Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/25

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

स्फुटार्था अभिधर्मकोशव्याख्या

Tác giả
यशोमित्र
Thông tin
GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

इति. रूपिग्रहणम् अरूपिनिरासार्थं. रूपणं रूपं. तद् एषाम् अस्तीति रूपिणः. दशेति चक्षुर्धात्वादयः पंच तद्विषयधातवश् च पंच चेति. धर्मधातोर् निरासः कथं कृतः. स चापि हि रूपीति शक्यते वक्तुं. तत्राविज्ञप्तिरूपसद्भावात्. रूपिण एवेत्य् अवधारणात् तन्निरासः कृतो भवति. ये हि धातवो रूपिस्वभावा एव ते ग्रहीतव्याः. धर्मधातुस् तु रूप्यरूपिस्वभाव [तिब्. 54अ] इति. स्वदेशे परस्योत्पत्तिप्रतिबन्ध इति विस्तरः. यत्रैकं सप्रतिघं वस्तु. तत्र द्वितीयस्योत्पत्तिर् न भवति. यथा हस्तो हस्ते ऽभ्याहतः प्रतिहन्यते. उपले वा. हस्तो हस्तस्थाने उपलस्थाने वा नोत्पद्यते. उपलो ऽपि. तयोर् हस्तोपलयोः स्थाने उपलो ऽपि नोत्पद्यते. जले प्रतिहन्यत इति. जले स्वविषये प्रवर्तत इत्य् अर्थः. प्रायेण मनुष्याणाम् (अभिध्-क्-व्य् 59) इति प्रायग्रहणं कैवर्तादिनिवृत्त्यर्थं. अस्ति नोभयत्रेति. गर्भे नियतमृत्यूनां. एतान् आकारान् इति. एतां प्रकारान् इत्य् अर्थः. तितीला जतुन्यः. मार्जारादीनाम् इत्य् आदिग्रहणेन चौरमनुष्यादीनां व्याघ्रादीनां च ग्रहणं. यस्मिं यस्य कारित्रं. स तस्य विषय इति. कारित्रं पुरुषकारः. चक्षुःश्रोत्रादीनां रूपशब्दादिष्व् आलोचनश्रवणादिकारित्रं. तच् च स्वचित्तचैत्तान् प्रत्य् आश्रयभावविशेषलक्षणं वेदितव्यं. यच् चित्तचैत्तैर् गृह्यते दण्डावष्टम्भनयोगेन. तद् आलम्बनं रूपादि. तद् एवं सति चित्तचैत्तानाम् एवालम्बनं. विषयः पुनश् चक्षुरादीनाम् अपि न केवलं चित्तचैत्तानां. तस्मात् परेणाप्रवृत्तेर् इति. यो हि लोके यतः परेण न प्रवर्तते. स तत्र प्रतिहन्यते काष्ठे कुड्ये वा. तथा चक्षुरादि विषयात् परेण न कारित्रं करोति. विषय एव तु करोति तस्मात् तत्र प्रतिहन्यत इत्य् उच्यते. [तिब्. 54ब्] निपातो वात्र प्रतिघात इति विस्तरः. अत्र विषये निपतनं निपातः. या स्वविषये प्रवृत्तिः. कारित्रम् इत्य् अर्थः. तद् इहावरणप्रतिघातेनेति विस्तरः.

सप्रतिघा दशेत्य्

अत्रावरणप्रतिघातेन ते दश धातवः सप्रतिघा अभिप्रेताः. तत्र विषयालम्बनप्रतिघाताभ्यां चित्तचैत्तानाम् अपि सप्रतिघत्वप्रसंगात् चतुष्कोटिकः प्रश्नश् चतुष्कोणश् चतुःप्रकार इत्य् अर्थः. पश्चात्पादक इति. यदि प्रश्नस्य पश्चाद्भागं गृहीत्वा विसर्जनायोत्तिष्ठते स पश्चात्पादकः. यदि पूर्वं भागं गृहीत्वा स पूर्वपादकः. विषयप्रतिघातेनापि त इति चित्तचैत्ताः. ते हि विषयप्रतिघातेनालम्बनप्रतिघातेन च सप्रतिघाः. पंचेन्द्रियाणि नालम्बनप्रतिघातेन सप्रतिघान्य् अनालम्बनत्वात्.

यत्रोत्पित्सोर् मनस

इति विस्तरः. यत्राश्रये आलम्बने च उत्पत्तुकामस्य मनसः.

प्रतिघातो

ऽनुत्पत्तिः

शक्यते परैः कर्तुम्

अन्तरावरणेन.

तद् एव सप्रतिघं.

तेनान्तरावरणलक्षणेन प्रतिघेन सप्रतिघत्वात्. स्वदेशे परस्योत्पत्तिप्रतिबन्धनलक्षणेन प्रतिघातेन सप्रतिघत्वाद् इत्य् अपरे. किं पुनस् तत्. पंचेन्द्रियपंचविषयधातुस्वभावं.

विपर्ययात् अप्रतिघम् इष्टं.

यत्रोत्पित्सोर् मनसः प्रतिघातो न शक्यते परैः कर्तुं यथा मनोधातोर् धर्मधातोश् च मनोविज्ञानोत्पत्तौ [तिब्. 55अ] अन्तरावरणं न शक्यते परैः कर्तुं. अतः सप्तचित्तधातुधर्मधर्मधातुस्वभावम् अप्रतिघम् इति सिद्धं.

अव्याकृता अष्टाव्

इति. अव्याकृता एवाष्टाव् इत्य् अवधारणं. कुशलाकुशलभावेनाव्याकरणात् अव्याकृताः. ये कुशलाकुशलव्यतिरिक्ताः. त एवाव्याकृता इहाभिप्रेताः. न तु कुशलाः अकुशलाव्याकृताव्याकरणात्. नाप्य् अकुशलाः कुशलाव्याकृताव्याकरणात्. कुशलाकुशलानां कुशलाकुशलभावेन व्याकृतत्वात्. संकेतरूढ्यपेक्षा हि शब्दप्रवृत्तिः.

त्रिधान्य

इति. धातव इत्य् अधिकृतं. त्रैधैवान्ये नैकधा न द्विधेति अवधारणं. अलोभादिसंप्रयुक्ताः कुशला इति विस्तरः. अलोभद्वेषमोहह्र्यपत्रपासंप्रयुक्ताः सप्तचित्तधातवः कुशलाः. लोभद्वेषमोहाह्रीअनपत्राप्यसंप्रयुक्ता अकुशलाः. कुत्सिताच् छलिता गता अपक्रान्ता इति कुशलाः. प्रज्ञा वा कुश इव तीक्ष्णेति कुशः. तं लान्ति आददत इत्य् कुशलः. तद्विपरीता अकुशलाः. अन्ये त्व् अलोभादिलोभाद्यसंप्रयुक्ता अव्याकृताः. धर्मधातुर् इति विस्तरः. अलोभादिस्वभावो [तिब्. 55ब्] यो ऽयम् उक्तः. अलोभादिसंप्रयुक्तो वेदनादिः. अलोभादिसमुत्थो विप्रयुक्तः. प्रातिजात्यादिः. अविज्ञप्तिश् च. प्रतिसंख्यानिरोधश् चापर इति चतुर्विधः कुशलः. धर्मधातुर् लोभादिस्वभावसंप्रयुक्तसमुत्थो ऽकुशलः. अन्यो ऽव्याकृतो यो नालोभादिस्वभावसंप्रयुक्तसमुत्थः. नापि लोभादिस्वभावसंप्रयुक्तसमुत्थः. आकाशम् अप्रतिसंख्यानिरोधः. तेषां च यथाशंभवं प्राप्तिजात्यादयः. एषो ऽव्याकृतो धर्मधातुः. तदन्याव् अव्याकृताव् इति. ताभ्यां कुशलाकुशलचित्तसमुत्थाभ्यां रूपशब्दधातुभ्याम् अन्यौ रूपशब्दधातू अव्याकृतचित्तसमुत्थौ कायवाग्विज्ञप्तिसंगृहीतौ विज्ञप्त्यसंगृहीतौ चाव्याकृतौ.

(i.30) कामधात्वाप्ताः सर्वे

इति. कामधात्वाप्ताः सर्व एवेत्य् अवधार्यते. अष्टादशधातुत्वमात्रसंग्रहात्. न तु प्रत्येकं साकल्यतः. तत आह.

रूपे चतुर्दशेति.

तयोः कवडीकाराहारत्वाद् इति. तयोर् गन्धरसयोः. गन्धो ऽपि हि कवडीकाराहारः सूक्ष्मः. तत्राभावप्रसंग इति. तत्र रूपधातौ स्प्रष्टव्यधातोर् अभावप्रसंगः कवडीकाराहारत्वात्.

कवडीकार आहारः कामे त्र्यायतमात्मक

[तिब्. 56] इति सिद्धान्तात्. गन्धरसयोर् अप्य् एष प्रसंग इति. यौ नाहारस्वभावौ. तौ तत्र स्याताम् इत्य् अर्थः. अस्ति तु स्प्रष्टव्यस्येति. किं. परिभोग इन्द्रियाश्रयभावेन आधारभावेन प्रावरणभावेन च. अन्ये पुनर् आहुर् इति भदन्तश्रीलातः. प्रश्रब्धिसहगतेनेति. प्रश्रब्धिसहोत्पन्नेन कायकर्मण्यतासहगतेनेत्य् अर्थः. अत्राचार्यो भदन्तश्रीलातमतम् अनादृत्य वैभाषिकमतं सावकाशं दृष्ट्वा विनिश्चयम् आरभते. एवं तर्हीति विस्तरः. वैभाषिकैर् अर्थत एतत् प्रतिज्ञातं. न स्तो रूपधातौ गन्धरसौ. निःप्रयोजनत्वात्. स्त्रीपुरुषेन्द्रियविषयवद् इति. तं पक्षम् आचार्यो दूषयति. दुष्टो ऽयं पक्षः. धर्मिविशेषविपर्ययापक्षालत्वात्. रूपधातुगन्धरसाख्यो हि धर्मी विद्यमानस्वग्राहको ऽभिप्रेतः. तस्याविद्यमानस्वग्राहकत्वं प्राप्नोति. यथा हि स्त्रीपुरुषेन्द्रियविषयो निःप्रयोजनत्वेन अविद्यमानस्वग्राहको भवति. तथा गन्धरसाख्यो ऽपि विषयः प्राप्नोति. स्फुटम् अप्य् अनुमानम् अस्ति. येनैष धर्मिविशेषविपर्ययो व्यज्यते. न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये निःप्रयोजनविषयत्वात्. पुरुषेन्द्रियवद् इति. वैभाषिकदेशीयः कश्चित् प्रतिविधत्ते. अस्ति प्रयोजनम् इति विस्तरः. ताभ्यां घ्राणजिह्वेन्द्रियाभ्यां [तिब्. 56ब्] विना शरीरशोभैव न स्यात् वाग्विज्ञप्तिश् च. अनेन दृष्टबाधेन प्रसंगं निवर्तयति. अनुमानं ह्य् अत्र दृष्टं बाधते. किं इत्य् उच्यते. स्तो रूपधातौ घ्राणजिह्वेन्द्रिये. सप्रयोजनत्वात्. चक्षुरिन्द्रियवद् इति. आचार्य आह. यद्य् एतत् प्रयोजनम् इति विस्तरः. अधिष्ठानेनैवाश्रयशोभा वचनं च भवति नेन्द्रियेणेति सप्रयोजनत्वस्य हेतोर् असिद्धतां दर्शयति.

वैभाशिकदेशीय आह. नानिन्द्रियम् अधिष्ठानम् इति विस्तरः. न रूपधातौ संभवत्य् अनिन्द्रियं घ्राणजिह्वेन्द्रियाधिष्ठानम्. इन्द्रियाधिष्ठानत्वात्. पुरुषेन्द्रियाधिष्ठानवद् इति. एतेन सप्रयोजनत्वस्य सिद्धतां स्थापयति. आचार्य आह. युक्तस् तदसंभव इति विस्तरः. युक्तस् तत्र पुरुषेन्द्रियाधिष्ठानस्यासंभवो निःप्रयोजनत्वात्. घ्राणजिह्वेन्द्रियाधिष्ठानानं त्व् आश्रयशोभाभिव्याहार प्रयोजनत्वात् सप्रयोजनं. अतो ऽस्य विनापीन्द्रियेण युक्तः संभवः. साधनं तत्रोच्यते. संभवति रूपधाताव् अनिन्द्रियं घ्राणजिह्वेन्द्रियाधिष्ठानं. सप्रयोजनत्वात्. चक्षुरिन्द्रियाधिष्ठानवद् इति. अनेन ताम् एव सप्रयोजनत्वस्यासिद्धतां व्यवस्थापयति. एवम् अत्र सप्रयोजनत्ववादिनि वैभाषिकदेशीये कस्मिंश्चिन् निषिद्धे यद् एतद् आदाव् उक्तं. एवं तर्हि घ्राणजिह्वेन्द्रिययोर् अप्य् अभावप्रसंगः निःप्रयोजनत्वाद् इति तद्दूषणाभासतां दर्शयन्तो वैभाषिका आहुः. निःप्रयोजनापीति विस्तरः. यथा गर्भे [तिब्. 57अ] नियतमृत्यूनां निःप्रयोजनाभिनिर्वृत्तिः. (अभिध्-क्-व्य् 62) न हि तेषां रूपदर्शनादिर् भवति. एवं रूपधातौ घ्राणजिह्वेन्द्रियाभिनिर्वृत्तिर् निःप्रयोजनापि भविष्यतीति. तेन न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये. निःप्रयोजनत्वात्. पुरुषेन्द्रियवद् इति निःप्रयोजनत्वम् अनैकान्तिकं प्रदर्श्यते. आचार्य आह. स्यान् नाम निःप्रयोजनेति विस्तरः. भवेन् निःप्रयोजनेन्द्रियाभिनिर्वृत्तिः. न तु निर्हेतुका संस्कृतानां सहेतुकत्वात्. यश् च विषयाद् वितृष्णः. स नियतम् इन्द्रियाद् अपीति. अनेन हेत्वभावः प्रदर्श्यते. ततश् चैवं साधनम् उच्यते. न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये. निर्हेतुकत्वात्.

