Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
स्फुटार्था अभिधर्मकोशव्याख्या
- Tác giả
- यशोमित्र
- Thông tin
- GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
प्रहीणक्लेशा आर्याः. अप्रहीणक्लेशाः पृथग्जनाः. तद्भावाः. स एव विशेषः. इति प्रहीणाप्रहीणक्लेशतविशेषः. तस्माद्. एतद् व्यवस्थानं भवितुम् अर्हति. ननु च पृथग्जना अपि केचित् प्रहीणक्लेशा भवन्ति. कथम् अवधार्यते. आर्या एव प्रहीणक्लेशा इति. अत्यंतसमुद्घातवचनाद् एवम् उक्तं. एतच् चैव कथम् इति. एषां प्रहीणः क्लेश एषाम् अप्रहीण इति यद् एतद् व्यवस्थानं. तत् कथं भविष्यति. प्राप्तौ तु सत्यां क्लेशप्राप्त्या एतत् सिध्यति व्यवस्थानं. तद्विगमाविगमात् क्लेशप्राप्तिविगमाविगमात् छेदाच्छेदाद् (अभिध्-क्-व्य् 147) इत्य् अर्थः. येषां तत्प्राप्तिविगमाः. ते आर्याः. येषाम् अविगमाः. ते पृथग्जना इति. ननु च पृथग्जनानाम् अपि केषांचित् क्लेशप्राप्तिर् विगता. विगता. न तु लोकोत्तरेण मार्गेण. स तर्हि लोकोत्तरमार्गकृतो [तिब्. 134ब्] विशेषः कथं परिच्छिद्यते लोकोत्तरेणेयं क्लेशप्राप्तिर् विगता लौकिकेनेयम् इति. सास्रवानास्रवविसंयोगप्राप्तिभेदात्. आश्र्यविशेषाद् एतत् सिध्यतीति. आत्मभावविशेषाद् एतद् व्यवस्थानं एषां प्रहीणः क्लेश एषाम् अप्रहीणः क्लेश इति सिध्यति. तथा परावृत्त इति. तथान्यथाभूतः. तत्प्रहेयाणां दर्शनभावनामार्गप्रहेयाणाम्. अग्निदग्धव्रीहिवद् इति. यथाग्निदग्धो व्रीहिर् अबीजीभूतो भवति. एवं यथोक्तेन न्यायेनाबीजीभूतः आश्रयः क्लेशानां प्रहीणक्लेश इत्य् उच्गते. उपहतबीजभावे वा. आश्रय इत्य् अधिकृतं. तेन लौकिकेन मार्गेण प्रहीण इति शक्यते वक्तुं. बीजस्योपघातमात्रभावात्. विपर्ययाद् अप्रहीण इति. अनिर्दग्धबीज आश्रये ऽनुपहतबीजभावे वा. यश् चाप्रहीण इति विस्तरः. यश् चाप्रहीणो ऽनन्तरोक्तेन विधिना दर्शनप्रहातव्यः कामावचरो यावद्
भावाग्रिकः भावनाप्रहातव्यो वा कामावचरो यावद् भावाग्रिकः. तेन समन्वागतः. यश् च प्रहीणस् तथैव यावद् भावाग्रिकः. तेनसमन्वागत इति प्रज्ञप्यते. प्रज्ञप्तिधर्मो ऽयम् इति दर्शयति. कुशला अपि द्विप्रकारा इति विस्तरः. यथा क्लिष्टा द्विप्रकारा इत्य् अपिशब्दार्थः. समुच्चये वा कुशलाश् चेत्य् अर्थः. तद्बीजभावानुपघाताद् इति. तेषाम् उत्पत्तिलाभिकानां कुशलानां बीजं तद्बीजं. तद्बीजस्य भावस् तद्बीजभावः [तिब्. 135अ]. कस्य. आश्रयस्य. तद्बीजभावस्यानुपघातस् तद्बीजभावानुपघातः. तस्मात्. तद्बीजभावानुपघातात् समन्वागतः. कैः. अयत्नभाविभिः कुशलैः. उपघाताद् असमन्वागत उच्यते. को ऽसाव् इत्य् आह. समुच्छिन्नकुशलमूलः. तस्य त्व् इति. तस्याश्रयस्य तद्बीजभावस्य उपघातो मिथ्यादृष्ट्या वेदितव्यो नान्यथा. तेनाह. न तु खलु कुशलानां धर्माणां बीजभावस्यात्यन्तं संततौ समुद्घातो यथा क्लेशानाम् आर्यमार्गेणात्यन्तं संततौ समुद्घात इत्य् अभिप्रायः. ये पुनर् इति विस्तरः. ये प्रायोगिकाः. तैर् उत्पन्नैः. तेषाम् उत्पत्तिस् तदुत्पत्तिः. तदुत्पत्तौ वशित्वं सामर्थ्यविशेषः. तस्याविघातात्. कस्य. संततेः. समन्वागम उच्यते. कैः. तैर् यत्नभाविभिः कुशुलैः. यस्माद् एवं. तस्माद् बीजम् एव शक्तिविशेष एवात्र समन्वागमावस्थायाम् अनपोद्धृतं क्लिष्टानां धर्माणाम् आर्यमार्गेणानुपहतं लौकिकेन मार्गेण. अयत्नभाविनां च कुशलानां धर्माणां मिथ्यादृष्ट्या. परिपुष्टं च वशित्वकाले यत्नभाविनां कुशलानां बीजम् इति प्रकृतं. समन्वागमाख्यां लभते. नान्यद् द्रव्यं. यद् वैभाषिकैः कल्पितं. किं पुनर् इदं बीजं नामेति. (अभिध्-क्-व्य् 148) द्रव्याशंकया पृच्छति.
यन् नामरूपं फलोत्पत्तौ समर्थं. यत् पंचस्कन्धात्मकं रूपं फलोत्पत्तिसमर्थं साक्षाद् अनन्तरं [तिब्. 135ब्] पारंपर्येण दूरतः. को ऽयं परिणामो नामेति. सांख्यानां परिणामाशंकया पृच्छति. संततेर् अन्यथात्वम् इति. अन्यथोत्पादः. का चेयं संततिर् इति. किं यथा सांख्यानाम् अवस्थितद्रव्यस्य धर्मान्तरनिवृत्तौ धर्मांतरप्रादुर्भावः तथावस्थायिन्याः संततेर् अन्यथात्वम् इति. नेत्य् उच्यते. किं तर्हि. हेतुफलभूता. हेतुश् च फलं च हेतुफलं. हेतुफलम् इति नैरन्तर्येण प्रवृत्तास् त्रैयध्विकाः संस्काराः संततिर् इति व्यवस्थाप्यन्ते. यत्र तूक्तम् इति विस्तरः. यत्र तु सूत्र उक्तं. किम् इत्य् आह. लोभेन समन्वागतः अभव्यः अयोग्यश् चत्वारि स्मृत्युपस्थानानि कायस्मृत्युपस्थानादीनि उत्पादयितुम् इति. यदि बीजं प्राप्तिः. बीजं नित्यम् अस्तीति स्मृत्युपस्थानोत्पत्तिर् न स्यात्. भवदीयायाम् अपि प्राप्तौ तदुत्पत्तिर् न स्याद् इति तुल्यम् एतत्. तस्माद् उभाभ्याम् अपि वक्तव्यं. तत्राधिवासनं लोभस्याविनोदनं वा समन्वागम इति. अधिवासनम् अभ्यनुज्ञानम्. अविनोदनम् अव्युपशमनं. सर्वथा प्रज्ञप्तिधर्मो न द्रव्यधर्म इति. सर्वप्रकारेण यद्य् उत्पत्तिहेतुर् यदि व्यवस्थाहेतुर् यद्य् आश्रयविशेषः यद्य् अधिवासनम् अविनोदनं वा सर्वथा प्रज्ञप्तिधर्मः प्रज्ञप्त्या संवृत्या व्यवहारेण धर्मः प्रज्ञप्तिधर्मो न द्रव्यधर्मः न द्रव्यतो धर्मः स्वभाव इत्य् अर्थः. अथ वा द्रव्यं च तद् धर्मश् च स द्रव्यधर्मो [तिब्. 136अ] न रूपादिवत् विद्यमानस्वलक्षणो धर्म इत्य् अर्थः. तस्य च प्रतिषेधः तस्य च प्रज्ञप्तिधर्मस्य प्रतिषेधो ऽसमन्वागम इति.
इदम् अस्येति ज्ञानचिह्नं प्रतिलब्धधर्माविप्रणाशकारणं च प्राप्तिर् इत्य् आचार्यसंघभद्रः. इदम् अस्येति ज्ञानचिह्नं इत्य् असिद्धम् एतत्. आश्रयविशेषेण तज्ज्ञानम् इति ब्रूमः. यदि च प्रतिलब्धधर्मविप्रणाशकारणं प्राप्तिर् इष्यते. प्राप्तपरित्यागो नैव स्यात्. भवति च. तस्माद् अकारणम् एतत्. स एव च शक्तिविशेषलक्षणं बीजभावम् आचार्येन व्यवस्थापितं दूषयति. किम् अयं शक्तिविशेषश् चित्ताद् अर्थान्तरम् अतो ऽनर्थान्तरं. किं चातः. अर्थान्तरं चेत्. सिद्धं प्राप्तिर् अस्तीति. संज्ञामात्रे तु विवादः. अनर्थान्तरं चेत्. नन्व् अकुशलं कुशलस्य बीजं अभ्युपगतं भवति. अकुशलस्य च कुशलं. को हि नाम औष्ण्यस्य तेजसो ऽनर्थान्तरत्वे सत्य् औष्ण्यम् एव दाहकम् अध्यवस्येन् न तेजः. कुशलबीजं ह्य् अकुशले चेतस्य् अव्याकृते वा वर्तते. एवम् अकुशलबीजं कुशले चेतस्य् अव्याकृते वा वर्तते. तथैव चाव्याकृतबीजम् अपि कुशले (अभिध्-क्-व्य् 149) चाकुशले च वर्तते. सास्रवबीजं चानास्रवे ऽनास्रवबीजं च सास्रवे चेतसि वर्तत इति सांकर्यदोषः प्रसज्यत इति. अत्र वयं ब्रूमः. अनर्थान्तरभावे सांकर्यदोष भवेत्. तत् तु बीजं न चित्ताद् अर्थान्तरं वक्तव्यं. नाप्य् अनर्थान्तरम्. उपादायप्रज्ञप्तिरूपत्वात्. [तिब्. 136ब्] अथाप्य् अनर्थान्तरभावस् तथाप्य् अदोशः. कुशलेन हि चित्तेनोत्पन्नेन स्वजातीये ऽन्यजातीये वा स्वसंतानचित्ते बीजम् आधीयेत. ततः कारणविशेषात् कार्यविशेष इति विशिष्टं. तेन तच् चित्तम् उत्पद्येत. तद् विशिष्टं चित्तं कुशलबीजकार्यक्रियायां समर्थम् उत्पद्येत. एवम् अकुशलेनापि स्वजातीये ऽन्यजातीये वा स्वसंतानचित्ते बीजम् आधीयेत. तच् च तेन विशिष्टं चित्तम्
अकुशलबीजकार्यक्रियायां समर्थम् उत्पद्येत. एवम् अव्याकृतेनापि चित्तेन स्वजातीये ऽन्यजातीये वा स्वसंतानचित्ते बीजम् आधीयेत. तच् चापि तेन विशिष्टम् अव्याकृतबीजकार्यक्रियायां समर्थम् उत्पद्येत. सास्रवेणाप्य् अनास्रवे चित्ते बीजम् आधीयेत. अनास्रवेणापि सास्रव इत्य् एवम् अन्योन्यबीजाधायकम् अन्योन्यजनकं च चित्तं चित्तान्तराद् उत्पद्यमामं अन्योन्यवास्यवसकत्वेन प्रवर्तते. न च कुशलेनाकुशले चित्ते शक्तिविशेष आहित इति तद् अकुशलं कुशलताम् आपद्यते. कुशलं वा तद् अकुशलतां. शक्तिविशेषमात्रत्वात्. शक्तिर् बीजं वासनेत्य् एको ऽयम् अर्थः. एवम् अकुशलादिवासनापि वक्तव्या. यावत् सास्रवेणानास्रवे शक्तिविशेषाधाने ऽपि. अनास्रवेणापि सास्रवे शक्तिविशेषाधाने. न तत् सास्रवं अनास्रवं संपद्यते. अनास्रवं वा सास्रवम् इति. भवताम् अपि वैभाषिकाणाम् इदं चिंत्यते. यदा सास्रवचित्तसमनंतरं [तिब्. 137अ] अनास्रवं अनास्रवचित्तसमनन्तरं वा सास्रवचित्तम् उत्पद्यते. तदा किं पूर्वकः सास्रवकलापो ऽनास्रवकलापो वा शक्तिमान् समनन्तरप्रत्ययादिभावेनोत्तरकलापोत्पत्ताव् उताशक्तिमान्. किं चातः. यद्य् अशक्तिमान् समनन्तरप्रत्ययादिभावो ऽप्य् अस्य हीयेत. अथ शक्तिमान्. सा शक्तिः किं सास्रवे चेतसि सास्रवा आहोस्विद् अनास्रवा. तच् चित्तं सास्रवस्यानास्रवस्य च चित्तान्तरस्य समनन्तरप्रत्ययादिभावं कुर्यात्. तत् किं ययैव शक्त्या सास्रवस्य समनन्तरप्रत्ययादिभावं कुर्यात् तयैवानास्रवस्य. यदि तयैव कथं शक्तिकार्यसांकर्यं न भवेत्. अथान्यया शक्त्या सास्रवस्यान्ययानास्रवस्य समनन्तरप्रत्ययादिभावं कुर्यात्. कथम् अनयोर् एकत्र शक्त्योस् तस्माच् चित्ताद् अनन्ययोर्
भिन्नरूपता भिन्नकार्यता च युज्यते. युज्यते चेत्. अस्माकम् अपि चित्ताद् अनन्यासां शक्तीनां तत्रावस्थानं कार्यभेदश् च भविष्यति. एवम् अनास्रवस्यापि चित्तस्य सास्रवानास्रवचित्तसमनन्तरप्रत्ययादिभावेन संभवतः तथैव शक्त्योर् भिन्नरूपता कार्यभेदश् च वक्तव्यः. तेन यद् उक्तं नन्व् अकुशलं कुशलस्य बीजम् (अभिध्-क्-व्य् 150) अभ्युपगतं भवतीत्यादि तद् अयुक्तं. न हि कुशलाहितेन शक्तिविशेषेण विशिष्टं समर्थम् अकुशलम् अकुशलबीजकार्यं करोति. [तिब्. 137ब्] किं तर्हि. कुशलबीजकार्यम् एव करोति. स्वाहितेन तु शक्तिविशेषेण तद् अकुशलं स्वबीजकार्यं करोति. तत् कथम् इदम् उच्यते. कुशलस्याकुशलं बीजम् इति. ब्रूयास् त्वम् अकुशलचित्ते तत् कुशलबीजम् आहितं कथं अकुशलं न भवतीति. न भवन्तो बीजार्थं जानते. कुशलेन चित्तेन निरुध्यमानेन. तथा शक्तिविशिष्टम् अकुशलं चित्तं जन्येत यथा तच् चित्तं स्वोत्पत्तियोग्यं भविष्यति साक्षात् पारंपर्येण वेति शक्तिविशेष एव बीजं. न बीजं नाम किंचिद् अस्ति. प्रज्ञप्तिसत्त्वात्. अत एव प्राप्त्यप्राप्ती प्रज्ञप्तिसत्याव् उच्येते. द्रव्यसत्याव् एव तु वैभाषिका वर्णयन्ति.
