Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/25

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

स्फुटार्था अभिधर्मकोशव्याख्या

Tác giả
यशोमित्र
Thông tin
GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अनुबन्धो हि प्रवाहस् तेनैव व्याखातः. न चाद्यः क्षणः प्रवाहो मा भूद् अतिप्रसंगः. तस्मात् तस्यात्र लक्षणेनास्त्य् अवरोध इति न्यूनं प्रवाहस्य चाद्रव्यत्वात् अद्रव्यम् अविज्ञप्तिर् इति शास्त्रापेतं. समाहितायाश् च नास्ति विक्षिप्तचित्ताचित्तकस्यानुबन्ध इति सा चाविज्ञप्तिर् न प्रसज्यत इति हानिः. अविक्षिप्तचित्तकस्य तदनुबन्धान् नैष दोष इति चेत्. शुभाशुभाया विज्ञप्तेर् अविज्ञप्तिलक्षणप्रसंग इत्य् अतस्याः प्रसज्यते तत्त्वं. अचित्तकस्यापीति चापिशब्दवैयर्थ्यं पूर्वेणैव कृतत्वात्. विक्षिप्तचित्तकस्यापीति अनेन हि सर्वसचित्तकावस्थाग्रहणं. का पुनर् अन्या अवस्था. या द्वितीयेनापिशब्देन संगृह्येतेति अपिशब्दाधिकवचनं. अचित्तकं चाधिकृत्य शुभो [तिब्. 27अ] ऽविज्ञप्त्यनुबन्धो विशेषणीयः. न च व्याख्याने ऽपि विशेषित इति विशेष्यम् अविशेषितम्. (अभिध्-क्-व्य् 31) इदं चापरं विशेष्यम् अविशेषितम् अप्रतिघं रूपम् इति. एवम् अनेकदोषदुष्तत्वात् न संबद्धम् एतल् लक्सणम् इति. अत्र ब्रूमः. यत् तावद् उक्तं न्यूनं प्रवाहस्याविज्ञप्त्युपदेशाद् आद्यः क्षणो नाविज्ञप्तिः स्याद् इति. इदं तावद् असौ प्रष्टव्यः. को ऽयं प्रवाहो नाम. बहुषु क्षणेषु प्रवाह इत्य् आख्या. यद्य् एवं आद्यो ऽपि क्षणः प्रवाहः सिध्यति. प्रथमक्षणप्रभृतिबहुषु क्षणेषु प्रवाह इति कृत्वा. तथा ह्य् उत्सात् तडागाद् वा निर्गच्छताम् उदकानाम् आद्योदकावयवप्रभृतिषु प्रवाहसंज्ञेति. नास्त्य् अव्यापिता लक्षणस्य. यदा चानुबध्नातीति अनुबन्ध इत्य् अच्प्रत्ययान्तेन पदेन द्रव्यम् एव निर्दिश्यते. तदा न्यूनताशंकापि नास्ति. अत एव शास्त्रापेततादोषो ऽपि परिहृतो भवति. अथाप्य् अनुबंधनम् अनुबंध इति स्रोतो ऽभिधीयते. तथाप्य्

अदोषो रूपाधिकारात्. प्रवाहवर्तित्वात् तु प्रवाहशब्देन प्रदर्श्यते. समाहिताया अप्य् अविज्ञप्तेर् अग्रहणं न भवति. सापि हि यद्य् अपि विक्षिप्तचित्ताचित्तकसंतानं नानुबध्नातीति अविक्षिप्तकसचित्तसंतानं त्व् अनुबध्नात्य् एव. अविज्ञप्तिजातिसामान्येन तु विक्षिप्ताचित्तकस्यापि यो ऽनुबन्धः. साविज्ञप्तिर् इति उच्यते. यत् पुनर् एतद् उक्तं. अविक्षिप्तचित्तकस्य तदनुबन्धान् नैष दोष इति चेद् इति. यद्य् अविक्षिप्तचित्तस्य [तिब्. 27ब्] केवलस्य यो ऽनुबन्धः. साप्य् अविज्ञप्तिर् इति समाहिताया अविज्ञप्तेस् त्यागो न भवतीति ब्रवीषि. विज्ञप्तिर् अपि कुशलाकुशला तथैव भवतीत्य् अविज्ञप्तिस् ते प्राप्नोतीति. स चाप्य् अदोषः शुभाशुभ एवेत्य् अवधारणात्. विज्ञप्तिर् ह्य् अव्याकृतापि संभवतीति. न विज्ञप्तिर् अविज्ञप्तिः प्रसज्यते. अथ वा प्रकर्षगतेर् एष प्रसंगो न भविष्यति. प्रकर्षेण हि यो ऽनुबन्धः. सैवाविज्ञप्तिः. न च विज्ञप्तिर् अविज्ञप्तिवत् प्रकर्षेणानुबध्नातीति. अविज्ञप्त्यनिरोधे ऽपि तन्निरोधदर्शनात्. यद् अप्य् उक्तम्. अपिशब्दाधिकवचनम् इति. तद् अप्य् अयुक्तम् उक्तं. तथा ह्य् एक एवेह सूत्रे पठितो ऽपिशब्दः. वृत्तौ तु तेन पुद्गलद्वयेन तदर्थः सम्बध्यत इति द्विः पुनः पठितः. तेनैकेन सूत्रपठितेनापिशब्देन विक्षिप्तविपरीतम् अविक्षिप्तम् अचित्तकविपरीतं च तम् एव सचित्तकं तृतीयं पुद्गलम् अविज्ञप्त्याश्रयं ब्रुवन्न् आचार्यः स्वनामोक्तं विक्षिप्ताचित्तकपुद्गलद्वयं जातिसामान्येनाविज्ञप्त्याश्रयं प्रदर्शयन् विज्ञप्तिचित्तचैत्तेभ्यो ऽर्थान्तरभूताम् अविज्ञप्तिम् आचष्टे. त्रय एव हि पुद्गला भवन्ति विज्ञप्तिचित्तविसभागचित्तो विज्ञप्तिचित्तसभागचित्तो अचित्तकश् च. तत्र

विज्ञप्तिचित्तविसभागचित्तो विक्षिप्तचित्त इहाभिप्रेतः. तस्य सा वाक्कायविज्ञप्तिर् [तिब्. 28अ] निरुद्धा भवति. अचित्तकस्य तु चित्तचैत्ता अपि निरुद्धा इति. तत्र विज्ञप्तेश् चित्तचैतसिककलापाच् चार्थान्तरभूतेयम् अविज्ञप्तिः. यत एभ्यो ऽनुबन्धिनीत्वेन विशिष्यते. तम् एवार्थं दर्शयन्न् आह.

विक्षिप्ताचित्तकस्यापीति.

अविक्षिप्तचित्तस्याविज्ञप्तिर् वर्तत इति नातिशयः. विज्ञप्तिर् अपि हि तस्य वर्तते. विक्षिप्तचित्तस्यापि तु वर्तत इत्य् अतिषयः. विज्ञप्तिर् हि तस्य नास्ति. अविज्ञप्तिस् त्व् अनुबन्धिनीति विज्ञप्तेर् विशिष्यते. तथा विक्षिप्तचित्तकस्याविज्ञप्तिर् वर्तत इति नातिशयः. चित्तचैत्ता अपि हि तस्य वर्तन्त एव. अचित्तकस्यापि तु वर्तते इति अतिशयः. तस्य हि चित्तचैत्ता निरुद्धाः. अविज्ञप्तिस् त्व् अनुबन्धिनीति चित्तचैत्तेभ्यो विशिष्यते. तद् एवं धर्मान्तरविशेषणार्थं अविक्षिप्तचित्तो विक्षिप्ताचित्तकतृतीयभूतस् तेनैकेनाप्य् अपिशब्देनाभिधीयते. अत एव चापिशब्देनाविक्षिप्तसचित्तकस्यापीत्य् उक्तम् आचार्येण. तृतीयभूतत्वात्. इतरथा ह्य् अपिशब्देनाविक्षिप्तचित्तकस्यापीत्य् एवावक्ष्यत् सचित्तकस्यापीति वा. तद्यथा त्रयो लोके मनुष्याः. एको धनवान् इतराव् अपि धनमात्रवन्तौ. ताव् अभिसमीक्ष्य विष्णुमित्रस्य धनम् अस्तीत्य् एकेनोक्ते द्वितीयो वक्ता भवेत्. एवदत्तयज्ञदत्तयोर् [तिब्. 28ब्] अपि धनम् अस्तीति. अपिशब्देन विष्णुमित्रस्याप्य् अस्तीति. एवदत्तयज्ञदत्तगतेन द्वैतम् इवापन्नेनापिशब्देन स एव विष्णुमित्रो लक्ष्यते न त्व् अवसृज्यते इत्य् अर्थः. तेन नात्रापिशब्दो ऽधिक एव. तद्वद् इहापि द्रष्टव्यं. यत् पुनर् एतद् उक्तं. अचित्तकं चाधिकृत्य शुभो ऽविज्ञप्त्यनुबन्धो विशेषणीय इति. तद् अपि न किंचित्. अविज्ञप्तिजातिम् अधिकृत्यैतल् लक्षणं प्रणीतं. सा चाविज्ञप्तिजातिर् अचित्तकस्य भवतीति एतावद् विवक्षितं. किम् अनेन विशेषितेन. त्वदीये ऽप्य् अविज्ञप्तिलक्षणे शुभो ऽविज्ञप्त्यनुबन्धो अचित्तकम् अधिकृत्य न विशेषितः.

कृते ऽपि विसभागे ऽपि चित्ते चित्तात्यये च यत् व्याकृताप्रतिघं रूपं सा ह्य् अविज्ञप्तिर् इष्यत

इति. एषा च विज्ञप्तिसंभूता कुशलैवाविज्ञप्तिर् अचित्तकस्य संभवतीति चतुर्थे कोशस्थाने ज्ञापयिष्यते. यच् चाप्रतिघम् इति अविशेषितम् इति. तद् अपि पश्चाद् दर्शयिष्यामः.

सप्रतिघा दश रूपिण

इत्य् अत्र. दशैव धातवः सप्रतिघा इत्य् अवधारणात्. अविज्ञप्तिर् धर्मधातुपरिपठिता. सा त्व् अप्रतिघेति सेत्स्यति. तस्माद् इदम् आस्माकीनम् एवम् अदोषदुष्टम् अविज्ञप्तिलक्षणम् इति. तद् एवास्तु.

(i.12) भूतानि पृथिवीधातुर्

इति विस्तरः. धातुग्रहणं वर्णसंस्थानात्मकपृथिव्यादिनिरासार्थं. स्वलक्षणोपादायरूपधारणाद् [तिब्. 29अ] धातव इति. काठिन्यादिस्वलक्षणं (अभिध्-क्-व्य् 33) चक्षुराद्युपादायरूपं च दधातीति धातवः. अष्टादशधातवस् तु स्वसामान्यलक्षणधारणात्. गोत्रार्थो वा धात्वर्थः धारणार्थम् अनपेक्स्य. षड्धाधातुदेशनायां पुनर्भवबीजार्थो वा धात्वर्थः भवं पुष्णन्तीति कृत्वा. महत्त्वम् एषां सर्वान्यरूपाश्रयत्वेनौदारिकत्वाद् इति. सर्वोपादायरूपाश्रयत्वेन महत्त्वाद् इत्य् अर्थः. तदुद्भूतवृत्तिष्व् इति. तैर् महाभूतैर् उद्भूता व्यक्ता वृत्तिर् धृत्यादिका येषु. त इमे तदुद्भूतवृत्तयः पृथिव्यप्तेजोवायुस्कन्धाः. तेषु. एषां महाभूतानां महासंनिवेशत्वान् महारचनत्वात् भूतं तन्वन्तीति भूतानि.

धृत्यादिकर्मसंसिद्धा

इति. धृत्यादिकर्मनिर्देशः पृथिव्यादिषु शेषानुमानार्थं. उपलादिके हि पृथिवीद्रव्ये संग्रहपक्तिव्यूहनदर्शनाच् छेषाणां जलतेजोवायूनाम् अस्तित्वम् अनुमीयते. अप्सु नौसंधारणोष्णतेरणकर्मदर्शनात् पृथिवीतेजोवायूनाम् अस्तित्वं. अग्निज्वालायां स्थैर्यसम्पिण्डनचलनदर्शनात् पृथिव्युदकवायूनाम् अस्तित्वं. वायौ संधारणशीतोष्णस्पर्शदर्शनात् पृथिव्यप्तेजसाम् अस्तित्वम् इति वैभाषिकाः. व्यूहनं पुनर् वृद्धिः प्रसर्पणं वेति. वृद्धिः सम्बन्धाधिकशरीरंकुराद्यवयवोत्पत्तिः. प्रसर्पणं शरीरादीनां प्रबन्धेन देशन्तरोत्पत्तिः.

उष्णतेति

स्वभावाभिधाने ऽपि भावप्रत्ययः. उष्ण एव उष्णतेति. [तिब्. 29ब्] देशन्तरोत्पादनात् प्रदीपेरणवद् इति. क्षणिकानां नास्ति देशान्तरगमनं यत्रैवोत्पत्तिः. तत्रैव विनाशः. तेनैवम् उच्यते. देशान्तरोत्पादनस्वभावा भूतस्रोतस ईरणा. क्षणिकत्वात्. प्रदीपवत्. क्षणिकानि च भूतानि. रूपत्वात्. प्रदीपवत्. प्रदीपश् च क्षणिकः प्रसिद्ध इत्य् उदाहरणं. कर्मणास्य स्वभावो ऽभिव्यक्त इति. ईरणाकर्मणा लघुत्वं विशिष्यते. यद् ईरणात्मकं लघुत्वं. स वायुधातुर् इति. लघुसमुदीरणो वायुधातुः. लघ्व् एव तु यत्. तद् उपादायरूपं.

(i.13) प्रवचने पृथिवीधात्वादयः पृथिव्यादयश् चोक्ता इत्य् अतः पृच्छति. कः पुनर् एषां विशेष इति.

लोकसंज्ञयेति

लोकसंव्यवहारेण. वात्येति वातानां समूहो वात्या. ब्राह्मणादिभ्यो यन्न् इति समूहार्थे यन्प्रत्ययः. स्त्रीत्वाच् चाप्प्रत्ययः.

तथा ह्य् अर्थवर्गीयेषूक्तम् इति. अर्थवर्गीयाणि सूत्राणि क्षुद्रके पठन्ते. (अभिध्-क्-व्य् 34) तेषूक्तं.

तस्य चेत् कामयानस्येति

विस्तरः.

तस्य

देहिनः

कामयानस्य छन्दजातस्य

यदि

कामा

विषया

न समृध्यन्ते

न सम्पद्यन्ते.