निर्हेतुकांकुरवत् पुरुषेन्द्रियवद् वा. पुरुषेन्द्रियम् अपि वा किं निर्वर्तत इत्य् आचार्य एव विकल्पं वाहयति. को ऽभिप्रायः. यदि निःप्रयोजना हेतुम् अन्तरेणापि वा घ्राणजिह्वेन्द्रिययोर् उत्पत्तिः पुरुषेन्द्रियम् अपि वा न निर्वर्तते. वैभाषिकानां ह्य् अयं पक्षः. सघ्राणजिह्वेन्द्रियो रूपधातुसत्त्वसंतानः. रूपिप्राणित्वात्. कामावचरसत्त्वसंतानवद् इति. आचार्यस् तु पुरुषेन्द्रियम् अपि किं न निर्वर्तत इत्य् अनेन तस्य पक्षस्य धर्मिविशेषविपर्ययं दर्शयति. अविद्यमानपुरुषेन्द्रियो रूपधातुसत्त्वसंतानो धर्मी. तस्य विपर्ययो विद्यमानपुरुषेन्द्रियत्वम् इति. वैभाषिकाः [तिब्. 57ब्] परिहरंत्य् अशोभाकरत्वाद् इतिल्. कथम् इति. न रूपधातौ पुरुषेन्द्रियम् अस्ति. अशोभाकरत्वात्. काणकुण्ठत्ववत्. तदनुमानबाधनान् न विपर्येत्य् अस्माकम् एषा प्रतिज्ञा. यदि दृष्टं न बाधत इति नैयायिकसिद्धान्ताद् इत्य् अभिप्रायः. आचार्य आह. कोशगतवस्तिगुह्यानां किं न शोभते. वस्तौ गुह्यं वस्तिगुह्यं. वस्तिर् येन तत् पुरुषेन्द्रियं वेष्टितं. गुह्यं पुरुषेन्द्रियं. कोशो यत्र तद् वस्तिगुह्यं तिष्ठति. कोशगतं वस्तिगुह्यं. येषां त इमे कोशगतवस्तिगुह्याः. तेषां किं न शोभते शोभत एवेत्य् अर्थः. अनेनाशोभाकरत्वम् असिद्धं दर्शयति. न च प्रयोजनवशाद् उत्पत्तिर् इति विस्तरः. वैभाषिकैर् अशोभाकरत्वाद् इति ब्रुवद्भिर् अर्थापत्त्यैतत् प्रतिज्ञातं भवति. प्रयोजनवशोत्पाद्यं पुरुषेन्द्रियम् इति. स च पक्षो ऽनुमानबाधितो धर्मिस्वरूपविपर्ययापक्षालत्वात्. कथम् इति. उच्यते. न प्रयोजनवशोत्पाद्यं पुरुषेन्द्रियं. स्वकारणोत्पाद्यत्वात्. काणकुण्ठत्ववत्. वैभाषिका आहुः. सूत्रं तर्हि विरुध्यत इति

विस्तरः. यो ऽयम् अविद्यमानघ्राणजिह्वेन्द्रियो रूपधातुसत्त्वसंतान इति पक्षः. स सापक्षालः. प्राक्पक्षविरोधात्. [तिब्. 58अ] तथा हि भगवता रूपावचराः सत्त्वा अविकला अहीनेन्द्रिया इति उक्ताः. काणकुण्ठत्वाभावत्वात्. अहीनेन्द्रियाश् चक्षुरादिभिर् अहीनत्वात्. आचार्य आह. यानि तत्रेति विस्तरः. यानि तत्र रूपधातौ घ्राणेन्द्रियादिरहितानि चक्षुरादीनि तैर् अहीनेन्द्रिया इति सूत्रार्थपरिग्रहाद् अविरोधः. एवं तु वर्णयन्ति वैभाषिकाः. स्त एवेति विस्तरः. भवत. एव तत्र (अभिध्-क्-व्य् 63) रूपधातौ घ्राणजिह्वेन्द्रिये न तु गन्धरसौ. आत्मभावमुखेन हि स्वसंतानमुखेन षडायतने चक्षुरादिके तृष्णासमुदाचार्ः प्राणिनां प्रवर्तते. तदभिष्यन्दितं च कर्मेति. सहेतुके रूपधातौ घ्राणजिह्वेन्द्रिये. ततश् च सहेतुकत्वात्. स्त एव ते रूपधातौ. सहेतुकांकुरादिवद् इति. अनेन च न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये निर्हेतुकत्वाद् इति यत् साधनम् उक्तं. तद् असिद्धम् इति प्रतिपादयन्ति. पुरुषेन्द्रिये तु मैथुनस्पर्शमुखेन. किं. तृष्णासमुदाचार इति प्रकृतं. मैथुनस्पर्शवीतरागाश् च रूपावचराः सत्त्वाः. तस्मात् तस्मात् तत्र न तृष्णापूर्वकं कर्म भवति. तस्माद् अहेतुकत्वात्. तत्र पुरुषेन्द्रियं नास्ति निर्हेतुकांकुरादिवद् इति सिद्धं रूपधातौ चतुर्दशैव धातव इति.

आरूप्याप्ता

इति विस्तरः.

मनोधर्ममनोविज्ञानधातव

[तिब्. 58ब्] एवारूप्याप्ता इत्य् अवधारणाद् अन्ये धातवो न सन्तीत्य् उक्तं भवति. यस्माद् रूपवीतरागानां तत्रोपपत्तिः. अतो दश रूपस्वभावा धातवश् चक्षुरादयः पंच रूपादयश् चापि पंच न सन्ति. तदाश्रयालम्बनाश् च पंच विज्ञानधातवो न सन्तीति. ते चक्षुरादयो रूपादयश् च यथाक्रमम् आश्रया आलम्बनानि च येषां. त इमे तदाश्रयालम्बनाः. आश्रयाणां चक्षुरादीनाम् आलम्बनानां च रूपादीनां अभावात् ते ऽपि चक्षुर्विज्ञानादिधातवस् तत्र न सन्ति.

(i.31अब्) सास्रवानास्रवा एते त्रय

इति. एत एव त्रयः सास्रवानास्रवा इत्य् अवधारणं.

शेषास् तु सास्रवा

इति. किम् अर्थम् इदम् उच्यते. नन्व् एत एव त्रयः सास्रवानास्रवा इत्य् अवधारणात्. शेषाः सास्रवा इति सिद्धं. न सिद्धं. कथं. शेषां सास्रवा एवानास्रवा एव वा स्युर् इत्य् आशंकाः. तन्निवृत्त्यर्थम् इदम् उच्यते. शेषाः सास्रवा एवेति.

(i.31च्द्) सवितर्कविचारा हि पंच विज्ञानधातव

इति. सवितर्कसविचारा एवेति हिशब्दो ऽवधारणे.

अन्त्यास् त्रयस् त्रिप्रकारा

इति. अन्त्या एव त्रिप्रकारा इत्य् अवधारणं. अन्यत्र वितर्कविचाराभ्याम् इति. वितर्कविचारौ संप्रयुक्तकधर्मधातुस्वभावौ तयोर् अत्र ग्रहणप्रसंग इति परिवर्ज्येते. [तिब्. 59अ] वितर्को हि द्वितीयप्रकारान्तरे ऽन्तर्भविष्यति. विचारो ऽपि ध्यानान्तरजस् तृतीये प्रकारे ऽन्तर्भवति. तदन्यस् तु (अभिध्-क्-व्य् 64) त्रिष्व् अपि प्रकारेषु नान्तर्भवतीति वक्ष्यति. ते एते मनोधात्वादयः संप्रयुक्तधर्मधातुपर्यन्ताः कामधातौ प्रथमे च ध्याने ससामन्तके मौले सवितर्काः सविचाराः वितर्कविचारसंप्रयोगात्. अत एव ध्यानान्तरे ऽवितर्का वितर्काभावात्. विचारमात्रा विचारसंप्रयोगात्. अत एव द्वितीयात् प्रभृति यावद् भवाग्रं तयोर् अभावाद् अवितर्का अविचाराः. सर्वश् चासंप्रयुक्तो धर्मधातुर् इति. यथासंभवं त्रैधातुकरूपचित्तविप्रयुक्ता असंस्कृताश् च ध्यानान्तरे च विचारः अवितर्को. वितर्काभावात्. अविचारो द्वितीयविचाराभावात्. विचार एषु त्रिषु प्रकारेषु नान्तर्भवतीति. कामधातुप्रथमध्यानभूमिको विचारः प्रथमे तावत् प्रकारे नान्तर्भवति. सवितर्कः सविचार इति. स हि सवितर्कः संभवति न तु सविचारो विचारसंप्रयोगात्. द्वितीये ऽपि नान्तर्भवति. अवितर्को विचारमात्र इति. वितर्कसंप्रयोगात्. द्वितीयविचाराभावाच् च. तृतीये ऽपि नान्तर्भवति. अवितर्कः अविचार इति. स हि यद्य् अपि अविचारो द्वितीयविचाराभावात्. न त्व् अवितर्को [तिब्. 59ब्] वितर्कसंप्रयोगात्. स कथं वक्तव्य इत्य् अत आह. अविचारो वितर्कमात्र इति. द्वितीयविचाराभावात् अविचारः. वितर्कसंप्रयोगात् वितर्कमात्रः. अत एवेति. यस्मात् सवितर्कसविचाराणां भूमौ विचार एव चतुर्थः प्रकारो भवति. अविचारो वितर्कमात्र इति.

शेषा उभयवर्जिता

इति. शेसा दश रूपिणो धातव उक्ताः. ते ऽवितर्का विचारमात्रा वा अवितर्का अविचाराः स्युर् इति आशंकायाम् अवधार्य तदुभयवर्जिता एव शेषा अवितर्का अविचारा एवेत्य् अर्थः.

(i.32) कथम् अविकल्पका इत्य् उच्यन्त इति. चक्षुर्विज्ञानसमंगी नीलं विजानाति नोहति नीलम् इति वचनात्. त्रिविधः किल विकल्प इति. किलशब्दः परमतद्योतनार्थः. स्वाभिप्रायस् तु चेतनाप्रज्ञाविशेष एव वितर्क इति न स्वभावविकल्पो ऽन्यो धर्मो ऽस्तीति. तथा ह्य् अनेन पंचस्कन्धक उक्तं. वितर्कः कतमः. पर्येषको मनोजल्पः चेतनाप्रज्ञाविशेषः या चित्तस्यौदारिकता. विचारः कतमः. प्रत्यवेक्षको मनोजल्पस् तथैव या चित्तस्य सूक्ष्मता. अनभ्यूहावस्थायां चेतना अभ्यूहावस्थायां प्रज्ञेति व्यवस्थाप्यते. तद् एषां स्वभावविकल्पो ऽस्तीति. तद् इति वाक्योपन्यासे निपातस् तस्मादर्थे वा. स्वभावेनैव [तिब्. 60अ] विकल्प औदारिकलक्षणत्वात्. स्वभावविकल्पो वितर्कः. स एषां पंचानां विज्ञानकायानां संप्रयोगतो ऽस्ति तस्मात् सविकल्पा उक्ताः. नेतराव् अभिनिरूपणानुस्मरणविकल्पाव् एषां स्तः. तस्माद् अविकल्पका उच्यन्ते. यथा एकपादको ऽश्वः अपादक इति. पादत्रये च्छिन्ने एकस्मिन्न् अपि पादे सत्य् (अभिध्-क्-व्य् 65) अपादक इत्य् उच्यते. तद्वद् एकविकल्पा अविकल्पका इति. सा ह्य् अभिनिरूपणाविकल्प इति. सा मानस्य् असमाहिता प्रज्ञा श्रुतचिन्तामय्य् उपपत्तिप्रतिलंभिका च. सा हि मनसि भवा मानसी. व्यग्रा विविधाग्रा व्यग्रा विविधालम्बनेत्य् अर्थः. विगतप्रधाना वा मुहुर्मुहुर् आलम्बनान्तराश्रयणात्. व्यग्रा कस्माद् अभिनिरूपणाविकल्प इत्य् उच्यते. तत्रतत्रालम्बने नामापेक्षयाभिप्रवृत्तेः. रूपं वेदना अनित्यं दुःखम् इत्याद्यभिनिरूपणाच् च. समाहिता तु भावनामयी नामनपेक्ष्यालम्बने प्रवर्तत इति. नैषाभिनिरूपणाविकल्प इत्य् उच्यते. मानस्य् एव सर्वा स्मृतिर् इति. समाहिता चासमाहिता च. सा किल नामानपेक्षा अनुभूतार्थमात्रालम्बना प्रवर्तते. स्मृतिः कतमा. चेतसो ऽभिलाष इति लक्षणात्. पंचविज्ञानकायसंप्रयुक्ता तु नानुभूतार्थाभिलाषप्रवृत्तेति [तिब्. 60ब्] नानुस्मरणविकल्प इतीष्यते.

(i.33) सप्त सालम्बना

इत्य् उभयावधारणं. सप्तैव सालम्बनाः सालम्बना एव च सप्तेति.

अर्धं च धर्मतः

सालम्बनम् इति. उक्तव्यतिरेकेणेदम् उच्यते. अत्राप्य् उभयावधारणं. धर्मार्धम् एव सालम्बनं. सालम्बनम् एव च धर्मार्धम् इति. यस्माच् च सप्तैव सालम्बना धर्मार्धं चैव सालम्बनम् इति अवधारणम् अस्ति तस्माच् च्छेषा रूपिणो धातवो धर्मधातुप्रदेशश् चासंयुक्तो ऽनालम्बना इति सिद्धम् इत्य् उक्तं. तथा ह्य् अनवधारणे ह्य् अयम् अर्थो न सिध्येत्.

नवानुपात्ता

इति नवानुपात्ता एवेत्य् अवधारणं. अष्टमस्यार्धेन सार्धम् इति. सहेति यावत्.

ते चाष्टाव्

इति. ते च सप्त चित्तधातवो धर्मधातुश् च यस्यार्धं सालम्बनम् उक्तं. अष्टग्रहणं सकलधर्मधातुग्रहणार्थं. मा धर्मधात्वर्धाग्रहणं विज्ञायीति.

ते चाष्टौ शब्दश् चापर

इति नवानुपात्ता इत्य् उक्ताः.

अन्ये नव द्विधेति. चक्षुरादयः पंच शब्दवर्ज्याश् च रूपादयश् चत्वार इति नव ते द्विधैव. उपात्तानुपात्ता इत्य् अर्थः. न तूपात्ता एवेति. एतदर्थं च.

अन्ये नव द्विधेति

पुनः सूत्रितं. अनुग्रहोपघाताभ्याम् अन्योन्यानुविधानाद् [तिब्. 61अ] इति. चक्षुर्धात्वादीनाम् अनुग्रहोपघाताभ्याम् अंजनादिपाणिघातादिलक्षणाभ्यां (अभिध्-क्-व्य् 66) चित्तचैत्तानाम् अनुग्रहोपघातौ भवतः. चित्तचैत्तानां चानुग्रहोपघाताभ्यां सौमनस्यदौर्मनस्यलक्षणाभ्यां चक्षुर्धात्वादीनाम् अनुग्रहोपघातौ भवतः. अतस् ते चित्तचैत्तैर् अधिष्ठानभावेनोपगृहीता उच्यन्ते स्वीकृता इत्य् अर्थः. यल् लोके सचेतनम् इति सजीवम् इत्य् अर्थः.

