्पत्तौ च स्वभावसूर्यप्रभावर्ज्याः सर्वधर्माः कारणहेतुर् इति. उत्पद्यमानस्याविघ्नभावावस्थानाद् इति. समग्रेषु हेतुप्रत्ययेषु अनन्तरभावी धर्म उत्पद्यमान उच्यते. तस्योत्पद्यमानस्योत्पादं प्रति सर्वधर्मा एवाविघ्नभावेनावतिष्ठंते. न सर्वस्येत्य् अवगंतव्यं. ज्ञाने पुनः सति त आस्रवा नोत्पद्यमाना भवंति. प्राप्त्याद्यभावेन प्रत्ययसामग्र्यभावात्. ज्योतिर्दर्शनम् अपि प्रत्ययवैकल्याद् एव [तिब्. 176अ] नोत्पद्यमानम् इति योज्यं. अतस् तदवस्थम् इदं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर् भवंतीति. तद्यथानुपद्रोतारं भोजकम् इति विस्तरः. अनुपद्रवकरं ग्रामपतिम् अभिसंधाय मनुष्या ब्रूयुः. स्वामिना स्मः सुखिता इति. कस्मात् त एवं वक्तारो भवन्ति. यस्माद् असाव् उपद्रवकरणे समर्थ उपद्रवं न

करोति. तद्यथा निर्वाणस्यानुत्पत्तिधर्माणां च. किं. कथं हेतुभावः सर्वोत्पत्तौ. नारकादीनां च नारकतिर्यग्योन्यादिकानाम् आरूप्यस्कंधोत्पत्तौ कथं हेतुभावः. नारकादिग्रहणं मनुष्यादीनां कदाचिद् भवेत् उपदेशादिनेत्य् अभिप्रायः. असंतो ऽपि हि एव इति. असंतो ऽपि ह्य् एते निर्वाणादयस् तथैव. यथा संतो विद्यमाना विघ्नं कर्तुम् असमर्थाः स्युः. अतो ऽसतां सतां चैषाम् निर्वाणादीनां विघ्नकरणे निर्विशिष्टत्वं. असत्तुल्यास् त इत्य् अर्थः. असमर्थे ऽपीति विस्तरः. उपद्रवं कर्तुम् असमर्थे ऽपि भोजके ग्रामीणास् तथा वक्तारो भवन्ति. स्वामिना स्मः सुखिता इति. स एवात्र दृष्टान्तो यः प्राक्तनः. अतो ऽनेनैव दृष्टांतेन विघ्नयितुम् असमर्थानाम् अपि निर्वाणादीनाम् अविघ्नभावावस्थानात् कारणहेतुभावः सिद्धः. कस्मात् पुनर् असत्तुल्यानां निर्वाणादीनां कारणहेतुत्वम् [तिब्. 176ब्] इष्यते. न पुनर् असतां शशविषाणादीनां. असद्दृष्टांताभावात्. न ह्य् असन्तं भोजकम् अधिकृत्य ग्रामीणा भवंति वक्तारः. स्वामिना स्मः सुखिता इति. न वा शशविषाणेन स्मः सुखिता इति. अचोद्यम् एतत्. सामान्येन एव निर्देशः इति. यश् च प्रधानः कारणहेतुर् यश् चाप्रधानः सर्वम् अधिकृत्योक्तं.

स्वतो ऽन्ये कारणहेतुर्

इति. यो हि प्रधानो जनकः. स कारणहेतुः. स सुतराम् अविघ्नभावेनावतिष्ठते न केवलम् इतरः. आहारः शरीरस्योत्पादने ऽपि समर्थ इत्य् अधिकृतं. आहारसमुदयात् कायसमुदय इति वचनात्. रसादिपरिणामयोगात्. बीजादयो ऽ; ंकुरादीनाम् इति. बीजांकुरनालगण्डप्रसवादीनां उत्पादने समर्था इत्य् एवं.

यस् त्व् एवं चोदयतीति विस्तरः. कारणे सति कार्येण भवितव्यम् इति मत्वा चोदयति. कस्मान् न सर्वस्योत्पादो युगपद् भवति. यथा च प्राणातिपातकारकः प्राणातिपातभाग् भवति. तथा सर्वे ऽपि कस्मान् न तद्भाजो भवंतीति. (अभिध्-क्-व्य् 191) न कारकभावेनेति. न मुख्यवृत्त्यास्य कारणत्वम् इति दर्शयति. तेन सर्वस्य तावद् युगपद् उत्पादो न प्राप्नोति. प्रत्ययसामग्र्यभावेनानुत्पाद्यमानत्वात्. प्राणातिपातयोगश् च न भवत्य् अकारकत्वात्. यस् तु कारकः. स प्राणातिपातभाग् एव भवति.

मनोविज्ञानम् उत्पद्यते कुशलाकुशलम् इति. कुशलं मनोविज्ञनम् इति निर्वाणालंबनत्वात्. निर्वाणालंबनात् [तिब्. 177अ] कुशलाद् अकुशलाद् वा मनोविज्ञानम् उत्पद्यते. ततश् चक्षुर्विज्ञानम् इति. एवं परंपरया तस्यापि निर्वाणस्य प्रत्ययीभावाद् अस्ति सामर्थ्यं. क्व. चक्षुर्विज्ञान इत्य् अधिकृतं. एवम् अन्यस्यापि प्रतिपत्तव्यम् इति. नारकादीनाम् अप्य् आरूप्यस्कंधोत्पत्तौ सामर्थ्यं. कथम्. अमी बत नारकप्रेतादयः परमदुःखिता इति नारकाद्यालंबनं मनोविज्ञानं कुशलम् उत्पद्यते. यतः क्रमेण शीले व्यवस्थितस्य भावनायां प्रयोगात् आरूप्यसमापत्तिर् उपपत्तिश् चोपयद्यत. इति.

(ii.51ब्-द्) सहभूर् ये मिथःफला

इति. हेतुर् इति वर्तते. सहभूर् हेतुस् ते धर्मा भवंति. ये धर्मा मिथःफला ये परस्परफला इत्य् अर्थः. सहभूहेतुः सहभुव इति नोक्तं. कस्मात्. संति हि धर्माः केचित् सहभुवो न तु सहभूहेतुः. तद्यथा नीलाद्युपादायरूपं भूतैः सहभूर् भवति. न चान्योन्यं सहभूहेतुः. अतो

मिथःफला

इत्य् अर्थपरिग्रहः. इदं च सावशेषं लक्षणं. अतो वक्ष्यति. विनापि चान्योन्यफलत्वेन धर्मो ऽनुलक्षणानां सबभूहेतुः. न तानि तस्येत्य् उपसंख्यातव्यम् इति. उपसंख्यानकरणं च महाशास्त्रताप्रदर्शनार्थं. सोपसंख्यानं हि व्याकरणादि महाशास्त्रम् दृश्यते.