शल्यविद्ध इवसौ रूप्यते.

बाध्यत इत्य् अर्थः. बाधनार्थपरिच्छिन्नेनानेन रूप्यतेशब्देन रूप्यते रूप्यत इति भिक्षव इत्य् अत्र सूत्रे रूप्यतेशब्दो बाधनार्थ एव परिच्छिद्यते. शल्यविद्धः कामयानश् च [तिब्. 30अ] दुःखवेदयितृत्वाद् बाध्यत इति युक्तं. रूपं तु कथं बाध्यते. अत आह. विपरिणामोत्पादनेति. विक्रियोत्पादनेत्य् अर्थः. तथा चेहार्थे सति

शल्यविद्ध इव रूप्यते

इत्य् अत्रापि यदि विक्रियत इत्य् अर्थो गृह्यते. सुतराम् अर्थो युज्यते. प्रतिघात इति. स्वदेशे परस्योत्पत्तिप्रतिबन्धः. परमाणुरूपं तर्हीति. द्रव्यपरमाणुरूपं न रूपं प्राप्नोति. कस्मात्. अरूपणात्. निरवयवत्वे सति अरूपणाद् इत्य् अभिप्रायः. पक्षद्वये ऽप्य् एतच् चोद्यम् उपन्यस्तं. बाधनरूपणे प्रतिघातरूपणे च द्रव्यपरमाणुर् निरवयवत्वान् न शक्यते रूपयितुम् इति. न वै परमाणुरूपम् एकं पृथग्भूतम् अस्तीति. एकम् इति ग्रहणं द्रव्यपरमाणुसंदर्शनार्थं. पृथग्भूतम् असंघातस्थम् इत्य् अर्थः. तद् ईदृग् नास्ति. संघातस्थं नित्यं भवति.

कामे ऽष्टद्रव्यको ऽशब्द

इत्यादिवचनात् संघातस्थं तद् रूप्यत एवेति. अर्थाद् एतद् अभीष्टं भवति. तद् द्रव्यपरमाणुरूपं संघातस्थं रूप्यते बाध्यते प्रतिहन्यते च. अतीतानागतं तर्हीति विस्तरः. अतीतानागतम् अदेशत्वान् न रूप्यते न बाध्यते नापि प्रतिहन्यते. तद् अपीति विस्तरः. [तिब्. 30ब्] तद् अपि रूपितम् इत्य् अतीतबाधनप्रतिघातनार्थेन. रूपयिष्यमाणम् इत्य् उत्पत्तिधर्मकम् अनागतं. तेनैवार्थद्वयेन. तज्जातीयं चेत्य् उत्पत्तिधर्मकजातीयम् अनुत्पत्तिधर्मकम् (अभिध्-क्-व्य् 35) अनागतं. इंधनवत्. यद् अपीद्धं यद् अपीन्धिष्यमाणं तज्जातीयं च. तद् अपीन्धनम्. तज्जातीयं पुनर् इन्धनं यद् इन्धनार्थे कल्पितम् अप्राप्यैवाग्निम् अंतरा नंक्ष्यति. अविज्ञप्तिस् तर्हि न रूपं प्राप्नोति. कस्मात्. अप्रतिघत्वात्. अप्रतिघत्वेन हि सा न बाध्यते नापि प्रतिहन्यते. सापि विज्ञप्तिरूपणाद् इति विस्तरः. विज्ञप्तिर् अविज्ञप्तिसमुत्थापिका. तस्याः सप्रतिघाया रूपणात् अविज्ञप्तिर् अपि रूप्यते. यथा छायासमुत्थापकस्य वृक्षस्य प्रचलनात् छाया प्रचलति. तद्वत्. नाविकाराद् इति. अनेन प्रतिज्ञादोष उद्ग्राह्यते. परेण ह्य् एवं प्रतिज्ञातं. स्वसमुत्थापकविकारानुविधायिनी अविज्ञप्तिः. समुत्थाप्यत्वात्. वृक्षछायावद् इति. सेयं पूर्वाभ्युपगमविरोधिनी प्रतिज्ञा. अभ्युपगतो हि विज्ञप्तेर् विकारे ऽपि अविज्ञप्तेर् अविकारः. तथा ह्य् अंजलिं भंक्त्वा कपोतं कुर्वतः कायविज्ञप्तिर् विक्रियत इत्य् अभ्युपगम्यते न त्व् अविज्ञप्तिः. तस्माद् असाधनम् एतत्. विज्ञप्तिनिवृत्तौ वाविज्ञप्तिनिवृत्तिः स्याद् [तिब्. 31अ] इत्य् अनेन धर्मिविशेषविपर्ययो ऽप्य् अस्याः प्रतिज्ञाया उद्ग्राह्यते. यदि वृक्षछायाधर्म इष्यते वृक्षनिवृत्तौ छायानिवृत्तिर्

दृष्टेति. तद्वत् स्यात्. अत्र कश्चिन् नाविकाराद् इति न सम्यग् एतद् उक्तम् इति दूषयति. विक्रियत एवाविज्ञप्तिर् विज्ञप्तिविकारे सति. मृदुमध्याधिमात्रत्वे हि विज्ञप्तेर् मृदुमध्याधिमात्रता भवत्य् अविज्ञप्तेर् इति. तद् एतद् अयुक्तं. कस्मात्. उत्पत्तिर् एवाविज्ञप्तेर् एवं भवति. मृदुर् मध्याधिमात्रा वा. न तु विकारः. उत्पन्नस्य हि धर्मस्य पुनरन्यथोत्पादनं विकारः. तच् च रूपणम् अभिप्रेतम्. आश्रयभूतरूपणाद् इति अपर इति. वृद्धाचार्यवसुबन्धुः. भूतग्रहणम् आश्रयभूतप्रदर्शनार्थं. अतश् चेतरः प्रसंजयति. एवं तर्हि चक्षुर्विज्ञानादीनाम् अपीति विस्तरः. चक्षुराद्याश्रयरूपणात् तद्विज्ञानानाम् अपि रूपत्वप्रसंगः. विषमो ऽयम् उपन्यास इति. वृद्धाचार्यवसुबन्धुदेशीयः कश्चित् परिहरति. अविज्ञप्तिर् हीति विस्तरः. छाया वृक्षम् उपश्लिष्टाश्रित्य वर्तते. प्रभापि मणिं तथैव. उत्पत्तिनिमित्तमात्रं तानि तेषाम् इति. नोपश्लिष्टानीति भावः. तम् इतरः इतरः. प्रत्याह. इदं तावद् अवैभाषिकीयम् इति विस्तरः. नैतद् वैभाषिकमतं. वैभाषिकमतं तु छाया वर्णपरमाणुः स्वभूतचतुष्कम् आश्रित्य वर्तते [तिब्. 31ब्] न वृक्षं. तथा प्रभा वर्णपरमाणुः स्वभूतचतुष्कम् आश्रित्य वर्तते न मणिं. पृथग्द्रव्यत्वात्. इत्य् एवम् अनाश्रयकारणत्वान् मणिवृक्षयोः न महाभूतविज्ञप्तिवत् उपश्लिष्टे छायाप्रभे इति असामान्यं दृष्टान्तदार्ष्टान्तिकयोः. सत्य् अपि च तदाश्रितत्व इति विस्तरः. अथापि पारंपर्येण तदाश्रितत्वम् अभ्युपगम्यते. छाया स्वभूताश्रिता. तानि तु भूतानि वृक्षम् आश्रितानि. प्रभापि स्वभूताश्रिता. तानि तु भूतानि मणिम् आश्रितानि. तदनुविधायित्वात्. तथाप्य् असामान्यं. (अभिध्-क्-व्य्

36) निरुद्धेष्व् अप्य् अविज्ञप्त्याश्रयेषु महाभूतेषु तस्या अनिरोधाभ्युपगमाद् इति.

क्षणाद् ऊर्ध्वम् अविज्ञप्तिः कामाप्तातीतभूतजेति

सिद्धान्तात्. तस्मान् न भवत्य् एष परिहार इति. य उक्तो ऽभूद् अविज्ञप्तिर् हि छायेव वृक्षम् इति विस्तरेण.

अन्ये पुनर् अत्र परिहारम् आहुर् इति. अयम् एवाचार्यस् तन् मतं समर्थयन्न् आह. आश्रयो भेदं गत इति. द्विविध इत्य् अर्थः. कश्चिद् रूप्यते चक्षुरादिः सप्रतिघत्वात्. कश्चिन् न रूप्यते. मनः. विपर्ययात्. तस्माद् असमानः प्रसंग इति. चक्षुर्विज्ञानादीनाम् अप्य् आश्रयभूतरूपणाद् रूपत्वप्रसंग इति. रूपणाद् रूपम् इत्य् आश्रयरूपणाद् इत्य् अर्थः.

अत्र चोदयन्ति. विज्ञप्तिसंभूताया अविज्ञप्तेर् एवं परिकरेण रूपत्वं भवद् भवेत्. समाधिसंभूतायास् तु कथं रूपत्वम् इति. तज्जातीयत्वात् तद् अपि रूपं. [तिब्. 32अ] किं पुनस् तज्जातीयत्वं. महाभूतान्य् उपादायेति भावः. तेषाम् उपादायरूपजननादिहेतुभूतत्वाद् इति.

(i.14अब्) इन्द्रियार्थास् त एवेति

भगवतो विनेयवशात् तिस्रो देशनाः स्कन्धायतनधातुदेशनाः. तासु च ये स्कन्धेषु देशिता धर्माः. त एव आयतनधातुषु देशिताः. असंस्कृतास् त्व् अत्र केवलम् अतिरिक्ताः. सर्वश् चाभिधर्मः सूत्रव्याख्यानं. अत इदम् उक्तं.

इन्द्रियार्थास् त एवेति

विस्तरः. लाघविकश् चायम् आचार्यो वेदनादिस्कन्धलक्षणम् अनुक्त्वैव लाघवेन रूपस्कन्धस्वभावान् धर्मान् आयतनधातुषु दर्शयति. इन्द्रियाणि च इन्द्रियार्थाश् च

इन्द्रियराहाः. त एवेति

विशेषणम् अन्येन्द्रियनिरासार्थं अन्यार्थनिरासार्थं च. आयतनव्यवस्थायां तु यथासंख्येन दशायतनानि चक्षुरायतनं रूपायतनं यावत् कायायतनं स्प्रष्टव्यायतनम् इति. धातुव्यवस्थायां त एव दश धातवः चक्षुर्धातू रूपधातुर् यावत् कायधातुः स्प्रष्टव्यधातुर् इति.

(i.14च्द्, 15) उक्तो रूपस्कन्धस् तस्य चायतनधातुव्यवस्थानम् इति. न सकलस्य रूपस्कन्धस्यायतनधातुव्यवस्थानम् उक्तं. अविज्ञप्तिरूपस्य वक्ष्यमाणत्वात्. कथम् इदम् उच्यते. उक्तम् इति. बाहुलिको निर्देशः. बाहुल्येन रूपस्कन्धस्यायतनधातुव्यवस्थानम् उक्तम् इत्य् अर्थः. कतिपयमुद्गगुलिकासम्भवे ऽपि माषराशिव्यपदेशवत्.

त्रिविधो ऽनुभव इति. [तिब्. 32ब्] अनुभूतिर् अनुभव उपभोगः. कस्य. चित्तस्य पुद्गलस्य वा. स च त्रिविधः. सुखो दुःखो ऽदुःखासुखश् च. (अभिध्-क्-व्य् 37) वस्तुनो ह्लादपरितापतदुभयविनिर्मुक्तस्वरूपसाक्षात्करणस्वभावः. अनुभूयते वानेन विषय इत्य् अनुभवः. अनुभवतीति वानुभवः. कायचित्तोपचयापचयतदुभयविनिर्मुक्तावस्थाप्रवृत्तश् चैअसिकविशेषः स्पर्शानुभव इत्य् अपरे. अनुर् लक्षणे स्पर्शचिह्नः. स्पर्शनिमित्तानुभव इत्य् अर्थः. स वेदनास्कन्धः. निमित्तोद्ग्रहणात्मिकेति. निमित्तं वस्तुनो अवस्थाविशेषो नीलत्वादि. तस्योद्ग्रहणं परिच्छेदः. तदात्मिका तत्स्वभावा. दुःखादीत्य् आदिशब्देन लोहितादीनां ग्रहणम्. असौ संज्ञास्कन्धः. यदि परिच्छेदात्मिका संज्ञा तत्संप्रयोगे निमित्तम् उद्गृह्णन्तीति पंचापि विज्ञानकाया विकल्पकाः स्युः. न स्युः. न हि पंचविज्ञानसंप्रयोगिनी संज्ञापट्वी. मनोविज्ञानकायसंप्रयोगिनी तु पट्वीति तद् एव विकल्पकम् उक्तं. षट् संज्ञाकाया वेदनावद् इति. यथा चक्षुःसंस्पर्शजा वेदनेति विस्तरेणोक्तं. तथा चक्षुःसंस्पर्शजा संज्ञेति विस्तरेण वक्तव्यं.

