Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 11/25

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

स्फुटार्था अभिधर्मकोशव्याख्या

Tác giả
यशोमित्र
Thông tin
GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

इति. अत एव च त्रिकाण्ड इति. काण्ड इति भागः. को न्व् अहम् अभूवम् इति. देवो मनुष्य इति वा. कथं न्व् अहम् अभूवम् इति. केन प्रकारेण कया युक्त्येत्य् अर्थः. किं भविष्याम्य् अनागते ऽध्वनीति विस्तरः. किं नु भविष्याम्य् (अभिध्-क्-व्य् 287) अनागते [तिब्. 275ब्] ऽध्वनि. आहो स्विन् न भविष्यामि. को नु भविष्यामि. कथं नु भविष्यामीति. केन प्रकारेण कया युक्त्येत्य् अर्थः. किं स्विद् इदम् इति. आत्मभावद्रव्यम् अन्वेषते. कथं स्विद् इदम् इति. केन प्रकारेण कया युक्त्येति. तद् एवात्मभावद्रव्यं नावधारयति. के सन्त इति. के वयम् इदानीं विद्यमानाः. के भविष्याम इत्य् एवं नावधारयति. सूत्रे यथाक्रमम् इति. अविद्या संस्काराश् च पूर्वान्तसम्मोहव्यावर्तनार्थं. जातिर् जरामरणं चापरान्तसम्मोहव्यावर्तनार्थं. विज्ञानं यावद् भवश् च मध्यसंमोहव्यावर्तनार्थम् इति. तथा हि सूत्रे एवोक्तम् इति विस्तरः. सूत्रे ऽप्य् एवमेवं दर्शितम् इति. सूत्रेण स्वव्याख्यानं समर्थयति. स न पूर्वांतं प्रतिसरति. किं न्व् अहम् अभूवम् अतीते ऽध्वनीति विस्तरः. स न पूर्वान्तं प्रतिधावति. किं न्व् अहम् अभूवम् अतीते ऽध्वनीति. प्रतीत्यसमुत्पादयथाभूतदर्शनेन नैवम् अतीते ऽध्वनि संमुह्यते इत्य् अर्थः. विस्तरशब्देन स नापरान्तं प्रतिसरति. किं नु भविष्याम्य् अनागते ऽध्वनीति विस्तरः तथा न स मध्यान्तं प्रतिसरति. किं स्विद् इदम् इति विस्तरः.

तृष्णोपादानभवा अपीति. सर्वे तृष्नोपादानभवा अपरांतसंमोहव्यावर्तनार्थं. न मध्यसंमोहव्यावर्तनार्थं. यथा पूर्वम् उपदिष्टं विज्ञानं यावद् भवश् चेति. [तिब्. 276अ] का पुनर् अत्र युक्तिर् इत्य् आह. तस्यैव ह्य् एते हेतव इति. यस्माद् अपरान्तस्यैवैते हेतव इति.

(iii.26) क्लेशकर्माश्रयत्वाद् इति. विज्ञानादीनि सप्तांगानि वस्तून्य् अधिष्ठानानि क्लेशकर्मणाम् इत्य् अर्थः. फलं तथेति. सप्तैवांगानि विज्ञाननामरूपषडायतनस्पर्शवेदनांगानि अविद्यासंस्काराणां फलानि. जातिर् जरामरणं च तृस्णोपादानभवानां फलानि. पंच हेतुभूतानीति. अविद्यासंस्कारतृष्णोपादानभवाः. कर्मक्लेशस्वभावत्वाद् इति. अविद्यातृष्नोपादानानि क्लेशस्वभावानि. संस्कारा भवश् च कर्मस्वभावाः.

वस्तुनः पंचधाभेदाद् इति. विज्ञाननामरूपषडायतनस्पर्शवेदना इति. क्लेशस्य च द्विधेति. तृष्णोपादानम् इति. अनागते ऽध्वनि फलं संक्षिप्तं द्विधाभेदाद् इति. जातिर् जरामरणम् इति. अतीते ऽध्वनि हेतुः संक्षिप्तः एकमुखक्लेशोपदेशात्. अविद्यामुखक्लेशोपदेशाद् इत्य् अर्थः. न पुनर् अनागते ऽध्वनि फलम् एवं पंचधा विशालितं. अतीते चाध्वनि नैवं द्विधा हेतुर् विशालित इति.

(iii.27) यस्माद् उपदर्शितो ऽत्र भगवतेति. कः.

क्लेशात् क्लेश

इत्य् एवमादिको [तिब्. 276ब्]

भवंगानाम् अयं नयः. ततो वस्त्व्

इति. ततः क्रियायाः.

ततः पुनर् वस्त्व्

इति. ततो वस्तुनः वस्तु.

क्लेशाश् च जायन्त

इति. वस्तुन इत्य् अधिकृतं. जायन्त इत्य् अत्रेतिकरणो ऽध्याहार्यः. वस्तुनः क्लेशाद् वेति ज्ञापितम् इति. इति क्लेशो वस्तुन उत्पद्यमानो दृष्टो वेदनायास् तृष्णेति. क्लेशाद् अपि तथा क्लेशो दृष्टस् तृष्णाया उपादानम् इति. अविद्या च पूर्वान्तसर्वक्लेशस्वभावाख्याता. तद् यद्य् उपादानं तृष्णायास् तद् उत्पद्यते इति गम्यते. अथ तृष्णा तद्वस्तुन उत्पद्यत इति गम्यते. तस्माद् अविद्या क्लेशस्वभावा सती वस्तुनः क्लेशाद् वेति ज्ञापितं भवति. जरामरणं चतुरंगस्वभावं वस्त्व् इति व्याख्यातं. वस्तुनश् चेह क्लेश उत्पद्यमानो दृष्टो वेदनाप्रत्यया तृष्णेति. तस्मात् ततः क्लेशो भावी भविष्यतीति ज्ञापितं भवति. नात्र पुनः किम्चिद् उपसंख्येयम् एवं ज्ञापितत्वात्. कथं पुनर् एवं नयो दर्शित इति गम्यत इत्य् आह. एवम् अस्य केवलस्य महतो दुःखस्कंधस्य समुदयो भवतीति वचनात्. अन्यथा हि किम् अस्य सामर्थ्यम् स्याद् इति. यद्य् अयं यथोक्तो नयो न स्यात्.

क्लेशात् क्लेशः क्रिया चैव ततो वस्तु ततः पुनः वस्तु क्लेशाश् च जायन्त

इत्य् एतावद् एव ब्रूयात्. अविद्याप्रत्ययाः संस्कारा यावज् जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः [तिब्. 277अ] संभवन्तीति इदं न ब्रूयात्. एवम् अस्य केवलस्य महतो दुःखस्कंधस्य समुदयो भवतीति. समुदय उत्पाद इत्य् अनर्थांतरं. तस्माद् यथोक्तप्रकाराभिद्योतकम् अस्य सामर्थ्यम् इति गम्यते.

अयोनिशोमनस्कारहेतुकाविद्योक्ता सूत्रांतर इति. सहेतुसप्रत्ययसनिदानसूत्रे. कथम्. अविद्या भिक्षवः सहेतुका सप्रत्यया सनिदाना. कश् च भिक्षवो ऽविय्द्याया हेतुः कः प्रत्ययः किं निदानं. अविद्याया भिक्षवो ऽयोनिशोमनस्कारो हेतुर् अयोनिशोमनस्कारः प्रत्ययो ऽयोनिशोमनस्कारो निदानम् इति सूत्रे वचनात्. अविद्याहेतुकश् चायोनिशोमनस्कार इति. सूत्रान्तर उक्त इत्य् अधिकृतम्. चक्षुः प्रतीत्य रूपाणि चोत्पद्यते आविलो मनस्कारो मोहज इति सूत्रे वचनात्. किम् अर्थं तस्येहावचनं. कथं न भवांगान्तरं भवतीत्य् अत आह. स चेहाप्य् उपादानान्तर्भूतत्वाद् उक्तो भवतीति. स इत्य् आविलो मनस्कारः. (अभिध्-क्-व्य् 289) इहेति प्रतीत्यसमुत्पादसूत्रे. कथम् [तिब्. 277ब्] उक्तः. उपादानान्तर्भूतत्वात्. तथा ह्य् उपादानं भोगानां प्राप्तये क्लेशसमुदाचारावस्था. तत्र चायोनिशोमनस्कारो विपरीतचेतस आभोगो ऽन्तर्भूत इत्य् उक्तो भवति. अतो नास्त्य् अहेतुकत्वम् अविद्यायाः. न चांगान्तरम् उपसंख्यातव्यं द्वादशेभ्यो ऽविद्यादिभ्यः. न चानवस्थाप्रसंगो ऽविद्याहेतुकत्वाद् अयोनिशोमनस्कारस्य. इत्य् अपर इति. स्थविरो वसुबन्धुर् आचार्यमनोरथोपाध्याय एवम् आह. आचार्य आह. कथम् इति विस्तरः. कथम् अयोनिशोमनस्कारस्योपादाने ऽन्तर्भावः. न ह्य् अयोनिशोमनस्कार उपादानस्वभावः. यदि संप्रयोगतः. यद्य् अयोनिशोमनस्कार उपादानेन संप्रयुज्यते इत्य् अतो भवतास्योपादाने ऽन्तर्भाव इष्यते. तृष्णाविद्ययोर् अपि प्रतीत्यसमुत्पादांगयोस् तस्यायोनिशोमनस्कारस्यान्तर्भावः प्राप्नोति. टृष्णाविद्याभ्याम् अपि ह्य् असौ संप्रयुज्यत इति. ततश् चैवं वक्तव्यं स्यात्. स चेहाप्य् अविद्यातृष्नोपादानान्तर्भूतत्वाद् उक्तो भवतीति. न त्व्

एवं वक्तव्यं. स चेहाप्य् उपादानान्तर्भूतत्वाद् उक्तो भवतीति. नैवम् उपादानान्तर्भावावधारणं कर्तव्यम् इत्य् अभिप्रायः. सत्य् अपि चान्तर्भाव इति. असंभवंतम् अप्य् अन्तर्भावम् अभ्युपेत्य ब्रूमः. कथम् अयोनिशोमनस्कारो हेतुर् अविद्याया इति विज्ञापितं भवति. [तिब्. 278अ] न हि तथा सूत्रे वचनम् अस्ति. यदि ह्य् अन्तर्भावेनेति विस्तरः. यदि यस्माद् उपादाने ऽन्तर्भवत्य् अयोनिशोमनस्कारः. तस्माद् अयोनिशोमनस्कारो हेतुर् अविद्याया इति विज्ञापितं भवति. न च तदंगान्तरं वक्तव्यं. उपादानवचनाद् एव तत्सिद्धेः. तृष्णाविद्ये अपि तर्ह्य् उपादाने ऽन्तर्भवतह्. अतस् तयोर् अपि तत्रान्तर्भावाद् अंगान्तरत्वं शक्यम् अकर्तुम्. उपादानवचनाद् एव तत्सिद्धेः. उक्ते च पृथक्तृष्णाविद्यांगे. तस्माद् अपरिहार एषः.

