Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 10/25

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

स्फुटार्था अभिधर्मकोशव्याख्या

Tác giả
यशोमित्र
Thông tin
GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

आरूप्यधातुर् अस्थान उपपत्त्या चतुर्विध

इति. तेष्व् अवीतरागस्य यो रागः. स आरूप्यराग इति. यथायोगम् इति. स्थाननिर्देशापेक्षं. ध्यानारूप्येषु राग इति. समापत्त्युपपत्तिध्यानेषु रागो रूपरागः. एवम् आरूप्यरागः. निर्माणचित्ते कथं कामराग इति. कामावचरे निर्माणचित्ते ध्यानफले कथं कामवीतरागाणां कामरागः यतस् तस्य कामावचरत्वं. यदा ह्य् असाव् अवीतरागः. तदा निर्माणचित्तं न समुदाचरति. यदा निर्माणचित्तं समुदाचरति. तदा न तस्य राग उत्पद्यते. (अभिध्-क्-व्य् 259) कथम् अस्य कामरागेण विना कामावचरत्वं व्यवस्थाप्यते इत्य् अर्थः. श्रुत्वा परिहाय च तदास्वादनाद् इति. श्रुत्वा तत् परतो निर्माणचित्ते ऽस्य राग उत्पद्यते. परिहाय वा आत्मीयान् निर्माणचित्तात्. तस्यास्वादनाद् इति. एवंध्यायिनः कामावचरेण निर्माणचित्तेन कामावचरं निर्माणं निर्मिण्वन्तीति श्रुत्वा तदालम्बनो राग उत्पद्यते. अनुस्मृत्य चात्मीयं तत्र राग उत्पद्यते. निर्माणवशेनेति. मनोहरं निर्माणं दृष्ट्वा [तिब्. 248अ] निर्मापके चित्ते निर्मापकस्य वा चित्ते रागः दर्शयतीत्थं निर्माणचित्तं यस्येदृशं निर्माणम् इति. गन्धरसनिर्माणाद् वेति. यत् कामावचरनिर्माणनिर्मापकं. कामावचरं तच् चित्तं. कामावचरधर्महेतुत्वात्. घटहेतुचित्तवत्. यत् तु न कामावचरं. न तत् कामावचरधर्महेतुः. तद्यथा रूपावचरं चित्तम्. अत एवाह. रूपावचरेण तयोर् अनिर्माणाद् इति. कस्मात् पुनः रूपावचरेण चित्तेन तयोर् गन्धरसयोर् अनिर्माणं. तयोर् गन्धरसयोः कवडीकाराहारस्वभावत्वात्. रूपधातूपपन्नं च तद्वीतरागत्वाद् इति.

ईषाधार इति. ईषाप्रमाणवर्षाधारः. नास्ति वीचिर् वा अन्तरिका वेति. नैरन्तर्यं दर्शयति. न तूक्तम् ऊर्ध्वम् अधश् चेति. अतो लोकधातूनां तिर्यग् एवास्थानम् इति दर्शयति.

(iii.4) पंचम्याश् च प्रदेश इति. देवगतेः षट् कामावचरा देवा उक्ताः. शेषा रूपारूप्यावचराः. अन्यथा हि गतिसंभेदः स्याद् इति. गतिमिश्रता. यदि कुशलक्लिष्टा अपि स्युः गतिसंभेदः स्यात्. मनुष्यो नरकसम्वर्तनीयं कर्म करोति. यावद् देवोपपत्तिसम्वर्तनीयम्. इत्य् अतो मनुष्यगतिर् नरकगतिर् अपि स्यात्. यावद् देवगतिर् अपि. तेषां कर्मणां तद्गतिपर्यापन्नत्वात्. कामधातूपपन्नश् चोर्ध्वभूमिकैः क्लेशैः समन्वागतः कामावचरेण च [तिब्. 248ब्] सार्वगतिकेन क्लिष्टेन समन्वागत इति. स एव मनुष्यो नारको यावद् देव इति स्यात्. सत्त्वाख्या एवेति. कर्मानुरूपेणात्मभावतस् तद्गमनात्. अत एवोक्तं.

यथाकर्म गमिष्यंति पुण्यपापफलोपगा

इति. न भाजनस्वभावा इति. न चान्तराभवस्वभावा इति. अस्य प्रतिपादनार्थं ज्ञापकम् आनयंति प्रज्ञप्तिषूक्तम् इति विस्तरः. सहेतुकाः सगमना इति. हेतुः कर्मभवः. गमनम् अन्तराभवः. गम्यते ऽनेनेति कृत्वा. गतिस् तु गम्यत इति गतिः. तद्धेतोः कर्मभवस्य ताभ्यो बहिष्करणात्. कुशलाकुशलस्य कर्मभवस्य ताभ्यो गतिभ्यो बहिष्करणात्. कश्मीरे भवाः काश्मीरकाश् च सूत्रं पठन्तीति. मुक्तकं तत् सूत्रं ते एव पठन्ति नान्य इत्य् अभिप्रायः. नारकाणाम् इति विस्तरः. नरकानुकूला नारकाः. तेषाम् इति विस्तरः. कायवाङ्मनोवंकानां शाठ्यसमुत्थितानां कर्मणां दोषकषायाणां (अभिध्-क्-व्य् 260) द्वेषरागसमुत्थितानां. अतो ऽप्य् अनिवृताव्याकृता एव गतय इति. यस्माद् उक्तं निर्वृत्ते विपाके नारके इति संख्यां गच्छतीति. गतिषु सर्वे ऽनुशया अनुशेरत इति प्रकरणग्रन्थः परिहार्यः. वक्तव्यः परिहार इत्य् अर्थः. विरोधप्रसंगात्. यदि हि पंच प्रकारा धर्मा गतिस्वभावा भवेयुः. एवं सर्वे ऽनुशया [तिब्. 249अ] अनुशयीरन्. यदि त्व् अनिवृताव्याकृता एव गतयः स्युः. एवं वक्तव्यं स्यात्. भावनाप्रहातव्याः सर्वत्रगाश् चेति. अनिवृताव्याकृता हि संस्कृता धर्मा भावनाप्रहातव्या एव. तेषु च भावनाप्रहातव्याः सर्वत्रगाश् चानुशया अनुशेरते आलम्बनतः प्रयोगतो वा. नान्ये. तेन ज्ञायते नानिवृताव्याकृता एव गतय इति. संधिचित्तानि हि गतीनां पंच प्रकाराणीति. संधिचित्तानि गतीनां प्रवेशाः. तेषां पंचप्रकारत्वात्. दुःखदर्शनप्रहातव्यं यावद् भावनाप्रहातव्यम् इति. तत्र सर्वे ऽनुशया अनुशेरत इति युक्तं. ग्रामोपविचारग्रहणवद् इति. ग्रामपरिसामन्तकग्रहणवद् इत्य् अर्थः.

पंचसु कषायेष्व् इति. पंच कषायाः. आयुःकषायः क्लेशकषायो दृष्टिकषायः कल्पकषायः सत्त्वकषायश् च. तेषु. क्लेशदृष्टिकषायौ पृथग् उक्तौ. क्लेशकषायाद् दृष्टिकषायः पृथग् उक्त इत्य् अर्थः. अनयोः पृथग्वचनं गृहस्थप्रव्रजितपक्षाधिकारात्. गतिहेतुज्ञापनार्थम् इति. गतीनां कर्मोद्भवो हेतुर् इति. अन्तराभवे ऽप्य् एष प्रसंग इति. एवम् अन्तराभवो ऽपि गतिश् च स्यात्. पृथक् चास्य वचनं स्यात् गतिगमनज्ञापनार्थम् इति. गच्छंति ताम् इति. कर्मसाधनपरिग्रहः [तिब्. 249ब्]. न चान्तराभव एवं युज्यत इति न गतिः. आरूप्या अपीति विस्तरः. आरूप्या न गतिः स्युः. च्युतिदेश एवोत्पादात्. आरूप्यगा हि यत्र च्यवन्ते विहारे वा वृक्षमूले वा यावच् चतुर्थ्यां ध्यानभूमौ. तत्रैवोत्पद्यन्त इति. अन्तराभववन् न गतिस् स्यात्. एवं तर्हीति. पूर्वपक्षं परित्यज्य पक्षांतरम् आश्रियंते. गत्योर् अन्तरा अंतराले भवतीति अंतराभव इत्य् अन्वार्थसंज्ञाकरणान् नान्तराभवो गतिर् इति. वैभाषिका आहुः. यत् तर्हीति विस्तरः. निर्वृत्ते विपाक इति विपाकशब्दवचनाद् विपाकस्वभावा गतिर् इति तदभिप्रायः. इतर आह. निर्वृत्ते विपाके नारक इति नारको व्यवस्थाप्यते. न तूक्तं विपाक एवेति. न तूक्तं विपाकस्वभावैव गतिर् इति. किं तर्हि. विपाकविपाकस्वभावा गतिः. तस्मात् कुशलक्लिष्टा अपि गतयो भवन्तीत्य् अभिप्रायः. वैभाषिकः पुनर् आह. यत् तर्ह्य् उक्तं तत्रेति विस्तरः. अन्यत्र तेभ्यो धर्मेभ्य इति. विपाकजेभ्य इत्य् अभिप्रायः. न तु स्कन्धान्तरप्रतिषेधं करोतीत्य् अधिकृतं. ताश् चेति विस्तरः. अव्याकृतत्वपक्षे ऽपि द्वैविध्यं. औपचयिकस्वभावा अपीति. अपिशब्दाद् विपाकस्वभावा अपीति.

यथोक्तं

विपाको जीवितं [तिब्. 250अ] द्वेधा द्वादशेति.

(अभिध्-क्-व्य् 261) नैष्यन्दिकास् तु न गृह्यन्ते. विपाकस्वभावा एवेत्य् आचार्यसंघभद्रः पूर्वम् एव पक्षम् इच्छति.

(iii.5, 6अब्) कामावचराः षट् प्रथमध्याणिकाश् च. कतमे ते. बहिर्देशकनयेन ब्रह्मकायिकाः ब्रह्मपुरोहिता महाब्रह्माणश् च प्रथमाभिनिर्वृत्तवर्ज्याः. काश्मीरनयेन पुनः ब्रह्मकायिका ब्रह्मपुरोहिताश् च प्रथमाभिनिर्वृत्तवर्ज्याः. ब्रह्मपुरोहितेष्य् एव हि तेषां नयेन महाब्रह्माणो न स्थानान्तरनयाः. अनेकवर्णलिंगसंस्थानत्वाद् इति. वर्णो नीलत्वादिः. लिंगं वस्त्राभरणादि. संस्थानं दैर्घ्यादि.

आरोह उन्नतता. परिणाहस् तिर्यक्प्रमाणं. आकृतिविग्रहः आकृतिलक्षणो विग्रह आकृतिविग्रहः. एवं विशेषिते वेदानादीनां विग्रहः पर्युदस्तो भवति. नासाव् आकृतिलक्षण इति. विग्रहः पुनः शरीरं. वाग्भाषा वागुच्चारणं. कथम् इदानीम् इति विस्तरः. प्रथमध्यानप्रत्यागमनेन तैर् द्वितीयं त्यक्तम्. तद्भूमिकं द्वितीयध्यानभूमिकं. पूर्वनिवासं कथम् अन्वस्मार्षुः. न तावत् प्रथमध्यानभूमिकेन चित्तेन तदविषयत्वात्. न द्वितीयध्यानभूमिकेन तस्यालब्धत्वात्. पुनर् लब्धम् इति चेत्. अत आह. लब्धायां चेति विस्तरः. शीलव्रतपरामर्शदृष्टिर् महाब्रह्मालम्बना प्रथमध्यानभूमिकैव युज्यते. सा च द्वितीयध्यानलाभात् प्रहीणा न समुदाचरति. द्व्तीयध्यानभूमिकेति [तिब्. 250ब्] चेत्. न. अधरालम्बनत्वायोगात्. न ह्य् अधरभूम्यालम्बनः कश्चिद् अपि क्लेश इष्यते. अन्तराभवस्था अद्राक्षुर् इति. अन्तराभवस्थास् ते तं महाब्रह्माणं दृष्ट्वैवम् ऊचुः. इमं वयं सत्त्वम् अद्राक्ष्मेति. अयम् अपि पक्षो न घटते. तथा हि तत्राप्य् अन्तराभवे दीर्घम् अध्वानम् अवस्थातुं न संभवत्य् उपपत्तिप्रतिबन्धाभावात् शुक्लशोणितानपेक्षत्वात्. तेषां कथं भवतीयं बुद्धिर् इमं वयं सत्त्वम् अद्राक्ष्म दीर्घायुषं दीर्घम् अध्वानं तिष्ठन्तम् इति. दीर्घाध्वावस्थानावबोधो न प्राप्नोतीत्य् अर्थः. तस्मात् तत्रस्था एवेति विस्तरः. प्रथमध्यानभूमिस्था एव तस्य महाब्रह्मणः पूर्ववृत्तान्तं समनुस्मरन्तः उत्पद्यमानावस्थायाम् एव तं महाब्रह्माणं पूर्वोत्पन्नं दीर्घम् अध्वानं तिष्ठन्तं दृष्टवन्तः. दृष्ट्वा च पश्चाद् उत्तरकालम् अद्राक्ष्मेत्य् एषाम् बभूव. बुद्धिर् इति वाक्यशेषः. एवं तु सतीदम् अपरिहृतं भवेत्. अस्य च सत्त्वस्यैवं चेतसः प्रणिधिः. वयं चोपपन्ना इति. उपपत्तिप्रतिलंभिकेन प्रथमध्यानभूमिकेन तस्य महाब्रह्मण एवं चेतसः प्रणिधिम् अन्वस्मार्षुः. समानभूमिकत्वात्. इत्य् अदोष एषः. तत्सकाशं श्रवणाद् वा.

ननु च शुभकृत्स्नेष्व् अप्य् एष प्रसंगः. एकत्वकाया नानात्वसंज्ञिन इति. कथं. यथोक्तं. ते हि मौल्यां भूमौ सुखेन्द्रियपरिखिन्नाः (अभिध्-क्-व्य् 262) सामन्तकोपेक्षेन्द्रियं संमुखीकुर्वंतीति विस्तरेण [तिब्. 251अ] वक्तव्यं स्यात्. ते चैकत्वकाया एकत्वसंज्ञिन इति पश्चाद् वक्ष्यते. तेन सुखेनेति. तृतीयध्यानभूमिकेन. चेतस उत्प्लावकत्वाद् इति. औद्बिल्यकरत्वात्. इन्द्रसुखेनेति द्वितीयध्यान. आगमव्यपगमसंज्ञित्वात्. अचिरोपपन्नानाम् आगमसंज्ञित्वात्. चिरोपपन्नानां व्यपगमसंज्ञित्वात्. अथ वाचिरोपपन्नानाम् आगमसंज्ञित्वाच् चिरोपपन्नानाम् आगमव्यपगमसंज्ञित्वात्. भीतभीतसंज्ञित्वात्. यथाक्रमम् अचिरचिरोपपन्नत्वात् ते नानात्वसंज्ञिनः. न सुखादुःखासुखसंज्ञित्वात् यथोक्तं वैभाषिकैर् इति.