चतुर्भ्यो ऽन्य

इति. चतुर्भ्यः स्कन्धेभ्यः स्कन्धाधिकारात्. रूपस्कन्धादिभ्यस् [तिब्. 33अ] त्रिभ्य उक्तेभ्यो विज्ञानस्कन्धाच् चोद्दिष्टवक्ष्यमाणकाच् चतुर्भ्यो ऽन्ये संस्काराः संस्कारस्कन्धः. सूत्रे षट् चेतनाकाया इत्य् उक्तम् इति. संस्कारस्कन्धः कतमः. षट् चेतनाकाया इति. अभिसंस्करणे प्रधानेति. एवं चैवं च स्याम् इत्य् अभिसंस्करणे प्रधाना. कर्म हेतुर् उपपत्तय इति वचनात्. छन्दप्राप्त्यादयस् तु चेतनानुविधायित्वात् तदाकारहेतुभावानुविधानतः संस्कारस्कन्ध एव वेदितव्याः. तद् एवं सति संस्करणे प्रवृत्तो धर्मराशिः संस्कार इत्य् उक्तं भवति. अपरे पुनर् आहुः. संस्कृताभिसंस्करणे चेतनायाः प्राधान्यम् उक्तम्. अतः सूत्रे चेतनाग्रहणं. संप्रयुक्तविप्रयुक्तसंस्कृतधर्मसंग्रहेण तु प्राधान्याद् अयम् एव स्कन्धः संस्कारस्कन्ध उक्तः. संस्कृतराशिर् इति कृत्वा. संस्कृतम् अभिसंस्करोतीति भाविन्या संज्ञया अनागतं स्कन्धपंचकं संस्कृतम् इत्य् उक्तम्. अन्यथा हीति विस्तरः. यदि यथासूत्रनिर्देशं चेतनैव केवला संस्कारस्कन्ध इष्यते नान्ये. शेषाणां छन्दादीनां चैतसिकानां प्राप्त्यादीनां च चित्तविप्रयुक्तानां स्कन्धासंग्रहात्. रूपादिषु स्कन्धेषु रूपणादिलक्षणाभावेनासंग्रहात्. संस्कारस्कन्धे चैवं. सूत्रे यथारुतग्रहणेनासंग्रहात्. इति स्कन्धेष्व् असंग्रहाद् दुःखसमुदयसत्यत्वं न स्यात्. इति परिज्ञाप्रहाणे न स्यातां. [तिब्. 33ब्] परिज्ञा दुःखस्य प्रहाणं समुदयस्य. अनभिज्ञाय लौकिकेन मार्गेण अपरिज्ञाय लोकोत्तरेण. अथ वानभिज्ञाय दर्शनमार्गेण अपरिज्ञाय भावनामार्गेणा. एवम् अप्रहायेत्य् उक्तम् इति सूत्रान्तरं. नहम् एकधर्मम् (अभिध्-क्-व्य् 38) अपि अपरिज्ञायाप्रहाय

दुःखस्यान्तक्रियां वदामीति. दुःखनिरोधं वदामीत्य् अर्थः. ननु चाकाशाप्रतिसंख्यानिरोधौ लोकोत्तरेण मार्गेण न परिज्ञायेते. अथ च दुःखस्यान्तक्रियेष्यते. संक्लेशवस्त्वभिसंधिवचनात्. सौत्रान्तिकदर्शनेन च प्रज्ञप्तिसत्त्वाद् अदोषः. न हि तौ संक्लेशवस्तू. किम् अनयोः परिज्ञेयत्वेन. निरोधमार्गसत्ये अपि तर्हि न संक्लेशवस्तू इति न परिज्ञेये स्यातां. दुःखसमुदयसत्यसंबन्धसद्भावात् तयोः परिज्ञेयत्वं व्यवस्थाप्यते. तथा हि योगिन एवं विचारयन्ति. अस्य सहेतुकस्य दुःखस्य को निरोधः. केन चोपायेन स निरोधः प्राप्यत इति. निरोधमार्गसत्ये अपि परिजानन्ति. न त्व् आकाशाप्रतिसंख्यानिरोधयोर् दुःखेन सम्बन्ध इति न तौ परिजानन्ति. प्रयोगावस्थायां तु लौकिकेन ज्ञानेन ताव् अपि सामान्यरुपेण सर्वधर्मा अनात्मान इति भावयन्ति.

धर्मायतनधात्वाख्या

इति. आयतनं च धातुश् चायतनधातू. धर्मश् चासाव् आयतनधातुश् च धर्मायतनधातुः. तदाख्या एषां त इमे धर्मायतनधात्वाख्याः.

के. वेदनासंज्ञासंस्कारस्कन्धाः.

सहाविज्ञप्त्यसंस्कृतैर्

इति. सहाविज्ञप्त्या सहासंस्कृतैश् चाकाशादिभिः. [तिब्. 34अ] आयतनदेशनायां धर्मायतनम् इति. धातुदेशनायां च धर्मधातुर् इति. सप्त द्रव्याणीति. अविज्ञप्तिर् वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धः आकाशं प्रतिसंख्यानिरोधो ऽप्रतिसंख्यानिरोधश् चेति.

(i.16) विज्ञानं प्रतिविज्ञप्तिर्

इति. विज्ञानस्कन्धः प्रतिविज्ञप्तिर् इत्य् अर्थः स्कन्धाधिकारात्. प्रतिर् वीप्सार्थः. विषयंविषयं प्रतीत्य् अर्थः. उपलब्धिर् वस्तुमात्रग्रहणं. वेदनादयस् तु चैतसा विशेषा विशेषग्रहणरूपाः. षड् विज्ञानकाया इति षड् विज्ञानसमूहाः.

षड् विज्ञानान्य् अथो मन

इति. षड् विज्ञानधातवो याथासंख्येन यश् चक्षुर्विज्ञानं. स चक्षुर्विज्ञानधातुः. एवं यावत् यन् मनोविज्ञानं. स मनोविज्ञानधातुः. समस्तानि त्व् एतानि षट् मनोधातुर् इति वेदितव्यं.

(i.17अब्) षण्णाम् अनन्तरातीतं विज्ञानं यद् धि. तन् मन

इति.

षण्णाम्

इति निर्धारणे षष्ठी. तेषाम् एव मध्ये नान्यद् इत्य् अर्थः. अनन्तरग्रहणम् (अभिध्-क्-व्य् 39) अन्यविज्ञानव्यवहितनिवृत्त्यर्थं. यद् धि यस्यानन्तरम् अन्यविज्ञानाव्यवहितं. [तिब्. 34ब्] तत् तस्याश्रयः. व्यवहितं तु न तस्याश्रयः. अन्यस्यासाव् आश्रयः. यस्य तदव्यवहितं. अत एवाचित्तिकावस्थायां चिरातीतम् अपि समापत्तिप्रवेशचित्तं व्युत्थानचित्तस्याश्रयो भवति. विज्ञानान्तराव्यवधानात्. अतीतग्रहणं प्रत्युत्पन्ननिरासार्थं. मनोविज्ञानं हि आश्रयि तस्याम् अवस्थायां प्रत्युतपन्नं. अतस् तद् अतीतम् इष्यते. तद् एव चैतद् उच्यते.

षष्ठाश्रयप्रसिद्ध्यर्थम्

इति. विज्ञानग्रहनं वेदनाद्यनन्तरातीतनिवृत्त्यर्थं.

यद् धि. तन् मन

इति जातिनिर्देशान् न वीप्साप्रयोगः. वृत्तौ तु द्रव्यपदार्थाभिधित्सया वीप्साप्रयोगः. यद्यत् समनन्तरनिरुद्धं विज्ञानं तत्तन् मनोधातुर् इति. तद्यथा स एवेति विस्तरः. तद्यथा स एव पुत्रो ऽन्यस्य पित्राख्यां लभते. तद् एव फलम् अन्यस्य बीजाख्यां. तथेहापि स एव चक्षुरादिविज्ञानधातुर् अन्यस्याश्रय इति मनोधात्वाख्यां लभते.

(i.17च्द्) सप्तदश धातवो भवन्ति द्वादश वेति. य एव षड्विज्ञानधातवः. स एव मनोधातुः. य एव च मनोधातुः. त एव च षड्विज्ञानधातव इति इतरेतरान्तर्भावे यदि षड्विज्ञानधातवो गृह्येरन् नार्थो मनोधातुनेति सप्तदश धातवो भवन्ति. यदि मनोधातुर् गृह्येत नार्थः साड्विज्ञानधातुभिर् इति द्वादश धातवो भवन्ति.

षष्ठाश्रयप्रसिद्ध्यर्थम्

इति. पंचानां विज्ञानधातूनां आश्रयप्रसिद्धिर् नांगीक्रियते चक्षुरादिस्वाश्रयसंभवात्. मनोविज्ञानाश्रयो नास्तीति तदाश्रयप्रसिद्ध्यर्थं [तिब्. 35अ] मनोधातुर् व्यवस्थाप्यते. आश्रयादिषट्कव्यवस्थानेनाष्टादश धातवो भवन्ति. आश्रयषट्कं चक्षुरादिमनोन्तं. आश्रितषट्कं चक्षुर्विज्ञानादिमनोविज्ञानान्तं. आलम्बनषट्कं रूपादिधर्मान्तम् इति. योगाचारदर्शनेन तु षड्विज्ञानव्यतिरिक्तो ऽप्य् अस्ति मनोधातुः. ताम्रपर्णीया अपि हृदयवस्तु मनोविज्ञानधातोर् आश्रयं कल्पयन्ति. तच् चारूप्यधाताव् अपि विद्यत इति वर्णयन्ति. आरूप्यधाताव् अपि हि तेषां रूपम् अभिप्रेतं. आरूप्य इति एच् ईषदर्थे आङ् आपिंगलवद् इति. चरमं चित्तम् इति. निरुपधिशेषनिर्वाणकाले. न मनो भविष्यतीति. न मनोधातुर् भविष्यतीत्य् अर्थः. न हि तद् अस्तीति. नोत्पद्यत इत्य् अर्थः. न. तस्यापि मनोभावेनेति विस्तरः. नैतद् एवं. कस्मात्. तस्यापि चरमचित्तस्य मनोभावेनाश्रयत्वेनावस्थितत्वात्. अन्यकारणवैकल्याद् इति. पौनर्भविककर्मक्लेशकारणवैकल्यात्. नोत्तरविज्ञानसंभूतिर् इति. न पुनर्भवप्रतिसंधिविज्ञानम् इत्य् अभिप्रायः.

इदम् इह विचार्यते. उक्तम् एतत्. आश्रयाश्रितालम्बनषट्कव्यवस्थानाद् अष्टादश धातवो भवन्तीति. आश्रितषट्कं तावद् व्यवस्थाप्यते. चक्षुर्विज्ञानधातुर् यावन् मनोविज्ञानधातुर् इति. किम् अस्याश्रितषट्कस्य यथासंख्यं आश्रयषत्कं व्यवस्थाप्यते. चक्षुर्विज्ञानधातोर् आश्रयश् चक्षुर्धातुर् [तिब्. 35ब्] यावन् मनोविज्ञनधातोर् मनोधातुर् आश्रय इति. ओम् इत्य् आह. यदा तर्हि चक्षुस् तत्सभागं भवति. तत् कस्याश्रयः. न कस्यचित्. कथं तर्हीदम् उक्तं. चक्षुर्विज्ञानधातोश् चक्षुर्धातुर् आश्रय इत्यादि. आश्रय एव चक्षुः. यस् तु किंचिदनाश्रयस् तत्सभागं चक्षुः. तद् अपि तज्जातीयत्वात् चक्षुर्धातुत्वेन व्यवस्थाप्यत एव. एवं यावत् कायधातुर् वक्तव्यः. मनोधातुर् अपि किं मनोविज्ञानधातोर् एवाश्रयः. नेत्य् आह. चक्षुर्विज्ञानधात्वादीनाम् अपि हि स आश्रय इष्यते. तथा हि वक्ष्यति.

चरमस्याश्रयो ऽतीतः. पंचानां सहजश् च तैर्

इति. किं तर्हीदम् उक्तं.

षष्ठाश्रयप्रसिद्ध्यस्थं धातवो ऽष्टादश स्मृता

इति. नान्येषाम् आश्रयः स इति कृत्वा षष्ठाश्रयप्रसिद्धिर् न भवति. षष्ठस्याप्य् अयम् आश्रयो भवति संभवतः. आलम्बनषट्कम् अपि. चक्षुर्विज्ञानधातोर् आलम्बनं रूपधातुर् यावन् मनोविज्ञानधातोर् धर्मधातुर् आलम्बनम् इति. तद् इदं विचार्यते. किं यथा चक्षुर्विज्ञानधातोर् यावन्ति रूपाणि आलम्बनं. स रूपधातुः. एवं यावत् कायविज्ञानधातोर् यावन्ति स्प्रष्टव्यान्य् आलम्ब्नं. स स्प्रष्टव्यधातुः. एवं मनोविज्ञानधतोर् यावन्तो धर्मा आलम्बनं. स धर्मधातुर् इति. अत्र स्थविर आह. सर्वधर्मस्वभावो धर्मधातुर् अष्टादशधातुस्वभाव इत्य् अर्थः. कथम् अस्याध्यात्मिकबाह्यधातुव्यवस्था सिध्यति. चक्षुरादयो हि द्वादशाध्यात्मिका इष्यन्ते. षड् बाह्या इति. [तिब्. 36अ] यदि हि ते ऽपि धर्मधाताव् अन्तर्भाव्येरन् सांकर्यं प्राप्नोति. स्थविर आह. पार्यायिकम् एषाम् आध्यात्मिकबाह्यत्वं. विज्ञानानाम् आश्रयास् ते चक्षुरादय इत्य् आध्यात्मिकाः. मनोविज्ञानविषयत्वात् तु बाह्या इति. तद् एवं नेच्छन्ति वैभाषिकाः. सूत्रविरोधात्. एवं हि सूत्र उक्तं. धर्मा भिक्षो बाह्यम् आयतनम् एकादशभिर् आयतनैर् असंगृहीतम् अनिदर्शनम् अप्रतिघम् इति. तस्मात् सप्तद्रव्यको धर्मधातुर् एष्टव्यः. अविज्ञप्तिवेदनासंज्ञासंस्कारस्कन्धाकाशप्रतिसंख्यानिरोधप्रतिषंख्यानिरोधस्वभावत्वात्. अपरिपूर्णस् तर्हि मनोविज्ञानधातोर् आलम्बननिर्देशः. न च चक्षुर्विज्ञानादीनाम् अपरिपूर्ण अलम्बननिर्देश इष्यते. अस्त्य् एतद् एवं. किं तु चक्षुरादीनां षण्णाम् आश्रयत्वेन निर्देशाच् चक्षुर्विज्ञानादीनां चाश्रितत्वेन रूपादीनां च पंचानां पंचविज्ञानकायालम्बननिर्देशान् (अभिध्-क्-व्य् 41) न तेशां मनोविज्ञानविषयत्वे ऽपि धर्मधातौ प्रक्षेप इति वर्णयन्ति.