(i.34) स्प्रष्टव्यं द्विविधम्

इत्य् उभयावधारणं. स्प्रष्टव्यम् एव द्विविधं द्विविधम् एव स्प्रष्टव्यम् एवेति.

शेषा रूपिणो नव भौतिका

इत्य् अत्राप्य् उभयावधारणं.

धर्मधात्वेकदेशश् च भौतिक

इत्य् अत्राप्य् उभयावधारणं. यस्माच् चैते उभयावधारिताः. तस्माच् छेषाः सप्त चित्तधातवो धर्मधातुश् चाविज्ञप्तिवर्ज्यो नोभयथेति सिद्धं. भूतानां चतुष्कखक्खटादिलक्षणावधारणाद् इति. चतुष्कावधारणात् पृथिव्यप्तेजोवायुधातवः स्प्रष्टव्यधातौ चत्वारि भूतानि. श्लक्ष्णत्वादयस् तत्र चक्षुरादयश् च न भूतानि. खक्खटादिलक्षणावधारणाच् च पृथिव्यप्तेजोवायुधातुष्व् अन्ये धर्माश् चक्षुरादयो नान्तर्भावं गच्छन्ति. कथं. चत्वारि महाभूतानि पृथिवीधातुर् [तिब्. 61ब्] अब्धातुस् तेजोधातुर् वायुधातुः. पृथिवीधातुः कतमः खक्खटत्वम् इति विस्तरः. तेषां च स्प्रष्टव्यत्वाद् इति. तेषां च खक्खटत्वादीनां स्प्रष्टव्यत्वात्. यस्मात् तानि स्प्रष्टव्यानि. वर्णादयस् तु द्रष्टव्याः श्रोतव्या घ्रातव्याः स्वादयितव्याः. कथं गम्यते स्प्रष्टव्यानि तानीति. अत आह. न हि काठिन्यादीनि चक्षुरादिभिर् गृह्यन्ते. किं तर्हि. कायेन्द्रियेणैवेत्य् अतो ऽवगम्यते स्प्रष्टव्यानि तानीति. स्यान् मतं ते ऽपि वर्णादयः स्प्रष्टव्या इत्य् अत आह. नापि वर्णादयः कायेन्द्रियेण. किं. गृह्यन्त इति प्रकृतं. उक्तं च सूत्र इति विस्तरः. अपरस्मिन्न् अपि सूत्रे स्पष्टम् आदर्शितं. कथम् इति विस्तरेण यावद् इदम् उक्तं. स्प्रष्टव्यानि भिक्षो बाह्यम् आयतनं चत्वारि महाभूतानि चत्वारि महाभूतान्य् उपादाय रूप्य् अनिदर्शनं सप्रतिघम् इति. शेषं चक्षुराद्यायतनं न भूतानीति स्पष्टम् आदर्शितं. यत् तर्हि सूत्र उक्तम् इति विस्तरः. यच् चक्षुषि मांसपिण्डे खक्खटखरगतं खरप्रकार इत्य् अर्थः. चक्षुरिन्द्रियं खक्खटस्वभावम् इति मत्वा चोदयन्ति. तेनाविनिर्भागवर्तिनो मांसपिण्डस्यैष उपदेश इति. तेन

चक्षुरिन्द्रियेणाविनिर्भागवर्तिनो ऽधिष्ठानस्य एतद् वचनं. भवति हि चक्षुरधिष्ठाने ऽपि चक्षुरुपचारः. अत एव मांसपिण्ड इति ग्रहणं. अन्यथा चक्षुषीत्य् एवावक्ष्यत् यदीन्द्रियम् एवेष्यते. [तिब्. 62अ] षड्धातुर् अयं (अभिध्-क्-व्य् 67) भिक्षो पुरुष इति विस्तरः. गर्भावक्रान्तिसूत्रे कललाद्यवस्थायाम् इति भूतमात्रोपदेशान् न भौतिकम् अस्तीति चोद्यम् आशंक्याह. मूलसत्त्वद्रव्यसंदर्शानार्थम् इति. मूलस्य सत्त्वद्रव्यस्य संदर्शनार्थम् एव. पृथिवीधात्वादयश् चत्वारो मूलसत्त्वं. पंचानां चक्षुरादीनां स्पर्शायतनानां तत उत्पत्तेः. मनोधातुर् अपि मूलसत्त्वं मनःस्पर्शायतनस्य तत उत्पत्तेः. अथ वा चतुर्णां पृथिवीधात्वादीनाम् उपादायरूपाश्रयत्वात्. विज्ञानधातोश् च चैतसिकानाम् आश्रयत्वात् त एव मूलसत्त्वं. कथं गम्यते. पुनः षट्स्पर्शायतनवचनात्. तत्त्रैव सूत्रे पश्चाद् उक्तं. षट् स्पर्शायतनानीति चक्षुःस्प्रर्शायतनं यावन् मनःस्पर्शायतनम् इति. अतो विज्ञायते मूलसत्त्वद्रव्यसंदर्शनार्थत्वात् षड्धातुर् अयं भिक्षो पुरुष इति वचनं. न तु भूतमात्रत्वाद् इति. ननु च यथा विज्ञानधातोर् अव्यतिरिक्तम् अपि मनःस्पर्शायतनं पुनर् उच्यते. एवं चक्षुरादीन्य् अपि चतुर्धात्वव्यतिरिक्तानि पुनर् उच्येरन्न् इति. अतो न पुनः षट्स्पर्शायतनवचनेन तद्व्यतिरिक्तभौतिकास्तित्वसिद्धिः. नैतद् एवं. यदि हि पृथिवीधात्वादय एव स्पर्शायतनानि अभविष्यन् भूतान्य् एव स्पर्शायतनानीत्य् एवावक्ष्यत्. न त्व् एवं. किं तर्हि. चक्षुःस्पर्शायतनं यावन् मनःस्पर्शायतनम् इति. अतो ऽवगम्यते. पृथिवीधात्वादिव्यतिरिक्तानि चक्षुरादीनीति. [तिब्. 62ब्] विज्ञानधातुस् तु

चक्षुरादिस्पर्शायतनवचनानुषंगेन पुनर् उच्यते. स्पर्शायतनम् इति को ऽर्थः. स्पर्शस्य चैतसिकस्याश्रय इत्य् अर्थः. चित्तभावप्रसंगाच् चेति. यदि षड्धातुर् अयं भिक्षो पुरुष इति यथाभूतम् एव द्रव्याणि गृह्येरन् नान्यानि तदाश्रितानि द्रव्याणि. तेनैतत् प्राप्तं. विज्ञानधातुमात्रग्रहणात्. अत्र चैतसिकानां तदाश्रितानाम् अग्रहणप्रसंगः. इष्टत्वाद् अदोष इति चेत्. न. सपक्षालत्वाद् अस्य पक्षस्य. सापक्षालो ह्य् अयं पक्षः. चित्तविशेषा एव चैतसिका इति स्वसिद्धान्तविरोधात्. तेनाह. न च युक्तं चित्तम् एव चैत्ता इत्य् अभ्युपगन्तुं. कस्मात्. संज्ञा वेदना च चैतसिक एष धर्मश् चित्तनिश्रित इति सूत्रवचनात्. साधनं चात्रोपतिष्ठते. चित्ताद् अर्थान्तरभूते संज्ञावेदने. स्कन्धदेशनायां पृथग् देशितत्वात्. रूपस्कन्धवद् इति. अथ वा स्वाश्रयाद् अर्थान्तरभूते संज्ञावेदने. तदाश्रितत्वात्. यत् स्वाश्रयाश्रितं तत् स्वाश्रयाद् अर्थान्तरभूतं. तद्यथा कुड्याश्रितं चित्रं. सरागादिचित्तवचनाच् चेति. सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति. विगतरागं चित्तं विगतरागं चित्तं इति यथाभूतं प्रजानाति. सद्वेषं चित्तं सद्वेषं चित्तम् इति यथाभूतं प्रजानातीति विस्तरः. [तिब्. 63अ] अत्र (अभिध्-क्-व्य् 68) साधनं. सरागं चित्तम् इति चित्तरागयोः परस्परतो ऽर्थान्तरत्वं. सहयोगनिर्दिष्टत्वात्. सपुत्रश् चैत्र इति सहयोगनिर्दिष्टचैत्रपुत्रवद् इति.

संचिता दशेति.

परमाणुसंचयस्वभावा दशैवेत्य् अर्थः. अन्ये तु धातवो ऽस्माद् अवधारणान् न संचिता इति सिद्धं.

(i.35) तुलयतीति कस्य धातोर् एतद् रूपं. तथा हि तुल उन्मान इत्य् अस्य धातोस् तोलयतीति रूपं भवति. नैष दोषः. तुलां करोति तुलयतीति प्रातिपदिकधातोर् एतद् रूपम् इष्यते. कर्मणि च तुल्य इति रूपं भवति.

बाह्यं धातुचतुष्टयम्

इति रूपादिकं शब्दवर्ज्यं. परशुदार्वादिसंज्ञकम् इति. परश्वादिसंज्ञकं छिनत्ति दार्वादिसंज्ञाकं छिद्यते. संभवं प्रत्य् एवम् उच्यते. कदाचित् परश्वादिसंज्ञकं छिद्यते. दार्वादिसंज्ञकम् अपि च्छिनत्ति. संबन्धोत्पादिन इति विस्तरः. संबन्धेनाविभागेनोत्पत्तुं शीलम् अस्येति संबन्धोत्पादि. संघातस्रोतो रूपादिसंघातसंतान इत्य् अर्थः. तस्य विभक्तोत्पादनं विभक्तजननं यत् स छेदः. क्षणिकानां हि भावानां विनापि परश्वादिना च्छेदो भवत्य् एव. संताननिरोधस् तु परश्वादिनेति. परश्वादिकं छिनत्तीत्य् उच्यते. कारणसामग्रीविशेषवशाद् विकार्यविशेषोत्पत्तिर् भवति. तत्र धातुचतुष्टयम् अवच्छिनत्ति छिद्यते वेत्य् अवधार्यते. तथावधारणाच् चान्ये धातवो नोभयथेति सिद्धं. अत एव चाह. न कायेन्द्रियादीनि छिद्यन्त इति विस्तरः. अत्र न चक्षुरिन्द्रियादीनीति वक्तव्ये कस्मात् कायेन्द्रियादीनीति वचनं. यस्मात् कायेन्द्रिये परिस्फुटश् छेदो भवति यदि भवेद् इत्य् अतः [तिब्. 63ब्] कायेन्द्रियपुरस्सराणीन्द्रियाणि कथ्यन्ते. निरवशेसांगच्छेदे सर्वांगप्रत्यंगच्छेदे. तदद्वैधीकरणात् तेषां कायेन्द्रियादीनां अद्वैधीकरणात्. कथं पुनर् गम्यते तदद्वैधीकरणम् इति. अतः पुनर् आह. न हीन्द्रियाणि द्विधा भवन्ति छिन्नस्यांगस्य कायाद् अपगतस्य निरिन्द्रियत्वात्. इदम् अपि कथं गम्यते. निरिन्द्रियं तद् अंगं यच् छिन्नं कायाद् अपगतम् इति. यस्मात् तत् प्रतीत्य स्प्रष्टव्यादिकं च कायादिविज्ञानानुपपत्तिः. कथं तर्हि छिन्नेन पुनर् लग्नेन नासिकाग्रेण कायविज्ञानोत्पत्तिः. नासिकामूलसंबन्धेन पुनः कायेन्द्रियोत्पत्तेर् अदोषः. कथम् इह गृहगोधिकादीनां पुच्छानि छिन्नानि स्पन्दन्ते यदि तत्र कायेन्द्रियं नास्ति. वायधातोर् एष विकारो नैतत् कायेन्द्रियस्य कर्मेत्य् अवगन्तव्यं. न चापि छिन्दन्ति मणिप्रभावद् अच्छत्वात्. यथा मणिप्रभा न छिनत्ति अच्छत्वात्. तद्वद् इन्द्रियाणि.

दह्यते तुलयत्य् एवम्

इत्य् एवंशब्देन तद् एव बाह्यं धातुचतुष्टयं तथात्वेन प्रदर्श्यते. काष्ठादीनाम् अग्निकृतो विकारो दाहः. च चेन्द्रियानां न भवति मणिप्रभावद् अच्छत्वात्. न हि तानि काष्ठादिवच् चर्मादिवद् वा विक्रियन्ते. किं तर्हि. तत्संबन्धात् प्रवाहछेदो भवति. तुलादिभूतं च तद् एव धातुचतुष्टयं तुलयति नेन्द्रियाणि तथैवाच्छत्वात्. अमूर्तानां तु धातूनाम् अमूर्तत्वाद् एव छेदाद्यसंभव इति. तेषां छेदादि न चिन्त्यते. न शब्द उच्छेदित्वाद् इति. [तिब्. 64अ] किं. छिनत्ति छिद्यते दह्यते तुल्यति वाप्रवाहवर्तित्वात्.

विवादो दग्धृतुल्ययोर्

इत्य् उत्तरत्रापीदम् अनुवर्तते न शब्द उच्छेदित्वाद् इति. तद् एव धातुचतुष्टयं दाहकं तुल्यं चेति. अग्निक्षारादि दाहकं. समस्तस्यात्र धातुचतुष्टयस्य भस्मादिविकारहेतुत्वात्. लवणादि तुल्यं. तत्रापि समस्तस्य तुलावनतिहेतुत्वाद् इत्य् एकेषाम् अभिप्रायः. तेजोधातूर् एव दग्धा गुरुत्वम् एव च तुल्यम् इति. तेजोधातुर् एवाग्निज्वालादिगत उद्भूतवृत्तिर् दहति. पृथिवीधात्वादीनाम् उद्भूतस्ववृत्तित्वे ऽप्य् अदाहकत्वदर्शनात्. गुरुत्वम् एव चोपादायरूपम् उद्भूतवृत्ति तुल्यते. आतपादिषु लघुद्रव्येषु रूपादीनाम् उद्भूतवृत्तित्वे ऽप्य् अतुल्यत्वदर्शनात्.

(i.36, 37अब्) पंचाध्यात्मम्

इति. पंचग्रहणं मनोनिवृत्त्यर्थं. अध्यात्मग्रहणं रूपादिनिवृत्त्यर्थं. विपाकजौपचयिका एव पंचाध्यात्मिका न नैष्यन्दिका इत्य् अवधारणं. कस्मात्. तद्व्यतिरिक्तनिष्यन्दाभावात्. विपाकजा औपचयिकाश् च यद्य् अपि नैष्यन्दिका भवन्ति.