भूतवद्

इति. तद्यथार्थे वतिप्रत्ययः. एवं च कृत्वा सर्वम् एव संस्कृतं सहभूहेतुर् यथायोगम् इति. [तिब्. 177ब्] यस्मात् संस्कृतलक्षणानि लक्ष्यस्य सहभूहेतुः. सो ऽपि तेषाम्. अतो यथायोगं यथासंभवं सर्वं संस्कृतं सहभूहेतुः संस्कृतस्य लक्षणवत्त्वात्. लक्ष्यलक्षयोश् च सहभूहेतुत्वात्. न तु सर्वं सर्वस्य. अन्यलक्षणैर् असहभूहेतुत्वाद् इति यथायोगग्रहणं.

(ii.52अ-च्) तेषां च ये जात्यादयश् चित्तस्य चेति. तेषां च चित्तसंप्रयुक्तानां चेतनादीनां ध्यानसंवरस्यानास्रवसंवरस्य ये जात्यादयश् चत्वारो धर्माश् चित्तानुपरिवर्तिन उच्यन्ते.

(ii.52द्) कालफलादिशुभतादिभिर्

इति. कालेन च फलादिभिश् च शुभतादिभिश् चेति

कालफलादिसुभतादिभिः.

कालतस् तावद् इति विस्तरः. चित्तेन सहैते एकोत्पादा एकस्थितय एकनिरोधाश् च. तद्भावः. तयैकोत्पादस्थितिनिरोधतयेति. एकम् अध्वानं पतिता एकाध्वपतिताः. तद्भावः. तेनैकाध्वपतितत्वेन चतुर्थेनेति. कालतश् चित्तम् अनुपरिवर्तन्ते. एकफलतयैकविपाकतयैकनिष्यंदतया च चित्तम् अनुपरिवर्तन्ते. फलम् इह पुरुषकारफलं विसंयोगफलं च. विपाकफलनिष्यंदयोः पृथग्गृहीतत्वात्. अधिपतिफलं तु सर्वसाधारणत्वात्. न गण्यते. अयं चैकशब्दः संख्याने साधारणे वा एकफलतयेत्यादि [तिब्. 178अ]. पूर्वकस् त्व् एकशब्दः सहार्थे चित्तेन सहोत्पादस्थितिनिरोधतयेत्य् अर्थः. न ह्य् अत्र संख्यानार्थः संभवति. न हि यश् चित्तस्योत्पादः. स एव चित्तानुपरिवर्तिनां. यो वा तेषां. स चित्तस्येति. एवं दशभिः कारणैर् इति. कालतश् चतुर्भिर् एकोत्पादतयैकस्थितितयैकनिरोधतयैकाध्वपतितत्वेन चेति. ननु चैकोत्पादस्थितिनिरोधतयेति एतेनैव एकाध्वपतितम् उक्तं. न सर्वम् उक्तं. अनुत्पत्तिकधर्मिणि हि चित्ते ते चित्तानुपरिवर्तिन एकाध्वपतिता भवंति. नैकोत्पादनिरोधा इति. तस्माद् एकाध्वपतितत्वं चतुर्थं कारणं उच्यते. एकफलविपाकनिष्यंदतयेति त्रिभिः. कुशलाकुशलाव्याकृततया चेति पुनस् त्रिभिर् इति दशभिः. पर्यायवृत्तिं जातिं वा प्रत्य् एवम् उक्तं दशभिर् इति. न ह्य् एकत्र चित्ते दश कारणानि भवंति. न हि कुशले चेतसि अकुशलाव्याकृते कारणे भवतः. न चाकुशलाव्याकृते चित्ते अनुत्पत्तिधर्मिणि. अव्याकृते चित्ते अनुत्पत्तिधर्मिणि एकाध्वपतितत्वेन एकफलनिष्यंदताभ्यां अव्याकृतत्वेन चेति चतुर्भिः. उत्पत्तिधर्मिणि त्व् एभिर् एव चतुर्भिर् एकोत्पादस्थितिनिरोधताभिश् चेति सप्तभिः. अनास्रवे ऽप्य् एवं. अव्याकृततां तु केवलम् अपनीय कुशलता [तिब्. 178ब्] प्रक्षेप्तव्या. अकुशले तु कुशलसास्रवे चानुत्पत्तिकधर्मिणि अकुशलतया कुशलतया च यथावस्तु एकाध्वपतितत्वेन एकफलविपाकनिष्यन्दताभिस् चेति पंचभिः. उत्पत्तिधर्मिणि तु तस्मिन्न् एभिर् एव पंचभिर् एकोत्पादस्थितिनिरोधताभिश् चेत्य् अष्टाभिः.

सर्वाल्पं चित्तम् इति. सर्वेभ्यो यद् अल्पपरिवारं चित्तं. तत् सर्वाल्पम् इत्य् उच्यते. तत् पुनः कतमत्. द्वितीयध्यानात् प्रभृति ऊर्ध्वम् अनिवृताव्याकृतं चित्तं. तत्र वितर्कविचारौ न स्तः. न चापि कुशलादिमहाभूमिकाः. केवलमहाभूमिका एव दश भवन्ति. तल्लक्षणानाम् इति. दशमहाभूमिकलक्षणानां. न तदनुलक्षणानां विप्रकृष्टत्वात्. स्वानुलक्षणानां तु भवति (अभिध्-क्-व्य् 193) संनिकृष्टत्वात्. अत आह. अष्टानां च स्वलक्षणानुलक्षणानाम् इति. स्वान्य् अनुलक्षणानि स्थापयित्वेति. लक्षणेषु अनुलक्षणानां व्यापारः. न विशिष्ते च चित्ते. न्यूनानि तानि. राजायते हि चित्तं लक्षणानुलक्षणानाम्. अतस् चित्तम् अनुलक्षणानां सहभूहेतुः. न तु तानि चित्तस्य. लक्षणानां तु चित्ते ऽस्ति व्यापार इति तानि चित्तस्य सहभूहेतुर् भवन्ति.

