Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/25

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

स्फुटार्था अभिधर्मकोशव्याख्या

Tác giả
यशोमित्र
Thông tin
GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

दर्शनहेयानाम् अवस्तुकत्वाद् इत्य् एतद् अपि कारणान्तरम् अस्ति. कस्मात् तद् इह नोक्तम् इत्य् एतद् अपि वक्तव्यं. अपि खलु पर एवं ब्रूयात्. मा भूद् दर्शनहेयक्लेशवैराग्यपरिहाणिः. भावनाहेयक्लेशमात्रवैराग्यपरिहाणिस् तु कस्माद् अस्य परिहीणकस्य न भवेत्. पंचावरभागीयप्रहाणाद् धि अनागामिफलं भवति. तत्र च सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा च दर्शनहेयाः. कामच्छन्दो व्यापादश् च भावनाहेयौ. तयोश् च तस्य वीतरागपूर्विणो ऽभिसमयान्ते षोडशे चित्तक्षणे प्रहाणस्य लौकिकेन मार्गेण प्राप्तस्य तत्सामर्थ्यात् पुनर् अनास्रवा प्राप्तिर् भवति. अनास्रवगोत्राणां लब्धत्वात्. [तिब्. 107ब्] अनास्रवं हि नवमविमुक्तिमार्गस्वभावं संस्कृतम् अनगामिफलम् असंस्कृतं च कामच्छन्दादिप्रहाणं तस्याम् अवस्थायां लभ्यते. तस्माद् इदम् एव कारणम् उक्तं. आर्येण तद् वैराग्यस्य द्विमार्गप्रापणाद् इति. कामच्छन्दादिप्रहाणस्य द्विमार्गप्रापणाद् इत्य् अर्थः.

(ii.18-20) उपेक्षाजीवितमनोयुक्तो ऽवश्यं त्रयान्वित

इति. उपेक्षया जीवितेन मनसा वा युक्तो ऽन्वितो ऽवश्यं त्रयेण समन्वागतः तेनैवोपेक्षाजीवितमनःस्वभावेन. न ह्य् एषाम् अन्योन्येन रिना समन्वागम इति. यदैकस्य समन्वागमः. तदेतरयोर् अपि समन्वागमः. तेनैषां समन्वागमव्यवस्थानं क्रियते. चक्षुरादीनां तु न क्रियते. तस्माद् आह. चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियैर् इति विस्तरः. चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियैर् आरूप्यधातूपपन्नो न समन्वागत इत्य् अत्र कायेन्द्रियाग्रहणं. कामधातौ च येनाप्रतिलब्धविहीनानीत्य् अस्योपचयार्थस्य चक्षुरादिष्व् एव संभवान् न कायेन्द्रिये. अन्यथा हि रूपिभिर् इन्द्रियैर् आरूप्योपपन्नो न समन्वागत इत्य् एवोच्यते. अप्रतिलब्धानि कललाद्यवस्थायां. विहीनानि लब्धविनाशाद् अन्धत्वाद्यवस्थायां क्रममरणे वा. पृथग्जना न समन्व्गागता इति विशेषणं. आर्यस्यावश्यं समन्वागतत्वात्. न हि तस्य भूमिसंचारेण अनास्रवसुखादित्यागः. दौर्मनस्येन कामवीतराग इति. इहस्थो धात्वन्तरस्थो वा पृथग्जनो वार्यो [तिब्. 108अ] वा न समन्वागतः. पृथग्जनफलस्था इति. फलस्थाः स्रोतआपन्नादयो ऽभिसमयान्ते विहीनत्वात्. तेनानाज्ञातमाज्ञास्यामीन्द्रियेणासमन्वागताः. आज्ञेन्द्रियेण दर्शनमार्गस्था (अभिध्-क्-व्य् 119) अप्राप्तत्वाद् असमन्वागताः. अशैक्षमार्गस्थाः फलप्राप्तौ विहीनत्वात् असमन्वागताः. अप्रतिषिद्धास्व् अवस्थासु यथोक्तसमन्वागमो वेदितव्य इति. या अप्रतिषिद्धा अवस्थाश् चक्षुरादिभिर् इन्द्रियैः समन्वागमं प्रति. तास्व् अवस्थासु यद्यद् इन्द्रियम् उक्तं. तैस्तैः समन्वागतो वेदितव्य इत्य् अर्थः. तद्यथा कामधाताव् अप्रतिलब्धविहीनावस्थां हित्वा चक्षुराधिभिर् जिह्वान्तैः समन्वागतः. कायेन्द्रियेण कामरूपधातूपपन्नः समन्वागत इत्यादि.

चतुर्भिस् सुखकायाभ्याम्

इति. युक्त इति वर्तते. अवश्यम् इति च. संख्यानुक्रमविवक्षायां तु तदनन्तरं तैर् इत्य् एवानन्तरं सुखादिग्रहणं. सुखेन्द्रियेण समन्वागत इति. चतुर्थध्यानारूप्यधातूपपन्नं पृथग्जनं मुक्त्वा सर्वः सुखेन्द्रियेण समन्वागतः. तस्यान्यैर् नावश्यं समन्वागतः. चक्षुरादिभिर् जिह्वेन्द्रियान्तैर् आरूप्यधातौ कामधातौ च अप्रतिलब्धविहीनावस्थायाम् असमन्वागमः. कायेन्द्रियेण च आरूप्यधातौ. स्त्रीपुरुषेन्द्रियाभ्यां रूपारूप्यधात्वोश् च. कामधातौ च अलब्धविहीनावस्थायां. दुःखेन्द्रियेण रूपारूप्यधात्वोः. सौमनस्येन्द्रियेण पृथग्जनस् तृतीयध्यानोपपन्नः. [तिब्. 108ब्] दौर्मनस्येन्द्रियेण कामवीतरागावस्थायां. श्रद्धादिभिः पंचभिः समुच्छिन्नकुशलमूलावस्थायां. आज्ञास्यामीन्द्रियेण पृथग्जनफलस्थावस्थायां. आज्ञेन्द्रियेण पृथग्जनदर्शनमार्गस्थाशैक्षावस्थायां. आज्ञातावीन्द्रियेण पृथग्जनशैक्षावस्थायां असमन्वागत इति. यः कायेन्द्रियेण सो ऽपि चतुर्भिर् इति. कामधातूपपन्नः कायेन्द्रियेण समन्वागतस् तस्य. नान्यैर् अवश्यं समन्वागमः. चक्षुरादिभिः कामाधाताव् अलब्धविहीनावस्थायाम् असमन्वागमः. स्त्रीपुरुषेन्द्रियाभ्याम् एतस्याम् एवावस्थायां रूपधातौ चासमन्वागमः. दुःखेन चास्मिन्न् एव. सुखेन च पृथग्जनस्य चतुर्थध्यानोपपत्ताव् असमन्वागमः. सौमनस्येन पृथग्जनस् तृतीयचतुर्थध्यानोपपन्नो ऽसमन्वागतः. दौर्मनस्येन श्रद्धादिभिश् चान्यैः पूर्ववद् असमन्वागमो वक्तव्यः.

पंचभिश् चक्षुरादिमान्

इति. चक्षुःश्रोत्रघ्राणजिह्वावान् इत्य् अर्थः. तेन चेति. तेन चक्षुषा. चक्षुषि सत्य् अवश्यं कायेन्द्रियं. न तु श्रोत्रादीनि. कामधाताव् अलब्धविहीनत्वसंभवात्. स्त्रीपुरुषेन्द्रियादीनां पूर्ववद् व्यभिचारो वक्तव्यः. एवं श्रोत्रघ्राणजिह्वेन्द्रियैर् इति. यः श्रोत्रेन्द्रियेण. सो ऽवश्यं पंचभिर् उपेक्षाजीवितमनःकायैस् तेन चेत्य् एवं सर्वं नेयं.

सौमनस्यी च.

किं. पंचभिर् [तिब्. 109अ] अवश्यं समन्वागत इत्य् अधिकृतं. चक्षुरादिष्व् एव सौमनस्यं कस्मान् न प्रक्षिप्तं. अन्यस्थानपाठात्. तथा ह्य् आदिशब्देन प्रक्षेप आकुलः स्यात्. द्वितीयध्यानजस् तृतीयालाभी कतमेन सुखेन्द्रियेण समन्वागत इति. सुखेन्द्रियं कामधातौ पंचविज्ञानकायिकं. प्रथमे च ध्याने त्रिविज्ञानकायिकम् अस्ति. तृतीये तु ध्याने मानसं. अतो द्वितीयध्यानजो नाधरेण सुखेन्द्रियेण समन्वागतः. तस्य भूमिसंचारेण त्यक्तत्वात्. न टृतीयध्यानभूमिकेन तस्यालाभित्वाद् इति मत्वा चोदयति. कतमेन सुखेन्द्रियेण समन्वागत इति. आह. क्लिष्टेन तृतीयध्यानभूमिकेनेति. सर्वे ह्य् अधरभूम्युपपन्नाः सत्त्वा उपरिभूमिकेनाप्रहीणेन क्लिष्टेन समन्वागता इति सिद्धान्तः. शेषेन्द्रियव्यभिचारः पूर्ववद् वक्तव्यः.

दुःखी तु सप्तभिर्

इति. कामधातूपपन्नो ह्य् एष. तस्माद् अवश्यं कायेन्द्रियेण चतुर्भिश् च वेदनेन्द्रियैर् इति. दौर्मनस्यवर्ज्यैः. तद्वीतरागावस्थायां दौर्मनस्यं व्यभिचरति. मनोजीवितेन्द्रिये च स्तः. इत्य् अवश्यं सप्तभिर् इन्द्रियैः समन्वागतः. शेषेन्द्रियव्यभिचारस् तु पूर्ववद् वाच्यः.

स्त्रीन्द्रियादिमान् अष्टादिभिर्

इति. स्त्रीपुरुषदौर्मनस्यश्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियवान् इत्य् अर्थः. जीवितमनःसुखदुःखसौमनस्योपेक्षेन्द्रियाणाम् उक्तत्वात्. आज्ञातावीन्द्रियादीनां च त्रयाणां वक्ष्यमाणत्वात्. [तिब्. 109ब्] एषाम् एवाष्टानाम् इन्द्रियाणां ग्रहणं भवति. यः स्त्रीन्द्रियेण समन्वागत इति. स कामधातूपपन्न एव स्त्रीन्द्रियवत्त्वात्. अतः सो ऽवश्यम् अष्टाभिर् इन्द्रियैः समन्वागतः. कतमैर् इत्य् आह. तैश् च सप्तभिः स्त्रीन्द्रियेण चेति. कायजीवितमनोभिश् चतुर्भिश् च वेदनेन्द्रियैर् इति सप्तभिः स्त्रीन्द्रियेण चाष्टमेन. शेषैर् अनियमः. यथोक्तं चक्षुरादीनां वैकल्यसंभवाद् इत्यादिभिः कारणैः. स्त्रीन्द्रियवत् पुरुषेन्द्रियवान् अपि वक्तव्यः. दौर्मनस्यवान् अपि कामोपपन्नः कामवीतराग इति तथैव तैः सप्तभिर् दौर्मनस्येन च. श्रद्धावान् अपि त्रैधातुकः सत्त्व इति तैः पंचभिः श्रद्धादिभिर् अविनाभाविभिर् उपेक्षाजीवितमनोभिश् च समन्वागतः. शेषैर् अनियमः पूर्ववत्. यथा श्रद्धावान् एवं यावत् प्रज्ञावान्. आज्ञाते इन्द्रियम् आज्ञातेन्द्रियम् इति. आज्ञात एव इन्द्रियं आज्ञातेन्द्रियं. निरवशेषाज्ञात इन्द्रियम् इत्य् अर्थः. आज्ञेन्द्रियम् अपि हि आज्ञात इन्द्रियं न तु निरवशेषे सावशेषत्वात् प्रहेयस्य. अथ वा पदैकदेशग्रहणेन आज्ञातावी पुद्गल आज्ञात इत्य् उच्यते. तस्येन्द्रियं आज्ञातेन्द्रियम् इति. य आज्ञेन्द्रियेण सो ऽवश्यम् एकादशभिर् इति. आज्ञेन्द्रियवान् फलस्थः (अभिध्-क्-व्य् 121) शैक्षः त्रिष्व् अपि धातुषु भवति. स चतुर्थध्यानारूप्योपपन्नः कथं सुखसौमनस्येन्द्रियाभ्यां समन्वागतः. [तिब्. 110अ] यस्माद् आर्यः कामवैराग्ये ऽवश्यं सौमनस्येन्द्रियं प्रतिलभते. द्वितीयध्यानवैराग्ये च सुखेन्द्रियं. ते च भूमिसंचारे ऽपि न त्यज्येते. तथा हि वक्ष्यति.

भूमिसंचारहानिभ्यां ध्यानाप्तं त्यज्यते शुभं तथारूप्याप्तम्. आर्यं तु फलाप्त्युत्तप्तिहानिभिर्

इति. फलप्राप्तीन्द्रियोत्तापने ऽपि यद्य् अपि ते प्रतिपन्नकमार्गमृद्विन्द्रियमार्गसंगृहीते त्यज्येते. तथाप्य् अपरे फलस्थतीक्ष्णेन्द्रियमार्गस्वभावे लभ्येते. तस्मात् ताभ्यां सुखसौमनस्याभ्यां भूमिसंचारे ऽपि अपरित्यक्ताभ्यां चतुर्थध्यानारूप्योपपन्नो ऽपि आर्यः समन्वागत एव भवति. शेषैः पूर्ववद् अनियमः.

आज्ञास्यामीन्द्रियोपेतस् त्रयोदशभिर् अन्वित.

इति विस्तरः. आज्ञास्यामीन्द्रियसमन्वागतः कामावचरः सत्त्वः कामधाताव् एवाज्ञास्यामीन्द्रियोत्पादनात्.

असंवेगाद् इह विधा तत्र निष्ठेति वाचनाद्

इति. तस्माद् अवश्यं कायेन्द्रियम् अस्यास्ति. चतस्रो वेदना दौर्मनस्यवर्ज्याः तस्य वीतरागावस्थायां व्यभिचारात्. तत्रावश्यम् इति वर्तते. त्रयोदशभिर् एभिर् इन्द्रियैर् अवश्यम् एव समन्वागत इत्य् अवधार्यते. न तु त्रयोदशभिर् एवेति. शेषैर् अनियमः. अन्धादिष्व् अपि दर्शनमार्गसंभवात्. स्त्रीपुरुषेन्द्रिययोर् वैकल्ये कथं दर्शनमार्गोत्पत्तिः. स्त्रीपुरुषेन्द्रियवियुक्तविकलानां हि संवरफलप्राप्तिवैराग्याणि [तिब्. 110ब्] न सन्तीति. केचित् तावद् आहुः. प्रतिलब्धसंवराणां फलप्राप्तिर् भवति. द्विव्यंजनोदयाद् धि प्रातिमोक्षसम्वरत्यागो भवति. न तद्वैकल्यात्. क्रममरणाद् वा स्त्रीपुरुषेन्द्रिये निरोधे ऽप्य् अभ्यस्तनिर्वेधभागीयस्य दर्शनमार्गोत्पत्तिर् भवति. अपरे पुनर् आहुः. पुद्गलसामान्यम् इहाधिक्रियते. नैकत्रैवेन्द्रियैर् आवश्यकसमन्वागमव्यभिचाराव् उच्येते. कथम्.