अन्यः पुनर् आहेति भदन्तश्रीलातः. अयोनिशोमनस्कारो हेतुर् अविद्याया उक्तः सूत्रान्तर इति. सहेतुसप्रत्ययसनिदानसूत्रे. अविद्यापि भिक्षवः सहेतुका सप्रत्यया सनिदानेति विस्तरेण. स चापीति विस्तरः. स चाप्य् अयोनिशोमनस्कारः स्पर्शकाले निर्दिष्टः. कथम् इत्य् आह. चक्षुः प्रतीत्य रूपाणि चोत्पद्यते आविलो मनस्कारो मोहज इति. स्पर्शकालो यो ऽयं चक्षुर्विज्ञानोत्पत्तिकालः. आविलो मनस्कारः अयोनिशः प्रवृत्तत्वान् मोहजत्वाद् वा. मोहाज् जातो मोहज इति. अविद्यासंस्पर्शजं वेदितम् इति. अविद्यासंप्रयुक्तात् स्पर्शाज् जातं अविद्यासंस्पर्शजं वेदितं. यत्र वेदितम् अविद्यासंस्पर्शजम्. [तिब्. 278ब्] अवश्यं तत्राविद्या संप्रयुज्यते. न हि वेदितम् असंप्रयुक्तम् अविद्यया तृष्णाहेतुर् भवतीति. तद् एवं स्पर्शकाले भवन्न् अयोनिशोमनस्कारो वेदनासहवर्तिन्या अविद्यायाः प्रत्ययभावेन सिद्ध इति. ज्ञापितम् इदं भवत्य् (अभिध्-क्-व्य् 290) अयोनिशोमनस्कारहेतुकाविद्येति. अतो नास्त्य् अहेतुकत्वम् अविद्यायाः. अयोनिशोमनस्कारहेतुकत्वात्. न चांगान्तरम् उपसंख्येयं द्वादशभ्यो ऽन्यत्. यस्मात् स्पर्शकाले भवन्न् अयोनिशोमनस्कारो वेदनासहवर्तिन्या अविद्यायाः प्रत्ययभावेन सिद्ध इति. न चाप्य् अनवस्थाप्रसंगः. तस्याप्य् अयोनिशोमनस्कारस्य पुनर् मोहजवचनात्. आविलो मनस्कारो मोहज इति. तद् एतच् चक्रकम् उक्तं भवति. अयोनिशोमनस्काराद् अविद्या. अविद्यायाश् चायोनिशोमनस्कार इति.

एवं पुनः परिहारम् आचार्यः सदोषं पश्यंस् तस्य दोषस्याभिव्यक्त्यर्थं प्रसंगम् आरभते. तत् तर्हीति विस्तरः. तद् यथोक्तम् अयोनिशोमनस्कारो हेतुर् अविद्याया इति विस्तरेण सूत्रतो युक्त्या वा. तर्हीति अर्थान्तरविवक्षायां. इदानीमर्थ इति भगवद्विशेषः. एतद् अन्यत्र सूत्र उक्तम् इह पुनः प्रतीत्यसमुत्पादसूत्रे वक्तव्यं. न वक्तव्यम् इति [तिब्. 279अ] भदन्तश्रीलातः. कया युक्त्येति पृष्टः. भदन्तश्रीलात आह. न हीति विस्तरः. अर्हताम् अस्ति वेदना. न च सा तृष्णायाः प्रत्ययीभवतीति. सविद्यैव वेदना तृष्णाप्रत्यय इति गम्यते. न चाविपरीतः स्पर्शः क्लिष्ताया वेदनायाः प्रत्ययीभवतीति प्रकृतं. न च पुनर् निरविद्यस्यार्हतो विपरीतः स्पर्श इति. स्पर्शो ऽपि साविद्य एवेति गम्यते. यो वेदनायाः प्रत्यय उक्तः प्रतीत्यसमुत्पादसूत्रे. अविद्या चास्य स्पर्शस्य हेतुर् इति गम्यते. इत्य् अनया युक्त्या पृअतीत्यसमुत्पादसूत्रे साविद्यस्पर्शप्रत्यया वेदना. साविद्यवेदनाप्रत्यया च तृष्णेति गम्यते. अतो युक्त्या यथोक्तया. स चापि स्पर्शकाले निर्दिष्ट इति विस्तरेणात्र प्रतीत्यसमुत्पादे सिद्धं भवत्य् अयोनिशोमनस्कारो हेतुर् अविद्याया इति. अत्र चोद्यते. यदि तर्हि निरविद्या वेदना तृष्णायः प्रत्ययो न भवतीत्यादिवचनेन स्वगतयैव युक्त्या अयोनिशोमनस्कारो हेतुर् अविद्याया अविद्या चायोनिशोमनस्कारस्य हेतुर् इति गम्यते. किम् सूत्रान्तरापाश्रयेणाविद्यायोनिशोमनस्कारयोर् अन्योन्यहेतुकत्वप्रदर्शनेन प्रयोजनम् इति. अत्रोच्यते. सत्यम् अस्त्य् एतत्. किं तु युक्तिमात्रम् इदं प्रतीत्यसमुत्पादसूत्रे. न कण्ठोक्तिः. अतः सूत्रान्तरे कण्ठोक्त्येयं [तिब्. 279ब्] युक्तिर् व्यवस्थाप्यत इति तत्

सूत्रान्तरोपन्यासप्रयोजनम् अवगंतव्यं. अतिप्रसंग एवं प्राप्नोतीति शास्त्रकारः. कथम् अतिप्रसंग इत्य् आह. अविद्यास्पर्शजं वेदितं प्रतीत्योत्पन्ना तृष्णेति सूत्रान्तरे निर्दिष्टं. न च निरविद्यवेदितस्यार्हतो वेदना तृष्णायाः प्रत्ययो भवति. न चाविपरीतः स्पर्शः क्लिष्टाया वेदनायाः. न च निरविद्यस्यार्हतो विपरीतः स्पर्श इत्य् अनया युक्त्या एतद् अप्य् अंगद्वयं स्पर्शवेदनाख्यं इह प्रतीत्यसमुत्पादसूत्रे ऽनुच्यमानम् अप्य् अन्यत्रोपदिष्टत्वाद् गम्यते इत्य् एतस्याप्य् अंगद्वयस्यावचनं प्राप्तं. तथा सूत्रान्तर उपदिष्टं. स पुण्यांश् चेत् संस्कारान् अभिसंस्करोति (अभिध्-क्-व्य् 291) पुण्योपगम् अस्य विज्ञानं भवति. एवम् अपुण्योपगम् आनिंज्योपगं च. न च निरविद्यसंस्कारस्यार्हतः पुण्योपगं विज्ञानं यावद् आनिंज्योपगं विज्ञानम् इति. एतद् अपि संस्कारांगं युक्त्या सिद्धं. न वक्तव्यम् अत्रेति प्राप्तं. तथा जातिम् अन्तरेण जरामरणं न भवतीति युक्त्या गम्यत इति. जात्यंगं न वक्तव्यं स्यात्. इत्यादिप्रसंगः प्राप्नोति.

अचोद्यम् एव त्व् एतद् इति विस्तरेणाचार्यः स्वमतम् आह. कथं परलोकाद् इहलोक इति विस्तरः. तत्राविद्यासंस्काराभ्याम् [तिब्. 280अ] इहलोकः सम्बध्यते. स चेहलोको विज्ञाननामरूपषडायतनस्पर्शवेदनांगानि. तृष्णोपादानभवैः परलोकः संबध्यते. स च परलोको जातिर् जरामरणं च. इत्य् एतावतो ऽर्थस्यात्र प्रतीत्यसमुत्पादसूत्रे विनेयेभ्यो विवक्षितत्वात्. एतस्य चार्थस्य पूर्वम् एवोक्तत्वात्.

पूर्वापरन्तमध्येषु संमोहविनिवर्तय

इत्य् अनेन उक्तत्वात्. अचोद्यम् एव त्व् एतत् विस्तरेण यावन् न चापरिपूर्णो निर्देश इत्य् अभिसम्बन्धः.

उभयं हि सर्वे संस्कृता धर्मा इति. त्रैयध्विकाः सर्वे संस्कृता धर्माः प्रतीत्यसमुत्पादः. अत एव च प्रतीत्यसमुत्पन्ना इति न कश्चिद् विशेषः. कथं तावद् अकृता इति. भाविन्या संज्ञया यथानागताः संस्कृता उच्यन्ते. तथा प्रतीत्यसमुत्पन्ना इत्य् अभिप्रायः. आभिसंस्कारिकया चेतनयेति. सर्वचेतनानां स्वलक्षणम् अभिद्योतयन्न् आभिसंस्कारिकयेत्य् आह. सा हि विपाकाभिसंस्करणाद् आभिसंस्कारिका. तया चेतितत्वात् प्रणिहितत्वात्. देवो भविष्यामि मनुष्यो भविष्यामीत्य् एवमादि. अतो ऽनागताः संस्कृता उच्यन्ते. न तु भाविन्या संज्ञयेति तम् अभिप्रायं विहन्ति. अनास्रवाः कथम् इति. ये सास्रवा अनागता एवं चेतयितुं युज्यन्ते. [तिब्. 280ब्] ये त्व् अनास्रवा अनागताः. ते कथं चेतयितुं युज्यंते. चोदक आह. ते ऽपि चेतिताः कुशलया चेतनया. प्राप्तिं प्रति अनास्रवा धर्माः प्राप्येरन्न् इति. निर्वाणे ऽपि प्रसंग इति. निर्वाणम् अपि संस्कृतत्वं प्रसज्यते. प्राप्तिं प्रति चेतितत्वान् निर्वाणं प्राप्येतेति. तद् एवम् अनेनार्थेनानागतानां संस्कृतत्वव्यवस्थापने दोष इति विध्यंतरम् उपन्यस्यते. तज्जातीयत्वाद् इति विस्तरः. यथा न च तावद् रूप्यते यद् अनागतं रूपं रूप्यमाणरूपजातीयत्वाद् रूपम् इत्य् अतिदेशः. तथा प्रतीत्यसमुत्पन्नधर्मजातीयत्वाद् अनागता अपि धर्माः प्रतीत्यसमुत्पन्ना इत्य् अतिदेश एषाम् अनागतानां भवतीति.