निष्यन्दो हेतुसदृश

इति कृत्वा. ते तु विपाकजौपचयिकत्वेनैव संगृहीतत्वात्. न नैष्यन्दिका इति गृह्यन्ते. ये तु स्वहेतुसदृशा न च विपाकजा न चौपचयिकाः. त इह नैष्यन्दिका [तिब्. 64ब्] अभिप्रेताः. न चैवंविधाश् चक्षुरादयो भवन्ति. किं तर्हि विपाकजा वा औपचयिका वा भवन्तीत्य् अत एवम् उच्यते. तद्व्यतिरिक्तनिष्यन्दाभावाद् इति. कथं पुनर् ज्ञायते नैष्यन्दिकास् ते न सन्तीति. मृतस्याननुवृत्तेः. न हि रूपादिवन् मृतस्य चक्षुर्धात्वादयो ऽनुवर्तन्ते. विपाकहेतोर् जाता इति. विपाकस्य फलस्य हेतुर् विपाकहेतुः. विपाकहेतोर् जाता विपाकजाः. मध्यपदलोपात् हेतुशब्दलोपात् गोरथवत्. यथा गोभिर् युक्तो रथो गोरथ इति. फलकालप्राप्तं वा कर्मेति. विपाकफलोत्पत्त्यनन्तरक्षणावस्थम् इत्य् अर्थः. विपच्यत इति विपाकः. कर्मकर्तरि घञ्. विपाकाज् जाता विपाकजाः. फलं तु विपक्तिर् एवेति विपाक इति. भावे घञ्. भवतु वा हेतौ फलोपचार इति विस्तरः. अविपाकस्वभावो ऽपि कर्मलक्षणो हेत्म् विपाक इत्य् (अभिध्-क्-व्य् 70) उच्यते. तदुत्पादकत्वात्. यथा फले हेतूपुचार इति विस्तरः. षड् इमानि स्पर्शायतनानि चक्षुरादीनि पौराणं कर्म पुराणे जन्मनि भवं पुराणम् एव वा पौराणं कर्म. तानि स्पर्शायतनानि अपौराणकर्मस्वभावान्य् अपि पौराणं कर्मेत्य् उच्यंते. तज्जातत्वात्. एवम् इह विपर्ययोपचारो द्रष्टव्यः. आहारसंस्कारस्वप्नसमाधिविशेषैर् उपचिता औपचयिका इति. विशेषशब्दः प्रत्येकम् अभिसंबध्यते. तत्राहारस्वप्नौ लोके प्रतीतौ. संस्कारो ऽभ्यंगस्नानानुवासनादिस्वभाव्ः. [तिब्. 65अ] समाधिश् चित्तैकाग्रतालक्षणः. समीपे चय उपचयः. उपचये भवा औपचयिकाः सैनिकवत्. उपचया एव वा

औपचयिकाः वैनयिकवत्. स्वार्थे तद्धितविधानात्. ब्रह्मचर्येण चेत्य् एके इति. ब्रह्मचारिणाम् उपशान्तेन्द्रियाणां शरीरोपचयदर्शनात्. अनुपघातमात्रं तु तेन स्याद् इति. अब्रह्मचर्येण शरीरापचयः. ब्रह्मचर्येण तु शरीरापचयो न भवति. तस्माद् आह. अनुपय्घातमात्रं तु तेन ब्रह्मचर्येण स्यात् नोपचयः. उपचयस् त्व् आहारादिभिर् एव. कस्मात् तर्हि प्रव्रजितानां केषांचिच् छरीरापचयो भवति. कामपरिदाहादियोगाद् असौ भवेत्. प्रतिप्राकार इवारक्षेति. उपचयसंतानो विपाकसंतानस्य परिवार्यावस्थानेनारक्षा. शब्द औपचयिक इत्य् अनुपचितकायस्य शब्दसौष्ठवादर्शनात्. इच्छातः प्रवृत्तेर् इति. शब्दो मे स्याद् इति इच्छया शब्दः प्रवर्तते. अनिच्छया न प्रवर्तते. विपाकजश् च धर्मो ऽनिच्छतो ऽपि प्रवर्तते. तस्मान् न विपाकजः शब्दः. साधनं चात्रोच्यते. न विपाकजः शब्दः. इच्छातः प्रवृत्तेः. योनिशोमनसिकारचैतसिकवत्. यत् तु विपाकजं. न तस्येच्छया प्रवृत्तिः. तद्यथा चक्षुरिन्द्रियस्येति. यत् तर्हीति विस्तरः. अनेन स्वसिद्धान्तविरुद्धतां प्रतिज्ञाया उद्ग्राहयति. तृतीयासौ परंपरेत्य् एक इति विस्तरः. भूतानि पारुष्यविरतेः कर्मपथस्य कण्ठे विपाकस्वभावानि [तिब्. 65ब्] निर्वर्तन्ते. तेभ्यः शब्दः. द्वितीये ऽपि पक्षे कर्मेभ्यो विपाकजानि भूतानि. तेभ्य औपचयिकानि आहारोपचयतः समाध्युपचयतो वा भूतान्तराणि. तेभ्यो नैष्यन्दिकानि पूर्वभूतव्यतिरिक्तान्य् आगन्तुकानि भूतानि. तेभ्यः शब्द इति. परंपराभिनिर्वर्तनं त्व् अभिसंधाय पारुष्यविरतेर् ब्रह्मस्वरता निर्वर्तत इत्य् उक्तं. अनेन स्वसिद्धान्तविरुद्धता तस्याः प्रतिज्ञायाः परिह्रियते. यदि शब्दवद्

युक्तिविरोधः स्याद् इति. शब्द इच्छातः प्रवर्तत इति विपाकयुक्तिविरोधात् न विपाकज उक्तः. तद् यदि तद्वच् छारीरिक्य् अपि वेदना इच्छातः प्रवर्तते न विपाकजा स्यात्. न त्व् इच्छातः सा प्रवर्तते. किं तर्हि. अनिच्छयापि सा प्रवर्तते. चक्षुरादिवत्. तस्माद् विपाकजेति युज्यत इत्य् अभिप्रायः. कीदृशी पुनः सा. या सुखदुःखप्रत्ययोपसंहारम् अन्तरेणापि प्रवर्तते. नैष्यन्दिकाः सभागसर्वत्रगहेतुजनिता इति. सभागसर्वत्रगहेतुभिर् एव जनिता न विपाकहेतुनेति अवधारणं. (अभिध्-क्-व्य् 71) विपाकजा विपाकहेतुजनिता इति. विपाकहेतुना जनिता एव न तु विपाकहेतुनैव जनिता इत्य् अवधारणं. सभागहेतुनापि जनिता विपाकजा भवन्ति. तत्र चाष्टाव् अप्रतिघा नैष्यन्दिका विपाकजा एवेत्य् अवधार्यते. न हि एत् [तिब्. 66अ] औपचयिकाः संचयाभावात्. अपरमाणुसंचयस्वभावत्वाद् इत्य् अर्थः.

त्रिधान्य

इति. त्रिधान्य एवेत्य् अवधार्यते. तर्त्र विपाकजा इन्द्रियाविनिर्भागिन एव.

विपाको ऽव्याकृतो धर्मः सत्त्वाख्य

इति वचनात्. नैष्यन्दिकौपचयिकास् तु इन्द्रियविनिर्भागिनो ऽपि. कथं पुनर् गम्यते. इन्द्रियविनिर्भागिनो ऽपि नैष्यन्दिकाः सन्तीति. मृतस्यापि तदनुवृत्तिदर्शनात्. न ह्य् असत्त्वसंख्याता विपाकजा इष्यन्ते.

द्रव्यवान् एक

इति. एक एव द्रव्यवान् इत्य् अवधारणं. सारत्वाद् द्रव्यम् इत्य् अविनाशात्. क्षणम् एकम् अनैष्यन्दिका भवन्तीति. क्षणम् एकम् असभागहेतुनिर्वर्तिताः. पूर्वक्षणानास्रवाभावात् क्षणिका न तु क्षणान्तरविनाशिन इत्य् अयम् अर्थो ऽभिप्रेतः. अन्यथा हि पश्चिमा एव धातवः क्षणिका इत्य् अवधारणात् तदितरेषां धातूनाम् अक्षणिकत्वप्रसंगः. कथं पुनर् दुःखधर्मज्ञानक्षान्तिकलापे मनोधातुर् मनोविज्ञानधातुश् च युगपद् भवतः. न हि विज्ञानद्वयसमवधानम् इष्यते. नोच्यते युगपत् तौ भवत इति. किं तर्हि. एकम् अत्र विज्ञानं धातुद्वयत्वेन व्यवस्थाप्यते. नामद्वयेन कथ्यते इत्य् अर्थः. तेन व्याचष्टे दुःखधर्मज्ञानक्षान्तिसंप्रयुक्तं चित्तं मनोधातुर् मनोविज्ञानधातुश् चेति. [तिब्. 66ब्] शेषास् तत्सहभुवो धर्मधातुर् इति. तत्र क्षान्तिकलापे चित्ताद् अन्ये धर्माः शेषाः. तद्सहभुवस् तया क्षान्त्या सहभुवः. तद्यथा अनास्रवसंवरो रूपं वेदनासंज्ञाचेतनादयः संप्रयुक्ताः. तेषां च प्राप्तिजात्यादयो धर्मधातुर् इति.

(i.37च्द्) समन्वागमं प्रतिलभत इति. प्राप्तिम् अलब्धपूर्वां लभत इत्य् अर्थः. चक्षुर्विज्ञानधातुनापि स इति. किं. समन्वागमं प्रतिलभत इत्य् अधिकृतं.

पृथग् लाभ

इत्य् अनेन प्रथमद्वितीये कोट्यौ दर्शिते.

सहापि चेत्य्

अनेन तृतीया कोटिर् दर्शिता. चतुर्थी तु उक्तनिर्मुक्तेति सुगमत्वान् न दर्शिता.

च-

शब्देन वा साप्य् उक्ता. अपृथग् असह चेति. कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमान इति. कामधातौ स्थितः पुद्गलः क्रमेण कललादिक्रमेण (अभिध्-क्-व्य् 72) मृत्युक्रमेण वा. चक्षुरिन्द्रियं. किंप्रतिसंयुक्तं. किं कामधाताव् एव. नेत्य् उच्यते. अविशेषेण कामप्रतिसंयुक्तं वा रूपप्रतिसंयुक्तं वा प्रतिलभमानः. कललाद्यवस्थायां तथा क्रमेण मरणस्याचक्षुष्मन्मरणस्य च काले चक्षुर्धातुना असमन्वागतः. कललाद्यवस्थायां तथा मरणावस्थायां वा तदभावात्. षडायतनोत्पत्त्यवस्थायां भवस्यान्तराले वा तेनेदानीं समन्वागमं प्रतिलभते. न तु चक्षुर्विज्ञानधातुना असमन्वागतः समन्वागमं प्रतिलभते. यस्माद् असौ कुशलक्लिष्टेनातीतानागतेन समन्वागत एव पूर्वम् अन्तराभवप्रतिसंधिकाले. विप्रकृतावस्था ह्य् एषाधिक्रियते न प्रतिलब्धवत्प्रतिलप्स्यमानावस्था. चक्षुर्विज्ञानधातुनेति [तिब्. 67अ] विस्तरः. द्वितीयादिध्यानोपपन्नस् तत्र तस्य चक्षुर्विज्ञानधातोर् अभावात् तेन पूर्वम् असमन्वागत इदानीं चक्षुर्विज्ञानं प्रथमध्यानभूमिकम् अनिवृताव्याकृतस्वभावं संमुखीकुर्वाणः. तेन चक्षुर्विज्ञानधातुना समन्वागमं प्रतिलभते. न तु चक्षुर्धातुना असमन्वागतः समन्वागमं प्रतिलभते. प्रतिलब्धवत्समन्वागतत्वात्. तत्प्रच्युतश् चाधस्ताद् उपपद्यमान इति. द्वितीयादिध्यानप्रच्युतो ऽधस्तात् प्रथमे ध्याने कामधातौ चोपपद्यमानश् चक्षुर्विज्ञानधातुना असमन्वागतः समन्वागमं प्रतिलभते. अन्तराभवप्रतिसंधाने कुशलक्लिष्टेन अतीतानागतेन. न तु चक्षुर्धातुना असमन्वागतः समन्वागमं प्रतिलभते. प्रतिलब्धवत्समन्वागतत्वात्. स्याद् उभयेनेति

विस्तरः. आरूप्यधातुच्युत उभाभ्यां चक्षुर्धातुचक्षुर्विज्ञानधातुभ्यां पूर्वम् असमन्वागतः. अन्तराभवप्रतिसंध्यवस्थायाम् एव चक्षुर्धातुनोत्पादाभिमुखेन चक्षुर्विज्ञानधातुना कुशलक्लिष्टेनातीतानागतेन समन्वागमं प्रतिलभते. अविकलेन्द्रिया ह्य् अन्तराभविकाः. नोभयेन एतान् आकारान् स्थापयित्वेति. कोटीत्रयोक्तान् धर्मप्रकारान् त्यक्त्वेत्य् अर्थः. आरूप्यधातुच्युतस् तत्रैवोत्पद्यमानो नोभाभ्याम् असमन्वागतः समन्वागमं प्रतिलभते. असमन्वागतत्वं तत्रास्ति न तु समन्वागमप्रतिलम्भः. द्वितीयादिध्यानोपपन्नश् च चक्षुर्विज्ञानम् असंमुखीकुर्वाणो नोभाभ्याम् असमन्वागतः समन्वागमं प्रतिलभते. कथं. चक्षुर्धातुना यद्य् अपि समन्वागमं प्रतिलभते न तु चक्षुर्धातुनासाव् असमन्वागतः. चक्षुर्विज्ञानधातुना यद्य् अप्य् असौ असमन्वागतो न तु समन्वागमं [तिब्. 67ब्] प्रतिलभते तदसंमुखीकुर्वाणत्वात्. चक्षुष्मान् कामधातुस्थः सकृन्मरणात् अन्तराभवप्रतिसंधौ (अभिध्-क्-व्य् 73) नोभाभ्याम् असमन्वागतः समन्वागमं प्रतिलभते. ताभ्यां समन्वागतत्वात्. यश् चक्षुर्धातुना समन्वागतश् चक्षुर्विज्ञानधातुनापि स इति.