(i.18) समासतस् तु ज्ञातव्यः सर्वसंग्रह

इति. आयतनादिभिर् अपि सर्वसंग्रहः. न तु समासतः. किं तर्हि. विस्तरतः. अयं तु देशनात्रयान् निष्कृष्य समासत उक्तः. रूपस्कन्धेन रूपस्कन्धः संगृहीतो दश चेन्द्रियार्थस्वभावान्य् आयतनानि धातवश् च. धर्मायतनधात्वेकदेशश् चाविज्ञप्तिः. [तिब्. 36ब्] मनआयतनेन विज्ञानस्कन्धः. तद् एव च मनआयतनं सप्तचित्तधातवश् च संगृहीताः. धर्मधातुना वेदनासंज्ञासंस्कारस्कन्धाः संगृहीताः धर्मायतनं धर्मधातुश् च. अविज्ञप्तिर् इह द्विः संगृहीता. तद्यथा चक्षुरिन्द्रियम् इति. चक्षुरिन्द्रियं वेदनादिस्कन्धश्रोत्राद्यायतनधातुनिरोधसत्यमार्गसत्यस्वभावेन वियुक्तं. अत एतद् उक्तं. चक्षुरिन्द्रियं रूपस्कन्धेन चक्षुरायतनधातुभ्यां दुःखसमुदयसत्याभ्यां च संगृहीतं तत्स्वभावत्वात्. नान्यैः स्कन्धादिभिस् तद्भाववियुक्तत्वाद् इति. महतात्राल्पकं संगृहीतं. न तु महद् अल्पकेन. कथम् इति. रूपस्कन्धो महान् सर्वरूपसंग्राहकत्वात्. चक्षुरिन्द्रियम् अल्पकं रूपस्कन्धैकदेशत्वात्. रूपस्कन्धेन चक्षुरिन्द्रियं संगृहीतं. न तु चक्षुरिन्द्रियेण रूपस्कन्धः. चक्षुरिन्द्रियव्यतिरिक्तरूपस्कन्धसद्भावात्. तद्यथा हस्तिपदेन पक्षिपदं संगृहीतं. न तु पक्षिपदेन हस्तिपदं संगृहीतं. तद्वत्. समेन तु समम् अन्योन्यं संगृहीतं. तद्यथा चक्षुरिन्द्रियं चक्षुरायतनेन. चक्षुरायतनम् अपि चक्षुरिन्द्रियेणेत्य् अयम् अभिधर्मनयो वेदितव्यः. यथा संग्रहवस्तुभिः पर्षदाम् इति. चत्वारि संग्रहवस्तूनि. दानं प्रियवादिता अर्थचर्या समानार्थता च. चतस्रः पर्षदब् भिक्षुभिक्षुण्युपासकोपासिकाः. [तिप्. 37अ] तैस् तासां संग्रहः. स तु कादाचित्कः. कदाचिद्भवः कादाचित्कः. कदाचिद् आसां दीयते प्रियं चोच्यते. न चे संग्रह इति. सांकेतिकः सांव्यवहारिकः. स्वभावसंग्रहस् तु पारमार्थिक इत्य् उक्तं.

(i.19अब्) जातिगोचरविज्ञानसामान्याद् एकधातुता द्वित्वे ऽपि चक्षुरादीनाम्

इत्य् अर्थाद् एतद् उक्तं भवति. जात्यादिभेदाद् यथासंभवं धातुभेदव्यवस्थानं. न त्व् अधिष्ठानभेदाद् इति. तत्र चक्षुर्धात्वादीनाम् अन्योन्यं जातिगोचरविज्ञानभेदो भवति. रूपधात्वादीनां जातिविज्ञानभेदः. विज्ञानधातूनां जातिगोचरभेदः. मनोविज्ञानस्यापि हि धर्मधातुर् असाधारणो गोचरः. एवं श्रोत्रघ्राणयोर् अपि योज्यम् इति. जातिसामान्यम् उभयोः श्रोत्रस्वभावत्वात्. गोचरसामान्यम् उभयोः शब्दविषयत्वात्. (अभिध्-क्-व्य् 42) विज्ञानसामान्यम् उभयोर् एकश्रोत्रविज्ञानाश्रयत्वात्. तस्माद् एक एव श्रोत्रधातुः. एवं घ्राणस्यापि योज्यं.

(i.19च्द्) कार्यान्तराभावात् तर्हि द्वयानुत्पत्तिप्रसंगः स्याद् इत्य् अत आह.

शोभार्थं तु द्वयोद्भव

इति. एकचक्षुःश्रोत्राधिष्ठानैकनासिकाबिलसंभवान् महद् वैरूप्यं स्याद् इत्य् एकस्य चक्षुःश्रोत्राधिष्ठानस्य एकस्य च नासिकाबिलस्य संभवान् महद् वैरूप्यं स्यात्. ननु चोष्ट्रमार्जारोलूकप्रभृतीनां चक्षुरादिद्वयोद्भवे ऽपि न भवत्य् आश्रयशोभा. जात्यन्तरापेक्षया [तिब्. 37ब्] न तेषाम् आश्रयशोभा. स्वजात्यपेक्सया तु यस्य चक्षुरादिद्वयम् अस्ति. तस्य तस्यां स्वजाताव् आश्रयशोभा. यस्य नास्ति. तस्य वैरूप्यम् इति. अदूष्यम् एतत्. आचार्यसंघभद्रस् त्व् अस्य सूत्रस्यार्थं विवव्रे. शोभार्थम् इत्य् आधिपत्यार्थम् इत्य् अर्थः. आधिपत्यसंपन्नो हि लोके शोभतीत्य् अपदिश्यते. येषां चेन्द्रियाणां अमून्य् अधिष्ठानानि. तेषां परिशुद्धदर्शनश्रवणघ्राणायाधिपत्यं स्यात्. न हि यथा द्वाभ्यां चक्षुर्भ्यां परिशुद्धं दर्शनं भवति तथैकेन. एवम् इतरयोर् अपि. एवं चैषाम् इन्द्रियत्वं हीयेत. तदर्थम् एतद् उक्तं स्याद् इति. स्फुटोपलब्ध्यर्थम् इत्य् अर्थः. इहापि शक्यम् एवं वक्तुम्. एकम् एव परिस्फुटोपलब्ध्याश्रयभूतं विस्तीर्णं कर्मणोत्पाद्यतां. किम् आश्रयविच्छेदेनेति. विभाषायां तु लिखितम् एतत् पक्षद्वयं. शोभार्थं द्वयोद्भव इत्य् एको व्यक्त्यर्थम् इत्य् अपर इति. अलं प्रसंगेन. ननु च कर्मवशात् इन्द्रियद्वयोत्पत्तिः. किम् अन्यद् एवोच्यते शोभार्थं व्यक्त्यर्थं चेति. कर्मवशाद् एवात्रेन्द्रियद्वयोद्भव उक्तः. कथम् इति. एवं विभक्तावयवाश्रयेणानादिकालाभ्यस्तः शोभाभिमानः सत्त्वानां प्रवर्तते. अतस् तदभिलाषपूर्वकेण स्फुटोपलब्ध्यभिलाषपूर्वकेण च कर्मणा तद् इन्द्रियद्वयम् [तिब्. 38अ] अभिनिर्वर्तमानं शोभार्थं व्यक्त्यर्थं चोद्भवतीत्य् उच्यते.

(i.20अब्) राश्यायद्वारगोत्रार्थाः स्कन्धायतनधातव

इति. यथाक्रमं राशिः आयद्वारं गोत्रं चार्थ एषां. त इमे राश्यायद्वारगोत्रार्थाः. के. स्कन्धायतनधातुशब्दाः. अथ वा राश्यायद्वारगोत्रशब्दानाम् अर्थाः. के. स्कन्धायतनधातवः. सूत्रे वचनात्. सूत्रे राश्यर्थः स्कन्धार्थ इति. राशेर् यो ऽर्थः. स स्कन्धस्यार्थः. तं सूत्रेण दर्शयति. यत् किंचिद् रूपम् अतीतानागतप्रत्युत्पन्नम् इति विस्तरः. ऐकध्यम् इति. एकधैवैकध्यं. अनित्यतानिरुद्धम् इति. अनित्यतया संस्कृतलक्षणेन (अभिध्-क्-व्य् 43) निरुद्धम् इत्य् अर्थः. अनित्यताग्रहणं अन्यनिरोधनिरासार्थं. पंचविधो हि निरोधं. लक्षणनिरोधः समापत्तिनिरोध उपपत्तिनिरोधः प्रतिसंख्यानिरोधो ऽप्रतिसंख्यानिरोधश् च. तद् यद्य् अतीतं रूपं निरुद्धम् इत्य् एव ब्रूयात्. अविशेषितत्वात् समापत्तिनिरोधादीनाम् अपि प्रसंगः स्यात्. न च तैर् अतीतार्थतेष्यते. समापत्तिनिरोधो ह्य् अनागतानाम् एव चित्तचैत्तानाम्. उपपत्तिनिरोधो ऽप्य् एषाम् एव. प्रतिसंख्यानिरोधः सास्रवाणाम् एव. अप्रतिसंख्यानिरोधो ऽप्य् अनुत्पत्तिधर्माणाम् एवानागतानां. तस्माल् [तिब्. 38ब्] लक्षणनिरोधग्रहणार्थम् इदम् अनित्यताग्रहणं. अनागतम् अनुत्पन्नम् इति. प्रत्युत्पन्नताम् असंप्राप्तं. प्रत्युत्पन्नम् उत्पन्नानिरुद्धम् इति. उत्पन्नग्रहणम् अनागतविशेषणार्थं. अनिरुद्धग्रहणम् अतीतविशेषणार्थं. अनागतं यद्य् अप्य् अनिरुद्धं न तूत्पन्नम्. अतीतम् अपि यद्य् अप्य् उत्पन्नं न त्व् अनिरुद्धम् इति. आध्यात्मिकं स्वासांतानिकम् इति. चक्षुरादिकं रूपादिकं च. बाह्यम् अन्यद् इति. तद् एव पारसांतानिकम् असत्त्वसंख्यातं च. आयतनतो वेति. आध्यात्मिकं चक्षुरादिपंचकं स्वपरसंततिपतितं.

द्वादशाध्यात्मिका

इति वचनात्. बाह्यम् अन्यद् रूपादिकं विषयपंचकं स्वपरसंततिपतितम्. असत्त्वसंख्यातं चाविज्ञप्तिश् च. बाह्यायतनस्वभावम् इति कृत्वा. औदारिकं सप्रतिघम् इति. परमाणुसंचयस्वभावं. सूक्ष्मम् अप्रतिघं. अविज्ञप्तिरूपं. आपेक्षिकं वेति. अपेक्षया वा औदारिकं सूक्ष्मं च भवति. तद्यथा लिक्षाम् अपेक्ष्य औदारिकी यूका. यूकाम् अपेक्ष्य सुक्ष्मा लिक्षेति. तद् एवं सति सप्रतिघम् एव औदारिकं च सूक्ष्मं भवति. अप्रतिघं तु सूक्ष्मम् एवासंचितत्वात्. आपेक्षिकत्वाद् असिद्धम् इति. सैव सूक्ष्मा लिक्षा वातायनरजो ऽपेक्ष्य औदारिकी. सैव च औदारिकी यूकाम् अपेक्ष्य सूक्ष्मेति अव्यवस्थितम् औदारिकसूक्ष्मत्वं पारापारवत्. कथं हि नाम. औदारिकं सूक्ष्मं भवति सूक्ष्मं च औदारिकम् इति. न. अपेक्षाभेदाद् [तिब्. 39अ] इति. अपेक्षया भेदो ऽपेक्षाभेदः. तस्मान् नासिद्धं. यद् एवापेक्ष्य औदारिकं न जातु तद् अपेक्ष्य सूक्ष्मं. न कदाचित् तद् एवापेक्ष्यम् इत्य् अर्थः. पितृपुत्रवद् इति. तद्यथा एवदत्तस्य पुत्रो यज्ञदत्तः. यज्ञदत्तस्य पुत्रो विष्णुमित्रः. स यज्ञदत्तो विष्णुमित्रम् अपेक्ष्य पिता. एवदत्तम् अपेक्ष्य पुत्रः. न चापेक्षिकत्वाद् अस्य पितृपुत्रभावो न सिध्यति. अपेक्षाभेदात्. न हि स यज्ञदत्तस् तम् एव विष्णुमित्रम् अपेक्ष्य पुत्रः. नापि तम् एव देवदत्तम् अपेक्ष्य (अभिध्-क्-व्य् 44) पितेति. तद्वत्. हीनं क्लिष्टं सद्भिस् त्यक्तम् इति कृत्वा. प्रणीतम् अक्लिष्टं क्लेशदूषितत्वात्. दूरम् अतीतानागतं संतानप्रच्युतत्वात् तदसंप्राप्तत्वाच् च. अन्तिकं प्रत्युत्पन्नं संतानसंनिहितत्वात्. एवं यावद् विज्ञानम् इति. या काचिद् वेदना अतीतानागतप्रत्युत्पन्ना आध्यात्मिकी वा बाह्या वा औदारिका वा सूक्ष्मा या वा दूरे

या वा अन्तिके तां सर्वाम् ऐकध्यम् अभिसंक्षिप्य वेदनास्कन्ध इति संख्यां गच्छति. एवं यावद् विज्ञानं वक्तव्यं. यावत् सर्वम् ऐकध्यम् अभिसंक्षिप्य विज्ञानस्कन्ध इति संख्यां गच्छतीति. अतीतादित्वम् एषां वेदनादीनां यथा रूपस्य. अयं तु विशेषो वेदनादीनां. औदारिकं पंचेन्द्रियाश्रयं वेदनादिचतुष्कं. अमूर्तत्वात् अवगतम् औदारिकत्वं [तिब्. 39ब्] नास्ति. सूक्षं मानसम् आश्रयस्याप्य् अमूर्तत्वात्. भूमितो वेति. औदारिकं सूक्ष्मं च वेदनादिकं. औदारिकी कामावचरी वेदना. सूक्ष्मा प्रथमध्यानभूमिका. औदारिकी प्रथमध्यानभूमिका. सूक्ष्मा द्वितीयध्यानभूमिका. एवं यावद् औदारिकी आकिंचन्यायतनभूमिका. सूक्ष्मा भवाग्रभूमिकेति. यथा वेदना. एवं यावद् विज्ञानं वक्तव्यं. भदन्त इति स्थविरः. कश्चित् सौत्रान्तिकस् तन्नामा वा. भगवद्विशेषस् त्व् आह. स्थविरहर्मतातो ऽसाव् इति. अत्र वयं ब्रूमः. यदि हर्मत्रातो ऽतीतानागतास्तित्ववादी. स इति न सौत्रान्तिको न आर्ष्टान्तिक इत्य् अर्थः. तथा हि वक्ष्यति. भावान्यत्विको भदन्तहर्मत्रातः. स किलाह. धर्मस्याध्वसु प्रवर्तमानस्य भावान्यथात्वं भवति न द्रव्यस्यान्यथात्वम् इति. सौत्रान्तिकदर्शनावलंबी चायं भदन्तो विभाषायां लिखितः. भदन्त आहेत्येवमादि. भदन्तहर्मत्रातो ऽपि स्वनाम्नैव विभाषायां लिखितः. भदन्तहर्मत्रात आहेत्येवमदि. तेन लक्ष्यते भदन्तहर्मत्राताद् अन्यो ऽयं सौत्रान्तिकः कश्चित् स्थविरो भिक्षुर् इति. पंचेन्द्रियग्राह्यम् इति रूपादिपंचकं. सूक्ष्मम् अन्यच् चक्षुरादिपंचकं. अविज्ञप्तिश् च. मनापम् इति. मन आप्नोतीति मनआपं मनोज्ञम् इत्य् अर्थः. पुनःसंधिकरणं चात्र द्रष्टव्यं.