(iii.28अब्) हेतुफलभावाद् इति. यस्मात् तद् एवांगं हेतुस् तद् एव फलं. न चैवं सत्य् अव्यवस्थानं भवतीति. पारापारवत्. हेतुफलवद् इति. नाव्यवस्थितः प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पन्नश् च भिन्नापेक्षत्वात्. हेतुफलवत् (अभिध्-क्-व्य् 292) पितृपुत्रवद् वा. तत्र हेतुफलं. तद्यथा बीजांकुरादि. यथा यद् अपेक्ष्य हेतुर् व्यवस्थाप्यते. न तद् अपेक्ष्य फलं. यद् अपेक्ष्य फलं व्यवस्थाप्यते. न तद् अपेक्ष्य हेतुः. किं तर्हि. फलम् [तिब्. 281अ] अपेक्ष्य हेतुर् व्यवस्थाप्यते. हेतुं चापेक्ष्य फलम् इति. यथा च यम् अपेक्ष्य पिता. न तम् अपेक्ष्य पुत्रः. यम् अपेक्ष्य पुत्रः. न तम् अपेक्ष्य पिता. किं तर्हि. तत्पुत्रम् अपेक्ष्य पितेति. पितरं चापेक्ष्य पुत्र इति. न च तद् अव्यवस्थितं. तद्वद् एतत्.

किलेत्य् असंभावनायां. प्रथमा कोटिर् अनागता धर्मा इति. अन्यधर्महेतुत्वात् प्रतीत्यसमुत्पादः समुत्पद्यते ऽस्माद् इति कृत्वा. न प्रतीत्यसमुत्पन्नाः अनुत्पन्नत्वात्. द्वितीयार्हतश् चरमा इति. उत्पन्नत्वात्. ततः फलानुत्पत्तेश् च. तृतीया तदन्य इति. अर्हतश् चरमेभ्यो ऽन्ये ऽतीतप्रत्युत्पन्ना धर्माः. चतुर्थ्य् असंस्कृता इति. तत्फलाभावाद् अनुत्पत्तिमत्त्वाच् च.

किं खल्व् एता इष्टय उच्यन्त इति. आवस्थिकः प्रतीत्यसमुत्पादः स्यात् प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पन्ना इत्य् एवमाद्याः. पूर्वन्ते ऽज्ञानम् इति. यस्माद् अविद्यैवोक्ता नान्ये स्कन्धाः. तस्माद् अविद्यैवांगम् इति. नीतार्थम् एतद् इति दर्शयति. नीतार्थम् इति विभक्तार्थं. हस्तिपदोपमा सूत्रं. संति च तत्रान्ये ऽपि रूपादय इति. तेषु केशरोमादिषु. न पृथिवीधातुमात्रम् एवेति. [तिब्. 281ब्] एवम् अत्रापि यथाप्रधानं निर्देशः स्याद् इति. एवम् अत्रापि प्रतीत्यसमुत्पादसूत्रे. द्वादशसु पंचस्कंधिकास्व् अवस्थासु यत्र यस्य प्राधान्यं. तत्र तस्यतस्य निर्देशः स्यात्. अविद्याप्रधानायाम् अविद्येति निर्देशः स्यात्. संस्कारादिप्रधानासु अवस्थासु संस्कारादीनां निर्देशः स्यात्. संति च तत्राण्ये ऽपि रूपवेदनादयो धर्मा इति. न हि तत्रेति विस्तरः. न हि तत्र सूत्रे केशादयः पृथिवीधातुना निर्दिश्यन्ते. केशादयः कतमे पृथिवीधातुर् इति. यत एषां केशादीनां अपरिपूर्णो निर्देशः स्यात्. सन्ति हि तत्रान्ये ऽपि रूपादय इति. रूपादिस्वभावा अपि केशादयो न केवलं पृथिवीधातुस्वभावा इति. अपि तु केशादिभिर् एव पृथिवीधातुर् निर्दिश्यते. पृथिवीधातुः कतमः. केशरोमाणीति. न च केशादीन् अभ्यतीत्याप्य् अतिक्रम्याप्य् अस्ति पृथिवीधातुर् आध्यात्मिक इति. संपूर्ण एवास्य पृथिवीधातोर् निर्देशः. एवम् इहाप्य् अविद्यादीनां एवम् इहापि सूत्रे ऽविद्यासंस्कारविज्ञानादीनां परिपूर्ण एव निर्देशो न सावशेषः. अश्रुसिंघाणकादिष्व् इति. अश्रुसिंघाणकादीनि न तत्र सूत्रे पठ्यन्ते. तस्मान् न तद्गतः पृथिवीधातुर् उक्त इति सावशेषः एवेत्य् [तिब्. 282अ] दर्शयति. भवतु वा तथैवेति विस्तरः. यथा पृथिवीधातोर् अश्रुसिंघाणकादिष्व्

अवशेषम् अनुक्तत्वात्. तथैवाविद्यावशेषम् अस्तु यदि शक्यते (अभिध्-क्-व्य् 293) दर्शयितुम्. न शक्यते दर्शयितुम् इति मन्यमानो यदिशब्दं प्रयुंक्ते. पूर्वान्ते ऽज्ञानम् अपरान्ते ऽज्ञानं मध्यान्ते ऽज्ञानं बुद्धे ऽज्ञानं धर्मे ऽज्ञानं संघे ऽज्ञानम् इत्य् एवमादीनां सर्वेषाम् अज्ञानस्थानानाम् उक्तत्वात्. जात्यंतरस्य तु वेदनादेर् अविद्यायां किं कृतः प्रक्षेपः पंचस्कंधिकावस्थाविद्येति. न हि वेदनादीनां अविद्यात्वं युज्यत इति. भावाभावनियम इति. यस्य भावाभावयोर् यस्य भावाभावौ यथासंख्येन नियतौ तद् एवांगं. अविद्याभावे संस्काराणां भावस् तदभावे तेषाम् अभाव इत्य् अविद्यैवांगं. न वेदनादि. न हि वेदनादिसद्भावे ऽर्हतां संस्कारा भवंति. ये विज्ञानांगजनका इत्य् अर्थः. तस्माद् आह. सत्य् अपि च पंचस्कंधके संस्कारा न भवंतीति विस्तरः. सत्य् अपि च पंचस्कंधके ऽर्हत्त्वावस्थायां. पुण्योपगं यावद् आनिंज्योपगं च विज्ञानं न भवति. प्रतिसंधिविज्ञानं न भवतीत्य् अर्थः. तांताम् उपपत्तिं गच्छतीत्य् उपगं. पुण्योपगं विज्ञानं पुण्योपगं. [तिब्. 282ब्] एवं यावद् आनिंज्योपगं. तथा सत्य् अपि पंचस्कंधके निरविद्यावस्थायां तृष्णोपादानादयश् च न भवन्तीति. यथानिर्देश एव सूत्रार्थः. यथासंकीर्तितानाम् एवाविद्यादीनां ग्रहणम् इत्य् अर्थः. अतो विद्यमाना अन्ये स्कंधा न प्रत्ययाः संस्कारादीनाम् इति न ते ऽंगं. एवं मया श्रुतम् इत्यादि. भगवान् राजगृहे विहरति गृध्रकूटे पर्वते भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर् भिक्षुशतैः. संबहुलैश् च बोधिसत्त्वैर् इति. आयुषमां च्छारिपुत्रो मैत्रेयं बोधिसत्त्वम् एतद् अवोचत्. शालिस्तम्भम् अवलोक्य भिक्षुभ्यः

सूत्रम् इदम् उक्तं. यो भिक्षवः प्रतीत्यसमुत्पादं पश्यति. स धर्मं पश्यति. यो धर्मं पश्यति. स बुद्धं पश्यतीत्य् उक्त्वा भगवांस् तूष्णींबभूव. तद् अस्य भगवता भाषितस्य सूत्रस्य को ऽर्थः. प्रतीत्यसमुत्पादः कतमः. धर्मः कतमः. बुद्धः कतमः. कथं च प्रतीत्यसमुत्पादं पश्यन् धर्मं पश्यतीत्यादि. तत्र प्रतीत्यसमुत्पादो नाम इदम् अविद्येत्यादि. इदं चाभिसंधायेदम् उक्तं तत्र सूत्रे. उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवेयं धर्मता धर्मस्थितिता धर्मनियामता [तिब्. 283अ] तथता अवितथता अनन्यतथता भूतता सत्यता तत्त्वम् अविपरीतताविपर्यस्ततेत्य् एवमादि भगवन्मैत्रेयवचनं. यद्य् अनागता न प्रतीत्यसमुत्पन्ना इति. यद् उक्तं प्रथमा कोटिर् अनागता धर्मा इति. सूत्रं विरुध्यत इति. जातिजरामरणयोः प्रतीत्यसमुत्पन्नत्वं न स्यात्. उक्तं च अविद्या यावज् जातिजरामरणम् इति. अथ वेति विस्तरः. अथ जातिजरामरणांगे ऽपि प्रतीत्यसमुत्पन्ने इष्टे. तयोर् (अभिध्-क्-व्य् 294) अनागताध्वव्यवस्थानं नैष्टव्यम् इति कृत्वा. त्रिकाण्डव्यवस्था भिद्यते.

पूर्वापरान्तयोर् द्वे द्वे मध्ये ऽष्टाव्

इति.

निकायान्तरीया इत्य् आर्यमहीशासकाः. उत्पादस्य संस्कृतलक्षणत्वाद् इति. यो ऽयम् उत्पादः प्रतीत्यसमुत्पाद इति निकायान्तरीयैर् नित्यः परिकल्प्यते. स संस्कृतलक्षणम् उक्तं. त्रीणीमानि संस्कृतस्य संस्कृतलक्षणानि. संस्कृतस्योत्पादो ऽपि प्रज्ञायते व्ययो ऽपि स्थित्यन्यथात्वम् अपीति. संस्कृतलक्षणत्वाच् चानित्यम् इत्य् अभिप्रायः. ब्रूयास् त्वं लक्षणम् अपि नित्यं भवतीति. अत आह. न च नित्यं भावांतरम् अनित्यस्य लक्षणं युज्यत इति. न हि निर्वाणम् [तिब्. 283ब्] आकाशं वा कस्यचिद् अनित्यस्य लक्षणं भवति. प्राग् उत्पत्तेर् हि लक्ष्यस्य तद् अस्तीति कस्य लस्क्षणं. विनष्टे च लक्ष्ये कस्येति न युज्यते. उत्पादश् चेति विस्तरः. उत्पादश् च नामाभूत्वाभावलक्षणः. सौत्रान्तिकनयेनोत्पत्तिर् धर्मस्य तदानींतनैव भवतीति. कोऽस्योत्पादस्यासंस्कृतस्य त्वन्मतेनाविद्यादिभिर् अभिसंबन्धः. यथौदनेन पाकस्यास्ति सम्बन्धः कर्तृक्रियालक्षण इत्य् ओदनस्य पाक इत्य् उच्यते. न ह्य् आकाशरूपयोर् अभिसम्बन्ध उत्पत्त्युत्पत्तृलक्षणो ऽस्ति. येन रूपस्याकाशम् इत्य् उच्यते. एवं को ऽस्यविद्यादिभिर् अभिसंबन्धः. यतस् तेषाम् अविद्यादीनां प्रतीत्यसमुत्पाद इत्य् उच्यते. पदार्थश् चासम्बन्धो भवतीति. प्रत्ययं प्राप्य समुद्भवः प्रतीत्यसमुत्पादः इति पदार्थः. स कथं नित्यश् च नाम प्रतीत्यसमुत्पादश् चेइत्.