प्रथमे ध्याने क्लिष्टया संज्ञयेति. शीलव्रतपरामर्शसंपरयुक्तया अकारणे कारणाभिनिविष्टत्वात्. द्वितीये कुशलया संज्ञयेति. सामन्तकमौलसंगृहीतत्वात्. तृतीये विपाकजया संज्ञयेति. विपाकजसुखसंप्रयोगात्.

आरूप्यास् त्रयो यथासूत्रम् इति. अरूपिणः सन्ति सत्त्वा ये सर्वशो रूपसंज्ञानां समतिक्रमाद् अनन्तम् आकाशम् इत्य् आकाशानंत्यायतनम् उपसंपद्य विहरंति. तद्यथा देवा आकाशानंत्यायतनोपगाः. इयं पंचमी विज्ञानस्थितिः. अरूपिणः सन्ति सत्त्वा ये सर्वश आकाशानंत्यायतनं समतिक्रम्यानंत्यं विज्ञानम् इति विज्ञानानंत्यायतनम् [तिब्. 251ब्] उपसंपद्य विहरंति. तद्यथा विज्ञानानंत्यायतनोपगा देवाः. इयं षष्ठी विज्ञानस्थितिः. अरूपिणः सन्ति सत्त्वा ये सर्वशो विज्ञानानंत्यायतनं समतिक्रम्य नास्ति किंचिद् इत्य् आकिंचन्यायतनम् उपसंपद्य विहरंति. तद्यथाकिंचन्यायतनोपगा देवाः. इयं सप्तमी विज्ञानस्थितिर् इति.

पंच स्कंधाश् चत्वारश् च यथायोगम् इति. आकाशानंत्यायतनादित्रयप्रतिसंयुक्ताश् चतुःस्कन्धाः. अन्यप्रतिसंयुक्ताः पंचस्कंधाः.

शेषं तत्परिभेदवद्

इति. परिभिद्यते ऽनेनेति परिभेदः. तस्य विज्ञानस्य परिभेदस् तत्परिभेदः. सो ऽस्मिन् विद्यत इति तत्परिभेदवत्. शेषं दुर्गत्यादि. अपायेषु चोभयं नास्तीति. नेहसथानां गंतुकामता. न तत्रस्थानां व्युच्चलितुकामता. अपटुप्रचारत्वाद् इति. चित्तचैत्तानाम् अत्र मन्दप्रचारत्वात्. अबलवद् विज्ञानं न तिष्ठतीति युक्तं वक्तुं. (iii.6च्द्, 7अब्) भवाग्रासंज्ञिसत्त्वाश् च सत्त्वावासा नवेति.

सूत्र उक्तं. नव सत्त्वावासाः. कतमे नव. रूपिणः सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनः. तद्यथा मनुष्याः तदेकत्याश् च देवाः. अयं प्रथमः सत्त्वावासः द्वितीयतृतीयचतुर्था अपि यथा विज्ञानस्थितिषु. तथा वक्तव्याः. अयं तु विशेषः. [तिब्. 252अ] रूपिणः संति सत्त्वा असंज्ञिनो ऽप्रतिसंज्ञिनः. तद्यथा देवा असंज्ञिसत्त्वाः. अयं पंचमः सत्त्वावासः. (अभिध्-क्-व्य् 263) आरूप्याणां च सत्त्वावासानां त्रयो विज्ञानस्थितिवद् वक्तव्याः. चतुर्थस् त्व् आरूप्यः अरूपिणः संति सत्त्वाः सर्वश आकिंचन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरंति. तद्यथा देवा नैवसंज्ञानासंज्ञायतनोपगाः. अयं नवमः सत्त्वावास इति. असंज्ञिसत्त्वेभ्यो ये ऽन्ये चतुर्थध्यानोपगाः किं ते सत्त्वावासा उत नेति. नेत्य् आहुः. कस्माद् एवम् उक्तम् आचार्येण के पुनर् अन्ये. अपाया इति. मुखमात्रम् एतद् उक्तं. असंज्ञिसत्त्वासंगृहीताश् चतुर्थध्यानोपगा इत्य् अपि वक्तव्यम्. इहापि तद् एव कारणं वक्तव्यं यद् विज्ञानष्थितिषूक्तं. इहस्थानां ह्य् अपायगमनप्रार्थना नास्ति. तत्रस्थानां च न वस्तुकामतेति. नापायाः सत्त्वावासाः. असंज्ञिसत्त्वासंगृहीतेषु बृहत्फलेषु यद्य् अपीहस्थानां गमनप्रार्थनास्ति. तत्रस्थानां पृथग्जनानाम् आसंज्ञिकप्रविविक्षा भवति. आर्याणां त्व् अनभ्रकपुण्यप्रसवेष्व् अपि शुद्धावासारूप्यप्रविविक्षा. परिनिर्वातुकामता च शुद्धावासानाम् अपि. इति [तिब्. 252ब्] न तेषां तत्रावस्थाने बुद्धिः. अतो न ते सत्त्वावासा इत्य् आचार्यसंघभद्रः. अन्ये पुनर् व्याचक्षते. के पुनर् अन्ये. अपाया इति अपायानाम् एव वचनाद् अनभ्रकादयः सत्त्वावासा इष्टा आचार्यस्येति. तैर् युक्तिर् अन्वेष्टव्या. बंधनस्थानवद् इति. यथा बंधनस्थानानि न सत्त्वावासाः अनिच्छावसनात्. एवम् अपाया इति.

(iii.7च्द्, 8अब्) रूपोपगा विज्ञानस्थितिर् इति. विज्ञानं तिष्ठत्य् अस्याम् इति विज्ञानस्थितिः. उपगच्छतीति उपगा. विज्ञानस्य समीपचारिणीत्य् अर्थः. रूपं च तद् उपगा च सा रूपोपगा. एवं यावत् संस्काराश् च ते उपगा च संस्कारोपगेति. भगवद्विशेषस् तु व्याचष्टे. रूपोपगा विज्ञानस्थितिर् यावत् संस्कारोपगेति सौत्रान्तिकानां नयेनोच्यते. तत्र विज्ञानस्थितिर् भवसंतत्यनुच्छेदः. रूपम् उपगम् अस्या विज्ञानस्थितेः. सेयं रूपोपगा. उपगम् इति उपगम्यते तदात्मीयत इति. एवं यावत् संस्कारा उपगा अस्या विज्ञानस्थितेः. सेयं संस्कारोपगा. अथ वा तृष्णा स्थितिः. तिष्ठत्य् अनया विज्ञानं. पुनर्भवसंतत्यनुच्छेदात्. इति कृत्वा विज्ञानस्य स्थितिर् विज्ञानस्थितिः. सा रूपम् उपगच्छति तदभिष्वङ्गत इति रूपोपगा. एवं यावत् संस्कारोपगा. वैभाषिकाणां पुनर् नयेन कारकार्थो न शक्यते योजयितुम् [तिब्. 253अ] इति दूषयति. अत्र ब्रूमः. द्विविधे ऽप्य् अस्मिन् व्याख्याने रूपादिव्यतिरिक्ता विज्ञानस्थितिर् उक्ता. ता हि

चत्वारः सास्रवाः स्कन्धा

इति

चतुष्कोटिस् तु संग्रह

इत्य् एतत् सर्वं निरस्तं भवतीति दोषांतरं. तस्मात् पूर्वकम् एव व्याख्यानं (अभिध्-क्-व्य् 264) साधु. एतद् वैभाषिकव्याख्यानं वर्णयामो न तैर् एवं व्याख्यातं. रूपम् उपगच्छतीति रूपोपगा विज्ञानस्थितिर् इत्यादि. अपरे पुनर् व्याचक्षते. रूपोपगा विज्ञानस्थितिर् इति. रूपस्वभावेत्य् अर्थः. यथान्यत्रोक्तं. खक्खटखरगतम् इति. स्वभावार्थो गत्यर्थ इत्य् अभिप्रायः. स्थातुः परिवर्जनेन. अन्यो लोके स्थाता देवदत्तादिर् अन्या स्थितिः स्थानं गृहादिकम् इत्य् अर्थः. विज्ञानं वाहयति प्रवर्तयतीत्य् अर्थः. नौनाविकन्यायेन. यथा नाविको नावं वाहयति. तद्वत्. न तु विज्ञानं विज्ञानम् एवाभिरूह्य वाहयतीत्य् अर्थः. एकसंताने विज्ञानद्वयासमवधानं. परसंतानविज्ञानं तु यद्य् अपि युगपद् भवति. न तु तदितरस्य समीपे वर्तत इति न तत् तस्य स्थितिर् भवति.

नन्दी सौमनस्यं. सप्त च विज्ञानस्थितयः पंचस्कंधस्वभावाः तत् कथम् इति. सप्तसु विज्ञानस्थितिषु पंचस्कंधस्वभावत्वेनेष्टासु तत् कथं विज्ञानं न विज्ञानस्थितिर् [तिब्. 253ब्] इष्टम् इति. एवं तर्हीति विस्तरः. अभेदेनैकपिण्डरूपेण रूपादीनां स्कंधानाम् उपपत्त्यायतनसंगृहीतेषु स्कंधेषु मनुष्यादिनिकायसभागसंगृहीतेषु. साभिरामायां सभिरत्यां. विज्ञानप्रवृत्तौ विज्ञानं विज्ञानस्थितिः सप्तविज्ञनस्थितिदेशनायाम् अभिप्रीयते. प्रत्येकं त्व् एकमेकं स्कंधं प्रति यथा रूपादयो विज्ञानस्य संक्लेशाय भवंति. आश्रयसंप्रयोगसहभूभावेनोपगतत्वात्. नैवं केवलं पृथग् विज्ञानं. किं. संक्लेशाय भवतीत्य् अधिकृतं. कस्मात्. युगपदाश्रयत्वाद्ययोगात्. तस्माच् चतुर्विज्ञनस्थितिदेशनायां केवलं पृथग् विज्ञानं न स्थितिः प्रोक्तम्. तथा विनेयजनापेक्षया ह्य् एकत्र सूत्रे ऽन्यथा विज्ञानस्थितिर् उक्ता. अन्यत्र चान्यथेति. अत आह. अपि च क्षेत्रभावेनेति विस्तरः. विज्ञानस्य क्षेत्रभावेन चतस्रो विज्ञानस्थितयो रूपवेदनासंज्ञासंस्कारस्वभावा देशिताः. विज्ञानं बीजभावेन वपनीयरूपेण सोपादानं स्वभूमिकया तृष्णया सतृष्णं. कृत्स्नम् एव संतानगतं देशितम् इति. न पुनर् बीजं बीजस्य क्षेत्रभावेन व्यवस्थापयां बभूव भगवान्. न हि लोके बीजं क्षेत्रभावेन व्यवस्थाप्यते. ये च धर्मा इति विस्तरः. [तिब्. 254अ] ये च धर्मा विज्ञानस्य सहवर्तिनो रूपादयः. त एव क्षेत्रभावेन साधुतरा भवंति. सहवर्ति हि बीजस्य क्षेत्रं लोके दृश्यते. विज्ञानं तु विज्ञानेन सह न वर्तते युगपदभावात्. अतीतानागतास् तर्हि रूपादयो न विज्ञानस्थितयः प्राप्नुवंति. ते ऽप्य् अतीतानागता यथास्वम् अतीतानागतानां विज्ञानानां स्थितयो ब्भवंति. तस्मात् स्वभूमौ सर्व एव सास्रवा रूपादयो विज्ञानस्थितयो भवन्तीत्य् अवगन्तव्यं.

प्रथमा कोटिर् इति विस्तरः. सप्तसु यद् विज्ञानम् इति. पंचस्कंधस्वभावत्वात् सप्तानां विज्ञानस्थितीनां. तत्र विज्ञानं संगृहीतं. न चतसृषु. (अभिध्-क्-व्य् 265) विज्ञानस्य तत्राग्रहणात्. विज्ञानवर्ज्याः स्कंधा इति. अपायादिष्व् अपि विज्ञानं न चतसृषु संगृहीतं. न सप्तसु अपायादिषु विज्ञानपरिभेदेनाग्रहणात्. सप्तसु चत्वारः स्कंधा इति. सप्तसु विज्ञानस्थितिषु ये विज्ञानवर्ज्याश् चत्वारः स्कम्धा उक्ताः. ते चतसृष्व् अपि विज्ञानस्थितिषु संगृहीताः. उभयात्रापि संगृहीताः इत्य् तृतीया कोटिः. चतुर्थ्य् एतान् आकारान् स्थापयित्वेति. अपायेषु चतुर्थे ध्याने भवाग्रे च यद् विज्ञानम् अनास्रवाश् च धर्माः.