चतुर्दशेत्य् अपर इति. यथानुलक्षणानां नास्ति धर्मे व्यापारः. किं तर्हि. धर्मस्य लक्षणेषु. अतो न तेषां हेतुभावो धर्म इष्यते. तथा संप्रयुक्तेष्व् एव तल्लक्षणानां व्यापारः. [तिब्. 179अ] न चित्त इति न तानि चित्तस्य सहभूहेतुः. चित्तं तु तेषां राजकल्पम् इति सहभूहेतुर् भवतीत्य् अपरेषाम् अभिप्रायः. प्रकरणग्रन्थो ह्य् एवं विरुध्येत दशानां महाभूमिकानां यानि चत्वारिंशल् लक्षणानि. तानि यदि चित्तस्य सहभूहेतुर् नेष्येरन्. यस्मात् प्रकरणेषूक्तं. चत्वार्य् आर्यसत्यानि दुःखसत्यं यावन् मार्गसत्यं. एषां कति सत्कायदृष्टिहेतुकानि न सत्कायदृष्टेर् हेतुः. कति सत्कायदृष्टेर् हेतुर् न सक्त्कायदृष्टिहेतुकानि. कति सत्कायदृष्टिहेतुकानि सत्कायदृष्टेश् च हेतुः. कति नैव सत्कायदृष्टिहेतुकानि न सत्कायदृष्टेर् हेतुः इति प्रश्ने कृते विसर्जनं करोति. द्वे नैव सत्कायदृष्टिहेतुके न सत्कायदृष्टेर् हेतुः. निरोधसत्यं मार्गसत्यं च. द्वयोर् भेदः. दुःखसमुदयसत्ययोर् विभंगः. कथम् इति. दुःखसत्यं स्यात् सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर् हेतुः. स्यात् सत्कायदृष्टिहेतुकं सत्कायदृष्टेश् च हेतुः. स्यान् नैव सत्कायदृष्टिहेतुकं न सत्कायडृष्टेर् हेतुर् इति त्रिकोटिकं. द्वितीया कोटिर् नास्ति. तत्र सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर् हेतुः. अतीतप्रत्युत्पन्नान् दुःखदर्शनप्रहातव्यान् अनुशयांस् तत्संप्रयुक्तं च दुःखसत्यं स्थापयित्वा. [तिब्. 179ब्] अतीतप्रत्युत्पन्नान् समुदयदर्शनप्रहातव्यान् सर्वत्रगान् अनुशयान् तत्संप्रयुक्तं च दुःखसत्यं स्थापयित्वा. अनागतं च सत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं स्थापयित्वा. सत्कायदृष्टेस् तत्संप्रयुक्तानां च धर्माणां जातिं

जरां स्थितिम् अनित्यतां च स्थापयित्वा यत् तद् अन्यत् क्लिष्टं दुःखसत्यं. सत्कायदृष्टिहेतुकं सत्कायदृष्टेश् च हेतुर् यद् एतत् स्थापितम् इति. नैव सत्कायहेतुकं न सत्कायदृष्टेर् हेतुर् अक्लिष्टं दुःखसत्यं. यथा दुःखसत्यं एवं समुदयसत्यम् इति प्रकरणग्रन्थः. तस्यार्थं विवृण्महे. ये ऽतीतप्रत्युत्पन्ना दुःखदर्शनप्रहातव्या दशानुशयाः सत्कायदृष्ट्यादयः. ते स्थापिताः. तैर् दशभिर् अनुशयैः संप्रयुक्तं दुःखसत्यं वेदनादिकं स्थापितं. किम् अत्रास्थापितं. एत एवानागता दशानुशयास् तत्संप्रयुक्तं च वेदनादिकं दुःखसत्यं वर्जयित्वानागतसत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं. तद् धि (अभिध्-क्-व्य् 194) स्थापयिष्यते. अनागतं च सत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं स्थापयित्वेति वचनात्. तत्प्राप्तिजात्यादयश् चास्थापिता वर्जयित्वा सत्कायदृष्टेस् तत्संप्रयुक्तानां [तिब्. 180अ] च धर्माणां जात्यादीन्. ते हि स्थापयिष्यन्ते. सत्कायदृष्टेस् तत्संप्रयुक्तानां च धर्माणां जातिं जरां स्थितिम् अनित्यतां च स्थापयित्वेति वचनात्. तद् एवं तावद् अनागतो ऽनुशयस् तत्संप्रयुक्तं च स्थापिताद् अन्यत्. तद् अन्यत् क्लिष्टम् इत्य् उच्यते सत्कायदृष्टिहेतुकम्. सत्कायदृष्टिहेतुर् अस्येति सत्कायदृष्टिहेतुकं. सभागहेतुना सर्वत्रगहेतुना चातीतप्रत्युत्पन्नसत्कायदृष्टिहेतुकत्वात्. न तु सत्कायदृष्टेर् हेतुः न ह्य् अनागतो धर्मः सभागहेतुः सर्वत्रगहेतुर् वा व्यवस्थाप्यते. न च सहभूहेतुः संप्रयुक्तकहेतुर् वात्र संभवति. न हि सत्कायदृष्टिः सत्कायदृष्ट्या सह भवति संप्रयुज्यते वा. एकस्मिं कलापे द्वितीयसत्कायदृष्ट्यभावात्. न चाप्य् अन्तग्राहदृष्ट्यादिभिः सह भवति

संप्रयुज्यते वा. पृथक्कलापत्वात्. विप्रयुक्तास् तेषाम् अतीतप्रत्युत्पन्नानां दुःखदर्शनहेयानां प्राप्तयो जात्यादयश् चास्थापिताः. ते स्थापितकाद् अन्ये क्लिष्टाश् च. ते ऽपि सर्वत्रगहेतुना पूर्वोत्पन्नसत्कायदृष्टिहेतुका. न तु ते सत्कायदृष्टेर् हेतुः. कस्मात्. प्राप्तयस् तावद् वृक्षप्रपाटिकावत् स्वसर्वत्रगेभ्यो बहिर् अवस्थितत्वान् न सर्वत्रगा व्यवस्थाप्यन्ते. सर्वत्रगत्वाभावाच् च [तिब्. 180ब्] न सत्कायदृष्टेः सर्वत्रगहेतुः. सर्वत्रगजात्यादयो ऽप्य् यद्य् अपि सर्वत्रगा इष्टाः.

