Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/25

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

स्फुटार्था अभिधर्मकोशव्याख्या

Tác giả
यशोमित्र
Thông tin
GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

इति विस्तरः. तेषां चक्षुरादीनां विकारस् तद्विकारः. तद्विकारेण विकारस् तद्विकारविकारः. स एषाम् अस्तीति तद्विकारविकारीणि विज्ञानानि. तद्भावस् (अभिध्-क्-व्य् 87) तद्विकारविकारित्वम्. तस्मात्. चक्षुरादय एवैषाम् आश्रया इत्य् अवधार्यते. अनुग्रहोपघातपटुमन्दतानुविधानाद् इति. चक्षुरादीनां अंजनादिभिर् अनुग्रहं रेण्वादिभिश् चोपघातं चक्षुरादिविज्ञानान्य् अनुविदधते. ससुखोत्पादात् सदुःखोत्पादाच् च. यथाक्रमं पटुमन्दतां च तेषाम् अनुविदधते. [तिब्. 81अ] पटुमन्दतोत्पादाद् अतो ऽवगम्यते. चक्षुरादिविकारेण विज्ञानविकारो भवतीति. ननु च पटुनि रूपे पटुचक्षुर्विज्ञानम् उत्पद्यमानं दृश्यते. मन्दे मंदम् इति. [तेषां चक्षुरादीनां.] यद्य् अपि रूपस्य पटुमंदते चक्षुर्विज्ञानम् अनुविदधीत. विधुरावस्थयोस् तु चक्षूरूपयोश् चक्षुरवस्थाम् एव चक्षुर्विज्ञानम् अनुविधत्ते. न रूपवस्थां. तथा हि चक्षुषि अनुगृहीते रूपे चोपहते तद्वीतरागाणां मध्यस्थानां च चक्षुर्विज्ञानम् अविकारम् उत्पद्यते. न तु सदुःखम् उत्पद्यते. रूपे पुनर् अनुगृहीते ऽपरित्यक्ते चक्षुषि चोपहते कामलव्याधिना तिमिरोपघातेन वा पीतदर्शनं भ्रान्तं केशोण्डुकादिदर्शनं वा प्रवर्तते. तथा पटुनि रूपे जरया मन्दे चक्षुषि मन्दं चक्षुर्विज्ञानम् उत्पद्यते. एवं मन्दे रूपे चक्षुर् यद्य् अतिपटु भवेत् पटु चक्षुर्विज्ञानम् उत्पद्यते. तथा हि जातिस्वभावेन पटुनि गृध्रचक्षुषि मन्दे ऽपि शवरूपे अनेकयोजनविप्रकृष्टे ऽपि चक्षुर्विज्ञानम् उत्पद्यते. इत्य् एवं श्रोत्रादीन्य् अपि योज्यानि.

(i.44च्द्) अतो ऽसाधारणत्वाच् चेति.

अत आश्रयभावात्. असाधारणत्वाच् च. आश्रयभावो व्याख्यात इति न तं प्रत्य् आद्रियते. असाधारणत्वम् एव तु व्याचक्षाण आह. कथम् असाधारणत्वम् इत्यादि. अन्यचक्षुर्विज्ञानस्यापीति. अन्यसंतानविज्ञानस्यापीत्य् अर्थः. तैर् [तिब्. 81ब्] एव निर्दिश्यत इति. चक्षुरादिभिश् चक्षुर्विज्ञानं यावन् मनोविज्ञानं. न रूपादिभिः रूपविज्ञानं यावद् धर्मविज्ञानं. यथा भेरीशब्दो यवांकुर इति. असाधारणत्वात् ताभ्यां भेरीयवाभ्यां यथा निर्देशो लोके भेरीशब्दो यवांकुर इति न तु दण्डशब्दः क्षेत्रांकुर इति वा. दण्डो हि पटहादिशब्दस्यापि कारणीभवेत्. क्षेत्रं च शालिगोधूमांकुरस्यापीति साधारणत्वात् न ताभ्यां निर्देशः क्रियते. असाधारणाभ्यां तु भेरीयवाभ्यां निर्देशः. तद्वद् इहापि द्रष्टव्यम्. अपि खलु चक्षुर् इव विज्ञानम् उभयोः सत्त्वसंख्यातत्वात्. रूपं त्व् असत्त्वसंख्यातम् अपि. चक्षुषा विज्ञानं चक्षुर्विज्ञानम्. तस्य कारणभावात्. चक्षुषि विज्ञानं चक्षुर्विज्ञानं. सुखदुःखवेदनासंप्रयुक्तस्य विज्नानस्य चक्षुरनुग्रहोपघातप्रवृत्तत्वात्. चक्षुषो विज्ञानं चक्षुर्विज्ञानम्. असाधारणत्वेन ततः प्रवृत्तेः. चक्षुषो विज्ञानं चक्षुर्विज्ञानम्. सत्त्वसंख्यातस्यैव स्वामिभावात्. चक्षुषि विज्ञानं चक्षुर्विज्ञानम्. तत्संप्रयोगिन्याः सुखाया दुःखाया वा (अभिध्-क्-व्य् 88) वेदनायाश् चक्षुष्य् एव परिच्छिद्यमानत्वात्. एवं श्रोत्रादिषु योज्यम्. तद् एवं चक्षुरादिभिर् एव विज्ञाननिर्देशो युज्यते न रूपादिभिः. एवं तृतीयचतुर्थध्यानभूमिकेन चक्षुषा तद्भूमिकाधरभूमिकानि रूपाणि पश्यतो [तिब्. 82अ] योजयितव्यम् इति. तस्यैव कामधातूपपन्नस्य योजयितव्यम्. एवं तृतीयादिध्यानचक्षुषा योज्यम् इति. तस्यैव प्रथमध्यानोपपन्नस्य तृतीयचतुर्थध्यानचक्षुषा पश्यतो योज्यम्.

(i.45, 46) न कायस्याधरं चक्षुर्

इति. अधरभूमिकम् इत्य् अर्थः. स्वभूमिकम् ऊर्ध्वभूमिकं चाभ्यनुज्ञातं भवति. पंचभूमिकानि हि कायचक्षूरूपाणि. कायः शरीरं. एतानि कायादीनि पंचभूमिकानि. कामावचराणि प्रथमध्यानभूमिकानि यावच् चतुर्थध्यानभूमिकान्य् आरूप्यधाताव् अभावात्. द्विभूमिकं चक्षुर्विज्ञानम् इति. कामावचरं प्रथमध्यानभूमिकं च. तयोर् वितर्कविचारसद्भावाच् चक्षुर्विज्ञानस्य चावश्यं सवितर्कविचारत्वात्.

ऊर्ध्वरूपं न चक्षुष

इति. नोर्ध्वभूमिकं रूपं चक्षुषो विषयो भवति. ऊर्ध्वभूमिकस्य रूपस्य सूक्ष्मत्वात्. स्वभूमिकम् अधरभूमिकं चाभ्यनुज्ञातं भवति.

विज्ञानं च.

किम्. ऊर्ध्वं न चक्षुष इति प्रकृतं. कामावचरस्य चक्षुषो ऽधरभूमिकस्य प्रथमध्यानभूमिकं चक्षुर्विज्ञानं न भवति. स्वभूमिकम् अधरभूमिकं वाभ्यनुज्ञातं भवति. कामावचरस्य चक्षुषः स्वभूमिकं कामावचरम् एव चक्षुर्विज्ञानं भवति. प्रथमध्यानभूमिकस्य चक्षुषः प्रथमध्यानभूमिकम् एव चक्षुर्विज्ञानं भवति. कामावचरं तु चक्षुर्विज्ञानम् अस्य न भवति. ननु चोक्तम् अधरभूमिकम् अभ्यनुज्ञातम् इति. सत्यम् उक्तम् एतत्. [तिब्. 82ब्] किं तु. असत्य् आत्मीये अधरभूमिकम् इष्यते. न सतीति. द्वितीयतृतीयचतुर्थध्यानचक्षुषो ह्य् असत्य् आत्मीये प्रथमध्यानभूमिकम् एवाधरं चक्षुर्विज्ञानं भवति. न तु कामावचरं परमनिहीनत्वात्. संभवतस् त्व् एवम् उक्तम् अधरभूमिकम् अभ्यनुज्ञातम् इति. अस्येत्य् अनन्तरोक्तस्य चक्षुर्विज्ञानस्येति. चक्षुर्विज्ञानजातेः रूपं सर्वतो विषयः. संभवतस् तु योज्यम्. कामावचरस्य चक्षुर्विज्ञानस्य स्वभूमिकम् एव रूपम्. प्रथमध्यानभूमिकस्य तु प्रथमध्यानभूमिकचक्षुराश्रयस्य चक्षुर्विज्ञानस्य स्वभूमिकम् अधरभूमिकं च रूपं विषयः. चतुर्थध्यानभूमिकचक्षुराश्रयस्य तु चतुर्थध्यानभूमिकं रूपं ततश् चाधरभूमिकं सर्वं विषयः. एवं यावत् द्वितीयध्यानभूमिकचक्षुराश्रयस्य द्वितीयध्यानभूमिकं ततश् (अभिध्-क्-व्य् 89) चाधरभूमिकं रूपं विषयः. एवं चक्षुर्विज्ञानजातेर् ऊर्ध्वम् अधः स्वभूमौ च रूपं विषयो भवति. कायस्य चोभे रूपविज्ञाने सर्वतो भवत इति. कामावचरस्य कायस्य शरीरस्य स्वभूमिकोर्ध्वभूमिके रूपविज्ञाने भवतः. प्रथमध्यानभूमिकस्य कायस्य प्रथमध्यानभूमिकम् एव विज्ञानम्. रूपं तु स्वोर्ध्वाधरभूमिकम्. यथा स्वाश्रयं चक्षुः. द्वितीयादिध्यानभूमिकस्य कायस्य विज्ञानम् अधरभूमिकम् एव प्रथमध्यानभूमिकम् एवेत्य् अर्थः. रूपं तु द्वितीयतृतीयध्यानभूमिकस्य कायस्य स्वोर्ध्वाधरभूमिकं [तिब्. 83अ] यथा स्वाश्रयं चक्षुः. चतुर्थध्यानभूमिकस्य कायस्य रूपं स्वाधरभूमिकम्. तत ऊर्ध्वं रूपभावात्.

तथा श्रोत्रम्

इति. यथा चक्षुर् उक्तम्. तथा श्रोत्रं व्याख्यातव्यम्. कथम् इत्य् आह. यत्र काये स्थितः श्रोत्रेण शब्दान् शृणोति. किं तानि कायश्रोत्रशब्दविज्ञानान्य् एकभूमिकान्य् एव भवन्ति. आहोस्विद् अन्यभूमिकान्य् अपि. आह. सर्वेषां भेदः. कामधातूपपन्नस्य स्वेन श्रोत्रेण स्वां शब्दां शृण्वतः सर्वं स्वभूमिकं भवतीति विस्तरेण अनया दिशात्र ग्रन्थो वक्तव्यः. यावद् अयं तु नियमः.

न कायस्याधरं श्रोत्रम् ऊर्ध्वं शब्दो न च श्रुतेर् विज्ञानं चास्य शब्दस् तु कायस्योभे च सर्वत

इति विस्तरेण योज्यं. कथम् इति.

न कायस्याधरं श्रोत्रम्.

पंचभूमिका हि कायश्रोत्रशब्दाः कामावचरा यावच् चतुर्थध्यानभूमिकाः. द्विभूमिकं ष्रोत्रविज्ञानं कामावचरं प्रथमध्यानभूमिकं च. तत्र यद्भूमिकः कायः. तद्भूमिकम् ऊर्ध्वभूमिकं वा श्रोत्रं भवति. न त्व् अधरभूमिकम्. यद्भूमिकं श्रोत्रं. तद्भूमिको ऽधरभूमिको वास्य शब्दो विषयो भवति.

ऊर्ध्वं शब्दो न च श्रुतेः.

न हि कदाचिद् ऊर्ध्वभूमिकः शब्दो ऽधरभूमिकेन श्रोत्रेण श्रोतुं शक्यते.

विज्ञानं च

ऊर्ध्वं न श्रोत्रस्य शब्दवत्.

अस्य शब्दस् तु कायस्योभे च सर्वतः.

अस्येति अनन्तरोक्तस्य श्रोत्रविज्ञानस्य शब्दः सर्वतो विषय ऊर्ध्वम् अधः स्वभूमौ च. कायस्य चोभे शब्दविज्ञाने सर्वतो भवत इति.

अनियतं मन

इति. यथा चक्षुः श्रोत्रं वा नियमितं न कायस्याधरं चक्षुः श्रोत्रं वेत्य् एवमादिना. नैवं नियमितं मनः. अत एवाह. पंचभूमिके ऽपि काये सर्वभूमिकानि मनआदीनि भवन्तीति [तिब्. 83ब्] मनोधर्ममनोविज्ञानानि सर्वभूमिकानि कामावचराणि यावद् भावाग्रिकाणि. तद्यथा कामधातूपपन्नो यदि कामावचरान् मनसो ऽनन्तरं कामावचरम् एव कामावचरधर्मालम्बनं मनोविज्ञानम् उत्पादयति. सर्वाणि कामावचराणि. यदि प्रथमध्यानभूमिकाद् यावद् भवाग्रभूमिकाद् उपपत्तिकाले समापत्तिकाले वा संभवतः कामावचरं तथैव मनोविज्ञानम् उत्पादयति. मनस् ततस्त्यम्. शेषानि कामावचराणि. अथ तत्रैव तद्विज्ञानम् उत्पादयति. धर्मास् त्व् आलम्बनं प्रथमध्यानभूमिका यावद् भवाग्रभूमिकाः. धर्मास् ततस्त्याः. शेषाणि पूर्ववत्. एवं प्रथमध्यानोपपन्नो यावद् भवाग्रोपपन्नो यथायोगं वक्तव्यः.

(i.47) समाप्त आनुषंगिकः प्रसंग

इति.

चक्षुश् च धर्मधातोश् च प्रदेशो दृष्टिर्

इत्य् एतद् आधिकारिकम्. अथ यत्र काये स्थितश् चक्षुषा रूपाणि पश्यतीत्य् एवमादिर् अयम् आनुषंगिकः प्रसंगः. दर्शनसम्बन्धाद् आगतत्वात्.

पंच बाह्या द्विविज्ञेया

इति. पंचग्रहणं धर्मधातुनिराकरणार्थम्. बाह्यग्रहणं चक्षुरादिनिरासार्थम्. बाह्या एव पंच द्विविज्ञेया इत्य् अवधारणाद् अन्ये त्रयोदश धातव एकविज्ञानविज्ञेया इति सिद्धम्. पंचविज्ञानकायानाम् अविषयत्वात्.