प्रतिः प्राप्त्यर्थ इति. प्राप्तिद्योतक इत्य् अर्थः. इतिर् गताव् इति. धात्वर्थः. परिणामाद् इति. अनेकार्था हि धातवः. प्रतिश् चोपसर्गः प्राप्तिद्योतक इत्य् अयम् इतिर् गत्यर्थम् उज्झित्वा प्राप्त्यर्थम् आपद्यते. पदिः सत्तार्थ इति. पदिः सत्तायाम् इति. तेनेति कारणेन. पूर्वकालायां क्रियायां क्त्वाविधेर् इति. समानकर्तृकयोः पूर्वकाल इति वचनात्. न चासौ पूर्वम् उत्पादात् [तिब्. 284अ] कश्चिद् अस्तीति सौत्रांतिकमतेन. न चाप्य् अकर्तृकास्ति क्रियेति. कर्तरि सति क्रियाया व्यवस्थापनात्. आह चात्रेति. एतद् वैयाकरणचोद्यं श्लोकेनोपनिबध्नात्य् आचार्यः.

यदि पूर्वम् उत्पादात् प्रत्येति

प्राप्नोत्य्

असत्त्वान् न युज्यते.

न ह्य् अविद्यमानः कर्ता स्नानादिक्रियां कुर्वन् दृष्ट इति.

सह चेद्

अथ मन्यसे प्रतीत्यक्रियां समुत्पादक्रियां च सह करोतीत्य् एवं.

क्त्वा न सिद्धो ऽत्र

क्त्वाप्रत्ययः. कस्मात्.

पूर्वकालविधानतः

पूर्वस्मिं काले विधानं क्त्वाप्रत्ययस्य. समानकर्तृकयोः पूर्वकाल इति वचनात् क्त्वाप्रत्ययो न सिद्धो भवेत्. पुनर् उत्पत्ताव् इति. उत्पन्नस्य पुनर् उत्पत्तौ कल्प्यमानायाम् अनवस्थाप्रसंगः. द्वितीये तृतीये क्षणे पुनःपुनर् उत्पद्यत इत्य् अनिष्ठाप्रसंगः. अथानागत इति विस्तरः. अलब्धात्मको ऽनागत इति कथम् असतो ऽलब्धात्मभावस्य कर्तृत्वं सिध्यति. अकर्तृका वा क्रिया कथं सिध्यति. यत एवम् अतो यदवस्थ उत्पद्यते शाब्दिकस्य शब्दविदः. तदवस्थ एव मम प्रत्येति. किमवस्थश् चेति. कावस्थास्येति किमवस्थः. उत्पादाभिमुखो ऽनागत इति. न सर्वो ऽनागत उत्पद्यते. किं तर्हि. उत्पादाभिमुखः. उत्पादे ऽभिमुखः. उत्पित्सुर् इत्य् अर्थः. तदवस्थ एव [तिब्. 284ब्] उत्पादाबिमुखावस्थ एव. प्रत्येतीत्य् उच्यते. अनिष्पन्नं चेदम् इति विस्तरः. शाब्दिकानाम् इदम् शाब्दकीयं कर्तुः क्रियायाश् च व्यवस्थानं. कस्मात्. भवितुः कर्तृरूपकल्पिताद् अर्थात् क्रियारूपकल्पिताया भूतेर् अन्यत्वदर्शनात्. तस्माद् अच्छलं भवत्य् उत्पद्यते प्रत्येतीत्य् एवमादिषु.

आह चात्रेति. तत्सिद्धान्तेन प्रक्रियां दर्शयति.

असन्न् उत्पद्यते यद्वद्

इति विस्तरः. असन्न् अभावः अलब्धात्मकः उत्पद्यते यथा.

प्रत्येत्य् अपि तथा.

असन्न् इत्य् अर्थः.

अथ सन्

अथ लब्धात्मक उत्पद्यत इति कल्प्यते.

उत्पन्न उत्पद्यत इत्य् अनिष्ठा.

उत्पन्नो ऽपि पुनर् उत्पद्यते इत्य् अनवस्थानाद् अन्यदनिष्ठा प्राप्नोति. तथा हि सांख्यमतानुसारेण सत एवोत्पादा नासत इति तद् एतद् अधिकृत्य ब्रवीति.

सन् पुरापि वेति.

वाशब्दो मतविकल्पार्थः. यदि भवतां सन्न् उत्पद्यत इति पक्षः. अस्माकम् अपि सन्न् उत्पद्यते. वैभाषिकनयेनानागतानाम् अस्तित्वात्. सौत्रान्तिकनयेन च जनकधर्मबीजसद्भावात्. ततः किम् इदम् उच्यते. न चासौ पूर्वम् उत्पादात् कश्चिद् अस्ति. यः प्रतीत्योत्तरकालम् उत्पद्यत इति. अथ वा यदि तर्हि सन्न् एवोत्पद्यते. पूर्वम् एव घटो मृत्पिण्डादीन् अनपेक्ष्य स्वतः (अभिध्-क्-व्य् 296) प्रसिद्धो ऽस्तीति प्राप्नोति. अपरे पुनर् व्याचक्षते.

अनिष्ठा [तिब्. 285अ] सन् पुरापि वेति.

अथ मा भूद् अनिष्ठेति. असन्न् उत्पद्यते इति प्रतिपद्यते. पुनस् तद् एवोपतिष्ठते.

असन्न् उत्पद्यते यद्वत् प्रत्येत्य् अपि तथेति

सिद्धो नः पक्ष इति पूर्ववद् वाच्यं. यद् अप्य् उक्तम् एकस्य हि कर्तुर् द्वयोः क्रिययोः पूर्वकालायां क्रियायां क्त्वाविधिर् भवतीति तद् व्यभिचारयन्न् आह.

सहभावे ऽपि च क्त्वास्तीति

विस्तरः. समानकालायाम् अपि क्रियायां क्त्वाविधिर् दृष्टः. तद्यथा

दीपं प्राप्य तमो गतम्

इति. अत्र न पूर्वं तमो दीपं प्राप्नोति पश्चाद् गच्छति विनश्यति इत्य् अर्थः. किं तर्हि. तस्मिन्न् एव काले तमो दीपं प्राप्नुवद् विनश्यति. अथ मतं. समनंतरम् एव तन् न युगपद् इति. अतः पुनर् इदम् उच्यते.

आस्यं व्यादाय शेते वेति.

न ह्य् असौ पूर्वं मुखं व्याददाति विदारयति पश्चाच् छेते. किं तर्हि. यो मुखं व्याददच् छेते. स मुखं व्यादाय शेत इत्य् उच्यते. अथ मतं. पूर्वम् असौ मुखं व्याददाति. पश्चाच् छेते इति. अत आह.

पश्चाच् चेत् किं न सम्वृते.

यः कश्चिन् मुखं व्यादापानंतरं च संवृत्य शेते. स मुखं व्यादाय शेत इत्य् उच्येत न चोच्यते. तेन ज्ञायते. यो मुखं व्याददच् छेते. स मुखं व्यादाय शेते इत्य् उच्यते इति.

अन्ये पुनर् इति. भदन्तश्रीलातः प्रतिर् वीप्सार्थ इति. नानावाचिनाम् अधिकरणानां सर्वेषां क्रियागुणाभ्यां व्याप्तुम् इच्छा वीप्सा. ताम् अयं प्रतिर् द्योतयति. [तिब्. 285ब्] इतौ गतौ साधव इत्याः. तत्र साधुर् इति यत्प्रत्ययः. इतौ विनष्टौ साधवः. अनवस्थायिन इत्य् अर्थः. समुपसर्गः समवायार्थं द्योतयति. उत्पूर्वः पदिः प्रादुर्भावार्थः. धात्वर्थपरिणामात्. तां तां सामग्रीं प्रतीति. प्रतेर् वीप्सार्थतां दर्शयति. इत्यानां विनश्वराणां समवायेनोत्पादः प्रतीत्यसमुत्पादः. न कश्चिद् धर्म एक उत्पद्यते सहोत्पादनियमात्. रूपादीनां

कामे ऽष्टद्रव्यको ऽशब्दः परमाणुः

यावच्

चित्तचैत्ताः सहवश्यम्

इति नियमात्. एषा तु कल्पनेति विस्तरः. प्रतिर् वीप्सार्थ इत्य् एवमादिका कल्पनात्रैव (अभिध्-क्-व्य् 297) प्रतीत्यसमुत्पादसूत्रे युज्यते. इह कथं भविष्यति चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् इति. न हि प्रतीत्यानां चक्षूंषि प्रतीत्यचक्षूंषीति समासः संभवत्य् अर्थायोगात्. चाक्षुर् हि प्रतीत्य प्राप्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् इत्य् अयम् अर्थो गम्यते. तेन तदवस्थम् एव तच् चोद्यं न युक्त एष पदार्थ इति विस्तरेण यद् उक्तं. कथम्. एकस्य हि कर्तुर् द्वयोः क्रिययोः पूर्वकालायां क्रियायां क्त्वाविधिर् भवति. स्नात्वा भुंक्ते इति. न च पूर्वम् उत्पादाच् चक्षुर्विज्ञानम् अस्ति. यच् चक्षुः पूर्वं प्रतीत्य रूपाणि चोत्तरकालम् उत्पद्यते. न चाप्य् अकर्तृका क्रियेति.