प्राप्तिवर्ज्याः सहभुवो ये ऽप्य् एभिस् ते ऽपि सर्वगा

इति सिद्धान्तवचनात्. न तु ते चित्तचैत्तवत् पश्चिमानां चित्तचैत्तानां सर्वत्रगहेतुः. स्वलक्ष्यव्यापारपरत्वेन अप्राधान्ये सति चित्तचैत्तान्तरेषु सर्वत्रगपुरुषकाराभावात्. सर्वत्रगव्यवस्थानं तु तेषां जात्यादीनां स्वसंतानसर्वत्रगहेतुत्वात्. तस्मान् न ते सत्कायदृष्टेर् हेतुर् इति शास्त्रार्थो लक्ष्यते. सभागहेतुस् तर्हि कस्मान् न भवति. सभागहेतुव्यवस्था हि पुरुषकारापेक्षयापि. यस्य हि धर्मस्य जनने यः पुरुषकारवान् धर्मः. स तस्य सभागहेतुः. इदम् एव च ज्ञापकं यथेष्टं सभागहेतुव्यवस्थेति. विभाषायाम् अप्य् एवम् उक्तं. चक्षुश् च चक्षुषः सभागहेतुर् देवदत्तचक्षुषो देवदत्तचक्षुः सभागहेतुः. दक्षिणं दक्षिणस्य वामं वामस्य यावच् चक्षुर्द्रव्यं चक्षुर्द्रव्यान्तरस्य. बाह्येष्व् अपि यवो यवस्य शालिः शालेर् इति. यदि हि सर्वचक्षुः सर्वस्य चक्षुषः सभागहेतुर् इष्येताव्याकृतत्वं तुल्यम् इति कृत्वा नैवं विशेषणम् उच्येत. तस्मान् न ते सत्कायदृष्टेः सभागहेतुर् इत्य् अवगन्तव्यं. अपरे त्व् आहुः. सावशेषम् एतद् भाष्यं. तस्मात् [तिब्. 181अ] सजात्यादिकास् ते ऽनुशयास् तत्संप्रयुक्ताश् च धर्माः (अभिध्-क्-व्य् 195) स्थापिता वेदितव्या. ये हि धर्मस्य तत्संप्रयुक्तानां च जात्यादयः सहभूहेतुर् भवन्ति. तैः सार्धं ते धर्माः पूर्वोत्पन्नाः सर्वत्रगहेतुः सभागहेतुर् वा भवन्तो भवन्ति.

प्राप्तिवर्ज्याः सहभुवो ये ऽप्य् एभिस् त ऽपि सर्वगा

इति सिद्धान्तात्. अत एवोक्तं. सत्कायसंप्रयुक्तानां च धर्माणां जातिं जरां स्थितिम् अनित्यतां च स्थापयित्वेति. तस्माज् जात्यादयो ऽपि केचित् स्थापिताः. अतो ऽन्यद् अस्थापितम् इत्य् अवगन्तव्यं. युक्तिर् इह द्रष्टव्या. यतो युक्तिः. ततो ऽवगन्तव्यं. समुदयदर्शनप्रहातव्या अपि ये सर्वत्रगा अतीतप्रत्युत्पन्नास् तत्संप्रयुक्तं च दुःखसत्यं वेदनादिकं. तत् स्थापितं. किम् अन्यत् समुदयदर्शनप्रहातव्यम् अस्थापितं. ये सर्वत्रगा अनागतास् तत्संप्रयुक्तं च दुःखसत्यं वेदनादिकं. तद् अस्थापितं. ये ऽप्य् असर्वत्रगा रागादयस् त्रैयध्विका अपि. याश् च तेषां सर्वेषां प्राप्तयः. न ते स्थापिताः. जात्यादयस् त्व् एकस्मिं पक्षे नैव स्थापिताः. पक्षान्तरे तु केचित् स्थापिताः. केचिन् न स्थापिताः. तद् एतत् सर्वम् अस्थापितं समुदयदर्शनप्रहातव्यं [तिब्. 181ब्] सर्वत्रगहेतुना सत्कायदृष्टिहेतुकं भवति. पूर्वोत्पन्नसत्कायदृष्टिहेतुकत्वात्. न तु सत्कायदृष्टेर् हेतुः. सर्वत्रगाणां तत्सहभुवां चानागतत्वेनासर्वत्रगहेतुत्वात्. असर्वत्रगाणां च रागादीनां तत्सहभुवां च वेदनादीनां जात्यादीनां चैकस्मिन् पक्षे सर्वप्राप्तीनां चासर्वत्रगत्वात्. निरोधमार्गदर्शनप्रहातव्या भावनाप्रहातव्याश् च क्लिष्टा अनुशयतत्संप्रयुक्ततत्समुत्थजात्यादिस्वभावा अस्थापिताः. ते सर्वत्रगहेतुना सत्कायदृष्टिहेतुकाः. न तु ते सत्कायदृष्टेर् हेतुः. सर्वत्रगहेतुत्वासंभवाद् इतरहेत्वयोगाच् च. सत्कायदृष्टिहेतुकं सत्कायदृष्टेश् च हेतुर् यद् एतत् स्थापितम् इति. ये ऽतीतप्रत्युत्पन्ना दुःखदर्शनप्रहातव्या दशानुशयास् तत्संप्रयुक्तं च दुःखसत्यं यच् च पक्षान्तरे जात्यादिकं. तत् सभागहेतुना

सर्वत्रगहेतुना च पूर्वसत्कायदृष्टिहेतुकं. ये च सत्कायदृष्टिजात्यादयस् तत्संप्रयुक्तजात्यादयश् च. ते सहभूहेतुना पूर्वोक्ताभ्यां च हेतुभ्यां तद्धेतुकाः. ये पुनः सत्कायदृष्टिसंप्रयुक्ताः. ते संप्रयुक्तहेतुना च पूर्वोक्तैश् च हेतुभिस् तद्धेतुकाः. सत्कायदृष्टेश् च तथैव हेतुः. ये ऽप्य् अतीतप्रत्युत्पन्नाः समुदयदर्शनप्रहातव्याः सर्वत्रगास् [तिब्. 182अ] तत्सहभुवश् च वेदनादयो जात्यादयश् च पक्षान्तरे. ते सर्वत्रगहेतुनैव सत्कायदृष्टिहेतुकाः. सत्कायदृष्टेश् च हेतुः. पूर्वोत्पन्ना हि सत्कायदृष्टिस् तेषां हेतुः. ते च पूर्वोत्पन्नाः सत्कायदृष्टेर् इति. असंक्लिष्टं तु दुःखसत्यं कुशलम् अनिवृताव्याकृतं च न सत्कायदृष्टिहेतुकं न च सत्कायदृष्टेर् हेतुः. पंचविधहेतुत्वसम्भवात्. जनको (अभिध्-क्-व्य् 196) ह्य् अत्र हेतुर् अधिक्रियते. न कारणहेतुः. साधारणत्वात्. विपाकहेतोश् चेहायोगः. सत्कायदृष्टेर् निवृताव्याकृतत्वेनाविपाकत्वात्. तत्र यद् एतद् उक्तं सत्कायदृष्टेस् तत्संप्रयुक्तानां च धर्माणां जातिं जरां स्थितिम् अनित्यतां च स्थापयित्वेति तद् विरुध्येत. यदि हि सत्कायदृष्तिसंप्रयुक्तधर्मजात्यादयो न सहभूहेतुर् भवेयुः. न ते स्थाप्येरन्. ये हि स्थापिताः. ते सत्कायदृष्टिहेतुकाः. सत्कायदृष्टेश् च हेतुर् इति. ये तर्हि तत्संप्रयुक्तानाम् इत्य् एतन् न पठन्ति. तेषां कथं प्रकरणग्रन्थो विरुध्येतेत्य् अध्याहार्यं. ते हि सत्कायदृष्टेर् जातिं जरां स्थितिम् अनित्यतां च स्थापयित्वेत्य् एवं पठन्ति. तत्संप्रयुक्तेष्व् एव तल्लक्षणानि व्याप्रियन्ते. न सत्कायदृष्टौ. [तिब्. 182ब्] अतस् तानि तस्या न सहभूहेतुर् इति तेषाम् एवंवादिनाम् अभिप्रायः. तैर् अप्य् एतत् पठितव्यम्