उपेक्षाजीवितमनोयुक्तो ऽवश्यं त्रयान्वित

इति यावत्. उपेक्षासमन्वागतः पुद्गलः कामधातूपपन्नो वा यावद् भवाग्रोपपन्नो वा सर्वो ऽसाव् अवश्यं त्रयेण समन्वागतः. चक्षुरादिव्यभिचारस् तु संभवतो न सर्वत्र. कश्चिद् एव हि रूपिभिर् इन्द्रियैर् असमन्वागतो य आरूप्यधातूपपन्नः. न तु यो रूपधातूपपन्नः. विस्तरेण यावत् कश्चिद् एव श्रद्धादिभिर् असमन्वागतो यः समुच्छिन्नकुशलमूलः. न तु स एव आरूप्यधातूपपन्नः. तस्थेहापि यावान् आज्ञास्यामीन्द्रियोपेतः सर्वो ऽसाव् एभिर् यथोक्तैस् त्रयोदशभिर् इन्द्रियैर् अवश्यं समन्वागतः. व्यभिचारस् तु संभवतः (अभिध्-क्-व्य् 122) कस्यचिद् एव. तथा हि कस्यचिच् चक्षुरिन्द्रियेणासमन्वागमो यो ऽन्धः. कस्यचिच् छ्रोत्रेन्द्रियेण यो बधिरः. एवं घ्राणादिभिः. यावत् कस्यचित् स्त्रीन्द्रियेण यः पुरुषः. कस्यचित् पुरुषेन्द्रियेण या स्त्री. कस्यचिद् दौर्मनस्येन यो वीतरागः. इत्य् एवम् एवावगन्तव्यं.

(ii.21) सर्वाल्पैर् निःशुभो ऽष्टाभिर्

इति एकः पुद्गलः. सर्वेभ्यो ऽल्पैर् [तिब्. 111अ] यः समन्वागतः. स कियद्भिर् अल्पैः समन्वागत इत्य् आह. निःशुभो यः समुच्छिन्नकुशलमूलः. स च कामधाताव् एव.

च्छिनत्ति स्त्री पुमान् दृष्टिचरित

इति. कामवैराग्यं चात्र न संभवति. तस्माद् अस्य पंचापि वेदनेन्द्रियाणि सन्ति. कायेन्द्रियं च जीवितमनसी च स्त एव सर्वत्र. चक्षुरादीनि तु न सन्ति. क्रममरणावस्थायां अन्धत्वाद्यवस्थायां च तेषाम् अभावात्. व्च्दयत इति कृत्वेति कर्तरि क्विप्. वेदनं वा विद् इति भावसाधन औणादिकः क्विप्. ज्ञापकं दर्शयति. यथा संपदनं संपद् इति.

तथारूप्य

इति संख्यामात्रं तथाशब्देन संबध्यते. एकान्तकुशलत्वात् श्रद्धादीनि शुभग्रहणेन गृह्यन्त इति. शुभान्य् एव नाकुशलाव्याकृतानि यानि तानि शुभानीत्य् अर्थः. आज्ञास्यामीन्द्रियादीनाम् अपि ग्रहणप्रसंग इति. तान्य् अपि एकान्तकुशलानि. तस्मात् तद्ग्रहणप्रसंग इति. न. अष्टाधिकाराद् इति.

निःशुभो ऽष्टाभिर्

इत्य् एतस्मात्.

उपेक्षायुर्मनःशुभैर्

अष्टाभिर् इत्य् आज्ञास्यामीन्द्रियादीनां निरासः कृतो भवति. अष्टशब्देन कृतावधित्वात्. बालाधिकाराच् चेति. बालो ऽत्राधिक्रियते.

बालस् तथारूप्य

इति वचनात्. [तिब्. 111ब्] आज्ञास्यामीन्द्रियाद्यभावे च पृथग्जनो भवति. पृथग्जनत्वं कतमत्. आर्यधर्माणाम् अलाभ इति वचनात्. तस्मात् तेष्व् अनास्रवेषु अप्रसंग इति.

(ii.22) द्विव्यंजनो यः समग्रेन्द्रिय इति. द्विव्यंजनो ऽपि हि समग्रचक्षुरादिकः. एवम् एकान्नविंशत्या समन्वागतो नान्यथा. आज्ञातावीन्द्रियं द्वयोश् चान्यतरद् इति. रागित्वाद् आज्ञातावीन्द्रियं एकान्तेन वर्जयितव्यं. आर्यस्य चाज्ञास्यामीन्द्रियाज्ञेन्द्रियाभ्याम् अवश्यं पर्यायेण समन्वागमात्. यदाज्ञास्यामीन्द्रियं. न तदाज्ञेन्द्रियं. यदाज्ञेन्द्रियं. न तदाज्ञास्यामीन्द्रियं. (अभिध्-क्-व्य् 123) उक्त इन्द्रियाणां धातुप्रभेदप्रसंगेनागतानां विस्तरेण प्रभ्च्द इति. अष्टादशानां धातूनां कतीन्द्रियं कति नेन्द्रियम् इति धातुप्रभेदप्रसंगेन.

धर्मार्धम् इन्द्रियं ये च द्वादशाध्यात्मिकाः स्मृता

इति. इन्द्रियाणि आगतानि. तेषां प्रभेदः

अमलं त्रयम्

इत्य् एवमादिविस्तरेणोक्तः.

(ii.23) किम् एते संस्कृता धर्मा इति. ये ते स्कन्धधात्वायतनत्वेनाभिहिताः पूर्वं. यथा भिन्नलक्षणा इति. रूप्यते इति रूपं. अनुभवो वेदना. निमित्तोद्ग्रहणं संज्ञेत्यादि. संस्कृतग्रहणम् उत्पत्तिमत्त्वात्. उताहो नियतसहोत्पादा अपि. केचित् सन्तीति. सन्ति हि केचित् सहोत्पादा न तु नियतसहोत्पादाः. यथा चक्षुरादिसहोत्पादाः. तद्विज्ञानादयः चक्षुरादीनां सभागतत्सभागभावात्. तस्माद् एवं पृच्छति. सर्व इमे धर्माः [तिब्. 112अ] पंच भवंतीति. पंचवस्तुकनयेन एवं सर्वधर्मसंग्रहो व्यवस्थाप्यते. रूपादिकलापमुखेन धर्मनिर्देशः. सुखप्रतिपत्त्यर्थं. तत्रासंस्कृतं नैवोत्पद्यत इति. न तत् प्रति सहोत्पादनियमश् चिन्त्यते. सर्वसूक्ष्मो रूपसंघातः परमाणुर् इति. संघातपरमाणुर् न द्रव्यपरमाणुः. यत्र हि पूर्वपरभागो नास्ति. तत् सर्वरूपापचितं द्रव्यं द्रव्यपरमाणुर् इतीष्यते. तस्माद् विशिनष्टि संघातः परमाणुर् इति.

कामे ऽष्टद्रव्यको ऽशब्द

इति. कामधातौ यदा शब्दो ऽत्र नोत्पद्यते. तदा नियतम् अष्टद्रव्यक एव भवति नातो न्यूनद्रव्यकः.

अपरेन्द्रिय

इति. अपरम् इन्द्रियम् अस्मिन्न् इत्य् अपरेन्द्रियः. चक्षुरादिमान् इत्य् अर्थः. यत्र हि चक्षुः श्रोत्रादि वा तत्र कायेन्द्रियेण भवितव्यं तत्प्रतिबद्धवृत्तित्वाच् चक्षुरादीनां. सशब्दाः पुनर् एते परमाणव इत्य् अष्टद्रव्यकादयः संघातपरमाणवः सशब्दा उत्पद्यमाना यथाक्रमं नव दशैकादशद्रव्यका उत्पद्यन्ते. यो ऽष्टद्रव्यकः. स नवद्रव्यकः. यो नवद्रव्यकः. स दशद्रव्यकः. यो दशद्रव्यकः. स एकादशद्रव्यक इति. अस्ति हीन्द्रियविनिर्भागी शब्दो ऽपीति. इन्द्रियाद् विनिर्भक्तुं यो न शक्यते. स इन्द्रियाविनिर्भागी शब्दः. इन्द्रियापृथग्वर्तीत्य् अर्थः. अविनिर्भोगीति केचिद् भुजि पठन्ति.

कथम् अविनिर्भागे भूतानां कश्चिद् एव संघातः कठिन इत्यादि. कठिनः पृथिवीधातुः. द्रवो [तिब्. 112ब्] ऽब्धातुः. उष्णस् तेजोधातुः. समुदीरणा (अभिध्-क्-व्य् 124) वायुधातुः. तुल्यभूतसद्भावात् तुल्यरूपैस् तत्संघातैर् भवितव्यम् इत्य् अभिप्रायः. यद् यत्र पटुतमम् इति विस्तरः. यद् द्रव्यं पृथिव्यादिलक्षणं. यत्र संघाते पटुतमं स्फुटतमं प्रभावतः शक्तितो न तु द्रव्यतः उद्भूतम् उत्पन्नं. तस्य तत्रोपलब्धिः. तस्य द्रव्यस्य तत्र संघात उपलब्धिर् ग्रहणं. सूचीतूलीकुलापस्पर्शवत्. तत्र सूच्यो लोहमय्यः प्रतीता लोके. तूल्यो वीरणादिपुष्पमूलदण्डाः. याः सिंका इति प्राकृतप्रतीताः. तासां सूचीनां तूलीनां च कलापः. तस्य स्पर्शः सूचीतूलीकलापस्पर्शः. तस्य चोपलब्धिः. तस्य पटुतमस्य प्रभावत उद्भूतस्य भूतस्येति. तत्र तस्येवेति. अनेन लक्षणेन वतिः. एतद् उक्तं भवति. यथा तुल्ये ऽपि सूचीनां तूलीनां कलापसद्भावे तीक्ष्णत्वात् सूचीनाम् एव स्पर्शो व्यक्तम् उपलभ्यते. न तूलीनाम् अतीक्ष्णत्वात्. तथा क्वचिद् एव संघाते काष्ठादिके कठिनम् उपलभ्यते. क्वचिद् द्रवः पानीये. क्वचिद् उष्णो ऽग्नौ. क्वचित् समुदीरणा वायौ. न च तत्रतत्र संघाते चत्वारि महाभूतानि न सन्ति. सक्तुलवणचूर्णरसवच् च. सक्तुचूर्णानां लवणचूर्णानां च यथा रसस्योपलब्धिः. लवणचूर्णरस एव व्यक्तम् उपलभ्यते. न तु सक्तुचूर्णरसः. तद्वद् इहापीति. संग्रहधृतिपक्तिव्यूहनाद् इति. संग्रहकर्मणाब्धातोर् अस्तित्वं गम्यते काष्ठादिके. अन्यथा पांसुमुष्टिवत् तद् विशीर्यते. यदि तत्राब्धातुर् न स्यात्. धृतिकर्मणाप्सु नौप्रभृतीनां [तिब्. 113अ] पृथिवीधातोर् अस्तित्वं गम्यते.

पक्तिकर्मणा तेजोधातोर् अस्तित्वं गम्यते. यदि हि तन् न स्यात् काष्ठादिकं न पूतीभवेत्. व्यूहनकर्मणा वायुधातोर् अस्तित्वं गम्यते. प्रसर्पणं हि तस्य न स्याद् वृद्धिर् वा यदि वायुधातुस् तत्र न स्यात्. एवम् अन्यत्रापि योज्यं. प्रत्ययलाभे च सतीति विस्तरः. प्रत्ययानाम् अग्न्यादीनां लाभे सति कठिनादीनां च द्रवणादिभावात्. द्रवणघनत्वादिभावात्. तद्यथाग्निभूते सति क्कठिनस्य लोहस्य द्रवणं. तेन ज्ञायते लोहे ऽब्धातुर् अस्तीति. तथा द्रवस्य शैत्यादिप्रत्ययलाभे काठिन्यं. तेन ज्ञायते पृथिवीधातोर् अत्रास्तित्वम् इति. तथा कठिनसंघर्षाद् औष्ण्यम् उपलभ्यते. तेन तेजोधातोर् अत्रास्तित्वं गम्यते. इति एवं संभवतो ऽन्यत्रापि योज्यं. अप्सु शैत्यातिशयाद् औष्ण्यं गम्यते इत्य् अपर इति भदन्तश्रीलातः. यस्माद् आपः शीताः शीततराः शीततमाश् च उपलभ्यन्ते. ततो ज्ञायते तेजसस् तत्रान्यतरतमोत्पत्तेः शैत्यातिशयः. तेन च तत्र तेजो ऽस्तीति गम्यते.

अव्यतिभेदे ऽपीति विस्तरः. तं मतम् आचार्यो दूषयति. यथा न च (अभिध्-क्-व्य् 125) शब्दस्य द्रव्यान्तरेण व्यतिभेदो मिश्रीभावो ऽस्ति अतिशयश् च भवति स्वभावभेदात् पटुः शब्दः पटुतरः पटुतम इति. एवम् इहापि भवेत्. यथा च वेदनाया न केनचिद् द्रव्यान्तरेण व्यतिभेदो भवतीति [तिब्. 113ब्] स्वभावभेदात् तारतम्येनातिशयः. तथेहपीति. नानेन तेजोऽस्तित्वं गम्यते. ता एव ह्य् आपः काश्चिच् छीताः काश्चिच् छीततराः काश्चिच् छीततमा इति. बीजतस् तेषु तेषां भावो न स्वरूपत इत्य् अपर इति सौत्रान्तिकाः. बीजतः शक्तितः सामर्थ्यत इत्य् अर्थः. न स्वरूपतो न द्रव्यत इत्य् अर्थः. शक्तिर् एव हि नानाविधास्ति यया योगिभिर् अधिमोक्षविशेषेण सुवर्णधातू रूप्यधातुस् ताम्रधातुर् इत्य् एवमादयो धातवः क्रियन्ते. कस्माद् इत्य् आह. संत्य् अस्मिं दारुस्कन्धे विविधा धातव इति वचनात्. धातुशक्तयो हि तत्रैवं भगवतोक्ताः. न हि तत्रातिबहूनां सुवर्णरूप्यादीनां स्वरूपतो ऽवकाशो ऽस्तीति.