(ii.38, 39अब्) अतीतानां धर्माणाम् अतीतापि प्राप्तिर् इति विस्तरः. अतीतानां धर्माणां तद्यथा क्लिष्टानाम् अतीता प्राप्तिर् या उत्पन्ननिरुद्धा साग्रजापि संभवति. सहजापि. पश्चात्कालजापि. तेषाम् एवानागता प्राप्तिर् अनुत्पन्ना. प्रत्युत्पन्ना या पश्चात्कालजा उत्पन्ननिरुद्धा. अनागतानाम् अपि प्राप्तिर् अतीता याग्रजोत्पन्ननिरुद्धा. अनागता यानुत्पन्ना. प्रत्युत्पन्नाग्रजोत्पन्नानिरुद्धा. तथा प्रत्युत्पन्नानाम् अप्य् अतीता प्राप्तिर् याग्रजोत्पन्ननिरुद्धा. अनागता यानुत्पन्ना. प्रत्युत्पन्ना या सहजा. अतीतादिजातिसामान्यं च गृहीत्वैवम् उक्तम्. न त्व् एकस्यातीतस्यावश्यं त्रिविधा प्राप्तिर् अस्ति. न हि विपाकजस्यानागतातीता वा प्राप्तिः संभवति.
अव्याकृताप्तिः सहजेति
वचनात्. [तिब्. 138अ] यदि तु प्रतिद्रव्यं प्राप्तिव्यवस्था क्रियेत संभवं प्रत्य् एतद् एवं भवेत्. क्लिष्टानाम् उत्पत्तिप्रतिलंभिकानां च कुशलानाम् अतीतादीनाम् अतीतादयः प्राप्तयो ऽवश्यं भवन्ति. न हि पृथग्जनस्यानुत्पन्नस्य अनास्रवस्य मार्गस्यातीता प्रत्युत्पन्ना च प्राप्तिर् अस्ति. सापवादश् चायम् उत्सर्गो ऽवगन्तव्यः.
अव्याकृताप्तिः सहजेति
वेचनात्. असंस्कृतानां तु प्राप्ति उत्पन्ननिरुद्धातीता. ऽनुत्पन्नानागता. उत्पन्नानिरुद्धा प्रत्युत्पन्ना. सुगमत्वात् तु न सूत्रितम् एतत्. कामरूपारूप्यावचराणां कामरूपारूप्यावचरी यथाक्रमम् इति. कामधातूपपन्नस्य कामावचराणां धर्माणां कामावचरी प्राप्तिः. तस्यैव रूपावचराणां रूपावचरी. तस्यैवारूप्यावचराणाम् आरूप्यावचरी. रूपधातूपपन्नस्य च कामावचराणां. तद्यथा निर्माणचित्तानां कामावचरी. रूपावचराणां रूपावचरी (अभिध्-क्-व्य् 151). आरूप्यावचराणाम् आरूप्यावचरी. आरूप्यधातूपपन्नस्य तद्धातुकानां तद्धातुकैव प्राप्तिः.
अनाप्तानां चतुर्विधेति.
अधात्वाप्तानां संस्कृतासंस्कृतानाम् अनास्रवाणां चतुर्विधा प्राप्तिः. कामरूपारूप्यावचरी चानास्रवा च. समासेन सर्वान् अनाप्तान् अभिसमस्येत्य् अर्थः. प्रत्येकं तु न चतुर्विधा. तत आह. तत्राप्रतिसंख्यानिरोधस्येति विस्तरः. कामधातूपपन्नस्य [तिब्. 138ब्] कामावचरादीनां यथासंभवम् अप्रतिसंख्यानिरोधस्य प्राप्तिः कामावचरी. रूपधातूपपन्नस्य रूपावचरादीनां अप्रतिसंख्यानिरोधप्राप्ती रूपावचरी. आरूप्यधातूपपन्नस्यारूप्यावचरादीनाम् अप्रतिसंख्यानिरोधप्राप्तिर् आरूप्यावचरी. सत्त्वसंतानवशेनैव हि तत्प्राप्तिर् व्यवस्थाप्यते. न तु तेषां वशेन येषाम् अप्रतिसंख्यानिरोधः. यदि ह्य् एवं स्यात् मार्गसत्यस्याप्रतिसंख्यानिरोधप्राप्तिर् अनास्रवा स्यात्. प्रतिसंख्यानिरोधस्य रूपारूप्यावचरी चानास्रवा चेति. न कामावचरी. कामधातोर् अप्रतिपक्षत्वात्. रूपावचरेण तु मार्गेण प्राप्तस्य रूपावचरी प्राप्तिः. आरूप्यावचरेणारूप्यावचरी. अनास्रवेण मार्गेणानास्रवा. आर्यस्य तु रूपावचरेण मार्गेण प्राप्तस्य रूपावचरी चानास्रवा चारूप्यावचरेणारूप्यावचरी चानास्रवा च.
लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधेति
वचनात्. मार्गसत्यस्यानास्रवैवेति. लौकिकीम् अस्य प्राप्तिं प्रतिषेधयति. सेयं समस्य चतुर्विधेति. समासेन त्रैधातुकी चानास्रवा चेति उक्तम् अर्थं निगमयति. शैक्षाणाम् इति. शैक्षा धर्माः शैक्षस्यानास्रवा धर्मा. अशैक्षा अशैक्षस्यानास्रवा. [तिब्. 139अ] मार्गसत्यभावा एवैते द्रष्टव्याः. शैक्षाशैक्षेभ्यस् त्व् अन्ये नैव शैक्षा नाशैक्षाः. असंस्कृता अपि यावन् नैव शैक्षा नाशैक्षा इष्यन्ते. तेषां
त्रिधा
प्राप्तिः शैक्षादिभेदेन. शैक्षी अशैक्षी नैव शैक्षी नाशैक्षी चेति. अनार्येण प्राप्तस्येति. पृथग्जनेन प्राप्तस्य. तस्यैव शैक्षेणेति. तस्यैव प्रतिसंख्यानिरोधस्य शैक्षेण मार्गेण प्राप्तस्य शैक्षी. अशैक्षेणाशैक्षी. क्षयज्ञानसंप्रयुक्तेन मार्गेण प्राप्तस्य. विसंयोगप्राप्तिसंनिश्रयत्वात् क्षयज्ञानस्य. यद्य् अपि सा वज्रोपमेन शैक्षेण प्राप्यते तदावाहकत्वात्. तत्प्राप्तत्ववचने तु शैक्ष्याः प्राप्तेः अशैक्षी प्राप्तिर् विशेषिता स्याद् इति न तेन शैक्षेण (अभिध्-क्-व्य् 152) अशैक्षीत्य् उक्तं. तस्यैवार्यमार्गप्राप्तस्यानास्रवेति. तस्यैव प्रतिसंख्या निरोधस्य आर्यमार्गप्राप्तस्य अनास्रवा. मार्गसत्यस्य चानास्रवा प्राप्तिर् इत्य् अधिकृतं. आर्येण लौकिकमार्गप्राप्तस्य प्रतिसंख्यानिरोधस्य प्राप्तिः किं सास्रवा उताहो ऽनास्रवा. उभयथेत्य् आह. सा कस्मान् नोक्ता. सावशेषं भाष्यं. पश्चाद् दर्शयिष्यते
लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधेति
नोच्यते. या त्व् असंकीर्णा प्राप्तिः सैवेहोच्यते इति वेदितव्यं.
(ii.39च्द्, 40अब्) दुर्बलत्वाद् इति. अनभिसंस्कारवत्त्वाद् दुर्बलत्वं.
द्वे अभिज्ञे इति. दिव्यचक्सुरभिज्ञां [तिब्. 139ब्] दिव्यश्रोत्राभिज्ञां. निर्माणचित्तं च वर्जयित्वा. किं.
अव्याकृताप्तिः सहजेति
संबन्धनीयं. तेषां हि बलवत्त्वाद् इति विस्तरः. तेषां हि दिव्यचक्षुरभिज्ञादीनां बलवत्त्वात्. किं. पूर्वंपश्चात्सहजा प्राप्तिः. प्रयोगविशेषनिष्पत्तेर् इति. प्रयोगविशेषेण निष्पत्तिर् दिव्यचक्षुरभिज्ञादीनां. तस्याः. प्रयोगविशेषनिष्पत्तेर् बलवत्त्वं. बलवत्त्वात् पूर्वंपश्चात्सहजा प्राप्तिर् इत्य् अर्थसम्बन्धः. शैल्पस्थानिकस्यापि कस्यचित् तद्यथा विश्वकर्मणः. ऐर्यापथिकस्य च तद्यथा स्थविरस्याश्वजितस्य. अत्यर्थम् अभ्यस्तस्य भृशम् आत्मसात्कृतस्येच्छन्ति वैभाषिकाः. किं. पूर्वंपश्चात्सहजा प्राप्तिर् इति.
निवृतस्य च रूपस्येति.
चशब्दः समुच्चयार्थः. प्राप्तिः सहजेति समुच्चीयते. तच् च क्लिष्टं रूपं प्रथमध्यानभूमिकम् एव विज्ञप्तिरूपं वेदितव्यं. ततो ऽन्यासु भूमिषु तदुत्थापकाभावात्. अधिमात्रेणापीति विस्तरः. अधिमात्रेणापि चित्तेन निवृता विज्ञप्तिर् उत्थापिता. तद् एव चाधिमात्रं विज्ञप्तिचित्तं अविज्ञप्तिं नोत्थापयति. अतो दौर्बल्यसिद्धिः. तस्या दौर्बल्यसिद्धेः सहजैव प्राप्तिः.
प्राप्तिभेद इति. विपाकजादीनाम् अनिवृताव्याकृतानां सहजा प्राप्तिः. अभिज्ञाद्वयादीनां तु पूर्वंपश्चात्सहजा प्राप्तिर् इति तद्भेदः.
कामरूपस्य नाग्रजेति.
[तिब्. 140अ] कामावचरस्य कुशलाकुशलस्य विज्ञप्त्यव्ज्ञप्तिरूपस्याग्रजाप्राप्तिः सर्वथा नास्ति. यदि कुशलस्य यद्य् अकुशलस्य नास्त्य् एव सर्वथेत्य् अर्थः. सहजा चास्ति पश्चात्कालजा चेति संभवतः. तद्यथा प्रथमस्य विज्ञप्त्यविज्ञप्तिक्षणस्य आदौ सहजा प्राप्तिर् भवति. द्वितीयादिषु क्षणेषु तस्यैवाद्यस्य क्षणस्य पश्चात्कालजा भवति. एवम् अन्येषाम् अपि द्वितीयादीनां क्षणानां सहजा पश्चात्कालजा प्राप्तिर् वेदितव्या. कामावचरस्यैव रूपस्याग्रजा (अभिध्-क्-व्य् 153) प्राप्तिप्रतिषेधाद् ध्यानानास्रवसंवररूपस्याग्रजा प्राप्तिर् अस्त्य् एवेत्य् उत्सृष्टा भवति.
(ii.40च्द्, 41) अप्राप्तिर् अनिवृताव्याकृतैव सर्वा. कस्माद् व्यवस्थाप्यते. यद्य् अप्राप्तिः क्लेशानां क्लिष्टा भवेत्. प्रहीणक्लेशस्य क्लेशवद् एव न स्यात्. यदि कुशला स्यात् समुच्छिन्नकुशलमूलस्य न स्यात्. अनास्रवाणां धर्माणाम् अप्राप्तिर् अनास्रवा स्यात्. किं स्यात्. पृथग्जनो न स्यान् नित्यम् आर्यधर्मसमन्वागतत्वात्. पारिशेष्याद् अनिवृताव्याकृतैवाप्राप्तिर् इति व्यवस्थाप्यते. प्रत्युत्पन्नस्य नास्त्य् अप्राप्तिः प्रत्युत्पन्नेति. प्रत्युत्पन्नस्य धर्मस्य प्राप्तिर् वर्तते. तस्माद् अस्याप्राप्तिर् नास्ति प्रत्युत्पन्ना. तस्य प्राप्त्यप्राप्त्योः समवधानासंभवात्. अतीतानागतयोस् तु त्रैयध्विकीति. अप्राप्तानां प्राप्तविहीनानां च प्रायोगिकानां गुणानाम् अनागतानां च चक्षुरादीनाम् अपि च येषां [तिब्. 140ब्] प्राप्तिर् नास्ति अतीताप्य् अस्त्य् अप्राप्तिर् अनागतापि प्रत्युत्पन्नापि. स्रोतोन्यायेन हि तेषाम् अप्राप्तिर् उत्पद्यते निरुध्यते ऽनागतवस्थानेति.
कामाद्याप्तामलानां चेति.