नित्या धर्मा असंस्कृता

इति. असंस्कृता एव नित्या इत्य् अवधारणम्. अध्वसंचाराभावात् नित्याः.

धर्मार्ध इन्द्रियं ये च [तिब्. 84अ] द्वादशाध्यात्मिकाः स्मृता

इति. धातव इत्य् अधिकारः. द्वाविंशतीन्द्रियाण्य् उक्तानि सूत्र इति. अथ जातिश्रोणो ब्राह्मणो येन भगवांस् तेनोपसंक्रान्तः. उपसंक्रम्य बहगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकन्ते न्यषीदत्. एकान्तनिषण्णो जातिश्रोणो ब्राह्मणो भगवन्तम् इदम् अवोचत्. इन्द्रियाणीन्द्रियाणीति भो गौतम उच्यन्ते. कति भो गौतम इन्द्रियाणि. कियता चेन्द्रियाणां संग्रहो भवति. द्वाविंशतिर् इमानि ब्राह्मण इन्द्रियाणि. कतमानि द्वाविंशतिः. चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं कायेन्द्रियं मनैन्द्रियं स्त्रीन्द्रियं पुरुषेन्द्रियं जीवितेन्द्रियं सुखेन्द्रियं दुःखेन्द्रियं सौमनस्येन्द्रियं दौर्मनस्येन्द्रियम् उपेक्षेन्द्रियं (अभिध्-क्-व्य् 91) श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् अनाज्ञातमाज्ञास्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियम्. इतीमानि ब्राह्मण द्वाविंशतिर् इन्द्रियाणि. इयता इन्द्रियाणाम् इन्द्रियसंग्रहो भवति. अथ जातिश्रोणो ब्राह्मणो भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतो ऽन्तिकात् प्रक्रान्त इति.

धर्मार्ध

इति धर्मधात्वेकदेश इत्य् अर्थः.

धर्मार्धम्

इति नपुंसकनिर्देशेन केचित् पठन्ति. तेषां पाठे अर्धधर्म इति समप्रविभागः प्राप्नोति. अर्धं नपुंसकम् इति लक्षणात्. अर्धपिप्पलीति यथा. अथ नपुंसकलिंगो ऽप्य् अर्धशब्द एकदेशार्थे वर्तते तदैवं समासः क्रियते. धर्मश् चासाव् अर्धं च धर्मार्धम्. धर्मे वार्धं धर्मार्धम् इति. आभिधार्मिकास् तु षडायतनव्यवस्थाम् अनादृत्येति. चक्षुरायतनं यावत् कायायतनं [तिब्. 84ब्] मनआयतनम् इति षडायतनम् इति षडायतनव्यवस्थां युक्तरूपाम् अनादृत्य जीवितेन्द्रियानन्तरं मनैन्द्रियं पठन्ति. सालम्बनत्वात्. वेदनेन्द्रियादीनि हि सालम्बनानि अनन्तरं पठन्ति. जीवितेन्द्रियादीन्य् एकादशेति. जीवितेन्द्रियं वेदनेन्द्रियाणि पंच श्रद्धादीनि चेति. त्रयाणां च भाग इति. आज्ञास्यामीन्द्रियादीनां नवद्रव्यात्मकानां. मनैन्द्रियं मुक्त्वान्यान्य् अष्टौ द्रव्याणि धर्मधात्वेकदेशः. चक्षुरादयः पंच स्वनामोक्ता इति. पंच चक्षुरादयो धातवः पंचेन्द्रियाणि चक्षुरिन्द्रियं यावत् कायेन्द्रियं. स्त्रीपुरुषेन्द्रिये च कायेन्द्रियैकदेश एवेति. पंच चक्षुरादिधातवः सप्तेन्द्रियाणि भवन्ति. सप्त चित्तधातवो मनैन्द्रियम् इति. एवं द्वादशाध्यात्मिका धातवो ऽष्टाव् इन्द्रियाणि भवन्तीति. द्वादशाध्यात्मिका धातव एव धर्मार्ध एव चेन्द्रियम् इति अवधारणात् पंच धातवो रूपादयस् तदन्यधर्मधातुप्रदेशो नेन्द्रियम् इति सिद्धम्.

आचार्ययशोमित्रकृतौ स्फुटार्थायाम् अभिधर्मकोशव्याख्यायां धातुनिर्देशो नाम प्रथमं कोशस्थानम्.

(अभिध्-क्-व्य् 92) ब्लन्क्

इइ (इन्द्रियनिर्देशो नाम द्वितीयं कोशस्थानम्)

(ii.1) उक्तानीन्द्रियाणीति. प्रथमस्य द्वितीयस्य च कोशस्थानस्य सम्बन्धोपनिपाततां दर्शयन्न् आह. उक्तानीन्द्रियाणीति. प्रथमकोशस्थानावसाने यस्माद्

धर्मार्धम् इन्द्रियम्

इत्य् उक्तम्. तस्माद् इदम् आयातम् इति सम्बन्धः. [तिब्. 85अ] कः पुनर् इन्द्रियार्थ इति. वैयाकरणैर् अन्यथा इन्द्रियशब्दार्थव्युत्पत्तिः कृतेति. अतः प्रश्नयति. कः पुनर् इन्द्रियार्थ इति. इदि परमैश्वर्ये इति पठ्यते. तस्य धातोर् इन्दन्तीतीन्द्रियाणीति रूपं द्रष्टव्यम्. कथं कृत्वा. इन्दन्तीति इन्द्राणि रप्रत्यय औणादिकः. इन्द्राण्य् एवेन्द्रियाणीति स्वार्थे घस्तद्धितः. अथ वा इन्दन्तीतीन्द्रियम्. बहुत्वात् तु बहुवचनेन कृतो निर्देश इन्दन्तीतीन्द्रियाणीति. तस्मात् इन्दन्तीत्य् अस्य शब्दस्य इन्द्रियम् इत्य् आदेशः. कथम्. अवर्णस्य रभावः तिशब्दस्य चेयादेशः. तेन नैरुक्तेन विधानेन इन्द्रियम् इति भवति. तद्यथा कुञ्जर इति. वैयाकरणैर् हि कुञ्जो ऽस्यास्तीति कुञ्जर इति मत्वर्थीयेन कुञ्जरशब्दो व्युत्पाद्यते. नैरुक्तैस् तु तद् अनादृत्य कुञ्जरः कुञ्जचारित्वाद् इति नैरुक्तेन न्यायेन साध्यते. तद्वद् इहापि द्रष्टव्यम्. यदि हि वैयाकरणनयेन इन्द्रस्य लिङ्गम् इन्द्रियम् इति व्युत्पाद्येत. आधिपत्यार्थ इन्द्रियार्थो हीयेताधिपत्यार्थश् चेष्यते. तस्माद् इत्थम् इन्द्रियशब्दस्य व्युत्पत्तिर् नैष्टव्येति. दृष्ट्वा श्रुत्वा च विषमपरिवर्जनाद् इति. दृष्ट्वा श्वभ्रादि श्रुत्वा च व्याघ्रादिरुतम्. श्वभ्रादिव्याघ्रादिरुतविषमपरिवर्जनात्. ससंप्रयोगयोर् इति सचैतसिकयोः. रूपदर्शनशब्दश्रवणयोश् चेति. चक्षुः पश्यति श्रोत्रं शृणोतीत्यादि वैभाषिकाणां सिद्धान्तः. तेनालम्बनविशेषलक्षणयोर् दर्शनश्रवणयोर् असाधारणकारणत्वे चक्षुःश्रोत्रयोर् आधिपत्यम्. (अभिध्-क्-व्य् 94) आत्मभावशोभायां पूर्ववद् [तिब्. 85ब्] इति. अघ्राणादीनां सत्त्वानाम् अकान्तरूपत्वात्. अकान्तात्मभावत्वाद् इत्य् अर्थः. तैः कवडीकाराहारपरिभोगाद् इति. तैर् घ्राणादिभिस् तत्परिभोगाद् इति. कथं गन्धस्य कवदीकाराहारत्वम्. नासिकयोर् गन्धग्रासव्यवच्छेदेन कवडीकरणात्. कथं स्प्रष्टव्यस्य कवडीकाराहारत्वम्. कायेन स्नानाभ्यङ्गादिकस्प्रष्टव्यस्य रोमकूपमुखग्रासव्यवच्छेदेन कवडीकरणात्.

द्वयोः किलेति.

किलशब्दः परमतद्योतने. स्वमतम् अस्य पश्चाद् वक्ष्यते.

द्वयोर्

इति प्रत्येकम् अभिसम्बन्धः. सत्त्वभेदः स्त्रीपुरुष इति. स्त्रीत्य् एको निकायसभागः. पुरुष इत्य् अपरः. तयोर् भेदः. सत्त्वविकल्प इति स्तनादेः संस्थानस्य स्वरस्याचारस्य चान्यथात्वं विशेष इत्य् अर्थः. संक्लेशव्यवदानयोर् इत्य् अपर इति पूर्वाचार्यः. न सत्त्वभेदविकल्पयोः. अन्तरेणापि पुरुषेन्द्रियं रूपावचराणां विकल्पसिद्धेः. विकल्पकृतश् च सत्त्वभेद इत्य् अभिप्रायः. तद्वियुक्तविकलानाम् इति. वियुक्ताश् च ते विकलाश् च वियुक्तविकलाः. ताभ्यां स्त्रीपुरुषेन्द्रियाभ्यां वियुक्तविकलास् तद्वियुक्तविकलाः. के. षण्ढपण्डकोभयव्यञ्जनाः. तद्वियुक्ताः षण्ढपण्डकाः. तेषां स्त्रीपुरुषेन्द्रियाभावात्. षण्ढपण्डकानां [तिब्. 86अ] पुनः कः प्रतिविशेषः. षण्ढकाः स्वभावतो निःस्त्रीपुरुषेन्द्रियाः. पण्डका उपक्रमेणोपहतेन्द्रियाः. विनये तु पण्डका एव पंच पठ्यंते. प्रकृतिपण्डकः. ईर्ष्यापण्डकः. पक्षपण्डकः. आसेकपण्डकः. लूनपण्डकश् चेति. तत्र प्रकृतिपण्डकः षण्ढ इहाभिप्रेतः. यस्य हि प्रकृत्या व्यञ्जनं नास्ति. स प्रकृतिपण्डकः. शेषा इह पण्डका इष्यन्ते. लूनपण्डको हि तावद् इन्द्रियच्छेदात् इन्द्रियविकल इति स्फुट एषः. पक्षपण्डकादयस् त्व् इन्द्रियाकर्मण्यत्वेन तद्विकला एव. इन्द्रियकर्मण्यत्वकाले ऽपि तद्विकला इति व्यवस्थाप्यन्त एव. तदिन्द्रियकर्मण्यत्वस्य पुरुषसुखविशेषाजनकत्वात् प्रसवाजनकत्वाच् च. इन्द्रियसद्भावाशंकानिवृत्त्यर्थम् एव चेह षण्ढपण्डका इति पृथक्पाठः. अन्यथा हि विनयवद् इहाप्य् अभिधर्मे पण्डका इत्य् एव पठ्येरन्. उभयव्यञ्जनास् तद्विकलाः. स्थानभ्रंशवैकल्याद् अल्पसुखहेतुत्ववैकल्याच् च. अपरे व्याचक्षते. तद्वियुक्ताः षण्ढाः. तद्विकलाः पण्डकाः. उपक्रमवैकल्यात्. उभयव्यञ्जनाश् च तद्विकलाः. स्थानभ्रंशवैकल्यात्. अल्पसुखहेतुत्ववैकल्याच् चेति. तेषाम् असंवरादीनि न भवन्ति.

नृणाम् असंवरो हित्वा षण्ढपण्डद्विधाकृतीन्. आनन्तर्यं षण्ढादीनां तु नेष्यते अल्पोपकार्यलज्जित्वात्. [तिब्. 86ब्] छिनत्ति स्त्री पुमान् दृष्टिचरित

इति वचनात्. स्त्रीपुरुषाणां तु तानि भवन्ति. अतः संक्लेशे आधिपत्यं स्त्रीपुरुषेन्द्रिययोः. संवरफलप्राप्तिवैराग्याणि चेति. संवरस् त्रिविधः प्रातिमोक्षसंवरो ध्यानसंवरो ऽनास्रवसंवरश् च. तेषाम् एको ऽपि संवरो न भवति किम् अङ्ग सर्वः.

संवरो ऽप्य् एवम्

इति वचनात्. अत एव च स्रोतआपत्त्यादिफलप्राप्तिः कामादिवैराग्यं च तेषां न संभवति. स्त्रीपुरुषाणां तु भवतीति. अतो व्यवदाने ऽपि स्त्रीपुरुशेन्द्रिययोर् आधिपत्यम् इति. निकायसभागसम्बन्धसंधारणयोर् इति. जीवितेन्द्रियस्य निकायसभागोत्पत्तौ. निकायसभागसम्बन्धे तस्याधिपत्यं व्यवस्थाप्यते. निकायसभागसंधारणे चाधिपत्यम्. जीवितेन्द्रियवशेन तदूर्ध्वमवस्थानात्. मनैन्द्रियस्य पुनर्भवसम्बन्ध इति. क्लिष्टेन पुनर्भवसम्बन्धात्. जीवितेन्द्रियाद् अस्य को विशेषः. जीवितेन्द्रियस्य अन्तराभव एव सम्बन्धनम्. मनैन्द्रियस्य तूपपत्तिभवे ऽपि. समानकालं च जीवितेन्द्रियं निकायसभागेन तत्सम्बन्धनं करोति. मनैन्द्रियं तु भिन्नकालम् अपि पुनर्भवे तत्सम्बन्धनं करोति. वशिभावानुवर्तन इति. चित्तस्य वशिभावम् अनुवर्तते लोको धर्मो वा यथोक्तम्. चित्तेनायं लोको नीयत इति विस्तरः. गाथायाम् अप्य् उक्तम्.

चित्तेन नीयते लोकश् चित्तेन परिकृष्यते एकधर्मस्य चित्तस्य [तिब्. 87अ] सर्वधर्मा वशानुगा

इति. रागादीनां तदनुशायित्वाद् इति. तेषु सुक्ःआदिषु अनुशायितुं शीलम् एषाम् आलम्बनतः संप्रयोगतो वा. त इमे तदनुशायिनो रागादयः. तद्भावस् तदनुशायित्वम्. तस्माद् इति. यथोक्तं सुखायां वेदनायां रागो ऽनुशेते. दुःखायां द्वेसः. अदुःखसुखायां मोह इति. तैर् हि व्यवदायत इति. तैर् विशुध्यतीत्य् अर्थः. तद् एवं क्लेशविशुद्धाव् एशां श्रद्धादीनाम् आधिपत्यम् उक्तं भवति.