पृथग् लाभः सहापि चेत्य्

अनेनैव सूत्रेणेदम् अपि चतुःकोटिकं वर्तयति. लाभो हि प्रतिलम्भः. प्राप्तिमात्रे ऽपि विवक्षया कदाचिद् भवति. प्रथमे चतुःकोटिके प्रतिलम्भो ऽधिकृतो द्वितीये तु प्राप्तिमात्रं. प्रथमा कोटिर् इति विस्तरः. द्वितीयादिध्यानोपपन्नो ऽवाश्यं चक्षुर्धातुना समन्वागत इन्द्रियैर् अविकलत्वात्. चक्षुर्विज्ञानधातुनात्रासमन्वागतः. तत्राभावात्. प्रथमध्यानभूमिकस्य चक्षुर्विज्ञानस्यासंमुखीक्रियमाणत्वात्. कामधाताव् अलब्धविहीनचक्षुर् इति. अलब्धं विहीनं वा चक्षुर् अस्यालब्धविहीनचक्षुः. अलब्धचक्षुः कललाद्यवस्थः. विहीनचक्षुर् विनष्टचक्षुः. स कामधातौ चक्षुर्विज्ञानधातुना अन्तराभवप्रतिसंधौ प्रतिलब्धेन कुशलक्लिष्टेन समन्वागतः. न चक्षुर्धातुना तस्याभावात्. लब्धाविहीनचक्षुर् इति. लब्धम् अविहीनं चक्षुर् अस्य लब्धाविहीनचक्षुः. स कामधातौ चक्षुर्धातुना चक्षुर्विज्ञानधातुना च तथा पूर्वं प्रतिलब्धेनेदानीं त्व् अनेन चाव्याकृतेन समन्वागतः. प्रथमध्यानोपपन्नश् च तेनोभयेन समन्वागतः. स्वभूमिकस्य तत्रावश्यम् अस्तित्वात् परभूमिकस्य चक्षुषः सम्भवात्. द्वितीयादिध्यानोपपन्नश् च पश्यन्. प्रथमध्यानभूमिकं [तिब्. 68अ] चक्षुर्विज्ञानं संमुखीकुर्वाण इत्य् अर्थः. स चाप्य् अवश्यम् अनेनोभयेन समन्वागतः. चतुर्थ्य् एतान् आकारान् स्थापयित्वेति. आरूप्योपपन्नः. यथायोगम् अभ्यूहितव्याव् इति. यश् चक्षुर्धातुना अस्मन्वागतः समन्वागमं प्रतिलभते रूपधातुनापि सः. यो वा रूपधातुना चक्षुर्धातुनापि सः. चक्षुर्धातुरूपधात्वोः स्यात्

पृथग् लाभः सहापि च.

पृथक् तावत्. स्याच् चक्षुर्धातुना समन्वागतः. न रूपधातुना. कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमानः. स्याद् रूपधातुना न चक्षुर्धातुनेति इयं कोटिर् नास्ति.

सहापि.

स्यात् उभयेनासमन्वागतः समन्वागमं प्रतिलभते. आरूप्यधातोश् च्युतो रूपधातौ कामधातौ चोपपद्यमानः. नोभयेन एतान् आकारान् स्थापयित्वा. यश् चक्षुर्धातुसमन्वागतो रूपधातुनापि स इति पूर्वपादकः. यस् तावच् चक्षुर्धातुना समन्वागतो रूपधातुनापि सः. स्यात् रूपधातुना न चक्षुर्धातुना कललाद्यवस्थास्व् अलब्धचक्षुर् लब्धविहीनचक्षुश् च. (अभिध्-क्-व्य् 74) यश् चक्षुर्विज्ञानधातुना असमन्वागतः समन्वागमं प्रतिलभते रूपधातुनापि सः. यो वा रूपधातुनासमन्वागतः समन्वागमं प्रतिलभते चक्षुर्विज्ञानधातुनापि सः. तथैव तयोः स्यात्

पृथग् लाभः सहापि च.

पृथक् तावत्. स्याच् चक्षुर्विज्ञानधातुना न रूपधातुना. द्वितीयादिध्यानोपपन्नश् चक्षुर्विज्ञानं संमुखीकुर्वाणः. स्याद् रूपधातुना न चक्षुर्विज्ञानधातुना. [तिब्. 68ब्] आरूप्यधातोश् च्युतो द्वितीयादिषु ध्यानेषूपपद्यमानः.

सहापि.

स्याद् उभवेनासमन्वागतः समन्वागमं प्रतिलभते. आरूप्यधातुच्युतः कामधातौ ब्रह्मलोके चोपपद्यमानः. नोभयेन. एतान् आकारान् स्थापयित्वा. यश् चक्षुर्विज्ञानधातुना समन्वागतो रूपधातुनापि सः. यो वा रूपधातुना चक्षुर्विज्ञानधातुनापि सः. पूर्वपादकः. यस् तावच् चक्षुर्विज्ञानधातुना समन्वागतो रूपधातुनापि सः. स्याद् रूपधातुना न चक्षुर्विज्ञानधातुनापि. द्वितीयादिध्यानोपपन्नश् चक्षुर्विज्ञानम् असंमुखीकुर्वाणः. यथा चेयं चक्षुर्विज्ञानरूपधातूनां प्रतिलम्भसमन्वागमचिन्ता. तथा श्रोत्रविज्ञानशब्दधात्वादीनाम् अपि प्रतिलम्भसमन्वागमचिन्ता कर्तव्या. श्रोत्रविज्ञानधात्वोः स्यात्

पृथग् लाभः सहापि चेत्य्

आदि.

(i.38अब्) द्वादशाध्यात्मिका

इति. उभयावधारणम्. अवधारणाद् एव चान्ये रूपादयो बाह्या इति सिद्धं. आत्मन्य् अध्य् अध्यात्मं. अध्य् आत्मानम् इति वा अध्यात्मं. अध्यात्मम् एव आध्यात्मिकाः. अध्यात्मे वा भवाः आध्यात्मिकाः. अहंकारसंनिश्रयत्वाच् चित्तम् आत्मेत्य् उपचर्यत इत्य् अहंकारसंनिश्रय आत्मेत्य् आत्मवादिनः संकल्पयन्ति. चित्तं चाहंकारसंनिश्रय इत्य् आत्मेत्य् उपचर्यते. कथम् इत्य् आह.

आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डित

इत्य् उक्तं गाथायां. कथं पुनर् गम्यते चित्तम् आत्मशब्देनोच्यत इति. तत आह. चित्तस्य चान्यत्र दमनम् उक्तं भगवतेति. अन्यत्र गाथायाम् उक्तं.

[तिब्. 69अ] चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम् इति. तेनायम् अर्थः. आत्मनि चित्तीकार्ये आत्मानं वा चित्तम् अधिकृत्य ये धर्माः प्रत्यासन्नभावात् आश्रयभावेन वर्तन्ते. ते आध्यात्मिकाः. ये तु विषयभावेन वर्तन्ते. ते बाह्या इति. कः पुनः प्रत्यासन्नभावः. येन विज्ञानं तद्विकारम् अनुविधत्ते. चक्षुरादिष्व् एव हि विज्ञानं लक्ष्यते न रूपादिष्व् (अभिध्-क्-व्य् 75) इति. तथा हि चित्तम् इन्द्रियसम्बद्धे शरीरदेशे परिच्छिद्यते न विषयदेश इति. एवं तर्हि षड् विज्ञानधातव इति विस्तरः. इह पंच तावद् विज्ञानधातवो वर्तमाना एव गृह्यन्ते. इन्द्रियविषयसमानकालत्वात्. वर्तनानविषया हि पंच विज्ञानकायाः मनोविज्ञाधातुर् अपि वर्तमान एवेह व्यवस्थाप्यते. यस्मा मनोधातुर् अस्याश्रयो ऽनन्तरातीतो व्यवस्थाप्यते. कालभेदाद् एव हि मनिधातुमनोविज्ञानधात्वोः पृथग्व्यवस्थानं. तस्मात् त आध्यात्मिका न प्राप्नुवन्ति. न ह्य् एते मनोधातुत्वम् अप्राप्ता अतीतत्वम् अप्राप्ताश् चित्तस्याश्रयीभवन्ति. यदा तदा त एव ते भवन्तीति लक्षणं नातिवर्तन्त इति. किम् अनेन वाक्येन साधितं. इदम् अनेन साधितं. वर्तमानानाम् अप्य् एषाम् आश्रयभावो भविष्यतीति भविष्यदाश्रयभावेनाध्यात्मिकत्वं भवतीति. यदि वानागतप्रत्युत्पन्नस्येति विस्तरः. अतीते ऽध्वनि यन् मनोधातुलक्षणं. तद् अनागतप्रत्युत्पन्नयोर् अप्य् अध्वनोर् अस्त्य् एवेत्य् अभिप्रायः. न हि लक्षणस्याध्वसु [tib.69b] व्यभिचारो ऽस्ति. न हि स्वभावपरित्यागो ऽस्तीत्य् अर्थः.

(i.38च्द्) धर्मसंज्ञकः सभाग

इति. धर्मसंज्ञकः सभाग एवेत्य् अवधार्यते. यो हि विषयो यस्य विज्ञानस्य नियत इति. तद्यथा चक्षुर्विज्ञानस्य रूपं नियतो विषयो यावन् मनोविज्ञानस्य धर्माः. यदि तत्र तच् चक्षुर्विज्ञानम् उत्पन्नम् उत्पत्तिधर्मि वा. यावद् यदि तत्र मनोविज्ञनम् उत्पन्नम् उत्पत्तिधर्मि वा. स विषयः सभाग इत्य् उच्यते. तस्य च स्वभावसहभूनिर्मुक्ता इति. स्वभावेन सहभूभिश् च निर्मुक्ताः स्वभावसहभूनिर्मुक्ताः. सर्वधर्मास् तस्य विज्ञानस्यालम्बनं. न स्वभावः. स्वात्मनि वृत्तिविरोधात्. न हि तद् एवांगुल्यग्रं तेनैवांगुल्यग्रेण स्पृश्यते. न सैवासिधारा तयैवासिधारया छिद्यते. न सहभुवः. संप्रयुक्ता विप्रयुक्ता वा. अतिसंनिकृष्टत्वात्. न ह्य् अक्षिस्थम् अंजनं तेन गृह्यते. स पुनश् चित्तक्षणो ऽन्यस्य चित्तक्षणस्य आलम्बनम् इति. ये पूर्वस्मिन् क्षणे स्वभावसहभुवो धर्मा नालम्बिता अभूवन्. ते ऽप्य् आलम्बिता इति द्वयोः क्षणयोः सर्वधर्मा आलंबनं भवन्ति. तस्माद् धर्मधातुर् नित्यं सभागः. धर्मधातुर् हि नियतो मनस एव.

तत्सभागाश् च शेषाः.

चशब्देन सभागाश् चेति. शेषा एव सभागतत्सभागा इत्य् अवधार्यते. ननु च धर्मधातुर् [तिब्. 70अ] एव सभाग एवेत्य् अवधारणे शेषा न सभागा इति सभागतत्सभागाः सेत्स्यन्ति. न सेत्स्यन्ति. यद्य् अपि न सभागा एवेति भवेयुः. (अभिध्-क्-व्य् 76) तत्सभागा एवेति तु संभवेयुः. तन्निवृत्त्यर्थम् इदम् आरभ्यते. सभागतत्सभागा एव शेषाः. न तु सभागा एव नापि तत्सभागा एवेति.

यो न स्वकर्मकृत्

स तत्सभाग इति संबन्धनीयं

तत्सभागाश् चेति.

अनन्तरोक्तत्वात्. उक्तं भवति. यः स्वकर्मकृत् स सभाग इति. अस्वकर्मकृद् एव तत्सभागस् तत्सभाग एव वास्वकर्मकृद् इत्य् अवधारणे ऽर्थापत्त्या स्वकर्मकृत् सभाग इति. रूपाण्य् अपश्यद् इति. अद्राक्षीद् इति वक्तव्यं. एवं ह्य् अद्यतनातीतं ह्यस्तनातीतं च परिगृहीतं भवति. अन्यथा ह्य् अव्यापि लक्षणं स्यात्. अथैवम् एव पाठ उदाहरणमात्रं तद् द्रष्टव्यां. अद्यतनातीतम् अपि वक्तव्यं. एवं यावन् मनः स्वेन विषयकारित्रेण वक्तव्यम् इति. स्वेन विषयपुरुषकारेण वक्तव्यं. कथम् इति. येन श्रोत्रेण शब्दान् अशृणोत् शृणोति श्रोष्यति वा. तद् उच्यते सभागं श्रोत्रम् इति सर्वं. विज्ञानसमायुक्तम् असमायुक्तं चेति विज्ञानसम्बद्धम् असम्बद्धं चेत्य् अर्थः. यद् एकस्य चक्षुः सभागं तद् [तिब्. 70ब्] सर्वेषां किं. सभागम् इति वर्तते एवं तद्सभागम् अपीति. यद् एकस्य चक्षुस् तद्सभागं. तत् सर्वेषां तत्सभागम् इत्य् अर्थः. प्राप्तग्रहणाद् इति. गन्धादयः. ये एवदत्तेन घ्राणादीन्द्रियप्राप्ता गृह्यन्ते. न ते यज्ञदत्तेन गृह्यन्ते. स्वघ्राणादिकप्रविष्टत्वात्. इत्य् असाधारणत्वाद् एषां चक्षुरादिवद् अतिदेशो न्याय्यः. य एकस्य गन्धः सभागः. स सर्वेषाम्. एवं तत्सभागो ऽपीति वक्तव्यं. न तु वक्तव्यं यथा रूपम् एवं गन्धादय इति. अस्ति ह्य् एष संभवो य एव गन्धादय एकस्य घ्राणादिविज्ञानम् उत्पादयेयुः. त एवान्येषाम् अपीति. यदि ते एवदत्तघ्राणादीन्द्रियप्राप्ता भवेयुर् एवदत्तस्य विज्ञानम् उत्पादयेयुः. अथ यज्ञदत्तघ्राणादीन्द्रियप्राप्ता यज्ञदत्तस्य विज्ञानम् उत्पादयेयुर् इत्य् अर्थः. अथ वा त एवान्येषाम् अपीति. तत्रान्तर्गतसूक्ष्मक्रिमिप्रभृतीनाम् अपि विज्ञानम् उत्पादयेयुः. न तस्यैव

एवदत्तस्य यस्य घ्राणादीन्द्रियप्राप्तास् ते गन्धादय इति. इन्द्रियविषयविज्ञानानाम् अन्योन्यभजनम् इति. आश्रयविषयाश्रयिभावेनान्योन्याभिमुख्येन प्रवृत्तिः. तथा हीन्द्रियधातवो विज्ञानधातून् आश्रयभावेन यथायोगं भजन्ते. सेवन्त इत्य् अर्थः. विषयधातूंश् च विषयिभावेन. तथा विषयधातवः स्वेन्द्रियधातून् विषयभावेन भजन्ते. विज्ञानधातूंस् तु विषयभावेन आलम्बनभावेन वा भजन्ते. तथा [तिब्. 71अ] विज्ञानधातवः स्वेन्द्रियधातूनाम् आश्रयिभावेन भजन्ते. विषयधातूंश् च विषयिभावेनालम्बकभावेन वा भजन्त. इत्य् अन्योन्यभजनं भागः. भावे घञ्. कारित्रभजनं वा भागः. कारित्रं (अभिध्-क्-व्य् 77) चक्षुरादीनां दर्शनादि. विज्ञानधातूनां विज्ञातृत्वं. विषयधातूनां तद्विषयालम्बनभावः. तस्य कारित्रस्य भजनं कारित्रभजनं. स एषाम् अस्तीत्य् अर्थः. प्रदर्शनमात्रम् एतत्. विग्रहस् त्व् एवं कर्तव्यः. सह भागेन वर्तन्ते सभागा इति. समानो वा भाग एषां एषां त इमे सभागाः. समानार्थस्य सहशब्दस्य सभाव आदिष्टः. स्पर्शसमानकार्यत्वाद् वा. किं. सभागा इति प्रकृतम्. अत्र कर्मणि घञ्. भज्यत इति भागः. विग्रहस् तु पूर्ववत्. स्पर्शश् चैतसिकः. एषाम् इन्द्रियविषयविज्ञानानां समानं कार्यं. चक्षुः प्रतीत्य रूपाणि च उत्पद्यते चक्षुर्विज्ञानं. त्रयाणां संनिपातः स्पर्श इत्यादिवचनात्. ये पुनर् असभागा इति विस्तरः. ये पुनर् अन्ये चक्षुरादय इत्थम् असभागाः. तेषां सभागानाम् उक्तलक्षणानां सभागाः सदृशाः. ते तत्सभागाः. तेषां तैर् वा सभागास् ते तत्सभागाः. तुल्यार्थे ह्य् अत्र सभागशब्दो गृह्यते.