त्रिधेत्य् अनुकर्षणार्थश् चकारः. कामादिषु धातुषु आप्ता अवियुक्ताः कामाद्याप्ताः. कामाद्याप्तानाम् अमलानां चाप्राप्तिस् त्रिविधा. उपपत्त्याश्रयवशेन तद्व्यवस्थापनात्. धर्मसहाव्यवस्थापिनी ह्य् अप्राप्तिः. न प्राप्तिवद् धर्मवशेन व्यवस्थाप्यते. तस्मात् कामधातूपपन्नस्य कामरूपारूप्यावचराणां अनास्रवाणां च धर्माणाम् अप्राप्तिः कामावचरी. रूपधातूपपन्नस्य रूपावचरी. आरूप्यधातूपपन्नस्य आरूप्यावचरी. तद्यथा कामधातूपपन्नस्य प्रायोगिकानां गुणानाम् उपपत्तिलाभिकानाम् अपि कुशलसमुच्छेदावस्थायाम् अप्राप्तिर् अवीतरागत्वाच् च रूपारूप्यावचराणाम् अक्लिष्टानाम् अप्राप्तिः पृथग्जनत्वाच् चानास्रवाणाम् अप्राप्तिः कामावचरी. तथा रूपधातूपपन्नस्य कामावचराणां भूमिसंचारत्यक्तानां रूपारूप्यावचराणां च प्रायोगिकानां गुणानां पृथग्जनत्वाच् चानास्रवाणाम् अप्राप्ती रूपावचरी. तथैव चारूप्यधातूपपन्नस्य कामरूपावचराणां भूमिसंचारत्यक्तानाम् आरूप्यावचराणां च प्रायोगिकाणां [तिब्. 141अ] गुणानां पृथग्जनत्वाद् एव चानास्रवाणाम् अप्राप्तिर् आरूप्यावचरीत्य् नेयं.
पृथग्जनत्वं कतमत्. आर्यधर्माणाम् अलाभ इत्य् अनेन शास्त्रपाठेनानास्रवत्वाभावम् अप्राप्तेर् दर्शयति. कतमेषाम् आर्यधर्माणाम् अलाभ इति. आर्यधर्मा दुःखे धर्मज्ञानक्षान्तिम् आरभ्य सर्वो ऽनास्रवो मार्ग इति अत एवं पृच्छति. सर्वेषाम् अविशेषवचनाद् इति. सर्वेषां दुःखे धर्मज्ञानक्षान्त्यादीनां शैक्षाशैक्षज्ञानानाम् अलाभः. कस्मात्. अविशेष्तत्वात्. यद्य् (अभिध्-क्-व्य् 154) एवम् उत्पन्नायाम् अपि दुःखे धर्मज्ञानक्षान्तौ परिशिष्टानाम् आर्यधर्माणाम् अलाभो ऽस्यास्तीति अनार्यः स्यात्. तस्माद् इदम् आह. स तु यो विना लाभेनेति. यो विना लाभेनालाभः. तत् पृथग्जनत्वम् इति. अन्यथा हीति विस्तरः. यद्य् आर्यधर्माणां लाभे ऽपि सति अन्येषाम् अपि धर्माणाम् अलाभः पृथग्जनत्वम् इष्यते बुद्धो ऽपि श्रावकप्रत्येकबुद्धसंतानिकैर् आर्यधर्मैर् असमन्वागमात् अनार्यः स्यात्. केवलालाभग्रहणात् त्व् अप्रसंगः. एवशब्दस् तर्हि पठितव्य इति. आर्यधर्माणाम् अलाभ एवेति. एकपदान्य् अपि ह्य् अवधारणानीति. केवलपदान्य् अपीत्य् अर्थः. अब्भक्षो वायुभक्ष इति. अब्भक्ष एव वायुभक्ष एवेति नोच्यते. एवशब्दस्य चार्थो गम्यते. तद्वद् इहापीति. [तिब्. 141ब्] अथ वा अप एव यो भक्षयति सो ऽब्भक्षः. यो वायुम् एव भक्षयति स वायुभक्ष इति. यथात्र लुप्तनिर्दिष्टस्य एवकारस्यावधारणार्थो गम्यते. तद्वद् इहाप्य् अलाभ एवेति. दुःखे धर्मज्ञानक्षान्तितत्सहभुवां इत्य् अपर इति विस्तरः. दुःखे धर्मज्ञानक्षान्तेस् तत्सहभुवां च वेदनादीनां धर्माणाम् अलाभः पृथग्जनत्वम्. अस्मिं पक्षे उत्पन्नायाम् अपि दुःखे धर्मज्ञानक्षान्तौ परिशिष्टानाम् आर्यधर्माणाम् अलाभो ऽस्तीत्य् अनार्यः स्याद् इति यो दोष उक्तः. स न
संभवति. यदा तर्हि फलप्राप्तिः. तदा दुःखे धर्मज्ञानक्षान्तितत्सहभुवां विहानिर् इति फलप्राप्ताव् अनार्यः स्याद् इति दोषपरिहारार्थम् आह. न च तत्त्यागात्. न च तेषां क्षांतिसहभुवां त्यागाद् अनार्यत्वप्रसंगः. तदलाभस्यात्यन्तं हतत्वात्. तस्यालाभस्यात्यन्तविहीनत्वात्. कथम्. असाव् अत्यन्तं हतस् तत्संताने पुनर् अनुत्पत्तेः. ते तर्हि त्रिगोत्रा इति. श्रावकप्रत्येकबुद्धबुद्धगोत्रा इति. कतमेषाम् अलाभः. सर्वेषाम् इति. श्रावकादिगोत्राणाम्. एवं तर्हि स एव दोष इति. बुद्धो ऽपि त्रिगोत्रालाभाद् अनार्यः स्याद् इत्य् अर्थः. पुनः स एव परिहार इति. स तु यो विनालाभेनेति पूर्ववत् प्रपंचो यावत् तद्यथा अब्भक्षो वायुभक्ष इति. यत्नस् तर्हि व्यर्थ [तिब्. 142अ] इति. क्षांतिपरिशिष्टार्यधर्मालाभसद्भावाद् अनार्यः स्याद् इत्य् अस्य दोषस्य परिहाराय क्षान्तितत्सहभुवाम् अलाभः पृथग्जनत्वम् इति यो यत्नस् स व्यर्थः स्यात्. पूर्वपक्षदोषपरिहार एवायम् आस्थीयते. अनुत्पन्नार्यधर्मा संततिर् इति. अनुत्पन्ना आर्यधर्मा अस्याम् इत्य् अनुत्पन्नार्यधर्मा संततिः पृथग्जनत्वं. अनुत्पन्नार्यमार्गा स्कन्धसंततिर् इत्य् अर्थः. अर्थाद् उत्पन्नार्यधर्मा संततिर् आर्यत्वम् इत्य् उक्तं भवति आश्रयपरावृत्तेः.
अथेयम् अप्राप्तिर् इति. सर्वधर्माप्राप्तिश् चोद्यते. नार्यधर्मप्राप्तिर् एव. यथा तावद् इति. उदाहरणम् एतत्. तस्य लाभात् तद् विहीयत इति. तस्यार्यमार्गस्य लाभात् तत् पृथग्जनत्वम् अलाभलक्षणं विहीयते.
किंधातुकं तत् पृथग्जनत्वं. त्रिधातुकम् इत्य् एके. ननु चोपपत्त्याश्रयवशेनालाभो व्यवस्थाप्यते. पृथग्जनत्वं चालाभस्वभावं. तस्माद् अस्य कामावचरस्य सत्त्वस्य कामावचरम् एव पृथग्जनत्वम् अस्ति. न रूपारूप्यावचरम्. अतस् त्रैधातुकं विहीयत इति अयुज्यमानम् एतत् पश्यामः. अथ पुनर् अनुत्पत्तिधर्मतां तद् आपन्नम् इति कृत्वा त्रैधातुकं तद् विहीयत इति उपचारकल्पना. भवत्व् एषा. नैषा वार्यते. कामावचरस्यैव त्व् एकस्य पृथग्जनत्वस्य प्राप्तिर् अस्ति. तल् लौकिकाग्रभर्मावस्थायां विहीयत [तिब्. 142ब्] इति वेदयामः. तच् च कामवैराग्ये नवमे विमुक्तिमार्गे प्रहीयते. रूपारूप्यधात्वोर् उत्पद्यमानस्य त्व् आर्यस्य प्रतिभूम्यवस्थितानां पृथग्जनत्वानां आर्यमार्गप्राप्तिसामर्थ्यान् नैव प्राप्तिर् उत्पद्यते. प्रतिभूमि तु नवमे विमुक्तिमार्गे तेषां प्रहाणं भवतीति अवगंतव्यं.
भूमिसंचाराच् चेति. यदा च कामधातोर् वैराग्यं कृत्वा प्रथमं ध्यानं संचरति. तदा च तत् कामावचरं पृथग्जनत्वं विहीयते. न चार्यो भवति. प्रथमध्यानभूमिकपृथग्जनत्वप्रादुर्भावात्. एवम् आरूप्यधातुसंचाराद् रूपावचरं पृथग्जनत्वं विहीयते. ऊर्ध्वभूमेश् चाधरां भूमिं संचरते ऊर्ध्वभूमिकं पृथग्जनत्वं विहीयत इति वक्तव्यम्. एवम् अन्येषाम् अपि योज्यम् इति. यथार्यमार्गस्य प्राप्त्या पृथग्जनत्वम् अप्राप्तिर् विहीयत इति योजितं. एवम् अन्येषाम् अपि श्रुतचिन्तामयादिकानां धर्माणाम् अप्राप्तिर् विहीयत इति योज्यं. कथं. कामावचराणां तावच् छ्रुतचिन्तामयादिकानां धर्माणां प्राप्तिलाभाद् अप्राप्तिर् विहीयते. उपपत्तिलाभिकानां च कुशलानां प्राप्त्या समुच्छिन्नकुशलस्याप्राप्तिर् विहीयते. भूमिसंचाराच् च. यदा चायं कामधातोश् च्युत्वा प्रथमं ध्यानम् उपपत्त्या संचरति. तदा च तद्भूमिकानां गतिसंगृहीतानां स्कंधानाम् अप्राप्तिर् विहीयते. अक्लिष्टाव्याकृता एव हि गतयो वक्ष्यन्ते.
अव्याकृताप्तिः [तिब्. 143अ] सहजेति
चोक्तम्. एवं प्रथमध्यानभूमिकानां प्रायोगिकाणां गुणानां प्राप्तेर् अप्राप्तिर् विहीयते. भूमिसंचाराच् च. ऊर्ध्वभूमिकानां गतिसंगृहीतानां स्कन्धानां तद्भूमिसंचाराद् विहीयत इति. इदम् एकेषां भूमि संचारव्याख्यानोदाहरणं तत्र अविविक्तं पश्यामः. ऊर्ध्वभूमिकानां गतिसंगृहीतानां स्कन्धानाम् अप्राप्तिर् न केवलं भूमिसंचाराद् विबीयते. किं तर्हि. तत्प्राप्तितो ऽपीति. इदं त्व् असंकीर्णम् उदाहरणं पश्यामः. तद्यथा द्वितीयादिध्यानभूमिकानां प्रायोगिकाणां गुणानां तदलाभिनः कामावचरस्य सत्त्वस्याप्राप्तिर् अस्ति. स यदि कामवैराग्यं कृत्वा प्रथमध्यान उपपद्यते (अभिध्-क्-व्य् 156). सा तेषाम् अप्राप्तिर् भूमिसंचाराद् विहीयते. प्रथमध्यानभूमिका तु तेषाम् अप्राप्तिर् उद्भवतीति. एवम् अन्येषाम् अपि योज्यं.
ननु चैवम् अनवस्थाप्रसंगः प्राप्तीनाम् इति. प्राप्तेर् अपि प्राप्तिः. अस्या अप्य् अन्या. तस्या अप्य् अन्या इत्य् अनवस्था. परस्परसमन्वागमाद् इति. प्राप्तिप्राप्तियोगात् प्राप्त्या समन्वागतः. प्राप्तियोगात् प्राप्तिप्राप्त्या समन्वागत इत्य् अर्थः. प्राप्त्युत्पादाद् इति विस्तरः. प्राप्त्युत्पादात् तेन धर्मेण चित्तेन वा समन्वागतो भवति. प्राप्तिप्राप्त्या च समन्वागत इति वर्तते. प्राप्तिप्राप्त्युत्पत्तेः प्राप्त्यैव समन्वागतो भवतीति. एवं प्राप्तिर् उभयत्र व्याप्रियते. प्राप्तिप्राप्तिस् त्व् एकत्रेति अतो नानवस्था. कुशलस्य क्लिष्टस्य चेति. अनयोर् अग्रजपश्चात्कालजप्राप्तित्वाद् ग्रहणं. अव्याकृतस्य [तिब्. 143ब्] हि सहजैव प्राप्तिर् इति. द्वितीये क्षण इति विस्तरः. द्वितीये क्षणे तस्य धर्मस्य तत्प्राप्तेः प्राप्तिप्राप्तेश् च प्राप्तय इति तिस्रः प्राप्तयः. प्राप्तियोगाद् धि तैः समन्वागतो भवति. ताभिस् तिसृभिः प्राप्तिभिः समन्वागमार्थं पुनस् तिस्रो ऽनुप्राप्तय उद्भवन्तीति षड् भवन्ति प्राप्तयः. प्रथमद्वितीयक्षणोत्पन्नानां द्रव्याणाम् इति. धर्मेण सार्धं नवानां द्रव्याणां नव प्राप्तयः सार्धम् अनुप्राप्तिभिर् अष्टादश भवन्ति. एवम् उत्तरोत्तरवृद्धिप्रसंगेनेति विस्तरः. उत्तरोत्तरस्य क्षणस्य वृद्धिः प्राप्तिभिः. उत्तरोत्तरे वा क्षणे वृद्धिः प्राप्तीनां. तस्याः प्रसंगः उत्तरोत्तरवृद्धिप्रसंगः. तेन. उत्तरोत्तरवृद्धिप्रसंगेन. एताः प्राप्तयो विसर्पन्त्य इति. दिङ्मात्रं दर्शयिष्यामः. चतुर्थे क्षणे प्रथमक्षणोत्पन्नैस् त्रिभिर् धर्मैः प्राप्त्यनुप्राप्तिमद्भिर् भवितव्यं. द्वितीयक्षणोत्पन्नाभिर् अपि षड्भिः प्राप्त्यनुप्राप्तिभिः पुनः प्राप्त्यनुप्राप्तिमतीभिर् भवितव्यम्. एवं तृतीयक्षणोत्पन्नाभिर्
अष्टादशभिः प्राप्त्यनुप्राप्तिभिः पुनर् अपि प्राप्त्यनुप्राप्तिमतीभिर् भवितव्यम् इति प्रथमद्वितीयतृतीयक्षणोत्पन्नानां सप्तविंशतिः प्राप्तयः सार्धम् अनुप्राप्तिभिस् तावतीभिर् इति चतुःपंचाशत् प्राप्तयश् चतुर्थे क्षणे भवन्ति. पंचमे तु क्षणे प्रथमद्वितीयतृतीयक्षणोत्पन्नाः प्राप्त्यनुप्राप्तयः पुनश् चतुःपंचाशच् चतुर्थक्षणोत्पन्नप्राप्त्यनुप्राप्तयश् च द्विश्चतुःपंचाशद् भवन्ति. त्रीणि चतुःपंचाशत्कानि द्वाषष्त्युत्तरशतं प्राप्तीनां जायते. एवम् उत्तरोत्तरवृद्धिप्रसंगो वक्तव्यः. अतीतानागतानाम् इत्य् अत्र प्रत्युत्पन्नाग्रहणम् अनावश्यकत्वात्. [तिब्. 144अ] उत्पत्तिलाभिकानां चेति. अत्र प्रायोगिकाग्रहणम् अनावश्यकत्वाद् एव. ससंप्रयोगसहभुवाम् इति. सवेदनादिसजात्यादीनाम्. अनाद्यन्तसंसारपर्यापन्नानाम् अनादाव् अनन्ते च संसारे संगृहीतानां. अनन्ता अप्रमेया एकस्य प्राणिनः. किं अङ्ग बहूनां. क्षणे क्षणे उपजायंते प्राप्तय इति. अनन्तद्रव्या एव. अनन्तप्राप्तिद्रव्या इत्य् अर्थः. (अभिध्-क्-व्य् 157) अत्युत्सवो बतायं प्राप्तीनाम् इति. परिहासवचनम् एतत्. केवलं न प्रतिघातिन्यः अरूपिणीत्वात् यतो ऽवकाशं लभंते प्राप्तयः.