पूर्वत्रासिद्धम् इति ईषदर्थेन ञपरिग्रहात् किंचित् सिद्धम् इत्य् एकसवर्णदीर्घत्वं. दूरम् अदृश्यदेशम् इति. आधारदेशं आश्रयाधारदेशं [तिब्. 40अ] चाधिकृत्य. द्रष्टुं शक्यो दृश्यः. दृश्यो देशो ऽस्येति दृश्यदेशं दृश्याधारदेशं. दृश्याश्रयाधारदेशं वा. तद्यथा कुण्डे बदरं. चक्षुरादि वा. तद् अन्तिकं. अदृश्यदेशं तु तद्विपरीतं दूरं. दूरम् अदृश्यम् इति नोक्तं. आसन्नम् अपि हि किंचिद् अतिसूक्ष्मत्वान् न दृश्यते. न च तद् दूरम् इष्यते. दृश्यदेशत्वात्. किमर्थं पुनर् एवं भदन्तेन व्याख्यायते. अतीतादीनां स्वशब्देनाभिहितत्वात्. अन्यथा हि पुनरुक्तदोषः स्यात्. दूरान्तिकत्वं तु तेषाम् आश्रयवशाद् (अभिध्-क्-व्य् 45) इति. तेषां वेदनादीनाम् अमूर्तत्वेनादेशस्थत्वात् तस्माद् एवं वक्तव्यं. दूरे अदृश्यमानाश्रया वेदनादयः. अन्तिके दृश्यमानाश्रया इति. औदारिकसूक्ष्मत्वं पूर्ववद् इति. औदारिकं पंचेन्द्रियाश्रयं. सूक्ष्मं मानसम् इति.

चित्तचैत्तानाम् आयम् उत्पत्तिं तन्वन्तीत्य् आयतनानि. द्वयं प्रतीत्य विज्ञानस्योत्पत्तिर् इति सर्वेषाम् आयतनत्वसिद्धिः.

एकस्मिन्न् आश्रये संताने वेति. आश्रये समुदायलक्षणे शरीरे. संताने वा चित्तादीनां प्रवाहलक्षणे. स्वस्या जातेः. किं. आकरा इति प्रकृतं. सभागहेतुत्वात्. पूर्वोत्पन्नं चक्षुः पश्चिमस्य सभागबेतुर् इत्य् आकरो धातुः. यतो हि सुवर्णाद्युत्पत्तिः. ते तेषाम् आकराः. असंस्कृतं न धातुः स्यात्. न ह्य् असंस्कृतम् असंस्कृतस्यान्यस्य वा सभागहेतुः. [तिब्. 40ब्] चित्तचैत्तानां तर्हीति. किं. आकरा इति प्रकृतं. द्वयं प्रतीत्य विज्ञानस्योत्पत्तिर् इति सर्वधातवो विज्ञानस्य ससंप्रयोगस्य प्रत्ययो ऽवश्यम् आलम्बनम् अधिपतिश् चेत्य् आकराः.

राशिपुद्गलवद् इति. प्रज्ञप्तिसन्तः स्कन्धाः. राशिशब्दवाच्यत्वात्. धान्यराशिवत्. पुद्गलवद् वा. स हि प्रज्ञप्तिसन् पुद्गलः रूपादिप्रज्ञप्तिकारणनिरपेक्षागृह्यमाणस्वभावत्वात् धान्यराशिवत्. कार्यभारोद्वहनार्थ इति. कार्यम् एव भारः. कार्यभारः. तद् उह्यते तेनेति उद्वहनं. कार्यभारस्योद्वहनं कार्यभारोद्वःअनं. शरीरप्रदेशः स लोके स्कन्ध इत्य् उच्यते. अनेनापि कार्यभार उह्यते नामरूपप्रत्ययं षडायतनम् इत्यादिवचनात्. तस्मात् स्कन्ध इव स्कन्ध इत्य् औपचारिकशब्दः. प्रच्छेदार्थो वा. अवध्यर्थो वेत्य् अर्थः. रूपप्रच्छेदो यावद् विज्ञानप्रच्छेद इति. तद् एतद् उत्सूत्रम् इति. तद् एतद् उभयं कार्यभारोद्वहनार्थः प्रच्छेदार्थश् चेति. उत्क्रान्तं सूत्राद् उत्सूत्रं. सूत्रं हीति विस्तरेण तत् प्रतिपादयति. प्रत्येकम् इति विस्तरः. कथम् इत्य् आह. सर्वम् एतद् अतीतादिरूपम् एकशः एकैकं रूपस्कन्ध इति. समुदायेन समुदायिद्रव्यम् उक्तं. तेषां ह्य् अतीतादीनां रूपाणां स राशिर् इत्य् अभिप्रायः. सूत्रे ऽप्य् एवम् एवोक्तं. पृथिवीधातुः [तिब्. 41अ] कतमः. केशा रोमाणीति विस्तरः. एकैकं केशादिद्रव्यं पृथिवीधातुर् इति विज्ञायते. अयं च परिहारः कार्यभारोद्वहनार्थप्रच्छेदार्थपक्षयोर् स्पि शक्यते वक्तुं. न शक्यं एवम् इति विस्तरः. ऐकध्यम् अधिसंक्षिप्येति वचनातिरेकात्. एकैकं रूपस्कन्ध इति न शक्यते विज्ञातुं. यदि ह्य् एवम् अर्थो ऽभविष्यत्. तत् सर्वं रूपस्कन्ध इत्य् एवावक्ष्यत्. नार्थम् ऐकध्यम् अभिसंक्षिप्येति वचनेन. तस्माद् राशिवद् एव स्कन्धाः प्रज्ञप्तिसन्त इति स्थापनापक्ष आचार्यस्य. द्रव्यसद्रूपप्रतिपत्तिस् तु स्कन्धनिर्देशे तत्समुदायित्वाद् इत्य् अवगन्तव्यं.

रूपीण्य् अपीति विस्तरः. रूपिग्रहणम् अरूपिविशेषणार्थं. अरूपि हि मनआयतनं असंहतम् अपि कारणभावं बिभर्ति. रूपीण्य् अपि (अभिध्-क्-व्य् 46) चक्षुरादीनि आयतनानि समुदितान्य् एव चित्तचैत्तायद्वारतां गच्छन्ति नासमुदितानीति. समुदायलक्षणत्वात् स्कन्धवत् प्रज्ञाप्तिसन्ति स्युः. संचिताश्रयालम्बना हि पंचविज्ञानकाया इति. न. एकशः समग्राणां कारणभावाद् इति. नैतद् एवं. कस्मात्. एकशः प्रत्येकं समग्राणां समुदितानां कारणत्वात्. यस्माद् बहूनाम् एषाम् चकुरादिपरमाणूनां परस्परम् अपेक्ष्यमाणानाम् एकैकशः कारणभावः. न त्व् असंहतानां. तद्यथा दार्वाकर्षणे बहूनाम् आक्रष्टॄणां [तिब्. 41ब्] प्रत्येकम् असामर्थ्यं. समुदितानां तु परस्परम् अपेक्ष्यमाणानां सामर्थ्यं. यथा वा केशाः पृथक्पृथग् अवस्थिता न समर्थास् तैमिरिकचक्षुर्विज्ञानकरणे. समुदितास् त्व् असंयुक्ता अपि समर्थाः. तद्वच् चक्षुरादीन्द्रियपरमाणवो रूपादिविषयपरमाणवश् च चक्षुरादिविज्ञानोत्पादने प्रत्येकम् असमर्थाः. समुदितास् तु समर्थाः. शक्तिऋ हि भावानां तादृश्य् अवगन्तव्या. विषयसहकारित्वाद् वेति. यदि बहूनाम् आयद्वारभाव इति समुदायायतनत्वं स्यान् न द्रव्यायतनत्वं. इन्द्रियविषयपरमाणूनां समुदितानाम् आयद्वारभाव इति तत् समुदायायतनत्वं स्यात्. न पृथगायतनत्वं स्यात्. इष्यते च पृथगायतनत्वं द्वादशायतनानीति सूत्रात्. साधनं चात्रोपतिष्ठते. ये सहकारिणः. न तैः सह समुदायात्मकायतनभूताश् चक्षुरायतनसमुदायद्रव्यपरमाणवः. चक्षुर्विज्ञानकारणत्वात्. चक्षुरायतनरूपायतनसमुदायद्रव्यपरमाणुवत्. यथा चक्षुरायतनसमुदायद्रव्यपरमाणवः. एवं यावत्

कायायतनसमुदायद्रव्यपरमाणवो योज्याः. विभाषायां तूच्यत इति. अनेनापि प्रज्ञप्तिसन्तः स्कन्धा इति व्याचष्टे. अयं तु विशेषः. अद्रव्यसन्तो ऽपि ते तत्रोपचारेण प्रदर्श्यन्त इति. विशेषार्थस् तुशब्दः. स्कन्धप्रज्ञप्तिम् अपेक्षते इति. स्कन्ध इति प्रज्ञप्तिम् अपेक्षते. राशिर् इति प्रज्ञप्तिम् [तिब्. 42अ] अपेक्षत इत्य् अर्थः. परमाणुर् एकस्य धातोर् इति. दशानां चक्षुरादीनां रूपिणां धातूनां अन्यतमस्य प्रदेशः. एवम् आयतनानाम् एषाम् एवान्यतमस्य रूपस्कन्धस्य च प्रदेशः. कसमात्. न हि प्रज्ञप्ताव् अपेक्षितायां प्रदेशिनि प्रवृत्तः शब्दः प्रदेशे व्यवस्थाप्यते. अथ नापेक्षते. किं. स्कन्धप्रज्ञप्तिम् इत्य् अधिकृतं. स आह. परमाणुर् एको धातुर् इति विस्तरः. स एकैकस् तेषाम् आयतनधातूनां यो ऽन्यतम उक्तो रूपस्कन्धश् च. भवति हि प्रदेशे ऽपि प्रदेशिवद् उपचार इति. प्रदेशे ऽपि परमाणौ अन्यतमरूपायतनधातुवद् रूपस्कन्धवच् चोपचारः. तत्र तस्येवेति वतिः. यथा पटैकदेशे दग्धे पटो दग्ध इति. यथा पटशब्दः समुदाये प्रवृत्तः. प्रदेशे ऽप्य् उपचर्यते पटैकदेशे. तद्वत् स्कन्धशब्दो (अभिध्-क्-व्य् 47) ऽतीतादिरूपसमुदाये प्रवृत्तः. प्रदेशे ऽपि परमाणाव् उपचर्यत इति. स्कन्धा एव प्रज्ञप्तिसन्तो नायतनधातव इति. रूपादीनां स्कन्धा इति कृत्वा. यदा तु रूपाण्य् एव स्कन्धा इति समासः. तदा द्रव्यसन्तः स्कन्धा इत्य् अभिप्रायः.

इदम् इह विचार्यते. किम् अत्र कारणं यद् इन्द्रियपरमाणूनां विषयपरमाणूनां च विज्ञानोत्पत्तये तुल्ये ऽप्य् अन्योन्यसापेक्षत्वे न द्वयानाम् एषां केवलेन्द्रियपरमाणुवद् एकायतनत्वं व्यवस्थाप्यते. यस्माच् [तिब्. 42ब्] चक्षुरिन्द्रियादिपरमाणवः सर्वे स्वविज्ञानोत्पत्तौ साधारणानि कारणानि भवन्ति. न तु तथा विषयपरमाणवः. तथा हि चक्षुरिन्द्रियपरमाणवो नीलविषयविज्ञानोत्पत्ताव् अपि कारणं भवन्ति. पीतादिविज्ञानोत्पत्ताव् अपि. नीलविषयपरमाणवस् तु स्वविज्ञानोत्पत्ताव् एव कारणं भवन्ति. न पीतादिविज्ञानोत्पत्तौ. इत्य् अतश् चक्षुरिन्द्रियपरमाणुभिस् तद्विषयपरमाणूनाम् अतुल्यवर्तित्वात्. पृथक्स्थानावस्थितत्वात्. न चक्षूरूपपरमणूनाम् एकायतनत्वव्यवस्थानत्वं युज्यते. एवं यावत् कायेन्द्रियस्प्रष्टव्यपरमाणूनां एकायतनत्वव्यवस्थानं न युज्यत इति वक्तव्यं.

(i.20च्द्) मोहेन्द्रियरुचित्रैधाद्

इति. संमोहप्रज्ञाधिमोक्षत्रैधाद् इत्य् अर्थः. त्रयः प्रकारास् त्रैधम् इति. त्रिधैव त्रैधम् इति स्वर्थे ऽण्प्रत्यय इत्य् एके. त्रिधाभावस् त्रैधम् इति भावे ऽण्प्रत्यय इत्य् अपरे. मोहेन्द्रियरुचीनां त्रैधं. तस्माद् इति. पिण्डात्मग्रहणत इति. केचिच् चैत्तान् पिण्डतो गृहीत्वा तान् एवात्मतो गृह्णन्ति. पिण्डग्राहे सत्य् आत्मग्राहप्रवृत्तेः. तेषां स्कन्धदेशना. तस्यां हि वेदनासंज्ञासंस्कारभेदेन त्रिधा चैत्ता देशिताः. नायम् एकः पिन्डश् चैत्तविशेषा इहेत्य् आत्मग्राहः प्रतिपक्षितो भवति. अथ वा पिण्डरूपो ऽयम् आत्मभावः. स चात्मा वेदयिता संज्ञाता चेतयितेति केचित् संमूढाः. तेषां स्कन्धदेशना. नायम् आत्मरूपः पिण्डश् चैत्ता इहेमे वेदनासंज्ञासंस्काराः [तिब्. 43अ] प्रवर्तन्ते इत्य् आत्मग्राहः प्रतिपक्षितो भवति. केचिद् रूप एवेति. पिण्डात्मग्रहणतः संमूढा इत्य् अधिकृतं. तेषाम् आयतनदेशना. तस्यां हि रूपं चक्षुरादिभेदेन बहुधा विभक्तं. चैत्तास् त्व् ऐकध्यम् एव धर्मायतनत्वेन चित्तं च मनआयतनत्वेनेति. केचिद् रूपचित्तयोर् इति. संमूढाः पिण्डात्मग्रहणत इत्य् अधिकृतम् एव. तेषां धातुदेशना. तस्यां हि रूपं चक्षुरादिभेदेन बहुधा विभक्तं. चित्तं चक्षुर्विज्ञानादिधातुभेदेन. न तु चैत्ता धर्मधातुत्वेनैव देशितत्वाद् इति. तया रूपचित्तपिण्डग्राहसंमोहः प्रतिपक्षितो भवति.