अवधारणार्थं पर्यायद्वयम् आह. अस्मिन् सतीत्य् एतावत्य् [तिब्. 286अ] उच्यमाने. न केवलम् अविद्यायां सत्यां संस्कारा भवंति. अन्यस्मिन्न् अपि सतीति गम्येत. यथा चक्षुषि सति चक्षुर्विज्ञानं भवतीति. न चक्षुष्य् एव सतीत्य् अवधार्यते. तेन रूपे ऽपि सतीति गम्यते. द्वितीयेन तु पर्यायेणस्योत्पादाद् इदम् उत्पद्यते इत्य् अनेन पूर्वपर्यायम् एवावधारयति. अस्यैवोत्पादाद् इदम् उत्पद्यते. नान्यस्माद् इति. अंगपरंपरां वा दर्शयितुम् इति. अस्मिन्न् अंगे सति. अविद्यांगे सतीदं संस्कारांगं भवति. अस्य पुनर् अंगस्य संस्कारांगस्योत्पादाद् इदं विज्ञानांगम् उत्पद्यत इति. एवम् इतरेषाम् अप्य् अंगानां परंपरा वक्तव्या. जन्मपरंपरां वा. किं. दर्शयितुं पर्यायद्वयम् आहेति वर्तते. साक्षाद् इति विस्तरः. साक्षात् पारंपर्येण संतत्याविद्यादीनां प्रत्ययभावं दर्शयितुं पर्यायद्वयम् आह. अस्मिन् सतीदं भवतीति साक्षात् प्रत्ययभावं दर्शयति. अस्योत्पादाद् इदम् उत्पद्यत इति पारंपर्येण. तत्र साक्षाद् यदाविद्यायाः समनंतरं क्लिष्टाः संस्कारा उत्पद्यन्ते. पारंपर्येण तु यदा कुशला उत्पद्यंते. कुशलावस्थायाम् अविद्याया अभावात्. किं च. अविद्या संस्काराणां साक्षात् प्रत्ययो विज्ञानादीनां पारंपर्येण. तद् उक्तं भवति. अविद्यांगे सति संस्कारांगं भवत्य् अस्य संस्कारांगस्योत्पादाद् इदम् उत्पद्यते विज्ञानांगं साक्षाद् अविद्याप्रत्ययं पारंपर्येणेति. [तिब्. 286ब्] एतत् सर्वम् आचार्यमतं. प्रतिषेधार्थम् इत्य् अपर इति स्थविरवसुवर्मा. नासति हेतौ भावो भवतीत्य् अहेतुवादप्रतिषेधार्थं प्रथमेन पर्यायेण. नित्यहेतुवादप्रतिषेधार्थं न चानुत्पत्तिमतो नित्यात् प्रकृतिपुरुषादिकात् किंचिद् उत्पद्यत इति

द्वितीयेन. आचार्य आह. अस्यां तु कल्पनायाम् इति विस्तरः. पूर्वपदस्य ग्रहणम् अनर्थकम् इति. अस्मिन् सतीदं भवतीत्य् अस्य. उभयवादप्रतिषेधसिद्धेर् इति. अस्योत्पादाद् इदम् उत्पद्यते इत्य् अनेनैव पर्यायेण. हेतोर् अस्तित्वम् उत्पत्तिमतश् च हेतुत्वम् इत्य् उभयस्याहेतुत्वनित्यहेतुत्वलक्षणस्य वादस्य प्रतिषेधसिद्धितः पूर्वपर्यायस्यानर्थक्यं प्राप्नोति. संति तर्हि केचिद् इति विस्तरः. सन्ति केचिद् (अभिध्-क्-व्य् 298) वादिनः. य आत्मनि सत्य् आश्रयभूते अविद्याया आश्रयभूते संस्कारादीनां संस्कारविज्ञाननामरूपादीनां भावम् उत्पादं कल्पयंति. अविद्यादीनां चाविद्यासंस्कारादीनां उत्पादात् तदुत्पत्तिं संस्काराद्युत्पत्तिं कल्पयन्तीत्य् अधिकृतं. अतः कारणात् तेषां वादिनां कल्पनां पर्युदासयितुं प्रतिषेद्धुम् इदं निर्धारयां बभूवाम्रेदयां बभूव. किम् इत्य् आह. यस्यैवोत्पादात् यावत् स्कंधस्य समुदयो भवतीति. यस्यैवोत्पादाद् यद् उत्पद्यते. तस्मिन्न् एव सति तद् भवति. नान्यस्मिन्न् आत्मनि. यद् उताविद्याप्रत्ययाः संस्काराः. [तिब्. 287अ] अविद्यायाम् एव सत्यां संस्कारा भवंति. नान्यस्मिन् यावद् एवम् अस्य केवलस्य महतो दुःखस्कंधस्य समुदयो भवति. कथं. जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवंति. एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति. जात्याम् एव सत्यां जरामरणादयः संभवंति. नान्यस्मिन्न् आत्मनि. अन्यथा ह्य् अस्मिन् सतीदं भवतीत्य् उच्यमाने वक्तारस् स्युः. आत्मनि सत्य् आश्रयभूते अविद्यादिषु सत्सु संस्कारादयो भवन्तीति. अथ पुनर् द्वितीयम् एव पर्यायं ब्रूयाद् अस्योत्पादाद् इदम् उत्पद्यत इति. एवम् अपि तथैव कल्पेयुः. सत्यम्

अविद्यादीनाम् उत्पादात् संस्कारादय उत्पद्यन्ते. आत्मनि तु सत्य् आश्रयभूत इति. अतः पर्यायद्वयेन निर्धारयति. यस्योत्पादाद् यद् उत्पद्यते. तस्मिन्न् एव सति तद् भवति. नान्यस्मिन् आत्मनि सत्य् आश्रयभूत इति. आचार्या इति पूर्वाचार्याः. अप्रहीणज्ञापनार्थम् उत्पत्तिज्ञापनार्थं च. अविद्यायां सत्याम् अप्रहीणायां संस्कारा भवंति. न प्रहीयन्त इति प्रथमेन पर्यायेण दर्शयति. तस्या एवोत्पादाद् उत्पद्यन्त इति द्वितीयेन दर्शयति. एवं यावज् जात्यां सत्यां अप्रहीणायां जरामरनादयो भवंति. न प्रहीयंते. तस्या एवोत्पादाद् उत्पद्यन्त इति. स्थित्युत्पत्तिसंदर्शनार्थम् इत्य् अपर [तिब्. 287ब्] इति भदन्तश्रीलातः. तदर्थं पर्यायद्वयम् आहेति. यावत् कारणस्रोतस् तावत् कार्यस्रोतो भवतीति प्रथमेन पर्यायेण. कारणस्यैवोत्पादात् कार्यम् उत्पद्यत इति द्वितीयेन. उत्पादे त्व् अधिकृत इति. प्रतीत्यसमुत्पादं वो भिक्षवो देशयिष्यामीत्य् अधिकृते. कः प्रसंगः कः प्रस्तावः स्थितिवचनस्य. अस्मिन् सतीदं भवतीत्य् अनेन यावत् कारणस्रोतस् तिष्ठति तावत् कार्यस्रोतस् तिष्ठतीति एवम् अस्य स्थित्यर्थो वर्ण्यत इति. भिन्नक्रमं च भगवान् किम् अर्थं आचक्षीत्. उत्पत्तिर् हि प्रथमं भवति. पश्चात् स्थितिः. उत्पत्तिप्रतिबद्धा स्थितिर् इति कृत्वा. अस्योत्पादाद् इदम् उत्पद्यत इति पूर्वं वक्तव्यं स्यात्. पश्चाद् इदम् अस्मिन् सतीदं भवति. न त्व् एवम्. अतो नायम् अर्थ इति. पुनर् आहेति. स एव भदन्तश्रीलातः. आचार्यः प्रत्याह. एष चेद् इति विस्तरः. अस्मिन् सतीदं न भवतीत्य् एवावक्ष्यद् इति. नात्रैवाभावनिर्देशो युक्तरूप इति दर्शयति. पूर्वं च कार्यस्योत्पादम् इति. अस्योत्पादाद् इदम् उत्पद्यत इति पूर्वम् अवक्ष्यत्.

उत्पादपूर्वकत्वाद् (अभिध्-क्-व्य् 299) विनाशस्य.

सूत्र उक्तं जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्तीति जरामरणसंगृहीता एवं ते. नांगांतरम् इत्य् अवगन्तव्यं. [तिब्. 288अ] तत्र सत्त्वासत्त्वसंख्यातस्य विषयस्य परिणामाद् आत्मभावपरिणामाच् चैते भवंति. दौर्मनस्यसंप्रयुक्तो वितर्कः शोकः. शोकसमुत्थितप्रलापः परिदेवः. दुःखदौर्मनस्ये व्याख्याते. विच्छिन्नवेगं दौर्मनस्यम् उपायासः. शोकपरिदेवपूर्वकः श्रम उपायास इत्य् अपरे. बालो हीति विस्तरः. बालः पृथग्जनः संस्कारमात्रम् इति. मात्रग्रहणम् आत्मप्रतिषेधार्थम्. अप्रजानन्न् इत्य् आवेणिकीम् अविद्यां दर्शयति. आत्मदृष्ट्य् अस्मिमानाभिनिविष्टः प्रतिष्ठितः कायादिभिः कायवाङ्मनोभिस् त्रिविधं कर्म पुण्यापुण्यानिंज्यलक्षणम् आरभते. आनिंज्यम् इति. इगिः प्रकृत्यन्तरं तस्यैवैतद् रूपं. एजतेर् एतत् रूपम् आनेंज्यम् इति वा पाठः. आयतिसुखार्थं पुण्यम् इति. अनागतजन्मसुखार्थं. किं. कामावचरं कुशलं कर्म. सुखदुःखासुखार्थम् आनिंज्यम् इति. रूपारूप्यावचरं कुशलं. सुखार्थम् आ तृतीयाद् ध्यानात्. तस्माद् ऊर्ध्वम् अदुःकासुखार्थं. ऐहिकसुखार्थम् अपुण्यम् इति. इहसुखापेक्षया तत् कृतं नायतिसुखापेक्षयेत्य् अर्थः. कर्माक्षेपवशाद् यथोक्तं कर्मावेधवशात्. तांतां गतिं नरकादिकां गच्छति. ज्वालागमनयोगेन. यथा दीर्घा तृणानुसक्ता ज्वाला [तिब्. 288ब्] गच्छतीत्य् उच्यते. तथा विज्ञानसंततिभिर् अन्तराभवसम्बन्धाद् अन्तराभवसंबन्धेनातिविप्रकृटदेशाम् अपि तांतां गतिं गच्छति. एवं च कृत्वेति. यदि संस्कारप्रत्ययं अन्तराभवप्रतिसंधिचित्तम् उपादाय यावद् उपपत्तिक्षणः सर्वासौ विज्ञानसंततिः षण्णां विज्ञानकायानां संस्कारप्रत्ययं विज्ञानम् अभिप्रेतं तद् उपपन्नं भवति. विज्ञानांगनिर्देशे विज्ञानांगस्य तृतीयस्य निर्देशे. विज्ञानं कतमत्. षड् विज्ञानकाया इति. अन्यथा हि यदि षण्णां विज्ञानकायानां संततिर् नाभिप्रेता स्यात्. संस्कारप्रत्ययं विज्ञानं प्रतिसंधिचित्तम् एवाभिप्रेतं स्यात्. अत्र षड् विज्ञानकाया इति नोक्तं स्यात्. एवं तु वक्तव्यं स्यात्. विज्ञानं कत्मत्. मनोविज्ञानम् इति. न हि प्रतिसंधिक्षणे पंचविज्ञानकायसंभवो ऽस्ति. मनोविज्ञानेनैव प्रतिसंधिबन्धात्.