(i.39) दर्शनहेया इति. दर्शनं प्रथमतः सत्यदर्शनम् अनास्रवं पंचदशचित्तक्षणसंगृहीतं. भावना तद् एव पुनःपुनर्दर्शनं. लौकिकं वा समाहितं ज्ञानं भावना.

दश भावनया हेयाः पंच चेति.

रूपिणो धातवो दश पंच च तद्विज्ञानधातव इति. [तिब्. 71ब्] कथं पुनर् एतद् गम्यते. एत एव त इति.

अन्त्यास् त्रयं त्रिधेति

वचनात्. अन्त्यत्रयात् अन्ये पंचदश धातव एव त उच्यन्त इति. ते भावनाहेया एवेत्य् अवधार्यन्ते. त्रिप्रकारा इति. दर्शनहेया भावनाहेया अहेयाश् चेत्य् अर्थः. एत एव त्रिधा अष्टाशीत्यनुशयास् तत्सहभुव इति. धातुप्रकाराकारभिन्नाः सत्कायदृष्ट्यादयो ऽनुशयास् तत्सहभुवो विज्ञानवेदनादयः संप्रयुक्ताः असंप्रयुक्तानि च तल्लक्षणानुलक्षणानि. तत्प्राप्तयश् च सानुचरा इति. तच्छब्देन अनुशयादयः संबध्यन्ते. तेषाम् अनुशयानां तत्सहभुवां च प्राप्तयस् तत्प्राप्तयः. यद्य् अप्य् अनुशयसहभुवो भवन्ति. न तु सर्वाः. काश्चिद् धि प्राप्तयो ऽनुशयादिसहभुवो भवन्ति याः सहजाः. काश्चित् तु पूर्वं पश्चाच् च तेभ्यो भवन्त्य् अतः पृथक् प्राप्तिग्रहणं. सानुचरा इति ग्रहणेन अनुप्राप्तयस् तल्लक्षणानि च संगृह्यन्ते. शेषाः सास्रवा भावनाहेया इति. एत एव त्रयो ऽन्त्या धातवो ये शेषा दर्शनहेयेभ्यो ऽन्ये सास्रवाः. ते भावनाहेयाः. के पुनस् ते. दशानुशयास् तत्सहभुवस् तत्प्राप्तयश् च सानुचराः. कुशलसास्रवाः. अनिवृताव्याकृताश् च संस्काराः. अविज्ञप्तिरूपं च सास्रवं सानुचरं. [तिब्. 72अ] अनास्रवा अहेया इति मार्गसत्यासंस्कृतस्वभावाः. ननु चान्यद् अपीति विस्तरः. पृथग्जनत्वम् अनिवृताव्याकृतसंस्कारस्वभावत्वाद् भावनाहेयमध्यगतम्. अपायसंवर्तनीयं च (अभिध्-क्-व्य् 78) कायवाक्कर्म रूपस्वभावत्वाद् भावनाहेयम् उक्तम्. इत्य् अतश् चोदयन्ति वात्सीपुत्रीयाः. आर्यमार्गविरोधित्वाद् इति. पृथग्जनत्वम् आर्यमार्गोत्पादे न भवति. नियते चापायिके कर्मणि सति आर्यमार्गो नोत्पद्यते. आर्यमार्गोत्पादे च सत्य् आपायिकं कर्म नोत्पद्यते. तस्मात् सत्कायदृष्ट्यादिवत् तद् उभयं दर्शनहेयम् इति वर्णयन्ति. तत्प्रतिषेधार्थम् उक्तम् अप्य् एतद् अभिसंक्षेपेण. सुखप्रतिपत्त्यर्थं पुनर् उच्यते.

न दृष्टिहेयम् अक्लिष्टं न रूपं नाप्य् अषष्ठजं.

दृष्टिर् दर्शनम्. अक्लिष्टम् अनिवृतव्याकृतं कुशलं वा न दर्शनहेयं. रूपं तु क्लिष्टम् अपि न दर्शनहेयं.

अषष्ठजं

पंचेन्द्रियजं पंचविज्ञानं तद् अरूपं क्लिष्टम् अपि सन् न दर्शनहेयं. अतो ऽन्यत् तु दर्शनहेयं संभवति यथोक्तम्. अक्लिष्टाव्याकृतं च पृथग्जनत्वं समुच्छिन्नकुशलमूलवीतरागाणाम् अपि तत्समन्वागमाद् इति. समुच्छिन्नकुशलमूलाः कुशलैर् धर्मैर् असमन्वागता इष्टाः. पृथग्जनत्वेन तु समन्वागताः. [तिब्. 72ब्] यस्मात् ते पृथग्जना इष्यन्ते. तस्मान् न कुशलं पृथग्जनत्वं. क्लिष्टम् अपि तन् न भवति. वीतरागानाम् अपि तेन समन्वागमात्. क्लिष्टस्य हि वस्तुनः स्वभावप्रहाणम् इष्यते. प्राप्तिछेदः प्रहाणम् इत्य् अर्थः. तद् यदि पृथग्जनत्वं क्लिष्टं स्यात् लौकिकवीतरागाणां तस्य प्राप्तिछेद इति तेनसमन्वागमः स्यात्. इष्यते च तेषां तेन समन्वागमः. तथा हि ते लौकिकवीतरागाः पृथग्जना एवेष्यन्ते. अक्लिष्टव्याकृतत्वैकत्वे ऽदोषः. छन्दरागप्रहाणं अक्लिष्टस्येष्यते. तदालम्बनक्लेशप्राप्तिछेद इत्य् अर्थः. न तु तदात्मीयप्राप्तिछेद इष्यते. तथा ह्य् उक्तं भगवता यो भिक्षवो रूपे छन्दरागः. तं प्रजहीत. एवं वस् तद् रूपं प्रहीणं भवतीति विस्तरः. तस्माद् अक्लिष्टाव्याकृतं पृथग्जनत्वं तेषां प्रहीणम् अपि चक्षुरादिवत् समुदाचरति. अतस् तेन समन्वागमो भवति. किं पुनः कारणं. अक्लिष्टव्याकृतत्वात् पृथग्जनत्वं न दर्शनप्रहातव्यं. रूपत्वाच् च कायवाक्कर्म इत्य् आह. सत्येष्व् अविप्रतिपत्तेः. अक्लेशदुष्टत्वात् पृथग्जनत्वं न दुःखादिषु सत्येषु विप्रतिपद्यते. न विपरीतरूपेण प्रवर्तत इत्य् अर्थः. अनालम्बकत्वाच् च. कायवाक्कर्माप्य् अनालम्बकत्वाद् एव न विप्रतिपद्यते. तस्मात् तद् उभयं न दर्शनहेयं. अयं च सत्येष्व् अविप्रतिपत्तेर् [तिब्. 73अ] इति हेतुर् अषष्ठजे ऽप्य् अनुवर्तयितव्यः. दुःखे धर्मज्ञानक्षान्तौ पृथग्जनत्वप्रसंगाच् चेति. अयम् उपचयहेतुः पृथग्जनत्वस्यैव दर्शनहेयत्वनिवृत्त्यर्थम् उच्यते कायवाक्कर्मणो ऽनभिसंबन्धात्. दुःखे धर्मज्ञानक्षान्तौ पृथग्जनत्वप्राप्तिश् छिद्यते (अभिध्-क्-व्य् 79). न तु छिन्ना तत्प्रहेयक्लेशप्राप्तिवत्.

निरुध्यमानो मार्गस् तु प्रजहाति तदावृतिम्

इति वचनात्. दुःखे धर्मज्ञाने तु तत्प्राप्तिश् छिन्ना. तेन तत्प्राप्तिसद्भावात् दुःखे धर्मज्ञानक्षान्त्यवस्थायां स पुद्गलः पृथग्जनः स्यात्. न चासौ तस्याम् अवस्थायां पृथग्जन इति शक्यते व्यवस्थापयितुम् अधिगतार्यमार्गत्वात्. तथा हि पृथग्जनत्वं कतमद्. आर्यधर्माणाम् अलाभ इति पृथग्जनत्वलक्षणं. स चार्यधर्माणां लाभेनालाभो व्यावर्तते. तस्माद् आर्य एवासाव् इति. इदं तावत् भवन्तो वैभाषिकाः प्रष्टव्याः. तत् पृथ्ग्जनत्वं किं भावनामार्गप्रतिलम्भाद् एव प्रहीयते. नेत्य् उच्यते. तत् पृथग्जनत्वं नवभौमिकं कामावचरं यावत् भावाग्रिकं. तच् चाक्लिष्टं. तेन प्रतिभूमिभूमिनवमक्लेशप्रकारप्रहाणावस्थायां प्रहीयते. सर्वं ह्य् अक्लिष्टं सास्रवं नवम एव विमुक्तिमार्गे प्रहीयते. यद्य् एवम् अवीतरागावस्थायाम् आर्यः पृथग्जनः स्यात्. न. पृथग्जनत्वस्य विहीनत्वात्. [तिब्. 73ब्] दुःखे धर्मज्ञानक्षान्तेः प्रभृति हि तद् विहीनम् एव. न तु प्रहीणं. कः पुनर् विहानप्रहाणयोर् विशेष इति. विहानं प्राप्तिछेदे व्यवस्थापितं. प्रहाणं तु प्रतिपक्षलाभे व्यवस्थापितं. तस्मात् प्राप्तिछेदात् तेन पृथग्जनत्वेनासमन्वागमात् तस्याम् अवस्थायाम् आर्य एव भवति. न पृथग्जन इत्य् अदोष एषः.

(i.40, 41) चक्षुश् च धर्मधातोश् च प्रदेशो दृष्टिर्

इति. चक्षुर् एव धर्मधातुप्रदेश एव दृष्टिर् इत्य् अवधार्यते. सत्कायदृष्ट्यादिकेति. सत्कायदृष्टिर् अन्तग्राहदृष्टिर् मिथ्यादृष्टिर् दृष्टिपरामर्शः शीलव्रतपरामर्शश् चेति. शैक्षस्यानास्रवेति प्रज्ञेत्य् अधिकृतं. अशैक्षस्याशैक्षीति. अशैक्षस्यानास्रवा प्रज्ञा अशैक्षी. क्षयानुत्पादज्ञानवर्ज्येति वक्तव्यं. वक्ष्यति हि

क्षयानुत्पादधीर् न दृग्

इति. समेघामेघेति विस्तरेण यावत् क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्षीभिर् दृष्टिभिर् धर्मदर्शनम् इति. लोके भवा लौकिकी. क्लिष्टा चाक्ल्ष्टा च क्लिष्टाक्लिष्टे. क्लिष्टाक्लिष्टे चासौ लौकिकी च. क्लिष्टाक्लिष्टलौकिकी. क्लिष्टाक्लिष्टलौकिकी च शैक्षी चाशैक्षी च क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्ष्यः. ताभिर् धर्मदर्शनं. कीदृशम् इत्य् आह. समेघामेघरात्रिंदिवरूपदर्शनवद् इति. यथा [तिब्. 74अ] समेघायां रात्रौ रूपदर्शनं. एवं क्लिष्टया लौकिक्या सत्कायदृष्ट्यादिकया दृष्ट्या धर्मदर्शनं. अव्यक्ततरम् इत्य् अर्थः. यथा तस्याम् एव रात्रौ अमेघायां रूपदर्शनं. एवम् अक्लिष्टया लौकिक्या दृष्ट्या धर्मदर्शनं. (अभिध्-क्-व्य् 80) अव्यक्तम् इत्य् अर्थः. यथा समेघे दिवसे रूपदर्शनं. एवं शैक्ष्या दृष्त्या धर्मदर्शनं. व्यक्तं न त्व् अत्यर्थं. यथा पुनर् अमेघे दिवसे रूपदर्शनं. एवम् अशैक्ष्या दृष्ट्या धर्मदर्षनम्. अत्यर्थं व्यक्तम् इत्य् अर्थः.

अतीरणाद्

इति असंतीरणात्. संतीरणं पुनर् विषयोपनिध्यानपूर्वकं निश्चयाकर्षणं. अत एव चान्यापीति विस्तरः. अत एवासंतीरणाद् अन्यापि मानसी क्लिष्टा रागादिसंप्रयुक्ता अक्लिष्टा वा क्षयानुत्पादज्ञानानिवृताव्याकृता प्रज्ञा न दृष्टिः. रूपालोचनार्थेनेति. चक्षुर् न संतीरकत्वेन दृष्टिः. किं तर्हि. रूपालोचनार्थेन. प्रज्ञा तु संतीरकत्वेनेति दर्शितं भवति. अन्यविज्ञानसमंगिन इति. अन्यविज्ञानसंमुखीहाविनः पुद्गलस्यान्यविज्ञानव्यासक्तस्येत्य् अर्थः. पश्येच् चक्षुरिन्द्रियं विषयादिसांनिध्यात्. यस्य तु चक्षुर्विज्ञानं पश्यतीति पक्षः. तस्य तद्विज्ञानासंभवाद् अदोषः. तद् एव चक्षुराश्रितं विज्ञानं पश्यतीत्य् अस्त्व् इति. दर्शनस्य तद्भावे भावात् तदभावे चाभावात्.