कथं वायौ वर्णसद्भाव इति वैभाषिकान् एवं चोदयन्ति.

कामे ऽष्टद्रव्यक

इति नियमे कथं वायौ वर्णो ऽस्तीति निर्धार्यते. न हि कथंचित् तत्र वर्ण उपलभ्यते. श्रद्धानीय एषो ऽर्थो नानुमानीय इति वैभाषिकाः. परमाप्तैर् अयम् उक्तो ऽर्थ इति प्रत्येतव्यो नार्थो ऽनुमानसाध्य इत्य् अभिप्रायः. संसर्गतो गन्धग्रहणाद् वेति. अस्ति वानुमानम् इति दर्शयति. गन्धवता तु द्रव्येण वायोः संपर्काद् गन्ध उपलभ्यते. स च गन्धो वर्णं न व्यभिचरति. यत्र हि गन्धः. तत्र वर्णेन भवितव्यम् इति. अत्र च साधनवचनं. वर्णवान् वायुर् गन्धवत्त्वाज् [तिब्. 114अ] जातिपुष्पवद् इति.

रूपधातौ गन्धरसयोर् अभाव उक्त इति.

विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिर्

इति वचनात्. तेन तत्रत्याः परमाणवः षट्सप्ताष्टा द्रव्यका इति. तत्रत्यास् तत्र भवाः. तत्रत्याः परमाणवः संघातपरमाणवो ऽधिकृताः. य इहाष्टद्रव्यक उक्तो निरिन्द्रियो ऽशब्दः. स तत्र सड्द्रव्यकः. यो नवद्रव्यकः कायेन्द्रिया. स सप्तद्रव्यकः. यो दसद्रव्यको ऽपरेन्द्रियः. सो ऽष्टद्रव्यकः. सशब्दकाः पुनर् एते सप्ताष्टनवद्रव्यका इत्य् अवगन्तव्यं. उक्तरूपत्वान् न पुनर् उच्यन्त इति. उक्तकल्पत्वान् न पुनः सूत्र्यन्त इत्य् अर्थः.

किं पुनर् अत्र द्रव्यम् एव द्रव्यम् इति विस्तरः. मुख्यवृत्त्या यद् द्रव्यं यस्य स्वलक्षणम् अस्ति. तद् द्रव्यं गृह्यते. आहोस्विद् आयतनं द्रव्यम् इत्य् अधिकृतं. आयतनम् अपि हि द्रव्यम् इति शक्यते वक्तुं सामान्यविशेषलक्षणसद्भावात्. किं चातः. कश् चातो दोष इत्य् अर्थः. यदि द्रव्यम् एव द्रव्यं गृह्यते. यदि रूपपर्यन्तलक्षणं पृथिव्यादिपरमाणुद्रव्यं (अभिध्-क्-व्य् 126) गृह्यते. अत्यल्पम् इदम् उच्यते. अष्टद्रव्यक इत्यादि. संस्थानगुरुत्वलघुत्वश्लक्ष्णत्वकर्कशत्वशीतजिघत्सापिपासानां संभवतो द्रव्यान्तराणां क्वचित्क्वचित् सद्भावात्. तथा च सति यो ऽष्टद्रव्यकः. स नवद्रव्यको यावच् चतुर्दशद्रव्यक इत्य् अष्टद्रव्यकनियमो भिद्यते. एवं नवद्रव्यकादिषु योज्यं. एवंरूपधाताव् [तिब्. 114ब्] अपि षट्सप्ताष्टद्रव्यनियमभेदो वक्तव्यः. चतुर्द्रव्यको हि वक्तव्य इति. यस्माद् भूतान्य् अपि पृथिव्यादीनि स्प्रष्टव्यायतनं.

स्प्रष्टव्यं द्विविधम्

इति वचनात्. तस्मात् कामे चतुर्द्रव्यको ऽशब्दः. रूपं गन्धो रसः स्प्रष्टव्यम् इति. सशब्दस् तु पंचद्रव्यक इति वक्तव्यं. यद् आश्रयभूतम् इति. पृथिव्यादीनि चत्वारि. यद् आश्रयिभूतम् इति. रूपं गन्धो रसः स्प्रष्ट्व्यैकदेशश् च. तद् एवं संस्थानस्य रूपे ऽन्तर्भावात्. गुरुत्वादीनां च स्प्रष्टव्य इति. नात्यल्पम् इदम् उच्यते. नाप्य् अतिबहु. आश्रयभूतानां स्प्रष्टव्यायतनान् निःकृष्य चतुर्धा निर्देशात्. एवम् अपि भूयान्सीति विस्तरः. यद् भूतचतुष्कम् आश्रय एकस्योपादायरूपस्य नीलस्य पीतस्य वा. न तद् एवान्यस्योपादायरूपस्य गन्धस्य रसस्य वाश्रयः. किं तर्हि. अन्यद् एव भूतचतुष्कं तस्याश्रय इति वैभाषिकसिद्धान्तः. तत्र पुनर् जातिद्रव्यम् इति. भूतचतुष्कजातिर् अत्र गृह्यते. या ह्य् एकस्य भूतचतुष्कस्य जातिः. ताम् अन्यानि भूतचतुष्कानि नातिक्रामन्ति. एवं विकल्पेन वक्तुम् इति. किंचिद् अत्र द्रव्यम् एव द्रव्यं गृह्यते यद् आश्रयभूतं. किंचिद् अत्रायतनद्रव्यं गृह्यते यद् आश्रयिभूतं. यच् चैतद् आश्रयभूतं. तज् जात्या गृह्यत इति. छन्दतो हि वाचां प्रवृत्तिः. अर्थस् तु परीक्ष्य इति. छन्दत इच्छातः संक्षेपविस्तरविधानानुविधायिन्यो वाचः प्रवर्तन्ते. अर्थस् तु तासां परीक्ष्यः. किम् एवं नियतसहोत्पादानि [तिब्. 115अ] तानि भवन्ति. न भवन्तीति. योगाचारचित्तास् तु संघातावस्थाने भूतानां भौतिकानां च नियमं वर्णयन्ति. कथम् इति. उच्यते. अस्ति समुदाय एकभौतिकस् तद्यथा शुष्को मृत्पिण्डः. अस्ति द्विभौतिकः स एवार्द्रः. अस्ति त्रिभौतिकः स एवोष्णः. अस्ति यावत् सर्वभौतिकः स एवार्द्र उष्णश् च मृत्पिण्डो गमनावस्थायाम् इति. उपादायरूपे ऽपि यद् उपादायरूपं यस्मिन् समुदाये उपलभ्यते. तत् तत्रास्तीति वेदितव्यं. अस्ति समुदाय एकोपादायरूपिकः. तद्यथा प्रभा. अस्ति द्व्युपादायरूपिकः. तद्यथा सशब्दगन्धो वायुः. त्र्युपादायरूपिकः. तद्यथा धूमः. तस्य रूपगन्धस्प्रष्टव्यविशेषप्रभावितत्वात्. स्प्रष्टव्यविशेषः पुनर् अत्र लघुत्वं वेदितव्यं. चतुरुपादायरूपिकः. तद्यथा गुडपिण्डः. पंचोपादायरूपिकः. तद्यथा स एव सशब्दः. इत्य् एवमाद्य् अपि (अभिध्-क्-व्य् 127) वक्तव्यं.

(ii.24अब्) शेषाणां वक्तव्य इति चित्तचैत्तानां विप्रयुक्तानां च.

चित्तचैत्ताः सहावश्यम्

इति. न चित्तं चैत्तैर् विना उत्पद्यते. नापि चैत्ता विना चित्तेनेत्य् अवधार्यते. न तु सर्वं चित्तं सर्वचैत्तनियतसहोत्पादं. नापि सर्वचैत्ताः सर्वचित्तनियतसहोत्पादा इति.

[तिब्. 115ब्] सर्वं संस्कृतलक्षणैर्

इति. संस्कृतलक्षणैर् यद् युक्तं. तत् सर्वं तैः संस्कृतलक्षणैर् जात्यादिभिर् अवश्यं सहोत्पद्यते. किं पुनस् तद् इत्य् आह. यत्किंचिद् उत्पद्यते रूपं चित्तं चैतसिकाश् चित्तविप्रयुक्ताश् चेति. पूर्वम् एव ह्य् असंस्कृतं बहिष्कृतं. तत्रासंस्कृतं नैवोत्पद्यते इति वचनात्. विकल्पार्थो वाशब्द इति. किंचित् प्राप्त्या सहोत्पद्यते यत् सत्त्वसंख्यातं. किंचिन् न यद् असत्त्वसंख्यातम् इति विकल्पः. प्रतिसंख्याप्रतिसंख्यानिरोधयोर् यद्य् अपि प्राप्तिर् अस्ति न तु ताव् उत्पद्येते इति न तयोर् ग्रहणं. सहोत्पादननियमो ह्य् अयम् आरम्भ इति. असत्त्वसंख्यातस्य प्राप्तिर् नास्तीति किम् अत्र कारणं. सर्वसत्त्वसाधारणत्वात्. सहजयैव च प्राप्त्या प्राप्त्या प्राप्तिमान् सहोत्पद्यते. न पूर्वपश्चात्कालजयेत्य् अवगन्तव्यं.

(ii.24च्द्) गतिविषय इति. उत्पत्तिविषय इत्य् अर्थः. महाभूमिका इति. महत्त्वं सर्वचित्तभवत्वात्.

(ii.25) इमे किलेति. किलशब्दः परमतद्योतने. स्वमतं तु छन्दादयः सर्वचेतसि न भवन्ति. तथा ह्य् अनेनैवाचार्येण पंचस्कन्धके लिखितं. छन्दः कतमः. अभिप्रेते वस्तुनि अभिलाषः. अधिमोक्षः कतमः. निश्चिते वस्तुनि तथैवावधारणम् इत्यादि. चेतना चित्ताभिसंस्कार इति. चित्तप्रस्पन्दः प्रस्पन्द [तिब्. 116अ] इव प्रस्पन्द इत्य् अर्थः. विषयनिमित्तग्राह इति. विषयविशेषरूपग्राह इत्य् अर्थः. स्पर्श इन्द्रियविषयविज्ञानसंनिपातजा स्पृष्टिर् इति. इन्द्रियविषयविज्ञानानां संनिपाताज् जाता स्पृष्टिः. स्पृष्टिर् इव स्पृस्टिः. यद्योगाद् इन्द्रियविषयविषयविज्ञानान्य् अन्योन्यं स्पृशन्तीव स स्पर्शः. धर्मप्रविचय इति. प्रविचिनोतीति प्रविचयः. प्रविचीयन्ते वा अनेन धर्मा इति प्रविचयः. येन संकीर्णा इव धर्माः पुष्पाणीव प्रविचीयन्ते उच्चीयन्त इत्य् अर्थः. इमे सास्रवा इमे ऽनास्रवाः. इमे रूपिणः इमे ऽरूपिण इति. धर्माणां प्रविचयः धर्मप्रविचयः. प्रतीतत्वात् प्रज्ञेति वक्तव्ये श्लोकबन्धानुगुण्येन मतिर् इति कारिकायाम् उक्तं. स्मृतिर् आलम्बनसंप्रमोष इति. यद्योगाद् आलम्बनं न मनो विस्मरति. तच् चाभिलपतीव. सा स्मृतिः. मनस्कारश् (अभिध्-क्-व्य् 128) चेतस आभोग इति. आलम्बने चेतस आवर्जनम्. अवधारणम् इत्य् अर्थः. मनसः कारो मनस्कारः. मनो वा करोति आवर्जयतीति मनस्कारः. अधिमुक्तिस् तदालम्बनस्य गुणतो ऽवधारणम्. रुचिर् इत्य् अन्ये. यथानिश्चयं धारणेति योगाचारचित्ताः. समाधिश् चित्तस्यैकग्रतेति. अग्रम् आलम्बनम् इत्य् [तिब्. 116ब्] एको ऽर्थः. यद्योगाच् चित्तं प्रबन्धेन एकत्रालम्बने वर्तते. स समाधिः. यदि समाधिः सर्वचेतसि भवति. किम् अर्थं ध्यानेषु यत्नः क्रियते. बलवत्समाधिनिष्पादनार्थं.

कथम् एकस्मिंश् चित्ते दशानां भिन्नलक्षणानां चैत्तानाम् अस्तित्वं गम्यत इति अत आह. सूक्ष्मो हि चित्तचैत्तानां विशेष इति विस्तरः. स एष विशेषः चित्तचैत्तानां दुर्लक्ष्यः प्रबन्धेष्व् अपि तावत् किं पुनः क्षणेषु कालपर्यन्तलक्षणेषु. रूपिणीनाम् अपि ओषधीनां मूर्तानाम् अपि कासांचित् हरीतकीप्रभृतीनां बहुरसानां षड्रसानाम् इन्द्रियग्राह्या जिह्वेन्द्रियग्राह्याः दुरवधारा दुःपरिच्छेदा भवन्ति. किं पुनः ये धर्मा अमूर्ता बुद्धिग्राह्या मनोविज्ञानमात्रग्राह्याः. तस्माद् आप्तोपदिष्टा इति कृत्वा तथैव ते प्रतिपत्तव्या इत्य् अभिप्रायः.

(ii.26) श्रद्धा चेतसः प्रसाद इति. क्लेशोपक्लेशकलुषितं चेतः श्रद्धायोगात् प्रसीदति. उदकप्रसादकमणियोगाद् इवोदकं. सत्यरत्नकर्मफलाभिसंप्रत्यय इत्य् अपरे इति. आकारेण श्रद्धानिर्देशः. सत्येषु चतुर्षु रत्नेषु च त्रिषु कर्मसु च शुभाशुभेषु तत्फलेषु च इष्टानिष्टेषु संत्य् एवैतानीत्य् अभिसंप्रत्ययो ऽभिसंप्रतिपत्तिः श्रद्धेति. अप्रमादः कुशलानां धर्माणां भावनेति. भावना नाम कुशलानां [तिब्. 117अ] प्रतिलम्भनिषेवणस्वभावा.