(ii.42अ) सभागता सत्त्वसाम्यम्
इति विस्तरः. समानो भागो भजनम् एषाम् इति सभागाः. तद्भावः सभागता. समानो वा भागो भजनं सभागः. सभाग एव सभागता. यद्योगात् सभागो भवति. तद् द्रव्यं. सत्त्वानां साम्यं सामान्यं सादृश्यम् इत्य् अर्थः. सत्त्वग्रहणम् असत्त्वनिरासार्थं. सत्त्वानां सत्त्वसंख्यातानां च धर्माणां सादृश्यं सभागता. असत्त्वसंख्यातानां शालियवादीनां नेष्यते. निकायसभाग इत्य् अस्याः शास्त्रे संज्ञेति. ज्ञानप्रस्थानादिके शास्त्रे निकायसभाग इति अनया संज्ञया अयं चित्तविप्रयुक्तो निर्दिश्यते. इह तु श्लोकबन्धानुगुण्यात् सभागतेति अनया संज्ञयेत्य् अभिप्रायः. सा पुनर् अभिन्ना भिन्ना चेति. या सर्वसत्त्ववर्तिनी. सा प्रतिसत्त्वम् [तिब्. 144ब्] अन्यान्याप्य् अभिन्नेत्य् उच्यते सादृश्यात्. न हि सा यथा वैशेषिकाणाम् एका नित्या चेति. भिन्ना या क्वचिद् वर्तते क्वचिन् न वर्तते. तत आह. भिन्ना पुनर् इति विस्तरः. धातवस् त्रयः कामादयः. गतयः पंच नरकादयः. योनयश् चतस्रो ऽण्डजादयः. जातयो ब्राह्मणादयः. आदिशब्देन उपासिकाभिक्षुणीनैवशैक्षनाशैक्षादयः संगृह्यन्ते. स्कंधायतनधातुत इति. रूपस्कन्धसभागता यावद् धर्मधातुसभागता. अविशिष्टम् इति. सामान्यरूपं. प्रज्ञप्तिश् चेति. अभिधानं चेत्य् अर्थः. एवं स्कन्धादिबुद्धिप्रज्ञप्तयो ऽपि योज्या इति. यदि स्कन्धसभागताद्रव्यम् अविशिष्टं न स्याद् अन्योन्यविशेषभिन्नेषु स्कन्धेषु स्कन्धः स्कन्ध इत्य् अभेदेन बुद्धिर् न स्यात् प्रज्ञप्तिश् चेति. एवं धात्वादिबुद्धिप्रज्ञप्तयो ऽपि योज्या इत्य् एके पठन्ति. तेषाम् एवं वक्तव्यं. यदि सभागतेति विस्तरेण यावद् अन्योन्यविशेषभिन्नेषु धातुषु कामावचरः कामावचर इति अभेदेन बुद्धिर् न स्यात् प्रज्ञप्तिश् चेति.
चतुःकोटिक इति. स्यात् च्यवेतोपपद्येत न च सत्त्वसभागतां विजह्यान् न च प्रतिलभेतेति. सत्त्वसभागताम् इति. सत्त्वानां सभागता सत्त्वसभागता मनुष्यत्वादिलक्षणा. सत्त्वग्रहणं [तिब्. 145अ] हि धर्मविशेषणार्थं. सत्त्वसभागता ह्य् अत्र चतुःकोटिके विवक्षिता न धर्मसभागतेति. न तु सत्त्वस् सत्त्व इत्य् आकारसभागतेहाभिप्रेता. यदि हि साभिप्रेता स्यात्. तृतीया कोटिर् न सिध्येत गतिसंचारे ऽपि तस्याः सत्त्वसभागतायास् तादवस्थ्यात्. तत्रैवोपपद्यमान इति. तद्यथा मनुष्यगतेश् च्युत्वा मनुष्यगताव् एवोपपद्यमानः. मनुष्यगतेश् च्यवते मरणाद् उपपद्यते च तस्याम् एव प्रतिसंधिबन्धात्. न चासौ मनुष्यसभागतां विजहाति न च प्रतिलभते तस्या मनुष्यसभागतायास् तादवस्थ्यात्. (अभिध्-क्-व्य् 158) द्वितीया नियामम् अवक्रामन्न् इति. स सत्त्वसभागतां पृथग्जनत्वस्वभावां सभागतां विजहाति आर्यत्वस्वभावां सभागताम् अपरां प्रतिलभते. तृतीया गतिसंचाराद् इति. तद्यथा मनुष्यगतेश् च्युत्वा देवगाताव् उपपद्यमानः. च्यवते तथैव मरणाद् उपपद्यते च प्रतिसंधिबन्धात्. सत्त्वसभागतां मनुष्यसभागतालक्षणां विजहाति. प्रतिलभते च देवसभागतालक्षणाम् अपराम् इति. चतुर्थ्य् एतान् आकारान् स्थापयित्वेति. पूर्वोक्तकोटिस्वभावप्रकारान् वर्जयित्वेत्य् अर्थः. तद्यथा जीवन् पृथग्जन आर्यो वा किंचिद् अलभमानः.
यदि पृथग्जनसभागता नाम द्रव्यम् अस्ति किं पुनः पृथग्जनत्वेन आर्यधर्मलाभस्वभावेन कल्पितेन प्रयोजनम् इति वाक्यशेषः. पृथग्जनसभागतयैव पृथग्जन इति परिच्छिद्येत यथा [तिब्. 145ब्] मनुष्यसभागतयैव मनुष्य इति. न हि मनुष्य्सभागताया अन्यन् मनुष्यत्वं कल्प्यते वैभाषिकैर् अलाभवद् अन्यस्वभावं. तत्र च साधनं. न स्वसभागताया अन्यत् पृथग्जनत्वं. स्वसभागताप्रत्ययाभिधेयत्वात्. मनुष्यत्ववत्. नैव च लोकः सभागतां पश्यति अरूपिणीत्वाद् इति. न लोकश् चक्षुषा सभागतां पश्यत्य् अरूपिणीत्वाद् अरूपवतीत्वाद् अरूपस्वभावत्वाद् वा. यथा न पश्यति एवं न शृणोति यावन् न स्पृशतीति. अनेन प्रत्यक्षासिद्धतां दर्शयति. न चैनां प्रज्ञया परिच्छिनत्तीति. अनेनानुमानेनापि न सिध्यतीति दर्शयति. प्रतिपद्यते च सत्त्वानां जात्यभेदम् इति. सत्या अपि तस्याः कथं तत्र व्यापार इति. जात्यभेदप्रतिपत्तौ जात्यभेदप्रतिपत्तिर् अस्ति. सा तु न सभागतया द्रव्यान्तरकल्पितया कृता प्रमाणेनानुपलभ्यमानत्वेन तस्या व्यापारसंभवात्. ब्रूयास् त्वं. न निर्निमित्ता सामान्यबुद्धिर् भवितुम् अर्हति. तेन यन् निमित्तं तस्याः सामान्यबुद्धेः. तत् सभागता नाम द्रव्यम् इति. वयम् अपि तां सामान्यबुद्धिं सनिमित्तांम् ब्रूमः. सादृश्यकृता हि सा बुद्धिः. तच् च सादृश्यं न द्रव्यान्तरम् इति ब्रूमः. तेनोच्यते. अपि चासत्त्वसभागतापि किं नेष्यत इति विस्तरः. न द्रव्यान्तरसभागतानिमित्ता सत्त्वः सत्त्व इति सामान्यबुद्धिः. सामान्याकारप्रवृत्तत्वात्. शालियवमुद्गमाषादिसामान्यबुद्धिवत्. शालियवस्वजातिसादृश्यकृता [तिब्. 146अ] ह्य् एषा सामान्यबुद्धिः. न च तेषां
स्वजातिसादृश्यं स्वतो ऽर्थान्तरं भवति. तासां च सभागतानाम् इति विस्तरः. अन्या सत्त्वसभागतान्या धातुसभागतान्या गतिसभागतेति अन्योन्यभिन्नाः सभागता इष्यन्ते. तासां सभागतेति प्रज्ञप्तिर् इयं सभागता इयं सभागतेत्य् अभेदेन कथं भवद्भिः क्रियते. व्यवहारः प्रत्ययश् च कथं जायते. यद्य् अत्रापि सभागतान्तरं प्रतिज्ञायेत येन सभागतासामान्यबुद्धिर् भवेत्. भवेत् सो ऽयम् अपक्षः प्राक्पक्षविरोधात्. (अभिध्-क्-व्य् 159) वैशेषिकाश् चैवं द्योतिता इति. ज्वलिताः समर्थिता इत्य् अभिप्रायः. ते ऽपि हि सामान्यपदार्थवादिनो भवन्तो ऽपीति. अयं तु तेषां वैशेषिकाणां विशेषः. एको ऽप्य् अनेकस्मिं वर्तते स्रक्सूत्रवत्. भूतकण्ठेगुणवच् चेति. यदि द्योतिताः सामान्यपदार्थवादित्वात्. यदि न द्योतिता एकानेकनित्यानित्यत्वादिविशेषवादित्वात्. न हि परलोकास्तित्वादीनि वैशेषिकैः कल्पितानीति न व्यवस्थाप्यन्ते. सचेद् इत्थंत्वम् आगच्छतीति. प्राणातिपातेनासेवितेन भावितेन बहुलीकृतेन नरकेषूपप्द्यते. सचेद् इत्थंत्वं आगच्छति मनुष्याणां सभागतां प्राप्नोति प्राणातिपातेनाल्पायुर् भवतीति विस्तरः. इदंप्रकार इत्थं. तद्भावः इत्थंत्वम् इति. [तिब्. 146ब्] शरीरेन्द्रियसंस्थानचेष्टाहारादिसाभाग्यकारणं अन्योन्याभिर् अभिसंबंधनिमित्तं च सभागतेति आचार्यसंघभद्रः. तद् एतद् एतेनैव प्रत्युक्तं. वयम् अपि ह्य् एवम् इच्छामः. न तु सा सभागता द्रव्यांतरं. त एव हि संस्कारास् तथाकारणभावं प्रतिपद्यंते इति.
(ii.42ब्च्द्) आसंज्ञिकम् असंज्ञिषु निरोधश् चित्तचैत्तानाम्
इति विस्तरः. असंज्ञिनाम् इदम् आसंज्ञिकं. असंज्ञिषु वा भवं आसंज्ञिकं. निरुध्यंते ऽनेन चित्तचैत्ताः. चित्तचैत्तान् वा निरुणद्धीति निरोधः. येनानागते ऽध्वन्य् अवस्थिताश् चित्तचैत्ताः कालांतरं तावत्कालं संनिरुध्यंते. नोत्पत्तुं लभंते इत्य् अर्थः. तद् आसंज्ञिकं नाम द्रव्यं. नदीतोयसंनिरोधवत्. सेतुवद् इत्य् अर्थः. ध्यानांतरिकावद् इति. यथा ब्रह्मपुरोहिता नाम ते देवा येषां केचिन् महाब्रह्माणः प्रदेशे भवंति ध्यानांतरिकायां. तथा बृहत्फला नाम ते देवा येषाम् असंज्ञिसत्त्वाः प्रदेशे भवंति. न भूम्यंतरे भवंति. उपपत्तिकाले च्युतिकाले च संज्ञिन इति संबंधनीयं. क्लिष्टेन मनसा प्रतिसंधिबंधात्.
उपेक्षायां च्युतोद्भवाव्
इति च नियमात्. पूर्वसमापत्तिसंस्कारपरिक्षयाद् इति. पूर्वसमापत्तिसंस्कारलक्षणस्य विपाकहेतोः परिक्षयात्. ततः समाप्तफलत्वाद् इत्य् अर्थः. [तिब्. 147अ] पूर्वसमापत्तिसंस्कारावेधपरिक्षयाद् इत्य् अपरे व्याचक्षते. अपूर्वानुपचयाच् चेति. चित्ताभावात् कर्मानुपचयाद् इत्य् अभिप्रायः. क्षिप्ता इव क्षीणवेगा इषवः पृथिवीम् इति. उपपद्यंते इति प्रकृतं. पूर्वम् अयं पदिर् जन्यर्थः. इदानीम् अर्थवशाद् गत्यर्थः. संपद्यंते गच्छंतीत्य् अर्थः. पृथिवीं गच्छंतीति वाक्यशेष इत्य् स्परे.
(ii.43) असंज्ञिनां सत्त्वानां समापत्तिर् असंज्ञा वा समापत्तिर् इति असंज्ञिसमापत्तिः. एतावत् तथाशब्देनान्वाकृष्यत इति. विपाक इत्य् एवमादेर् अर्थविशेषस्यानभिप्रीतेः. अव्याकृतम् एव हि आसंज्ञिकं. कुशलैव चेयं समापत्तिर् (अभिध्-क्-व्य् 160) इति वक्ष्यते.
पंचस्कंधको विपाक इति. च्युत्युपपत्तिकाले चित्तचैत्ताणां विपाकत्वसद्भावात्.