व्यवदाने ऽपि सुखादीनाम् आधिपत्यम् इत्य् अपर इति. न केवलं संक्लेशे सुखादीनाम् आधिपत्यं. किं तर्हि. व्यवदाने ऽपीत्य् अपिशब्दस्यार्थः. आभिधार्मिकाः केचिद् एवम् आहुः. व्यवदाने ऽपि तेषाम् आधिपत्यम् अस्तीति आगमम् (अभिध्-क्-व्य् 96) आनयन्ति. यस्मात् सुखितस्य चित्तं समाधीयत इत्य् उक्तं सूत्रे. दुःखोपनिषच् छ्रद्धा. दुःखम् उपनिषद् अस्याः. सेयं श्रद्धा दुःखोपनिषत्. दुःखहेतुकेत्य् अर्थः. दुःखे सति कस्यचिद् धर्मे रत्नत्रये वा श्रद्धा जायते. प्रव्रज्यां वाभिलषति. षण् णैष्क्रम्याश्रिताः सौमनस्यादय इति. षण् णैष्क्रम्याश्रितानि सौमनस्यानि. षण् णैष्क्रम्याश्रितानि दौर्मनस्यानि. षण् णैष्क्रम्याश्रिता उपेक्षाः. [तिब्. 87ब्] नैष्क्रम्यं सास्रवो ऽनास्रवो मार्गः. धातोः संसाराद् वा निष्क्रमणं वैराग्यम् इत्य् अपरे. यथोक्तं सूत्रे. चक्षुर्विज्ञेयानि रूपाणि प्रतीत्योत्पद्यते सौमनस्यं नैष्क्रम्याश्रितं नैष्क्रम्यालम्बनम् इत्य् अर्थः. नैष्क्रम्यानुकूलम् इति वा. एवं यावन् मनः प्रतीत्य धर्मांश् च उत्पद्यते सौमनस्यं नैष्क्रम्याश्रितम् इति. तथा चक्षुर्विज्ञेयानि रूपाणि प्रतीत्य उत्पद्यते दौर्मनस्यं नैष्क्रम्याश्रितम्. एवं यावन् मनः. तथा चक्षुर्विज्ञेयानि रूपाणि प्रतीत्योत्पद्यते उपेक्षा नैष्क्रम्याश्रिता. एवं यावन् मनः. नैष्क्रम्यं प्राप्स्यामीति कस्यचित् सौमनस्यम्. न नैष्क्रम्याय मया यत्नः क्रियते इति कस्यचिद् दौर्मनस्यम्. कस्यचित् प्रतिसंख्यायोपेक्षा तेषु रूपादिषु भवति.

(ii.2-4) अपरे पुनर् आहुर् इति सौत्रान्तिकाः. विज्ञाय विषमपरिहाराद् इति. विज्ञानेन विषमपरिहारः क्रियते. न चक्षुःश्रोत्रेणेत्य् अभिप्रायः. नापि विज्ञानाद् अन्यद् रूपदर्शनं शब्दश्रवणं वास्तीति. न रूपदर्शनशब्दश्रवणं ग्रहणव्यतिरिक्तं विचार्यमाणं लभ्यते. ग्रहणं च विज्ञानम् एवेति नान्यद् भवति. तस्माच् चक्षुःश्रोत्रविज्ञानयोः ससंप्रयोगयोर् उत्पत्तौ यद् आधिपत्यम् उक्तम्. तद् एव तद् भवति. नान्यत्राधिपत्यम् एतद् [तिब्. 88अ] इत्य् अभिप्रायः. मनसः पुनः सर्वार्थोपलब्धाव् इति.

स्वार्थोपलब्ध्याधिपत्याद्

इत्य् एव सिद्धे मनसः सर्वार्थोपलब्धाव् इति वचनं धर्मधातोर् असर्वधर्मस्वभावत्वात्. व्याख्यातं चैतत् पुरस्तात्. ननु चार्थानाम् अप्य् अत्राधिपत्यम् इति. द्वयं प्रतीत्य विज्ञानस्योत्पत्तिर् इति वचनात्. अधिकं हि प्रभुत्वम् आधिपत्यम् इति. अधिकः प्रभुर् अधिपतिस् तद्भाव आधिपत्यम् इति. सर्वरूपोपलब्धौ सामान्यकारणत्वाद् इति. नीलपीतादिसर्वरूपोपलब्धौ एकरूपस्य चक्षुषः करणत्वात्. न तु रूपस्यैकरूपस्य नीलपीतदिसर्वरूपोपलब्धौ कारणत्वम्. न हि नीलरूपं पीतरूपोपलब्धौ कारणं भवति. तत्पटुमन्दताद्यनुविधानाच् चोपलब्धेर् इति. यस्माद् उपलब्धिश् चक्षुरादिपटुमन्दताम् अनुविधत्ते. तद्यथा पटुनि चक्षुषि पट्वी तदुपलब्धिः. मन्दे मन्देति. आदिशब्देन अकुशलकुशलसवेदनावेदनानुविधानं. (अभिध्-क्-व्य् 97) अकुशले मनस्य् अकुशलोपलब्धिः. कुशले कुशला. सवेदने सवेदना. अवेदने ऽवेदनेति. न रूपस्य पटुमन्दताद्य् अनुविधत्ते उपलब्धिः. तेनाह. तद्विपर्ययाद् इति. तस्माच् चक्षुरादीनाम् अधिकम् ऐश्वर्यं [तिब्. 88ब्] न रूपादीनाम्.

कायात् स्त्रीपुरुषेन्द्रिये

इति. अत्र साधनम्. कायेन्द्रियस्वभावं स्त्रीपुरुषेन्द्रियम्. स्प्रष्टव्यविज्ञानजनकत्वात्. अस्त्रीपुरुषेन्द्रियस्वभावकायेन्द्रियवत्. वैधर्म्येण चक्षुरिन्द्रियवत्. स्त्र्याकृतिस्वरचेष्टाभिप्राया इति. स्त्र्यभिप्रायपुरुषाभिप्राययोर् विपर्ययेण. तद् एवं सति सत्त्वविकल्प एव स्त्रीपुरुषेन्द्रिययोर् आधिपत्यम्. निकायसभागस्थितौ जीवितेन्द्रियस्याधिपत्यम्. न तु वैभाषिकवत् निकायसभागसम्बन्धे. तत्र मनस एवाधिपत्यात्. संक्लेशे वेदनानाम् इति. अत्र वैभाषिकैः सार्धम् ऐकमत्यम्. तथा हि तैर् इति विस्तरः. तथा हि तैः श्रद्धादिभिः क्लेशाश् च विष्कंभ्यन्ते लौकिकमार्गगतैर् मार्गश् चावाह्यते निर्वेधभागीयादिगतैः. तद् एवं व्यवदानसंभारे श्रद्धादीनां प्रत्येकम् आधिपत्यम् उक्तं भवति. न ह्य् अविमुक्तचित्तस्यास्ति परिनिर्वाणम् इति. आज्ञातावीन्द्रियं क्षयज्ञानाद्य् अनास्रवम् इन्द्रियं. तद् एव च विमुक्तं क्लेशविमुक्त्या संतानविमुक्त्या च. तत्प्राप्तस्य निरुपधिशेषनिर्वाणं भवति. तस्माद् आज्ञातावीन्द्रियस्य निरुपधिशेषनिर्वाण आधिपत्यं व्यवस्थाप्यते. दृष्टधर्मसुखविहारं प्रतीति [tib.89a] विस्तरः. दृष्टो धर्मो दृष्टधर्मः. दृष्टजन्मेत्य् अर्थः. सुखो विहारः सुखविहारः. दृष्टधर्मे सुखविहारः दृष्टधर्मसुखविहारः. तं प्रत्य् आज्ञातावीन्द्रियस्याधिपत्यम्. विमुक्तिप्रीतिसुखप्रतिसंवेदनाद् इति. विमुक्तिः क्लेशप्रहाणम्. प्रीतिः सौमनस्यम्. सुखं प्रश्रब्धिसुखम्. विमुक्त्या प्रीतिसुखस्य प्रतिसंवेदनं विमुक्तिप्रीतिसुखप्रतिसंवेदनम्. तस्माद् इति. तद् उक्तं भवति. विमुक्तिप्रीतिसुखप्रतिसंवेदनम् एव दृष्टधर्मसुखविहार इति.

(ii.5) वाक्पाणिपादपायूपस्थानाम् अपि चेन्द्रियत्वम् उपसंख्यातव्यम् इति. सांख्याश् चक्षुरिन्द्रियादिव्यतिरिक्तानि वागिन्द्रियादीनि कल्पयन्ति. वागिन्द्रियं येन वचनं क्रियते. पाणीन्द्रियं येन किंचिद् द्रव्यम् आदीयते. पादेन्द्रियं येन विहरणं क्रियते. चंक्रमणम् इत्य् अर्थः. पाय्विन्द्रियं येन पुरीषोत्सर्गः क्रियते. उपस्थेन्द्रियं कायेन्द्रियैकदेशव्यतिरिक्तं येनानन्दः सुखविशेषः प्राप्यते. न खलूपसंख्यातव्यम् अविद्यादीनाम् इन्द्रियत्वम्. येनार्थेन भगवता द्वाविंशतिर् इन्द्रियाण्य् उक्तानि. तत्राविद्यादीनाम् अयोगात्. को ऽसाव् अर्थ इत्य् आह.

चित्ताश्रयस् तद्विकल्प

इति विस्तरः. चित्तस्याश्रयस् तदाश्रयस्य विकल्पः

स्थितिः संक्लेशो

व्यवदान-

संभारो व्यवदानं चेति.

एतच् च षडायतनं मौलं सत्त्वद्रव्यम् [तिब्. 89ब्] इति. तदितरेषां तदाश्रितत्वात्. तथा हि षडिन्द्रियाधिपत्यसंभूतम् इन्द्रियाधिष्ठानम्. षड् वा विषया विज्ञानकायाश् च. तद् एतद् अपि सत्त्वद्रव्यम् इष्यते न तु मौलम्. न ह्य् अधिष्ठानाद्याधिपत्यसंभूतं षडायतनम् इति. व्यवदानसंभरणं पंचभिर् इति श्रद्धादिभिः. व्यवदानं त्रिभिर् इति. अनाज्ञातमाज्ञास्यामीन्द्रियादिभिः.

(ii.6) अपरः कल्पः.

प्रवृत्तेर् आश्रयोत्पत्तिर्

इति विस्तरः. प्रवृत्तिपक्षं निवृत्तिपक्षं चाधिकृत्योच्यते.

प्रवृत्तेः

संसारस्याश्रय उत्पत्तिः

स्थितिः उपभोगश् च.

निवृत्तेर् अपि निर्वाणस्याश्रय उत्पत्तिः स्थितिर् उपभोगश् च. एतावता च पुरुषार्थपरिसमाप्तिर् इति. निरर्थिका तदन्येन्द्रियप्रज्ञप्तिः. भवताम् अपि पुरुषार्थपरिसमाप्तिः पठ्यते. तस्य शब्दाद्युपलब्धिर् आदिर् गुणपुरुषान्तरोपलब्धिर् अन्त इति. तत्र षडायतनं मूलसत्त्वद्रव्यभूतं संसरतीति प्रवृत्तेर् आश्रयः. उत्पत्तिः स्त्रीपुरुषेन्द्रिये इति. उत्पद्यते ऽस्या इत्य् उत्पत्तिः. कस्माद् इत्य् आह. तत उत्पत्तेः. कस्य. षडायतनस्य. मनःकायेन्द्रिययोः साक्षात् ताभ्याम् उत्पत्तेः. चक्षुरादीनां चतुर्णां क्रमेणोत्पत्तेः. स्थितिर् जीवितेन्द्रियेण षडायतनावस्थानात्. उपभोगो वेदनाभिः सुखादिभिः. श्रद्धादयो हि निवृत्तेर् आश्रय इति. श्रद्धादीनां प्रतिष्ठाभूतत्वात्. आज्ञास्यामीन्द्रियं प्रभव इत्य् आदिभवः प्रथमतो ऽनास्रवोत्पत्तेः. [तिब्. 90अ] स्थितिर् आज्ञेन्द्रियं प्राबन्धिकत्वात्. उपभोग आज्ञातावीन्द्रियेणेति. तेन विमुक्तिप्रीतिसुखप्रतिसंवेदनात्. अत एतावन्त्य् एवेन्द्रियाणीति नाविद्यादीनाम् इन्द्रियत्वम् इष्टम् इत्य् अर्थः. अत एव चैषां एषो ऽनुक्रम इति. चक्षुरिन्द्रियं यावद् आज्ञातावीन्द्रियम् इति प्रवृत्तिनिवृत्त्योर् आश्रयादिभावात्. वाचस् तु नेन्द्रियत्वम्. वचने शिक्षाविशेषापेक्षत्वात्. जातमात्रो हि बालको विनैव शिक्षया चक्षुषा रूपाणि पश्यति. न त्व् एवं वचनं करोति. तस्माद् इन्द्रियधर्मातिक्रान्तत्वात्. न वाग् इन्द्रियं भवितुम् अर्हति. जिह्वेन्द्रियाधिष्ठानस्यैव तु एतत् कर्म वचनम् (अभिध्-क्-व्य् 99) इति. पाणिपादस्य चादानविहरणाद् अनन्यत्वाद् इति. पाणिर् एव ह्य् अन्यथान्यत्र चोत्पन्न आदानम् उच्यते. पाद एव चान्यथान्यत्र चोत्पन्नो विहरणम् इति. कर्माभावात्. स्वात्मनि च वृत्तिविरोधात्. न

पाणिपादस्येन्द्रियत्वम्. उरगप्रभृतीनाम् इति. सर्पादीनां पाणिपादं नास्ति. अथ च तेषाम् आदानविहरणं भवति न पाणिपादस्येन्द्रियत्वम्. तेषाम् अप्य् अस्ति सूक्ष्मम् इति चेत्. न. साध्यत्वात्. पायोर् अपि नेन्द्रियत्वम् उत्सर्ग इत्य् अशुच्युत्सर्गे. गुरुद्रव्यस्य यस्य कस्यचिद् आकाशे छिद्रे सर्वत्र पायुस्थानाद् अन्यत्रापि पतनात्. गुरुद्रव्यस्य गुरुत्वाद् एवं स्वयं पतनं नेन्द्रियकृतम्. वायुना च तत्प्रेरणाद् इति. वायुना तस्य गुरोर् अशुचिद्रव्यस्य प्रेरणा. [तिब्. 90ब्] वायोर् एव तत् कर्म स्यान् न पाय्विन्द्रियस्य. तदनुपलब्धेः. उपस्थस्यापि नेन्द्रियत्वं आनन्द इति. कायेन्द्रियैकदेशस्त्रीपुरुषेन्द्रियव्यतिरिक्तकल्पितस्य उपस्थस्य नेन्द्रियत्वम् आनन्दे. कायेन्द्रियैकदेशभूतस्त्रीपुरुषेन्द्रियकृतं हि तत्. क्लिष्टं सौख्यम् इति वाक्यर्थः. कण्ठदन्ताक्षिवर्त्माङ्गुलिपर्वनाम् अपीति विस्तरः. यदि यथोक्तात् कारणात् एतावन्त्य् एवेन्द्रियाणीति नेष्यते. कण्ठस्याभ्यवहरणे. दन्तस्य चर्वणे. अक्षिवर्त्मन उन्मेषनिमेषे. पर्वणः अस्थिसंधिसंकोचविकासक्रियायाम् इन्द्रियत्वं प्रसज्येत. सर्वस्य वा कारणभूतस्येति विस्तरः. सर्वस्य वा कारणभूतस्य बीजादेः स्वस्यां क्रियायां स्वकार्यक्रियायाम् अङ्कुरादिलक्षणायाम् इन्द्रियत्वं प्रसज्येतेत्य् अधिकृतम्. यदि यस्य यत्र पुरुषकारो ऽस्ति. तस्य तत्रेन्द्रियत्वम् इष्यते. स च नियमहेतुः पूर्वोक्तो नेष्यते. तस्माद् अयुक्तं वागादीनाम् इन्द्रियत्वम्.