इन्द्रियाण्य् अपीति विस्तरः. त्रिविधः पुद्गलः तीक्ष्णमध्यमृद्विन्द्रियत्वात्. अथ वा त्रिविधः पुद्गलः उद्घटितज्ञो विपंचितज्ञः पदपरम इति. (अभिध्-क्-व्य् 48) तत्र तीक्ष्णेन्द्रियाणां स्कन्धदेशना. ते हि तीक्ष्णेन्द्रियत्वात् स्कन्धभेदेनैव आयतनधातुभेदं प्रतिपत्तुं शक्नुवन्ति. यथोक्तं यद् भिक्षो न त्वं स ते धर्मः प्रहातव्य इति. आज्ञातं भगवन्न् इत्य् आह. यथा कथम् अस्य भिक्षो संक्षिप्तेनोक्तस्यार्थम् आजानासि. रूपं भदन्त नाहं. स मे धर्मः प्रहातव्य इति विस्तरः. मध्येन्द्रियाणाम् आयतनदेशना. ते हि मध्येन्द्रियत्वान् [तिब्. 43ब्] मध्येनैव नातिविस्तीर्णेनायतनप्रभेदेन धातुप्रभेदं प्रतिपत्तुं शक्नुवन्ति. न तु संक्षिप्तेन स्कन्धप्रभेदेन. मृद्विन्द्रियाणां धातुदेशना. ते हि मृद्विन्द्रियत्वात् नाविभक्तं स्वबुद्धिसामर्थ्येन प्रतिपत्तुं शक्नुवन्ति.

रुचिर् अपि त्रिविधेति. पूर्वाभ्यासयोगाद् रुचेस् त्रैविध्यं. अथ वा शमथचरितानां संक्षिप्ता रुचिः. शमथविपश्यनाचरितानां मध्या रुचिः. विपश्यनाचरितानां विस्तीर्णा रुचिर् इति.

(i.21) किं पुनः कारणम् इति विस्तरः. ननु च कारणम् उक्तं पिण्डात्मग्रहणतश् चैत्तसंमूढानां स्कन्धदेशनेति. सत्यम् उक्तं. चैत्तास् तेषां विभक्ता इति. वेदनासंज्ञे एव तु संस्कारस्कन्धात् पृथक् स्कन्धीकृतः. न पुनर् अन्य इति किम् अत्र कारणं. कामाध्यवसानम् इति विस्तरः. कामेषु च दृष्टिषु चाभिष्वंगः. तयोर् विवादमूलयोर् अध्यवसानयोर् वेदनासंज्ञे यथाक्रमं प्रधानहेतुर् इति. प्रधानग्रहणाद् अविद्यादयो ऽप्रधानहेतव इत्य् अर्थत उक्तं भवति. वेदनास्वादवशाद् धि कामान् अभिष्वजन्ते गृहिणः. विपरीतसंज्ञावशाच् च दृष्टीः. किम्. अभिष्वजन्त इत्य् अधिकृतं. अधर्मे धर्मसंज्ञिनो धर्मे चाधर्मसंज्ञिनो ऽनात्मादिषु चात्मसंज्ञिनस् तास् तादृशीः शीलव्रतपरामर्शादीर् अभिष्वजन्ते. के ते. प्रायेण प्रव्रजिताः. वेदनागृद्धो हीति [तिब्. 44अ] विस्तरः. वेदनासक्तश् चतुर्भिर् विपर्यासैर् विपर्यस्तः संसारे जन्मपरंपरां करोति क्रमकारणाद् इति. चत्वारि कारणानि स्कन्धानुक्रमे वक्ष्यंते.

यथौदारिकसंक्लेशभाजनाद्यर्थधातुत

इति. रूपं हि सप्रतिघत्वात् सर्वौदारिकं. अरूपिणां वेदना प्रचारौदारिकतया. तथा हि व्यपदिशन्ति. हस्ते मे वेदना पादे मे वेदनेति. द्वाभ्याम् औदारिकतरा संज्ञा. विज्ञानात् संस्कारा इत्य् अतो यथौदारिकं तत् पूर्वम् उक्तम् इत्य् प्रथमं कारणं. अथ वानादिमति संसारे स्त्रीपुरुषा अन्योन्यं रूपाभिरामाः. ते च वेदनास्वादगर्धात्. तद्गर्धः संज्ञाविपर्यासात्. तद्विपर्यासः क्लेशैः. चित्तं च तत्संक्लिष्टम् इति यथासंक्लेशं क्रम इति द्वितीयं. भाजनाद्यर्थेन वा भाजनभोजनव्यंजनपक्तृभोक्तृभूता हि (अभिध्-क्-व्य् 49) रूपादयः स्कन्धा इति तृतीयं. धातुतो वा कामरूपप्रभावितो हि कामधातुः. वेदनाप्रभावितानि ध्यानानि. संज्ञाप्रभावितास् त्रय आरूप्याः. संस्कारमात्रप्रभावितं भवाग्रम्. एता विज्ञानस्थितयस् तासु च प्रतिष्ठितं विज्ञानम् इति क्षेत्रबीजसंदर्शानार्थः स्कन्धानुक्रम इति चतुर्थं कारणम्. अथ एव च क्रमकारणात् वेदनासंज्ञे [तिब्. 44ब्] पृथक् स्कन्धीकृते. यत एते औदारिकतरे संक्लेशानुक्रमहेतू भोजनव्यंजनभूते तत्प्रभावितं च धातुद्वयम् इति.

(i.22अब्) न तावद् एष्व् एवान्तर्नेतुं शक्यते अर्थायोगाद् इति. रूपणादेर् अर्थस्यायोगाद् असंभवात्. रूपस्वभावं यावद् विज्ञानस्वभावम् इति वा न शक्यम् एष्व् एव पंचस्कन्धेष्व् अन्तर्नेतुम्. अतत्स्वाभाव्यात्. न चापि षष्ठः स्कन्धो वक्तुं शक्यते. कुतः. अर्थायोगात्. अतीताद्यर्थयोगाद् इत्य् अर्थः. ननु च बहुत्वाद् असंस्कृतानां असंस्कृतस्कन्धो ऽन्यो योक्ष्यते. किम् अतीताद्यर्थेनेति. एतच् चायुक्तम् असंस्कृतानां देशसंनिकर्षाभावेनाभिसंक्षेपायोगात्. संक्लेशवस्तुज्ञापनार्थम् इति विस्तरः. न संक्लेशवस्त्व् अनास्रवत्वात्. न व्यवदानवस्त्व् असंस्कृतत्वात्. व्यवदानहेतुर् हि व्यवदानवस्त्व् इत्य् अभिप्रायः. अथ वा रूपस्कन्ध इत्य् उक्ते यावद् विज्ञानस्कन्ध इत्य् उक्ते संक्लेशवस्तु व्यवदानवस्तु च रूपस्कन्धो यावद् विज्ञानस्कन्ध इति विज्ञायते. न त्व् असंस्कृतस्कन्ध इत्य् उक्ते संक्लेशव्यवदानवस्तु विज्ञायत इति न संभवति असंस्कृतस्कन्ध इति. तेषां धात्वायतनेष्व् अप्य् एष प्रसंग इति. तेषाम् एवंवादिनां यथा घटोपरमो न घटः. एवं धातूपरमो न धातुः. आयतनोपरमो नायतनम् इति धर्मधात्वायतनयोर् अप्य् असंस्कृतं न व्यवस्थापितं स्यात्. सर्वधर्मसंग्रहश् च धात्वायतनेष्व् अभिप्रेत इत्य् अयुक्तम् एतत्.

(i.22च्द्) उक्तः स्कन्धानाम् [तिब्. 45अ] अन्यः प्रकारः. क्रमः पुनर्

इत्य् अन्यप्रकारवचनापेक्षाः पुनःशब्दोपन्यास इति दर्शयति. सर्वौदारिकम् इति. सर्वेभ्यो वेदनादिभ्य औदारिकं रूपं. सनिदर्शनसप्रतिघत्वादियोगात्. अरूपिणां वेदनादीनां. निर्धारणे षष्ठी. वेदना औदारिकी प्रचारौदारिकतया समुदाचारौदारिकतयेत्य् अर्थः. द्वाभ्यां संस्कारविज्ञानाभ्यां. औदारिकी संज्ञा. निमित्तपरिच्छेदेन सुज्ञातत्वात्. विज्ञानात् संस्कार औदारिकः सुखी स्यां न दुःखी स्याम् इत्य् अभिसंस्कारलक्षणत्वात्. विज्ञानं तु सर्वसूक्ष्मम् उपलब्धिमात्रलक्षणत्वात्. यथौदारिकं च विनेयानाम् अर्थप्रतिपादनं न्याय्यम् इति एवं स्कन्धानुक्रमः. ते च वेदनास्वादगर्धात्. ते च स्त्रीपुरुषा वेदनास्वादसक्तेर् अन्योन्यं रूपाभिरामा भवन्ति. तद्गर्ध इति. वेदनागर्धः. संज्ञाविपर्यासाद् इति. नित्यादिकान् निमित्तोद्ग्रहणात्. (अभिध्-क्-व्य् 50) सुखापि हि वेदना संस्कारविपरिणामदुःखतया दुःखा. भाजनभोजनम् इति विस्तरः. रूपं भाजनभूतं वेदनाश्रयत्वात्. वेदना भोजनभूता आस्वाद्यत्वात्. संज्ञा व्यंजनभूता वेदनां तन्निमित्तोद्ग्रहणेन व्यंजयतीति कृत्वा. संज्ञावशेन वा वेदना रोचत इति कृत्वा व्यंजनभूता सम्ज्ञा. चेतना पक्तृभूता विपाकवेदनाम् अभिसंस्कृत्य उपनयनात्. [तिब्. 45ब्] विज्ञानं भोक्तृभूतं तदनुग्रहाद् इति. भाजनाद्यर्थेन वानुक्रमः. धातुतो वेति विस्तरः. कामगुणा एव रूपाणि. तैः प्रभावितः प्रकर्षितः कामधातुः. वेदनाप्रभावितानि ध्यानानि. सौमनस्यसुखेन्द्रियप्रभावितं प्रथमं ध्यानं. सौमनस्येन्द्रियप्रभावितं द्वितीयं. सुखेन्द्रियप्रभावितं तृतीयं. उपेक्षेन्द्रियपरिशुद्धिप्रभावितं चतुर्थं ध्यानं. संज्ञाप्रभावितास् त्रय आरूप्याः.

आकाशसंज्ञाप्रभावितम् आकाशानंत्यायतनं. विज्ञानसंज्ञाप्रभावितं विज्ञानानंत्यायतनं. आकिंचन्यसंज्ञाप्रभावितं आकिंचन्यायतनं. संस्कारमात्रप्रभावितं भवाग्रं. तत्र हि चेतना अशीतिं कल्पसहस्राण्य् आयुर् आक्षिपति. विज्ञानं कस्मात् सर्वेषां पश्चाद् उक्तम् इत्य् अत आह एता विज्ञानस्थितय इति विस्तरः. चतस्रो विज्ञानस्थितयः. रूपोपगा विज्ञानस्थितिः कामधातुः. वेदनोपगा चत्वारि ध्यानानि. संज्ञोपगा त्रय आरूप्याः. संस्कारोपगा भवाग्रं. तासु चतसृषु विज्ञानस्थितिषु प्रतिष्ठितं विज्ञानं तदाश्रितत्वात् सर्वपश्चाद् उक्तं. इत्य् एवं क्षेत्रबीजसंदर्शनार्थः स्कन्धानुक्रम उक्तो भवति. अत एव च पंच स्कन्धा नाल्पीयांसो न भूयांस इति. यथौदारिकादिभिः कारणैर् नाल्पीयांसो न भूयांस इत्य् अर्थः.

(i.23) पंच वर्तमानविषयत्वात् पूर्वं उक्तानीति. यानि [तिब्. 46अ] वर्तमानविषयानि. तानि परिस्फुटविषयाणि. परिस्फुटविषयाणि च सुगमानीति पूर्वम् उक्तानि. वर्तमानविषयाणि च पूर्ववृत्तीनि भवन्त्य् एवं च पूर्वम् उक्तानि. मनस् त्व् अनियतविषयम् इत्य् आकुलविषयित्वात् असुगमं. पश्चाद्वृत्ति च प्रायेण. कथम् इत्य् आह. किंचिद् वर्तमानविषयं किंचिद् यावत् त्र्यध्वानध्वविषयम् इति. यावच्छब्देन किंचिद् अतीतविषयं किंचिद् अनागतविषयं किंचित् त्र्यध्वविषयं. सर्वधर्मा अनात्मान इति यथा. किंचिद् अनध्वविषयम् असंस्कृतविषयम् इत्य् अर्थः. एवम् अनियतविषयं मनः. तथा च न तत् सुगमम् इति पश्चाद् उक्तं. सुगमं हि लोके पूर्वम् उपदिश्यमानं दृश्यते.

भौतिकार्थाच् चतुष्टयम्

इति चक्षुरादिचतुष्टयं रूपाद्युपादायरूपविषयं. तस्मात्. तत् कायात् पूर्वम् उक्तं. कायस्य त्व् अनियतो विषयः. कदाचिद् भूतानि कदाचिद् भौतिकं (अभिध्-क्-व्य् 51) यदि व्यवच्छेदग्रहणं. कदाचिद् उभयं यद्य् अव्यवच्छेदग्रहणं. शेषं पुनर् इतरस्माद् यथायोगं दूराशुतरवृत्त्या पूर्वम् उक्तम् इति. शेषं चक्षुरादि. तद् इतरस्मात् संभवतो दूराशुतरवृत्त्या दूरवृत्त्या दूरतरवृत्त्या आशुतरवृत्त्येति विभज्य द्वयं द्वयात्. एकं चैकस्मात् पुनर् एकं चैकस्माद् इति योज्यम् इत्य् अर्थः. कथम् इत्य् आह. चक्षुःश्रोत्रं हि दूरविषयं तत् पूर्वम् उक्तं द्वयात् घ्राणजिह्वातः. तयोर् अपि चक्षुःश्रोत्रयोः [तिब्. 46ब्] चक्षुषो दूरतरे वृत्तिः. पश्यतो ऽपि दूरान् नदीं तच्छब्दाश्रवणात्. अतस् तत् पूर्वम् उक्तम् इति वर्तते. चक्षुः श्रोत्रात् पूर्वम् उक्तं. तयोर् आशुतरवृत्तित्वाद् इति. तयोर् घ्राणजिह्वयोर् घ्राणं पूर्वम् उक्तं जिह्वायाः. कथम् इत्य् आह. अप्राप्तस्यैव जिह्वां भोज्यस्य गन्धग्रहणाद् इति.