तत एव तल्लाभीति. यत एव परिहीणो ऽपि पुनर् उत्पाद्यासंज्ञिसत्त्वेषूपपद्यते तत एव तल्लाभी नियामं नावक्रामति. नियामावक्रांत्यैव ह्य् आर्यो ऽपायगत्यासंज्ञिकमहाब्रह्मकौरवोपपत्त्यष्टमभवादीनाम् अप्रतिसंख्यानिरोधं प्रतिलभते. विनिपातस्थानम् इवैनां पश्यंतीति. अपायस्थानम् इवैनां पश्यंतीत्य् अर्थः. गिरितटादिविनिपातस्थानम् इवेत्य् अपरे. निःसरणसंज्ञिनो हि तां समापद्यंते. पृथग्जना मोक्षसंज्ञिन इत्य् [तिब्. 147ब्] अर्थः. न चैवम् आर्या विपरीतसंज्ञिनः प्रतिलभंते. ध्यानवद् इति. चतुर्थध्यानलाभाद् अतीतानागतम् अनादिमति संसारे लब्धपूर्वं चतुर्थं ध्यानं प्रतिलभंते योगिनः. तस्मात् किं तद्वद् एव अतीतानागतां तां प्रतिलभंत इति पृच्छति. अन्ये ऽपि तावन् न प्रतिलभंत इति. पृथग्जना अपि तावन् नातीतानागतां प्रतिलभंते येषां तावद् इयं आत्मीया समापत्तिः. किं पुनर् आर्या येषाम् इयम् अनात्मीयेति. उचितापि सतीति. अनादिमति संसारे लब्धपूर्वापि महाभिसंस्कारसाध्यत्वान् महायत्नाभिनिष्पाद्यत्वाद् इत्य् अर्थः. अचित्तकत्वाच् च.
एकाध्विकाप्यते
समानाध्विका लभ्यत इत्य् अर्थः. यथा प्रातिमोक्षसंवर इति. प्रातिमोक्षसंवरो ऽष्टविधो ऽपि यदा समादीयते. तदा स प्राप्यते. प्राप्तिश् च तस्य तस्मिन्न् एव क्षणे उत्पद्यते. लब्धया तु तया समापत्त्या द्वितीयादिषु क्षणेषु प्रातिमोक्षसंवरवद् एव समन्वागतो भवति. यावन् न त्यजति तां समापत्तिं. तत्त्यागस् तु परिहाण्या भूमिसंचाराद् वा. अचैत्तिकत्वान् नानागता भाव्यते. कुशलं हि चित्तम् अनागतं भाव्यते. न त्व् इयं अचित्तकेति न तद्वद् अनागता भाव्यते.
(ii.44, 45अब्) निरोधाख्या तथैवेति.
समापत्तिर् इति वर्तते. एवशब्दो ऽवधारणे. यथासंज्ञिसमापत्तिनिर्देशे अथाशब्देन निरोधश् चित्तचैत्तानाम् इति अतिदिश्यते. तथैवेहापि [तिब्. 148अ] निरोधसमापत्तिनिर्देशे स एवंप्रकारो ऽतिदिश्यते इति. शांतविहारसंज्ञापूर्वकेण मनसिकारेणेति. विहारः कृईदाविहार इव विहारः. समाधिविशेषः. शांतो विहारः शांतविहारः. शांतविहारे संज्ञा शांतविहारसंज्ञा. सा पूर्वा अस्येति शांतविहारसंज्ञापूर्वकः मनसिकारो मनस्कार इति यो ऽर्थः अलुक्समासात् स मनसिकार इति भवति. संज्ञावेदितसमुदाचारपरिश्रांता हि तत्र शांतविहारसंज्ञिनस् तथाविधेन मनसिकारेण एनां निरोधसमापत्तिं समापद्यंते. तां त्व् असंज्ञिसमापत्तिं निःसरणसंज्ञापूर्वकेण मोक्षसंज्ञापूर्वकेणेत्य् (अभिध्-क्-व्य् 161) अर्थः. अपरपर्यायवेदनीया चेति. अपरपर्यायस् तृतीयादिजन्म. तत्र वेदनीया. कथं. य आर्यः कामधातौ निरोधसमापत्तिम् उत्पाद्य भवाग्र उत्पद्येत. तस्य सा परिपूरिकोपपद्यवेदनीया. यस् तु ततः परिहीणो रूपधाताव् उपपद्य कालांतरेण च पुनर् अपि भवाग्रं लब्ध्वा निरोधसमापत्तिम् उत्पाद्यानुत्पाद्य वा भवाग्र उपपद्यते. तस्य सापरपर्यायवेदनीया भवति. यस् त्व् इह परिनिर्वायात्. तस्यानियतेति.
उच्छेदभीरुत्वाद् इति. सर्वात्मभावोच्छेदभीरुत्वात्. व्यथंते ह्य् अपुनर्भवात् प्रपाताद् इव बालिशाः. असंज्ञिसमापत्तौ कस्माद् उच्छेदभयं न भवति. [तिब्. 148ब्] तत्र रूपसद्भावात्. रूपे ह्य् आत्मसंज्ञाम् अभिनिवेश्य तां समापद्यंते. निरोधसमापत्तौ तु आरूप्यभूमिकत्वाद् रूपम् अपि नास्तीति सर्वात्मभावभावं पश्यंतो न तां समापत्तुम् उत्सहंते. ननु चारूप्येषु निकायसभागजीवितेन्द्रियादयश् चित्तविप्रयुक्ता सन्ति. कस्मात् तत्रात्मसंज्ञाम् अभिनिवेश्य तां न समापद्यंते. विप्रयुक्तानाम् अदृश्यत्वात्. आर्यमार्गबलेन चोत्पादनात्. कथं पुनर् गम्यते आर्यमार्गबलेन तद् उत्पादनम् इति अत आह. दृष्टधर्मनिर्वाणस्य तदधिमुक्तित इति. दृष्टे जन्मनि निर्वाणं दृष्टधर्मनिर्वाणं. तस्य. तदधिमुक्तितः. तद् इति अधिमुक्तिः तदधिमुक्तिः. तेन वाधिमुक्तिस् तदधिमुक्तिः. तदधिमुक्तेस् तदधिमुक्तितः. दृष्टे जन्मनि एतन् निर्वाणम् इति आर्यस् ताम् अधिमुच्यते. केचित् पुनर् एवं पठंति. दृष्टनिर्वाणस्य तदधिमुक्तित इति. एवं च व्याचक्षते. दृष्टं निर्वाणम् अनेनेति दृष्टनिर्वाणः. तस्यार्यस्य तस्याम् अधिमुक्तिस् तदधिमुक्तिः. तदधिमुक्तेस् तदधिमुक्तितः. एतद् उक्तं भवति. दृष्टनिर्वाण आर्यस् ताम् अधिमुच्यते नान्य इति. ननु च पृथग्जनो ऽपि लौकिकेन मार्गेण दृष्टनिर्वाणः. न पृथग्जनो दृष्टनिर्वाणः. प्राप्तनिर्वाणस् तु भवेत्. तदुत्तरां हि भूमिं पृथग्जनः शांततः पश्यन् वैराग्यं लभते न निर्वाणम् इति अचोद्यम् एतत्. प्रयोगलभ्यैवेयम् इति. [तिब्. 149अ] इयम् अपि समापत्तिर् असंज्ञिसमापत्तिवद् एव महाभिसंस्कारसाध्येति. तथैव
एकाध्विकाप्यते.
कथम् इत्य् आह. न चातीता लभ्यत इति. यदा परिहीणः पुनस् ताम् उत्पादयति. तदा प्रयोगेणापूर्वैव लभ्यते. प्रातिमोक्षसंवरवद् इति विस्तरेण व्याख्येया. चित्तबलेन तद्भावनाद् इति. चित्तबलेनानागतभावनाद् इत्य् अर्थः.
बोधिलभ्या मुनेर्
इति. प्रयोगलभ्यैवेयम् इत्य् उत्सर्गस्यायम् अपवादः. श्रावकप्रत्येकबुद्धानां स विधिर् इति कृत्वा.
क्षयानुत्पादज्ञाने बोधिर्
इति वक्ष्यति. तेनाह. क्षयज्ञानसमकालम् इति विस्तरः.
सास्रवाश् च क्षयज्ञान
इति बुद्धा भगवंत एतां प्रतिलभंते. नास्ति बुद्धानां किंचित् प्रायोगिकं नामेति. योथोक्तं स्तोत्रकारेण
न ते प्रायोगिकं किंचित् कुशलं कुशलान्तग इच्छामात्रावबद्धा ते यत्रकामावसायितेति.
कथं पुनर् भगवान् उभयतोभागविमुक्त इति. क्लेशावरणं समापत्त्यावरणं चोभयतोभागः. ततो विमुक्तः. सिध्यत्य् उत्पादितायाम् इवेति. सिध्यति उभयतोभागविमुक्तो भगवां संमुखीकृतपूर्वायाम् इव. तस्यां वशित्वलाभात्. तत्संमुखीकारणकारणसामर्थ्ययोगतः. प्राग् एव ताम् इति विस्तरः. धर्मतैषा यद् बोधिसत्त्वश् चरमभविको भवाग्रलाभी भूत्वा चतुर्थध्यानसंनिश्रयेण दर्शनमार्गम् [तिब्. 149ब्] उत्पाद्य ततश् च व्युत्थाय भवाग्रं समापद्यते. ततो निरोधसमापत्तिं समापद्यते. ततो व्युत्थाय पुनश् चतुर्थध्यानसंनिश्रयेण भावाग्रिकभावनाप्रहातव्यक्लेशप्रहाणं कृत्वा क्षयज्ञानकालात् प्रभृति अनुत्तरसम्यक्संबुद्धो भवतीत्य् एवं शैक्षावस्थायां स ताम् उत्पादयतीति पाश्चात्याः कश्मीरमण्डलात् पश्चाद् भवाः पाश्चात्याः. नेत्रीपदम् इति शास्त्रनाम स्थविरोपगुप्तस्य. यत्रेदं वाक्यं. निरोधसमापत्तिम् उत्पाद्य क्षयज्ञानम् उत्पादयतीति वक्तवय्ं तथागत इति. सत्याभिसमये षोडशभिर् इति. दुःखे धर्मज्ञानक्षांतिम् आरभ्य यावन् मार्गे ऽन्वयज्ञनम् इति षोडशभिश् चित्तक्षणैः. भवाग्रवैराग्ये चाष्टादसभिर् इति. नवप्रकाराणां क्लेशानां भावाग्रिकाणां भावनाहेयानां प्रहाणाय नवानंतर्यमार्गा नव च विमुक्तिमार्गा इत्य् अष्टादशभिः. त एते चतुस्त्रिंशद् भवंति षोडश चष्टादश चेति. अधोभूमिका न पुनः प्रहेया भवंतीति. कामावचरादीनां क्लेशानां लौकिकेन मार्गेण पृथग्जनत्वावस्थायाम् एव प्रहीणत्वात्. यद्य् एष नियमः प्रहीणक्लेशप्रतिपक्षोत्पादनं न कर्तव्यम् इति. अथ किमर्थं प्रहीणेषु कामावचरेषु क्लेशेषु तत्प्रतिपक्षं धर्मज्ञानपक्षम् मार्गम् अभिसमयकाल
उत्पादयति. तन्नांतरीयकत्वाद् अन्वयज्ञानपक्षस्य मार्गस्य. [तिब्. 150अ] न ह्य् असत्यां धर्मज्ञानपक्षोत्पत्ताव् अन्वयज्ञानपक्षसंमुखीभावः संभवति. एतद् ध्य् अन्वयज्ञानस्यान्वयज्ञानत्वं यद् अतः पश्चाद् भवतीति. पाश्चात्या आहुः. किं पुनः स्याद् इति विस्तरः. को दोषः स्याद् यदि विसभागं सास्रवं चित्तम् अंतरा संमुखीकुर्यात् (अभिध्-क्-व्य् 163). वैभाषिका आहुः. व्युत्थानाशयः स्याद् इति विस्तरः. व्युत्थानभिप्रायः बोधिसत्त्वः स्यात्. व्युत्थानकुशलः स्याद् इत्य् अपरे. कुशलमूलार्थो ह्य् आशयार्थः. तद् एतद् उक्तं भवति. ईदृशानि कुशलमूलानि बोधिसत्त्वानां यैः संमुखीभूतैस् तावन् न व्युत्तिष्ठंते यावद् एकासन एवानुत्तरा सम्यक्संबोधिः प्राप्तेति. बहिर्देशका आहुह्. सत्यम् अव्युत्थानाशयो न तु यथा भवंतो वर्णयंतीति. पूर्वम् एव तु वर्णयंति. क्षयज्ञानसमकालम् इति यः पक्षः.
(ii.45च्द्) यद्य् अप्य् अनयोर् बहुप्रकारो विशेष इति. एका
ध्याने ऽंत्ये.
अपरा
भवाग्रजा.
एकां निःसरणसंज्ञया समापद्यते ऽपरां विहारकामतयेत्य् एवमादिबहुप्रकारविशेषः. साम्यं त्व् अनयोः.
कामरूपाश्रये भूते
इति. स्याद् रूपभव इति विस्तरः. यः क्वचिद् रूपभवः सर्वो ऽसौ भवः पंचव्यवचार इति चतुःकोटिकः. स्याद् रूपभवो न चासौ भवः पंचव्यवचारः. [तिब्. 150ब्] रूपावचराणां संज्ञिनां देवानां विसभागे चित्ते स्थितानाम् असंज्ञिसमापत्तिं निरोधसमापत्तिं च समापन्नानाम् असंज्ञिनां च देवानाम् आसंज्ञिके प्रतिलब्धे यो भवः. स्याद् भवः पंचव्यवचारो न चासौ रूपभवः. कामावचराणां सत्त्वानां सभागे चित्ते स्थितानां यो भवः. स्याद् रूपभवः स च भवः पंचव्यवचारः. रूपावचराणां संज्ञिनां देवानां सभागे चित्ते स्थितानां असंज्ञिनां च देवानाम् आसंज्ञिके ऽप्रतिलब्धे यो भवः. स्यान् नैव रूपभवो न चासौ भवः पंचव्यवचारः. कामावचराणां सत्त्वानां विसभागे चित्ते स्थितानाम् असंज्ञिसमापत्तिं निरोधसमापत्तिं च समापन्नानां यो भवः. आरूप्यभवश् च. तत्र प्रथमा कोटिर् उदाहरणं. रूपभवो रूपावचरं स्कंधपंचकं. पंचव्यवचारः पंचस्कंधक इत्य् अर्थः. व्यवचार इति काश्यपस्य तथागतस्य स्कंधसंज्ञा. विशेषेणावचारो व्यवचारः. अन्यथीभावेन विसंवादनम् इत्य् अर्थः. सो ऽस्यास्तीति व्यवचारः. अर्शआदिभ्यो ऽज् इत्य् अकारो मत्वर्थीयः. विसंवादनीत्य् अर्थः.
फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमेत्य्-
आदिना विसंवादनात्. तत्र यदि रूपधाताव् असंज्ञिसमापत्तिर् नेष्यते असंज्ञिसमापत्तिं निरोधसमापत्तिं [तिब्. 151अ] समापन्नानाम् इति नोच्येत. तेन रूपावचर्य् असंज्ञिसमापत्तिर् इति गम्यते. तत्र अपि त्व् अयं विशेष इति. तत्र साधर्म्ये ऽपि विशेषो भवति. पश्चाद् रूपधाताव् इति. य आर्या निरोधसमापत्तिम् उत्पाद्य ततः परिहीणा ध्यानं च लब्ध्वा रूपधाताव् उपपद्यंते. तैः परिहीणपूर्वैः. पूर्वाभ्यासवशाद् रूपधातौ निरोधसमापत्तिर् उत्पाद्येत. असंज्ञिसमापत्तिस् तु कामरूपधातौ प्रथमतो ऽपि पृथग्जनैर् उत्पाद्यत इत्य् अयं विशेषः.
किम् अप्य् अस्ति परिहाणिर् इति. निर्वाणसदृसीयम् समापत्तिः. कथम् अतः परिहाणिर् इत्य् असंभावयन् पृच्छति. उदायिसूत्रम् इति. आर्यशारिपुत्रभाषितम् एतत् सूत्रं. उदायी तु तत्र विबंधक इत्य् उदायिसूत्रम् इत्य् उच्यते. कथम् इति. श्रावस्त्यां निदानं. तत्रायुष्मां छारिपुत्रो भिक्षून् आमंत्रयते स्म. इहायुष्मंतो भिक्षुः शीलसंपन्नश् च भवति समाधिसम्पन्नश् च प्रज्ञासंपन्नश् च. सो ऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते च. अस्ति चैतत् स्थानम् इति यथाभूतं प्रजानाति. स न हैव दृष्ट एव धर्मे प्रतिपद्य् एवाज्ञाम् आरागयति. नापि मरणकालसमये. भेदाच् च कायस्यातिक्रम्य देवान् कवडीकारभक्षान् अन्यतमस्मिन् दिव्ये मनोमये काय उपपद्यते. स तत्रोपपन्नो ऽभीक्ष्णं संज्ञावेदितनिरोधं [तिब्. 151ब्] समापद्यते च व्युत्तिष्ठते च. अस्ति चैतत् स्थानम् इति यथाभूतं प्रजानाति. तेन खलु पुनः समयेनायुष्मान् उदायी तस्याम् एव पर्षदि संनिषण्णो ऽभुत् संनिपतितः. अथायुष्मान् उदायी आयुष्मंतं शारिपुत्रम् इदम् अवोचत्. अस्थानम् एतद् आयुष्मं छारिपुत्रानवकाशो यद् भिक्षुर् अन्यतमस्मिं दिव्ये मनोमये काये उपपन्नो ऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्त्ःअते चास्ति चैतत् स्थानम् इति यथाभूतं प्रजानाति. द्विर् अपि त्रिर् अपि आयुष्मां उदायी आयुष्मंतं शारिपुत्रम् इदम् अवोचत्. अस्थानम् एतद् आयुष्मन्. इति पूर्ववत्. अथायुष्मतः शारिपुत्रस्यैतद् अभवत्. यावत् त्रिर् अपि मे अयं भिक्षुर् भाषितं प्रतिवहति प्रतिक्रोशति. न च मे कश्चित् सब्रह्मचारी भाषितम् अभ्यनुमोदते. यन् न्व् अहं येन भगवांस् तेनोपसंक्रामेयं. अथायुष्मां छारिपुत्रो येन भगवांस्
तेनोपसंक्रांतः. उपसंक्रम्य भगवतः पादौ शिरसा वंदित्वैकांते निषण्णः. एकांते निषण्णश् चायुश्मां छारिपुत्रो भिक्षून् आमंत्रयते स्म. इहायुष्मंतो भिक्षुः शीलसंपन्नश् च भवति. पूर्ववत्. तेन खलु समयेनायुष्मान् उदायी पूर्ववत्. एवं द्विर् अपि त्रिर् अप्य् आयुष्मान् उदायी आयुष्मंतं शारिपुत्रम् इदम् अवोचत्. पूर्ववत् (अभिध्-क्-व्य् 165). अथायुष्मतः शारिपुत्रस्यैतद् अभवत्. शास्तुर् अपि मे पुरस्ताद् अयं भिक्षुर् यावत् त्रिर् अपि भाषितं प्रतिवहति प्रतिक्रोशति. न च मे कश्चित् सब्रह्मचारी [तिब्. 152अ] भाषितम् अभ्यनुमोदते. यन् न्व् अहं तूष्नीं स्यां. अथायुष्मां छारिपुत्रस् तूष्णीम् अभूत्. तत्र भगवान् आयुष्मंतम् उदायिनम् आमंत्रयते स्म. कं पुनस् त्वम् उदायिन्न् अन्यतमं दिव्यं मनोमयं कायं संजानीषे. ननु यावद् एवारूपिणं संज्ञामयं. एवं भदन्त. त्वं तावन् मोहपुरुषान्ध एव सन्न् अचक्षुश् चक्षुष्मता शारिपुत्रेण भिक्षुणा सार्धम् अभिधर्मे ऽभिविनये संलपितव्यं मन्यस इति. तत्र भगवान् आयुष्मंतम् उदायिनं संमुखम् अवसाद्य आयुष्मंतं आनन्दम् आमंत्रयते स्म. त्वम् अप्य् आनन्द स्थविरं भिक्षुं विहेठ्यमानम् अध्युपेक्षसे. कारुण्यम् अपि ते मोहपुरुष नोत्पन्नं स्थविरे भिक्षौ विहेठ्यमान इति. तत्र भगवान् आयुष्मंतम् उदायिनम् आयुष्मंतं चानन्दं संमुखम् अवसाद्य भिक्षून् आमंत्रयते स्म. इह भिक्षवो भिक्षुः शीलसंपन्नश् भवति. समाधिसंपन्नश् च विस्तरेण यावद् अस्ति चैतत् स्थानम् इति यथाभूतं प्रजानातीत्य् उक्त्वा भगवान् उत्थायासनाद् विहारं प्राविक्षत् प्रतिसंलयनायेति. अत्रायुष्मान् उदायी आरूप्यावचरो ऽयं मनोमयः काय उक्त इति मनसिकृत्वा प्रतिबंधम्
अकार्षीत्. तत्र हि रूपं नास्ति. मन एव तु ससंप्रयोगम् अस्ति. तस्मान् मनोमयः कायः. तत्र चेयं समापत्तिर् न समापद्यते इति तस्याभिप्रायः. आर्यशारिपुत्रस्य [तिब्. 152ब्] तु रूपावचरो दिव्यो मनोमयकायो ऽभिप्रेतः शुक्लशोणितम् अनुपाय्य प्रादुर्भावात्. अत एव चासाव् आयुष्मान् उदायी भगवता पृष्टः. कं पुनस् त्वं उदायिन्न् अन्यतमं दिव्यं मनोमयं कायं संजानीषे. ननु यावद् एवारूपिणं संज्ञामयम् इति. तेनाप्य् एवं भदंतेति प्रतिपन्नं. भगवान् अपि रूपावचरम् एव दिव्यं मनोमयं कायम् अभिप्रेत्यार्यशारिपुत्रस्य मतं समर्थयन् तम् आयुष्मंतम् उदायिनम् अवसादयति स्म. त्वं तावन् मोहपुरुषान्ध एव सन्न् अचक्षुश् चक्षुष्मता शारिपुत्रेण भिक्शुणा सार्धम् अभिधर्मे ऽभिविनये संलपितव्यं मन्यस इति. अस्ति चैतत् स्थानम् इति यद् एतन् निरोधसमापत्तेः समापदनं व्युत्थानम् चेत्य् एतत् स्थानं यथाभूतं प्रजानाति. प्रतिपद्य् एवेति पूर्वम् एवेत्य् अर्थः. आज्ञाम् आरागयतीत्य् अर्हत्त्वं प्रप्नोतीत्य् अर्थः. इयं च समापत्तिर् भावाग्रिकीति विस्तरः. निरोधसमापत्तिर् भावाग्रिकी. यश् च तल्लाभी. तस्व भवाग्र एवोपपत्तिः स्यान् न रूपधातौ. उक्तं च सूत्रे. स तत्र रूपधाताव् उपपन्नो ऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते चेति. तस्माद् अस्त्य् अतः परिहाणिर् इति गम्यते. युज्यत एवैतद् वैभाषिकाणां (अभिध्-क्-व्य् 166). सौत्रांतिकानां तु कथम् एतत्. आर्य एव हि निरोधसमापत्तिलाभी न चार्यमार्गाद् अस्ति परिहाणिर् इति सौत्रांतिकसिद्धांतः. [तिब्. 153अ] तस्यार्यस्य कथम् उपरिभूमिकाद् आर्यमार्गात् परिहाणिर् इति इष्यते. तेषाम् अप्य् एतत् सूत्रं न विरुध्यते. कथं. यो हि
कश्चिद् भवाग्रलाभी नियामम् अवक्रामति. सो ऽनागामी सन् निरोधसमापत्तिम् उत्पादयेत्. स भवाग्रान् निरोधसमापत्तेश् च परिहीयेत. न तु मार्गात्. ऊर्ध्वभूमिकस्यार्यमार्गस्य कदाचिद् अनुत्पादितत्वात्. स परिहीणो भूत्वा ध्यानम् उत्पाद्य रूपधाताव् उपपद्येत्. तस्माद् अस्त्य् अतः परिहाणिर् न चार्यमार्गात् परिहाणिर् इति न स्वसिद्धान्तविरोधः. नवानुपूर्वसमापत्तय इति. चत्वारि ध्यानानि चत्वार आरूप्या निरोधसमापत्तिश् च. प्राथमकल्पिकं प्रतीति. आदितः समापत्तिविधायकं प्रतीत्य् अर्थः.
नियतोभयथावेदनीयत्वाद् इति. नियतवेदनीयासंज्ञिसमापत्तिर् उपपद्यवेदनीयत्वात्. उभयथावेदनीया निरोधसमापत्तिर् नियतानियतवेदनीयेत्य् अर्थः. नियतवेदनीया अनागामिनः. अनियतवेदनीयार्हत इहैव परिनिर्वाणात्. प्रथमोत्पादनतो ऽपीति. असंज्ञिसमापत्तिं कश्चित् प्रथमं मनुष्येषूत्पादयति. कश्चिद् रूपधातौ. निरोधसमापत्तिं तु मनुष्येष्व् एवोत्पादयति. परिहीणस् तु रूपधातौ. [तिब्. 153ब्] अथ कस्मान् मनुष्येष्व् एवैनाम् उत्पादयति. संज्ञावेदनाद्वारेण वितर्कविचारादिचैत्तप्रचारपरिखिन्नो ऽनागामी तां तेन विहारेण सुखं विहरेयम् इति निरोधसमापत्तिम् उत्पादयति. रूपधातूपपन्नस् त्व् अनागामी रूपधातोः शांतत्वान् न तथा तत्रत्यचैतसिकप्रवृत्त्या पीड्यत इति न प्रथमतस् तत्रोत्पादयति. परिहीणस् तु पूर्वाभ्यासतस् ताम् उत्पादयति. आरूप्यधातूपपन्नो ऽप्य् अत एव शांतत्वान् नैवसंज्ञानासंज्ञायतनोपपन्नो नोत्पादयति. निरुपधिशेषनिर्वाणप्रसंगाद् वा. तत्र हि रूपं नास्ति चित्तचैत्ता यदि निरुध्येरन् परिनिर्वाणम् एवास्य स्यात्. चित्तविप्रयुक्तानां केवलानाम् अवस्थानासामर्थ्यात्. नियतवेदनीयस्य कर्मणो ऽपरिसमाप्तफलस्य विघ्नभावेनावस्थानान् न परिनिर्वाणसंभवः. असंज्ञिसमापत्तिं तु मोक्षसंज्ञया निःसरणसंज्ञापूर्वकेण मनसिकारेण समापद्यत इति रूपधाताव् अपि प्रथमतः समापद्यते.
कस्मात् पुनर् एते इति विस्तरः. सर्वचित्तचैत्तनिरोधस्वभावत्वात् उभे अप्य् एते समापत्ती चित्तचैत्तनिरोधे इति वक्तव्ये इत्य् अभिप्रायः. तत्प्रातिकूल्येन तत्समापत्तिप्रयोगाद् इति. संज्ञावेदनाप्रातिकूल्येन तयोः समापत्त्योः प्रयोगात्. संज्ञाप्रातिकूल्येनासंज्ञिसमापत्तिप्रयोगः [तिब्. 154अ] संज्ञा रोगः संज्ञा शल्यः संज्ञा गण्डः एतच् छांतं एतत् प्रणीतम् इति विस्तरः. संज्ञावेदितप्रातिकूल्येन निरोधसमापत्तिप्रयोगः. परचित्तज्ञानवचनवद् (अभिध्-क्-व्य् 167) इति. यथा परचित्तज्ञानवचनं न च परचित्तज्ञानेन चैत्ता न ज्ञायंते कदाचित्. अथ च परस्य चित्तं ज्ञास्यामीत्य् एवं प्रथमतः प्रयोगात् परचित्तज्ञानम् इत्य् उच्यते. न परचित्तचैत्तज्ञानम् इति. तद्वद् इहाप्य् अनयोः समापत्त्योस् तथा वचनं.