प्रतिलम्भनिषेवाख्ये शुभसंस्कृतभावने

इति वचनात् सा कथम् अप्रमादो नाम चैतसिको भविष्यति. यस्मिन् सति सा प्रतिलम्भनिषेवणभावना भवति. सो ऽप्रमादः तात्पर्यलक्षणः. अत आह. या तेषु अवहिततेति. तद् एवं सति भावनाहेताव् अयं भावनोपचारः कृत इति. चेतस आरक्षेति. यः सांक्लेशिकेभ्यश् चित्तम् आरक्षते. सो ऽप्रमाद इति. चित्तकर्मण्यतेति. यद्योगाच् चित्तं कर्मण्यं भवति. सा चित्तकर्मण्यता चित्तलाघवम् इत्य् अर्थः. ननु च सूत्रे कायप्रश्रब्धिर् अप्य् उक्तेति. कश् च पर्यायो यत् प्रश्रब्धिसंबोध्यंगद्वयं भवति. अस्ति कायप्रश्रब्धिर् अस्ति चित्तप्रश्रब्धिः. तत्र यापि कायप्रश्रब्धिः. तद् अपि प्रश्रब्धिसंबोध्यंगम् अभिज्ञायै संभोधये निर्वाणाय संवर्तते. यापि चित्तप्रश्रब्धिः. तद् अपि प्रश्रब्धिसंबोध्यंगम् अभिज्ञायै संबोधये निर्वाणाय संवर्तत (अभिध्-क्-व्य् 129) इति. कथम् इयम् एकैवोच्यते. प्रश्रब्धिश् चित्तकर्मण्यतेति. सा तु यथा कायिकी वेदनेति. यथा चेतस्य् अपि वेदना परमाणुसंचयात्मकेन्द्रियाश्रयत्वात् कायिकीत्य् उच्यते तथेयम् अपि प्रश्रब्धिर् अवगन्तव्या. कथं सा बोध्यंगेषु योक्ष्यत इति असमाहितत्वात् पंचानां विज्ञानकायानां पृच्छति. तत्र तर्हीति विस्तरः. [तिब्. 117ब्] तत्र सूत्रे कायवैशारद्यम् एव कायकर्मण्यता भूतविशेषलक्षणा प्रीत्यध्याकृता. प्रीतमनसः कारः प्रश्रभ्यत इति वचनात्. कथं सा बोध्यंगम् इति. पृथक्कलापत्वात् सास्रवत्वाच् च न युज्यत इत्य् अभिप्रायः. प्रीतिः प्रीतिस्थानीयाश् च धर्माः प्रीतिसंबोध्यंगम् इति विस्तरः. तीर्थिकाः किल भगवच्छ्रावकान् एवम् आहुः. श्रमणो भवन्तो गौतम एवम् आह. एवं यूयं भिक्षवः पंच निवरणानि प्रहाय चेतस

उपक्लेशकराणि प्रज्ञादौर्बल्यकराणि सप्त बोध्यंगानि भावयतेति. वयम् अप्य् एवं ब्रूमः. तत्रास्माकम् श्रमणस्य च गौतमस्य को विशेषो धर्मदेशनायाः. तेभ्यो भगवता एतद् उपदिष्टं. पंच सन्ति दश भवन्ति. दश सन्ति पंच व्यवस्थाप्यन्ते. प्रतिघः प्रतिघनिमित्तं च नवाघातवस्तूनि व्यापादनिवरणम् उक्तं भगवता. तदानुकूल्यात्. तथा सप्त सन्ति चतुर्दश भवन्ति. चतुर्दश सन्ति सप्त व्यवस्थाप्यन्ते. प्रीतिः प्रीतिनिमित्तं चेत्य् अनेन भेदेन. तदानुकूल्याद् इति. न च संकल्पव्यायामौ प्रज्ञास्वभावाव् इति. तयोर् यथाक्रमं वितर्कवीर्यस्वभावत्वात्. न तौ प्रज्ञास्वभावौ. यदा च त्रिस्कन्धो मार्गः क्रियते शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्ध इति. तत्र प्रज्ञास्कन्धनिर्देश उक्तं. प्रज्ञास्कन्धः कतमः. सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्व्यायाम इति. उपेक्षा [तिब्. 118अ] चित्तसमतेति. यद्योगाच् चित्तं समम् अनाभोगे वर्तते. सोपेक्षा संस्कारोपेक्षा नाम. त्रिविधा हि उपेक्षा. वेदनोपेक्षा संस्कारोपेक्षा अप्रमाणोपेक्षा चेति. ननु चोक्तं दुर्ज्ञान एषां विशेष इति. सूक्ष्मो हि चित्तचैत्तानां विशेषः. स एष दुःपरिच्छेदः प्रवाहेष्व् अपि तावद् इत्यादि वचनात्. दुःखेन ज्ञायते दुर्ज्ञानः. अस्ति हि नाम दुर्ज्ञानम् अपि ज्ञायते. यद् अविरुद्धं एकस्मिंश् चित्तक्षणे धर्मान्तरेण स्पर्शादिना. इदं तु खलु अतिदुर्ज्ञानं यद् विरोधे ऽप्य् अविरोध इति. आभोगनाभोगयोर् एकस्मिंश् चित्तक्षणे अविरोधो व्यवस्थाप्यत इति वाक्यशेषः. न हि विरुद्धयोः सुखदुःखयोर् एकस्मिंश् चित्तक्षणे भावो दृष्ट इति. अन्यत्राभोग इति. अन्यत्रालम्बने आभोगो ऽन्यत्रानाभोग इत्य् अविरोधः. एवंजातीयकम् अत्रान्यद्

अप्य् आयास्यतीति. विरोधजातीयं यथा वितर्कविचारौ. तयोर् हि लक्षणं चित्तौदारिकता वितर्कः. चित्तसूक्ष्मता विचार इति.

वितर्कविचारौदार्यसूक्ष्मते

इति वचनात्. तयोस् तु एकत्र चित्ते विरोध इति वक्ष्यते. यस् तस्य नयः. सो ऽस्यपीति. पर्यायेणानयोर् वृत्तिर् इत्य् अभिप्रायः. ह्रीर् अपत्राप्यं च पश्चाद् वक्ष्यते इति.

अह्रीर् अगुरुतावद्ये भयदर्शित्वम् अत्रपेत्य्

अत्र विपर्ययग्रहणात्. स तु प्रज्ञात्मक इति. स त्व् अमोहः प्रज्ञास्वभावः. प्रज्ञा च [तिब्. 118ब्] महाभूमिकेति.

मतिः स्मृतिर्

इति वचनात्. नासौ कुशलमहाभूमिक एवोच्यते. किं तर्हि. अकुशलादिभूमिको ऽपीति. अविहेठनेति. यद्योगात् परो न विहेठ्यते. साविहिंसा विहिंसाप्रतिपक्षः चैतसिकः. चेतसो ऽभ्युत्साह इति. कुशलक्रियायां यश् चेतसो ऽभ्युत्साहः. तद् वीर्यं. यस् त्व् अकुशलादिक्रियायां चेतसो ऽभ्युत्साहः. नैतद् वीर्यं. कौसीद्यम् एव तत्. प्रवचने पठ्यते. सीदनात्मकत्वात्. तथा ह्य् उक्तं भगवता. इतो बाह्यकानां यद् वीर्यं कौसीद्यम् एव तद् इति.

(ii.27अब्) मोहो नामाविद्येति.

विद्याविपक्षो धर्मो ऽन्यो ऽविद्येति.

पश्चाद् व्याख्यायते. भावनाविपक्षो धर्म इति. भावनाया अभावमात्रप्रतिपत्तिर् मा भूद् इति भावनाविपक्ष इत्य् आह. एवं कौशीद्यादिष्व् अपि व्याख्येयं. कायगुरुताचित्तगुरुतेति. प्रश्रब्धिप्रतिपक्षो धर्मः. यथा कायिकी वेदनेति. यथा वेदना रूपीन्द्रियाश्रयत्वात् चैतसिक्य् अपि कायिकीति व्याख्याता. तथा कायिकं स्त्यानं. पंचविज्ञानकायसंप्रयुक्तं स्त्यानं कायिकम् इत्य् उच्यते. औद्धत्यं चेतसो ऽव्युपशम इति. नृत्यगीतादिशृंगारवेषालंकारकाद्यौद्धत्यसंनिश्रयदानकर्मकश् चैतसिको धर्मः.

न चात्र स्त्यानं पठ्यते इत्य् अभिधर्मे. प्राप्तिज्ञो देवानां प्रियो न त्व् इष्टिज्ञ [तिब्. 119अ] इति. पाठप्रामाण्यमात्रेण दश क्लेशमहाभूमिकाः प्राप्ता इत्य् एताम् एव प्राप्तिं जानीते देवानां प्रियो न त्व् आचार्याणाम् इष्टिम् इच्छां जानीते. को ऽयं देवानां प्रियो नाम. र्जुकजातीयो देवानां प्रिय इत्य् एके व्याचक्षते. अशठो हि देवानां प्रियो भवति. मूर्खो देवानां प्रिय इत्य् अपरे.

यो हीश्वराणाम् इष्टः स न ताडनेन शिक्षत

इति मूर्खो भवतीति. यथैवामोह इति. यथैवमोहः कुशलमूलं प्रज्ञास्वभावत्वान् महाभूमिक इति व्यवस्थापितो न कुशलमहाभूमिक एवेत्य् अवधार्यते. ततश् च कुशलमहाभूमिकेषु न पठितः. तथा मुषितस्मृत्यादयो (अभिध्-क्-व्य् 131) ऽपि पंच महाभूमिकत्वात् न क्लेशमहाभूमिका एवेत्य् अवधार्यन्ते. ततश् च इमे न क्लेशमहाभूमिकमध्ये पठ्यन्ते. कथम् इत्य् आह. स्मृतिर् एव हि क्लिष्टा मुषितस्मृतिता. समाधिर् एव क्लिष्टो विक्षेप इत्य् एवमादीति. आदिशब्देन प्रज्ञैव क्लिष्टा असंप्रजन्यं. मनस्कार एव क्लिष्टो ऽयोनिशोमनस्कारः. अधिमुक्तिर् एव क्लिष्टा मिथ्याधिमोक्ष इति दर्शयति.

अत एवोच्यत इति विस्तरः. यत एवं स्मृत्यादयो मुषितस्मृतितादयो व्यवस्थाप्यन्ते. नैतद्व्यतिरिक्ता. अत एवोच्यते चतुष्कोटिक इति. ये महाभूमिकाः क्लेशमहाभूमिका अपि त इति काक्वापृच्छति. चतुष्कोटिकाः. स्युर् महाभूमिकाः न क्लेशमहाभूमिकाः. [तिब्. 119ब्] स्युः क्लेशमहाभूमिका न महाभूमिकाः. स्युर् महाभूमिकाश् च क्लेशमहाभूमिकाश् च. स्युर् नैव महाभूमिका न क्लेशमहाभूमिकाः. तृतीया स्मृत्यादय इति. ये मुषितस्मृत्यादयः पंच यथोक्ताः. एते हि महाभूमिकाः क्लेशमहाभूमिकाश् च. चतुर्थी एतान् आकारां स्थापयित्वेति. उक्तनिर्मुक्ता धर्माः कुशलमहाभूमिकादयश् चैतसिका रूपादयश् चान्य इति. तेषाम् अन्यथा चतुष्कोटिक इति. द्वितीयायां कोट्यां विक्षेपः प्रक्षेप्तव्यः. न तु तृतीयायाम्. अत एवं वक्तव्यं. प्रथमा कोटिः पूर्ववत्. द्वितीया आश्रद्ध्यं कौसीद्यं अविद्या औद्धत्यं प्रमादो विक्षेपश् च. तृतीया स्मृत्यादयश् चत्वारः. मुषितास्मृत्यसंप्रजन्यायोनिशोमनस्कारमिथ्याधिमोक्षा इत्य् अर्थः. चतुर्थी पूर्ववत्. यत् तूक्तं न चात्र स्त्यानं पठ्यत इति. तान् प्रतिब्रवीति. स्त्यानं पुनर् इष्यत इति विस्तरः. तस्यापाठे कस्यापराध इति. किम् अस्य स्त्यानस्य अपाठे ममापराधः. किम् आभिधार्मिकस्येति. अभिधर्मकारस्यायम् अपराधो न ममेत्य् अभिप्रायः. स्त्यानस्य सर्वक्लेशसंयोगित्वेनाभिमतत्वात्. एवं त्व् आहुर् इति. तत्र शास्त्रे स्त्यानस्यापाठे कारणम् आहुर् आभिधार्मिकाः. क्षिप्रतरं किलेति. [तिब्. 120अ] किलशब्दो ऽसंभावनायां. कथं हि नाम क्लिष्टो धर्मः शुक्लस्य समाधेर् अनुगुणो भविष्यति. लयौद्धत्ये हि समाधिपरिपंथिनी. तत् कथं परिपंथ्य् एवानुगुणे. न ह्य् एते जातु सहचरिष्णुतां जहीत इति. न ह्य् एते स्त्यानौद्धत्ये कदाचित् सहचरधर्मतां त्यजत इत्य् अर्थः. तथापि यद् यस्याधिमात्रम् इति. एवम् अपि च स्त्यानम् औद्धत्यं वा यस्य पुद्गलस्याधिमात्रं. स पुद्गलस् तच्चरितः स्त्यानचरित औद्धत्यचारितो वावगन्तव्यः. क्वचिद् धि कलापे कश्चिद् धर्म उद्भूतो भवतीति. नान्यत्रेति कुशलादिषु.

(ii.27च्द्) अकुशले त्व् आह्रीक्यम् अनपत्रपेति.

तुशब्दो विशेषणे अवधारणे वा. अकुशल एवेति.

(ii.28) परीत्तक्लेशभूमिका

इति. परीत्तो ऽल्पकः. को ऽसौ. अविद्यामात्रं. अविद्यैव केवलेत्य् अर्थः. तेनाविद्यामात्रेणेति. नान्येन रागादिना क्लेशेन. भावनाहेयेनेति. न दर्शनहेयेन. मनोभूमिकेनैवेति. न पंचविज्ञानकायिकेन. यस्माद् इमे क्रोधादय उपक्लेशा मनोभूमिका एव भवन्ति. अतो मनःसंप्रयोगात् परीत्तक्लेशभूमिका उच्यन्ते. रागादिकलापे ह्य् अवश्यम् अविद्यया भवितव्यम् इति न परीत्तो रागादिकः. तद् एवं ये सर्वत्र चैतसिके. ते महाभूमिका. ये कुशल एव. ते कुशलमहाभूमिकाः. [तिब्. 120ब्] ये क्लिष्टे निवृते चाकुशले च. ते क्लेशमहाभूमिकाः. यो त्व् अकुशल एव. ते ऽकुशलमहाभूमिकाः. ये परीत्तक्लेशसंप्रयुक्ते चेतसि. ते परीत्तक्लेशभूमिकाः. एषां तु निर्देश उपक्लेशेषु करिष्यत इति. अनुशयनिर्देशे.