दृश्यते रूपं न किलान्तरितं यत

[तिब्. 74ब्] इति किलशब्दः परमतौ. तस्याप्रतिघत्वाद् इति. विज्ञानम् अमूर्तिं कुड्यादीन्य् अतिक्रम्यापि पश्येत्. विज्ञानवाद्य् आह. नैव ह्य् आवृते चक्षुर्विज्ञानम् उत्पद्यते इत्य् अनाभासगतत्वात् विषयस्येत्य् अभिप्रायः. किं खलु नोत्पद्यत इत्य् अप्रतिघत्वात् कुड्यादीनि व्यतिभिद्य कुड्याद्यव्यवहित इव विषये विज्ञानम् उत्पत्स्यत इति भावः. यस्य त्व् इति. यस्य मम वैभाषिकस्य पक्षः चक्षुः पश्यतीति. तस्य मम चक्षुषः सप्रतिघत्वात् व्यवहिते कुड्यादिभिर् वृत्त्यभावः. तस्य चक्षुष आलोचनवृत्त्यभावः. विज्ञानं तर्हि वैभाषिकस्य व्यवहिते ऽपि प्राप्नोतीति चोद्यम् अन्तर्नीतम् आशंक्य स एव वैभाषिकः पुनर् आह. विज्ञानस्याप्य् अनुत्पत्तिर् इति. यथैव चक्षुषो व्यवहिते वृत्त्यभावो युज्यते विज्ञानस्याप्य् अनुत्पत्तिर् विज्ञानवृत्त्यभाव आश्रयेण सहैकविषयप्रवृत्तत्वात् युज्यते. य एव हि चक्षुषो व्यवहितो ऽर्थो विषयः स्यात्. स एव विज्ञानस्येति युक्ता विज्ञानस्याप्य् अनुत्पत्तिः. तव तु विज्ञानवादिनो ऽप्रतिघत्वाद् विज्ञानस्य व्यवहिते विज्ञानम् उत्पद्येत. न तूत्पद्यते. तस्माच् चक्षुः पश्यति न विज्ञानम् इति सिद्धं. एवं विज्ञानवादिनि प्रतिषिद्धे तत्पक्षम् आचार्यो गृहीत्वाह. किं नु वै चक्षुः प्राप्तविषयम् इति विस्तरः. यथा कायेन्द्रियं प्राप्तविषयं कुड्यादिव्यवहितं [तिब्. 75अ] विषयं न गृह्णाति. कुड्यादिप्रतिघातात्. ततः परेण प्रवर्तितुम् अलहमानत्वात्. किम् एवं चक्षुः प्राप्तविषयं कुड्यादिप्रतिघातेन प्रतिहतं सत् ततः परेण गन्तुम् अलभमानं (अभिध्-क्-व्य् 81) तं कुड्यादिव्यवहितं विषयं न गृह्णातीति. नैतद् युज्यते. तस्मात् सप्रतिघत्वात् आवृतं चक्षुर् न पश्येद् इति न वक्तव्यं.

काचाभ्रपटलस्फटिकांबुभिश् चान्तरितं कथं दृश्यत इति. काचेनाभ्रपटलेन स्फटिकेनाम्बुना चान्तरितं व्यवहितं रूपं कथं दृश्यते. सप्रतिघत्वाद् धि कुड्यादिव्यवहितवत् काचादिव्यवहितं चक्षुर् न पश्येत् तच् च पश्यतीति सिद्धान्तः. यत्रालोकस्याप्रतिबन्ध इति. आलोके हि सति विषय आभासगतो भवतीति विज्ञानोत्पत्तिसंभवः. एवं हि विज्ञानकारणं पठ्यते. चक्षुरिन्द्रियम् अनुपहतं भवति. विषय आभासगतो भवति. तज्जश् च मनसारः प्रत्युपस्थितो भवतीत्य् अत आवृते रूपे काचादिभिस् तत्रोत्पद्यते एव चक्षुर्विज्ञानं यत्र तु प्रतिबन्धो ऽकाचादिस्वभावैः कुड्यादिभिस् तमस्वद्भिः तत्रावृते नोत्पद्यते. किं. चक्षुर् विज्ञानम् इति. अनुत्पन्नत्वाद् आवृतं नेक्षत इति. यत् त्वया किं खलु नोत्पद्यत इति अनुत्पत्तौ कारणं पृष्टम् इदं तत्कारणम् इति ब्रूमः. यत् तर्हि सूत्र उक्तम् इति विस्तरः. चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति नानुव्यंजनग्राहीति विष्तरः. यस्माच् चक्षुः पश्यति. तस्मात् पुद्गलश् चक्षुषा पश्यतीत्य् अभिप्रायः. आचार्यः प्राह. तेनाश्रयेणेति [तिब्. 75ब्] अयम् अत्राभिसंधिः. चक्षुर् अश्रित्येत्य् एवात्राभिसंधिः. चक्षुषा आश्रयेण विज्ञानेन दृष्ट्वेत्य् अर्थः. कथं ज्ञायत इत्य् आह. यथा मनसा धर्मान् विज्ञायेति. मनसा आश्रयेण विज्ञानेन विज्ञायेति भवति. न ह्य् अनन्तरातीतं मनो धर्मान् विजानाति. वर्तमानावस्थायां हि विज्ञानं कारित्रं करोति. आश्रितकर्म वा आश्रयस्योपचर्यत इति. आश्रितस्य विज्ञानस्य कर्म दर्शनम् आश्रयस्य चक्षुष उपचर्यते. विज्ञाने पश्यति सति चक्षुः पश्यतीत्य् उपचारः. यथा मंचाः क्रोशंतीति. यथा मंचस्थेषु पुरुषेषु क्रोशत्सु

मंचाः क्रोशन्तीत्य् उपचारः. तद्वत्. यथा च सूत्र उक्तम् इति विस्तरः. वैभाषिकाणाम् अप्य् अयं पक्षः. न चक्षुर् विजानाति. किं तर्हि. विज्ञानं विजानातीति. अथ चोक्तं चक्षुर्विज्ञेयानि रूपाणि कान्तानीति. तत्राश्रितकर्म आश्रयस्योपचर्यत इति अवश्यं प्रतिपत्तव्यं. द्वारं यावद् एव रूपाणां दर्शनायेति. द्वारम् इव द्वारं हेतुर् आश्रय इति अभिप्रायः. अनेनागमेन तेनाश्रयेणेति यो ऽर्थ उक्तः. तम् एव समर्थयति. तेन चक्षुषा द्वारेण विज्ञानं पश्यतीति. दर्शने तत्र द्वाराख्येति. चक्षुर् ब्राह्मण द्वारं यावद् एव रूपाणां दार्शनायेत्य् अत्र. न ह्य् एतद् युज्यते दर्शनं रूपाणां दर्शनायेति. अत्रावाचकत्वान् नैतद् युज्यत इत्य् [तिब्. 76अ] अभिप्रायः. यदि दर्शनं करणं दृश्यते ऽनेनेति दर्शनम् इति. कर्तरि वा ल्युट् पश्यतीति दर्शनम् इति. दर्शनायेति च भावसाधनं. दृष्टिर् दर्शनं तस्मै दर्शनायेति. कथम् (अभिध्-क्-व्य् 82) एतद् युज्यते. यस्माच् चक्षुर्व्यतिरिक्तं दर्शनं नास्ति. आलोचनम् इति चेत्. न. विज्ञानाव्यतिरिक्तत्वात् विज्ञानम् एव ह्य् आलोचनं. नातो ऽन्यत् पश्यामः. यदि तु चक्षुर्द्वारं विवरं रूपाणां दर्शनाय विज्ञानायेत्य् अर्थो गृह्येत तद् युज्यते. तद्यथा काचित् प्रज्ञा पश्यत्य् अप्य् उच्यत इति. पश्यतीत्य् अप्य् उच्यत इति इतिशब्दो ऽत्राध्याहार्यः. अनेनोपन्यासेन दर्शनविज्ञानयोर् अनर्थान्तरभाव इति दर्शयति. का पुनर् असौ या प्रज्ञैवम् उच्यते. या दर्शनात्मिकोक्ता.

तदन्योभयथार्या धीर्

इति. तस्यैवं जानत एवं पश्यत इति सूत्रे ऽपि वचनात्. किंचिद् इति वचनान् न सर्वं विज्ञानं पश्यतीत्य् उक्तं भवति. चक्षुर्विज्ञानं हि पश्यतीत्य् उच्यते. न तु श्रोत्रादिविज्ञानम् इति. कान्या दृष्टिक्रियेति. यस्योपलम्भकत्वं. तस्य दर्शनं युज्यत इत्य् अभिप्रायः. तद् एतद् अचोद्यम् इति विस्तरः. यदि विज्ञानं विजानाति. कर्तृभूतस्य विज्ञानस्य कान्या विज्ञानक्रियेति वक्तव्यम् इति तुल्यं चोद्यम् आपद्यते. न च तत्र कर्तृक्रियाभेदः. न कर्तुर् विज्ञानस्य क्रियायाश् च विज्ञानलक्षणाया भेदो ऽन्यत्वम् अस्ति. भवति च कर्तृक्रियासम्बन्धव्यपदेशः. विज्ञानं विजानातीति. [तिब्. 76ब्] तद्वद् इहापि भवेत्. चक्षुः पश्यतीति अचोद्यम् एतत्. चक्षुर्विज्ञानं दर्शनम् इत्य् अपरे. तस्याश्रयभावाच् चक्षुः पश्यतीत्य् उच्यते. यथा नादस्याश्रयभावात् घण्टा नदतीत्य् उच्यते. [विज्ञानं तर्हि कस्याश्रयभावाद् रूपं विजानातीत्य् आह.] विज्ञानस्याश्रयभावाद् इति. चक्षुर्विज्ञानस्याश्रयभावाद् इत्य् अर्थः. तद् विज्ञानं दर्शनम् इति रूढं लोके इति. दर्शनम् इति लोके रूढं न तु विज्ञानम् इति रूढं. कथं गम्यत इत्य् आह. तथा हि तस्मिन्न् उत्पन्ने रूपं दृष्टम् इत्य् उच्यते न विज्ञातम् इति. विभाषायाम् अप्य् उच्यत इति. स एवर्थो ऽभिधीयत इत्य् अभिप्रायः. चक्षुःसंप्राप्तं चक्षुराभासगतं. विज्ञानं तु सांनिध्य मात्रेणेति. नाश्रयभावयोगेनेति दर्शयति. यथा सूर्यो दिवसकर इति. यथा यथा सांनिध्यमात्रेण सूर्यो दिवसं करोतीत्य् उच्यते. तथा विज्ञानं विजानातीत्य् उच्यते. कस्मात्. लोके तथा सिद्धत्वात्. निर्व्यापारं हीदं इति विस्तरः. निर्व्यापरम् इति निरीहम्. अनेन हि कर्तुर् अर्थान्तरभूतां वा क्रियां प्रतिषेधति. धर्ममात्रम् इति. स्वतंत्रस्य कर्तुः प्रतिषेधं करोति. हेतुफलमात्रं चेति. असत्य् अपि कर्तरि हेतुफलयोः कार्यकारणम् अर्थत्वं दर्शयति. तत्र छन्दत उपचाराः क्रियन्ते यद् वस्तु व्यवहारांगं तेनेह व्यवहारार्थसंसिद्ध्यर्थम् असद् अपि सद्रूपेण परिकल्प्य [तिब्. 77अ] कर्तृक्रियादिव्यवस्थाणं क्रियते. चक्षुः पश्यति विज्ञानं विजानातीत्य् (अभिध्-क्-व्य् 83) एवमादि. नात्राभिनिवेष्टव्यं.

भावो भवित्रपेक्षो ऽन्य

इत्यादि जनपदनिरुक्तिं नभिनिविशेतेति. जनपदस् तत्र नियता निश्चिता चोक्तिर् जनपदनिरुक्तिः. तां नाभिनिविशेत. तस्माद् अत्रेयं निरुक्तिर् इति. न वा सर्वाम् एवार्थवतीं निरुक्तिं कल्पयेत्. संज्ञां च लोकस्य नाभिधावेद् इति. आत्मा जीव इत्य् एवमादिकां संज्ञां लोकस्य नाध्यारोपयेत्. अभूतसमारोपेणास्त्य् आत्मा शरीरादिव्यतिरिक्त इति गच्छेद् इत्य् अर्थः. अथ वा संज्ञां च लोकस्य नाभिधावेन् नातिसरेत्. अर्थाबावात् संज्ञापि नास्तीति न कल्पयेद् इत्य् अर्थः. अतिसरणम् अतिक्रमणम् इत्य् एको ऽर्थः.

(i.42अब्) उभाभ्याम् अपीत्य्

अपिशब्दाद् एकेनापि नात्र नियमः. द्वयोर् विवृतयोः पर्रिशुद्धतरं दर्शनम् इति. उक्तं भवति नैकतरान्यथीभावाद् इति. उन्मीलितार्धनिमीलितयोर् अक्ष्णोः एकतरस्यान्यथीभावाद् द्वयोर् एकतरद् यद्य् अन्यथीभवति. यदि यद् उन्मीलितं. तद् अर्धनिमीलितं क्रियेत् सर्वनिमीलितं वा. यच् चार्धनिमीलितं. यदि तत् सर्वनिमीलितं क्रियेत् सर्वोन्मीलितं वा. तदा द्विचन्द्रदर्शनं न भवति. अतो ऽवगम्यते द्वयोर् अपि चक्षुषोर् अत्र विज्ञानोत्पत्तौ व्यापारो ऽस्तीति. देशप्रतिष्ठितत्वात् रूपवद् इति विपरीतदृष्टान्तः. यथा रूपस्य देशप्रतिष्ठितत्वात् आश्रयविच्छेदाद् [तिब्. 77ब्] विच्छेदो भवति. नैवं विज्ञानस्य. न हि विज्ञानं च नाश्रयविच्छेदाद् विच्छेदो भवति.