तत्राचित्तकान्य् एव निरोधसंज्ञिसमापत्त्यासंज्ञिकानीति वैभाषिकादयः. अपरिस्फुटमनोविज्ञानसचित्तकानीति स्थविरवसुमित्रादयः. आलयविज्ञानसचित्तकानीति योगाचारा इति सिद्धांतभेदः. तस्माद् इदम् उपन्यस्यते. कथम् इदानीं बहुकालनिरुद्धाद् इति विस्तरः. बहुकालनिरुद्धग्रहणं समनंतरनिरुद्धनिरासार्थं. समनंतरनिरुद्धादीदानीं कथं भवति. यदि समनंतरनिरुद्धम् अस्तीत्य् अभ्युपगतं बहुकालनिरुद्धम् अप्य् अस्तीति किं नाभ्युपगम्यते इति वैभाषिकाः. न समनंतरनिरुद्धस्यास्तित्वं ब्रूमः अपि तु वर्तमानं चित्तम् आत्मनो ऽन्यचित्तहेतुभावं व्यवस्थाप्य निरुध्यते ऽन्यच् चोत्पद्यते तुलादण्डनामोन्नामवत्. तच् च निरुद्धम् अपरं च चित्तम् [तिब्. 154अ] उत्पन्नं भवतीत्य् अनंतरनिरुद्धाच् चित्ताच् चित्तान्तरम् उत्पद्यते इत्य् उच्यते. वर्तमानसामीप्ये वर्तमानवद् इति कृत्वा. अपरे पुनर् आहुर् इति सौत्रांतिकाः. कथं तावद् आरूप्योपपन्नानाम् इति विस्तरः. तावच्छब्दः क्रमार्थः. इदम् एव तावद् दृष्टांतार्थं वक्तव्यम् इत्य् अर्थः. रूपस्य हि समनंतरप्रत्ययो नेष्यते. तत् कथम् उत्पद्यते. तस्माच् चित्ताद् एव तज् जायते न रूपाद् इति ब्रूमः. अन्योन्यबीजकं ह्य् एतद् उभयम् इति. चित्ते ऽपि सेन्द्रियस्य कायस्य बीजम् अस्ति काये च सेन्द्रिये चित्तस्येति. परिपृच्छायाम् इति. परिपृच्छानामशास्त्रं कृतिः स्थविरवसुमित्रस्य. स तस्याम् आह. पंचवस्तुकादीन्य् अपि हि तसय संति शास्त्राणि. तस्माद् विशिनष्टि. तस्यैव दोष इति. कतमः स दोषः. कथम् इदानीं बहुकालनिरुद्धाच् चित्ताद् इति य उक्तः. त्रयाणां संनिपात इति. इंद्रियविषयविज्ञानानां. संज्ञावेदनयोर् अप्य् अत्र निरोधो न स्याद् इति.
भदंतवसुमित्रस्यैतन् मतं. सचित्तकत्वे ऽपि तस्या निरोधसमापत्तेः संज्ञावेदनयोस् तत्र निरोध इति. तस्माद् भदंतघोषक एवं प्रसंगं करोति. अविद्यासंस्पर्शजम् इति. अविद्यासंहितः स्पर्शो ऽविद्यासंस्पर्शः. तस्माज् जातम् अविद्यासंस्पर्शजं. न तु वेदनोत्पत्ताव् इति. न तु वेदनोत्पत्तौ स्पर्शो विशेषित ईदृशः स्पर्शो वेदनाप्रत्यय इति. स एव भदंतघोषक उपसंहरति. तस्माद् अचित्तिकेति. [तिब्. 155अ] कथम् अचित्तिकायाः समापत्तित्वम् इति. ध्यानादिसमापत्तित्वम् अर्हति. समाधिना हि चित्तचैत्ताः समा आपाद्यंते एकग्रीक्रियंत इत्य् एवं मत्वा पृच्छति (अभिध्-क्-व्य् 168). महाभूतसमतापादनाद् इति. महाभूतानि समान्य् आपद्यंते ऽनयेति समापत्तिः. एवम् अस्यां निओधसमापत्तौ ध्यानादिषु च समापत्तित्वं. का पुनर् इह महाभूतानां समता. चित्तोत्पत्तिप्रातिकूल्यसमवस्थानं. समागच्छंतीति समापद्यंते. समागच्छंति ताम् इति समापत्तिः कर्मसाधनं. ध्यानादीन्य् अपि समागच्छंति योगिनः. तस्माद् ध्यानादीनाम् अपि समापत्तित्वं भवति.
द्रव्यत इति स्वलक्षणतः. चित्तोत्पत्तिप्रतिबंधनात्. यस्माच् चित्तोत्पत्तिं प्रतिबध्नीतः. न. समापत्तिचित्तेनैवेति. नैतद् एवं. कस्मात्. समापत्तिचित्तेनैव तत्प्रतिबंधनात्. चित्तोत्पत्तिप्रतिबंधनाद् इत्य् अर्थः. कथम् इति तत् प्रतिपादयति. समापत्तिचित्तम् एव हीति विस्तरः. तत् समापत्तिचित्तम् एव नान्यद् द्रव्यं. चित्तांतरविरुद्धं अनागतचित्तविरुद्धम् उत्पद्यते. येन चित्तेन कालांतरं नात्यंतं अप्रवृत्तिमात्रं भवति. मात्रशब्दो [तिब्. 155ब्] द्रव्यांतरव्यावर्तनार्थः. तद्विरुद्धाश्रयापादनात्. चित्तविरुद्धस्याश्रयस्य संतानस्यापादनात् कारणात्. यद् एतद् अप्रवृत्तिमात्रं. सासौ समापत्तिर् इति प्रज्ञप्यते. प्रज्ञप्तिधर्मो ऽयं न द्रव्यधर्म इत्य् अर्थः. यदि न द्रव्यधर्मः कथम् असौ संस्कृतम् इति प्रज्ञप्यते इत्य् अत आह. तच् चाप्रवृत्तिमात्रं. न पूर्वम् अभूत् नोत्तरकालं व्युत्थितस्य योगिनो भवतीति. संस्कृतासौ समापत्तिर् असंज्ञिसमापत्तिर् निरोधसमापत्तिर् वा प्रज्ञप्यते संव्यवहारतो न तु द्रव्यतः. अथ वेति विस्तरः. आश्रयस्यैव तथासमापादनं तथाव्यवस्थानम्. अवस्थाविशेषः. समापत्तिजनिताया अस्याः समापत्तिर् इत्य् अर्थः. स चावस्थाविशेषः पूर्वं नासीत् पाश्चाच् च न भवति व्युत्थितस्येति संस्कृतत्वं न विरुध्यते. अथ वा समापदनम् इति पाठः. संस्कृतावस्थाविशेषत्वाद् अस्याः समापत्तेः संस्कृतत्वं सिध्यतीत्य् अर्थः. एवम् आसंज्ञिकम् इति विस्तरः. चित्तम् एवासौ योगी तत्रासंज्ञिषु चित्तप्रवृत्तिविरुद्धं लभते. तच् चाप्रवृत्तिमात्रं चित्तचैत्तानाम् इति वाक्यशेषः. आसंज्निकम् इति प्रज्ञप्यते न तु द्रव्यतो ऽस्तीत्य् अभिप्रायः.
(ii.46अब्) य ऊष्मण इति विस्तरः. ऊष्मणो विज्ञानस्य च जीवितप्रतिबद्धा प्रवृत्तिः. तस्माज् जीवितम् ऊष्मणो विज्ञानस्य चाधार उच्यते स्थितिहेतुस् तयोर् एव. नित्यानिवृत्तिप्रसंग [तिब्. 156अ] इति. नित्यम् एषां स्रोतः प्रसज्येत. निकायसभागस्य स्थितिकालावेध इति. निकायसभागो व्याख्यातः. त एव तथाभूतास् संस्कारा रूपादिस्कंधस्वभावा इति. तेषां स्थितिः प्रबंधः. तस्याः कालो यावत् तेन स्थातव्यं. त एव तावंतः संस्कारक्षणाः. तस्यावेधः (अभिध्-क्-व्य् 169) प्रतिसंधिक्षणे पूर्वजन्मकर्मणो हेतुभावव्यवस्थानं. कः पुनर् असौ हेतुः. सामर्थ्यविशेषः. स हि स्कन्धप्रबन्धलक्षणायाः स्थितेः क्षणपरंपरया कारणं भवति. अत एव स्थितिकालावेध उच्यते. तावत्कालं प्रवाहाक्षेपलक्षणत्वात्. तावत् सो ऽवतिष्ठत इति. स निकायसभागः. सस्यानां पाककालावेधवत्. यथा सस्यानां पाककालावेधः सामर्थ्यविशेषस्वभावो बीजेनांकुर एवाधीयते यः क्षणपरंपरया आ पाककालात् सस्यसंतानहेतुर् भवति. तद्वद् एतत्. क्षिप्तेषुस्थितिकालावेधवच् च. यथा क्षिप्तस्येषोः शरस्य स्थितिर् आकाशदेशांतरोत्पत्तिः संतानानुवृत्तिः. तस्याः कालो मर्यादा यतः परेण सा न भवति. तस्यावेधो हेतुव्यवस्थानं. कः पुनर् असौ हेतुः. प्रयत्नभूतातिशयनिर्वृत्तवायुधातुजनितसामर्थ्यविशेषः. तद्यथा क्षिप्तेषुस्थितिकालावेधो न द्रव्यांतरं तद्वद् अयम् आयुर्लक्षणम् आवेधो द्रष्टव्यः.
यस् तु मन्यत इति वैशेषिकः. संस्कारो नाम गुणविशेष इति. पृथिव्यादीनां वैशेषिको गुणः संस्कारो नाम कर्मजः [तिब्. 156ब्] कर्महेतुश् च वेगद्वितीयनामा इषौ जायते. यद्वशाद् यस्य गुणस्य वशाद् गमनम् इषोर् आ पतनाद् भवतीति. तं प्रत्य् अदृष्टान्त एषः. यथा हि संस्कारो नाम भावांतरम् अस्ति. एवम् आयुर् स्याद् इति. तेन तन् मतं दूषयत्य् आचार्यः. तस्येति विस्तरः. तस्य वैशेषिकस्य तदेकत्वात् संस्कारैकत्वात्. प्रतिबंधाभावाच् च प्रतिबंधस्य काष्ठप्रत्याघातादिलक्षणस्याभावाच् च. किं. देशांतरैः शीघ्रतरतमप्राप्तिकालभेदानुपपत्तिः. शीघ्रा शीघ्रतरा शीघ्रतमा प्राप्तिः शीघ्रतरतमप्राप्तिः. कैः. सह देशांतरैर् आकाशदेशादिभिः. तस्याः कालः. तस्य भेदः. तस्यानुपपत्ति. शीघ्रा शीघ्रतरा शीघ्रतमा देशांतरैः सह प्राप्तिर् नोपपद्यते. पूर्वोक्ताद् अस्मात् कारणद्वयात् संस्कारस्याविशिष्टत्वात् पतनानुपपत्तिश् च. पतनं च इषोर् नोपपद्यते सति संस्कारे. न ह्य् एतद् इष्टम् सति कारणे कार्यं न भवतीति. वायुना तत्प्रतिबंध इति चेत् स्यान् मतं वायुर् अत्र प्रतिबंधः. प्रतिबंधविशेषाच् छीघ्रतरतमप्राप्तिकालभेदः पतनं चोपपद्यत इति स्पर्शवद्द्रव्यसंयोगाद् अभावः कर्मण इति वचनात्. अत्रोच्यते अर्वाक्पतनप्रसंगो ज्याविभागानंतरम् एवार्वाग् अवरत एव वायुसंयोगात् स इषु पतेत्. अथ प्रतिबध्यमानो ऽपि वायुना नार्वाक् पतेत् न वा कदाचित् [तिब्. 157अ] पतेत् न पश्चाद् अपि पतेद् इत्य् अर्थः. किंकारणं. वायोर् अविशेषात्. यथा हि समीपे वायुर् एवं दूरे ऽपीति.
चतुर्थी विषमापरिहारेणेति. अत्यशनादेर् विषमस्यापरिहारेण. क्षीण आयुषि पुण्यक्षयस्य मरणे नास्ति सामर्थ्यं. तेन तृतीया कोटिर् न प्राप्नोति. तस्माद् उभयक्षये सति मरणम् उभयक्षयाद् इति. उभयक्षये सतीति यो ऽर्थः. (अभिध्-क्-व्य् 170) सो ऽर्थ उभयक्षयाद् इत्य् अयम् अर्थ उक्तो वेदितव्यः. आयुरक्षयाद् अपि मरणं भवतीति कथं गम्यते. सस्यादिसाधर्म्यात्. सस्यादीनां हि बीजावेधपरिक्षये सति सत्सु प्रत्ययांतरेषु क्षेत्रोदकादिषु दृष्टा संताननिवृत्तिर् अप्राप्यैव फलकालं फलपाककालं वा. बीजस्य नातिसारत्वात्. सत्य् अपि च सारबीजाक्षेपे सलिलादिस्थितिवृद्धिप्रत्याभावाद् दृष्टा संताननिवृत्तिः. सारबीजाक्षेपस्थितिवृद्धिप्रत्ययाभावे ऽपि दृष्टा. यदा बीजाक्षेपश् च परिसमाप्तो भवति सलिलस्य चाभावः. सत्य् अपि च सारबीजाक्षेपे सलिलादिस्थितिवृद्धिप्रत्यये च जंगमाद्युपक्रमकृता दृष्टा सस्यादीनां संताननिवृत्तिर् इति. यस्याश्रयोपघाताद् उपघातस् तत्संतत्यधीनत्वाद् इति. बहिर्देशिकमतम् एतत्. आश्रयसंततिप्रतिबद्धं तद् आयुर् इति संतत्युपनिबद्धम् इत्य् उच्यते. काश्मीरमते ऽपि स एवार्थः. शब्दमात्रं तु भिद्यते. सांतरायं निरंतरायम् इति. अथ वा संतत्युपनिबद्धम् इति स्वसंतत्युपनिबद्धं संतानवर्त्य् एव तत् केवलं न तु सकृद् उत्पन्नं तिष्ठतीति [तिब्. 157ब्] सांतरायम् इत्य् उच्यते. अनेनागमेन अस्त्य् अकालमृत्युर् इति दर्शयन्न् आह. सूत्रे ऽप्य् उक्तं चत्वार आत्मभावप्रतिलंभा इति विस्तरः. आत्मसंचेतना आत्मना मारणं. परसंचेतना परेण मारणं. बुद्धानां चेति वक्तव्यं. किम्. आत्मसंचेतनैव क्रमते. स्वयंमृत्युत्वात्. अनुपक्रमणधर्माणो हि बुद्धा भगवंतो
आयुरुत्सर्गवशित्वलाभिनश् च. प्रायेणेति ग्रहणं चतुर्थकोट्यभिहितनारकांतराभविकादिपरिवर्जनार्थं. राजर्षयश् चक्रवर्तिपूर्वा प्रव्रजिताः. जिनदूतो यो बुद्धेन भगवता दूतः कश्चित् संप्रेषितः तद्यथा शुकः कश्चिद् भगवता आम्रपाल्याः प्रेषितो लिच्छविभिश् च योग्यां कुर्वाणैर् दृष्टः शरजालेनापूर्यमाणो ऽपि मारयितुं न शक्यते. यावद् धि स दूतकृत्यं न करोति तावन् नात्मसंचेतना क्रमते न परसंचेतना. जिनादिष्ट इयंतं कालम् अनेन जीवितव्यम् इति य आदिष्टो भगवता. धर्मिलादयः पूर्वयोगविद्भ्य आगमितव्याः. आदिशब्देन चान्ये ऽपि तत एव चागमयितव्याः. तेषां नात्मसंचेतना क्रमते न परसंचेतना. चरमभविकानां च ये तस्मिन्न् एव जन्ननि अर्हत्त्वं प्राप्नुवंति. बोधिसत्त्वमातुस् तत्गर्भाया बोधिसत्त्वगर्भायाः. चक्रवर्तिमातुः चक्रवर्तिगर्भाया नात्मसंचेतना [तिब्. 158अ] न परसंचेतना. यदि तर्हि सर्वेषां रूपारूप्यावचराणां नात्मसंचेतना न परसंचेतना अथ कस्मात् सूत्रे उक्तम् इति विस्तरः. तत्र चोभयं नास्तीति. तत्र नैवसंज्ञानासंज्ञायतने स्वभूमिक आर्यमार्गो नास्ति यावद् एव संज्ञासमापत्तिस् तावद् आज्ञाप्रतिवेध इति वचनात्. नाप्य् उपरिभूमिसामंतक ऊर्ध्वभूम्यभावात्. परभूमिक आर्यमार्ग इत्य् आकिंचन्यायतनभूमिकः.