(ii.7, 8) तत्र चक्षुरादीनाम् इति विस्तरः. तत्रेति वाक्योपन्यासे. कृतो निर्देश इति.

तद्विज्ञानाश्रया रूपप्रसादाश् चक्षुरादयः. कायात् स्त्रीपुरुषेन्द्रिये. विज्ञानं प्रतिविज्ञप्तिर्

इति.

जीवितेन्द्रियस्येति. आयुर् जीवितम् आधार ऊष्मविज्ञानयोर् हि य

इत्य् अत्र. श्रद्धादीनां चैत्तेष्व् इति.

श्रद्धाप्रमादः प्रश्रब्धिर्

इत्य् अत्र प्रदेशे. ननु च वेदनाया अपि कृतो निर्देशः चैत्तेषु च करिष्यते

वेदनानुभव

इति.

वेदना चेतना संज्ञेति

वचनात्. [तिब्. 91अ] सत्यं सामान्यं रूपं वेदनाया उक्तं वक्ष्यते च. विशेषविभागरूपं त्व् इह विवक्षितम् इति सुखादीनां कर्तव्यो निर्देश इत्य् आह. आज्ञास्यामीन्द्रियादीनां तर्हि न कर्तव्यो यस्मान् मनसो लक्षणम् उक्तम्. श्रद्धादीनां चैत्तेषु करिष्यते. सुखसौमनस्योपेक्षाणाम् इह क्रियते. एषाम् अपि कर्तव्य एव. यस्मान् नवद्रव्यस्वभावत्वम् एषां दर्शयितव्यम्. एतस्यां चावस्थायाम् एताणि नव द्रव्याण्य् अनाज्ञातमाज्ञास्यामीन्द्रियाख्यां लभन्ते. एतस्याम् अवस्थायाम् आज्ञेन्द्रियाख्याम् एतस्याम् आज्ञातावीन्द्रियाख्यां लभन्त इति. स एषाम् अवस्थाविशेषो दर्शयितव्य इत्य् अतः सूक्तम् एतत्. सुखादीनाम् आज्ञास्यामीन्द्रियादीनां च कर्तव्य इति.

असाता या कायिका वेदनेति

असातेति सातानिवृत्त्यर्थम्. कायिकीति मानसीनिवृत्त्यर्थम्. तत्र कायाश् चक्षुरादयः पंच परमाणुसंचयात्मकत्वात्. तत्र काये भवा कायेन वा आश्रयेण सह चरतीति कायिकी. या उपघातिका पंचेन्द्रियाश्रया वेदना. तत्

दुःखेन्द्रियम्

इत्य् अवगन्तव्यम्.

सुखं सातेति.

अत्रेन्द्रियम् इत्य् अनुवर्तते. कायिकीति च.

सातेति

ग्रहणम् असातानिवृत्त्यर्थम्. तद् एतद् उक्तं भवति. तत् सुखेन्द्रियं. यानुग्राहिका पंचेन्द्रिया वेदनेति.

ध्याने तृतीये तु [तिब्. 91ब्] चैतसी सा सुखेन्द्रियम्

इति. तृतीये तु ध्याने चैतस्य् अपि साता वेदना सुखेन्द्रियम् इति व्यवस्थाप्यते. कस्माच् चैतस्य् एव साता तत्र गृह्यते न कायिकीति. अत आह. न हि तत्र कायिकी वेदनास्ति. पञ्चविज्ञानकायाभावाद् इति. तृतीये ध्याने कस्मात् सा न सौमनस्येन्द्रियम्. अत आह. तृतीये तु ध्याने प्रीतिवीतरागत्वात्. सुखेनेन्द्रियम् एव सा. न सौमनस्येन्द्रियम्. सातत्वाद् धि सुखम् उच्यते. न प्रीतिर् असंप्रहर्षाकारत्वात्. तथा हि सूत्र उक्तम्. प्रीतेर् विरागाद् उपेक्षको विहरतीति विस्तरेण यावत् स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरतीति. सौमनस्याद् अन्या प्रीतिर् इति चेत्. अत आह. प्रीतिर् हि सौमनस्यम् इति.

असाता चैतसी पुनर् दौर्मनस्यम्

इति. उपघातिका चैतसिकी वेदना दौर्मनस्यम्.

उपेक्षा तु मध्येति.

उपेक्षेन्द्रियं तु या मध्या वेदना. नैवसातासातेत्य् अर्थः.

उभयीति.

उभयावयवाव् अस्या उभयी. कायिकी चैतसिकीत्य् अर्थः.

अविकल्पनाद्

इति. अभिनिरूपणाविकल्पभावाद् इत्य् अर्थः. प्रायेणेति ग्रहणं समाधिजविपाकजप्रीतिसुखपरिवर्जनार्थम्. न तु कायिकम् इति. न तु कायिकं सुखदुःखं विकल्पनाद् उत्पद्यते. किंकारणम् इत्य् आह. विषयवशाद् अर्हताम् अप्य् उत्पत्तेर् इति. प्रहीणप्रियाप्रियविकल्पानाम् अप्य् अर्हतां विषयवशेनैव कायिकसुखदुःखोत्पादात्. [तिब्. 92अ] अतस् तयोर् इन्द्रियत्वेन भेद इति. तयोः कायिकचैतसिकयोः सुखयोर् दुःखयोश् च इन्द्रियत्वेन भेदः पृथक्त्वं सुखेन्द्रियं सौमनस्येन्द्रियं दुःखेन्द्रियं दौर्मनस्येन्द्रियम् इति. उपेक्षा तु स्वरसेनैवानभिसंस्कारेणाविकल्पयत एवानभिनिरूपयत एवोत्पद्यते कायिकी चैतसिकी वा विपाकजा नैष्यन्दिकी वा. तस्माद् एकम् इन्द्रियं क्रियते इन्द्रियत्वेनाभेदः उपेक्षेन्द्रियम् इति. अन्यथा च कायिकम् इति विस्तरः. अन्येनानुभवरूपविशेषेण कायिकं सुखम् अनुगृह्णाति. अन्येन चैतसिकं. स्थिरं हि कायिकम्. अस्थिरं हि चैतसिकम्. एवं दुःखम् अन्येनानुभवरूपविशेषेण कायिकम् उपहन्ति. अन्येन चैतसिकम् इति. उपेक्षायां नैष विकल्प इति. एष स्वरूपविशेषलक्षणो विकल्पो नास्ति. अत उपेक्षणं प्रत्य् उपेक्षाक्रियां प्रति. अविकल्पनात् अस्वभावविशेषाद् अभेदः.

दृग्भावनाशैक्षपथ

इति. दृग् दर्शनम्. दृशो भावनाया अशैक्षस्य च पन्था

दृग्भावनाशैक्षपथः.

तस्मिन्न् एव मार्गत्रये यानि मनःसुखसौमनस्योपेक्षाश्रद्धावीर्यस्मृतिसमाधिप्रज्ञाख्यानि नव द्रव्याणि. तानि दर्शनमार्गे अनाज्ञातमाज्ञास्यामीन्द्रियं भावनामार्गे आज्ञेन्द्रियम् अशैक्षमार्गे आज्ञातावीन्द्रियम् इति व्यवस्थाप्यन्ते. अन्योन्यम् अपेक्ष्यमाणानि तानि नव द्रव्याणि तत्तन् नाम लभन्ते. [तिब्. 92ब्] नवेति च कलापान्तरापेक्षयैवम् उक्तम्. न त्व् एकस्मिंश् चित्तकलापे नव द्रव्याणि भवन्ति. सुखसौमनस्योपेक्षेन्द्रियाणाम् एकतरस्यैव भावात्. यदि हि स मार्गो ऽनागम्यध्यानान्तरचतुर्थध्यानाकाशविज्ञानाकिंचन्यायतनभूमिकः. तत्रोपेक्षेन्द्रियम् एव. न सुखसौमनस्येन्द्रिये. यदि प्रथमद्वितीयध्यानभूमिकः. तत्र सौमनस्येन्द्रियम् एव. यदि तृतीयध्यानभूमिकः. तत्र सुखेन्द्रियम् एव नान्यद् इति. अनाज्ञातम् आज्ञातुं प्रवृत्त इति. अनाज्ञातं सत्यचतुष्टयम् आज्ञातुं (अभिध्-क्-व्य् 102) वेदितुं प्रवृत्तः आज्ञास्यामीति प्रारब्धः. तस्येन्द्रियम् अनाज्ञातमाज्ञास्यामीन्द्रियं. अलुक्समासः. आख्यातप्रतिरूपकश् चायम् आज्ञास्यामीति शब्दः. भावनामार्गे नास्त्य् अपूर्वम् आज्ञेयं तद् एव तु सत्यचतुष्टयम् आजानाति शेषानुशयप्रहाणार्थं भावनाहेयक्लेशप्रहाणार्थम्. तस्याज्ञस्य पुद्गलस्येन्द्रियम् आज्ञेन्द्रियम्. आज्ञम् एवेन्द्रियम् इति वा. अशैक्षमार्गे त्व् आज्ञातम् इत्य् अवगमः आज्ञाताव इति. अर्थकथनमात्रम् एतत्. शब्दविग्रहस् त्व् एवं कर्तव्यः. आज्ञातम् इत्य् आव आज्ञातावः. अवतेः घञि रूपम् एतद् आव इति. सो ऽस्यास्तीति मत्वर्थीयः आज्ञातावी. आज्ञातम् अवितुं शीलम् अस्येति वेति ताच्छीलिको णिनिः. तथाभूतस्येन्द्रियम् इति. तथाभूतस्य पुद्गलस्येन्द्रियम्. आज्ञाताविन इत्य् अर्थः.

(ii.9) अमलं त्रयम्

इति. अमलम् एव त्रयम् इत्य् अवधार्यते. ननु चायम् अनास्रवसास्रवप्रकारभेद उक्तो धातुनिर्देशे.

[तिब्. 93अ] अनास्रवा मार्गसत्यम्

इति. तथा

सास्रवानास्रवा एते त्रयः शेषास् तु सास्रवा

इत्यादिवचनात्. सत्यम् उक्तो ऽयम् एवमादिः प्रकारभेदः. स तु सामान्यरूपेणोक्तो न भेदरूपेण. अतः शिष्यसुखप्रतिपत्त्यर्थम् अयम् एवमादिप्रकारभेदः प्रतिपदरूपेण पुनर् अभिधीयत इत्य् एवम् अवगन्तव्यम्. द्विधा नवेति न सूत्रयितव्यम्. एकान्तानास्रवसास्रवनिर्धारणाद् एव हि द्विधा नवेति सिद्धेः. यदि ह्य् एतानि नवैकन्तेनानास्रवाणि स्युः. एकान्तानास्रवेष्व् आज्ञास्यामीन्द्रियादिषु पठ्येरन्. तथैकान्तसास्रवाणि स्युः. एकान्तसास्रवेषु रूपीन्द्रियजीवितदुःखदौर्मनस्येषु पठ्येरन्. न चैवम्. अतो नव द्विधेति सिद्धम्. अस्त्य् एतद् एवम्. मतान्तरनिवृत्त्यर्थं तु पुनर् इदम् उच्यते

नव द्विधेति.

द्विधैव नव. नानास्रवाणि यथैके कथयन्ति. तत्सिद्धये चागमम् आनयन्ति. यस्येमानीति विस्तरः. सर्वेण सर्वाणि न सन्तीति. सर्वेण प्रकारेण मृदुमध्याधिमात्रभेदेन. सर्वाणीति पञ्चापि न सन्तीत्य् अर्थः. पृथग्जनपक्षावस्थितं वदामीति वचनात्. अर्थाद् उक्तं भवति. यस्येमानि सन्ति स आर्य इति. नेदं ज्ञापकम्. तेषाम् अनास्रवत्वम् अधिकृत्येत्य् आचार्यः. तथा ह्य् [तिब्. 93ब्] आर्यपुद्गलव्यवस्थानं कृत्वा यस्येमानीत्य् आहेति. कथम्. (अभिध्-क्-व्य् 103) पञ्चेमानि भिक्षव इन्द्रियाणि. कतमानि पञ्च. श्रद्धेन्द्रियं यावत् प्रज्ञेन्द्रियं एषां पंचानाम् इन्द्रियाणां तीक्ष्णत्वात् परिपूर्णत्वाद् अर्हन् भवति. ततस् तनुतरैर् मृदुतरैर् अनागामी भवति. ततस् तनुतरैर् मृदुतरैः सकृदागामी. ततस् तनुतरैर् मृदुतरैः सकृदागामी. ततस् तनुतरैर् मृदुतरैः स्रोतआपन्नः. ततो ऽपि तनुतरैर् मृदुतरैर् धर्मानुसारी. ततस् तनुतरैर् मृदुतरैः श्रद्धानुसारी. इति हि भिक्षव इन्द्रियपारमितां प्रतीत्य फलपारमिता प्रज्ञायते. फलपारमितां प्रतीत्य पुद्गलपारमिता प्रज्ञायते. यस्येमानि पञ्चेन्द्रियाणि सर्वेण सर्वाणि न सन्ति. तम् अहं बाह्यं पृथग्जनपक्षावस्थितं वदामीति. तद् एवम् आर्यपुद्गलव्यवस्थानं कृत्वा यस्येमानीत्य् आह भगवान् इति. पृथग्जनो वा द्विविध इति. आभ्यन्तरकश् च बाह्यकश् च. असमुच्छिन्नकुशलमूल आभ्यन्तरको बौद्धसंगृहीतत्वात्. समुच्छिन्नकुशलमूलस् तु बाह्यकस् तद्विपर्ययात्. अत एव च बाह्यम् इति विशेषणम्. इतरथा हि पृथग्जनपक्षावस्थितं वदामीत्य् एवावक्ष्यत्. उक्तं च सूत्र इति. अथ भगवतो ऽचिराभिसंबुद्धस्यैतद् अभवत्. अधिगतो मे धर्मो

गम्भीरो गम्भीरावभासो दुर्दर्शो दुरवबोधो ऽतर्क्यो ऽतर्कावचरः सूक्ष्मो [तिब्. 94अ] निपुणः पण्डितविज्ञवेदनीयः. तं चाहं परेषाम् आवेदयेयम्. तं च परे न विजानीयुः. स मम स्याद् विघातः. स्यात् क्लमथः. स्याच् चेतसो ऽनुदयः. यन् न्व् अहम् एकाकी अरण्ये प्रवणे दृष्टधर्मसुखविहारतायोगम् अनुयुक्तो विहरेयम्. अथ ब्रह्मणः सहापतेर् ब्रह्मलोके स्थितस्यैतद् अभवत्. नश्यति बतायं लोकः. प्रणश्यति बतायं लोकः. यत्रेदानीं कदाचित् कर्हिचित् तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्यन्ते. तद्यथा उदुम्बरपुष्पम्. तस्य चाद्य भगवतो ऽल्पोत्सुकविहारितायां चित्तं क्रामति न धर्मदेशनायाम्. यन् न्व् अहं गत्वाध्येषयेयम्. अथ ब्रह्मा सहापतिः तद्यथा बलवान् पुरुषः सम्मिंजितं बाहुं प्रसारयेत्. प्रसारितं वा सम्मिंजयेत्. एवम् एव ब्रह्मा सहापतिः ब्रह्मलोके ऽन्तर्हितो भगवतः पुरस्तात् प्रत्यस्थात्. अथ ब्रह्मा तस्यां वेलायां गाथाम् अभाषत.