छेदसंधानवैराग्यहानिच्युत्युपपत्तयः मनोविज्ञ्ण एवेष्टा

इति वचनात्. विभंग एवं निर्देशाद् इति. प्रतीत्यस्मुत्पादसूत्रे नामरूपविभंग एवं निर्देशात्. नाम कतमत्. चत्वारो ऽरूपिणः स्कन्धा इति. रूपं कतमत्. यत्किम्चिद् रूपम् इति विस्तरेण. यावद् यच् चेदं रूपं यच् च नाम. (अभिध्-क्-व्य् 300) तद् उभयं नामरूपम् इत्य् उच्यत [तिब्. 289अ] इति. कामतृष्णेति. कामावचरी तृष्णा. रूपतृष्णेति. या सुखायां त्रिषु ध्यानेषु. अदुःखासुखायां चतुर्थे. अदुःखासुखायाम् आरूप्यतृष्णेति. आरूप्यावचरी. कामादीनाम् उपादानम् इति. काम्यन्त इति कामाः. गुण्यन्त इति गुणाः. कामा एव गुणाः कामगुणाः. के पुनस् ते. रूपशब्दगन्धरसस्प्रष्टव्यानि. दृष्टयो द्वाषष्टि यथा ब्रह्मजाल इति. ब्रह्मजालसूत्रदर्शनेन ता दृष्टयो बोद्धव्याः. कुक्कुरगोव्रतादीनीति. आदिशब्देन मृगव्रतादीनि गृह्यन्ते. निर्ग्रन्थादीनाम् इति. आदिशब्देन पाण्डरभिक्ष्वादीनां ग्रहणं. ब्राह्ंअणेत्यादिविस्तरः. ब्राह्मणानां दण्डाजिनं पाशुपतानां जटाभस्म. परिव्राजकानां त्रिदण्डमौण्ड्यं आदिशब्दद्वयेन कापालिकादीनां कपालधारणादीनि गृह्यन्ते. तत्समादानं शीलव्रतोपादानं. आत्मेति वादो ऽस्मिन्न् इत्य् आत्मवादः. यथोक्तं. ये केचिच् छ्रमणा ब्राह्मणा वा आत्मेति समनुपश्यन्तः. [तिब्. 289ब्] समनुप्श्यंति सर्वे त इमान् एव पंचोपादानस्कन्धान् इति विस्तरः. आत्मदृष्ट्यस्मिमानाव् इत्य् अपर आत्मवादम् आहुः. आत्मनो ह्य् असत्त्वाद् आत्मवादोपादानाम् इति वादशब्दोपन्यासे प्रयोजनं दर्शयति. बालो ऽश्रुतवान् पृथग्जन इति. यस्य पूर्वाभ्यासवासनानिर्जातोपपत्तिलाभिका प्रज्ञा नास्ति. स बालः. यस्यागमजा नास्ति. सो ऽश्रुतवान्. यस्याधिगमजा सत्याभिसमयजा नास्ति. स पृथग्जनः. प्रज्ञप्तिम् अनुपतित इति. यथा संज्ञा यथा च व्यवहारः. तथानुगत इत्य् अर्थः. तेषाम् इति कामादीनां. छन्दराग इति. अप्राप्तेषु विषयेषु प्रार्थना छन्दः. प्राप्तेषु रागः. तेषु कामादिषु यः छन्दरागः. तद् उपादानं. न तु

यथोक्ता एव साविद्या द्विधा दृष्टिविवेचनाद् उपादानानीत्य्

अभिप्रायः. पौनर्भविकम् इति पुनर्भवफलं. इदम् अत्र भवस्येति. इदम् अत्र भवस्य स्वलक्षणं स्वभाव इत्य् अर्थः. विज्ञानावक्रान्तियोगेनेति. ज्वालागमनयोगेनान्तराभवसंबन्धाद् अनागतं जन्म जातिः पंचस्कंधिका नामरूपस्वभावत्वात्. जरामरणं यथा निर्दिष्टं सूत्र इति. जरा कतमा. यत् तत् खालित्यं [तिब्. 290अ] पालित्यं इति विस्तरः. मरणं कतमत्. या तेषांतेषां सत्त्वानां तस्मात्तस्माच् च्युतिश् च्यवनम् इति विस्तरः. केवलस्यात्मरहितस्येत्य् अर्थं दर्शयति. महत इत्य् अनाद्यन्तस्य. दुःखस्कन्धस्येति दुःखसमूहस्य. स एव तु वैभाषिकन्यायो यः पूर्वम् उक्त (अभिध्-क्-व्य् 301) इति. द्वादश पंचस्कंधिका अवस्था द्वादशंगानीति.

(iii.28च्द्) या न विद्या. चक्षुरादिष्व् अपि प्रसंग इति. चक्षुःश्रोत्रादीन्य् अविद्या प्रसज्यन्ते. तान्य् अपि हि न विद्येति कृत्वा. न किंचिद् स्याद् इति. यदि विद्याया अभावो ऽविद्या अद्रव्यं स्याद् इत्य् अर्थः. न चैतद् युक्तम् इति. प्रत्ययभावेनोपदेशात्. तद्विपक्ष इति. विरोधे नञ् इति दर्शयति. न तु यः कश्चिद् अन्यो मित्राद् इति. न पर्युदासमात्र इति दर्शयति. नापि मित्रभाव इति. नाभावार्थ इति दर्शयति. अधर्मानार्थकार्यादयश् चेति. आदिशब्देनायुक्त्यव्यवहारामनुष्यादयो गृह्यंते. धर्मादिप्रतिद्वन्द्वभूता इति. धर्मार्थकार्ययुक्तिव्यवहारमनुष्यादिप्रतिद्वन्द्वभूताः. न तु ये केचिद् अन्ये धर्मादिभ्यश् [तिब्. 290ब्] चक्षुरादयः. नापि धर्माद्यभावः. एवम् अविद्यापीति विस्तरः. कुत एतत्. प्रत्ययभावेनोपदेशात्. अविद्याप्रत्ययाः संस्कारा इति. न चाविद्याया अन्येषां चक्षुरादीनां प्रत्ययभावेनोपदेशो युक्तः. अर्हतां संस्कारसंभवात्. न चाभवस्य. शशविषाणादीनां अप्रत्ययत्वात्.

(iii.29) संयोजनं यावद् योगश् चाविद्योच्यत इति. अविद्यासंयोजनं यावद् अविद्यायोग इति सूत्रेषूच्यते. न चाभावमात्रं तथा भवितुम् अर्हतीति. न संयोजनादि भवितुम् अर्हतीत्य् अर्थः. न चापि चक्षुरादयस् तथा भवितुम् अर्हंतीत्य् अधिकृतं. सा च दृष्टिस्वभावेति नाविद्या युज्यत इति. दृष्ट्यविद्ययोः संयोजनादित्वेन पृथक्पाठात्. या तर्हि न दृष्टिर् इति. या क्लिष्टा प्रज्ञा रागादिसंप्रयुक्ता.

दृष्टेस् तत्संप्रयुक्तत्वाद्

इति. अविद्यासंप्रयुक्तत्वाद् इत्य् अर्थः. कथं च दृष्टिर् अविद्यया संप्रयुक्ता. यस्माद् अविद्यालक्षणो मोहः क्लेशमहाभूमौ पठ्यते. क्लेशमहाभूमिकाश् च सर्वे ऽपि महाभूमिकैः सह संप्रयुज्यन्त इति. दृष्ट्या सत्कायदृष्ट्यादिकया प्रज्ञास्वभावया अविद्या संप्रयुज्यत इति गम्यते. तस्मान् नाविद्या प्रज्ञा. द्वयोः प्रज्ञाद्रव्ययोर् [तिब्. 291अ] असंप्रयोगात्. अविद्योपक्लिष्टा प्रज्ञा न विशुध्यतीति. एतद् उदाहरणं. येनाविद्या प्रज्ञाया अर्थान्तरभूतेति. न च सैव प्रज्ञा तस्याः प्रज्ञाया उपक्लेशो युक्त इति. प्रज्ञोपक्लेशदेशनायां प्रज्ञाया अर्थान्तरभूता अविद्या. उपक्लेशत्वेन निर्दिष्टत्वात्. रागवत्. अत आह. यथा चित्तस्यान्य इति विस्तरः. व्यवकीर्यमाणा न विशुध्यतीति. अन्तरान्तरोत्पद्यमानया क्लिष्टया प्रज्ञया व्यवकीर्यमाणा क्षणान्तरोत्पन्ना कुशला प्रज्ञा न विशुध्यतीत्य् अर्थः. किं तद् अवश्यं रागपर्यवस्थितम् इति. रागसंप्रयुक्तम् इत्य् अर्थः. उपहतं तु तत् तथा रागेणेति. न समुदाचरता रागेण. वासनाधानेन तद् उपहतं भवति. तां वासनां तद् दौष्ठुल्यं व्यावर्तयतो योगिनः तच् चित्तं विमुच्यते. एवम् अविद्योपहता क्लिष्टा प्रज्ञा न शुध्यतीति. अतः प्रज्ञा चाविद्या च न दोष इति दर्शयति. को हि परिकल्पयन् (अभिध्-क्-व्य् 302) वार्यत इति. परिकल्पनामात्रम् एतद् आगमनिरपेक्षम् इति कथयति.

यो ऽपि मन्यते सर्वक्लेशा अविद्येति. भदन्तश्रीलातः. एवं मन्यते. अविद्येति सर्वक्लेशानाम् इयं सामान्यसंज्ञा. [तिब्. 291ब्] न रागादिक्लेशव्यतिरिक्ताविद्या नामास्तीति. कस्मात् एवं मन्यते. बुद्धसूत्रात्. न च प्रजानाति न च प्रजानातीत्य् आयुष्मन् महाकौष्ठिल तस्माद् अविद्योच्यत इति. सत्कायदृष्ट्यादयो ऽपि क्लेशा अज्ञानस्वरूपा विपरीतग्रहणत इति. तस्याप्य् अत एवेति विस्तरः. तस्य भदन्तस्यात एव प्रतिषेधवचनाद् व्युदासः. प्रतिषेधस् तन्मतस्येत्य् अध्याहार्यं. कथम् इत्य् आहा. सर्वक्लेशस्वभावा हि सती संयोजनादिषु पृथङ् नोच्येत. अनुनयसंयोजनादिष्व् अविद्यासंयोजनम् इति पृथङ् नोच्येत. शेषसंयोजनाव्यतिरेकात्. रागो बंधनं द्वेषो बन्धनम् इत्य् उक्त्वा मोहो बन्धनम् इति. कामरागानुशय इत्यादि उक्त्वा अविद्यानुशय इति. ओघेष्व् अविद्यौघ इति. योगेष्व् अविद्यायोग इति पृथङ् नैवोच्येत. कस्मात्. परस्परासंप्रयोगात्. न हि दृष्टिर् दृष्ट्या संप्रयुज्यते. रागो वा रागेण. दृष्ट्यादिसंप्रयुक्ता चाविद्योक्ता. क्लेशमहाभूमिकत्वेन महाभूमिकसंप्रयोगनियमात्. चित्तम् अपि चाविद्योपक्लिष्टम् एवोक्तं भवेत्. [तिब्. 292अ] रागोपक्लिष्टं चित्तं न विमुच्यत इति नोक्तं भवेत्. अविद्योपक्लिष्टत्ववचनेनैव रागाद्युपक्लिष्टत्वसिद्धेः. अथ मतं विशेषणार्थं तथोक्तम् इति. रागलक्षणयाविद्ययोपक्लिष्टचित्तं न विमुच्यत इति. प्रज्ञायाम् अपि विशेषणं कर्तव्यं स्यात्. रागेण प्रतिघेन मानेन वेति मा भूत् सर्वक्लेशग्रहणप्रसंग इति. इष्ट इति चेत्. चित्ते ऽपि न विशेषणं कर्तव्यं स्यात्. अविद्योपक्लिष्टं चित्तं न विमुच्यत इत्य् एवम् एव तु वक्तव्यं स्यात्.