(ii.29-31) अन्ये ऽपि चानियता इति. ये कदाचित् कुशले कदाचिद् अकुशले कदाचिद् अव्याकृते चेतसि भवंति. मिद्धादय इति. आदिशब्देनारतिविजृंभिकातन्द्रीभक्ते ऽसमतादय उपक्लेशाः क्लेशाश् च रागादायो ऽप्य् अनियतत्वेन गृह्यन्ते. न ह्य् एते रागादयः पंचानां प्रकाराणाम् अन्यतमस्मिं नियता भवन्ति. न महाभूमिकास् सर्वत्र चेतस्य् अभावात्. न कुशलमहाभूमिकाः कुशलत्वयोगात्. न क्लेशमहाभूमिकाः सर्वत्र क्लिष्टे तदभावात्. न हि सप्रतिघे चेतसि रागो भवति सरागे च चेतसि प्रतिघः. इति एवम् अन्ये ऽपि क्लेशा वक्तव्याः. अत्राचार्यवसुमित्रः संग्रहश्लोकम् आह.

वितर्कचारकौकृत्यमिद्धप्रतिघसक्तयः मानश् च विचिकित्सा चेत्य् अष्टाव् अनियताः स्मृता

इति. तद् इदम् अष्टनियमवचनं न बुध्यामहे. दृष्टयो ऽपि कस्मान् नानियता इष्यन्ते. न हि सप्रतिघे सविचिकित्से वा चित्ते मिथ्यादृष्टिः प्रवर्तते.

आवेणिकत्वे ऽकुशले दृष्टियुक्ते च [तिब्. 121अ] विंशतिः क्लेशैश् चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिर्

इति वचनात्. तस्माद् यद्वा तत् वेदम् उक्तम् इति पश्यामः.

कामावचरं तावत् पंचविधम् इति. कुशलम् एकं. अकुशलं द्विविधम्. आवेणिकम् अविद्यामात्रसंप्रयुक्तं रागाद्यन्यक्लेशसंप्रयुक्तं च. अव्याकृतम् अपि द्विविधं. निवृताव्याकृतं सत्कायान्तग्राहदृष्टिसंप्रयुक्तं. अनिवृताव्याकृतं च विपाकजादीनि. कुकृतभावः कौकृत्यम् इति. अर्थस्य कुकृतस्य धर्मः. स तु चैतसिक इति न संबध्यते. तस्माद् आह. इह तु (अभिध्-क्-व्य् 133) पुनः कौकृत्यालम्बनो धर्म इति. किंस्वभाव इत्य् आह. चेतसो विप्रतिसार इति. यदि कौकृत्यालम्बनो धर्मः कौकृत्यम् उच्यते. तत्संप्रयुक्ता अप्य् अन्ये चित्तचैत्ताः कौकृत्यं प्राप्नुवन्ति. न प्राप्नुवन्ति. तेषाम् अप्राधान्यात्. विप्रतिसारावस्थायां हि कौकृत्य्लक्षणं चैतसिकं कौकृत्याकारम् उद्भूतवृत्तिकम्. अन्ये चित्तचैत्तास् तदाकारेणानुवर्तंते. कस्यचिद् एव हि धर्मस्य कस्मिंश्चिच् चित्तकलापे प्राधान्यम् इति वर्णयंति. शून्यतालम्बनविमोक्षमुखं शून्यतेति. स्कन्धानाम् अन्तर्व्यापारपुरुषरहितालम्बनं विमोक्षमुखं समाधिविशेषः शून्यतेत्य् उच्यते. विनीलकव्याध्मातकाद्यशुभालम्बनः अलोभः अशुभेत्य् उच्यते. भावनासंबद्धत्वात् स्त्रीलिंगनिर्देशः. अशुभा भावनेति. तथेहापि कौकृत्यालम्बनश् चैतसिको धर्मः कौकृत्यम् इति. [तिब्. 121ब्] स्थानेन स्थानिनाम् अतिदेशः. सर्वो ग्राम आगत इति. सभूमिकः शालासमुदायो ग्रामः. स्थानिषु मनुष्येष्व् आगतेषु वक्तारो भवंति सर्वो ग्राम आगत इति. एवं सर्वो देश आगत इति. स्थानभूतं च कौकृत्यं विप्रतिसारस्येति. विप्रतिसारालम्बनत्वात्. तस्माद् युक्तस् तथानिर्देशः. फले वा हेतूपचार इति. हेतुः कौकृत्यं. फलं विप्रतिसारः. तस्मिं फले हेतुर् उपचर्यते. हेतुवाचकेन शब्देन

फलम् उच्यत इत्य् अर्थः. यथा षड् इमानि स्पर्शायतनानि पौराणं कर्मेति. पूर्वजन्मकृतस्य पौराणस्य कर्मणश् चक्षुरादीनि षट् स्पर्शायतनानि फलानि. तेषु यथा कर्मोपचर्यते. तद्वत्. यत् तर्ह्य् अकृतालम्बनं तत् कथं कौकृत्यम् इति. यद् अकृतं. तन् न कृतम् इति मत्वा चोदयति. अकृते ऽपि कृताख्या भवतीति. अकृते ऽप्य् अर्थे कृतशब्दप्रयोगो भवति. कथम् इत्य् आह. न साधु मया कृतम् यत्. तन् न कृतम् इति. कृतम् इव तद् इति कृत्वा. यत् कुशलम् अकृत्वा तप्यत इति. यत् कुशलं दानादिकं अकृत्वा तप्यते पश्चात् तापीभवति. तत् कुशलं. अकुशलं च कृत्वा किं. तप्यत इति अधिकृतं. यच् चाकुशलं प्राणातिपातादिकं कृत्वा तप्यते. तद् अपि कुशलं. विपर्ययाद् अकुशलं. यद् अकुशलम् अकृत्वा तप्यते कुशलं च कृत्वेति. यत् पापम् अकृत्वा पश्चात् तापीभवति न साधु मया कृतं यत्. [तिब्. 122अ] तन् न कृतम् इति. तद् अकुशलं कौकृत्यं. यच् च कुशलं दानादिकं कृत्वा पश्चात् तापीभवति न साधु मया कृतं यद् दानादिकं कृतम् इति. तद् अप्य् अकुशलं. तद् एतद् उभयम् अप्य् उभयाधिष्ठानं भवतीति. तद् एतत् कौकृत्यम् उभयम् अपि कुशलं चाकुशलं च उभयाधिष्ठानं भवति यथोक्तेन विधानेन.

आवेणिक

इति. रागादिपृथग्भूत इत्य् अर्थः.

दृष्टियुक्ते चेति.

चशब्दः अकुशल इत्य् अनुकर्षणार्थः. महाभूमिक एव कश्चित् प्रज्ञाविशेषो दृष्टिर् इति. संतीरिका या प्रज्ञा. सा दृष्टिः. सा चेहाकुशला गृह्यते. तस्माद् आह. मिथ्यादृष्टिश् चेत्यादि

कौकृत्येनैकविंशतिर्

इति कौकृत्येन चेति. लुप्तनिदृष्टश् चकारो द्रष्टव्यः. क्लेशैश् चतुर्भिर् इत्यादिषु प्रत्येकं वाक्यपरिसमाप्तिर् वेदितव्या. न हि रागादयः परस्परेण संप्रयुज्यन्त इत्य् आभिधार्मिकाः. स च क्लेश आवेणिकोक्ताश् च विंशतिर् इति. दश महाभूमिकाः षट् क्लेशमहाभूमिकाः द्वाव् अकुशलमहाभूमिकौ वितर्को विचारश् चेति विंशतिः. स च क्लेशो रागः प्रतिघो मानो विचिकित्सा चेत्य् एकविंशतिः. एकविंशतिर् भवत्य् एवेति क्रियावधारणम् अवगन्तव्यं. क्रोधादिभिर् अपीति.

क्रोधोपनाहशाठ्येर्ष्याप्रदासम्रक्षमत्सरा मायामदविहिंसाश् चेति

[तिब्. 122ब्] एभिर् अपि संप्रयुक्ते चित्ते एकविंशतिर् एव चैतसिकाः. ते चावेणिकोक्ताः पूर्ववत्. स चोपक्लेशः क्रोधो वा यावद् विहिंसा वेति. कौकृत्येन च संप्रयुक्ते ते च पूर्वोक्ताः तच् च कौकृत्यं इत्य् एकविंशतिः. कौकृत्यम् अपि ह्य् उपक्लेशः. स्वतंत्रम् इष्यते. समासत आवेणिक इत्य् विस्तरः. अविद्यामात्रसंप्रयुक्ते चेतसि अकुशले दृष्टिसंप्रयुक्ते चाकुशले विंशतिः. अन्यक्लेशोपक्लेशसंप्रयुक्ते त्व् अकुशल एवैकविंशतिः.

निवृताव्याकृतम् इति. क्लेशाच्छादितं कुशलाकुशलत्वेन अव्याकृतं यत्. तन् निवृताव्याकृतम्. अनाच्छादितं त्व् अनिवृताव्याकृतं विपाकजैर्यापथिकशैल्पस्थानिकनैर्माणिकस्वभावं. बहिर्देशका अव्याकृतम् अपि कौकृत्यम् इच्छन्तीति. कश्मीरमण्डलाद् ये बहिर्देशस्थिताः. ते बहिर्देशकाः. त्रयोदशेति क्वचिद् अनिवृताव्याकृते कौकृत्यं त्रयोदशमम् अधिकं प्रक्षिप्य. मिद्धं प्रचलायमानावस्थायां स्वप्नदर्शनावस्थायां वा कुशलाकुशलाव्याकृतत्वाद् इति. शास्त्रे वचनात्. कथं मिद्धं कुशलं वक्तव्यम् अकुशलं वक्तव्यम् अव्याकृतं वक्तव्यम् इति. आह. कुशलं वक्तव्यम् अकुशलं वक्तव्यम् अव्याकृतं वक्तव्यम् इति. यत्र [तिब्. 123अ] द्वाविंशतिः. तत्र त्रयोविंशतिर् इति विस्तरः. यत्र द्वाविंशतिश् चैतसिका इत्य् उक्तं. तत्र तन् मिद्धं त्रयोविंशं. त्रयोविंशतेः पूरणम् इत्य् अर्थः. यत्र त्रयोविंशतिः कौकृत्यम् अधिकं क्वचिद् इति. तत्र तन् मिद्धं चतुर्विंशम्. एवं यावद् अन्यत्र द्वादशव्याकृते मता मिद्धं (अभिध्-क्-व्य् 135) त्रयोदशं वक्तव्यं. बहिर्देशकमतेन तु कौतृत्याधिके चतुर्दशं मिद्धं भवतीति योज्यं.

(ii.32) अतो यथोक्ताद् इति. अतो यथावर्णिताच् चैत्तसहोत्पादनियमात्. कौकृत्यं मिद्धं च सर्वथा नास्तीति. न कुशलं नाप्य् अव्याकृतं कुत एवाकुशलम् इति. सर्वथा मिद्धं कौकृत्यं च नास्ति. शाठ्यमदमाया वर्ज्या इति.

माया शाठ्यं च कामाद्यध्यानयोर् ब्रह्मवञ्चनात्. स्त्यानौद्धत्यमदा धातुत्रय

इति वचनात्. एतानि वर्ज्यन्ते तेषां तत्र सद्भावात्. अन्यत् सर्वं तथैवेति. कुशले चित्ते पूर्ववत् द्वाविंशतिः. आवेणिके दृष्टियुक्ते च निवृताव्याकृते ऽष्टादश कामधातुवत्. रागमानविचिकित्सान्यक्लेशसंप्रयुक्ते मायाशाठ्यमदोपक्लेशसंप्रयुक्ते च एकान्नविंशतिः. ते च स च क्लेश उपक्लेशो वा तत्रैकान्नविंशो भवति. अनिवृताव्याकृते विपाकजैर्यापथिकनैर्माणिके पूर्ववत् द्वादश.

ध्यानान्तरे वितर्कश् चेति.

कौकृत्यमिद्धाकुशलानि चेति चशब्दः. किं. न सन्तीत्य् [तिब्. 123ब्] अधिकृतं. शेषं तथैव वितर्कन्यूनं. यथाप्रतिसिद्धं नास्तीति. कौकृत्यमिद्धाकुशलवितर्का न सन्तीत्य् अर्थः. विचारश् च मायाशाठ्यं चेत्य् अपिशब्दाद् इति. विचारश् चेति एतावति वक्तव्ये विचारश् चपीत्य् अपिशब्दाधिक्याद् अर्थाधिक्यम् इति. मायाशाठ्यम् अपि तत्र नास्तीत्य् अयम् अपरार्थो लभ्यते. मदस् तु नापास्यते.

स्त्यानौद्धत्यमदा धातुत्रय

इति वचनसामर्थ्यात्. शेषं तथैवेति. कुशले वितर्कविचारनिर्मुक्ता विंशतिः. आवेणिके दृष्टियुक्ते षोडश. रागादिक्लेशसंप्रयुक्ते, मदोपक्लेशसंप्रयुक्ते च सप्तदश. दश महाभूमिकाः षट् क्लेशमहाभूमिकाः. स च क्लेशः स वोपक्लेशः. अनिवृताव्याकृते दश महाभूमिका एवेति गमनीयं. ब्रह्मणो हि यावच् छाठ्यम् इति विस्तरः. तत्र शाठ्यपूर्वकत्वान् मायापि गृहीता भवति. पर्षत्सम्बन्धान् नोर्ध्वम् इति. येषां पर्षद् अस्ति. तेषां पर्षद्ग्रहणार्थं मायाशाठ्यं प्रवर्तते. अष्टौ पर्षदः पठ्यन्ते. क्षत्रियपर्षत् ब्राह्मणपर्षत् गृहपतिपर्षत् श्रमणपर्षत् चातुर्महाराजिकपर्षत् त्रयस्त्रिंशत्पर्षत् मारपर्षत् ब्रह्मपर्षत्. तासाम् अन्यतमो ऽपि ऊर्ध्वम् अतो नास्तीति मायाशाठ्यभावः. ब्रह्मणस् तु पर्षद् अस्ति. तस्माद् आह. स हि स्वस्यां पर्षदि निषण्णो ऽश्वजिता भिक्षुणा ब्रह्मलोकगतेन प्रश्नं (अभिध्-क्-व्य् 136) पृष्टः. कुत्रेमानि चत्वारि महाभूतानि अपरिशेषं [तिब्. 124अ] निरुध्यन्त इति. अप्रजानन्न् आरूप्यधातौ चत्वारि महाभूतानि अशेषं निरुध्यन्त इत्य् अनवबुध्यमानः क्षेपं कथाप्रकरणम् अकार्षीत्. अहम् अस्मि ब्रह्मेति विस्तरः. ब्रह्मेत्य् उक्त्वा महाब्रह्मेति वचनं ब्रह्मान्तरेभ्य आत्मनो विशिष्टत्वप्रदर्शनार्थं. ईश्वर ईशनशीलः. कर्ता निर्माता स्रष्टा सृज इति पर्याया उत्तरोत्तरव्याख्यायोगो वा. पितेव पितृभूतः. केषां. भावानां.