इति. एवम् अपाठे दोष इत्य् अतस् तैर् एतत् परं पठितव्यं. तत्संप्रयुक्तानां चेति. तत्संप्रयुक्ता हि सत्कायदृष्टेर् आत्मकल्पा एकालम्बनकृत्याद्यर्थत्वात्. तस्माद् यथा तेषु तत्संप्रयुक्तेष्व् एतानि लक्षणानि सहभूहेतुः. तथा सत्कायदृष्टाव् अपीति वैभाषिकाभिप्रायः. अर्थतो वैवं बोद्धव्यम् इति. सत्कायदृष्टिग्रहणेन सत्कायदृष्टिसंप्रयुक्तानाम् अपि ग्रहणम् अधिकारानुवृत्तेर् वा तैर् एवं बोद्धव्यं. तत्संप्रयुक्तानां चेति. काश्मीरा न बहिर्देशका इति दर्शयति.

सहभ्व् अपि तद् इति. चैत्तादि. चित्तस्य हि चैत्तास् तानि च लक्षणानि सहभूहेतुः सहभूनि च तानि भवन्ति. धर्मस्यानुलक्षणानीति विस्तरः. धर्मस्य जातिजात्यादीनि सहभूनि. न सहभूहेतुना हेतुर् विप्रकृष्टत्वात्. जात्यादिषु हि तेषां व्यापारो न धर्मे. तानि चान्योन्यं तानि चानुलक्षणानि अन्योन्यं सहभूनि जात्यादिषु व्यापारात्. न सहभूहेतुना हेतुः. धर्मस् तु तेषां सहभूहेतुर् भवति. प्राधान्यात्. स हि राजेव यात्रायां सभृत्यः तद् भृत्यवर्गं सर्वं स्वकलापम् आकर्षन्न् इव प्रवर्तते. चित्तानुपरिवर्त्यनुलक्षनानि चेति. चित्तानुपरिवर्तिनां चैत्तध्यानानास्रवसंवराणाम् [तिब्. 183अ] तेषां च लक्षणानाम् अनुलक्षणानि च तथैव चित्तस्य सहभूनि. न तु सहभूहेतुना हेतुः. एवशब्दो ऽर्थप्रदर्शनार्थः. तानि चान्योन्यम् अनुपरिवर्त्यनुलक्षणानि सहभूनि. न तु सहभूहेतुना हेतुः. सप्रतिघं चोपादायरूपम् अन्योन्यम् अष्टद्रव्यकादिषु परमाणुषु रूपशब्दगन्धरसस्प्रष्टव्यात्मकं सहभूः. न तु सहभूहेतुना हेतुः. सप्रतिघग्रहणम् अप्रतिघनिरासार्थं. अप्रतिघं हि ध्यानानास्रवं संवररूपं सप्तविधविज्ञप्तिस्वभावं परस्परं सहभूः. सहभूहेतुना च हेतुर् इति. सर्वं च भूतैर् इति. सप्रतिघं चाप्रतिघं चोपादायरूपं यथास्वभूतैः सहभूः. न तु सहभूहेतुना हेतुः. प्राप्तयश् च सहजाः (अभिध्-क्-व्य् 197) प्राप्तिमतो धर्मस्य सहोत्पादे ऽपि न सहभूहेतुः पूर्वंपश्चात्कालजात् प्राप्तीनां. असहभूत्वाद् एव सहभूहेतुत्वाप्रसंग इति. सहज इति विशेषणं. कस्माद् इत्य् आह. अनेकफलविपाकनिष्यन्दत्वाद् इति. यस्मात् तासां प्राप्तिमता सह नैकं फलं पुरुषकारफलं वृक्षप्रपाटिकावत् पृथक्स्रोतत्वात्. नाप्य् एकं विपाकफलं.

नाक्षेपिके समापत्ती अचित्ते प्राप्तयो न च

इति वचनात्. [तिब्. 183ब्] न चाप्य् एकनिष्यन्दफलं प्राप्तीनां हि प्रातय एव निष्यन्दफलं पृथक्संतानत्वात्. चित्तानुपरिवर्तिनाम् एवैकं फलं विपाकनिष्यन्दफलं चेष्यते. न प्राप्तीनां. न ताश् चित्तैः सहचरिष्णवः सहचरणशीलाः.

सर्वम् अप्य् एतत् स्याद् इति. यत् तावत् सहभूहेतुना हेतुर् इति विस्तरेण यद् उक्तं. बीजादीनाम् इति. आदिशब्देनांकुरनालकाण्डादीनां ग्रहणं. एष न्यायो न दृष्ट इति. सहोत्पन्नयोर् हेतुफलभावलक्षणो न्यायो न दृष्टः. पूर्वं हि बीजं पश्चाद् अंकुरः. पूर्वम् अभिघातः पश्चाच् छब्द इति. तद्यथा प्रदीपप्रभयोर् अंकुरछाययोश् च. किं. हेतुफलभाव इति वर्तते. प्रदीपः सप्रभ एवोत्पद्यते. न निष्प्रभः. अंकुरस्यातपे उत्पद्यमानस्यैव छाया भवति. अथ च प्रदीपः प्रभायाः सहोत्पन्नाया हेतुर् भवति छायायाश् चांकुरः. तद्वत्. संप्रधार्यं तावद् इति विस्तरः. असिद्धो दृष्टान्त इति परस्याभिप्रायः. यस्मात् पूर्वोत्पन्नैव वर्तिस्नेहादिका सामग्री सप्रभस्य प्रदीपस्योत्पत्तौ हेतुः. प्रदीपस्य प्रभायाश् च सैव सामग्री हेतुः. न तु प्रदीपः प्रभाया हेतुर् इष्यते. एवं सच्छायस्यांकुरस्योत्पत्तौ पूर्वोत्पन्नैव सामग्री बीजातपादिका वाच्या. नियमत इति. यस्य धर्मस्य भावे यस्य धर्मस्य भावो नियमेन न यदृच्छया. स हेतुः. इतरो हेतुमान् कार्यधर्म [तिब्. 184अ] इत्य् अर्थः. सहभुवां च धर्माणां. तद्यथा भूतानां चतुर्णां चित्तचैत्तानुपरिवर्तिनां लक्ष्यलक्षणानां चैकस्य भावे सर्वेषां भाव एकस्य चाभावे सर्वेषाम् अभाव इति युक्तो हेतुफलभावः.