(iii.8च्द्, 9) यच् चैतद् गत्यादिभेदभिन्नम् इति. आदिशब्देन [तिब्. 254ब्] भाजनांतराभवभूम्यादिर् गृह्यते. जरायुर् येन मातुः कुक्षौ गर्भो वेष्टितस् तिष्ठति. तस्माज् जाता जरायुजाः. भूतसंस्वेदजा इति. भूतानां पृथिव्यादीनां संस्वेदाद् द्रवत्वलक्षणाज् जाता भूतसंस्वेदजाः. अविकलाश् चक्षुरिन्द्रियाद्यवैकल्यात्. अहीनेन्द्रियाः काणविभ्रान्तादेर् अभावात्. सर्वाङ्गैर् उपेता हस्तपादादिभिः. सर्वैश् च प्रत्यंगैर् अंगुल्यादिभिर् उपेताः. सकृद् उपजायंते. न कललाद्यनुपूर्व्या अण्डाजादिवत्. उपपादने उपपत्तौ साधुकारित्वात्. शुक्लशोणिताद्यनुपादानेन सकृद् उपजातत्वात्. उपपादुका इत्य् उच्यंते. क्रौंचीनिर्जाताव् इति विस्तरः. भिन्नयानपात्रौ किल वणिजौ समुद्रतीरे क्रौंचीं समभिगतौ. ततो निर्जातौ शैलोपशैलौ स्थविराव् इति. पंचालराजस्येति. तस्य महादेव्याः पंचाण्डशतानि जातानि. तेन राज्ञा मंजूषायां प्रक्षिप्य गंगायाम् अववाहितानि. लिच्छविराजेन सांतःपुरेण स्नायता सा मंजूषोह्यमाना दृष्टा उद्घाटिता च. तस्यां पंचशतानि दारकाणां दृष्टानि गृहीतानि चेति. मांधातृप्रभृतयः संस्वेदजाः. कथं. उपोषधस्य किल राज्ञो मूर्ध्नि पिटको जातः. तस्य वृद्धेर् अन्वयात् परिपाकान्वयात् परिभेदान्वयाद् दारको जातह्. सो ऽयं मान्धातेति संस्वेदजो भवति. राज्ञः खल्व् अपि मांधातुर् जानूपरि पिटकौ जातौ [तिब्. 255अ] तयोर् वृद्धेर् अन्वयात् पूर्ववद् यावद् दारकौ जातौ. ताव् इमौ चारूपचारौ. ब्रह्मदत्तस्य किल राज्ञ उरसि पिटको जातः. तस्य वृद्धेर् अन्वयात् पूर्ववद् यावद् दारिका जाता. सेयं. कपोतमालिनीति. आम्रपाल्य् अपि कदलीस्तंभाज् जातेति श्रूयते. प्राथमकल्पिका इति.

प्राग् आसन् रूपिवत् सत्त्वा

इति वचनात्. सुपर्णी गरुडः. प्रेतानां जरायुजत्वसिद्ध्यर्थम् उच्यते. आयुष्मत इति विस्तरः. कथं गम्यते जरायुजत्वसिद्ध्यर्थम् इति.

रात्रौ पंचतां जनित्वेति

वचनात्. ननु च सुतराम् उपपादुकत्वसिद्ध्यर्थम् इति गम्यते. पंच रात्रौ

दिवा पंच तथापरान्. नास्ति तृप्तिस् तथापि मे

इति वचनात्. जरायुजैर् हि भक्षितैस् तृप्तिर् भवेत्. जरायुजसिद्ध्यर्थम् एव. नोपपादुकसिद्ध्यर्थं. रात्रौ पंचानां सकृज्जन्म दिवा चपरेषां (अभिध्-क्-व्य् 266) पंचानां न विरुध्यते. तावत्कालेन तदात्मभावपरिपूरितः. क्रमेणापि च रात्रौ पंचानां दिवापरेषां पंचानां जन्म न विरुध्यते. सत्त्वजातिः सा तादृशी कर्मणां चाचिंत्यो विपाक इति. अभिप्रवृद्धजिघांसादोषत्वात् तु नापि तृप्तिर् अस्तीति.

प्राप्तोपपत्तिवशित्वो ऽपीत्य् अनेन जरायुजोपपत्तौ कर्मबलात्कारयोगं दर्शयति. यथान्यतीर्थ्या अपभाषन्त इति. अन्यतीर्थ्या मस्करिप्रभृतयः. यथोक्तं निर्ग्रन्थशास्त्रे ऋद्धिं भदन्त को [तिब्. 255ब्] दर्शय्ति. मायावी गौतम इति. तथा भगवन्तम् एवोद्दिश्यान्यत्रोक्तं. कल्पशतस्यात्ययाद् एवंविधो लोके मायावी प्रादुर्भूय मायया लोकं भक्षयतीति. उपजीवतीत्य् अर्थः. बाह्यबीजाभावाद् इति. बाह्यस्य शुकशोणितकर्दमादेर् अभावाद् इत्य् अर्थः आधिष्ठानिकीम् इति. यद् अधितिष्ठति इदम् एवं भवत्व् इति तद् अधिष्ठानं. तत् प्रयोजनम् अस्यास् तत्र वा भवा ऋद्धिर् आधिष्ठानिकी. ताम् इच्छतां बौद्धानां न युक्त एष परिहार इति. कतमः. य उक्तः. शरीरधातूनाम् अवस्थापनार्थम् इति.

प्रश्नात् प्रश्नान्तरम् उत्पद्यत इति. अथ किमर्थं चरमभविको बोधिसत्त्व इति प्रश्न उक्तो विस्तरेण. तत्र चोक्तं. शरीरधातूनाम् अवस्थापनार्थम् इति विस्तरः. तस्मात् प्रश्नाद् इदं प्रश्नान्तरम् उपजायते. यद्य् उपपादुकानाम् इति विस्तरः. कायनिधनं कायनाशः. उपपादुकः सुपर्णी उपपादुकं नागम् इति विशेषणद्वयं किमर्थं. किम् अनुपपादुका अपि सुपर्णिनो नागाश् च सन्ति. सन्तीत्य् आहुः. चतुर्विधा हि गरुडा नागाश् चांडजादिभेदात्. तेषाम् उपपादुका उत्तमाः. संस्वेदजा उपोत्तमाः. जरायुजा मध्याः अण्डजा जघन्याः. तत्रोपपादुकः सुपर्णी सर्वान् उपपादुकादीन् उद्धरति भक्षार्थं. संस्वेदजस् त्रीन् संस्वेदजादीन्. जरायुजो द्वौ जरायुजाण्डजौ. [तिब्. 256अ] अण्डजो ऽण्डजम् एवेति वर्णयन्ति. यावन् न मृत इति. यदा जीवति. तदा तन् मांसादि नान्तर्धीयत इति निदर्शितं भवति. न पुनर् मृतस्यास्य तृप्यतीति. न पुनर् मृतेनानेन तृप्यतीत्य् अर्थः. तृपिपूरौ विभाषेति विभाषाषष्ठीष्यते. तस्य मृतस्याकाशस्येव भक्षितस्य मान्सपिण्डान्तर्धानान् न तृप्यतीत्य् अवगन्तव्यं.

सा हि द्वे गती इति नरकगतिर् देवगतिश् च. तिसृणां च प्रदेश इति. तिर्यक्प्रेतमनुष्यगतीनां.

(iii.10) गत्यन्तरालत्वात्. गत्योर् अन्तरालत्वात्. ननु चाव्याकृतैव गतिर् इष्यते. उपपत्तिभवश् चैकांतेन क्लिष्टः. मरणभवो ऽपि कदाचित् कुशलः क्लिष्टो वा भवति. न गतिः. कथं तयोर् गतिशब्दम् अध्यारोप्य गत्यन्तरालत्वाद् इत्य् उच्यते. नैष दोषः. मरणोपपत्तिभवयोर् अनिवृताव्याकृतानां निकायसभागजीवितेन्द्रियजात्यादीनां (अभिध्-क्-व्य् 267) गतिस्वभावानां तत्काले विद्यमानत्वात्. कामरूपधात्वोश् च कायेन्द्रियस्याप्य् अवश्यं भावात्. न चोपपत्तिवन् मरणभवो ऽवश्यं क्लिष्टो नाप्य् अवश्यं कुशलः. तस्मात् तेषु गतिशब्दम् आरोप्य गत्यंतरालत्वाद् इत्य् उक्तं. पदे गत्यर्थत्वाद् इति. पद गताव् इति पठ्यते. तेनोपपन्नशब्दस्योपगतार्थं दर्शयति.

नोपपन्नो ऽन्तराभवः.

किं तर्हि. उपपद्यमान इति. अभिव्यक्तिः समाप्तिश् चेति. आक्षेपकेण कर्मणा निकायसभागस्याभिव्यक्तिः परिपूरकैः परिसमाप्तिः. [तिब्. 256ब्] सर्वस्मिं जन्मनि कर्मद्वयस्य व्यापारात्.

एकं जन्माक्षिपत्य् एकम् अनेकं परिपूरकम्

इति वचनात्. अथ वा यत्र देशे आक्षिप्तस्य कर्मणा नामरूपस्य विपाकस्य प्रादुर्भावो ऽभिव्यक्तिः. षडायतनपूर्तिश् च समाप्तिः. स देशो ऽवगन्तव्यः.

(iii.11, 12) व्रीहिसंतानसाधर्म्याद्

इति विस्तरः. संबध्नंस् तानः संतानो व्रीहेः संतानो व्रीहिसंतानः. तेन साधर्म्याद् न विच्छिन्नस्य भवस्योद्भवो भवति. यतो ऽपैति. यत्र चोत्पद्यते. तदन्तरालसंतानवर्तिरूपपूर्वकम् उपपत्तिभवरूपं. स्वोपादानरूपसंतानरूपस्वभावत्वात्. व्रीहिसंतानपश्चात्तररूपवत्. संतानवर्तिनां हि धर्माणाम् अविच्छेदेन देशान्तरोत्पत्त्या देशान्तरेषु प्रादुर्भावो दृष्टः. तद्यथा व्रीहिसंतानस्य. व्रीहिसंतानपश्चात्तररूपं हि यतो देशान्तराद् अपैति. यत्र च देशांतर उत्पद्यते. तदन्तरालसंतानवर्तिरूपपूर्वकम् उत्पद्यते. क्षणिकवादिनां ह्य् अयम् अस्माकं सिद्धान्तः. यदा ग्रामाद् ग्रामांतरं नीयते व्रीहिः. न स विऋहिः पूर्वत्र ग्रामे निरुध्य तद्ग्रामान्तराले ऽनुत्पद्यमानो ऽनेकयोजनान्तरिते ऽपि ग्रामान्तर उत्पद्यते. किं तर्हि. निरन्तराकाशदेशोत्पादनिरोधक्रमेणोत्पद्यते ग्रामान्तरे. तच् च स्वोपादानरूपसंतानरूपस्वभावं. तथोपपत्तिभवरूपम् अप्य् उत्पद्यत इति. अत्राचार्यगुणमतिः सह शिष्येणाचार्यवसुमित्रेण स्वनिकायानुरागभावितमतिर् व्याख्यानव्यापारम् अपास्य प्रत्यवस्थानपर एव वर्तते. वयम् इह शास्त्रार्थविवरणं प्रत्य् [तिब्. 257अ] आद्रियामहे. न तद् दूषणं. निःसारत्वात् बहुवक्तव्यभयाच् च. भविष्णुर् भवनशीलः. विच्छिन्नो ऽपीति विस्तरः. आदर्शादिषु बिम्बात् प्रतिबिम्बम् इति. आदर्शोदकादिषु बिम्बान् मुखात् प्रतिबिम्बं मुखच्छायारूपं विच्छिन्नम् उत्पद्यमानं दृष्टम् इत्य् अनेनानैकान्तिकताम् उद्ग्राहयति. प्रतिसाधनं वा करोति. यतो ऽपैति. यत्र चोत्पद्यते. न तदन्तरालसंतानवर्तिरूपपूर्वकम् उपपत्तिभवरूपं. स्वोपादानरूपसंतानरूपस्वभावत्वात्. (अभिध्-क्-व्य् 268) प्रतिबिम्बरूपवद् इति. प्रतिबिम्बं नामान्यद् एवोत्पद्यते धर्मान्तरम् इत्य् असिद्धम् एतद् इति. बिम्बसामर्थ्याद् एव तत्रार्शादिषु प्रतिबिम्बाकारं भ्रान्तं विज्ञानम् उत्पद्यत इत्य् आचार्यस्याभिप्रायः. न तत्र प्रतिभिंबं नाम किंचिद् अस्तीत्य् अनेन धर्म्यसिद्धिं नाम दृष्टान्तदोषं दर्शयति. तस्मान् नानैकान्ततास्ति. न चैतत् प्रतिसाधनं साध्व् इति. सिद्धाव् अपि च सत्याम्

असाम्याद् अनिदर्शनम्

इति. प्रतिबिम्बस्य द्रव्यसत्त्वेन सिद्धाव् अपि सत्याम् असाम्याद् दार्ष्टान्तिकेनानिदर्शनम् अनुदाहरणं प्रतिबिम्बकम् इति. कथं तावद् असिद्धम् इति. तावच्छब्दः क्रमे. असिद्धतायुक्तिं तावद् दर्शयन्न् आह.

सहैकत्र द्वयाभावाद्

इति विस्तरः. तत्रैव हि आदर्शदेशे आदर्शरूपं दृश्यते पार्श्वस्थितेन न प्रतिबिम्बकं. प्रतिबिंबकं च तत्रैव दृश्यते ऽभिमुखावस्थितेन नादर्शरूपं. न चैकत्रदेशे उपादायरूपद्वयस्यास्ति [तिब्. 257ब्] सहभावः. किं कारणं. आश्रयभूतभेदात्. आश्रयभूतानि हि तर्योर् भिन्नानीति. नास्त्य् आदर्शरूपाश्रयभूतैर् अवष्टब्धे देशे प्रतिबिम्बकरूपाश्रयभूतानां तत्रावकाशः. अतो नोपादायरूपद्वयस्यास्ति संभवः. तद् एवं युगपद् विज्ञानद्वयस्याभावात्. उपादायरूपद्वयस्य चैकत्र सहभावाभावात्. न तत् किंचिद् अस्तीति दर्शयति. यत्रैव हि देशे आदर्शरूपं दृश्यते. इति भिम्बकं च तत्रैव. न त्व् अन्यत्र. को दोष इत्य् आह. न चैकत्र रूपद्वयस्यास्ति सहभाव इति. पूर्ववद् वाद्च्यं. अथ वा

सहैकत्र द्वयाभावाद्

इत्य् अस्य सूत्रस्यायम् अर्थः. एकत्र रूपे पुरुषद्वयस्य पश्यत एवाभावात् सहदर्शनस्य प्रतिबिम्बम् असिद्धम् इति वाक्यध्याहारः. कथम् इत्य् आह. दिग्भेदव्यवस्थितैः पुरुषैर् एकैर् उत्तरदिग्व्यवस्थितैर् इतरैर् दक्षिणदिग्व्यवस्थितैः. एकस्मिं वाप्यम्बुदेशे एकस्मिंस् तटाकजलदेशे. स्वाभिमुखदेशस्थितानां रूपाणां दक्षिणतटोर्ध्वस्थितानि रूपाण्य् उत्तरदिग्व्यवस्थितपुरुषस्वाभिमुखस्थानि उत्तरतटोर्ध्वस्थितान्य् अपि रूपाणि दक्षिणदिग्व्यवस्थितपुरुषस्वाभिमुखस्थानि. तेषाम् उभयेषां. किं प्रतिबिम्बकं अन्योन्यम् उपलभ्यते. उत्तरदिग्व्यवस्थितैर् दक्षिणतटाधः प्रतिबिम्बकम् उपलभ्यते. दक्षिणदिग्व्यवस्थितैर् अप्य् उत्तरतटाधः प्रतिबिंबकम् उपलभ्यते. एवम् अन्योन्यम् उपलभ्यते. न तूभयं [तिब्. 258अ] युगपद् उपलभ्यते इति वाक्यार्थः. न हि स्वतटाधः प्रतिबिंबकं एकतटस्थैः समन्ततो ऽपि वापीजलं पश्यद्भिर् उपलभ्यते. ततः किम् इति चेद् अत आह. न त्व् एकत्र रूपे घटे पटे वा द्वयोः पश्यतोः पुरुषयोः सहदर्शनं (अभिध्-क्-व्य् 269) न भवति. भवत्य् एवेत्य् अर्थः. इह तु न भवति सहदर्शनम् इत्य् अतो न तत्र रूपान्तरोत्पत्तिर् युक्तेति. अथ वास्यायम् अर्थः. छायातपयोश् च द्वयोस् सहैकत्रभावो न दृष्टो लोके. यत्र छाया भवति मण्डपे ऽन्यत्र वा. न तत्रातपः. यत्र वातपो भवत्य् अभ्यवकाशे. न तत्र छाया. उपलभ्यते च छायास्थ आदर्शे सूर्यस्य प्रतिबिम्बकम् इति. कथं. तटाके सूर्यप्रतिबिंबकम् उत्पद्यते. तत्तटाकतटस्थे च छायावति मण्डपे आदर्शः स्थाप्यते. तत्रादर्शके तटाकस्थस्य सूर्यप्रतिबिंबकस्यापरं प्रतिबिंबकम् उत्पद्यते.