(ii.33) उक्तम् एतद् इति विस्तरः. या भूमिर् यच् चित्तं यावन्तश् च चैत्ताः. सा भूमिस् तच् चित्तं तावन्तश् च चैत्ता इत्य् उक्तम् एतत्. तत्र विहितम् इति शास्त्रे विहितं. तत्र विहितम् इति केचित् पठंति. स एव चात्रार्थः. गुणेषु गुणवत्सु चेति. स्वपरसांतानिकेषु मैत्रीकरुणादिषु गुणेषु. गुणवत्सु च पुद्गलेषु आचारगोचरगौरवादिसंपन्नेषु. यद्योगाद् गौरवं न करोति. असाव् अगौरवता. नास्ति गौरवम् अस्येत्य् अगौरवः. तद्भावः अगौरवता चैतसिकविशेषः. को ऽसाव् इति. पर्यायाव् आहुः. अप्रतीशता अभयवशवर्तितेति. शिष्यं प्रति इष्ट इति प्रतीशः. गुरुस्थानीयः. नास्ति प्रतीशो ऽस्येति अप्रतीशः. तद्भावः अप्रतीशता. भावाभिधानेन चैत्तो गृह्यते. भयं नाम मानसश् चैत्तो धर्मः. भयेन वशे वर्तितुं शीलम् अस्येति भयवशवर्ती. न भयवशवर्ती [तिब्. 124ब्] अभयवशवर्ती तद्भावो ऽभयवशवर्तिता. तद् एव चाह्रीक्यं. नास्ति ह्रीर् अस्येत्य् अह्रीकः. तद्भाव आह्रीक्यं. स च गौरवप्रतिद्वंद्वो धर्मः. न तदभावमात्रं.

अवद्ये भयादर्शित्वम् अत्रपेति.

अवाच्यम् अवद्यम्. अतश् चाह. अवद्यं नाम यद् गर्हितं सद्भिर् इति. तत्राभयदर्शिता अनपत्राप्यम् इति. अवद्ये ऽनिष्टफलादर्शितेत्य् अर्थः. भीयते ऽस्माद् इत्य् अत्र भयशब्दो ऽपादानसाधनः. तस्माद् भयशब्देन अनिष्टं फलम् उच्यते. अभयस्य दर्शनं अभयदर्शितेति विस्तरः. यदि तावद् एवं क्रियेत न भयम् अभयं. अभयं द्रष्टुं शीलम् अस्येति अभद्यदर्शी. तद्भावो ऽभयदर्शितेति. प्रज्ञा विज्ञास्यते. प्रज्ञया हि अभयं पश्यति. अथ पुनर् एवं क्रियते भयं द्रष्टुं शीलम् अस्येति भयदर्शी. न भयदर्शी अभयदर्शी. तद्भावो ऽभयदर्शिता. अभयदर्शितेति अविद्या विज्ञास्यते. तथा ह्य् अविद्यायोगाद् भयं न पश्यति. नैव हि दर्शनं दर्शितेति विस्तरः. न प्रज्ञा नाप्य् अविद्या. किं तर्हि. तयोः प्रज्ञाविद्ययोर् यो निमित्तं उपक्लेशः. (अभिध्-क्-व्य् 137) तद् अभयदर्शनं. तच् चानपत्राप्यम् [तिब्. 125अ] इति. अपत्रपते ऽनेनेत्य् अपत्राप्यं. कृत्यल्युटो बहुलम् इति करणे ण्यत्प्रत्ययः. न अपत्राप्यं अनपत्राप्यम् इति. हृई लज्जायां त्रपूष् लज्जायाम् इत्य् एकार्थयोर् अनयोर् धात्वोः कथम् अर्थांतरे वाचकत्वम् इति अपरितुष्यंतो ऽन्ये पुनर् आहुः. आत्मापेक्षयेति विस्तरः. एवम् अपि द्वे अपेक्षे युगपत् कथं सेत्स्यत इति. अस्मिन्न् अपि पक्षे युगपदपेक्षाद्वयासंभव इति पश्यंश् चोदक अह. एवम् अपीति. अपिशब्देन अयम् अपि पक्षो दुष्यतीत्य् अभिप्रायः. आह्रीक्यम् अनपत्राप्यं चैकस्मिंश् चित्ते कथं भवत इति मत्वा चोदयति. द्वे अपेक्षे युगपत् कथं सेत्स्यत इति. न खलूच्यते युगपद् आत्मानं परं चापेक्षत इति विस्तरः. पर्यायेन वृत्तिम् अनयोर् दर्शयति. कस्यचिद् धि दोषैर् आत्मानम् अपेक्षमाणस्यापि न प्रवर्तते लज्जा. कस्यचित् परम् अपेक्षमाणस्येति. विपर्ययेण ह्रीर् अपत्राप्यं चेति विस्तरः. प्रथमेन तावत् कल्पेन

अह्रीर् अगुरुतावद्ये भयादर्शित्वम् अत्रपेति

अनेन. सगौरवतेति विस्तरेण भयदर्शिता अपत्राप्यम् इति. भयदर्शितानिमित्तम् अपत्राप्यम् इत्य् अर्थः. द्वितीयेन कल्पेन आत्मापेक्षया दोषैर् अलज्जनं आह्रीक्यं परपेक्षयानपत्राप्यम् इति अनेन. आत्मापेक्षया दोषैर् लज्जनं ह्रीः. परापेक्षयापत्राप्यम् इति. एवम् अपि द्वे अपेक्षे इति विस्तरेण चोद्यपरिहारौ वक्तव्यौ. [तिब्. 125ब्] प्रेमगौरवयोर् एकत्वं मन्यंते केचित्. तस्माद् अनयोर् नानाकरणप्रदर्शनार्थम् आह.

प्रेंअ श्रद्धेति.

प्रेमैव श्रद्धा न गौरवं. न तु श्रद्धैव प्रेम. तेनाह. द्विविधं हि प्रेम क्लिष्टं अक्लिष्टं चेत्यादि. स्याच् छ्रद्धा न प्रेमेति चतुःकोटिकः. दुःकसमुदयसत्ययोः श्रद्धैवाभिसंप्रत्ययरूपा न प्रेम अस्पृहणीयत्वात्. स्यात् प्रेम न श्रद्धेति. प्रियतारूपा तृष्णा नाभिसंप्रत्ययरूपेति श्रद्धा न भवति. उभयं श्रद्धा च प्रेम च. अभिसंप्रत्ययरूपत्वात् स्पृहणीयत्वाच् च निरोधमार्गसत्ययोस् तदुभयात्मकं भवतीत्य् अर्थः. नोभयम् एतान् आकारान् स्थापयित्वेति. अन्ये चैतसिका वेदनादयः विप्रयुक्तादयश् च. एवं धर्मालंबनस्य प्रेम्नः श्रद्धायाश् च चतुःकोटिकं कृत्वा पुद्गलालंबनस्य चतुष्कोटिकं करोति. पुद्गलेष्व् इति विस्तरः. तत्र सार्धं विहरंतीति सार्धविहारिणः शिष्याः. ये प्रव्रजिताः गुरोर् अंते वसंतीति अंतेवासिनः. निश्रयाध्ययनसंबंधिनः. तेषु पुत्रादिषु प्रेम न गौरवं क्लिष्टं अक्लिष्टं चेति संभवतः. गौरवं न प्रेम

गुरुत्वं ह्रीर्

इति वक्ष्यमाणलक्षणं गौरवं न प्रेम गौरवस्थानत्वात्. उभयं प्रेम गौरवं च. तदुभयात्मकं भवतीत्य् अर्थः. [तिब्. 126अ] नोभयम् एतान् आकारान् स्थापयित्वा यो ऽन्यो जनो ऽसंबद्धो निर्गुणः. तत्र न प्रेम न गौरवम् इति. तत्पूर्विका च प्रियता प्रेमेति. गुणसंभावनापूर्विका प्रियता तच् च प्रेम. तस्मान् न सैव श्रद्धा प्रेमेत्य् आचार्यः.

गुरुत्वं ह्रीर्

इति. यथोक्ता ह्रीः सगौरवता सप्रतीशता सभयवशवर्तितेत्य् उक्ता. या ह्रीः. तद् गौरवं. तद् एवं प्रेम श्रद्धालक्षणं भवति. ह्रीलक्षणं तु गौरवम् इत्य् उक्तं तयोर् नानाकरणं.

एवं सप्रतीशतापीति. एवं ह्रीर् अपि धर्मेषु च पुद्गलेषु च. ये पुद्गलालंबने श्रद्धाह्रियौ. ते तत्र न स्त इति पुद्गलालंबने श्रद्धाह्रियाव् अधिक्रियेते ययोर् ऐक्यं मन्यन्ते. ते आरूप्यधातौ न स्तः कामरूपधात्वोर् एव भवत इत्य् उक्तं.

(ii.34) कथं पुनर् अनयोर् एकत्र चित्ते योग इति. न हि तद् एव चित्तं तद्योगाद् औदारिकं च सूक्ष्मं च युज्यते विप्रतिषेधात्. निष्ठ्यूतम् इति. निःपूर्वस्य ष्ठीवते निष्ठायाम् एतद् रूपं निष्ठ्यूतं. निरस्तम् इत्य् अर्थः. नातिश्यायते नातिघनीभवति. नातिविलीयते नातिद्रवीभवति. नातिसूक्ष्मं भवति नात्यौदारिकम् इति. मध्यमावस्थम् इत्य् अर्थः. एवं तर्हि निमित्तभूताव् इति विस्तरः. यथोदकातपौ सर्पिषः श्यानत्वविलीनत्वयोर् निमित्तभूतौ. न तु पुनस् तत्स्वभावौ श्यानत्वविलीनत्वस्वभावौ. एवं वितर्कविचारौ चित्तस्यौदारिकतासूक्ष्मतयोर् [तिब्. 126ब्] निमित्तभूतौ न तु पुनर् औदारिकसूक्ष्मतास्वभावाव् इति. अत एवं वक्तव्यं. चित्तौदारिकताहेतुर् वितर्कः. चित्तसूक्ष्मताहेतुर् विचार इति. ब्रूयास् त्वम् अभ्युपगमाद् अदोष एष इति. तत इदं दोषान्तरम् आहा. आपेक्षिकी चौदारिकसूक्ष्मतेति विस्तरः. भूमिप्रकारभेदात्. भूमिभेदात् प्रकारभेदाच् च. भूमिभेदात् तावत्. प्रथमध्यानम् अपेक्ष्य कामधातुर् औदारिको महाभिसंस्कारतरत्वात्. कामधातुम् अपेक्ष्य प्रथमं ध्यानं सूक्ष्मम् अल्पाभिसंस्कारतरत्वात् प्रशान्तम् इति. तद् एव पुनर् द्वितीयं ध्यानम् अपेक्ष्य औदारिकं. एवं यावद् भवाग्रं सूक्ष्मं. प्रकारभेदाद् अपि तस्याम् एव भूमौ आपेक्षिक्याव् औदारिकसूक्ष्मते. तद्यथा य एव ते त्रयः क्लेशानां मूलप्रकारा मृदुमध्याधिमात्रा गुणानां च. कामधातौ यावद् भवाग्रे तेषाम् अधिमात्रः क्लेश औदारिकः. मृदुः सूक्ष्मः. क्लेशविपर्ययेण गुणानाम् इति. एवं भूमिप्रकारभेदेनापेक्षिक्याव् (अभिध्-क्-व्य् 139) औदारिकसूक्ष्मते इत्य् आ भवाग्राद् औदारिकसूक्ष्मते स्यातां. अनिष्टं चैतत्. वितर्कविचारयोः

कामधातुप्रथमध्यानभूमिकत्वाद् इति. न चौदारिकसूक्ष्मतया जातिभेदो युक्त इति. वितर्कविचारयोर् जातिभेद इष्यते. अन्यो वितर्को ऽन्यो विचार इति. न चौदरिकत्वेन सूक्ष्मत्वेन च वितर्कविचारयोर् यथाक्रमं स्वभावभेदो युक्तः. किंकारणं. जातिभिन्नयोर् हि वेदनासंज्ञयोर् औदारिकसूक्ष्मता भवति. न च पुनर् औदारिकसूक्ष्मतयैव तयोः [तिब्. 127अ] स्वभावभेदः. किं तर्हि. अनुभवलक्षणतया निमित्तोद्ग्रहणलक्षणतया च तयोः स्वभावभेदः. तस्माद् अप्य् अनयोर् नास्ति लक्षणं. अन्ये पुनर् आहुर् इति सौत्रान्तिकाः. वाक्संस्कारा इति. वाक्समुत्थापका इत्य् अर्थः. वितर्क्य विचार्य वाचं भाषते नावितर्क्य नाविचार्येति. वितर्कविचारैर् एवं चैवं च भाषिष्य इति. तत्र ये औदारिकाः. ते वितर्का वाक्संस्काराः. कर्मणा स्वभावो द्योतितो न शक्यम् अन्यथा स्वलक्षणं प्रदर्शयितुम् इति. एवं सूक्ष्मास् ते विचाराः. एतस्यां कल्पनायां समुदायरूपा वितर्कविचाराः. पर्यायभाविनश् च भवंति. चित्तचैत्तकलापस्य वाक्समुत्थापकत्वात्. कथं पुनर् अनयोर् एकत्र चित्ते योग इत्य् उक्तं. अतो वैभाषिक आह. यदि चैकत्र चित्ते ऽन्यो धर्म औदारिक इति विस्तरः. एकत्र चित्ते वितर्क औदारिकस्वभावो ऽन्यो धर्मो विचारस् तु सूक्ष्मस्वभावो ऽपरः. तौ च यथाक्रमं चित्तौदारिकतासूक्ष्मताहेतुत्वाच् चित्तौदारिकतासूक्ष्मतेत्य् उच्यते. अथ वा चित्तस्यौदारिकश् चित्तौदारिकः. चित्तौदारिकभावः चित्तौदारिकता. एवं चित्तसूक्ष्मतापि वक्तव्येति को ऽत्र विरोधः. न स्याद् विरोधो यदि वितर्कविचारयोर् जातिभेदः स्याद् वेदनासंज्ञावत्. वेदना ह्य् औदारिकी संज्ञा सूक्ष्मा. तयोस् तु जातिभेदो ऽस्तीति औदारिकसूक्ष्मतायाम्