स्यात् तावत् सहोत्पन्नानाम् इति विस्तरः. सहोत्पन्नानां हेतुफलभाव इष्यते. तद्यथा चक्षुः सहोत्पन्नम् अपि चक्षुर्विज्ञानेन तदुत्पत्तौ हेतुर् भवति. परस्परं तु कथं. न हि चक्षुर्विज्ञानं तस्य चक्षुषो हेतुर् भवतीति. आह. अत एव कारणाद् भावाभावयोस् तद्वत्त्वाद् इत्य् अर्थः. चैत्तादीनां भावे चित्तस्य भावाद् अभावे चाभावात् ते ऽपि चित्तस्य हेतवो भवन्तीति. एवं तर्हीति विस्तरः. यद्य् एकस्य भावे सर्वेषां भावः सर्वेषां चाभाव एकस्येत्य् अतो ऽन्योन्यं हेतुफलभावः.

कामे ऽष्टद्रव्यक

इत्य् अविनाभाविनो ऽपि रूपरसगन्धस्प्रष्टव्यस्वभावस्योपादायरूपस्यान्योन्यम् एष प्रसंगः. अन्योन्यसहभूहेतुप्रसंग इत्य् अर्थः. भूतैश् च सार्धम् उपादायरूपस्य सहभूहेतुत्वप्रसंगः. चित्तानुलक्षणादीनां चेति. आदिशब्देन चित्तानुपरिवर्त्यनुलक्षणानां च. चित्तादिभिर् इति. अत्राप्य् आदिशब्देन चित्तानुपरिवर्त्यनुलक्षणानां च. चित्तादिभिर् इति. अत्राप्य् आदिशब्देन चित्तानुपरिवर्तिभिश् चान्योन्यहेतुप्रसंगः. तेनैव चादिशब्देन प्राप्तिभिः सहजाभिः [तिब्. 184ब्] प्राप्तिमताम् एष प्रसंग इति वक्तव्यं. त्रिदण्डान्योन्यबलावस्थानवद् इति. अन्योन्यबलेनावस्थानम् अन्योन्यबलावस्थानं. त्रिदण्दस्यान्योन्यबलावस्थानं त्रिदण्डान्योन्यबलावस्थानं. तद्वत्. यथा त्रिदन्डस्य दण्डत्रयस्यान्योन्यबलेनावस्थानं. एवं सहभुवां चित्तचैत्तादीनां हेतुफलभावः सिध्यति. मीमांस्यं तावद् एतद् इति विस्तरः. परीक्ष्यम् एतत्. न सिद्धो ऽयं दृष्टान्त इत्य् अभिप्रायः. सहोत्पन्नास् त्रयो दण्डास् तेषां बलं. तेन सहोत्पन्नबलेन किम् एषां दण्डानाम् अवस्थानं. आहोस्वित्पूर्वसामग्रीवशात् तथोत्पादः. आहोस्विद् यथैवैषाम् अवस्थितः पूर्वभूतभौतिकसमुदायलक्षणसामग्रीवशात् सहभावः. तथैव पश्चाद् अपि परस्पराश्रितानाम् उत्पाद इति. अन्यद् अपि च तत्र किंचिद् भवति नान्योन्यबलम् एवेति दर्शयति. किं तद् इत्य् आह. सूत्रकं दण्डत्रयं निवेशितं. शंकुको वा कीलको वेत्य् अर्थः. पृथिवी वा धारिकाधस्तात्. एषाम् अपि नामेति. एषाम् अपि सहभुवाम् अन्ये ऽपि सभागसर्वत्रगविपाककारणहेतवः सूत्रकादिस्थानीया भवन्तीति सिद्धः सहभूहेतुः.

(ii.53, 54अब्) क्लिष्टाः क्लिष्टानाम् इति. क्लिष्टा अकुशला निवृताव्याकृताश् च क्लिष्टत्वसामान्येन सभागहेतुत्वम् एषां. तेनाकुशला अकुशलानां सभागहेतुः. निवृताव्याकृता [तिब्. 185अ] निवृताव्याकृतानां. अकुशला निवृताव्याकृतानां. निवृताव्याकृताश् चाकुशलानां सभागहेतुर् इति दर्शितं भवति, अव्याकृता अव्याकृतानाम् इति. अनिवृताव्याकृता अनिवृताव्याकृतानाम् इत्य् अर्थः.

रूपम् अव्याकृतम् अव्याकृतो रूपस्कन्धः पंचानां स्कन्धानां सभागहेतुः. चत्वारस् तु स्कन्धा वेदनादयो न रूपस्य सभागहेतुर् विशिष्टत्वात्. न हि विशिष्टो न्यूनस्य सभागहेतुर् इष्यते.

समविशिष्टयोर्

इति वचनात्. कुशलाकुशलं तु रूपम् आभिसंस्कारिकत्वात् समं विशिष्टं चेति चत्वारस् तस्य सभागहेतुर् भवन्ति.

कललं कललादीनाम् इति. पंचगर्भावस्थाः कललार्बुदपेशीघनप्रशाखावस्थाः पंच जातावस्थाः बालकुमारयुवमध्यवृद्धावस्था इत्य् एते दश दशानाम् अवस्थानां सभागहेतुः. कललं कललान्तरस्य यावद् (अभिध्-क्-व्य् 199) वार्द्धस्य. अर्बुदम् अर्बुदस्य यावद् वार्द्धस्य. एवं यावद् वार्द्धं वार्द्धस्यैव. एकैकापह्रासेन एकैकापरिहारेणैकस्मिन् निकायसभागे वक्तव्यं. अन्येषु समानजातीयेषु निकायसभागेषु यदा मनुष्यजन्मनो मनुष्यजन्मैवोत्पद्यते. तदा दशाप्य् अवस्था दशानाम् अप्य् अवस्थानां. वृद्धावस्थापि यावद् अवस्थान्तराणां. सा हि वृद्धावस्था [तिब्. 185ब्] क्षणान्तरे तज्जन्मवृद्धावस्थायाः. सभागहेतुः. अंत्या तु जन्मान्तरकललादीनां दशानाम् अप्य् अवस्थानां सभागहेतुर् इत्य् अवगन्तव्यं. बाह्येष्व् अपि यवो यवस्येति विस्तरः. यवो यवस्य सभागहेतुर् न शालेः. शालिः शालेर् एव न यवस्येत्य् अनेन तुल्ये ऽप्य् अव्याकृतत्वे स्वसंतान एव सभागहेतुत्वं. नान्यसंताने जननशक्त्यभावाद् इति दर्शयति.