संप्रख्यानं प्रज्ञा ज्ञानम् इत्य् एको ऽर्थः. तथैव दोशो यथाविद्यायाम् इति. अथासंप्रख्यानम् इति को ऽर्थः. यन् व संप्रख्यानं. चक्षुरादिष्व् अपि प्रसंगः. संप्रख्यानाभावस् तर्हि. एवं सति न किं चित् स्यात्. न चैतद् युक्तम् इति. अथ संप्रख्यानविपक्षभूतं धर्मान्तरं. तद् इदं तथैव न ज्ञायते. यथैवाविद्या. किं तद् इति. एवंजातीयको ऽपीति विस्तरः. एवंजातीयकः कर्मप्रभावित इत्य् अर्थः. तस्माद् अविद्यायाः कर्मणः कारित्रेण स्वभावो विज्ञातव्यः. अस्त्य् असौ कश्चिद् धर्म यो विद्याविपक्ष इति विद्याविपक्षत्वं तस्याः कर्मेति. [तिब्. 292ब्] तद्यथा चक्षुः कतमत्. यो रूपप्रसादश् चक्षुर्विज्ञानस्याश्रय इति. ननु च रूपप्रसाद इति स्वभावप्रभावितो ऽस्य निर्देश इति. न. अप्रत्यक्षत्वात्. नित्यं चक्षुर्विज्ञानानुमेयत्वाच् च. अस्मीति सत्त्वमयतेति. अविज्ञातार्थम् एतत्. न तेन स्थविरेणास्याभिधेयम् अवधारितं. मयता पुनः सौत्रांतिकैर् अविद्या प्रकारभिन्ना वर्ण्यते. मानो वा. यासौ सूत्र उक्तेति विस्तरः. मयतानाम् इत्य् अविद्यानां प्रकारभिन्नानां (अभिध्-क्-व्य् 303) नामेति ग्रहणं. तृष्णादीनां पृथगुपदेशाद् इति भदन्तधर्मत्रातस्याभिप्रायः. आचार्य आह. अस्त्य् एषा मयता. अस्ति सूत्रे उक्ता मयता. तत्र जातिनिर्देशाद् एकवचनं. सा त्व् अविद्येति. कुतः कारणाद् एतत् परिच्छिद्यते. साविद्येति. भदन्तधर्मत्रातः स्वाभिप्रायं विवृणोति. यत एषा नान्यः क्लेशः शक्यते वक्तुम् इति. कस्मान् न शक्यते. तृष्णादृष्ट्यस्मिमानानां पृथगुक्तेः. आचार्य आह. ननु चान्यो मान एव स्याद् इति. अस्मिमानाद् अन्यः षण्णाम् अन्यतमः स च मयता. नविद्येत्य् अभिप्रायः. अत्र तु पुनर् विचार्यमाणे बहु वक्तव्यं जायत इति. अत्र पुनर् विचार्यमाणे ऽविद्यांगे [तिब्. 293अ] बहुर् अयं ग्रन्थो जायते. यथोक्तम् इति. तस्मात् तिष्ठत्व् एतद् एतावद् एवास्त्व् इति. अथ वान्यो माण एव स्यात्. न पुनर् अविद्येति. कुत एतद् इत्य् एवमादिके पुनर् विचारे क्रियमाणे. उत्तरप्रत्युत्तरवचनेन बहु वक्तव्यं जायते. तस्मात् तिष्ठत्व् एतद् अलं विचारान्तरेणेत्य् अर्थः.

(iii.30अ) अथ नामरूपम् इति. अविद्यांगनिर्देशानन्तरं संस्कारांगं निर्देष्टव्यं. तदनु विज्ञानांगं. किम् इत्य् एतद् अतिक्रम्योपन्यस्ते. एतद् अर्थम् अत्र वक्ष्यत्य् आचार्यः.

उक्तं च वक्ष्यते चान्यद्

इति. रूपं विस्तरेणोक्तम् इति.

रूपं पंचेन्द्रियाण्य् अर्थाः पंचविज्ञप्तिर् एव चेत्य्

अत्र. नामेन्द्रियार्थवशेनेति विस्तरः. नामवशेन इन्द्रियवशेन अर्थवशेन चार्थेषु रूपादिषु नमतीति नाम. कतमस्य नाम्नो वशेनेति. नामद्वैविध्यात् पृच्छति. आचार्यस् त्व् आचष्टे. यद् इदं लोके प्रतीतिम् इति विस्तरः. गौर् अश्व इति. समुदायप्रत्यायकम्. रूपं रस इति. एकार्थप्रत्यायकं. तद् एतद् वेदनादिस्कंधचतुष्कं नामशब्देनोच्यते. यस्मात् तन्नामवशेन संज्ञाकरणवशेनार्थेष्व् अप्रत्यक्षेष्व् अपि वा नमति प्रवर्तते. अस्य नाम्नो ऽयम् अर्थ इति. इन्द्रियार्थवशेन तु प्रत्यक्षेषु रुपादिषु नमति उत्पद्यते इत्य् अर्थः. [तिब्. 293ब्] नाम्नि चाप्य् अर्थवशेन नमति. अस्यार्थस्येदं नामेति. एतस्य पुनः केन नामत्वम् इति. एतस्य संज्ञाकरणलक्षणस्य नाम्नः केन कारणेन नामत्वं. तेषु तेष्व् अर्थेषु तस्य नाम्नो नमनाद् इति. यस्मात् तेष्व् अर्थेषु चतुःस्कन्धलक्षणं नाम तन् नाम नमयति प्रवर्तयति. तस्माद् एतस्य नामत्वं. नमयतीति नामेति कृत्वा. इह निक्षिप्त इति विस्तरः. मरणकाले निक्षिप्ते काये उपपत्त्यन्तरे नमनाद् गमनाद् अरूपिणो वेदनादयः स्कन्धा नामेत्य् उच्यन्ते. यथोक्तं. मृतस्य खलु कालं गतस्य ज्ञातय इमं पूतिकायम् अग्निना वा दहंति उदके वा प्लावयन्ति भूमौ वा निखनन्ति वातातपाभ्यां वा परिशोषं परिक्षयं पर्यादानां गच्छति. यत् पुनर् इदम् उच्यते. चित्तम् इति (अभिध्-क्-व्य् 304) वा मन इति वा विज्ञानम् इति वा श्रद्धापरिभावितं शीलत्यागश्रुतप्रज्ञापरिभावितं. तद् ऊर्ध्वगामि भवति विशेषगाम्य् आयत्यां स्वर्गोपगम् इति.

(iii.30ब्) षडायतनम् उक्तम् इति.

तद्विज्ञानाश्रया रूपप्रसादाश् चक्षुरादयः. विज्ञानं प्रतिविज्ञप्तिर् मनआयतनं च तद्

इत्य् अत्र. मनैन्द्रियस्य पुनर् निरुद्धस्य अनागतेन धर्मेण रूपादिना उत्पत्स्यमानेन वर्तमानेन मनोविज्ञानेन कथं संनिपातः. यः कार्यकारणभावः. कार्यं मनोविज्ञानं. कारणं मनैन्द्रियं. धर्मश् च रूपादिः. [तिब्. 294अ] एककार्यार्थो वेति. एककार्यम् एवार्थ एककार्यार्थः. एककार्यत्वम् इत्य् अर्थः. कथम् एककार्यार्थ इत्य् आह. सर्वे च ते त्रयो ऽपि मनैन्द्रियादयः स्पर्शोत्पत्तौ प्रगुणा अनुकूला भवन्तीति.

षट्षट्को धर्मपर्याय इति. षट्षट्कान्य् अस्मिन्न् इति षट्षत्कः. आध्यात्मिकबाह्यविज्ञानस्पर्शवेदनातृष्णाषट्कसंभवात्. षट् स्पर्शकाया इति ज्ञापकं. अनन्यत्वे हि सतीन्द्रियार्थविज्ञानेषूक्तेषु स्पर्शकायवचनं पुनर् उक्तं स्यात्. ततश् च षट्षट्कत्वं हीयते. मा भूद् धर्मायतनाद् वेदनातृष्णयोः. पृथग्भाव इति. यदि पृथङ्निर्देशात् पृथग्भावो भवेत्. वेदनातृष्णे अपि धर्मायतनात् पृथङ् निर्दिष्टे. तयोर् अपि वेदनातृष्णयोर् धर्मायतनात् पृथग्भावः स्यात्. न च तयोः पृथग्भाव इष्यते. धर्मायतनान्तर्भावात्. नैष दोष इति विस्तरः. नैष दोष इति यथोक्तस् तद्व्यतिरिक्तस्यापि वेदनातृष्णाव्यतिरिक्तस्यापि धर्मायतनस्य संज्ञादिस्वभावस्य भावाद् अस्तित्वात्. न चैवम् इति विस्तरः. न चैवं भवतस् त्रयानां संनिपातः स्पर्श इत्य् एवं ब्रुवाणस्य [तिब्. 294ब्] स्पर्शभूताद् इन्द्रियार्थविज्ञानत्रयाद् अन्यद् अस्पर्शभूतं त्रयम् इन्द्रियार्थविज्ञानत्रयम् अस्ति. यस्य शेषस्यात्र सूत्रे ग्रहणं स्यात्. षट् स्पर्शकाया इति प्रयोजनवशाद् अपृथग्भावे ऽपि स्पर्शभूतात् त्रयात्. तस्माद् अपृथग्भावे ऽपि वेदनातृष्णयोः पृथङ्निर्देशो युक्तो विनेयकार्यवशात्. न तु भवतः संनिपातमात्रस्पर्शवादिनः केनचिद् अपि प्रयोजनेन षट् स्पर्शकाया इति पृथङ्निर्देशो युक्तः. यस्मात् षट् स्पर्शकाया इति वचनेनेन्द्रियार्थविज्ञानत्रयम् उक्तम् इति तदवचनं प्राप्तम् इत्य् अतः षट्षट्को धर्मपर्याया इति न सिध्येत्. मम तु सिध्यति. स्पर्शवेदनातृष्णाषट्कवचने ऽपि तद्व्यतिरिक्तधर्मायतनाद्यर्थेन्द्रियविज्ञानषट्कसंभवात्. तस्मात् षट् स्पर्शकाया इति पृथङ्निर्देशाद् अस्ति चित्तसंप्रयुक्तं स्पर्शाख्यं धर्मान्तरम् इति