अप्य् एकत्र चित्ते न विरोधः. एकस्यां तु जातौ अनवधृतलक्षणायां ऐक्येन च कैश्चिद् गृहीतायां मृद्वधिमात्रता औदारिकसूक्ष्मतालक्षणा [तिब्. 127ब्] युगपन् न संभवतेत्य् अर्थाद् अयुगपत् संभवतीत्य् उक्तं. तथा हि वेदना अन्यो वा धर्मः पर्यायेण मृदुताम् अधिमात्रतां च भजते. नैवं व्यक्तो भवति. किं. जातिभेदः. कस्मात्. प्रत्येकं जातीनाम् मृद्वधिमात्रत्वात्. वेदना ह्य् औदारिकी भवति. सूक्ष्मा वापेक्षाभेदात्. कथम् इति. वेदना संज्ञाम् अपेक्ष्य औदारिकी. रूपम् अपेक्ष्य सूक्ष्मा. तथा संज्ञा संस्कारान् अपेक्ष्यौदारिकी. वेदनाम् अपेक्ष्य सूक्ष्मा. वितर्कविचारवद् एव वा. भवतो ऽपि हि कामावचरौ वितर्कविचाराव् औदारिकौ प्रथमध्यानभूमिकौ सूक्ष्मौ. ध्यानान्तरे च विचारः सूक्ष्मतर इति. तद् एवं प्रत्येकं जातीनां मृद्वधिमात्रत्वात्. नैवं व्यक्तो भवति. न मृद्वधिमात्रतया जातिभेदो व्यक्तो भवतीत्य् अर्थः. अत्र (अभिध्-क्-व्य् 140) संघभद्राचार्य आह. एकत्र च चित्ते औदारिकसूक्ष्मते भवतो न च विरोधः. प्रभावकालान्यत्वात्. यदा हि चित्तचैत्तकलापे वितर्क उद्भूतवृत्तिर् भवति. तदा चित्तम् औदारिकं भवति. यदा विचारः. तदा सूक्ष्मं. रागमोहचरितव्यपदेशवत्. रागमोहयौगपद्ये ऽपि हि तयोर् अन्यतरोद्भूतवृत्तियोगात्. रागचरितो मोहचरित इति वा व्यपदिश्यते. तद्वद् इहापि द्रष्टव्यम् इति. अत्र वयं ब्रूमः. भवति कस्मिंश्चित् कलापे कस्यचिद् धर्मस्य उद्भूतवृत्तित्वं. किं त्व् अनयोर् न लक्षणं विवेचितम् इति. न किंचिद् एतत्. ननु च चित्तौदारिकतासूक्ष्मतालक्षणौ वितर्कविचाराव् उक्तौ. [तिब्. 128अ] सत्यम् उक्तौ. प्रत्येकं तु जातीनाम् औदारिकसूक्ष्मते इति ताव्

औदारिकसूक्ष्मतालक्षणौ भवितुम् अर्हतो यथोक्तम् इति नैतद् अस्मान् आराधयति. नैव हि वितर्कविचाराव् एकत्र चित्ते भवत इत्य् अपर इत्य् आचार्यमतम्. अस्मिन् मते यथोक्तदोषप्रसंगो न भवति. कस् त्व् अनयोः पर्यायवर्तिनोर् विशेषः. अत्र पूर्वाचार्या आहुः. वितर्कः कतमः. चेतनां वा निश्रित्य प्रज्ञां वा पर्येषको मनोजल्पो ऽनभ्यूहाभ्यूहावस्थयोर् यथाक्रमं सा च चित्तस्यौदारिकता. विचारः कतमः. चेतनां वा निश्रित्य प्रज्ञां वा प्रत्यवेक्षको मनोजल्पो ऽनभ्यूहाभ्यूहावस्थयोर् यथाक्रमं सा च चित्तसूक्ष्मतेति. अस्मिन् पक्षे वितर्कविचाराव् एकस्वभावौ समुदायरूपौ पर्यायवर्तिनौ पर्येषणप्रत्यवेक्षणाकारमात्रेण भिन्नाव् इष्येते. तत्रोदाहरणं केचिद् आचक्षते. तद्यथा बहुषु घटेष्व् अवस्थितेषु को ऽत्र दृढः को जर्जर इति मुष्टिनाभिघ्नतो य ऊहः. स वितर्कः. इयंतो जर्जरा दृढा वेति यद् अन्ते ग्रहणं. स विचार इति. कथम् इदानीं प्रथमं ध्यानं पंचाङ्गम् इति विस्तरः. विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरतीति सूत्रे पंचांगम् उक्तं. तत् कथं. भूमितस् तत् पंचाङ्गम् उक्तं न क्षणत इति. प्रथमध्यानभूमिः [तिब्. 128ब्] कदाचिद् वितर्केण व्यवकीर्णा कदाचिद् विचारेण. तद् एवं संतानम् अधिकृत्य पंचाङ्गम् उक्तं न क्षणम् अधिकृत्येत्य् अदोषः.

येन केनचित् परतो विशेषपरिकल्पेनेति. भूतेनाभूतेन वा परत उत्कर्षपरिकल्पेन शूरो ऽर्थवान् अस्मि शीलवान् बुद्धिसंपन्न इति वा या चेतस उन्नतिः स मानो नाम चैतसिको धर्मः.

पर्यादानं तु चेतस

इति तुशब्दो विशेषणार्थो भिन्नक्रमश् चावगन्तव्यः. अत एवाह. मदस् तु स्वधर्मेष्व् एव रक्तस्येति विस्तरः. चेतसः पर्यादानम् इति. येन स्वधर्मेष्व् (अभिध्-क्-व्य् 141) एव रूपशौर्यादिषु रक्तं चेतः पर्यादीयते संनिरुध्यते. स रागनिष्यन्दो मदः. यः स्वधर्मेष्व् एव रक्तस्य दर्पचेतसः पर्यादानात् कुशलधर्मक्रियाभ्यः प्रतिसंहारः मद इति आचार्यसंघभद्रः. संप्रहर्षविशेषो मद इति. क्लिष्टसौमनस्यम् अभिप्रेतं. तद् एतन् नेच्छन्ति वैभाषिकाः. यस्मात् सौमनस्यं आ द्वितीयाद् ध्यानात्. मदश् च त्रैधातुकः.

स्त्यानौद्धत्यमदा धातुत्रय

इति वचनात्.

(ii.35) उक्ताः सह चित्तेन चैत्ताः चैत्ताः प्रकारेण इति. चित्तं तावत् प्रकारेण उक्तं

विज्ञानं प्रतिविज्ञप्तिर्

इत्य् एवमादिना स्वलक्षणस्कन्धधात्वायतनकुशलादिप्रभेदेन. चैत्ता अपि स्वलक्षणपरस्परविशेषेण [तिब्. 129अ] चित्तसंख्यावधारणकामप्रथमध्यानादिभूमिप्रभेदेन.

एकार्थम्

इति. यच् चित्तं. तद् एव मनस् तद् एव विज्ञानम् इत्य् एको ऽर्थो ऽस्येत्य् एकार्थं. निर्वचनभेदस् तूच्यते. चिनोतीति चित्तम् इति. कुशलम् अकुशलं वा चिनोतीत्य् अर्थः. नैरुक्तेन विधिनैवं सिद्धं. मनुत इति मनः. मन ज्ञान इत्य् अस्य औणादिकप्रत्ययात् तस्यैतद् रूपं मन इति. विजानात्य् आलम्बनम् इति विज्ञानं कर्तरि ल्युट्. चितं शुभाशुभैर् धातुभिर् इति चित्तं. भावनासंनिवेशयोगेन सौत्रान्तिकमतेन योगाचारमतेन वा. आश्रयभूतं मनः आश्रितभूतं विज्ञानम् इति आश्रयभावापेक्षं मनः.

षण्णाम् अनन्तरातीतं विज्ञानं यद् धि. तन् मन

इत्य् अर्थपरिग्रहात्. आश्रितभावापेक्षं विज्ञानं. द्वयं प्रतीत्य विज्ञानस्योत्पत्तिर् इति वचनात्.

चित्तचैतसाः साश्रयालम्बनाकाराः संप्रयुक्ताश् चेति.

चशब्द एकानुकर्षणार्थः. य एव हि चित्तचैत्ता इत्य् अनेन शब्देनाभिहिताः. त एव साश्रया इत्य् अनेनापि शब्देनाभिधीयन्ते. एवं सालम्बनाः साकाराः संप्रयुक्ताश् च. तत्र साश्रया इन्द्रियाश्रितत्वात्. षडायतनाश्रितत्वाद् इत्य् अर्थः. सालम्बना विषयग्रहणात्. न हि विनालम्बनेन चित्तचैत्ता उत्पद्यन्ते. [तिब्. 129ब्] साकाराः तस्यैवालम्बनस्य प्रकारेण आकारणात्. येन ते सालम्बनाः (अभिध्-क्-व्य् 142) तस्यैवालंबनस्य प्रकारेण ग्रहणात्. कथं. विज्ञानं हि नीलं पीतं वा वस्तु विजानाति उपलभत इत्य् अर्थः. तद् एव तथालम्बनं वस्तु वेदनानुभवति. संज्ञा परिच्छिनत्ति. चेतनाभिसंस्करोतीत्य् एवमादि. अथ वा तस्यैवालम्बनस्य विज्ञानं सामान्यरूपेण उपलभ्यतारूपं गृह्णाति. विशेषरूपेण तु वेदनानुभवनीयतारूपं गृह्णाति. संज्ञा परिच्छेद्यतारूपं गृह्णातीत्य् एवमादि. संप्रयुक्ताः समं प्रयुक्तत्वाद् इति. समा अविप्रयुक्ताश् चान्योन्यम् इति संप्रयुक्ताः. आश्रयालम्बनाकारकालद्रव्यसमताभिर् इति. येनाश्रयेण चित्तम् उत्पद्यते. तेनैवाश्रयेण वेदनासंज्ञाचेतनादय उत्पद्यन्ते. तथा येनालम्बनेन चित्तं. तेनैव वेदनादयः. येनाकारेण चित्तं. तेनैव वेदनादयः. यदि हि नीलाकारं चित्तं नीलाकारा एव तत्संप्रयुक्ता वेदनादय उत्पद्यन्ते. यस्मिंश् च काले चित्तं तस्मिन्न् एव वेदनादयः. यथा च चित्तद्रव्यम् एकम् एवोत्पद्यते न द्वे त्रीणि वा. तथा वेदनाद्रव्यं एकम् एवोत्पद्यते न द्वे त्रीणि वा. तथा संज्ञाद्रव्यं चेतनाद्रव्यं इत्य् एवमादि. तेनेदम् एवान्त्यं दुर्गमम् इति व्याचष्टे. यथैव ह्य् एकं चित्तं एवं चैत्ता अपि एकैका इति.

(ii.36) विप्रयुक्तान् वक्तुकाम आचार्य उपोद्घातं करोति निर्दिष्टाश् चित्तचैत्ताः सविस्तरप्रभेदा विप्रयुक्तास् त्व् [तिब्. 130अ] अवसरप्राप्ता इदानीम् उच्यन्त इत्य् अभिप्रायः. सविस्तरप्रभेदा इति. विस्तरश् च प्रभेदश् च विस्तरप्रभेदौ. सह विस्तरप्रभेदाभ्यां सविस्तरप्रभेदाः. अथ वा विस्तरेण प्रभेदः विस्तरप्रभेदः. सह विस्तरप्रभेदेन सविस्तरप्रभेदाः. तत्र चित्तं तावत् सविस्तरप्रभेदं निर्दिष्टं.

विज्ञानं प्रतिविज्ञप्तिर् मनआयतनं चेत्य्

एवमादिना. चैत्ता अपि

वेदनानुभव

इत्य् आरभ्य यावत्

पञ्चधा चैत्ता

इति विस्तरेण.

नामकायादयश् चेति.

चशब्द एवंजातीयकानुक्तविप्रयुक्तप्रदर्शनार्थः. संघभेदप्रभृतयो हि द्रव्यतश् चित्तविप्रयुक्ता इष्यन्ते इति ये ऽप्य् एवंजातीयका इति शास्त्रे ऽप्य् उक्तत्वात्. चित्तविप्रयुक्ता इति चित्तग्रहणं चित्तसमानजातीयप्रदर्शनार्थं. चित्तम् इव चित्तेन च विप्रयुक्ता इत्य् अर्थः. किं च तेषां चित्तेन समानजातीयत्वं. (अभिध्-क्-व्य् 143) यद् अरूपिणो ऽमी भवन्ति. रूपित्वाद् एव हि विप्रयुक्तत्वे ऽपि रूपं न विप्रयुक्तत्वे नाम लभते. यद् वामीषां नामरूपम् इति नामत्वं तत् तेषां चित्तेन समानजातीयत्वं. चैत्ता अपि चित्तेन तुल्यजातीयाः. ते तु चित्तेन सहालम्बने संप्रयुक्तास् तद्विशेषणार्थं विप्रयुक्तग्रहणं असंस्कृतम् अपि तत्समानजातीयम् अनालंबनत्वेनेति तत्परिहारार्थं संस्कारग्रहणं [तिब्. 130ब्] अत एवाह. इमे संस्कारा न चित्तेन संप्रयुक्ता न च रूपस्वभावा इति चित्तविप्रयुक्ता उच्यन्त इति.

(ii.37) तत्रेति. वाक्योपन्यासे निधारणे वा. तावच्छब्दः क्रमे.

प्राप्तिर् लाभः समन्वय

इति. प्राप्तिर् इति सामान्यसंज्ञा. लाभः समन्वय इति विशेषसंज्ञा. लाभः प्रतिलम्भ इत्य् एको ऽर्थः. समन्वयः समन्वागम इत्य् अनर्थान्तरं. प्रतिलम्भ इत्य् उक्ते समन्वागमस्याग्रहणं. समन्वागम इत्य् उक्ते प्रतिलम्भस्याग्रहणं. प्राप्तिर् इत्य् उक्ते तूभयोद्ग्रहणं. अत एवाह. द्विविधा हि प्राप्तिः. अप्राप्तविहीनस्य च प्रतिलम्भः. प्रतिलब्धेन च समन्वागम इति. अप्राप्तं च विहीनं चाप्राप्तविहीनं. तस्याप्राप्तविहीनस्य प्रतिलम्भः. अप्राप्तस्य तद्यथा दुःखे धर्मज्ञानक्षान्तेः. विहीनस्य तद्यथा कामावचरस्य कामवैराग्येण त्यक्तस्य धातुप्रत्यागमनात् परिहाण्या वा पुनःप्रतिलम्भः. प्रतिलब्धेन च द्वितीयादिषु क्षणेषु समन्वागमः. तस्याः समनुवर्तनात्. यश् च प्रतिलम्भः यश् च समन्वागमः. सा द्विधा प्राप्तिर् इति प्रतिलम्भे समन्वागमे च प्राप्तिशब्दो वर्तते. अभेदविवक्षायां तु प्राप्तिः प्रतिलम्भः समन्वागम इत्य् एक एवार्थः. तथा हि प्रथमे क्षणे दुःखे धर्मज्ञानक्षान्तेः प्राप्तिः प्रतिलम्भ इष्यते. सापि समन्वागम इत्य् उच्यते. प्रथमक्षणस्थ [तिब्. 131अ] आर्यपुद्गलो दुःखे धर्मज्ञानक्षान्त्या समन्वागत इत्य् उच्यते.