इदम् इह विचार्यते. घ्राणजिह्वे प्राप्तविषयग्राहिण्यौ. कथं. भोज्यस्थो गन्धः तेन घ्राणेन गृहते. न त्व् अभोज्यस्थो गृह्यते. वायोस् तु गन्धान्तरम् उद्भवति भोज्यावयवेन वा सूक्ष्मेण सहागतो गन्धो गृह्यते. निरुछ्वासस्य गन्धाग्रहणात्. न तर्हीदं वक्तव्यं. अप्राप्तस्यैव जिह्वां भोज्यस्य गन्धग्रहणाद् इति. यत् तत् पिण्डरूपं भोज्यं. तज् जिह्वाम् अप्राप्तम् इत्य् अभिसंधायवचणाद् अदोषः. एवं ह्य् आशुतरवृत्ति घ्राणं यद् भोज्यावयवसहागतम् अपि गन्धं जिघ्रति. जिह्वा तु भोज्यावयवसहागतं रसं नास्वादयति. पिण्डभोज्यसहागतम् एव तु रसम् आस्वादयतीति न साशुतरवृत्तिर् इत्य् अवगन्तव्यं.

(i.24) कथं विशेषणार्थम् इति प्रतिपादयन्न् आह. यथा गम्येत प्रत्येकम् इति विस्तरः. यथा विज्ञायेत एकैकश एषां दशानां आयतनत्वं चक्षुरादीनां पंचानां विषयित्वेन. रूपादीनां च पंचानां विषयत्वेन व्यवस्थानात्. न समस्तानाम् आयतनत्वं रूपायतनम् इत्य् एकम् एवेति. तथा च परस्परतो विशेषणं न स्यात्. यदि विशेषणार्थं नामन्तराण्य् उच्यन्ते नवानां चक्षुरायतनस्य यावत् कायायतनस्य शब्दायतनस्य यावत् स्प्रष्टव्यायतनस्येति. रूपायतनस्यापि कस्मान् नामन्तरं नोच्यते. [तिब्. 47अ] अत आह. चक्षुरादिभिश् च विशेषितैर् यन् न चक्षुर्संज्ञकं रूपं च. तद् रूपायतनं ज्ञास्यत इत्य् अस्य नामान्तरं नोच्यते. तद्यथा सर्वासु गोष्व् अंकितासु या गौर् नांकिता. तस्या अनंकनम् एवांकनं भवति. तद्वत्. प्राधान्याद् इति त्रिभिः कारणै रूपायतनस्य प्राधान्यं. पान्यादिसंस्पर्शैर् बाधनालक्षणाद् रूपणात्. इदम् इहामुत्रेति देशनिदर्शनरूपणात्. इदम् एव रूपम् इति लोकप्रतीतत्वाच् च. विशेषणार्थम् एवैकं धर्मायतनम् उक्तम् इति. कथं विशेषणार्थं. यथा गम्येत प्रत्येकम् एषां द्वादशानाम् आयतनत्वं विषयिविषयत्वेन व्यवस्थानात् (अभिध्-क्-व्य् 52) न समस्तानाम् इति. चक्षुरादिभिश् च विशेषितैर् यन् न चक्षुरादिसंज्ञकं धर्मश् च. तद् धर्मायतनं ज्ञास्यत इति तस्य नामान्तरं नोच्यते. वेदनादीनाम् इत्य् आदिशब्देन संज्ञासंस्काराविज्ञप्त्यसंस्कृतानां ग्रहणं. विंशतिप्रकारत्वेनेति.

रूपं द्विधा विंशतिधेति

वचनात्. चक्षुस्त्रयगोचरत्वाच् च. मांसचक्षुर् अस्मदादीनां. दिव्यं चक्षुर् देवानां. आर्यं प्रज्ञाचक्षुर् आर्याणाम् अनास्रवं ज्ञानं सत्यचतुष्टयालम्बनं. अतो रूपम् एव चक्षुस्त्रयगोचरं. न चक्षुरादयः. तस्मात्. तद् एव रूपायतनम् उक्तं नान्यानि.

(i.25) येषाम् वाक्स्वभावं बुद्धवचनम् इति. येषां सौत्रान्तिकानां [तिब्. 47ब्] वाग्विज्ञप्तिस्वभावं. तेषां तानि रूपस्कन्धसंगृहीतानि. शब्दायतनस्य रूपस्कन्धसंगृहीतत्वात्. येषां नामस्वभावम् इति. येषां निकायान्तरीयाणां चित्तविप्रयुक्तं नामास्ति. तेषां संस्कारस्कन्धेन संगृहीतानि. संस्कारस्कन्धसंगृहीतत्वान् नाम्नः. आभिधार्मिकाणां तूभयस्वभावं बुद्धवचनम् इष्टं. तथा हि ज्ञानप्रस्थान उक्तं. कतमद् बुद्धवचनं. तथागतस्य या वाग् वचनं व्याहारो गीर् निरुक्तिर् वाक्पथो वाग्घोशो वाक्कर्म वाग्विज्ञप्तिः. बुद्धवचनं कुशलं वक्तव्यं. अव्याकृतं वक्तव्यं. स्यात् कुशलं. स्याद् अव्याकृतं. कतरत् कुशलं. कुशलचित्तस्य तथागतस्य वाचं भाषमाणस्य या वाग् यावद् वाग्विज्ञप्तिः. कतरद् अव्याकृतं. अव्याकृतचित्तस्य तथागतस्येति पूर्ववत्. पुनस् तत्रैवानन्तरम् उक्तं बुद्धवचनं नाम क एष धर्मः. नामकायपदकायव्यंजनकायानां या अनुपूर्वरचना अनुपूर्वस्थापना अनुपूर्वसमायोग इति. तेषाम् आभिधार्मिकाणां रूपस्कन्धेन संस्कारस्कन्धेन च तान्य् अशीतिधर्मस्कन्धसहस्राणि संगृहीतानि. सातिरेकाणि मे अशीतिधर्मस्कन्धसहस्राणि भगवतो ऽन्तिकात् संमुखम् उद्गृहीतानीति सूत्रवचनं. चतुरशीतिधर्मस्कन्धसहस्राणीति निकायान्तरे सूत्रपाठः.

(i.26) शास्त्रप्रमाण इत्य् एक

इति. शास्त्रस्य प्रमाणं शास्त्रप्रमाणं. शास्त्रप्रमाणं [तिब्. 48अ] प्रमाणम् अस्य. सो ऽयं धर्मस्कन्धः.

शास्त्रप्रमाण इत्य् एके

तावद् आहुः. तच् च षट्सहस्राणीति. तच् च शास्त्रं हर्मस्कन्धसंज्ञकं ग्रन्थप्रामाण्येन षट्सहस्राणीति. तानि त्व् अशीतिधर्मस्कन्धसहस्राण्य् अन्तर्हितानि. एकं त्व् एतद् अवशिष्यत इति कथयन्ति.

स्कन्धादीनां कथैकशः.

(अभिध्-क्-व्य् 53) अपर आहुर् इति वाक्याध्याहारः. स्कन्धादीनाम् एकैका कथा धर्मस्कन्धः. ते च धर्मस्कन्धा अशीतिसहस्रसंख्या व्याख्यायंते. प्रतीत्यसमुत्पादादीनि चेह व्याख्यास्यन्ते. प्रणिधिज्ञानारणादीनाम् इत्य् आदिग्रहणेन संग्रहवस्तुकर्मपथाशुभानपानस्मृत्यादीनि गृह्यन्ते.

चरितप्रतिपक्षस् तु धर्मस्कन्धो ऽनुवर्णित

इति तुशब्दः पूर्वोक्तपक्षनिराकरणर्थो ऽवधारणार्थो वा. रागद्वेषमोहमानादिचरितभेदेनेति. आदिशब्देन दृष्टिविचिकित्सादीनां ग्रहणं. केचित् सत्त्वा रागचरिताः. केचिद् द्वेषचरिताः. केचिन् मोहचरिताः. केचिन् मानचरिताः. केचिद् दृष्टिचरिताः. केचिद् विचिकित्साचरिताः. केचिद् रागद्वेषचरिताः. केचिद् रागद्वेषमोहचरिताः. केचिद् रागाशया द्वेषप्रयोगाः. केचिद् द्वेशाशया रागप्रयोगाः. केचित् कृत्रिमरागा निगृह्यद्वेषाः. केचित् कृत्रिमद्वेषा निगृह्यरागा इति. तेषां प्रतिपक्षेण भगवता तान्य् उक्तानीति.

(i.27) ये ऽप्य् अन्ये स्कन्धायतनधातव इति विस्तरः. [तिब्. 48ब्] ये ऽपि स्कन्धायतनधातवः. ते ऽप्य् एष्व् एव स्कन्धायतनधातुषु प्रतिपाद्याः प्रवेशयितव्याः. स्वंस्वं स्वभावं एषां यथा व्यवस्थापितम् अस्मिन् शास्त्रे विमृष्य स्कन्धाः स्कन्धेषु प्रतिपादयितव्या आयतनान्य् आयतनेषु धातवो धातुषु. शीलस्कन्धो रूपस्कन्धसंगृहीत इति. कायवाग्विरतिरूपस्वभावत्वात् शीलस्कन्धस्य. शेषाः संस्कारस्कन्धेनेति. समाध्यादीनां चैतसिकत्वात्. विमुक्तिर् इहाधिमोक्षो ऽभिप्रेतः. विमुक्तिज्ञानदर्शनं च प्रज्ञाविशेष एवेति. अष्टाव् अलोभस्वभावत्वात् धर्मायतनेनेति. कतमान्य् अष्टौ. पृथिव्यप्तेजोवायुनीलपीतलोहितावदातकृत्स्नायतनानि. तानि च अलोभस्वभावानि अपदेक्ष्यन्ते

अलोभो ऽष्टाव्

इति. अलोभश् च धर्मायतने ऽन्तर्भवति. तेन तत्संग्रहः. सपरिवाराणि तु पंचस्कन्धस्वभावत्वान् मनोधर्मायतनाभ्यां. किं. संगृहीतानि. तस्यालोभस्य परिवारो ऽनुपरिवर्तिरूपं रूपस्कन्धो वेदनासंज्ञे वेदनासंज्ञास्कन्धौ चेतनादयः संप्रयुक्ता जात्यादयश् च विप्रयुक्ताः संस्कारस्कन्धः. विज्ञानं चात्र कलापे विज्ञानस्कन्ध इति पंचस्कन्धस्वभावानि तानि भवन्ति. नवमदशमे त्व् आकाशानंत्यायतनविज्ञानानन्त्यायतनकृत्स्ने पश्चाद् वक्ष्येते. [तिब्. 49अ] तथाभिभ्वायतनानीति तान्य् अलोभस्वभावत्वात् धर्मायतनेन. सपरिवाराणि तु पंचस्वभावत्वान् मनोधर्मायतनेन पूर्ववत् व्याख्यातव्यानि. आकाशविज्ञानानन्त्यायतनकृत्स्ने चत्वारि चाकाशानन्त्यायतनादीनि. आकाशविज्ञानाकिंचन्यनैवसंज्ञानासंज्ञायतनानि चतुःस्कन्धस्वभावत्वान् मनोधर्मायतनाभ्यां संगृहीतानि. न हि तत्र रूपस्कन्धो ऽस्ति. पंच विमुक्त्यायतनानीति विस्तरः. (अभिध्-क्-व्य् 54) सूत्र उक्तं. पंचेमानि विमुक्त्यायतनानि. कतमानि इह भिक्षो शास्ता धर्मं देशयति. अन्यतरान्यतरो वा विज्ञो गुरुस्थानीयः सब्रह्मचारी. यथायथास्य शास्ता अन्यतरान्यतरो वा विज्ञो गुरुस्थानीयः सब्रह्मचारी धर्मं देशयति. तथातथा तेषु धर्मेष्व् अर्थप्रतिसंवेदी भवति धर्मप्रतिसंवेदी च. तस्यार्थप्रतिसंवेदिनो धर्मप्रतिसंवेदिनश् चोत्पद्यते प्रामोद्यं. प्रमुदितस्य प्रीतिर् जायते. प्रीतमनसः कायः प्रश्रभ्यते. प्रश्रब्धकायः सुखं वेदयते. सुखितस्य चित्तं समाधीयते. समाहितचित्तो यथाभूतं प्रजानाति यथाभूतं पश्यति. यथाभूतं प्रजानन् यथाभूतं पश्यन् निर्विद्यते. निर्विण्णो विरज्यते. विरक्तो

विमुच्यते. [तिब्. 49ब्] इदं प्रथमं विमुक्त्यायतनं. यत्र स्थितस्य भिक्षोर् वा भिक्षुण्या वा अनुपस्थिता स्मृतिर् उपतिष्ठते. असमाहितं चित्तं समाधीयते. अपरिक्षीणाश् चास्रवाः परिक्षीयन्ते. अननुप्राप्तं चानुत्तरं योगक्षेमं निर्वाणम् अनुप्राप्नोति. पुनर् अपरं न हैव भिक्षो शास्ता धर्मं देशयत्य् अन्यतरान्यतरो वा विज्ञो गुरुस्थानीयः सब्रह्मचारी. अपि तु यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण स्वरेण स्वाध्यायं करोति. यथायथा तान् यथाश्रुतान् यथोपदिष्टान् यथापर्यवाप्तां विस्तरेण स्वरेण स्वाध्यायं करोति. तथातथा तेषु अर्थप्रतिसंवेदी भवति पूर्ववत्. इदं द्वितीयं विमुक्त्यायतनं. यत्र स्थितस्येति पूर्ववत्. पुनर् अपरं न हैव भिक्षो शास्ता धर्मं देशयति अन्यतरान्यतरो वा विज्ञो गुरुस्थानीयः सब्रह्मचारी. नापि यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण स्वाध्यायं करोति. अपि तु यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण परेभ्यः संप्रकाशयति. यथायथा यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण परेभ्यः संप्रकाशयति. तथातथा तेषु धर्मेष्व् अर्थप्रतिसंवेदी भवतीति पूर्ववत्. इदं तृतीयं विमुक्त्यायतनं. यत्र स्थितस्येति पूर्ववत्. पुनर् अपरं न हैव भिक्षो शास्ता पूर्ववत्. नापि स्वाध्यायं नापि परेभ्यः संप्रकाशयति. अपि तु यथाश्रुतान् यावद् यथापर्यवाप्तान् चिन्तयति तुलयति उपपरीक्षते. [तिब्. 50अ] यथायथा यथाश्रुतान् यावद् यथापर्यवाप्तान् चिन्तयति यावद् उपपरीक्षते. तथातथा तेषु धर्मेष्व् अर्थप्रतिसंवेदी पूर्ववत्. इदं चतुर्थं विमुक्त्यायतनं.