तटाके च यत् सूर्यप्रतिभिम्बकं. तत् सूर्यसमुत्थम् इत्य् अवश्यम्. आतपस्वभावम् इत्य् अभ्युपगंतव्यं. यच् चापरम् आदर्शे प्रतिबिम्बकं. तद् आतपस्वभावप्रतिबिंबकसमुत्थम् इत्य् एतद् अप्य् अवश्यम् आतपस्वभावम् अभ्युपगंतव्यम्. एवं सति छायातपयोः सहस्वभावः स्यात्. न चान्यत्र लोके छायातपयोः सहभाव इति. न युक्तो ऽस्य प्रतिबिंबकस्य तत्र प्रादुर्भावः. कूप इवोदकम् इति. यथा कूपे दूरान्तर्गतम् उदकम् [तिब्. 258ब्] दृश्यते. तथा चन्द्रप्रतिबिम्बकम् अप्य् अत्रैवान्तर्गतं दृश्यते. न चादर्शस् तावद् वस्तुफलो ऽस्ति. तच् च तत्रोत्पद्यमानं. तच् च प्रतिबिंबकम् आदश एवोत्पद्यमानं. नान्यत्राधस्ताद् उपलभ्येत. उपलभ्यते च. अतो नास्त्य् एव तत् किंचित्. सामग्र्यास् तु बिम्बादर्शादिलक्षणायाः. स तस्याः प्रभावो यत् तथा दर्शनं भवति. अचिन्त्यो हि धर्माणां शक्तिभेदः. अयसो ऽयस्कान्ताभिगमनदर्शनात्. न काष्ठादीनां यथा. चन्द्रकान्ताच् चन्द्रोदये ऽप्संभवप्रक्षरणदर्शनं. नांगारादीनाम्. इत्य् एवमादि वक्तव्यं. आदर्शसंतानसम्बद्धत्वाद् इति. न बिंबसंतानभूतं प्रतिबिम्बम्. आदर्शसंबद्धत्वात्. आदर्शरूपवत्. सहभावाच् च. बिम्बसमानकालरूपान्तरवत्. तद् एवं यथा मरणभवस्योपपत्तिभवः संतानभूतः. नैवं बिम्बस्य प्रतिबिम्बकम् इति. साधनानन्वितः प्रतिबिम्बकदृष्टान्तः. व्रीहिसंतानपश्चात्तररूपदृष्टान्तस् तु स्वसंतानपूर्वरूपसंतानभूत इति. तस्माद् असाम्यं दृष्टान्तस्य प्रतिबिंबस्य चेति.

द्वयोदयाद्

इति विस्तरः. द्वयेनोदयो द्वयोदयः. तस्माद् बिम्बाच् चादर्शाच् चेत्य् अर्थः. यत् प्रधानं कारणम् आदर्शादि. तद् आश्रित्योत्पद्यते प्रतिबिम्बं. आदर्शादि हि प्रतिभिम्बस्य प्रधानं कारणं तदनुविधानात्. तद्यथा यद्य् असिस् तिर्यगवस्थितो भवति. प्रतिबिम्बम् अपि तिर्यग् आयतं च दृश्यते. यद्य् [तिब्. 259अ] ऊर्ध्वम् अवस्थितो भवति. प्रतिबिम्बम् अपि तथैव दृश्यते. न चैवम् उपपत्तिभवस्यापि द्वाभ्यां कारणाभ्यां संभवः मरणभवाच् चान्यतश् (अभिध्-क्-व्य् 270) च प्रधानभूताद् आदर्शस्थानीयात्. बाह्यं शुक्लशोणितं प्रधानकारणम् इति चेत्. न. अचेतनत्वात्. उपपादुकानां च तदभावात्. अतो ऽप्य् अयम् असमानो दृष्टान्तः. किम् अनेन दर्शितं भवति. उक्तालितविशेषणे हेताव् अयम् अतुल्यो दृष्टान्तः इति. कथम् इति. यतो ऽपैति. यत्र चोत्पद्यते. तदन्तरालसंतानवर्तिरूपपूर्वकम् उपपत्तिभवरूपम्. अद्वयोत्पन्नस्वोपादानरूपसंतानरूपस्वभावत्वात्. व्रीहिसंतानपश्चात्तररूपवद् इति. तद् एवं सति नास्य साधनस्यानैकान्तिकता शक्यम् उद्ग्राहयितुं. नापि प्रतिसाधनं कर्तुम् इत्य् उक्तं भवति. आगमेनान्तराभवस्यास्तित्वं साधयन्न् आह.

कण्ठोक्तेश् चास्तीति

स्वशब्दाभिधानाद् इत्य् अर्थः. नैतत् सूत्रं तैर् आम्नायत इति. तैर् निकायान्तरीयैः. कस्मान् नाम्नायते. तदागमेष्व् अभावात्. निकायन्तरागमप्रसिद्धं किम् इति न प्रमाणं क्रियते. मूलसंगीतिभ्रंशेन समारोपितसूत्राशंकितत्वात्. त्रयाणां स्थानानाम् इति. त्रयाणां हेतूनां. माता कल्या माता नीरोगा. ऋतुमती रजस्वला. तद् एतद् उभयं प्रथमं स्थानं भवति. रक्तौ संनिपतिताव् इति. मैथुनधर्मं कुर्वन्तौ. इदं द्वितीयं स्थानं. गन्धर्वश् च प्रत्युपस्थित इति तृतीयं. स्कंधभेदश् च प्रत्युपस्थित [तिब्. 259ब्] इति मरणभवः. पंचानागामिनः सप्त सत्पुरुषगतयः पुद्गलनिर्देशकोशस्थाने वक्ष्यंते. उपपद्यादयो ऽपीति. उपपद्या नाम ते देवा इत्य् एवमादयः संप्रसज्यन्ते. सप्त सत्पुरुषगतय इति. एत एव पंचान्तरापरिनिर्वायिणं त्रिधा भित्त्वा सप्त भवंति. तेनाहान्तरापरिनिर्वायिणस् त्रय उक्ताः कालदेशप्रकर्षभेदेनेति. कालप्रकर्षभेदेन देशप्रकर्षभेदेन च यथायोगं. सूत्रं चात्र पठ्यते. श्रावस्त्यां निदानं. तत्र भगवान् भिक्षून् आमन्त्रयते स्म. सप्त वो ऽहं भिक्षवः सत्पुरुषगतीर् देशयिष्याम्य् अनुपादाय च परिनिर्वाणं. तच् छ्रुणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये. सप्त सत्पुरुषगतयः कतमाः. इह भिक्षुर् एवं प्रतिपन्नो भवति. नो च स्यां नो च मे स्यात् न भविष्यामि न मे भविष्यति यद् अस्ति यद् भूतं तत् प्रजहामीत्य् उपेक्षां प्रतिलभते. स भवे ऽस्मिन् न रज्यते. स भवे ऽस्मिन् न सज्यते. अथोत्तरं पदं शान्तं प्रज्ञया प्रतिविध्यति. तच् चानेन पदं कायेन साक्षात्कृतं भवति. एवं प्रतिपन्नस्य भिक्षोः का गतिः स्यात्. कोपपत्तिः. को

ऽभिसंपराय इति स्युः प्रष्टारः. तद्यथा भिक्षवः परीत्तः शकलिकाग्निर् अभिनिवर्तमान एव निर्वायात्. एवम् एव तस्य तावन् मानावशेषम् [तिब्. 260अ] अप्रहीणं भवत्य् अपरिज्ञातं. तस्य तावन् मानावशेषस्याप्रहाणाद् अपरिज्ञानात् पंचानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अन्तरापरिनिर्वायी भवति. इयं प्रथमा सत्पुरुषगतिर् आख्याता. (अभिध्-क्-व्य् 271) पुनर् अपरम् भिक्षुर् एवं प्रतिपन्नो भवति. नो च स्याम् इति पूर्ववत् यावत् स्युः प्रष्टार इति. तद्यथायोगुडानां वायस्फालानां वा प्रदीप्ताग्निसंप्रतप्तानाम् अयोघनेन हन्यमानानाम् अयस्प्रपाटिका उत्पतंत्य् एव निर्वायात्. एवम् एव तस्य पूर्ववत् यावत् पंचानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अन्तरापरिनिर्वायी भवति. इयं द्वितीया सत्पुरुषगतिः. पुनर् अपरं भिक्षुर् एवं प्रतिपन्नो भवति. पूर्ववद् यावद् अयस्प्रपाटिका उत्प्लुत्यापतित्वैव पृथिव्यां निर्वायात्. एवम् एव तस्य पूर्ववत् यावद् अन्तरापरिनिर्वायी भवति. इयं तृतीया सत्पुरुषगतिः. पुनर् अपरं भिक्षुर् एवं प्रतिपन्नो भवतीति पूर्ववत् यावद् अयस्प्रपाटिका उत्प्लुत्य पतितमात्रैव पृथिव्यां निर्वायात्. एवम् एव तस्य पूर्ववद् यावत् पंचानाम् अवरभागीयानां संयोजनानां प्रहाणाद् उपपद्यपरिनिर्वायी भवति. इयं चतुर्थी सत्पुरुषगतिः. पुनर् अपरं भिक्षुर् एवं प्रतिपन्न इति पूर्ववद् यावद् अयस्प्रपाटिका उत्प्लुत्य परीत्ते तृणकाष्ठे निपतेत्. सा तत्र धूमम् अपि कुर्यात्. अर्चिर् अपि संजनयेत्. सा तत्र धूमम् अपि [तिब्. 260ब्] कृत्वार्चिर् अपि संजनय्य तद् एव परीत्तं तृणकाष्ठं दग्ध्वा पर्यादाय निरुपादाना निर्वायात्. एवम् एव तस्य पूर्ववद् यावत् पंचानाम् अवरभागीयानां

संयोजनानां प्रहाणाद् अनभिसंस्कारपरिनिर्वायी भवति. इयं पंचमी सत्पुरुषगतिः. पुनर् अपरं भिक्षुर् एवं प्रतिपन्न इति पूर्ववद् यावद् अयस्प्रपाटिका उत्प्लुत्य महति विपुले तृणकाष्ठे निपतेत्. सा तत्र धूमम् अपि कुर्यात्. अर्चिर् अपि संजनयेत्. सा तत्र धूमम् अपि कृत्वार्चिर् अपि संजनय्य तद् एव महद् विपुलं तृणकाष्ठं दग्ध्वा पर्यादाय निरुपादाना निर्वायात्. एवम् एव तस्य पूर्ववद् यावत् पंचानाम् अवरभागीयानां संयोजनानां प्रहाणात् साभिसंस्कारपरिनिर्वायी भवति. इयं षष्ठी सत्पुरुषगतिः. पुनर् अपरं भिक्षुर् एवं प्रतिपन्न इति पूर्ववद् यावद् अयस्प्रपाटिका उत्प्लुत्य महति विपुले तृणाकाष्ठे निपतेत्. सा तत्र धूमम् अपि कुर्यात् अर्चिर् अपि संजनयेत्. सा तत्र धूमम् अपि कृत्वार्चिर् अपि संजनय्य तद् एव महद् विपुलं तृणकाष्ठं दग्ध्वा ग्रामम् अपि दहेद् ग्रामप्रदेशम् अपि नगरम् अपि नगरप्रदेशम् अपि जनपदम् अपि जनपदप्रदेशम् अपि कक्षम् अपि दावम् अपि द्वीपम् अपि षण्डम् अपि दहेत्. ग्रामम् अपि दग्ध्वा यावद् षण्डम् अपि दग्ध्वा मार्गान्तम् आगम्य उदकान्तं वाल्पहरितकं या पृथिवीप्रदेशम् आगम्य पर्यादाय [तिब्. 261ब्] निरुपादाना निर्वायात्. एवम् एव तस्य पूर्ववद् यावत् पंचानाम् अवरभ्गीयानां संयोजनानां प्रहाणात् ऊर्ध्वंस्रोता भवति. इयं सप्तमी सत्पुरुषपतिर् आख्याता. अनुपादाय परिनिर्वाणं कतमत्. इह भिक्षुर् एवं प्रतिपन्न इति पूर्ववद् यावत् स्युः प्रष्टार इति. तस्यैवं प्रतिपन्नस्य भिक्षोर् न पूर्वस्यां दिशि गतिं वदामि न दक्षिणस्यां न पश्चिमायां नोत्तरस्यां नोर्ध्वं नाधो नानुविदिक्षु (अभिध्-क्-व्य् 272) नान्यत्र. दृष्ट एव धर्मे निश्छायं परिनिर्वृतं