प्रादुर्बभूव मगधेषु पूर्वं धर्मो ह्य् अशुद्धः समलानुबद्धः. अपावृणीष्व अमृतस्य द्वारं वदस्व धर्मं विरजं निरंगणम्.

अथ भगवान् तस्यां वेलायाम् इमे गाथे अभाषत्.

कृच्छ्रेण मे अधिगतो ब्रह्मन् खिलां प्रविदाल्य. (अभिध्-क्-व्य् 104) भवरागपरीतैश् च नायं धर्मः सुसंबुधः. प्रतिस्रोतोपमं मार्गं गभीरम् अतिदुर्दृशं न द्रक्ष्यन्ते रागरक्तास् तमःस्कन्धेन चावृताः.

ब्रह्मावोचत्. सन्ति भदन्त [तिब्. 94ब्] सत्त्वा लोके जाता लोके वृद्धास् तीक्ष्णेन्द्रिया अपि मध्येन्द्रिया अपि मृद्विन्द्रिया अपीत्य् अप्रवर्तित एव धर्मचक्र इति विस्तरः. इन्द्रियाणि श्रद्धादीनि. यैस् ते भव्या उक्ताः. यस्माद् अप्रवर्तिते ऽपि धर्मचक्रे सन्ति तीक्ष्णेन्द्रिया इत्याद्य् उक्तम्. तस्मात् सन्त्य् एव सास्रवाणि श्रद्धादीनीति. सदेवकाल् लोकाद् इति विस्तरः. न तावद् अहम् अस्मात् सदेवकाल् लोकात् समारकात् सब्रह्मकात् सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषाया मुक्तो निःसृतो विसंयुक्तो विप्रयुक्तो विपर्यासापगतेन चेतसा बहुलं व्यहार्षम् इति विस्तरवचनम्. न चानास्रवाणाम् एष परीक्षाप्रकार इति. न ह्य् अनास्रवाणाम् आस्वाद आदीनवो निःसरणं वा युज्यते.

(ii.10) अर्हन्न् इति. नानागामी. क्लेशविमुक्तसंतानत्वात्. ऋद्धिमान् इति प्राप्ताभिज्ञः. चेतोवशित्वं प्राप्त इति. असमयविमुक्तः. जीवितपरिष्कारम् इति. जीविताय परिष्कारस् तदनुगुणत्वात्. दत्त्वा तत् प्रणिधायेति. तद् आयुः प्रणिधाय चेतसि कृत्वेत्य् अर्थः. कथम् इत्य् आह. यन् मे भोगविपाकं कर्म. तद् आयुर्विपाकं भवत्व् इति. प्रान्तकोटिकम् इति.

वृद्धिनिष्ठागतम्

इति लक्षणम् अस्य वक्ष्यते. चित्तम् उत्पादयति वाचं च भाषत इति. चित्तवाचाव् अपि तत्सिद्धये कुर्यात् नैककारणसाध्यं हि कार्यं. तद् अनेन [तिब्. 95अ] विपाक एव जीवितेन्द्रियम् इति दर्शयति. यन् मे भोगविपाकं कर्म. तद् आयुर्विपाकदायि भवत्व् इति. ध्यानभावनाबलं तु तस्याकर्षकम् इति.

विपाकोच्छेषं विपच्यत इति. अकालमरणेनापरिसमाप्तफलस्य त्यक्तस्य जन्मान्तरकर्मणो भावनाबलेन विपाकोच्छेषम् आकृष्य प्रतिसंवेदयते. तेषां तादृश इति तेषां योगिनाम्.

पूर्वकर्मजं स्थितिकालावेधम् इति. पूर्वस्मिन् जन्मनि कर्म पूर्वकर्म. ततो जातः पूर्वकर्मजः. स्थितिर् इन्द्रियमहाभूतानां प्रवाहः. स्थितेः कालः स्थितिकालः. तस्यावेध आक्षेपः. स्थितिकालावेधः. तावत्संसारक्षणानुबन्धसामर्थम् आक्षेपः. तेन ह्य् असौ स्थितिकाल आविध्यते. तं पूर्वकर्मजं स्थितिकालावेधम् इन्द्रियमहाभूतानां व्यावर्तयन्ति योग्नः. अपूर्वं च समाधिजम् आगन्तुकम् आक्षिपन्ति.

प्रश्नात् प्रश्नान्तरम् उपजायत इति. अथ यद् अर्हन् भिक्षुर् आयुःसंस्कारान् स्थापयति. तज् जीवितेन्द्रियं कस्य विपाक इत्य् अस्मात् प्रश्नात् किमर्थम् आयुःसंस्कारान् अधितिष्ठन्तीति प्रश्नान्तरम्. परहितार्थं शासनस्थित्यर्थं चेति. परहितार्थं बुद्धा भगवन्तः. शासनस्थित्यर्थम् एव श्रावकः. रोगादिभूतं चात्मभावम् इति. रोगगण्डशल्यादिभूतं त्रिदुःखतायोगात्. क्व कस्य चेति. क्वेत्य् अस्य प्रश्नविसर्जनं मनुष्येष्व् एव [तिब्. 95ब्] त्रिषु द्वीपेष्व् इति. कस्येत्य् अस्य विसर्जनं स्त्रीपुरुषयोर् असमयविमुक्तस्यार्हतः प्रान्तकोटिध्यानलाभिन इति. तस्य हीति विस्तरः. समाधौ च वशित्वं प्रान्तकोटिकध्यानलाभिनः तीक्ष्णेन्द्रियत्वात्. क्लेशैश् चानुपस्तब्धा संततिर् निरवशेषक्लेशप्रहाणात्. दृष्टिप्राप्तस्य यद्य् अपि समाधौ वशित्वम् अस्ति. न तु तस्य क्लेशैर् अनुपस्तब्धा संततिः. समयविमुक्तस्य यद्य् अपि क्लेशैर् अनुपस्तब्धा संततिः. न तु समाधौ वशित्वम्. असमयविमुक्तस्य तूभयम् अस्ति.

बहुवचनम् इति. जीवितसंस्कारान् इति यद् वचनं. तद् बहुवचनम्. कस्माद् इत्य् आह. बहूनाम् इति विस्तरः. बहूनां संतानवर्तिनां जीवितसंस्काराणाम् उत्सर्जनाधिष्ठानात्. न ह्य् एकस्य क्षणस्य उत्सर्जने ऽधिष्ठाने वा प्रोयोजनम् अस्ति. प्रवाहेण परकार्याभिनिष्पादनात्. एकस्य च क्षणस्यापीडाकरत्वात्. न च कालन्तरस्थावरम् इति. कालान्तरस्थानशीलं कालान्तरस्थावरम् अक्षणिकम्. तच् चैतद् आयुर् द्रव्यं न भवतीति द्योतनार्थं बहुवचनम् इत्य् एके. बहुष्व् एव संस्कारेष्व् इति सौत्रान्तिकानाम् अयं पक्षः. एकस्मिन्न् अपि क्षणे बहवस् ते संस्काराः. येष्व् आयुर् इति प्रज्ञप्तिः. नैकम् आयुर् नाम द्रव्यम् अस्ति. ते च संस्काराः पंचस्कन्धस्वभावाश् चतुःस्कन्धस्वभावा वा द्रष्टव्याः. अन्यथा हि नैव संस्कारग्रहणम् अकरिष्यत. एवं तु वक्तव्यम् अभविष्यत्. भगवान् जीवितान्य् अधिष्ठाय आयूंष्य् उत्सृष्टवान् इति मरणवशित्वज्ञापनार्थम् इति. मरणे [तिब्. 96अ] वशित्वम् अस्तीति. त्रैमास्यम् एव नोर्ध्वम् इति. त्रयो मासाः समाहृतास् त्रिमासम्. त्रिमासम् एव त्रैमास्यम् अत्र कालाध्वनोर् अत्यन्तसंयोगे द्वितीया भवति. नोर्ध्वं त्रैमास्याद् विनेयकार्याभावात्. सुभद्रावसानत्वात् बुद्धकार्यस्य. तस्यापि संपादनार्थम् इति प्रतिज्ञातसंपादनार्थम्. अन्यथा वचनमात्रं स्याद् इति. कल्पावशेषः. कल्प एकः सकलः कल्पाधिकः कल्पः सातिरेक इत्य् अर्थः. स्कन्धमरणमारयोर् (अभिध्-क्-व्य् 106) इति. चत्वारो माराः देवपुत्रमारः क्लेशमारः स्कन्धमारः मरणमारश् च. तत्र प्रथमे यामे देवपुत्रमारो निर्जितः. द्वितीये यामे दिव्येन चक्षुषा व्यवलोक्य तृतीये यामे क्लेशमारो निर्जितः. वैशाल्यां तु त्रैमास्यं जीवितसंस्कारान् अधिष्ठाय आयुःसंस्कारान् उत्सृष्टवान्. स्कन्धमारनिर्जयार्थम् उत्सृष्टाः स्कन्धाः. तेषूत्सृष्टेषु मर्तव्यं स्यात्. अतो मरणमारनिर्जयार्थम् अधिष्ठिता इति वैभाषिकाः.

निष्ठितम् आनुषंगिकं यत् प्रश्नात् प्रश्नान्तरम् उपजातं.

द्वेधा द्वादशेति.

द्वेधैव द्वादश एवेत्य् अवधार्यते.

ऋते ऽन्त्याद् अष्टकाच्

छ्रद्धादिकाद् आज्ञातावीन्द्रियपर्यन्तात्.

दौर्मनस्याच् च.

जीवितेन्द्रियाद् एकन्तविपाकाद् अन्यानि द्वादशेन्द्रियाणि विपाकश् चाविपाकश् च. तत्र चक्षुरादीनि पुरुषेन्द्रियावसानानि सप्त स्वप्नाद्यभिनिर्वृत्तान्य् औपचयिकान्य् अविपाकः. [तिब्. 96ब्] मनोदुःखसुखम् इति विस्तरः. यानि मनआदीनि कुशलक्लिष्टानि तान्य् अविपाकः. यानि च यथायोगम् ऐर्यापथिकशैल्पस्थानिकनैर्माणिकस्वभावान्य् अव्याकृतानि तान्य् अविपाकः. यथायोगम् इति विशेषणम्. ऐर्यापथिकादीनां मानसत्वेन दुःखेन्द्रियसंभवात् सुखसौमनस्ययोश् च क्वचिद् असंभवात्. तत्र कामधाताव् ऐर्यापथिकं मनैन्द्रियं तत्संप्रयुक्ते च सौमनस्योपेक्षेन्द्रिये अविपाकः. रूपधाताव् ऐर्यापथिकं मनैन्द्रियम् अविपाकः. वेदनेन्द्रियं च तत्संप्रयुक्तं यथाभूमि. नैर्माणिकं पञ्चभूमिकम्. तत्र चोपेक्षेन्द्रियम् एवाविपाकः. ऐर्यापथिकशैल्पस्थानिकनैर्माणिकानि नित्यम् उपेक्षेन्द्रियेण संप्रयुक्तानीति भदन्तानन्तवर्मा. शेषाणि विपाक इति. कुशलक्लिष्टैर्यापथिकशैल्पस्थानिकनैर्माणिकस्वभावेभ्यो मनैन्द्रियादिभ्यो ऽन्यानि मनैन्द्रियादीनि विपाकजानि विपाकः. शेषाण्य् अविपाक इति सिद्धम् इति. जीवितेन्द्रियं द्वादश चक्षुरादीनि हित्वा तदवधारणाद् एव शेषाण्य् अविपाक इति सिद्धम्. कतमानि पुनस् तानि. दौर्मनस्येन्द्रियं न विपाकः कुशलाकुशलत्वात्. तथा हि वक्ष्यति.

तत् त्व् एकं सविपाकम्

इति. श्रद्धाद्य्

अष्टकं कुशलम्

इत्य् अविपाकः.

[तिब्. 97अ] विपाको ऽव्याकृतो धर्मः. सत्त्वाख्य

इति विपाकलक्षणाभावात्.