आर्याकिंचन्यसाम्मुख्याद् भवाग्रे त्व् आस्रवक्षय
इति वचनात्. पर्यंतग्रहणात् तर्हीति. तर्हीत्य् अर्थांतरविवक्षायां निपातः. तदादिसंप्रत्यय इति. तस्य पर्यंतस्य नैवसंज्ञानासंज्ञायतनस्यादिश् चत्वारि ध्यानानि त्रयश् च शेषा आरूप्याः. न तु कामधातुस् तदादिर् असमाहितत्वेन विसादृश्यात्. समापत्तितो वा ध्यानारूप्या एव तदादिः. नवानुपूर्वसमापत्तय इति वचनात्. तत्र संप्रत्ययस् तदादिसंप्रत्ययः. अस्ति क्वचिद् अन्यत्राप्य् एवं दृष्टम् इति अस्तीत्य् आह. क्वचिद् आदिना पर्यंत इत्यादि.तद्यथा देवा ब्रह्मकायिका इति. देवा ब्रह्मकायिकाः तत्पर्यंतग्रहणाच् च ब्रह्मपुरोहिता महाब्रह्माणश् च प्रथमा सुखोपपत्तिः. तद्यथा देवा आभास्वरा इति. आभास्वरास् तदादिग्रहानाच् च परीत्ताभा अप्रमाणाभाश् च द्वितीया सुखोपपत्तिर् इति. तिस्र एव हि सुखोपपत्तय [तिब्. 158ब्] इष्यंते
सुखोपपत्तयस् तिस्रो नव त्रिध्यानभूमय
इति वचनात्. एष हि दृष्टांतधर्म इति. एतद् दृष्तांतचरितं यद् एकम् अपि तत्प्रकारं निर्दिशते न सर्वं शेषसंप्रत्ययश् च भवति. तद्यथा अनित्यः शब्दः. कृतकत्वात् यथा घट इति पटादीन्य् अपि गृह्यंते. तद्यथाशब्दस्य दृष्टांतवाचकत्वात्. अनुपसंहार एष इति. अदृष्टांत इत्य् अर्थः. मनुष्यास् तदेकत्याश् च देवा इति. तदेके देवाः षट् कामावचरा देवाः प्रथमाभिनिर्वृत्तवर्ज्याश् च प्रथमध्यानोपपन्ना देवा इत्य् एतावंत एव नानात्वकाया नानात्वसंज्ञिनः सत्त्वा नैतद्व्यतिरिक्ताः संतीति नायं तद्यथाशब्दो दृष्टांतवाचकः. तस्माद् उपदर्शनार्थ एवायं द्रष्टव्यः. उपदर्शनार्थत्वे च सति तद् एव स्थितम् एतत्. पर्यंतग्रहणात् तदादिसंप्रत्यय इति.
(ii.46च्द्) विपर्ययाद् असंस्कृत इति. यत्रैतानि न भवंति. सो ऽसंस्कृत इति. ननु च स्थितिर् असंस्कृतलक्षणम् अस्ति. नासंस्कृतस्य स्थितिर् द्रव्यांतररूपास्ति. द्रव्यांतररूपाणि चेह संस्कृतलक्षणानीष्यंत इत्य् अचोद्यम् एतत्. ननु च त्रीणीमानीति विस्तरः. कथं. सूत्रे त्रीणीमानि भिक्षवः संस्कृतस्य संस्कृतलक्षणानि. कतमानि त्रीणि. संस्कृतस्य भिक्षव उत्पादो ऽपि प्रज्ञायते. व्ययो ऽपि प्रज्ञायते. स्थित्यन्यथात्वम् अपीति. चतुर्थम् अप्य् अत्र वक्तव्यं स्याद् इति वैभाषिकाः. किं चात्र नोक्तम् इति चोदकः. स्थितिर् इति वैभाषिकाः. यत् तर्हीदं स्थित्यन्यथात्वम् अपीति [तिब्. 159अ] स्थितिशब्दो ऽत्र श्रूयते. कथम् इदम् उच्यते स्थितिर् नोक्तेति चोदकाभिप्रायः. जराया एष पर्याय इति. जरेयम् उक्ता स्थितेर् अन्यथात्वं स्थित्यन्यथात्वम् इति. तद्यथा जातेर् उत्पाद इति पर्यायः. अनित्यतायाश् च व्ययः. तथा जरायाः (अभिध्-क्-व्य् 172) स्थित्यन्यथात्वं पर्याय इति. कस्मात् पुनर् लक्षणचतुष्टे सति भगवता त्रीण्य् एवोक्तानीति. अत आह. ये हि धर्मा इति विस्तरः. उद्वेजनार्थं विनेयानां जातिजरानित्यता इति धर्माणां लक्षणान्य् उक्तानि. आभिप्रायिको हि सूत्रनिर्देशो न लाक्षणिको यथाभिधर्मः. जरानित्यते पुनः प्रत्युत्पन्नाद् अतीतम् इति. संचारयति इत्य् अधिकारो ऽनुवर्तते. जरानित्यते प्रत्युत्पन्नाद् अध्वनो ऽतीतम् अध्वानं संचारयतः. कस्मात्. दुर्बलीकृत्य विघातात्. जरा दुर्बलीकरोति. अनित्यता निहंतीति कृत्वा. ननु चानित्यतैव धर्मं प्रत्युत्पन्नाद् अध्वनो ऽतीतम् अध्वानं संचारयति. न जरा. जरा हि केवलं धर्मं दुर्बलीकरोति. कस्माद् एवम् उच्यते. जरानित्यते प्रत्युत्पन्नाद् अतीतं संचारयत इति. आह. दुर्बलीकरणं अपि तदध्वसंचारायैव वर्तते. न ह्य् अदुर्बलीकृतस्याध्वसंचारो ऽस्तीति जरापि तत्संचारे व्यवस्थाप्यते. असंस्कृतस्यापि च स्वलक्षणस्थितिभावाद् इति. स्वलक्षणे स्थितिः. स्थित्या भावः. तस्मात् स्थितिभावात्. असौ स्थितिः संस्कृतलक्षणं न व्यवस्थापिता. स्थितिर् ह्य् असंस्कृतावस्थाविशेषलक्षणया स्थित्या [तिब्. 159ब्] सदृशीति तस्यासंस्कृतस्य संस्कृतत्वप्रसंगपरिजिहीर्षया न लक्षणम् उक्तम् इत्य् अभिप्रायो भगवतो धर्मस्वामिनः.
अन्ये पुनः कल्पयंतीति. सूत्रे ऽपि स्थितिर् उक्तेति कथयंति. स्थितिं जरां चाभिसमस्य स्थितिश् च स्थित्यन्यथात्वं च स्थित्यन्यथात्वम् इति अभिसमस्य एकं लक्षणम् उक्तं सूत्रे. न विभागशः. कस्मात्. त्रीणीमानि संस्कृतलक्षणानीति वचनविरोधप्रसंगात्. किम् अत्र प्रयोजनम् इत्य् अत आह. एषा ह्य् एषु संगास्पदम् इति विस्तरः. एषा हि स्थितिर् एषु जात्यादिषु संगास्पदं संगस्थानं धर्मो ऽनया तिष्ठतीत्य् अभिप्रायः श्रियम् इवैनां स्थितिं कालकर्णीसहितां अलक्ष्ंईसहितां दर्शयामास भगवान् तस्यां स्थित्याम् असंगार्थं. नास्याम् आसंगः कर्तव्यो यस्माद् इयम् अनिततयानुबद्धा लक्ष्मीर् इवालक्ष्म्येति तद् एकीयं व्याख्यानं. अपरे तु व्याचक्षते. नास्याम् आसंक्तव्यं यस्माद् इयं जरयानुबद्धा लक्ष्मीर् इवालक्ष्म्येति. जरया ह्य् अन्यथात्वलक्षणया अस्या एकीकरणं नानित्यतयेति. अतश् चत्वार्य् एव संस्कृतलक्षणानीति. उभयोर् अपि पक्षयोर् अयम् उपसंहारः.
(ii.47अब्) अन्यैर् जात्यादिभिर् भवितव्यम् इति. जातिसामर्थ्यात् कश्चित् संस्कृतो धर्मो जायते. जातिर् अपि संस्कृता. तस्मात् तस्या अपि अन्यया जात्या भवितव्यं स्वात्मनि वृत्तिविरोधात्.
सर्वं संस्कृतलक्षणैर्
इति च सिद्धंतात्. एवं जरादयो [तिब्. 160अ] ऽपि योज्याः.
जातिजात्यादयस् तेषाम्
इति. जातिजात्यादयश् च तेषाम् इति चशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः. ननु चैकैकस्येति विस्तरः. एकैकस्य लक्षणस्य चतुर्लक्षणी चतुर्णां लक्षणानां समाहारः चतुर्लक्षणी प्राप्नोति. अपर्यवसानदोषश् च अनिष्ठादोषश् च. तेषाम् अनुलक्षणानां पुनर् अन्यजात्यादिप्रसंगात्. जातेर् जातेर् जातिजातेर् यावद् अन्तियताया अनित्यताया अनित्यतानित्यतायाश् च प्रसंगात्.
ते ऽष्टधर्मैकवृत्तयः.
ते इति पुंलिंगनिर्देशो धर्माभिसंबंधात्. ते जात्यादिजातिजात्यादिस्वभावा धर्मा यथाक्रमम् अष्टधर्मैकवृत्तयः. जात्यादीनाम् अष्टासु धर्मेषु वृत्तिः. जातिजात्यादीनां चैकधर्मे. आत्मनवमा हीति लक्षणानुलक्षणापेक्ष एवम् उक्तं. न हि यथासंभवं तत्र प्राप्त्यादयो भूतानि भौतिकानि वा नोत्पद्यंते.
कामे ऽष्टद्रव्यको ऽशब्दः. सर्वं संस्कृतलक्षणैः प्राप्त्या वेति
चैवमादिवचनात्. जातिर् आत्मानं विरहय्येति विस्तरः. स्वात्मनि वृत्तिविरोध इत्य् अतः आत्मानम् विरहय्य मुक्त्वाष्टौ धर्मान् जनयति. कतमान् अष्टौ. तं धर्मं रूपं चित्तं वा स्थितिं जराम् अनित्यतां जातिजातिं स्थितिस्थितिं जराजराम् अनित्यतानित्यतां च जनयति. जातिजातिस् तु ताम् एव जातिं जनयति. एवं जरानित्यते अपि यथायोगं योज्ये इति. [तिब्. 160ब्] जरा आत्मानं विरहय्य अष्टौ धर्मान् जरयति. जराजरा पुनस् ताम् एव जरां. अनित्यता आत्मानं विरहय्य अष्टौ धर्मान् विनाशयति. अनित्यतानित्यता पुनस् ताम् एवानित्यताम् इति.
तद् एतद् आकाशं पाट्यत इति. विभिद्यत इत्य् अभिप्रायः. सप्रतिघद्रव्याभावमात्रम् आकाशं. नाकाशं नाम किंचिद् अस्ति. तद् विभक्तुं यथा न शक्यते न युज्यते वा. एवम् इमे जात्यादयः असंतो धर्मा विभक्तुं न शक्यंते न युज्यंते वा. तत आह. न ह्य् एत इति विस्तरः. न ह्य् एते द्रव्यतः स्वलक्षणतः संविद्यंते यथा विभज्यंते. जातिर् आत्मानं विरहय्याष्टौ धर्मान् जनयतीत्य् एवं विस्तरेण विभज्यंते यथा रूपादीनां धर्माणाम् इति. अत्रादिशब्देन शब्दादिवेदनादिचक्षुरादीनां ग्रहणं. तत्र रूपशब्दादि तावत् प्रत्यक्षेण चक्षुर्विज्ञानादिलक्षणेन प्रमाणेनोपलभ्यते. वेदनाद्य् अपि प्रत्यक्षेणैवोपलभ्यते स्वसंवेद्यत्वात्. चक्षुरादि तु चक्षुर्विज्ञानादिनानुमानेनानुमीयते. चक्षुर्विज्ञानादिसंनिश्रयो रूपप्रसादश् चक्षुरादीनि तद्भावभावयोस् त्द्भावाभावात्. आगमो ऽपि चक्षुषा रूपाणि दृष्ट्वेति विस्तरः. एवं श्रोत्रेण शब्दां च्छ्रुत्वेति विस्तरेण एवं गन्धादिष्व् अपि योज्यं. [तिब्. 161अ] तथा यत्किंचिद् रूपम् अतीतनागतप्रत्युत्पन्नम् (अभिध्-क्-व्य् 174) इति विस्तरः. एवं वेदनादिष्व् अपि योज्यं. पारसांतानिकानां त्व् अरूपिणां वेदनादीनाम् अस्तित्वानुमानम् आत्मीयवच् छरीरविकारं दृष्ट्वा तत्संप्रतिपत्तेः. आगमो ऽपि चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं सहजाता वेदाना संज्ञा चेतनेति विस्तरः. जात्यादयस् तु न चक्षुरिन्द्रियादिप्रत्यक्षा भवंति. न चैषाम् अस्तित्वे समर्थम् अनुमानम् अस्ति. न चाप्य् आगमो द्रव्यतो ऽस्तित्वे. यत् तर्हि सूत्र उक्तम् इति विस्तरः. ननु चायम् आगमो ऽस्ति संस्कृतस्योत्पादो ऽपि प्रज्ञायते इति विस्तरः. अर्थश् च प्रतिसरणम् उक्तं भगवतेति. चत्वारीमानि भिक्षवः
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