शीतीभूतं ब्रह्मीभूतम् इति. इदम् उच्यते ऽनुपादाय परिनिर्वाणं. सप्त वो ऽहं भिक्षवः सत्पुरुषगतीर् देशयिष्याम्य् अनुपादाय च परिनिर्वाणम् इति यद् उक्तम्. इदम् एतत्प्रयुक्तं. अन्ये पुनर् आहुर् इति विस्तरः. आयुषः प्रमाणं. तस्यान्तरं तस्मिन्न् आयुःप्रमाणान्तरे ऽपरिसमाप्त आयुषीत्य् अर्थः. देवसमीपान्तरे वा. देवानाम् अन्तिकं देवानां समीपम्. देवसमीपं गतस्यान्तरे यः क्लेशान् प्रजहाति. सो ऽन्तरापरिनिर्वायी. स पुनर् धातुगतो वा परिनिर्वाति. यः क्लेशबीजावस्थायाम् उपपन्नमात्रः. असमुदाचारक्लेश इत्य् अर्थः. संज्ञागतो विषयसंज्ञासमुदाचारावस्थायां यः परिनिर्वाति. धातुगताच् चिरतरेणायं [तिब्. 261ब्] परिनिर्वाति. वितर्कगतो वा वितर्कसमुदाचारावस्थायां यः परिनिर्वाति. अयम् अपि संज्ञागताच् चिरतरेण परिनिर्वाति. तेन त्रिविधो भवत्य् अन्तरापरिनिर्वायी यथोक्तेन दृष्टान्तत्रयेण. प्रथमो वा निकायसभागपरिग्रहं कृत्वा जातमात्र इत्य् अर्थः. यं प्रत्य् एष परीत्तः शकलिकाग्निर् इति दृष्टान्तः. द्वितीयो देवसमृद्धिं चानुभूय परिनिर्वातीति. यं प्रत्य् एष दृष्टान्तः. तद्यथायस्प्रपातिकेति. तृतीयो धर्मसंगीतिम् अनुप्रविश्य धर्मसांकथ्यम् अनुप्रविश्य परिनिर्वाति. यं प्रत्य् एष दृष्टान्तः. तद्यथायस्प्रपाटिका उत्प्लुत्य पृथिव्याम् अपतित्वैव निर्वायात्. तद् एवं विनाप्य् अन्तराभवेन यथान्तरापरिनिर्वायी भवति. यथा च तस्य दृष्टान्तत्रयेण त्रिविधो भेदः. तथा साधितं निकायान्तरीयैः. तस्मिं साधिते इदं चोद्येत यदि धर्मसंगीतिम् अनुप्रविश्य यः परिनिर्वाति. सो ऽन्तरापरिनिर्वायीष्यते कीदृश उपपद्यपरिनिर्वायी भविष्यतीत्य् अत आह. उपपद्यपरिनिर्वायी पुनः

प्रकर्षयुक्तां संगीतिम् अनुप्रविश्य परिनिर्वातीति. प्रकर्षयोगाद् उत्पत्त्यर्थो भवतीत्य् अभिप्रायः. संगीतिअनुप्रवेशसामान्यान् [तिब्. 262अ] नैष भेदो युज्यत इति वचनावकाशं मत्वा पुनर् आह. भूयसा वायुर् उपहत्येति. आयुषो बहु क्षयित्वा परिनिर्वातीत्य् अर्थः.

त एत इति विस्तरः. त एते सर्वे ऽपि धातुगतादयस् त्रयः शकालिकादिभिर् दृष्टान्तैर् न संबध्यंते. कस्मात्. देशगतिविशेषाभावात्. देशगतेर् विशेषस्याभावात्. न ह्य् एषां देशगतिविशेषो ऽस्ति. तत्रैव देशे परिनिर्वाणात्. सूत्रोक्तानां त्रयाणां दृष्टान्तानां दशगतिविशेषो ऽस्तीति. नैभिर् एते सम्बध्यंते. आरूप्येष्व् अपि चेति विस्तरः. यदि चैवम् उपपद्यपरिनिर्वायिण एवान्तरापरिनिर्वायित्वेन व्यवस्थाप्येरन्. आरूप्येष्व् अपि ते तथैव पठ्येरन्. तत्रायुःप्रमाणान्तरे परिनिर्वाणात्. न चैवम्. अतो नैवं सूत्रार्थः. आयुःप्रमाणान्तरे वेत्यादिः. कथं पुनर् गम्यते. नारूप्येष्व् अन्तरापरिनिर्वायी पठ्यत इत्य् आह

ध्यानैश् चतस्रो दशिका

इति विस्तरः. ध्यानैश् चतुर्भिश् चतस्रो दशिका सूत्रार्थानां. प्रथमस्य ध्यानस्यैका दशिका यावच् चतुर्थस्यैका दशिका. ताः कृत्वा.

आरूप्यैस् सप्तिकात्रयं

इति. आकाशविज्ञानाकिंचन्यायतनैस् तिस्रः सप्तिकाः. तासां त्रयम्. अन्तराभवाभावाद् उपपत्तिस्थानत्रयाभावेन च द्वयाभावात्. तत् कृत्वा. नैवसंज्ञानासंज्ञायतनेन [तिब्. 262ब्]

षट्किका.

तेषाम् एव त्रयाणां ऊर्ध्वं स्रोतसश् चाभावात्. तां च कृत्वा वर्गो भवति

समुदितो

बद्ध इत्य् अर्थः. कथम्. इह भिक्षुर् यैर् आकारैर् यैर् लिंगैर् यैर् निमित्तैर् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. स न हैव तान् आकारान् तानि लिंगानि तानि निमित्तानि मनसिकरोति. अपि तु यत् तत्रोपलभते रूपगतं वा वेदनागतं वा संज्ञागतं वा संस्कारगतं वा विज्ञानगतं वा. स तां धर्मान् रोगतो मनसिकरोति. गण्डतः शल्यतो ऽघतो ऽनित्यतो दुःखतः शून्यतो ऽनात्मतो मनसिकरोति. स तान् धर्मान् रोगतो मनसिकृत्य यावद् अनात्मतो मनसिकृत्य तेभ्यो धर्मेभ्यश् चित्तम् उद्वेजयति उत्तासयति प्रतिवारयति. स तेभ्यो धर्मेभ्यश् चित्तम् उद्वेज्योत्त्रास्य प्रतिवार्य अमृते धाताव् उपसंहरति. एतच् छांतम् एतत् प्रणीतं. यद् उत सर्वोपधिप्रतिनिसर्गस् तृष्णाक्षयो विरागो निरोधो निर्वाणम् इति. 1. एतद् एव च सूत्रम् उक्त्वायं विशेषः. तस्यैवं जानत एवं पश्यतः कामास्रवाच् चित्तं विमुच्यते भवास्रवाद् अविद्यास्रवाच् चित्तं विमुच्यते. विमुक्तस्य विमुक्तो ऽस्मीति ज्ञानदर्शनं भवति क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति. 2. एतद् एव च सूत्रम् उक्त्वा नो तु विमुच्यते. अपि तु तेनैव धर्मच्छन्देन [तिब्. 263अ] तेनैव धर्मस्नेहेन तेनैव धर्मप्रेम्ना तयैव धर्माभिरत्या अन्तरापरिनिर्वायी भवति. 3. न हैवान्तरापरिनिर्वायी भवति. अपि तूपपद्यपरिनिर्वायी भवति. 4. न हैवोपपद्यपरिनिर्वायी भवति. अपि त्व् अनभिसंस्कारपरिनिर्वायी भवति. 5. न हैवानभिसंस्कारपरिनिर्वायी भवति. अपि तु साभिसंस्कारपरिनिर्वायी भवति. 6. न

हैव साभिसंस्कारपरिनिर्वायी भवति. अपि तूर्ध्वंस्रोता भवति. 7. न हैवोर्ध्वंस्रोता भवति. अपि तु तेनैव धर्मच्छन्देन पूर्ववत् यावत् तयैव धर्मभिरत्या महाब्रह्मणां देवानां सभागतायाम् उपपद्यते. 8. न हैव महाब्रह्मणां देवानां सभागतायाम् उपपद्यते. अपि तु तेनैव धर्मच्छन्देन पूर्ववत् यावत् तयैव धर्माभिरत्या ब्रह्मपुरोहितानां (अभिध्-क्-व्य् 274) देवानां सभागतायाम् उपपद्यते. 9. न हैव ब्रह्मपुरोहितानां देवानां सभागतायाम् उपपद्यते. अपि तु तेनैव धर्मच्छन्देन पूर्ववत् यावत् तयैव धर्माभिरत्या ब्रह्मकायिकानां देवानां सभागतायाम् उपपद्यते. 10. इह भिक्षुर् यैर् आकारैर् यैर् लिंगैर् यैर् निमितैर् वितर्कविचाराणां व्युपशमाद् अध्यात्मसंप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् [तिब्. 263ब्] अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति. स न हैव तान् आकारान् तानि लिंगानि तानि निमित्तानि मनसिकरोति. अपि तु तत्रोपलभते पूर्ववद् ग्रन्थः. यावद् विरागो निरोधो निर्वाणं. 1. एतद् एव सूत्रम् उक्त्वा तस्यैवं जानत एवं पश्यतः कामास्रवाच् चित्तं विमुच्यते. भवास्रवाद् अविद्यास्रवात् पूर्ववत् यावत् कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति. 2. एतद् एव सूत्रम् उक्त्वा नो तु विमुच्यते. अपि तु तेनैव धर्मच्छन्देन पूर्ववत्. यावत् तयैव धर्माभिरत्या अन्तरापरिनिर्वायी भवति. 3. न हैवान्तरापरिनिर्वायी भवति. अपि तूपपद्यपरिनिर्वायी भवति. 4. न हैवोपपद्यपरिनिर्वायी भवति अपि त्व् अनभिसंस्कारपरिनिर्वायी भवति. 5. न हैवानभिसंस्कारपरिनिर्वायी भवति. अपि तु साभिसंकारपरिनिर्वायी भवति. 6.

न हैव साभिसंस्कारपरिनिर्वायी भवति. अपि तूर्ध्वंस्रोता भवति. 7. न हैवोर्ध्वंस्रोता भवति. अपि तु तेनैव धर्मच्छन्देन पूर्ववत् यावत् तयैव धर्माभिरत्या आभास्वराणां देवानां सभागतायाम् उपपद्यते. 8. न हैवाभास्वराणां देवानां सभागतायाम् उपपद्यते. अपि तु तेनैव धर्मच्छन्देन यावत् तयैव धर्माभिरत्या अप्रमाणाभानां देवानां सभागतायाम् उपपद्यते. 9. न हैवाप्रमाणाभानां देवानां सभागतायां उपपद्यते. अपि तु तेनैव धर्मच्छन्देन पूर्ववद् यावत् तयैव धर्माभिरत्या परीत्ताभानां देवानां सभागतायाम् उपपद्यते. 10. इह भिक्षुर् यैर् आकारैर् यैर् लिंगैर् यैर् निमित्तैः प्रीतिविरागाद् उपेक्षको विहरति. स्मृतः संप्रजानन् सुखं च कायेन प्रतिसंवेदयते. यत् तद् आर्या आचक्षते उपेक्षकः स्मृतिमां सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. स न हैव तान् आकारांस् तानि लिंगानि तानि निमित्तानि मनसिकरोति पूर्ववत् [तिब्. 264अ] सर्वाणि सूत्राणि. केवलं तु निकायसभागतायां विशेषः. न हैवोर्ध्वंस्रोता भवति. अपि तु तेनैव धर्मच्छन्देन पूर्ववद् यावद् छुभकृत्स्नानां देवानां सभागतायाम् उपपद्यते. 8. न हैव शुभकृत्स्नानां देवानां सभागतायाम् उपपद्यते. अपि तेनैव पूर्ववत् अप्रमाणशुभानां देवानां सभागतायाम् उपपद्यते. 9. न हैवाप्रमाणशुभानां देवानां सभागतायाम् उपयद्यते. अपि तु तेनैव पूर्ववत् परीत्तशुभानां देवानां सभागतायाम् उपपद्यते. 10. इह भिक्षुर् यैर् आकारैर् यैर् लिंगैर् यैर् निमित्तैः सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् (अभिध्-क्-व्य् 275) अस्तंगमात्. अदुःखासुखम्

उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति. स न हैव तान् आकारांस् तानि लिंगानि विस्तरेण सर्वाणि सूत्राणि पूर्ववद् वक्तव्यानि. देवनिकायोपपत्तयस् तु विशेष्यन्ते. यावत् तयैव धर्माभिरत्या बृहत्फलानां देवानां सभागतायाम् उपपद्यते. न हैव पूर्ववत् पुण्यप्रसवानां देवानां सभागतायाम् उपपद्यते. न हैव पूर्ववद् अनभ्रकाणां देवानां सभागतायाम् उपपद्यते. 10. इह भिक्षुर् यैर् आकारैर् यैर् लिंगैर् यैर् निमित्तैः सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानां अस्तंगमात् [तिब्. 264ब्] नानात्वसंज्ञानाम् अमनसिकारात् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति. स न हैव तान् आकारान् इति पूर्ववत्. केवलं तु रूपगतम् इति न पठितव्यं. तत्र रूपाभावात्. यावन् निरोधो निर्वाणम् इति. 1. एतद् एव सूत्रम् उक्त्वायं विशेषः. तस्यैवं जानत इति पूर्ववत् यावन् नापरम् अस्माद् भवं प्रजानामीति. 2. एतद् एवोक्त्वा नो विमुच्यते. अपि तु तेनैव धर्मच्छन्देन यावत् तयैव धर्माभिरत्या उपपद्यपरिनिर्वायी भवति. 3. न हैवोपपद्यपरिनिर्वायी भवति. अपि तु तेनैव यावद् अनभिसंस्कारपरिनिर्वायी भवति. 4. न हैवानभिसंस्कारपरिनिर्वायी भवतीति सर्वम् उक्त्वा यावद् ऊर्ध्वंस्रोता न भवति. अपि तु तेनैव पूर्ववत्. यावत् तयैव धर्माभिरत्या आकाशानंत्यायतनोपगानां देवानां सभागतायाम् उपपद्यते. 7. इह भिक्षुर् यैर् आकारैर् यैर् लिंगैर् यैर् निमित्तैः सर्वश आकाशानंत्यायतनं समतिक्रम्यानंतं विज्ञानम् इति विज्ञानानंत्यायतनम् उपसंपद्य विहरति. स न हैव तान् आकारान् इत्य् आकाशानंत्यायतनवत् सप्त सूत्राणि वक्तव्यानि. केवलं

तु विज्ञानानंत्यायतनोपगानां देवानां सभागतायाम् उपपद्यत इति विशेषः. 7. पुनर् अपरम् इह भिक्षुर् यैर् आकारैर् [तिब्. 265अ] यैर् लिंगैर् यैर् निमित्तैः सर्वशो विज्ञानानंत्यायतनं समतिक्रम्य नास्ति किंचिद् इत्य् आकिंचन्यायतनम् उपसंपद्य विहरति. स न हैव तान् आकारान् इति पूर्ववत् सप्त सूत्राणि. 7. पुनर् अपरम् इह भिक्षुर् यैर् इति यावत् सर्वशः आकिंचन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. पूर्ववत् सर्वाणि सूत्राणि वक्तव्यान्य् ऊर्ध्वंस्रोतसं त्व् एकम् अपनीय. 6. तद् एवं चतुर्भिर् ध्यानैर् अमृतधातुचित्तोपसंहारचित्तविमुक्त्यन्तरोपपद्यानभिसंस्कारसाभिसंस्कारपरिनिर्वाणोर्ध्वगमनत्र्युपपत्तिस्थानोपपत्तिस्वभावाश् चतस्रः सूत्रार्थदशिका उक्ताः. त्रिभिस् त्व् आद्यैर् आरूप्यैर् अमृतधातुचित्तोपसंहारचित्तविमुक्त्युपपद्यानभिसंस्कारसाभिसंस्कारपरिनिर्वाणोर्ध्वगमनोपपत्तिस्थानोपपत्तिस्वभावास् तिस्रः सूत्रार्थसप्तिकाः. नैवसंज्ञानासंज्ञायतनेनोर्ध्वगमनं परिहाय षट्किका चोक्ता. अतो यो ऽसाव् (अभिध्-क्-व्य् 276) अन्तरापरिनिर्वायी. नासाव् आयुष्प्रमाणान्तरापरिनिर्वायीति युज्यते वक्तुम्. आरूप्येष्व् अपि ह्य् अन्तरामरणसंभवः.