यदि दौर्मनस्येन्द्रियं न विपाक इत्य् अनेनागमविरोधं दर्शयति. संप्रयोगवेदनीयताम् अधिकृत्येति. वेदनीयं वेदना. दौर्मनस्यं वेदनीयम् अस्मिन्न् इति दौर्मनस्यवेदनीयं कर्म. सौमनस्योपेक्षावेदनीये अपीति. संप्रयोगमात्रवचनाद् दौर्मनस्यवत् सौमनस्योपेक्षे अपि न विपाकः प्राप्णुत इति परस्याभिप्रायः. संप्रयोगे ऽपि न दोषो विपाके ऽपीति. सौमनस्यं वेदनीयम् अस्मिन् सौमनस्यवेदनीयं कर्म. तथा सौमनस्यं विपाकत्वेन वेदनीयम् अस्य सौमनस्यवेदनीयं कर्मेति. अगत्या ह्य् एतद् एवं गम्येतेति. यदि दौर्मनस्यं युक्त्या परिच्छिन्नं न विपाक इति. तत एवम् अगत्याख्यायेत संप्रयोगवेदनीयताम् अधिकृत्योक्तम् इति. तेनाह का पुनर् अत्र युक्तिर् दौर्मनस्यं न विपाक इति. अथ वा अगत्या ह्य् एतद् एवं गम्येत. क्वचित् संप्रयोगवेदनीयता. क्वचिद् विपाकवेदनीयतेति. ब्रूयास् त्वं सर्वत्रैव तर्हि संप्रयोगवेदनीयतेति. अत एतद् अन्तराभिप्रायम् अभिसमीक्ष्याह. का पुनर् अत्र युक्तिर् दौर्मनस्यं न विपाक इति. दौर्मनस्यं हीत्य् [तिब्. 97ब्] अनिष्टचिन्तनादिकैः परिकल्पविशेषैर् उत्पाद्यते च [व्युत्पाद्यते च] व्युपशाम्यते च. सौमनस्यम् अप्य् एवम् इति. परिकल्पविशेषैर् इष्टचिन्तनादिभिर् उत्पाद्यते च व्युपशाम्यते च. वीतरागादीनां तर्हीति. यस्माद् वीतरागादीनां दौर्मनस्यं व्यावर्तते. न हि चक्षुरादिको विपाकभूतो वीतरागादीनां व्यावर्तते. दौर्मनस्यं तु व्यावर्तते. वचनाद् दौर्मनस्येन कामवीतरागो ऽसमन्वागत इति. सूत्रे ऽप्य् उक्तं. अवीतरागस्य द्विशल्या वेदनोक्ता कायिकं दुःखं प्रतिसंवेदयते चैतसिकं च दौर्मनस्यम् इति. वचनात् वीतरागस्य च एकशल्या कायिकम् एव दुःखं

प्रतिसंवेदयत इति. सौमनस्यम् अप्य् एषाम् इति विस्तरः. वीतरागाणाम् अव्याकृतं विपाकरूपं सौमनस्यं कीदृशं स्यात्. समापत्तिसंगृहीतं तेषां सौमनस्यं संभवति. तच् च कुशलत्वान् न विपाकः. अतो वक्तव्यम्. कीदृशं तेषां सौमनस्यं विपाक इति. यादृशं तादृशम् अस्त्व् इति. अपरिच्छिद्यमानम् अपि तद् अस्त्य् एवेति दर्शयति. तस्यास्ति विपाकावकाशो न दौर्मनस्यस्य. सर्वथाप्य् असमुदाचारात् समापत्त्यवस्थायाम् अप्य् असमापत्त्यवस्थायाम् अपीत्य् अतो न विपाक इति सिद्धम्. मनैन्द्रियम् उभयोर् उभयस्येति. उभयोः सुगतिदुर्गत्योः उभयस्य कुशलाकुशलस्य. विपाक इत्य् अधिकारः. इदम् उत्सृष्टं जीवितेन्द्रियाष्टमानि सुगतौ कुशलस्य [तिब्. 98अ] विपाक इति. तत्र कथम् उभयव्यंजनम् असाधुसम्मतं कुशलस्य विपाक इत्य् आह. सुगताव् उभयव्यंजनस्याकुशलेन तत्स्थानप्रतिलंभ इति. स्थानम् अस्य भ्रष्टम्. अतो ऽस्याकुशलेन (अभिध्-क्-व्य् 108) प्रतिलंभो विप्रयुक्तो धर्मः. उभयं तु व्यंजनं कुशलस्यैव विपाक इत्य् अभिप्रायः.

(ii.11) तत् त्व् एकं सविपाकम् इति. तद् एकं सविपाकम् एवेत्य् अर्थः. तेनाह. तुशब्द एवकारार्थो भिन्नक्रमश् चेति. भिन्नस्थान इत्य् अर्थः. तद् एकं सविपाकं त्व् इति हि क्रमो न भिन्नः स्यात्. श्लोकबन्धानुगुण्येन त्व् एवम् उक्तम्. न हि तद् अव्याकृतम् इति. सविपाकम् एवेत्य् अवधारणे युक्तिं दर्शयति. द्वे हि वस्तुनी अविपाके इष्येते. अव्याकृतम् अनास्रवं च. विकल्पविशेषोत्पाद्यत्वान् न तद् अव्याकृतम्. असमाहितत्वाच् च नानास्रवम्. अव्याकृतं हि पूतिबीजवन् न विपाकदानाय समर्थम्. अनास्रवं तु तृष्णानभिष्यन्दितत्वान् नालं विपाकदानायानभिष्यन्दितसारबीजवत्. पारिशेष्याद् अकुशलं वा तद् भवेत् कुशलसास्रवं वा. अतः सविपाकम् एव नास्त्य् अविपाकं दौर्मनस्यम्.

दश द्विधेति.

दशैव द्विधा द्विधैव च दशेत्य् अवधारणम्. द्विधेति सविपाकाविपाकानि.

[तिब्. 98ब्] मनो ऽन्यवित्तिश्रद्धादीनि चेति.

मनश् च अन्यवित्तयश् च श्रद्धादीनि चेति. वित्तिर् वेदना. अन्यग्रहणेन दौर्मनस्यवर्जितं गृह्यते दौर्मनस्यस्योक्तत्वात्.

श्रद्धादीनि

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञा. गृह्यन्त इत्य् अधिकृतम् अन्यद् अविपाकम् इति. यथोक्तदौर्मनस्याद्यवधारणात्. जीवितं रूपाणि च सप्तेन्द्रियाण्य् आज्ञास्यामीन्द्रियादीनि च त्रीण्य् अविपाकानीति सिद्धम् अव्याकृतत्वात् अनास्रवत्वाच् च यथाक्रमम्.

(ii.12) अष्टकं कुशलम्

इति. अष्टकं कुशलम् एवेत्य् अवधारणम्.

द्विधा दौर्मनस्यम्

इति. द्विधैव दौर्मनस्यं दौर्मनस्यम् एव द्विधेत्य् अवधारणं. द्विधेति कुशलं चाकुशलं च. अन्यद् अपि द्वैधम् अस्ति. कूशलं चाव्याकृतं च अकुशलं चाव्याकृतं चेति. तत् कथम् इदम् अवधार्यते. कुशलं चाकुशलं चेति. व्याख्यानतो विशेषप्रतिपत्तिः. अथ वा दौर्मनस्यं सविपाकम् एवेति निर्धारितम्. तस्माद् इदम् एव द्वैधं भवति नान्यत्.

अन्या च वित्तिर्

इति दौर्मनस्यवर्ज्यं वेदनाचतुष्टयं तस्योक्तत्वात्.

त्रेधेति. कुशलाकुशलाव्याकृतानि. त्रयः प्रकारास् त्रेधा. द्वित्र्योश् च धमुञ्. एधाच् चेति (अभिध्-क्-व्य् 109) त्रेधेत्य् एधाशब्दव्युत्पत्तिः. अलोभादिसंप्रयुक्तानि कुशलानि. लोभादिसंप्रयुक्तान्य् अकुशलानि. अतो ऽन्यान्य् [तिब्. 99अ] अव्याकृतानि.

अन्यद् एकधेति.

जीविताष्टमम् अन्यद् एकधैवेत्य् अवधार्यते. अव्याकृतम् एवेत्य् अर्थः. एतदर्थं च पुनर् अस्य करणम्. अन्यथा ह्य् अकुशलम् एव कुशलाव्याकृतम् एवाकुशलाव्याकृतम् एव वा तत् संभाव्यते. तस्माद् अभीप्सितैकधात्वप्रसिद्ध्यर्थं पुनर् उच्यते. यस्यैकधात्वं संभवति. तद् भवति. किं च संभवत्य् अव्याकृतत्वम् इति.

(ii.13) कामाप्तम् अमलं हित्वेति.

अमलम् एव हित्वा कामाप्तं भवति. तद् ध्य् अप्रतिसंयुक्तम् एवेति. अधातुपतितम् एवेत्य् अर्थः.

रूपाप्तं स्त्रीपुमिन्द्रिये

इति विस्तरः. स्त्री च पुमांश् च स्त्रीपुमांसौ. समासान्ते विधिर् अनित्य इति परिभाषया समासान्तो न भवति. तयोर् इन्द्रिये स्त्रीपुमिन्द्रिये.

दुःखे चेति

दुःखवेदनास्वभावे इन्द्रिये दुःखदौर्मनस्ये इत्य् अर्थः. ते स्त्रीपुमिन्द्रिये दुःखदौर्मनस्ये अमलां चेहानुवर्तमानं हित्वा. शेषं रूपाप्तम् इन्द्रियं भवति.

क्वोच्यन्त इति पृष्टे सूत्रं दर्शयति. अस्थानम् अनवकाश इति विस्तरः. अत्र सूत्र इत्य् अभिप्रायः. अन्यः पुरुषभावो ऽस्ति. यः कामधातौ पुरुषाणां भवतीति. स्तनादिसंस्थानस्वराचारान्यथात्वम्. दुःखेन्द्रियं नास्तीति. आश्रयस्याच्छत्वात् तद् अभिघातजं नास्ति. अकुशलभावाच् च विपाकजं च नास्ति. दौर्मनस्येन्द्रियं नास्ति शमथस्निग्धसंतानत्वाद् इति. यस्माच् च शमथेन समाधिना [तिब्. 99ब्] प्रतिघविगमात्. रौक्ष्यं संताने नास्ति. तस्माद् दौर्मनस्येन्द्रियं नास्ति. आघातवस्त्वभावाच् चेति. आघातः कोपः. तस्य वस्तु विषयः आघातवस्तु. नव चाघातवस्तूनि. अनर्थं मे अकार्षीत् करोति करिष्यति चेत्य् आघातवस्तुत्रयम्. मित्रस्य मे अनर्थम् अकार्षीत् करोति करिष्यतीत्य् अपरम् आघातवस्तुत्रयम्. अमित्रस्य मे अर्थम् अकार्षीत् करोति करिष्यति चेत्य् अपरम् आघातवस्तुत्रयम् इति. एषां नवानाम् आघातवस्तूनाम् अभावात् विषयकृतम् अपि दौर्मनस्यं नास्ति. न केवलं हेतुकृतं नस्तीति दर्शयति. हेतुकृतं हि तद् यत् स्वसंतानप्रतिघकृतम्. प्रत्ययकृतं च तद् यन् नवाघातवस्तुकृतम् इति.

सुखे चापोह्य रूपि चेति.

चशब्देन पूर्वोक्तम् अनुकृष्यते. तेनाह. स्त्रीपुमिन्द्रिये दुःखे चामलं च हित्वेति वर्तत इति.

सुखे

इति. सुखवेदनास्वभावे सुखसौमनस्येन्द्रिये. रूपीन्द्रियं चक्षुरादि.

(ii.14) वित्तित्रयं सुखसौमनस्योपेक्षा इति. सुखेन्द्रियं यत् तृतीयध्यानभूमिकं दर्शनहेयानुशयसंप्रयुक्तं. तद् दर्शनहेयम्. तत्रैव अतो ऽन्यत् सास्रवम्. पञ्चविज्ञानकायिकं च कामावचरम्. प्रथमध्यानभूमिकं च त्रिविज्ञानकायिकं भावनाप्रहातव्यम्. अनास्रवं तु सुखेन्द्रियम् अहेयम्. [तिब्. 100अ] सौमनस्यं दर्शनहेयसंप्रयुक्तं दर्शनहेयम्. अतो ऽन्यत् सास्रवं भावनाहेयम्. अनास्रवम् अहेयम्. उपेक्षेन्द्रियं तु सर्वगम् इति सुगमम्.

द्विहेया दुर्मनस्कतेति.

दौर्मनस्ययोगाद् दुर्मनस्कः. तद्भावो दुर्मनस्कता. दौर्मनस्यम् इत्य् अर्थः. यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेषः. तदभिधाने त्वतलाव् इति लक्षणात्. तद् दर्शनहेयसंप्रयुक्तं दर्शनहेयम्. अतो ऽन्यद् भावनाहेयम्. नाहेयम् असमाहितत्वात्.

(ii.15) कामेष्व् आदौ विपाकौ द्वे लभ्येते

इति. कामप्रधानत्वात् कामधातुः काम इति निर्दिश्यत इति वक्ष्यते. अण्डजजरायुजसंस्वेदजैस् सत्त्वैः कामधाताव् आदौ प्रथमतो द्वे इन्द्रिये विपाकात्मके लभ्येते. कायेन्द्रियं जीवितेन्द्रियं च. कस्मात्. प्रतिसंधिकाले मनौपेक्षेन्द्रिययोर् अवश्यं क्लिष्टत्वात्.

उपपत्तिभवः क्लिष्टः सर्वक्लेशैः स्वभूमिकैर्

इति वचनात्. चक्षुरादीनां च तस्याम् अवस्थायाम् अविद्यमानत्वात्.

नोपपादुकैर्

इति अपवादः. अविशेषितत्वाद् ध्य् उपपादुकैर् अपि तथैव द्वे एव लभ्येयाताम् इति प्रसंगः. तस्माद् अयं प्रतिषेधः. किम् उपपादुकैस् ते द्वे नैव लभ्येते. लभ्येते न तु द्वे एव. तेनाह

तैः षड् वेति

विस्तरः. [तिब्. 100ब्] यद्य् अव्यञ्जना भवन्ति. यद्य् अविद्यमानस्त्रीपुरुषेन्द्रियाः. यथा प्राथमकल्पिका इति.

युगाद्युत्पन्नाः प्राग् आसन् रूपिवत् सत्त्वा

इति वचनात्. कतमानि षट्. चक्षुरादीनि पञ्च जीवितं च षष्ठम् इति. यथा देवादिष्व् इति. आदिशब्देन नारकादयो ऽपि गृह्यन्ते. अन्तराभवोपपत्तिभवप्रतिसंध्यवस्थायां (अभिध्-क्-व्य् 111) तानि प्रथमतो लभ्यन्ते. किं पुनर् उभयव्यञ्जना अप्य् उपपादुका भवन्तीति. निहीनोभयव्यञ्जनोत्पत्तिः. विशिष्टा चोपपादुका योनिः. कथम् अनयोः समायोग इति चोदनाभिप्रायः. रूपप्रधानत्वाद् रुपाणीति रूपधातुर् निर्दिश्यते. रूपप्रधानत्वाद् इति. रूपाणां स्वच्छत्वाद् भास्वरत्वाद् इत्य् अर्थः. अथ वा न कामगुणप्रधानो रूपधातुः. किं तर्हि. रूपमात्रप्रधानः. नाप्य् आरूप्यधातुवद् अरूपप्रधान इति. सूत्रे ऽप्य् उक्तम् इति. सूत्रे ऽप्य् एवं दृष्टम्. न मदुपज्ञम् एवैतद् इति दर्शयति. ये ऽपि ते शान्ता विमोक्षा अतिक्रम्य रूपाण्य् आरूप्याः. ते ऽप्य् अनित्या अध्रुवा अनाश्वाशिका विपरिणामधर्माण इति विस्तरः. अव्यञ्जनैर् उपपादुकैर् इति प्राथमकल्पिकैः. समापत्तितश् च परत्वाद् इति. यस्मात् पूर्वं रूपसमापत्तिः. पश्चाद् आरूप्यसमापत्तिः. तस्माद् रूपधातोर् उत्तर आरूप्यधातुः. उपपत्तितश् च प्रधानतरत्वाद् इति. यस्माच् चोपपत्तितः प्रधानतरः [तिब्. 101अ] रूपधातोर् आरूप्यधातुः. बहूनि कल्पसहस्राणि तत्रातिप्रशान्तो विपाको भवति. अतो ऽप्य् असाव् उत्तरो न तूपपत्तिदेशतः.