अतीतानि महाभूतानि अनागतानां महाभूतानां हेतुर् अधिपतिर् इति. हेतुप्रत्ययो ऽधिपतिप्रत्ययश् चेत्य् अर्थः. अयुगपद्भावान् न सहभूहेतुः. अत एवाचित्तचैत्तत्वाच् च न संप्रयुक्तकहेतुः. असर्वत्रगत्वान् न सर्वत्रगहेतुः. अव्याकृतत्वान् न विपाकहेतुः. पारिशेष्यात् सभागहेतुर् एवेत्य् अवगम्यते. यदि सदृशाः सदृशानां सभागहेतुः. एवं पश्चादुत्पन्नो ऽपि पूर्वोत्पन्नस्य सभागहेतुः प्राप्नोति. सहोत्पन्नो ऽपि सहोत्पन्नस्य. अनुत्पन्नो ऽप्य् अनुत्पन्नस्येत्य् अत आह. ते ऽपि न सर्वे. किं तर्हि.

अग्रजाः.

अग्रे जाता अतीताः प्रत्युत्पन्ना वा सभागहेतुः. अनागता न सभागहेतुर् इत्य् अर्थाद् उक्तं भवति. एवम् अतीतान्य् अतीतप्रत्युत्पन्नानाम् इति. पूर्वोत्पन्नान्य् [तिब्. 186अ] अतीतानि पश्चादुत्पन्नातीतानाम् इति विभज्यव्याख्यं. अतीतप्रत्युत्पन्नान्य् अनागतानां सभागहेतुः. न तु अनागतान्य् अनागतानाम् इत्य् उक्तम्. अतो गम्यते नास्त्य् अनागतः सभागहेतुर् इति. न कदाचिद् इति. न कदाचिन् न हेतुर् इत्य् अधिकृतं. हेतुर् एवेत्य् अर्थः. तस्माद् अस्त्य् अनागतः सभागहेतुर् इत्य् अभिप्रायः. सहभ्व् इति विस्तरः. सहभूसंप्रयुक्तकविपाकहेतुष्व् अभिसंधिर् अभिप्रायः. तेन वचनं. तस्मात् सहभूसंप्रयुक्तकविपाक हेत्वभिसंधिवचनाद् अदोषो न कदाचिन् न हेतुर् इति वचने. बाहुलिको ह्य् एष निर्देश इष्यते. चरमाम् अवस्थाम् अभिसंधायेति. अन्त्याम् अनागतावस्थाम् अभिप्रेत्येत्य् अर्थः. अध्वत्रये ऽपि हेतुर् भवतीति तस्याभिप्रायः. तस्यायम् अपरिहार इति विस्तरः. तस्य वादिनो ऽयम् अपरिहारः. कस्मात्. यस्मात् स धर्म उत्पद्यमानावस्थायाः पूर्वं सभागहेतुर् अभूत्वा पश्चाद् भवति. न नित्यं सभागहेतुर् इत्य् अर्थः. भवीनाम् अनागतावस्थानाम् एका चरमावस्था सभागहेतुत्वे नियतीभूता. तदन्या बह्व्यस् तत्रानियतीभूताः सन्ति. तत्र च सामान्येनोक्तं न हेतुर् इति. एवं कृत्वायम् अपरिहारः. एकास्याम् (अभिध्-क्-व्य् 200) अपि ह्य् अवस्थायां [तिब्. 186ब्] स न सभागहेतुर् इति शक्यम् एवं वक्तुं स्यात्. यो धर्मो यस्य धर्मस्य समनन्तर इति. समनन्तरप्रत्यय इत्य् अर्थः. शक्यम् अनया कल्पनयेति. स धर्म उत्पद्यमानावस्थायां समनन्तरप्रत्ययत्वे नियतीभूतो भवति. अतः शक्यं तां चरमावस्थाम् अभिसंधायेत्य् अनया

कल्पनया वक्तुं स्यान् न कदाचिन् न समनन्तर इति. कस्माद् एवम् आह. यदि स धर्मो नोत्पन्नो भवतीति. यदि स धर्मो ऽनागतो भवति नासौ समनन्तरप्रत्ययो भवतीत्य् अर्थः. चरमावस्थावाद्य् आह. द्विमुखसंदर्शनार्थम् इति विस्तरः. यथा तत्र यो धर्मो यस्य धर्मस्य हेतुः. कदाचित् स धर्मस् तस्य धर्मस्य न हेतुः. आह. न कदाचिद् इति. तथेहापि कर्तव्यं. यो धर्मो यस्य धर्मस्य समनन्तरः. कदाचित् स धर्मस् तस्य धर्मस्य न समनन्तर इति. आह. न कदाचिद् इति कर्तव्यं. (यदि स धर्मो नोत्पन्नो भवतीति) यथा चेह तथा तत्रेति. कथं. यो धर्मो यस्य धर्मस्य समनन्तरः. कदाचित् स धर्मस् तस्य धर्मस्य न समनन्तरः. आह. यदि स धर्मो नोत्पन्नो भवतीति. एवं तत्र कर्तव्यं. कथं. यो धर्मो यस्य धर्मस्य हेतुः. कदाचित् स धर्मस् तस्य धर्मस्य न हेतुः. आह. यदि स धर्मो नोत्पन्नो भवतीति. यदि स धर्मो ऽनागतो भवति नासौ हेतुप्रत्ययो भवतीत्य् अर्थः.

अत्राचार्य आह. एवं सति को गुण इति विस्तरः. इति द्विमुखसंदर्शनेन कश्चिद् गुणो लभ्यते. [तिब्. 187अ] नैव ह्य् उत्पद्यमानावस्थायां स धर्मो हेतुः समनन्तरो वा मुख्यवृत्त्या भवतीत्य् अकौशलम् एवात्र शास्त्रकारस्यैवं संभाव्यते. क्वचित् सावकाशं ब्रुवतः. क्वचिन् निरवकाशं. सावकाशं तावद् यद् इदम् उक्तं. यो धर्मो यस्य धर्मस्य हेतुः. कदाचित् स धर्मस् तस्य धर्मस्य न हेतुः. आह. न कदाचिद् इति. कथं न कदाचिन् न हेतुर् इत्य् एवम् उक्त्वा पुनर् वर्णयति. चरमावस्थायां सभागहेतुर् इति. निरवकाशं यदि स धर्मो नोत्पन्नो भवति न समनन्तरः. उत्पन्नस् तु समनन्तर इति. अयम् अत्राभिप्रायार्थ ऐकान्तिकम् अर्थं व्यवस्थाप्य पुनर् अन्यथाकरोतीति. तस्मात् पूर्वक एवैष परिहारः साधुर् इति. सहभूसंप्रयुक्तकविपाकहेत्वभिसंधिवचनाद् अदोष इति.