कुरुवर्ज्यो ऽन्तरामृत्युर्

इति वचनात्. तस्मात् आगमतो ऽपि सिद्धो ऽन्तराभवो न केवलं युक्तित इत्य् अपिशब्दः [तिब्. 265ब्]. दूषीमार इति. क्रकुच्छन्दस्य तथागतस्य विदुरं नाम श्रावकं दूषी नाम मारस् तदानीं शिरसि मुष्टिनाभिघ्नन् तेनांगीकृतः. तत्क्षण एव च स्वशरीरेणैवावीचौ महानरके प्रपतित इति. स्वशरीरेणैवेति वचनान् नास्त्य् अन्तराभव इत्य् अभिप्रायः. स हि जीवन्न् एव नारकीभिर् ज्वालाभिर् इति. जीवन्न् एवासौ मारो नरकोत्थिताभिर् अग्निज्वालाभिर् आलिंगितत्वात् स्वशरीरावस्थादुःखोत्पत्तेः. स्वशरीरेणैव प्रपतित इत्य् उक्तः. न तु कालम् अकृत्वान्तराभवावस्थानं. नरकोपपत्तिभवॄआवस्थां च न गतवान् इत्य् अभिप्रायः. अत्युदीर्णपरिपूर्णानीति. क्षेत्राशयविशेषयोगाद् अत्युदीर्णानि. उपचितत्वात् परिपूर्णानि. समनंतरं नरकेषूपपद्यत इति. समनन्तरवचनान् नास्त्य् अन्तराभव इत्य् अभिप्रायः. अन्यां गतिम् अगत्वेति. उपपत्त्यन्तरप्रतिषेधपरम् एतद् वाक्यं. नान्तराभवप्रतिषेधपरम् इत्य् अभिप्रायः. पंचैवेति. यदि यथारुतं कल्प्यते. पंचभिर् एवानन्तर्र्यैः कृतैः न त्व् एकेन द्वाभ्यां वा नरकगमनं भवतीत्य् एतत् प्राप्नोति. पंचेति रुतात् क्रियानन्तरं चानन्तर्यक्रियानन्तरं च नरकेषूपपन्न इति प्राप्नोति. यानि कृत्वोपचित्य समनन्तरं नरकेषूपपद्यत इति रुतान् न कालान्तरं [तिब्. 266ब्] जीवित्वा. को वान्तराभवस्योपपद्यमानत्वं नेच्छतीति. विप्रकृतावस्थावचनात्. उपपत्त्यभिमुखो ह्य् उपपद्यमान इत्य् अभिप्रायः. न तु ब्रूम उपपन्नो भवतीति. न तूपपद्यत इत्य् एतत् पदम् उपपन्नार्थम् इति ब्रूमः. तस्माद् अदोष एष्स्ः.

उपनीतवया इति विस्तरः. मृत्युसमीपम् उपनीतं वयो येन. सो ऽयम् उपनीतवयाः.

द्विजेत्य्

आमन्त्रणं. कश्चिज् जीर्णो ब्राह्मण आमन्त्रितः.

वासो ऽपि हि नास्ति ते ऽन्तरेति.

इदम् अत्र ज्ञापकम्. अन्तराभवाभाव इत्य् अभिप्रायः.

पाथेयं

पथ्यौदनं

च न विद्यते तव

(अभिध्-क्-व्य् 277) पारलौकिकः कुशलसंभारस् तव नास्तीत्य् अभिप्रायः. मनुष्येष्व् अन्तरावासो नास्तीति. मरणगतस्य ते सतो मनुष्येष्व् अन्तरावासो नास्ति. यथेह कस्यचित् प्रतिष्ठमानस्येत्य् अभिप्रायः. गमनविष्ठानाद् इति. गमनविरामात्. अयम् अत्राभिप्रायो यथा त्वया वर्ण्यते. अस्त्य् अन्तराभव इति. नायम् अभिप्रायो यथा मया वर्ण्यते. नास्त्य् अन्तराभव इति. कुत एतत्. कुतो हेतोर् एतद् भवति. तुल्य एष भवतो ऽप्य् अनुयोगः. समान एष भवतो ऽपि प्रश्न इत्य् अर्थः. यथोक्तसूत्रविरोधाद् इति. दूषीमारसूत्राद्यविरोधात्. न भवत्य् एतत् सूत्रम् अन्तराभवस्याभावे ज्ञापकं. ज्ञपकं हि नामागतिका गतिर् [तिब्. 266ब्] इति. यस्या गतेर् अन्या गतिर् नास्ति. असाव् अगतिका गतिः. एतद् उक्तं भवति. यदि यज् ज्ञापकं सूत्रं. गाथा वा. येस्यार्थस्य द्योतनार्थम् उच्यते. यदि तम् एवार्थं द्योतयति. नान्यद् अप्य् अर्थान्तरं तद्विरुद्धं. तज् ज्ञापकम् अनन्यगतिकम् इति.

(iii.13) ऐष्यत्पूर्वकालभवाकृतिर्

इति. आ एष्यद् ऐष्यत्. ऐष्यतः पूर्वकालभवस्येवाकृतिर् अस्येति. ऐष्यत्पूर्वकालभवाकृतिः. कस्मात्.

एकाक्षेपात्.

यस्माद् ऐष्यन्ती गतिस् तत्प्रापकश् चान्तराभवस् तेनैवैकेन कर्मणाक्षिप्यते. शुनीप्रभृतीनाम् इति. शुनीसूकरीप्रभृतीनां. पंचगतिक इति. पंचगतिगामीत्य् अर्थः. यदि गर्भस्थो ऽपि म्रियेत तस्य नारको ऽन्तराभवो मातुः कुक्षिं निर्दहेत्. नारको हि प्रदीपो भवति. तद्रूपश् चान्तराभव इति. पूर्वकालभवे ऽपीति विस्तरः. नारकपूर्वकालभवावस्था अपि नारका न नित्यं प्रज्वलिता भवन्त्य् उत्सदेषु कुकूलादिषु भ्रमंतः. किम् अंगान्तराभविकाः. अस्तु वा प्रज्वलित इति. नारको ऽन्तराभवः. कुक्षाव् असंश्लेषाद् इति. अन्तराभवानाम् अच्छत्वाद् आत्मभावस्यान्योन्यं असंश्लेषान् न दाहः. कर्मप्रतिबन्धाच् च. तत्कर्मप्रतिबन्धान् न दाह इति कृत्वा. अत एव शुनीप्रभृतीनां कुक्षेर् अदाहः. कोटीशतं चातुर्द्वीपकानाम् अवभासितम् इति. यतः पूर्णयून इव बोधिसत्त्वस्यान्तराभवः [तिब्. 267अ] सलक्षणानुव्यंजनश् चातो ऽंतराभवस्थेन तेन मातुः कुक्षिं प्रवेष्तुम् इच्छता त्रिसाहस्रमहासाहस्रो लोकधातुः स्वक्षेत्रम् इति कृत्वावभासितः.

पांण्डरं गजपोटम् इति. यद्य्

ऐष्यत्पूर्वकालभवाकृतिर्

अन्तराभवः. कस्माद् बोधिसत्त्वस्य माता गजपोतम् एवंरूपम् अद्राक्षीत्. निमित्तमात्रं तत्. तस्य बोधिसत्त्वस्य तिर्यग्योनेश् चिरव्यावर्तितत्वात्. यतः प्रभृति लक्षणविपाकानि कर्माण्य् आरभते कर्तुं कल्पशते शेषे ततः प्रभृति तस्य सर्वा दुर्गतयो व्यावृत्ताः. तद्यथा कृकी राजा दश स्वप्नान् अद्राक्षीत्. (अभिध्-क्-व्य् 278) भविष्यतो ऽर्थस्य निमित्तमात्रम् इति. दश स्वप्ना विनये पठ्यन्ते. कृकिणा किल राज्ञा दश स्वप्ना दृष्ताः. हस्ती वातायनेन निर्गत्य पुच्छे सक्तह्. कूपस् तृषितस्य पृष्टतो ऽ; नुधावति. सक्तुप्रस्थेन मुक्ताप्रस्थो लभ्यते. चन्दनं काष्ठार्घेण विक्रीयते. आरामाः पुष्पफलसंपन्नाः सर्वं च पुष्पफलम् अदत्तादायिभिर् ह्रियते. कलभैर् गन्धहस्तिनस् त्रास्यन्ते. अशुचिम्रक्षितो मर्कटः परान् उपलिंपति. मर्कटाभिषेको वर्तते. पटको ऽष्टादशभिर् जनैर् आकृष्यते. महाजनकाय एकत्र कलहभण्डनविग्रहविवादेनान्योन्यविघातम् आपन्न इति. तेन च ते भगवते काश्यपाय तथागताय निवेदिताः. [तिब्. 267ब्] भगवता च व्याकृताः. भविष्यत्य् अनागते ऽध्वनि साक्यमुनिर् नाम तथागतः. तस्य श्रावका विस्तीर्णस्वजनबंधुवर्गं प्रहाय प्रव्रजिताः विहारेषु गृहसंज्ञाम् उत्पाद्य संगं करिष्यन्ति हस्तिनो वातायननिर्गमनपुच्छलग्नवत्. कूपस्वप्नेन तच्छ्रावका एव ब्राह्मणगृहपतीनाम् अभ्युपेत्य धर्मं देशयिष्यंति. तेषाम् श्रोतुकामता न संस्थास्यत इत्य् एतद् दर्शयति. सक्तुमुक्ताप्रस्थस्वप्नेन तच्छ्रावका एव सक्तुभिक्षाया अप्य् अर्थायेन्द्रियबलबोध्यंगादीनि प्रकाशयिष्यंति. चेन्दनस्वप्नेन तच्छ्रावका एवाभावितकायशीलप्रज्ञाः तीर्थ्यमतानि गृहीत्वा बुद्धवचनेन

समानीकरिष्यन्तीत्य् एतद् दर्शयति. आरामस्वप्नेन तच्छ्रावका एवावासम् आश्रयं कृत्वा यत् तद् भविष्यति संघस्य पुष्पं वा फलं वाधिकं वा तद् विक्रीय विक्रीय जीविकां कल्पयिष्यन्ति. तेन च गृहिणः प्रतिसंस्तरिष्यन्तीत्य् एतद् दर्शयति. कलभस्वप्नेन तच्छ्रावका एव दुःशीलः पापधर्माणो भविष्यन्ति. ये ते भिक्षवः स्थविराः शीलवंतः कल्याणधर्माणः. तान् आवासेभ्यः प्रवासयिष्यंतीत्य् एतद् दर्शयति. अशुचिम्रक्सितमर्कटस्वप्नेन तच्छ्रावका एव दुःशीलाः पापधर्माणः सन्तो ये ते भिक्षवः कल्याणाः. तान् असद्भिर् दोषैश् चोदयिष्यन्तीत्य् एतद् दर्शयति. मर्कटाभिषेकस्वप्नेन तच्छ्रावका एव सामन्तिकाभिषेकं वीहारेषु [तिब्. 268अ] करिष्यन्ति. लोके ऽपि च पण्डका अधिराज्यं कारयिष्यन्तीत्य् एतद् दर्शयति. पटस्वप्नेन तच्छासनम् एवाष्टादशधाभेदं गमिष्यति. न च विमुक्तिपटः खण्डयिष्यत इत्य् एतद् दर्शयति. कलहस्वप्नेन तच्छ्रावका एव निकायपरिग्रहात् परस्परं विवादम् आपत्स्यन्त इत्य् एतद् दर्शयतीति. संग्रहश्लोकः.

करिकूपसक्तुचन्दनकलभारामास् तथा कपेर् अभिषेकः अशुचिकपिः पटकलहाव् इति दश दृष्टा नृपेण कृकिणा स्वप्नाः.

अपत्राप्योत्सदवात् अपत्राप्योत्कटत्वात्.

उपपत्तिभवः प्रतिसन्धिक्षण एव. तस्मात् परेण प्रतिसंधिक्षणाद् (अभिध्-क्-व्य् 279) अन्यो भवः पूर्वकालभवः.

रूपिषु चेत् सत्त्वेषूपपद्यत इति. आरूप्यधाताव् अन्तराभवाभावाद् इदं विशेषवचनं.

(iii.14, 15) समानजातीयैर्

इति. नारको ऽन्तराभवो नारकैर् एवान्तराभवैर् दृश्यते. एवं यावद् देवान्तराभवो देवान्तराभवैर् एवेति. सुविशुद्धम् इति. एकादशदिव्यचक्षुरपक्षालवर्जितं. ते पुनर् अपक्षाला विचिकित्सा अमनसिकारः कायदौष्ठुल्यं स्त्यानमिद्धं औद्धत्यं अभ्यारभ्यवीर्यम् औद्बिल्यं छंभितत्वं नानात्वसंज्ञा अभिजल्पः. अभिध्यायितत्वं ज्ञेयेषु यथासूत्रं. अभिज्ञामयम् [तिब्. 268ब्] इति. अभिज्ञास्वभावभावनामयम् इत्य् अर्थः. उपपत्तिप्रतिलंभिकम् अपि देवादीनां दिव्यम् इष्यते. न तु सुविशुद्धं.