आज्ञास्यामीन्द्रियोपेतस् त्रयोदशभिर् अन्वित

इत्यादिवचनात्. कथम् अयं लक्षणनिर्देशः. न हि भेदविवक्षायाम् अपि पर्यायवचनेन लक्षणनिर्देशः कल्पते. प्राप्तिः कतमा. यः प्रतिलम्भो यः समन्वागम इति. पर्यायवचनम् अपि कदाचित् लक्षणाय कल्पते. अनलो जातवेदा अग्निर् इति. सूत्रे ऽप्य् उक्तम् अविद्या कतमा. पूर्वान्ते अज्ञानम् अपरान्त अज्ञानम् इति विस्तरः. विपर्ययाद् एवाप्राप्तिर् इति सिद्धम् इति. विपर्ययाद् एवाप्राप्तिर् इति सिद्धे नैतदर्थं सूत्रं कर्तव्यम् इत्य् अभिप्रायः. अप्राप्तिर् अप्रतिलम्भो ऽसमन्वागम इति विपर्ययाद् एतत् त्रयं गम्यते. तथैव चाप्रतिलम्भासमन्वागमयोर् अप्राप्तिर् इति सामान्यसंज्ञा. तस्माद् एवं च वक्तव्यं. द्विविधा अप्राप्तिर् अप्राप्तपूर्वाणाम् अप्रतिलम्भः. प्राप्तविहीनानाम् असमन्वागम (अभिध्-क्-व्य् 144) इति. अथ वाप्रतिलब्धस्य विहीनस्प चाद्याप्राप्तिर् अप्रतिलम्भः. अप्रतिलब्धेन विहीनेन च द्वितीयादिषु क्षणेष्व् असमन्वागम इति.

प्राप्त्यप्राप्ती स्वसंतानपतितानाम्

इति. संस्कृतानां प्राप्त्यप्राप्ती स्वसंतानपतितानाम् एवेत्य् अवधार्यते. न परसंतानपतितानाम् इति. न परसत्त्वसंततिपतितानां धर्माणां. स्वसंततौ प्राप्त्यप्राप्ती भवत इत्य् अर्थः. तेनाह. न हि परकीयैः कश्चित् समन्वागत इति. नाप्य् असंततिपतितानाम् इति नासत्त्वसंततिपतितानाम् इत्य् अर्थः. तस्माद् आह. न ह्य् असत्त्वसंख्यातैः [तिब्. 131ब्] कश्चित् समन्वागत इति. माल्याभरणादयः काष्ठकुड्यादिगताश् च रूपादयो ऽसत्त्वसंख्याताः. चक्षुरादयः सत्त्वसंख्याताः केशादयो रूपीन्द्रियसम्बद्धाः सत्त्वसंख्याता एव वेदितव्याः. तदनुग्रहोपघातपरिणामानुविधानात्. तथा हि रूपीन्द्रियोपघातात् पालित्यादिविकारः केशादीनां दृश्यते. रसायनोपयोगेन चानुग्रहात् पालित्यादिप्रत्यापत्तिर् इति सर्वेषां सत्त्वसंख्यातानां प्राप्तिर् भवतीति सिद्धंतः.

निरोधयोर्

इति प्रतिसंख्यानिरोधाप्रतिसंख्यानिरोधयोर् असत्त्वसंख्यातयोर् अपि प्राप्त्यप्राप्ती भवतः. सर्वसत्त्वा अप्रतिसंख्यानिरोधेन यथाप्रत्ययवैकल्यं समन्वागताः. सकलबन्धनादिक्षणस्थवर्ज्या इति. आदौ क्षणः दुःखे धर्मज्ञानक्षान्तिक्षणः. तत्र स्थिता आदिक्षणस्थाः. सकलानि बन्धनान्य् एषाम् इति सकलबन्धना. अप्रहीणसर्वप्रकारक्लेशाः. सकलबन्धनाश् चादिक्षणस्थाश् च त इति सकलबन्धनादिक्षणस्थाः. ते वर्ज्या एषां तैर् वा वर्ज्याः सकलबन्धनादिक्षणस्थवर्ज्याः. के. सर्व आर्याः. ते प्रतिसंख्यानिरोधेन समन्वागताः. सकलबन्धनादिक्षणस्थास् त्व् आर्या न समन्वागतः. तस्यां ह्य् अवस्थायां क्षांतिवध्याः [तिब्. 132अ] क्लेशाश् छिद्यन्ते न छिन्नाः. तन्निरोधो ऽपि प्राप्यते न प्राप्तो

निरुध्यमानो मार्गस् तु प्रजहाति तदावृतिम्

इति सिद्धान्तात्. एकप्रकारोपलिखितादयस् त्व् आर्या लौकिकमार्गप्राप्तेन निरोधेन तस्याम् अवस्थायां समन्वागताः. अत ऊर्ध्वं द्वितीयादिषु क्षणेषु समन्वागता एव अनास्रवमार्गप्राप्तेनापि निरोधेन. पृथग्जनाश् च केचित् समन्वागता इत्य् एकप्रकारोपलिखितादयः. आकाशेन तु नास्ति कश्चित् समन्वागत इति असंबंधात्. निरोधाभ्यां त्व् अस्ति सम्बन्धः. तस्माद् आकाशस्य प्राप्तिर् नास्ति. यस्य च नास्ति प्राप्तिस् तस्याप्राप्तिर् अपि नास्तीति सिद्धान्त एष वैभाषिकाणां.

कुत एतद् इति. रूपादिचक्षुरादिवत्स्वरूपकार्यानुपलम्भात् पृच्छति. (अभिध्-क्-व्य् 145) सूत्राद् इति. व्याख्यानम् एव वैभाषिकः साधयति. दशानाम् अशैक्षाणां धर्माणाम् इति विस्तरः. दशाशैक्षा धर्माः. अष्टाव् अशैक्षाण्य् आर्यमार्गांगानि सम्यग्विमुक्तिः सम्यग्ज्ञानं च. तेषाम् उत्पादात् संमुखीभावात्. प्रतिलंभाद् आदितः प्राप्तेः. समन्वागमात् पश्चात् प्राप्तेः. पंचाङ्गं विप्रहीणः. प्रहीणपंचाङ्ग इत्य् अर्थः. पंचांगानि सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा कामच्छन्दो व्यापाद इति. एतान्य् अनागामिफलप्राप्तौ प्रहीणानीति न युज्यन्ते. इमानि तु प्रयुज्यमानानि पंचांगानि पश्यामो यद् उतोर्ध्वभागीयानि रूपराग आरूप्यराग औद्धत्यं मानो ऽविद्या चेति. प्रतिनिधिभूतायाः प्राप्तेर् योगात् प्रकृतिस्थो ऽप्य् अर्हन्न् आर्य इत्य् उच्यते. [तिब्. 132ब्] साधनं चात्र. द्रव्यतो ऽस्ति समन्वागमः सूत्रोक्तत्वाद् आयतनद्रव्यवद् इति. आचर्यस् तं प्रत्याह. तेन तर्ह्य् असत्त्वाख्यैर् अपि चक्ररत्नादिभिः परसत्त्वैर् अपि स्त्रीरत्नादिभिः समन्वागमो द्रव्यसन् प्राप्नोति. सूत्रे वदनात्. कथम् इति सूत्रं दर्शयति. राजा यावद् विस्तर इति. राजा भिक्षवश् चक्रवर्ती सप्तभी रत्नैः समन्वागतः. तस्येमानि सप्त रत्नानि. तद्यथा चक्ररत्नं हस्तिरत्नं अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम् एव सप्तमम् इति विस्तरः. एभिस् सप्तभी रत्नैस् समन्वागमः सूत्र उक्तो न च द्वव्यतो ऽस्तीति अनैकान्तिकतां दर्शयति. प्रतिज्ञादोषम् चायम् उद्ग्राहयति. अनुमानविरोधात्. कथम् इत्य् उच्यते. न द्रव्यसन् दशाशैक्षधर्मसमन्वागमः समन्वागमस्वाभाव्याच् चक्रवर्तिसप्तरत्नसमन्वागमवद् इति. अनेन प्रतिज्ञाया

धर्मस्वरूपं विपर्यासयति. वशित्वं कामचार इति. इच्छानुविधायित्वं. तत्र वशित्वम् इति चक्रवर्तिसूत्रे. अन्यत्र पुनर् द्रव्यान्तरम् इति. अशाशैक्षसमन्वागमसूत्रे. कः पुनर् एवम् अयोग इति. प्रवचने हि द्विविधम् इष्यते द्रव्यसच् च वस्तु प्रज्ञप्तिसच् चेति कथम् अयुक्तिर् इति वैभाषिकाः. आचार्य आह. अयम् अयोग इति विस्तरः. इह यद् द्रव्यसद् वस्तु तत् प्रत्यक्षग्राह्यं [तिब्. 133अ] वा भवेद् अनुमानग्राह्यं वा. तत्र प्रत्यक्षग्राह्यं रूपशब्दादि पंचेन्द्रियग्राह्यत्वात्. मनोविज्ञानग्राह्यम् अपि किंचित् प्रत्यक्षं. रागद्वेषादि स्वसंवेद्यत्वात्. चक्षुःश्रोत्रादि त्व् अनुमानग्राह्यं चक्षुर्विज्ञानादिकृत्यानुमेयत्वात्. तद्भावाभावयोस् तद्भावाभावात्. प्राप्तिः पुनर् न प्रत्यक्षग्राह्या न चानुमानग्राह्या तत्सिद्धौ निरवद्यानुमानादर्शनात्. तस्माद् द्रव्यधर्मासम्भवाद् अयोग इति स्थितम् एतत्. इदानीम् आचार्यस् तत्पक्षम् उत्थाप्योत्थाप्य दूषयति. उत्पत्तिहेतुर् इति विस्तरः. यस्य प्राप्तिर् अस्ति स उत्पद्यते हेतुसद्भावात्. असंस्कृतस्य न स्यात् प्राप्तिर् यस्माद् असंस्कृतम् अनुत्पाद्यं. ये च धर्मा अप्राप्ता दुःखे (अभिध्-क्-व्य् 146) धर्मज्ञानक्षान्त्यादयः. ये च त्यक्ताः भूमिसंचारवैराग्यतः. तद्यथा कामावचरा अक्लिष्टा ऊर्ध्वभूम्युपपत्त्या क्लिष्टाश् च वैराग्येण त्यक्ताः. तेषां धातुप्रत्यागमतः परिहाण्या वा कथम् उत्पत्तिः स्यात्. न हि तेषां प्राप्तिर् अस्ति. अनुत्पन्ननिरुद्धत्वात्. सहजप्राप्तिहेतुका चेत्. का. तेषाम् उत्पत्तिर् अधिकृता. सहजा या प्राप्तिर् इदानीम् उत्पद्यते. सा तेषां जनिकेति. आह. जातिर् इदानीं किंकरी जातिजातिर् वेति. किंकरणशीला किंकरी. जातिर् लक्ष्यं धर्मं जनयति. [तिब्. 133ब्] जातिजातिस् तु

तल्लक्षणं जातिं जनयति. तेन यदि लक्ष्याणां धर्माणाम् उत्पत्तिः प्राप्तिहेतुकोच्येत तत्र जातिः किंकरी. अथ लक्षणानाम्. उत्पत्तिस् तद्धेतुकोच्येत. तत आह. जातिजातिर् वा किंकरीति विकल्पः. अथ वा यदि भवतैवं कल्प्येत. जातिर् धर्मं जनयति. प्राप्तिः पुनर् जातिं जनयतीति. तत्र उच्यते. जातिजातिर् वा किंकरीति. सकलबन्धनानां खल्व् अपीति विस्तरः. येषाम् एको ऽपि क्लेशप्रकारो न प्रहीणः. ते सकलबन्धनाः. तेषां सकलबन्धनानां खल्व् अपि मृदुमध्याधिमात्रक्लेशोत्पत्तिप्रकारभेदो न स्यात्. कस्मात्. प्राप्त्यभेदात्. विकलबन्धनानां हि प्राप्तिवैकल्यान् मृदुमध्याधिमात्रक्लेशोत्पत्तिभेदः परिकल्प्येत न तु सकलबंधनानां. प्राप्तिनां तुल्यत्वात्. यतो वा स भेद इति. यतो वा कारणाद् अभ्यासतो ऽन्यतो वा स भेदः. कस्यचित् सकलबन्धनस्याधिमात्रः. कस्यचिन् मध्यः. कस्यचिन् मृदुः. तत एव भेदकारणात् तदुत्पत्तिर् अस्तु. तेषां मृद्वादीनां क्लेशानाम् उत्पत्तिः. तस्मान् नोत्पत्तिहेतुः प्राप्तिर् इति. वैभाषिक आह. कश् चैवम् आहेति विस्तरः. व्यवस्थाहेतुः प्राप्तिः. असत्यां हि प्राप्तौ लौकिकमानसानाम् इति. लोके भवो लौकिकं. मन एव मानसं. लौकिकं मानसम् एषां ते इमे लौकिकमानसाः. आर्यपृथग्जनाः. आर्याश् च पृथग्जनाश् च. लौकिकमानसग्रहणम् आर्यविशेषणं. [तिब्. 134अ] पृथग्जना हि नित्यम् एव लौकिकमानसाः. आसंज्ञिकासंज्ञिसमापत्त्यवस्थायां वा पृथग्जनविशेषणम् अपि संभवति. तेषां आर्यपृथग्जनानां. तेषाम् इति निर्धारणे षष्ठी. सम्बन्धलक्षणा वा. तेषां न स्याद् व्यवस्थानम् इति परिच्छेदः. यत् कृतं व्यवस्थानं. सा प्राप्तिः. प्रहीणाप्रहिणक्लेशताविशेषाद् इति.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.