आरूप्यधातुर् अस्थान

इति वचनात्.

(ii.16) निरोधयत्य् उपरमन्न्

इति. म्रियमाण आरूप्यधाताव् एतान्य् एव त्रीणीन्द्रियाणि निरोधयति. सापवादं चैतद् वेदितव्यम्.

शुभे सर्वत्र पञ्च चेति

वचनात्.

रूपे ऽष्टाव्

इति. रूपधाताव् अष्टाव् एतान्य् एव. सह पञ्चभिश् चक्षुरादिभिर् निरोधयेत्. सकृत्समग्रेन्द्रियमरणात्. अत एवाह. सर्वे ह्य् उपपादुकाः समग्रेन्द्रिया उपपद्यन्ते म्रियन्ते चेति.

कामे दश नवाष्ट वेति.

उभयव्यञ्जनो दशेन्द्रियाणि निरोधयति. यदि समग्रपञ्चेन्द्रियो भवति. एकव्यञ्जनो नव. अव्यञ्जनो ऽष्टौ. यदि तु विकलेन्द्रियो ऽन्धो बधिरो वा भवति. तदा तद् इन्द्रियं परिहार्यम्. सापवादं चैतत् सर्वकामधाताव् एव वेदितव्यम्. तद् अपवादम् आह.

क्रममृत्योस् तु चत्वारीति.

न ह्य् एषां पृथग्निरोध इति. न ह्य् एषां कामधाताव् अन्योन्यं विरहय्य निरोधो ऽस्तीत्य् अभिप्रायः.

शुभे सर्वत्र पञ्च चेति.

सर्वस्य पूर्वोक्तस्य मरणविधेर्

निरोधयत्य् उपरमन्न् आरूप्ये जीवितं मन

इत्य् एवमादेर् अपवादः. त्रिविधं हि मरणचित्तं संभवति. क्लिष्टम् अव्याकृतं कुशलं च. [तिब्. 101ब्] तत्र क्लिष्टाव्याकृतचित्तस्योत्सर्गन्यायेन मरणविधिर् उक्तः. कुशलचित्तस्य तु मरणे श्रद्धादयः पञ्चाधिकाः प्रक्षेप्तव्याः. एषां हि श्रद्धादीनां कुशले चेतस्य् अवश्यं भावः. तेन यत्र त्रीण्य् उक्तानि तत्राष्टौ. यत्राष्टौ तत्र त्रयोदश. यत्र दश तत्र पञ्चदश. यत्र नव तत्र चतुर्दश. यत्र पुनर् अष्टौ तत्र त्रयोदश. यत्र चत्वारि तत्र नवेति विस्तरेण गणनीयम्. रूपारूप्यधात्वोऋ नास्ति क्रममरणम्.

(ii.17) इन्द्रियप्रकरणे सर्व इन्द्रियधर्मा विचार्यन्त इति. इन्द्रियप्रकरणे इह क्रियमाणे. सर्व इन्द्रियधर्मा इन्द्रियावस्थाविशेषाः कारित्रविशेषा वा विचार्यन्त इत्य् एके व्याचक्षते. अपरे तु व्याचक्षते. इन्द्रियप्रकरणे इन्द्रियस्कन्धके सर्व इन्द्रियधर्मा अवस्थाविशेषाः कारित्रविशेषा वा विचार्यन्ते. तेनेहापि ते विचार्यन्ते. तत्प्रत्यासत्वात् अस्य शास्त्रस्येत्य् अभिप्रायः.

नवाप्तिर् अन्त्यफलयोर्

इति. नवभिर् इन्द्रियैर् आप्तिर्

नवाप्तिः.

कस्य.

अन्त्यफलयोः.

अन्ते भवे अन्त्ये. अन्त्ये फले अन्त्यफले. तयोः. के पुनर् अन्त्ये. स्रोतआपत्तिफलं अर्हत्त्वफलं च. यथा दण्डस्य द्वाव् अन्तौ भवतः. एवं पङ्क्त्यवस्थितानां चतुर्णां फलानां स्रोतआपत्तिफलम् अर्हत्त्वफलं चान्ते भवतः. सकृदागामिफलम् अनागामिफलं च मध्ये भवतः. तयोर् अन्त्ययोः फलयोर् नवभिर् एवेन्द्रियैः प्राप्तिः. कतमैर् नवभिर् इत्य् आह. श्रद्धादिभिर् आज्ञातावीन्द्रियवर्ज्यैर् [तिब्. 102अ] मनौपेक्षेन्द्रियाभ्यां चेति. नवभिर् इति. तत्रैवम् अभिसमयक्रमः. दुःखे धर्मज्ञानक्षान्तिः. दुःखे धर्मज्ञानं. दुःखे ऽन्वयज्ञानक्षान्तिः. दुःखे ऽन्वयज्ञानं. समुदये धर्मज्ञानक्षान्तिः. समुदये धर्मज्ञानं. समुदये ऽन्वयज्ञानक्षान्तिः. समुदये ऽन्वयज्ञानं. निरोधे धर्मज्ञानक्षान्तिः. निरोधे धर्मज्ञानं. निरोधे ऽन्वयज्ञानक्षान्तिः. निरोधे ऽन्वयज्ञानं. मार्गे धर्मज्ञानक्षान्तिः. मार्गे धर्मज्ञानं. मार्गे ऽन्वयज्ञानक्षान्तिः. मार्गे ऽन्वयज्ञानम्. इति षोडश क्षणा अभिसमय इत्य् उच्यन्ते. तत्र दुःखे धर्मज्ञानक्षान्तिर् यावन् मार्गे ऽन्वयज्ञानक्षान्तिर् इति पञ्चदश (अभिध्-क्-व्य् 113) क्षणा दर्शनमार्गः.

अदृष्टदृष्टेर् दृङ्मार्गस् तत्र पञ्चदश क्षणा

इति वचनात्. तच् चाज्ञास्यामीन्द्रियम् इत्य् उच्यते. मार्गे ऽन्वयज्ञानं तु षोडशः स भावनामार्गः. ततः प्रभृत्या वज्रोपमसमाधेर् यावान् अनास्रवो मार्गः सर्वो ऽसौ भावनामार्गः. तच् चाज्ञेन्द्रियम् इत्य् उच्यते. क्षयज्ञानात् प्रभृति सर्वो ऽनास्रवो मार्गो ऽशैक्षमार्गः. तच् चाज्ञातावीन्द्रियम् इत्य् उच्यते. तत्र स्रोतआपत्तिफलं मार्गे ऽन्वयज्ञानक्षान्त्यवस्थायां प्राप्यते. श्रद्धादीनि चात्र पञ्चेन्दियाणि अवश्यं भवन्ति. तस्या अवस्थायाः कुशलत्वात्. आज्ञास्यामीन्द्रियस्वभावा चासौ मार्गे ऽन्वयज्ञानक्षान्तिर् वर्तमाना. मनैन्द्रियं च तत्संप्रयुक्तं भवति. उपेक्षेन्द्रियं चावश्यं अनागम्याश्रयत्वात्. [तिब्. 102ब्] अनागम्यस्य च उपेक्षेन्द्रियसंप्रयुक्तत्वात्. मार्गे ऽन्वयज्ञानं तु अस्याम् अवस्थायाम् आज्ञेन्द्रियस्वभावम् उत्पादाभिमुखं वर्तते. तेन श्रद्धादिभिः पञ्चभिर् आज्ञास्यामीन्द्रियेणाज्ञेन्द्रियेण मनौपेक्षेन्द्रियाभ्यां चेति तत्फलं नवभिः प्राप्यते. उभाभ्यां हि तस्य प्राप्तिर् इति. आनन्तर्यमार्गेणाज्ञास्यामीन्द्रियस्वभावेन विमुक्तिमार्गेण चाज्ञेन्द्रियस्वभावेन तस्य प्राप्तिः. विसंयोगप्राप्तेर् आवाहकसंनिश्रयत्वात् यथाक्रमं. तस्या विसंयोगप्रातेर् आनन्तर्यमार्गस्यावाहकत्वात्. जनकत्वात्. विमुक्तिमार्गस्य च तस्याः संम्निश्रयत्वात्. आधारत्वाद् इत्य् अर्थः. द्वाभ्यां चौरनिष्कासनकपाटपिधानवत्. यथा हि द्वयोर् मनुष्ययोः एकेन चौरो निष्कास्यते. द्वितीयेनास्य कपाटं पिधीयते. तथानन्तर्यमार्गेण विसंयोगप्राप्तिर् आवाह्यते क्लेशप्राप्तिम् आदाय निरोधात्. विमुक्तिमार्गेणाधार्यते. विसंयोगप्राप्तिसहोत्पादात्. अर्हत्त्वस्य पुनः श्रद्धादिभिर् आज्ञास्यामीन्द्रियवर्ज्यैर् इति. वज्रोपमसमाध्यवस्थायाम्

अर्हत्त्वफलं प्राप्यते. श्रद्धादीनि मनैन्द्रियं च पूर्ववत्. वज्रोपमसमाधिकलापस् तस्याम् अवस्थायाम् आनन्तर्यमार्ग आज्ञेन्द्रियस्वभावो वर्तमानः. सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमत्. यदि तृतीयं ध्यानं निश्रित्यार्हत्त्वं प्राप्यते. सुखेन्द्रियं तत्र वर्तमानं. [तिब्. 103अ] अथ प्रथमं द्वितीयं ध्यानं निश्रित्य तत्र सौमनस्येन्द्रियं. अथानागम्यध्यानान्तरचतुर्थध्यानाकाशविज्ञानाकिंचन्यायतनानां अन्यतमं निश्रित्य तत्रोपेक्षेन्द्रियं वर्तमानं. क्षयज्ञानकलापस् तु अस्याम् अवस्थायां विमुक्तिमार्ग आज्ञातावीन्द्रियस्वभाव उत्पादाभिमुखो भवति. तेन श्रद्धादिभिः पंचभिर् आज्ञेन्द्रियेणाज्ञातावीन्द्रियेण मनैन्द्रियेण सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमेनेति तत्फलं नवभिः प्राप्यते. आनन्तर्यविमुक्तिमार्गाभ्यां (अभिध्-क्-व्य् 114) तत्प्राप्तिर् इति पूर्ववद् व्याख्यानं.

सप्ताष्टनवभिर् द्वयोः

प्राप्तिर् इति वाक्यशेषः. प्रत्येकम् इति विस्तरः. सकृदागामिफलस्य सप्तभिर् अष्टाभिर् नवभिर् वा प्राप्तिः. एवम् अनागामिफलस्य. तत् प्रतिपादयन्न् आह. सकृदागामिफलं तावद् यद्य् आनुपूर्वकः प्राप्णोति स च लौकिकेन मार्गेणेति. लौकिको मार्गः शान्ताद्युदाराद्याकारः.

शान्ताद्युदाराद्याकारा उत्तराधरगोचरा

इति वचनात्. तेनोत्तरां भूमिं शान्ततः प्रणीततः निःसरणतश् चेह योगी पश्यति. अधराम् औदारिकतो दुःखिलतः स्थूलभित्तिकतश् च पश्यति. स चायं चतुःप्रकारो वर्ण्यते. प्रयोगमार्ग आनन्तर्यमार्गो विमुक्तिमार्गो विशेषमार्गश् च. तत्र प्रयोगमार्गो यत आनन्तर्यमार्ग उत्पद्यते. स पुनर् येन क्लेशान् प्रजहाति. विमुक्तिमार्गो [तिब्. 103ब्] ऽप्य् आनन्तर्यमार्गाद् अनन्तरम् उत्पद्यते. क्लेशप्रहाणप्राप्तेर् आधारकः. विशेषमार्गस् तत उच्चं विशिष्टो मार्गः. तेन मार्गेण नवप्रकाराः क्लेशाः प्रहेयाः. अधिमात्राधिमात्रो ऽधिमात्रमध्यो ऽधिमात्रमृदुः मध्याधिमात्रो मध्यमध्यो मध्यमृदुः मृद्वधिमात्रो मृदुमध्यो मृदुमृदुश् चेति. तद् यदि पृथग्जनः प्रजहाति दर्शनभावनाहेयान् क्लेशान् मिश्रीकृत्य तेन मृदुमध्याधिमात्रादिभेदेन नवधा कृत्वा प्रजहाति. मृदुमृदुभ्याम् आनन्तर्यविमुक्तिमार्गाभ्याम् अधिमात्राधिमात्रं क्लेशप्रकारं प्रजहाति. एवं यावद् अधिमात्राधिमात्राभ्याम् आनन्तर्यविमुक्तिमार्गाभ्यां मृदुमृदुक्लेशप्रकारं प्रजहाति. आर्यस् तु भावनाहेयान् एव क्लेशांस् तथैव नवधा कृत्वा प्रजहाति. दर्शनहेयानां दर्शनमार्गेण प्राक्प्रहीणत्वात्. लोकोत्तरस् तु भावनामार्गस् तथैव षोडशाकारः. अनित्याद्याकारभेदात्. स चापि तथैव प्रयोगादिमार्गभेदाच् चतुर्भेदः. इहापि मृदुमृदुभ्याम् आनन्तर्यविमुक्तिमार्गाभ्याम् अधिमात्राधिमात्रं क्लेशप्रकारं प्रजहाति. एवं यावद् अधिमात्राधिमात्राभ्याम् आनन्तर्यविमुक्तिमार्गाभ्यां मृदुमृदुक्लेशप्रकारं प्रजहाति. एष लौकिकलोकोत्तरयोर् मार्गयोर् दिङ्मात्रनिर्देशः. तत् सकृदागामिफलम् आनुपूर्वकेण वा लभ्येत भूयोवीतरागेण वा. तत्रानुपूर्विको यः