देवान्तराभविक इति विस्तरः. अपर आहुः. न समानजातीयैर् एवान्तराभवो दृश्यते. किं तर्हि. देवान्तराभविकः सर्वान् देवान्तराभविकादीन् पश्यति. मनुष्यप्रेततिर्यङ्नारकान्तराभविकाः पूर्वंपूर्वम् अपास्य. कथं. मनुष्यान्तराभविको देवान्तराभविकं पूर्वम् अपास्य मनुष्यप्रेततिर्यङ्नारकान्तराभविकान् पश्यति. प्रेतान्तराभविको देवमनुष्यान्तराभविकौ पूर्वाव् अपास्य प्रेततिर्यङ्नारकान्तराभविकान् पश्यति. एवं यावन् नारकान्तराभविको देवान्तराभविकादीन् पूर्वान् अपास्य नारकान्तराभविकान् एव पश्यति. गतीनाम् उत्तरोत्तरनिकृष्टत्वाद् इति.

अत एव गन्धर्व इति. यतो गन्धगतो गन्धर्वः. गन्धम् अर्वति भक्षयति गन्धर्व इत्य् अर्थः. धातूनाम् अनेकार्थत्वात्. अयम् अर्वति न केवलं गत्यर्थे वर्तते. किं तर्हि. भोजनर्थे ऽपीति गत्यर्थपरिगरहे ऽप्य् अदोषः. गन्धम् अर्वति गच्छति भोक्तुम् इति गन्धर्व इति. ह्रस्वत्वं शकन्धुकर्कन्धुवद् इति. कृदन्त इति. पररूपनिपातनात्. शकन्धुकर्कन्धुर् इति पररूपसिद्धिर् यथा. तथेहपि गन्धर्व इति. अल्पेशाख्यो ऽनुदारो हीनजातीय इत्य् अर्थः. ईष्ट इतीशः. अल्प ईशो ऽल्पेशः. अल्पेश इत्य् आख्या यस्य सो ऽल्पेशाख्यः. विपर्ययान् महेशाख्यः.

एकनिकायसभागत्वाद् इति. यश् च पूर्वकालभवो यश् चान्तराभवस् तत्प्रापकः. तयोर् एक एव निकायसभागः अत एकनिकायसभागत्वात्. [तिब्. 269अ] येनैव कर्मणायुष्येण पूर्वकालभवस्यायुर् आक्षिप्यते. तेनैवान्तराभवस्य. इतरथा हि. यदि तस्यान्तराभवायुषः पृथगाक्षेपः स्यात्. तस्याप्य् आयुषह् आन्तराभविकस्य क्षयान् मरणभवः प्रसज्येत् पूर्वकालभववत्. तस्मान् नास्ति नियम इति भदन्तः. ते तं गन्धं घ्रात्वा गन्धरसाभिगृद्धा इति विस्तरः. ते क्षुद्रजन्तवस् तं गन्धं घ्रात्वा तत्सहचरं (अभिध्-क्-व्य् 280) चानुभूतं रसम् अनुस्मृत्य गन्धरसाभिगृद्धाः कालं कुर्वन्तः क्रिमिनिकायसभागोत्पादकं कर्म विबोध्य. तया गंधरसतृष्णया विपाकाभिमुखं कृत्वान्तराभवसंतत्या क्रिमिषूपजायन्त इति. तत्पत्ययप्रचुर एव काल इति. क्रिमिप्रत्ययप्रचुरे काले तत्सम्वर्तनीयानि कर्माणि क्रिमिसम्वर्तनीयानि विपाकाभिनिर्वृत्तौ वृत्तिं लभंते. विपाकदानायाभिमुखीभवन्तीत्य् अर्थः.

सामग्रीं प्राप्य कालं च फलंति खलु देहिनाम्

इति वचनात्. नान्यत्र. नातत्प्रचुरे काले. नान्यस्याम् इति. नाल्पायुषि.

चक्रवर्तिसमुत्पत्तिर् नाधो ऽशीतिसहस्रकाद्

इति वचनात्. अत एवेति. यस्माद् विद्यमानान्य् अपि चक्रवर्तिसम्वर्तनीयानि कर्माणि विपाकाभिनिर्वृत्तौ कदाचिद् एव वृत्तिं लभन्ते. बहुप्रत्ययापेक्षित्वात्. संभवैषित्वाद् उपपत्त्यभिलाषित्वात्. कर्माण्य् एव प्रत्ययानां सामग्रीम् आवहन्तीति. कर्माधिपत्येनाश्वादीनां प्रसिद्धं कालम् अतिक्रम्य [तिब्. 269ब्] कालान्तरे ऽपि मैथुनं भवतीति. एककर्माक्षेपाद् इति. येनैव कर्मणा गवादिनिकायसभाग आक्षिप्यते. तेनैव कर्मणा तदन्तराभव आक्षिप्यते. इत्य् अतो वक्तव्यम् एतत्. यद् उक्तं येनान्यत्र काले गोषूपपत्तव्यः. स गवयेषूपपद्यत इति विस्तरेण. न निकायभेदाद् एकाक्षेपकत्वं हीयते. तत्कर्मण एकजातीयत्वात्. गव्याकृतिसंस्थानान्तरपरित्यागाच् च. गतिनियतानां हि कर्मणाम् उपपत्तिवैचित्र्यं द्र्ष्टं. कल्माषपादादिवद् इति नास्त्य् एष दोष इत्य् आचार्यसंघभद्रः.

विपर्यस्तमतिर्

इति. अनुनयसहगतेन वा प्रतिघसहगतेन वा चित्तेन यथा विपर्यस्तमतिर् भवति. तद् दर्शयन्न् आह. तत्रास्य पित्रोर् इत्य् विस्तरः. मातापित्रोस् तां विप्रतिपत्तिं द्वीन्द्रियसमापत्तिलक्षणां. पुंसः सतः पुरुषस्यान्तराभवस्य पुंसायं पौंस्नो राग उत्पद्यते मातरि भार्यायाम् इव. स्त्रिया अयं स्त्रैणो राग उत्पद्यते पितरि भर्तरीव. विपर्ययात् प्रतिघ इति. पुंसः सतः पौंस्नः प्रतिघ ईर्ष्योत्थानभूत उत्पद्यते पितरि प्रतिसपत्नपुरुष इव. स्त्रियास् सत्याः स्त्रैणः प्रतिघ उत्पद्यते मातरि प्रतिसपत्न्याम् इव. स ताभ्याम् एव विपर्यस्ताभ्यां चित्ताभ्यां विपर्यस्तो रंतुकामनतया मैथुनकर्मकामनतया तं देशं इन्द्रियद्वयस्थानम् आश्लिष्य ताम् अवस्थां विप्रतिपत्त्यवस्थाम् आत्मन्य् अधिमुच्यते. मयैतत् कर्म क्रियत इति. तस्मिंश् चाशुचौ शुक्लशोणिते गर्भस्थानसंप्राप्ते आमाशयपक्वाशयान्तरास्थानसंप्राप्ते [तिब्. 270अ] अभिनिविशते प्रतितिष्ठतीत्य् अर्थः. पृष्ठाभिमुख उत्कुटुक इति. मैथुनक्रियात्माभिमानक्रियायोगात्. आप्यायमानो वर्धमानः. एतान्य् (अभिध्-क्-व्य् 281) एवेति. शुक्लशोणितमहाभूतानि. भूतान्तराण्य् एवेति. शुक्लशोणितव्यतिरिक्तानि. बीजांकुरनिरोधोत्पादन्यायेनैकस्मिन्न् एव क्षणे बीजं निरुध्यते ऽंकुरश् चोत्पद्यते. तुलादण्डनामोन्नामवन् नाशोत्पादयोः समकालत्वात्. यत् तत् कललम् इत्य् आख्यायत इति.

कललं प्रथमं भवति. कललाज् जायते ऽर्बुदम्

इत्यादिवचनात्. एवं च कृत्वा सूत्रपदम् इति. वल्मीक इति भिक्षो अस्य कायस्यैतद् अधिवचनं रूपिणः औदारिकस्य चातुर्महाभूतस्य ओदनकुल्माषोपचितस्य मातापित्रशुचिकललसंभूतस्येति विस्तरः. मातापित्रशुच्य् एव कललं. ततः संभूतस्येत्य् अर्थः. कटसिर् इति. श्मशानं. रुधिरबिन्दुर् उपात्त इति. इदम् उदाहरणं. अस्य कायेन्द्रियभावापत्तितः. भूतान्तराण्य् व शुक्लशोणितव्यतिरिक्तानि. तद्यथा पर्णक्रिमेर् इति. यथा पर्णक्रिमेः पर्णमहाभूतान्य् उपनिश्रित्य भूतान्तराणि कर्मभिर् जायन्ते. यानीन्द्रियस्वभावम् आपद्यंते. न पर्णमहाभूतानि. बहुत्वात् तत्क्रिमीणां. खण्डशः पत्त्रस्यादर्शनाच् च. सूत्रपदं कथं तर्हि नीयते मातापित्रशुचिकललसंभूतस्येत्य् अत आह. अशुचिसंनिश्रयोत्पत्त्यभिसंधिवचनात् ते कललस्य सूत्राविरोध [तिब्. 270ब्] इति. अशुचिसंनिश्रयेणोत्पत्तिर् भूतान्तराणां. तत्राभिसंधिर् अभिप्रायः. तेन वचनं कललस्य. तस्मान् मातापित्रशुचिकललसंभूतस्येत्य् अस्य सूत्रस्याविरोधः. एतद् उक्तं भवति. शुक्लशोणितसंनिश्रयेण कललाख्यानि भूतांतराणि शुक्लशोणितसमकालान्य् उत्पद्यन्तो सेन्द्रियाणि. यथा पर्णसंनिश्रयेण पर्णसमानकालानि सेन्द्रियाणि क्रिमिमहाभूतान्य् उत्पद्यन्त इति.

अन्यत्र तु यथायोगं वक्तव्यम् इत्य् आहुर् इति. अन्यत्र संस्वेदजौपपादुकयोर् योन्योर् यथायोगं व्याख्येयम् इत्य् आहुर् अभिधर्माचार्याः. तत्र चायं योगो दृश्येत इति. आचार्यो भवीति.

शैत्यं च नरकेष्व् इति शीतनरकोपपत्तिकाले. यदवस्थ इति. औरभ्रिकाद्यवस्थः. यथा भूतेन तद्वेद्यं कृतं प्राक् कर्म तादृशान् सत्त्वान् स्वप्न इव प्रेक्ष्य नरके स धावति पार्वाचार्याः योगाचारा आर्यासंगप्रभृतयः.

आसनाद् इवोत्तिष्ठन्न् इति. ऊर्ध्वोपपत्तिस्थानगमनात्. मनुष्यादिवद् इति. यथा मनुष्यस् तिर्यक् प्रेतश् च गच्छति. तद्वत्.

ऋषीणाम् अतिवक्तार

इति. अधिक्षेप्तारो ऽपवदितार इत्य् अर्थः.

(iii.16, 17) नित्यम् अण्डज

इति नित्यग्रहणात्

सर्वाणि मूढ

इत्य् अत्र नास्ति नियमः. भवति तु संप्रजानन्न् अपि. प्रतिलोमं निर्दिष्टा इति. सूत्रे हि यः सर्वाण्य् असंप्रजानन् करोति. एषा प्रथमा गर्भावक्रान्तिर् उक्ता. तिस्रस् तु यथा निर्दिष्टानुपूर्विका एवेति. यो ऽपि जनिष्यते. सो ऽप्य् अण्डज [तिब्. 271अ] इति. अण्डाज् जनिष्यते ऽण्डज इत्य् अभिप्रायः. आवश्यको ह्य् अभूतार्थो भूतवद् उच्यते. तद्यथा वर्तमानसामीप्ये वर्तमानवद् वा. आशंसायां भूतवच् चेति. {यथाभूतेन तद्वेद्यं कृतं प्राक् कर्म तादृशान् सत्त्वान् स्वप्न इव प्रेक्ष्य नरके स धावति.} कश्चित् कस्मैचिद् वक्ता भवेत्. आगच्छंतम् एवागतम् मां विद्धीति. तस्माद् अदोश एषः. अण्डाज् जातो जनिष्यते जायते चेत्य् अण्डजः. अन्येभ्यो ऽपि ड्र्श्यत इति वचनात्. तस्माद् अदुष्टम् एतद् इत्य् आचार्यसंघभद्रः. अथ वा भाविन्यापि संज्ञयेति. भविष्यंत्यापि संज्ञया निर्देशः क्रियते. तद्यथा संस्कृतम् अभिसंस्करोतीति. जनितावस्थायां संस्कृतं भवति. न जन्यमानावस्थायां. न हि संस्कृतस्य पुनः संस्कारो युज्यते. भविष्यन्त्या तु संज्ञया तथा निर्देशः क्रियते. एवम् ओदनं पचतीत्यादियोज्यं. कथं पुनर् असंप्रजानन् मातुः कुक्षिं प्रविशतीति विस्तरः संनिकृष्टावस्था उपपत्तिदेशस्य

विपर्यस्तमतिर् यातीति.

विप्रकृष्टावस्था अधिमोक्षो ऽधिमुक्तिः तथा तिष्ठामि निर्यामीति. कथं. तथा तिष्ठतो ऽप्य् एषु तिष्ठामीति. निष्क्रामतो ऽप्य् एभ्यो निर्यामीति. अयम् अनयोर् विपर्यासयोर् विशेष इति. अपरे पुनर् आहुः. न केवलं रागद्वेषाभ्याम् [तिब्. 271ब्] एव विपर्यस्तमतिर् उत्पत्तिदेशं गच्छति. किं तर्हि. अन्यथापि. कथम् इति. वातो वाति देवो वर्षतीत्यदि. तथारामं प्रविशाम्य् उद्यानं चेत्यादि.संप्रजानंस् तु सम्यक् प्रजानाति. मातुः कुक्षिं प्रविशामीत्य् एवमादि. यदि सम्यक् प्रजानाति कथं क्लिष्टेनैव चित्तेन प्रतिसंधिबन्धो व्यवस्थाप्यते. मातृस्नेहादियोगात् क्लिष्टं चित्तं भवति. अपर आह. मातुः कुक्षिं प्रविशल एवं विपरीतौ संज्ञाधिमोक्षाव् इति. उपपन्नमात्रावस्थायाम् एतद् भवति वातो वाति यावद् वृक्षमूलं चोपसर्पामि कुड्यमूलं चेति. तिष्ठतो ऽप्य् एषु तिष्ठामीति. निष्क्रामतो ऽप्य् एभ्यो निर्यामीत्य् एवमादि. तत्र प्रथमेति विस्तरः. प्रथमा चक्रवर्तिनः. येयं.