यत् तर्हीदम् उक्तम् इति विस्तरः. कुत एतद् आयातं. अनागतो नैव सभागहेतुर् इत्य् उक्तं. तद् यदि अनागतो नैव सभागहेतुः कस्माद् अनागता सत्कायदृष्टिः स्थापिता. यद् धि स्थापितं. तत् सत्कायदृष्टिहेतुं सत्कायदृष्टेश् च हेतुर् इति व्याख्यातं. तत्र कथम् अनागता सत्कायदृष्टिः सत्कायदृष्टेर् हेतुः. न तावत् सहभूहेतुः संप्रयुक्तकहेतुर् वा संभवत्य् असहभूत्वात्. न विपाकहेतुर् अव्याकृतत्वात्. न कारणहेतुः साधारणत्वेनागण्यमानत्वात्. [तिब्. 187ब्] (अभिध्-क्-व्य् 201) पारिशेष्यात् सभागहेतुः सर्वत्रगहेतुर् वा भवतीति भवेत्. इह च सभागहेतुर् एव सर्वत्रगहेतुः. अतो यद्य् अनागता सत्कायदृष्टिः सत्कायदृष्टेर् न सभागहेतुः कस्माद् असौ तृतीयकोट्यर्थं स्थापितेति. वैभाषिक आह. अनागतसत्कायदृष्टिसंप्रयुक्तकं दुःखसत्यं स्थापयित्वेत्य् एवम् एतद् कर्तव्यम् इति. सत्कायदृष्टिसंप्रयुक्तकम् एव स्थापयितव्यं. न तु सत्कायदृष्टिः. तद् धि वेदनादिकं सहभूहेतुना संप्रयुक्तकहेतुउआ वा सत्कायदृष्टिहेतुकम् सत्कायदृष्टेश् च हेतुः. न सभागहेतुना. विनष्टको ह्य् अयम् अनागतां सत्कायदृष्टिम् इति पाठः. पश्चात्पदस्थेन तच्छब्देन सह न पत्ःइतव्यः. संप्रयुक्तदुःखसत्यविशेषणार्थं तु समस्यैतत् पदद्वयं पठितव्यं. अनागतसत्कायदृष्टिसंप्रयुक्तकम् इति. अर्थतो वैवं बोद्धव्यं यद्य् एवं न क्रियते पाठः. भाष्याक्षेपनिर्वृत्तः पाठो न तन्त्रम् इत्य् अभिप्रायः. प्रज्ञप्तिभाष्यं कथं नीयते सर्वधर्माश् चतुष्के नियता इति. हेतौ नियता यस्य धर्मस्य यो धर्मो हेतुः. स धर्मस् तस्य धर्मस्य न कदाचिन् न हेतुः. त्रिष्व् अपि कालेषु हेतुर् इत्य् अर्थः. एवं फले

नियता यस्य धर्मस्य यो धर्मः फलं पुरुषकारादि योज्यं. एवम् आश्रये नियता यस्य धर्मस्य [तिब्. 188अ] चक्षुर्विज्ञानादेर् यो धर्म आश्रयश् चक्षुरादिर् इति योज्यं. एवम् आलम्बने नियता यस्य धर्मस्य चक्षुर्विज्ञानादेर् यो धर्म आलम्बनं रूपादिर् इति योज्यं. तेन धर्माणां हेतौ नियतत्वात् त्रिष्व् अपि कालेषु सभागहेतुर् भवतीति चोदकाभिप्रायः. सर्वहेत्वनभिसंधेर् अदोष इति दर्शयन् वैभाषिक आह. हेतुर् अत्र संप्रयुक्तकहेतुः सहभूहेतुश् च न सभागहेतुः सर्वत्रगहेतुर् वा. अनागतावस्थायाम् अव्यवस्थापितत्वात्. न विपाकहेतुः. अनानिंज्यस्य कर्मणह् कस्यचिद् गत्यन्तरे ऽपि विपाकादानात्. फलं पुरुशकारफलं अधिपतिफलं च. तयोः सहभूसंप्रयुक्तकहेत्वोः फलत्वात्. वैभासिकाणाम् एतन् मतम्. अनागतं विद्यमानम् उत्पद्यत इति. तस्माद् अयं प्रसंजयति. ननु चैवं सति सभागहेतुर् अभूत्वा अनागतावस्थायां हेतुर् भवति वर्तमानावस्थायाम् इति प्राप्तं प्रसक्तम् इत्य् अर्थः. इष्यत एवावस्थां प्रति न द्रव्यम् इति. इष्यत एव सभागहेतोः सभागहेतुत्वावस्था पूर्वं नासीद् इदानीं भवतीति. न तु द्रव्यस्वलक्षणं पूर्वं नासीद् इदानीं भवतीति. अवस्थाफलं हि सामग्र्यं न द्रव्यफलम् इति. हेतुप्रत्ययसामग्र्या वर्तमानावस्थाफलं न द्रव्यं. यस्माद् अनागतो ऽपि स धर्मो [तिब्. 188ब्] द्रव्यतो ऽस्ति. न पुनः प्रत्युत्पन्न एवेति. चोदक आह. किं पुनः स्याद् इति विस्तरः. वैभाषिक आह. शास्त्रे तस्य ग्रहणं स्याद् इति. तस्यानागतस्य सभागहेतोः. न चास्ति ग्रहणं. न हि तत्र शास्त्रे उक्तं. अनागतानि कुशलमूलानि अनागतानां कुशलमूलानां (अभिध्-क्-व्य् 202) सभागहेतुर्

इति. चोदक आह. य एव हीति विस्तरः. चोदकस्यायम् अभिप्रायः. यद्य् अप्य् अनागतो ऽस्ति सभागहेतुर् न त्व् असौ फलदानग्रहणक्रियायां समर्थः. य एव हि फलदानग्रहणक्रियासमर्थः फलाक्षेपक्रियासमर्थश् च. तस्यैव सभागहेतोः अतीतस्य वर्तमानस्य च ग्रहणात्. अदोषो ऽनागतस्य सभागहेतोर् अग्रहणं. तस्य फलदानग्रहणक्रियायाम् असामर्थ्यात्. तस्माद् अस्त्य् अनागतः सभागहेतुः. अथ च शास्त्रे नोक्त इति. वैभाषिक आह. नैतद् अस्तीति विस्तरः. नैतद् युज्यते. निष्यन्दफलेन हि सफलः सभागहेतुः.

सभागसर्वत्रगयोर् निष्यन्दः. निष्यन्दो हेतुसदृश

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.