यत्र स्थितस्येति पूर्ववत्. पुनर् अपरं न हैव भिक्षो शास्तेति पूर्ववत्. नापि स्वाध्यायं नापि परेभ्यः संप्रकाशयति नापि चिन्तयति. अपि त्व् अनेनान्यतमं भद्रकं समाधिनिमित्तं साधु च सुष्ठु च सूद्गृहीतं भवति सुमनसिकृतं सुभावितं सुजुष्टं सुप्रतिविद्धं. तद्यथा विनीलकं (अभिध्-क्-व्य् 55) वा विपूयकं वा व्याध्मातकं वा विपटुमकं वा विलोहितकं वा विखादितकं वा विक्षिप्तकं वा अस्थि वा अस्थिसंकलिका वा. यथायथा खल्व् अनेनान्यतमान्यतमं भद्रकं समाधिनिमित्तं पूर्ववत् यावत् सुप्रतिविद्धम्. तथातथा तेषु धर्मेष्व् अर्थप्रतिवेदी भवति पूर्ववत्. इदं पंचमं विमुक्त्यायतनं. यत्र स्थितस्येति पूर्ववत्. विमुक्तेर् आयद्वारं प्रज्ञाविशेषः. प्रज्ञा च धर्मायतनेन संगृहीता. सपरिवाराणि शब्दमनोधर्मायतनैः. देशनास्वाध्यायपरसंप्रकाशनेषु शब्दग्रहणाच् छब्दायतनम् अस्ति. मनोधर्मायतने तु प्रज्ञापरिवारभूते सर्वत्रस्थे इति त्रिभिः संग्रहः. द्वयोर् आयतनयोर् इति. सूत्र उक्तं. रूपिणः सन्ति सत्त्वा [तिब्. 50ब्] असंज्ञिनः अप्रतिसंज्ञिनः. तद्यथा देवा असंज्ञिसत्त्वाः. इदं प्रथमम् आयतनं. अरूपिणः सन्ति सत्त्वाः सर्वश आकिंचन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरन्ति. तद्यथा देवा नैवसंज्ञानासंज्ञायतनोपगाः. इदं द्वितीयम् आयतनम् इति. अनयोर् द्वयोर् आयतनयोर् असंज्ञिसत्त्वा दशभिर् आयतनैः संगृहीताः. गन्धरसायतनयोर् एव तत्राभावात्. भवति हि च्युत्युपपत्तिकालयोस् तेषां मनआयतनम् इति. नैवसंज्ञानसंज्ञायतनोपगा मनोधर्मायतनाभ्यां संगृहीता इत्य् अधिकृतं. तेषाम् अरूपित्वात्. बहुधातुके

ऽपि द्वाषष्टिर् धातव इति. सूत्र उक्तं. आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्. कियता भदन्त पण्डितो धातुकुशलो भवति. भगवान् आह. पण्डित आनन्द अष्टादश धातूञ् जानाति पश्यति यथाभूतं. चक्षुर्धातुं रूपधातुं चक्षुर्विज्ञानधातुं. एवं यावन् मनोधातुं धर्मधातुं मनोविज्ञानधातुम् इति. इतीमान् आनन्दाष्टादश धातूञ् जानाति पश्यति यथाभूतं. षड् अपि धातूं जानाति पश्यति यथाभूतं. पृथिवीधातुम् अब्धातुं तेजोधातुं वायुधातुम् आकाशधातुं विज्ञानधातुम् इति. अपरान् अपि षड् धातूं जानाति पश्यति यथाभूतं. कामधातुं व्यापादधातुं [तिब्. 51अ] विहिंसाधातुं नैष्क्रम्यधातुम् अव्यापादधातुम् अविहिंसाधातुम् इति. अपरान् अपि षड् धातूञ् जानाति पश्यति यथाभूतं. सुखधातुं दुःखधातुं सौमनस्यधातुं दौर्मनस्यधातुम् उपेक्षाधातुम् अविद्याधातुम् इति. चतुरो ऽपि धातूञ् जानाति पश्यति यथाभूतं. वेदनाधातुं संज्ञाधातुं संस्कारधातुं विज्ञानधातुम् इति. त्रीण्य् अपि धातूं जानाति पश्यति यथाभूतं. कामधातुं रूपधातुम् आरूप्यधातुम् इति. अपरान् अपि त्रीन् धातूं जानाति पश्यति यथाभूतं. रूपधातुं आरूप्यधातुं निरोधधातुम् इति. अपरान् अपि त्रीन् धातूं जानाति पश्यति यथाभूतं. अतीतं (अभिध्-क्-व्य् 56) धातुम् अनागतं धातुं प्रत्युत्पन्नं धातुं. अपरान् अपि त्रीन् धातूं जानाति पश्यति यथाभूतं. हीनं धातुं मध्यमं धातुं प्रणीतं धातुम् इति. अपरान् अपि त्रीन् धातूं जानाति पश्यति यथाभूतं. कुशलं धातुम् अकुशलं अव्याकृतं धातुम् इति. अपरान् अपि त्रीन् धातूं जानाति पश्यति यथाभूतं. शैक्षं धातुम् अशैक्षं धातुं नैवशैक्षंनाशैक्षं धातुम् इति. द्वाव् अपि

धातू जानाति पश्यति यथाभूतं. सास्रवं [तिब्. 51ब्] धातुम् अनास्रवं धातुम् इति. अपराव् अपि द्वौ धातू जानाति पश्यति यथाभूतं संस्कृतं धातुम् असंस्कृतं धातुम् इति. इमौ द्वौ धातू जानाति पश्यति यथाभूतं. इयता चानन्द पण्डितो धातुकुशलो भवतीति. इतीमान्य् अत्राभिसंबन्धीनि वाक्यानि प्रत्येकं मध्ये ऽपि पठितव्यानि. विस्तरभयात् तु मया न लिखितानीति बोधव्यं. यथायोगं संग्रहो वेदितव्य इति. अष्टादश तावद् धातवस् त एव त इति. एभिस् ते संगृहीता एवाष्टादशसु धातुषु. यत्र पृथिवीधात्वादयः षट्. तेषाम् आद्यानां चतुर्णां स्प्रष्टव्यधातौ संग्रहः. आकाशधातो रूपधाताव् आलोकतमस्स्वभावत्वात्. विज्ञानधातोः सप्तसु चित्तधातुषु संग्रहः. कामधात्वादीनां तु षण्णां कामधातुः कामराग इहाभिप्रेतः. स च चैतसिकः. व्यापादधात्वादयो ऽपि चैतसिका एवेति. तेषां धर्मधातुसंग्रहः. सुखधात्वादीनाम् अपि षण्णां तस्मिन्न् एव संग्रहः. वेदनाधात्वादीनां चतुर्णां त्रयाणां धर्मधातौ. विज्ञानधातोः सप्तसु विज्ञानधातुषु. कामधात्वादीनां त्रयाणां कामधातोः अष्टादशसु धातुषु. रूपधातोश् चतुर्दशसु विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिः. आरूप्यधातोर् मनोधर्ममनोविज्ञानधातुषु. रूपधात्वादीनां तु त्रयाणां द्वयोर् उक्तः संग्रहः. निरोधधातोर् धर्मधातौ [तिब्. 52अ]. अतीतधात्वादीनां त्रयाणां प्रत्येकम् अष्टादशसु धातुषु संग्रहः. हीनादयस् त्रयो धातवः कामधात्वादय एवेति एषाम् उक्तः संग्रहः. कुशलादीनां त्रयाणां कुशलाकुशलधात्वो रूपशब्दधर्मधातुषु सप्तसु च चित्तधातुषु. अव्याकृतधातोर् अष्टादशसु धातुषु. शैक्षाशैक्षधात्वादीनां त्रयाणां

द्वयोर् मनोधर्ममनोविज्ञानधातुषु. तृतीयस्याष्टादशधातुषु. सास्रवानास्रवधात्वोः आद्यस्याष्टादशसु धातुषु. द्वितीयस्य मनोधर्ममनोविज्ञानधातुषु. संस्कृतासंस्कृतधात्वोर् आद्यस्याष्टादशसु धातुषु. द्वितीयस्य धर्मधातौ संग्रहः. त एते द्वाषष्टिर् धातवः.

(i.28) य इमे तत्रेति बहुधातुके. एतेषां द्वयोर् लक्षणम् अनुक्तम् इति. (अभिध्-क्-व्य् 57) पृथिवीधात्वादीनाम् उक्तं लक्षणम् अमी

धृत्यादिकर्मसंसिद्धाः. खरस्नेहोष्णतेरणा

इति. ननु च विज्ञानधातोर् अप्य् उक्तं लक्षणं.

विज्ञानं प्रतिविज्ञप्तिर्

इति वचनात्. सत्यम् उक्तं सर्वेषां विज्ञानानां लक्षणं. विज्ञानधातुस् तु किम् इह किंचिद् एव विज्ञानम् इत्य् अभिप्रेतं. उताहो सर्वम् इति न विवेचितम्. असंस्कृतं चाकाशम् उक्तलक्षणं. न त्व् आकाशधातुः. अवश्यं ह्य् अयम् [तिब्. 52ब्] अन्य आकाशात्. तथा हि षड्धातुर् अयं भिक्षो पुरुष इति सूत्रान्तरम् उक्तम्. इत्य् अनया बुद्ध्याभिहितं द्वयोर् लक्षणम् अनुक्तम् इति. अत एवाह. तत् किम् आकाशम् एवाकाशधातुर् वेदितव्यः. सर्वं च विज्ञानं विज्ञानधातुर् इति. मुखनासिकादिष्व् इत्य् आदिशब्देन श्रोत्रादीनां ग्रहणं.

आलोकतमसी किलेति.

किलशब्दः परमतद्योतनार्थः. स्वमतं तु सप्रतिघद्रव्याभावमात्रम् आकाशम् इति अभिप्रायो लक्ष्यते. रात्रिंदिवस्वभाव इति. रात्रिवर्तिनस् तमसो भास्करातपलक्ष्यस्य चालोकस्याभिप्रेतत्वात्. बाहुलिको वायं निर्देशः. अघं किल चितस्थं रूपम् इति. चितस्थं संघातस्थं. अत्यर्थं हन्ति हन्यते चेति अघं नैरुक्तेन विधिना. अत्यर्थशब्दस्य अकारादेशः कृतो हन्तेश् च घादेशः. तस्य तट् सामन्तकम् इति. तस्याघस्य कुड्यादिकस्य सामन्तकं समीपस्थं. तद् अपेक्ष्य व्यवस्थापितम् इत्य् अर्थः. अत्रापि व्याख्याने किलशब्दो वैभाषिकव्याख्यानप्रदर्शानार्थः. स्वमतं तु यत् तत् पश्चाद् उच्यते. तद् आह. अघं च तत्. अन्यस्य रूपस्य तत्राप्रतिघातान् न प्रतिहन्यते ऽन्यद् रूपम् अस्मिन्न् इति कृत्वा. सामन्तकं चान्यस्य रूपस्येति चितस्थस्य. अस्मिन् पक्षे कर्मधारयः समासः. अघं च तत् सामन्तकं च तद् इति अघसामन्तकं.

विज्ञानं सास्रवम्

[तिब्. 53अ] इति. जन्मनो हेतोर् विज्ञानस्याभिप्रेतत्वात्. कुत इति चेत्. अत आह. यस्माद् इमे षड्धातव इष्टा.

जन्मनिश्रयाः.

षड्धातुर् अयं भिक्षो पुरुष इति. षट् खलु धातून् प्रतीत्य मातुः कुक्षौ गर्भस्यावक्रान्तिर् इति वचनात्. एते हि जन्मन इति विस्तरः. एते हि जन्मनो जनकपोषकसंवर्धकत्वाद् आधारभूताः. जनको ह्य् अत्र विज्ञानधातुः प्रतिसंधिबीजत्वात्. पोषकानि भूतानि तत्संनिश्रयभावात्. संवर्धक (अभिध्-क्-व्य् 58) आकाशधातुर् अवकाशदानात्. अत एवैषां धातुत्ववचनं. प्रतिसंधिं दधत इति धातवः. अनास्रवास् तु धर्मा नैवम् इति. न जन्मनिश्रया जन्मनिरोधित्वात्.

(i.29) सनिदर्शन एको ऽत्र रूपम्

इति. किम् इदं निदर्शनं नाम. येन विशेषेण योगात् तद् वस्तु तथा निदर्शयितुं शक्यते. स विशेषो निदर्शनम् इत्य् उच्यते. वचनेन परस्य चक्षुर्विज्ञानाम् उत्पन्नं वा निदर्शनं. तेन सह वर्तते सनिदर्शन एको रूपधातुर् अत्राष्टादशसु धातुषु. रूपधातुर् एवैकः सनिदर्शन इत्य् अवधारणाद् उक्तं भवति. अनिदर्शनाः शेषा इति. अनेन चास्य सनिदर्शनत्वेन प्राधान्यम् उक्तम् इति. न पुनरुक्तदोषप्रसंग इति तत्सिद्धेः. एते च सनिदर्शनत्वादयः प्रभेदाः प्रायेण सूत्रोक्ता एव प्रदर्श्यन्ते. [तिब्. 53ब्] तथा हि सूत्र उक्तं. चक्षुर् भिक्षो आध्यात्मिकम् आयतनं. चत्वारि महाभूतान्य् उपादाय रूपप्रसादः रूप्य् अनिदर्शनं सप्रतिघं. यावत् कायो भिक्षो आध्यात्मिकम् आयतनं पूर्ववत्. मनो भिक्षो आध्यात्मिकम् आयतनं अरूप्य् अनिदर्शनम् अप्रतिघं. रूपाणि भिक्षो बाह्यम् आयतनं. चत्वारि महाभूतान्य् उपादाय रूपि सनिदर्शनं सप्रतिघं. शब्दा हि भिक्षो बाह्यम् आयतनं. चत्वारि महाभूतान्य् उपादाय रूप्य् अनिदर्शनं सप्रतिघं. यावत् स्प्रष्टव्यानि भिक्षो बाह्यम् आयतनं. चत्वारि महाभूतानि चत्वारि च महाभूतान्य् उपादाय रूप्य् अनिदर्शनं सप्रतिघं. धर्मा भिक्षो बाह्यम् आयतनं. एकादशभिर् आयतनैर् असंगृहीतं अरूप्य् अनिदर्शनम् अप्रतिघम् इति. एते च प्रभेदा धातूनाम् एव आ प्रथमकोशस्थानपरिसमाप्तेः कथ्यन्ते. रूपविज्ञानविभागत्वात्.

सप्रतिघा दश रूपिण

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.