स्रोतआपत्तिफलं प्राप्य क्रमात् सकृदागामिफलं प्राप्नोति. [तिब्. 104अ] कश् चासौ. यः सकलबन्धन एकप्रकाराद्युपलिखितो वा यदि न षष्ठप्रकारोपलिखितो नियामम् अवक्रामति. षोडशे चित्तक्षणे स स्रोतआपन्नो भवति. स भावनाहेयस्यैकस्य यावत् षष्ठस्यैव वा प्रकारस्य प्रहाणाय शमथचरितत्वात् लौकिकम् अपि मार्गम् उत्पादयति. स षष्ठप्रकारे प्रहीणे सकृदागामिफलं प्राप्नोति. तस्य फलस्य सप्तभिर् इन्द्रियैः प्राप्तिः श्रद्धादिभिः (अभिध्-क्-व्य् 115) पंचभिर् मनैन्द्रियेण उपेक्षेन्द्रियेण च सप्तमेनानागम्यनिर्श्रयत्वात्. अथ लोकोत्तरेणे मार्गेण तस्याष्टाभिर् इन्द्रियैः प्राप्तिः. तैर् एवाज्ञेन्द्रियेण चाष्ठमेन. तन्य् एव हि श्रद्धादीनि सप्तेन्द्रियाणि आज्ञेन्द्रियाख्यां लभन्ते. अनास्रवत्वात्. अथ भूयोवीतराग इति. यो लौकिकेन मार्गेण पृथग्जनावस्थायां षट्प्रकारोपलिखितो ऽभूत्. स भूयोवीतराग इत्य् उच्यते. भूयसा प्रकारेण वीतराग इति कृत्वा. स यदि सकृदागामिफलं प्राप्नोति. कथं स प्राप्नोति इति. अभिसमयक्रमेण पूर्वोक्तेन मार्गे ऽन्वयज्ञानक्षान्त्यवस्थायां प्राप्नोति. तस्य नवभिर् यथैव स्रोतआपत्तिफलस्य. श्रद्धादिभिर् आज्ञातावीन्द्रियवर्ज्यैः. मनौपेक्षेन्द्रियाभ्यां चेति पूर्ववत् व्याख्यानं. अयं हि स्रोतआपत्तिफलं अप्राप्यैव षोडशे क्षणे सकृदागामी भवति. अनागामिफलं यद्य् आनुपूर्वकः प्राप्नोतीति. इहानुपूर्वको [तिब्. 104ब्] यः स्रोतआपत्तिफलं सकृदागामिफलं च प्राप्य अनागामिफलं प्राप्नोति. यो वा भूयोवीतरागो भूत्वा स्रोतआपत्तिफलम् अलब्ध्वैव सकृदागामिफलम् एव च लब्ध्वानागामिफलं प्राप्नोति. स च यदि लौकिकेन मार्गेण प्राप्नोति. तस्य

सप्तभिर् इन्द्रियैः प्राप्तिः. यथा सकृदागामिफलस्यानुपूर्विकीयस्येत्य् अभिप्रेतं. श्रद्धादिभिः पंचभिर् मनौपेक्षेन्द्रियाभ्यां चेत्य् अर्थः. अथ लोकोत्तरेण मार्गेण तस्याष्टाभिस् तथैवेति. यथा सकृदागामिफलस्यैवाष्टाभिर् इत्य् अर्थः. आज्ञेन्द्रियम् अष्टमं भवतीति. अथ वीतराग इति. कामधातुमात्रवीतरागो लौकिकेन मार्गेण नवमे प्रकारे प्रहीणे प्रथमाद् अपि वा ध्यानाद् यावद् आकिंचन्याद् अपि वा विटरागो यो ऽनागामिफलं प्राप्नोति. तस्य नवभिः प्राप्तिः. यथा स्रोतआपत्तिफलस्य. स्रोतआपत्तिफलस्य हि दर्शनमार्गेण प्राप्तिः. अस्य च दर्शनमार्गेणैव प्राप्तिर् इति तुल्यत्वम्. अयं तु विशेषः. सखसौमनस्योपेक्षेन्द्रियाणाम् अन्यतमं भवति. निश्रयविशेषाद् इति. यदि तृतीयं ध्यानं निश्रित्य नियामम् अवक्रामति. सुखेन्द्रियं तत्र भवति. अथ प्रथमद्वितीये ध्याने निश्रित्य सौमनस्येन्द्रियं तत्र भवति. अथानागम्यध्यानान्तरचतुर्थध्यानानाम् अन्यतमं निश्रित्य उपेक्षेन्द्रियं तत्र भवतीति. [तिब्. 105अ] यदाप्य् अयम् आनुपूर्विक इति विस्तरः. यदाप्य् अयम् अधिगतपूर्वफल आनुपूर्विकस् तीक्ष्णेन्द्रियः. स नवमे विमुक्तिमार्गे ध्यानं प्रविशति मौलं लौकिकेन मार्गेण तदाप्य् अष्टाभिर् इन्द्रियैर् अनागामिफलं प्राप्नोति. तत्र मौलध्यानसंगृहीतो विमुक्तिमार्गो भवति. तत्र च सौमनस्येन्द्रियं. आनन्तर्यमार्गस् त्व् अनागम्यसंगृहीत एव. यदि न पृअविशति तत्र चोपेक्षेन्द्रियम् एव नान्यथा. तस्य प्राप्तिर् अष्टाभिः श्रद्धादिभिः पंचभिर् मनौपेक्षासौमनस्येन्द्रियैश् चेति. उभाभ्यां च तस्य प्राप्तिर् इति. आनन्तर्यविमुक्तिमार्गाभ्यां. (अभिध्-क्-व्य् 116) चौरनिष्कासनकपाटपिधानवद् इति

व्याख्यातम् एतत्. अथ लोकोत्तरेण प्रविशतीति. स एव आनुपूर्विकस् तीक्ष्णेन्द्रियो वेदितव्यो ऽधिकारानुवृत्तेः. तस्य नवभिर् इन्द्रियैः प्राप्तिस् तैर् एवेदानीम् उक्तैर् इन्द्रियैः. आज्ञेन्द्रियेण च नवमेन. तान्य् एव हि इन्द्रियाणि अनास्रवत्वाद् आज्ञेन्द्रियाख्यां लभन्ते. इदम् इह चोद्यते. कस्माद् आनुपूर्विक एवम् उक्तो न पुनर् वीतरागपूर्वी. न हि वीतरागपूर्वी अनागम्यनिश्रयेण दर्शनमार्गम् उत्पाद्य षोडशे चित्तक्षणे मौलं प्रथमं ध्यानं प्रविशति. तत्राधिगते ऽनादरात्. आनुपूर्विको हि मौलध्यानर्थी तस्यानधिगतपूर्वत्वात्. तस्माद् अस्ति संभवो यद् असौ मौलम् एव प्रविशति. वीतरागपूर्वी तु चतुःसत्यदर्शनं प्रति कृतादरो न ध्यानं प्रतीति [तिब्. 105ब्] न तत्र षोडशे चित्तक्षणे मौलं ध्यानं प्रविशतीत्य् अभिप्रायः.

नवाप्तिर् अन्त्यफालयोर्

इत्य् उक्तं. तद् विरोधयति यत् तर्हि अभिधर्म उक्तं. ज्ञानप्रस्थाने. कतिभिर् इन्द्रियैर् अर्हत्त्वं प्राप्नोतीति. आह. एकादशभिर् इति. तत् कथं न विरुध्यत इत्य् अभिप्रायः.

एकस्य संभवाद्

इति. कस्यचिद् एवैकस्य पुद्गलस्य संभवो न सर्वस्य संभवः. यो हि मृद्विन्द्रियः परिहाय परिहाय सुखसौमनस्योपेक्षाभिः निश्रयविशेषात् पार्यायिकीभिर् अर्हत्त्वं प्राप्नुयात्. तं प्रत्य् एवम् उक्तं. एकादशभिर् इति. न तु संभवो ऽस्ति सखसौमनस्योपेक्षाणां एकस्मिं काले समवधानम् इत्य् अर्थः. चित्तचैत्तानाम् एकैकद्रव्योत्पत्तेः. यो हि कश्चिन् मृद्विन्द्रियः पुद्गलो ऽनागम्यं अन्यं वोपेक्षेन्द्रियनिश्रयं निश्रित्य अर्हत्त्वं प्राप्नुयात्. तस्य तत्प्राप्तिर् उपेक्षेन्द्रियेण. ततः पुनर् अपि परिहीयते. ततः प्रथमं द्वितीयं वा ध्यानं निश्रित्य पुनर् अर्हत्त्वं प्राप्नुयात्. तस्य तत्प्राप्तिः सौमनस्येन्द्रियेण. ततः पुनर् अपि परिहीयते. ततः स तृतीयं ध्यानं निश्रित्य पुनर् अर्हत्त्वं प्राप्नुयात्. तस्य तत्प्राप्तिः सुखेन्द्रियेण इति. प्रत्येकं तत्र फलप्राप्तौ अवश्यं नवैवेन्द्रियाणि व्याप्रियन्ते. श्रद्धादीनि पंच मनआज्ञातावीन्द्रियाणि सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमद् इति. पुनःपुनः प्राप्तेस् तद् एकादशभिर् इत्य् उक्तं. कथम् अनागामिनो ऽप्य् एष प्रसंगो [तिब्. 106अ] न भवतीति. कस्मात् तत्र शास्त्रे ऽर्हत्वफलम् एव एकादशभिः प्राप्नोतीत्य् उक्तं. न तूक्तम् अनागामिफलम् अपीति. न ह्य् असौ परिहीणः कदाचित् सुखेन्द्रियेण प्राप्नोतीति. असाव् अनागामी तृतीयध्यानोर्ध्वभूमिलाभात् परिहीणो भवति. ऊर्ध्वभूमेर् एव परिहीणो भवति. नसाव् (अभिध्-क्-व्य् 117) अनागामिफलात् परिहीण इत्य् उच्यते. एवं यावत्. द्वितीयध्यानात्. यदा तु प्रथमात् परिहीणो भवति. तदानागामिफलात् परिहीण इत्य् उच्यते. पंचावरभागीयप्रहाणाद् धि अनागामिफलं व्यवस्थाप्यते. यदा च स कामवैराग्यात् परिहीणः. तदा

तृतीयं ध्यानम् अस्य नास्ति. तत् कथं सुखेन्द्रियेणानागामिफलं प्राप्नुयात्. तत आह. न ह्य् असौ परिहीणः कदाचित् सुखेन्द्रियेण प्राप्नोतीति. किं. सौमनस्येन्द्रियेण प्राप्नुयात्. यत एवं सुखेन्द्रियस्यैव प्रतिषेधः. प्राप्नुयात् यदि नवमे विमुक्तिमार्गे मौलं ध्यानं प्रविशेत्. नैतद् अस्ति. यो हि परिहीणो भवेत्. स मृद्विन्द्रियः. यश् च मृद्विन्द्रियः. स न शक्नोति नवमे विमुक्तिमार्गे मौलं ध्यानं प्रवेष्टुं. तीक्ष्णेन्द्रियस् तु शक्नोति. इन्द्रियसंचारस्य दुष्करत्वात्. अस्त्य् एतत्. किं तु यद्य् असौ मृद्विन्द्रिय आनुपूर्विको ऽनागामिफलं प्राप्य ततश् च परिहीणो भूत्वा इन्द्रियसंचारं कुर्यात्. इन्द्रियसंचारेण च तीक्ष्णेन्द्रियो भूत्वा पूर्वकेणैव क्रमेणानागामिफलं प्राप्नुवन् यदि नवमे विमुक्तिमार्गे मौलं [तिब्. 106ब्] प्रविशेत्. तस्य तदानागामिफलप्राप्तिर् अष्टाभिर् नवभिर् वा भवति. श्रद्धादिभिः पंचभिर् मनैन्द्रियेण उपेक्षेन्द्रियेण चानन्तर्यमार्गसंगृहीतेन सौमनस्येन्द्रियेण च मौलध्यानविमुक्तिमार्गसंगृहीतेनेति. लोकोत्तरेण चेन् मौलं ध्यानं प्रविशेत्. एभिश् चाष्टाभिर् आज्ञेन्द्यियेण च नवमेनेत्य् अवगन्तव्यं. तस्मात् सूक्तं. न ह्य् असौ परिहीणः कदाचित् सुखेन्द्रियेण प्राप्नोतीति. वीतरागपूर्वी तर्ह्य् एकादशभिस् तत् प्राप्नुयात्. कथं. यो मृद्विन्द्रियः पुद्गलस् तृतीयध्यानलाभी तृतीयं ध्यानं निश्रित्य नियामम् अवक्रामेत्. स षोडशे चित्तक्षणे अनागामी भवति. सा तत्फलप्राप्तिः. सुखेन्द्रियेण श्रद्धादिभिः पंचभिर् मनआज्ञास्यामीन्द्रियाज्ञेन्द्रियैश् चेति. स ततो ऽनागामिफलात् परिहीण इन्द्रियोत्तापनेन तीक्ष्णेन्द्रियम् आत्मानं कृत्वा अनागम्यनिश्रयेणैवानागामिफलं प्राप्नुवन् नवमे

विमुक्तिमार्गे मौलं प्रविशेत्. तस्य तत्फलप्राप्तिः पूर्ववद् उपेक्षेन्द्रियेण सौमनस्येन्द्रियेण च श्रद्धादिभिश् चापि पंचभिर् मनैन्द्रियेण चाष्टमेन लोकोत्तरमार्गत्वात् आज्ञेन्द्रियेणापि नवमेनेति. एवं द्वयोः कालयोर् एकादशभिर् इन्द्रियैस् स पुद्गलस् तद् अनागामिफलं प्राप्नुयाद् इति. ततस् तत् प्रतिषेधार्थम् इदम् आह. न च वीतरागपूर्वी परिहीयते. तद्वैराग्यस्य द्विमार्यप्रापणाद् इति. न च कामवीतरागः केनचिन् निश्रयेण नियामम् [तिब्. 107अ] अवक्रान्तः परिहीयते. कस्मात्. तद्वैराग्यस्य कामवैराग्यस्य द्विमार्गप्रापणात्. लौकिकलोकोत्तरमार्गप्रापणात्. इह फलं द्विविधं. संस्कृतम् असंस्कृतं च.

संस्कृतासंस्कृतं फलम्

इति वचनात्. तत्र यद् असंस्कृतं विसंयोगलक्षणम् अनागामिफलं. तत् (अभिध्-क्-व्य् 118) पूर्वं लौकिकेन मार्गेण प्राप्तं. नियामावक्रान्तौ च लोकोत्तरेण मार्गेण पुनस् तत् प्राप्तं. द्विविधा हि तस्य प्राप्तिः. लौकिकी लोकोत्तरा च. तस्मात् स्थिरं तद् वैराग्यं. तस्माद् अतो न परिहीयते. ननु च

फलाद् धानिर् न पूर्वकात्.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.