संप्रजानन् विशत्य् एक

इति. द्वितीया प्रत्येकबुद्धस्य. येयं

तिष्ठत्य् अप्य् अपर

इति. तृतीया बुद्धस्य. येयम्

अपरः निष्क्रामत्य् अपीति.

अत्रापि भाविन्येति. ते न चक्रवर्त्यादयस् तदानीम् इति कृत्वा. त एवं त्व् एते चक्रवर्त्यादय इति पर्यायमात्रम् एतद् उक्तम्. अर्थस् तु स एवेत्य् अभिप्रायः.

(iii.18, 19) संकेता हेतुफलसम्बन्धव्यवस्थाः.

[तिब्. 272अ] क्लेशकर्माभिसंस्कृतम्

इति. क्लेशकर्मपरिभावितम् इत्य् अर्थः.

प्रदीपवद्

इति. संततिन्यायसंचारि स्कंधपंचकं. क्षणिकत्वात्. प्रदीपवद् इति दर्शयति.

यथाक्षेपम्

इति. आक्षेपस् तावत्कालप्रबन्धः. एतच् च विशेषणम् आयुष्यस्यायुःसम्वर्तनीयस्य कर्मणो भेदात्.

व्यंजनान्य् अनुपूर्वश

इति. व्यंजनानि चक्षुराद्यधिष्ठानानि. तैर् हि चक्षुरादीन्य् अभिव्यज्यन्ते. तस्मिन् वर्चःकूप इवेति. महाकायनाडीव्रण इति. निन्दावचनम् एतत्. नाडी व्रण इव नाडीव्रण इति. उग्रो दुर्गन्ध उग्रदुर्गन्धिः. अन्धकारश् चासाव् आलोकरहितत्वात्. समलानां च पल्वलो ऽसौ पल्वल इवेति कृत्वा. तस्मिन् सततप्रतिक्रिये नित्यकर्तव्यशौचे. शुक्रेण पौंस्नेन. शोणितेन स्त्रैणेन. लसीकया द्रवविशेषलक्षणया. मलेन च संक्लिन्ने समन्तात् क्लिन्ने. विक्लिन्ने विशेषेण क्लिन्ने. क्वथिते पूतौ पिच्छिले च. तस्मिं हस्तौ संप्रवेश्यांगम् अन्गं हस्तपादादिकं निकृत्य च्छित्त्वा प्रत्याहरन्ति प्रत्याकर्षयंति. तरुणं व्रणं सरुजं. तरुणव्रणम् इवात्मानम् आचरंस् तरुणव्रणायमानं. तरुणव्रणायमान आत्मास्येति तरुणव्रणायमानात्मानम् बालकं. शस्त्रं च क्षारं च शस्त्रक्षारं. तद् इवात्मानम् आचरं शस्त्रक्षारायमाणः. शस्त्रक्षारायमाणः [तिब्. 272ब्] संस्पर्शो ऽनयोर् इति शस्त्रक्षारायमाणसंस्पर्शौ पाणी. ताभ्यां परिगृह्य स्नापयंति. तस्य वृद्धेर् अन्वयाद् अनुगमात्.

तस्याहेतुकत्वम् इति. आदेर् अहेतुकत्वं. सति चास्याहेतुकत्वे. तद्वद् एव सर्वम् अहेतुकं प्रादुः स्यात्. दृष्टं चांकुरआदिषु बीजादीनां सामर्थ्यं. (अभिध्-क्-व्य् 284) अंकुरनालकाण्डपत्त्रादिषु बीजांकुरनालकाण्डादीनां सामर्थ्यम् उत्पादनाय. कस्मात्. देशकालप्रतिनियमात्. देशकालयोस् तु प्रतिनियमात्. तत्र देशप्रतिनियमो बीजादिसंबद्ध एव देश उत्पत्तेः. कालप्रतिनियमो बीजानन्तरम् उत्पत्तेः. अग्न्यादीनां वाग्निशीतोष्णाभिघातचक्षुरादीनां पाकजादिष पाकजसुखदुःखशब्दचक्षुर्विज्ञानादिषु डृष्टम् सामर्थ्यं देशकालप्रतिनियमात्. यदि हि निर्हेतुकः प्रादुर्भावः स्यात्. बीजादीनाम् अंकुरादिषु अग्न्यादीनां च पाकजादिषु देशकालप्रतिनियमेनोत्पत्तिं प्रति सामर्थ्यं न स्यात्. सर्वं सर्वत्र सर्वदोत्पद्येत. न चैवं दृष्टम् इत्य् अतो नास्ति निर्हेतुकः प्रादुर्भावः. नित्यकारणास्तित्ववादः प्राग् एव पर्युदस्तः.

नेश्वरादेः क्रमादिभिर्

इति वचनात्.

(iii.20) शेषाण्य् अष्तौ मध्य इति. विज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवांगानि. [तिब्. 273अ] नापि रूपारूप्यावचर इति. रूपावचरस्य विज्ञानांगकाल एव नामरूपषडायतनांगयोः सद्भावात्. न मध्ये ऽष्टाव् अंगानि. आरूप्यावचरस्य च नामरूपषडायतनांगयोर् अभावात्. महानिदानपर्यायसूत्रे. विज्ञानं चेद् आनन्द मातुः कुक्षिं नावक्रामेद् अपि तु तन् नामरूपं कललत्वायाभिसंमूर्छेत्. नो भदन्तेत्यादि तत् सूत्रं पठ्यते. मातुः कुक्ष्यवक्रमणं हि कामधाताव् एवेति. सफलहेतुकयोः पूर्वापरान्तयोर् ग्रहणाद् इति. यथाक्रमम् एतत्. पूर्वान्तस्य सफलस्य ग्रहणाद् अपरान्तस्य च सहेतुकस्य ग्रहणाद् इति. तत्र पूर्वान्ते हेतुर् अविद्या संस्काराश् च. तस्य फलं पंचांगानि. विज्ञानं यावद् वेदनेति. अपरान्ते जातिर् जरामरणं चेति फलं. तस्य त्रीण्य् अंगानि हेतवस् तृष्णोपादानभवाः. तद् एवं सप्तांगानि पौर्वान्तिकः पंचांगान्य् अपरांतिक इति व्याख्यातं भवति.

(iii.21-24) अथ क इमे ऽविद्यादय इति. किम् अविद्यैव केवला उताहो सर्वक्लेशाः आहोस्वित् क्लेशावस्थेति संदेहे पृच्छति. साहचर्याद् इति. यस्माद् अविद्यासहचारिणः क्लेशाः. तद्वशेन तेषां समुदाचाराच् च. यस्माच् चाविद्यावशेन तेषां क्लेशानां समुदाचारः. स पुनस् [तिब्. 273ब्] तदनुवृत्तिः. मूढस्य हि क्लेशसमुदाचारो नामूढस्य. राजागमनवचन इति विस्तरः. यथा राजागच्छतीत्य् उक्ते. तदनुयातृकाणां भृत्यानाम् आगमनसिद्धिः. साहचर्यात् तद्वशेन तेषां समुदाचारात्. तद्वद् एतत्. तद् एवम् अविद्यावशाद्. अविद्यांगः क्लेशदशेत्य् अर्थः. तस्माद् उक्तं

पूर्वक्लेशदशाविद्येति.

न तूक्तं पूर्वाविद्यादशाविद्येति. पुण्यादिकर्मावस्थेति. पुण्यापुण्या कर्मावस्थेत्य् अर्थः. प्राक् चतुरायतनोत्पादाद् इति वक्तव्य इति. मनःकायायतनयोर् उपपत्तिभव एवोत्पादात्. तदा तद्व्यवस्थापनाद् इति. चक्षुराद्यायतनोत्पत्तिकाले कायमनआयतनयोर् व्यवस्थापनाद् इत्य् अर्थः.

तत् पूर्वं त्रिकसंगमाद्

इति. तत् षडायतनांगं प्राक् त्रिकसंगमात्. प्राग् इन्द्रियविषयविज्ञानत्रिकसंनिपाताद् इत्य् अर्थः.

स्पर्शः प्राग्

इति. षडिन्द्रियविषयविज्ञानसंनिपातः स्पर्शो जातावस्थायां व्यवस्थाप्यते. परिपूर्णषडायतनसम्निपातसद्भावात्. आ कुतः. प्राक् सुखदुःखादुःखासुखवेदनाकारणेषु ज्ञानशक्तितः. स बालो यावत् सुखाया वेदनाया एतत् कारणं दुःखाया एतत् कारणं अदुःखासुखायाश् [तिब्. 274ब्] चैतत् कारणम् इति परिच्छेदे न शक्तो भवति. सावस्था स्पर्श इत्य् उच्यते. तथा हि बालको ऽग्निम् अपि स्पृशेद् दुःखस्यैतत् कारणम् इत्य् अपरिच्छिन्दन्. परिच्छेदे सामर्थ्ये सति

वित्तिर्

वेदनेत्य् अर्थः. आ कुतः.

प्राङ् मैथुनाद्

यावन् मैथुनरागो न समुदाचरति. सावस्था वेदनेत्य् उच्यते. वेदनाप्रकर्षिणी हि सावस्था. वेदनाकारणवेदनात्.

तृष्णा भोगमैथुनरागिण

इति. भोगेषु रूपादिकामगुणलक्षणेषु. मैथुने च लोकप्रतीते रागिणः पुद्गलस्य. तद्रागसमुदाचारावस्था तृष्णेत्य् उच्यते. पर्येष्टिम् आपन्न इति. एष इत्य् एतस्य धातोर् एतद् रूपं. उपादीयते विषय आत्मभावो ऽनेनेत्य् उपादानं चतुर्विधः क्लेशः. सावस्थोपादानम् इत्य् उच्यते.

स भविष्यद्भवफलम्

इति. स इति परिधावतो निर्देशः. भविष्यद्भवः फलम् अस्येति भविष्यद्भवफलं.

कर्म

पौनर्भविकम् इत्य् अर्थः.

तद् भव

इति. भवत्य् अनेनेति भवः कर्मपर्यायः.

जरामरणम् आ विद

इत्य् आ विदः आ वेदनांगात्. जरामरणं नामरूपादिचतुरंगस्वभावं. विनेयजनोद्वेजनार्थं भगवता जरामरणशब्देन चत्वार्य् अंगान्य् उक्तानि. (अभिध्-क्-व्य् 286) यो भिक्षवो रूपस्योत्पादः. स जरामरणस्योत्पादः. एवं यावद् विज्ञानस्येति.

क्षणिकः क्षणे भवः. क्षणो ऽस्यस्तीति वा [तिब्. 274ब्] क्षणिकः. प्रकर्षेण दीव्यति चरति वा प्राकर्षिकः. प्रबन्धयुक्त इत्य् अर्थः. एवं सांबंधिकः हेतुफलसम्बन्धयुक्त इत्य् अर्थः. एवम् आवस्थिकः. द्वादश पंचस्कंधिका अवस्था इत्य् अर्थः. विज्ञानसहभुव इति विस्तरः. रूपम् अत्र सहभूविज्ञप्त्यविज्ञप्त्यादि. संज्ञादिस्कंधत्रयं नाम. नामरूपव्यवस्थितानीन्द्रियाणि. तत्प्रतिबद्धवृत्तित्वाद् इन्द्रियाणाम्. आश्रयत्वेन वा तानि नाम्नि व्यवस्थितानीति. षडायतनाभिनिपातः स्पर्श इति. चक्षुरादीनां स्वस्मिं विषये प्रवृत्तिर् अभिनिपातः. स तु संभवतः. यस्य तदानीम् अभिनिपातः संभवति. स तस्य स्पर्श इति वेदितव्यः. तत्संप्रयुक्तानि पर्यवस्थानान्य् उपादानं. तया तृष्णया संप्रयुक्तान्य् आह्रीक्यानपत्राप्यादीनि पर्यवस्थानानि तद् उपादानं. तत्समुत्थम् इति. तृष्णासमुत्थं. चेतनासमुत्थम् इत्य् अपरे. उन्मज्जनम् उत्पादः परिपाको जरेति. फलाक्षेपसामर्थ्योपघातः. पूर्वक्षणापेक्षया वा. भङ्गो मरणम् इति. तत्क्षणविनाशः. भंगाभिमुख्यं भंग इत्य् अपरे. क्षणिकः सांबन्धिकश् च यथा प्रकरणेषु इति. कथं. प्रकरणेषु प्रतीत्यसमुत्पादः कतमः. सर्वे संस्कृता धर्मा [तिब्. 275अ] इति. तत्र संस्कृतानां धर्माणां प्रतिक्षणं विनाशयोगात् क्षणिकः प्रतीत्यसमुत्पादः. हेतुफलभूतोभयक्षणसंबन्धात् सांबन्धिकः. निरन्तरजन्मत्रयसंबद्धा इति. द्वादश पंचस्कंधिका अवस्था अतीतानागतप्रत्युत्पन्नजन्मसंबद्धाः आवस्थिकः प्रतीत्यसमुत्पादः. निरंतरग्रहणं त्रिकाण्डप्रसिद्ध्यर्थं. स एव प्राकर्षिक इति. स एवावस्थिकः प्रकर्षयोगात्. प्राकर्षिकः. अनेकक्षणिकत्वाद् अनेकजन्मिकत्वाद् वा.

(iii.25अब्) आभिप्रायिक इति. अभिप्राये भव आभिप्रायिकः. विनेयाभिप्रायवशात् तथा देशित इत्य् अर्थः. लाक्षणिको ऽभिधर्मे लक्षणप्रधानत्वात्. प्रकरणेषु हि सर्वसंस्कृतग्रहणात् सत्त्वासत्त्वाख्यः प्रतीत्यसमुत्पाद उक्तः. सर्वसंस्कृतहेतुत्वयोगात्. विनेयसम्मोहविनिवृत्तिहेतुः सत्त्वाख्य एव द्वादशांगः प्रतीत्यसमुत्पादो देशितः.

(iii.25च्द्) अत आह.

पूर्वापरान्तमध्येषु सम्मोहविनिवृत्तय

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.