(i.42च्द्) तथा हि दूराद् रूपं पश्यतीति. यत्र रूपं दृश्यते. न तत्र तद्ग्राहकं चक्षुरिन्द्रियम् अस्ति. तत्र प्रमाणानुपलभ्यमानत्वात्. तत्राविद्यमानदेवदत्तादिवत्. यथा चक्षुः. एवं श्रोत्रम् अपि वक्तव्यं. इतर आह. स्वविषयदेशप्राप्ति चक्षुःश्रोत्रम्. इन्द्रियत्वात्. घ्राणेन्द्रियादिवत्. अनेनानुमानेन तत्र प्रमाणानुपलभ्यमानत्वं हेतुम् असिद्धं दर्शयति. आचार्य आह. सति च प्राप्तविषयत्व इति विस्तरः. यदि प्राप्तविषयं चक्षुःश्रोत्रं कल्प्येत दिव्यं चक्षुःश्रोत्रम् इह मनुष्येषु ध्यायिनां नोपजायेत्. यदि हि चक्षुःश्रोत्रम् अपि विप्रकृष्टदेशस्थं व्यवहितं च कुड्यादिभिर् यथायोगं रूपं शब्दं गृह्णीयात्. एवम् अस्य दिव्यत्वं संभवेत्. तच् च प्राप्तविषयत्वे न स्यात्. घ्राणादिवत्. यथा घ्राणजिह्वाकायाः प्राप्तविषयत्वात् दिव्या ध्यायिनां नोपजायेरन्. तद्वत्. अनेन स्वविषयदेशप्रापित्वपक्षस्य धर्मिविशेषविपर्ययापक्षालत्वं दर्शयति. संभवद्दिव्यत्वे हि चक्षुःश्रोत्रे धर्मी. असंभवद्दिव्यत्वभावो विशेषविपर्ययः. स प्राप्नोतीति (अभिध्-क्-व्य् 84) दोषः अनेन दोषेणानुमानत्वात्. तत्प्रमाणानुपलभ्यमानत्वं सिद्धं व्यवस्थापयति. तस्माद् अप्राप्तविषयं चक्षुःश्रोत्रं. यद्य् अप्राप्तविषयं चक्षुर् इति विस्तरः. आसन्नेनातिदूरस्थेन तिरस्कृतेन वा तुल्या तदप्राप्तिर् इति [तिब्. 78अ] तत्र दर्शनं प्रसंजयति. किम् इदं परस्य साधनम् उत दूषणम् इति. यदि तावद् एवं साधनम् अतिदूरं तिरस्कृतं चक्षुःश्रोत्रेण गृह्यते. अप्राप्तत्वात्. आसन्नविषयवद् इति. तदसाधनं हेतोः स्वयम् अनिश्चितत्वात्. पूर्वाभ्युपगमविरोधाद् वा. अथ दूषणं सर्वप्राप्तग्राहकत्वं चक्षुःश्रोत्रलक्षणस्य

धर्मिणः प्रसज्यते. तद् अदूषणम् अनुमानबाधनात्. कथम् इत्य् आह. कथं तावद् अयस्कान्तो न सर्वम् अप्राप्तम् अयः कर्षयतीति प्रश्नमुखेनायस्कान्तनिदर्शनम् उपन्यस्य सर्वाप्राप्तग्राहकत्वं चक्षुःश्रोत्रस्य साधयति. न सर्वाप्राप्तग्राहकं चक्षुःश्रोत्रं. सर्वाप्राप्तग्रहणशक्तिहीनत्वात्. अयस्कान्तवत्. अयस्कान्तो ह्य् अप्राप्तम् अयो गृह्णाति कर्षतीत्य् अर्थः. न च सर्वम् अप्राप्तं गृह्णाति. तद्वच् चक्षुःश्रोत्रं. प्राप्तविषयत्वे ऽपि चैतत् समानम् इति. नातिदूरतिरस्कृतो विषयश् चक्षुःश्रोत्रेण गृह्यते. ग्रहणायोग्यत्वात्. संप्राप्तांजनदशलाकावत्. अथ वा न सर्वस्वग्राह्यग्राहि चक्षुःश्रोत्रम्. इन्द्रियस्वाभाव्यात्. घ्राणेन्द्रियादिवत्. घ्राणादीनां हि प्राप्तो विषयो न तु सर्वः. सहभूगन्धाद्यग्रहणात्. घ्राणादिसहभूनि हि गन्धरसस्प्रष्टव्यानि घ्राणादिभिर् न गृह्यन्ते. शक्तिर् हीन्द्रियाणाम् ईदृशीति. मनस् त्व् अरूपित्वाद् इति. प्राप्तत्वं मूर्तानाम् एव व्यवस्थाप्येत नामूर्तानाम् इति. मनो ऽप्राप्तविषयम् [तिब्. 78ब्] इति न विचारः क्रियते.

त्रयम् अन्यथेति.

प्राप्तविषयम् एव त्रयम् इति इष्टावधारणार्थम् आरम्भः. अन्यथा हि प्राप्ताप्राप्तविषयम् इत्य् अपि संभाव्येत. निरुच्छ्वासस्य गन्धाग्रहणाद् इति. यद् उच्छ्वासेन सर्धं सूक्ष्मं भूतचतुष्कं घ्राणम् आगतं. तस्य गन्धो घ्राणेन घ्रायते. वायौ गन्धान्तरम् उत्पन्नम् इत्य् अपरे. मिशृईभवेयुर् एकदेशीभवेयुः. अथैकदेशेन. किं. स्पृशेयुर् इति वर्तते. कथं शब्दाभिनिष्पत्तिर् इति. यदि न स्पृशन्ति. अनभिघाते शब्दाभिनिष्पत्तिर् न प्राप्नोतीत्य् अभिप्रायः. अत एवेति काश्मीराः. यदि हि स्पृशेयुः. हस्तो हस्ते ऽभ्याहतः सज्जेत जतुनेव जत्वन्तरं. कथं चितं प्रत्याहतं न विशीर्यत इति. अन्योन्यम् अस्पृशतां परमाणूनां संघातः प्रत्याहतः पाण्यादिभिः कथं न विशीर्यते. तद् एवैषां निरन्तरत्वं यन् मध्ये नास्ति किंचिद् इत्य् आलोकादि मध्ये नास्तीति निरन्तरत्वम् एषां व्यवस्थाप्यते. तद् एव च प्राप्तत्वं नान्यथेति. अपि (अभिध्-क्-व्य् 85) खल्व् इति. अपि चेत्य् अर्थः. संघाताः सावयवत्वात् स्पृशन्तीत्य् अदोषः. यो ऽसौ दोष उक्तो यदि सर्वात्मना स्पृशेयुर् मिश्रीभवेयुर् द्रव्याण्य् अथैकदेशेन सावयवाः प्रसज्येरन्न् इति. कारणं प्रतीति. यस्य यादृशं कारणं. तस्य तत् कारणं. स्पृष्टम् अस्पृष्टं वा प्रतीत्य् आह. कदाचिद् इति विस्तरः. स्पृष्टहेतुकम् इति. स्पृष्टम् अन्योन्यं हेतुर् अस्य स्पृष्टहेतुकं. एवम् अस्पृष्टहेतुकं. [तिब्. 79अ] यदा विशीर्यत इति. तद्यथा शुष्का मृच् चूर्णीक्रियमाणा. यदा चयं गच्छतीति. तद्यथा हिमं. तद् धि पूर्वं सूक्ष्मं पश्चान् महद् भवति. चयवतां चय इति. तद्यथा मृत्पिण्डद्वयसंनिपाते. उत्तरक्षणावस्थानं स्याद् इति. उत्पद्य स्पृष्टियोगात्. निरन्तरे तु स्पृष्टसंज्ञेति

भदन्तः. भदन्तमतं चैष्टव्यम् इति. वैभाषिकमतं कस्मान् नैष्टव्यं. ननु वैभाषिकैर् अप्य् एवम् उक्तं. तद् एवैषां निरन्तरत्वं यन् मध्ये नास्ति किंचिद् इति. अस्त्य् एवम्. सावकाशं तु तद् वचनम्. यन् मध्ये नास्ति किंचिद् इति ब्रुवाणा वैभाषिका मध्ये आलोकादि नेच्छन्ति. अन्यपरमाणुप्रवेशानवकाशं तु न ब्रुवते. अन्यथा हि सान्तराणां परमाणूनां शून्येष्व् अन्तरेषु गतिः केन प्रतिबध्येत गतिमत इति वाक्यशेषः. अयं चापरो दोषः. न च परमाणुभ्यो ऽन्ये संघाताः यथा वैभाषिकाः कल्पयन्ति. त एव ते संघाताः परमाणवः स्पृश्यन्ते. यथा रूप्यन्त इति. संघाता एव नैक इत्य् अर्थः. यदि च परमाणोर् इति विस्तरः. परमाण्वपरिनिष्पत्तिं वक्तुकामः आचार्यो विचारयति. यदि परमाणोर् एकस्य पूर्वादिदिग्भागभेदः कल्प्येत स्पृष्टस्यान्योन्यम् अस्पृष्टस्य वा सावयवत्वप्रसंगः. न चेत्. किम्. दिग्भागभेद इति वर्तते. स्पृष्टस्याप्य् अप्रसंगः. कस्य. सावयवत्वस्य. [तिब्. 79ब्] अत्र साधनम्. न निरवयवः परमाणुः. दिग्भागभेदवत्त्वात्. माषराशिवद् इति. तद् एतद् दिग्भागभेदवत्त्वं नेच्छन्ति वैभाषिकाः. दिग्भागभेदो हि संघातरूपाणाम् एव कल्प्यते. एवं च वर्णयन्ति. धर्मतैवेयं यत् सप्रतिघानां भिन्नदेशत्वं. तेषां नैरन्तर्येणावस्थानात् अभिन्नदेशत्वं मा भूद् इति सान्तराणाम् अपि सप्रतिघत्वेन गतिः प्रतिबध्यत इति.

(i.43अब्) आशुवृत्त्या च पर्वतादीनाम् अलातचक्रादिवद् इति. आत्मपरिमाणतुल्यस्यैवार्थस्य ग्रहण इष्यमाणे कथं पर्वतादीनां महतां सकृद् इव ग्रहणं लक्ष्यते न क्रमेणेत्य् आशंक्य युक्तिं तथा ग्रहणे कथयति. आशुवृत्त्या चेत्यादि. यथा अलातचक्रादिग्रहणं क्रमेण वर्तमानं सकृद् इव लक्ष्यते. तथा पर्वतनदीशब्दादिग्रहणम् आशुवृत्त्या भवतीति. आहोस्वित् तुल्यातुल्यस्येति. द्राक्षाफलादिदर्शने तुल्यस्य. वालाग्रपर्वतादिदर्शने अतुल्यस्येत्य् अभिप्रायः. उन्मिषितमात्रेणेति न क्रमदर्शनन्यायेन. एवं श्रोत्रेणेति (अभिध्-क्-व्य् 86) विस्तरः. कदाचिद् अल्पीयांसो यदा मशकशब्दं शृणोति. कदाचित् समाः यदा श्रोत्रपरमाणुसमप्रमाणं कस्यचिच् छब्दं शृणोति. कदाचिद् भूयांसो यदा मेघशब्दं शृणोतीति. अजाजीपुष्पवद् अवस्थिताः कालजीरकपुष्पवद् अवस्थिताः एकतलावस्थिता इत्य् अर्थः. भूर्जाभ्यन्तरावस्थिता इति कर्णाभ्यन्तरे यद् भूर्जपत्त्रवर्णाकारं. तद् भूर्जम् इवेति भूर्जं. तदभ्यंतरे ऽवस्थिताः श्रोत्रेन्द्रियपरमाणवः. [तिब्. 80अ] घाटाभ्यन्तरे घाटा नासापुटी. मालावद् अवस्थितानीति. मण्डलेन समपंक्त्यावस्थितानीति. वालाग्रमात्रं किलेति. आगमसूचनार्थः किलशब्दः. अस्फुटम् अव्याप्तं. स किलेति कर्मसामर्थ्याद् एवाविशरणं स्याद् इति. किलशब्देन अरुचिं सूचयति. संचिताश्रयालम्बनत्वाद् इति संचिताश्रयत्वात् संचितालम्बनत्वाच् च.

(i.43च्द्) चरमस्याश्रयो ऽतीत

इति. अतीत एवेत्य् अवधारणं. अत एवोच्यत इति. यस्मात् पंच विज्ञानकाया इन्द्रियद्वयाश्रयाः. चक्षुरादीन्द्रियाश्रया मनैन्द्रियाश्रयाश् च. तस्माच् चतुःकोटिक उत्तिष्ठते. प्रथमा कोटिश् चक्षुर् इति. चक्षुर्विज्ञानस्य चक्षुर् आश्रयभावेन न समनन्तरप्रत्ययभावेन. न हि चक्षुश् चित्तचैत्तस्वभावं.

चित्तचैत्ता अचरमा उत्पन्नाः समनन्तर

इति च समनन्तरप्रत्ययलक्षणं. द्वितीया कोटिः समनन्तरातीतश् चैतसिको धर्मधातुस् तस्य समनन्तरभावेन. षड् एव ह्य् आश्रया विज्ञानस्येष्यन्ते चक्षुरादयो मनःपर्यन्ता नान्ये. तृतीया समनन्तरातीतं मनः. उभयलक्षणयुक्तत्वात्. चतुर्थी उक्तनिर्मुक्ता धर्माः. कोटित्रयमुक्ता विप्रयुक्ता असंस्कृतादयः. [तिब्. 80ब्] एवं यावत् कायविज्ञानस्य स्वम् इन्द्रियं वक्तव्यम् इति. यः श्रोत्रविज्ञानस्याश्रयभावेन. समन्तरप्रत्ययभावेनापि स. तस्येति चतुःकोटिकः. प्रथमा कोटिः श्रोत्रं. द्वितीया समनन्तरातीतश् चैतसिको धर्मधातुः. तृतीया समनन्तरातीतं मनः. चतुर्थी कोटिर् उक्तनिर्मुक्ता धर्मा. इत्य् एवम् अपि वक्तव्यं. मनोविज्ञानस्य पूर्वपादक इति. यो मनोविज्ञानस्याश्रयभावेन. समनन्तरप्रत्ययभावेनापि स. तस्येति पूर्वपादकः. यस् तावद् आश्रयभावेन. समनन्तरप्रत्ययभावेनापि स इति. मनस् तावद् अवश्यम् असौ समनन्तरप्रत्ययः. स्यात् समनन्तरप्रत्ययभावेन नाश्रयभावेन. समनन्तरातीतश् चैतसिको धर्मधातुर् अचक्षुराद्याश्रयषट्स्वभावत्वात्.

(i.44अब्) तद्विकारविकारित्वाद्

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.