सिद्धं. अथ ब्रूयाद् असौ. इन्द्रियार्थाव् अविज्ञानकौ निर्दिष्टाव् अस्मिन् सूत्रे. षड् आध्यात्मिकानि षट् बाह्यानीति वचनात्. अत इन्द्रियविषयविज्ञनत्रयं स्पर्शभूतम् इत्य् अस्य शेषस्य ज्ञापनार्थम् अत्र ग्रहणं स्यात्. षट् (अभिध्-क्-व्य् 305) स्पर्शकाया इति. अस्य समाधेः प्रतिषेधार्थम् इदम् आरभ्यते. यद्य् अपीन्द्रियार्थौ स्याताम् अविज्ञानकौ. तत्सभागाव् इत्य् अर्थः. न तु पुनर् विज्ञानम् अनिन्द्रियार्थकं. अवश्यं हि विज्ञानं सेन्द्रियार्थकं भवति. तच् च विज्ञानम् अपदिष्टम् अत्र षड् विज्ञानकाया इति. [तिब्. 295अ] तस्मात् त्रिषु निर्दिष्टेषु इन्द्रियार्थविज्ञानेषु षड्विज्ञानकायवचनेन पुनः स्पर्शग्रहणम् अनर्थकं प्राप्नोति. षट् स्पर्शकाया इति. अतः संनिपाताद् अन्यः स्पर्श इति सिद्धं. अत्र भदन्तश्रीलात आह. न खल्व् इति विस्तरः. पूर्वोत्पन्ने चक्षूरूपे कारणं. न तु विज्ञानसहोत्पन्ने. नापि सर्वचक्षुर्विज्ञानम् इति. पश्चाद् उत्पन्नं पूर्वयोश् चक्षूरूपयोः. न सहोत्पन्नयोः. अतो येषां कार्यकारणभावः. ते विज्ञानेन्द्रियविषयाः स्पर्शभावेन व्यवस्थिताः. षट् स्पर्शकाया इत्य् अस्मिन् सूत्रे. तद् इदम् अन्यथा न ज्ञापितं स्यात्.

न वा एवं पथन्ति. वै इति निपातः. न वै एवं पठन्तीत्य् अर्थः. कथं पुनः पठन्ति. य एषां धर्माणां संगतेः संनिपातात् समवायाद् उत्पन्नः. स स्पर्श इति पठन्ति. कारणे वा कार्योपचारो ऽयम् इति. संगतौ संनिपाते समवाये कारणे कार्योपचारः स्पर्श इति. यथा

सुखो बुद्धानाम् उत्पाद

इति. अतिबहुविस्तएण प्रकारेण विसर्तुं शीलम् अस्या इति अतिबहुविस्तरप्रकारविसारिणी.

(iii.30च्द्) अधिवचनम् उच्यते नामेति. अध्युच्यते ऽनेनेत्य् अधिवचनं. वाङ् नाम्नि प्रवर्तते. नामार्थं [तिब्. 295ब्] द्योतयतीत्य् अधिवचनं नाम. तद् किल नामस्य मनोविज्ञनसंप्रयुक्तस्याधिकं बाहुल्येनालम्बनम्. अतो ऽधिवचनसंस्पर्श इति. स्पर्शः संस्पर्श इत्य् एको ऽर्थः. मनोविज्ञानेन नीलं विजानातीति. अभिधेयं विजानातीत्य् अर्थः. नीलम् इति च विजानातीति. अस्यार्थस्येदं नामेति विजानाति. एक आश्रयप्रभावित इति. प्रथम आश्रयेण प्रभावितः प्रतिघाश्रयः संस्पर्शः प्रतिघस्य वा संस्पर्शः प्रतिघसंस्पर्शः. आलंबनप्रभावित इति. अधिवचनाद् आलम्बनसंस्पर्शः अधिवचने वा संस्पर्शः अधिवचनसंस्पर्श इति.

वचनम् अधिकृत्य वचनम् अवधार्यार्थेषु रूपादिषु मनोविज्ञानस्य प्रवृत्तिः. न पंचानां चक्षुर्विज्ञानादीनां वचनम् अधिकृत्यार्थेषु प्रवृत्तिः. अतस् तद् एवाधिवचनं मनोविज्ञानं वचने प्रवर्तते ऽधिवचनम् इति. तेन संप्रयुक्तस् तस्य वा संस्पर्शस्याधिवचनसंस्पर्शः. तेन चायं द्वितीयः संस्पर्शः संप्रयोगप्रभावित इत्य् उच्यते.

(iii.31) विद्याविद्येतरस्पर्शा

इति. विद्याविद्येतरश् च विद्याविद्येतरे. ते एव स्पर्शा

विद्याविद्येतरस्पर्शाः.

विद्याह्वः अविद्याह्वः ताभ्याम् इतरश् चेत्य् अर्थः. विद्येत्य् अनास्रवा प्रज्ञा. अविद्या क्लिष्टम् अज्ञानम्. नैवविद्यानाविद्या या कुशलसास्रवा या चानिवृताव्याकृता प्रज्ञा. [तिब्. 296अ] तत्संप्रयुक्ता एते यथाक्रमं संस्पर्शा वेदितव्याः. पुनर् अविद्यासंस्पर्शस्येति. विस्तरः. अविद्यासंस्पर्शस्य सर्वक्लेशसंप्रयुक्तस्याभीक्ष्णसमुदाचारी नित्यसमुदाचारी एकदेशः. तस्य ग्रहणाद् द्वौ स्पर्शौ भवतो

व्यापादानुनयस्पर्शौ. सुखवेद्यादयस् त्रय

इति. सुखस्य वेदः सुखवेदः. सुखवेदे साधुः सुखवेद्यः. सुखं या वेद्यम् अस्मिन्न् इति सुखवेद्यः. स आदिर् एषाम् इति सुखवेद्यादयः. सुखवेदनादिहितत्वाद् इति. सुखवेदनायै हितः सुखवेदनीयः. प्राक् क्रीताच् छः. वेद्यते तद् वेदयितुं वा शक्यम् इति. वेद्यत इति कर्ममात्रे कृत्य इति दर्शयति. वेदयितुं शक्यम् इत्य् अर्हे कृत्यतृचश् चेत्य् अस्मिन्न् अर्थे कृत्य इति दर्शयति. त एते षोडशेति. चक्षुःसंस्पर्शो यावन् मनःसंस्पर्श इति षट्. पुनः प्रतिघसंस्पर्शो ऽधिवचनसंस्पर्शो विद्यासंस्पर्शो ऽविद्यासंस्पर्शो नैवविद्यानाविद्यासंस्पर्शो व्यापादसंस्पर्शो ऽनुनयसंस्पर्शः सुखवेदनीयो दुःखवेदनीयो ऽदुःखासुखवेदनीयश् च स्पर्श इति षोडश.

(iii.32अब्) उक्तः स्पर्शो वेदना वक्तव्येति.

ननु च वेदनाप्य् उक्ता

वेदनानुभव

इति. अथोक्तम् अप्य् उच्यते. न तर्हीदं वक्तव्यं. यच् चोक्तं यच् च वक्ष्यमाणं. तन् न वक्ष्यामीति.

उक्तं च वक्ष्यते चान्यद्

[तिब्. 296ब्] इति वाचनात्. प्रकारनिर्देशाद् अदोषः. पूर्वं लक्सणम् उक्तम् इदानीं प्रकार इति.

जाते हीति विस्तरः. जाते हि जन्ये धर्मे धर्मस्य जनकस्य नास्ति सामर्थ्यम् सहोत्पन्नत्वात्. प्रतिज्ञाविशिष्टम् इति. प्रतिज्ञाया अविशिष्टम् एतत् साधनम् इत्य् अर्थः. यदि प्रतिज्ञाविशिष्टं साधनं नेष्यते. अन्योन्यजनकप्रसंगात् (अभिध्-क्-व्य् 307) तर्हि. किं. कथं सहोत्पन्नयोर् जन्यजनकभावः सिध्यतीत्य् अधिकृतम्. अनेन प्रतिज्ञादोष उद्ग्राह्यते. अस्ति सहोत्पन्नयोर् जन्यजनकभाव इति प्रतिज्ञा पूर्वाभ्युपगमविरोधिनीति. इष्टत्वाद् अदोष इति. पुर्वाभ्युपगमं दर्शयति. इष्तम् इदं. सूत्रे त्व् अनिष्टम् इति. इष्टम् इदम् अभिधर्मे

सहभूर् ये मिथःफला

इति. सूत्रे त्व् अनिष्टं. तत् प्रतिपादयन्न् आह. चक्षुःसंस्पर्शं प्रतीत्योत्पद्यते चक्षुःसंस्पर्शजा वेदनेति. सूत्रप्रामाण्येनान्योन्यफलत्वं भंक्त्वा सहोत्पन्नकार्यकारणभावबिभंक्षया आह. जनकधर्मातिक्रमाच् चायुक्तम् इति. जनकस्यायं धर्मः प्रसिद्धो या भिन्नकालता. तद्यथा पूर्वं बीजं पश्चाद् अंकुर इत्यादि. तत्रापि [तिब्. 297अ] पूर्वम् इन्द्रियार्थौ पश्चाद् विज्ञानम् इति. प्रथमक्षणोत्पन्नाव् इन्द्रियार्थौ विज्ञानं तु द्वितीये क्षण इति. यथा तर्हि छायांकुरयोर् इति. किं. सहोत्पन्नयोर् जन्यजनकभावः. उत्पन्न एव ह्य् अंकुरश् छायां जनयति. न प्रथमे क्षणे ऽंकुरो निश्छायो भवति द्वितीये सच्छाय इति. एवं स्पर्शवेदनयोर् अपीति. अनयोर् अपि छायांउकुरयोः पूर्वसामग्री हेतुर् इति शक्यं वक्तुं. सहभूहेतुनिर्देशे त्व् अयम् अर्थ उक्त इति न पुनर् उच्यते.

स्पर्शाद् उत्तरकालं वेदनेत्य् अपर इति भदन्तश्रीलातः. सो ऽसौ त्रयाणां संनिपातः स्पर्श इति. यो ऽयं जनकजनितभावः. वेदना तृतीये क्षणे इति. इन्द्रियार्थक्षणः प्रथमः विज्ञानोत्पत्तिक्षणो द्वितीयो वेदनोत्पत्तिक्षणस् तृतीय इति. न सर्वत्र विज्ञाने वेदना प्राप्नोतीति. विज्ञानक्षणे द्वितीये वेदनाया अभावात्. न च सर्वविज्ञानं स्पर्शः. वेदनाक्षणे तृतीये विज्ञानं न स्पर्शः. पूर्वद्वितीयक्षणयोः स्पर्श एव विधीयते. पूर्वस्पर्शहेतुका ह्य् उत्तरस्पर्शे वेदना. यो ऽयम् इदानीं द्वितीयः क्षणः स्पर्शभावेनोक्तः. तत्र पूर्वस्पर्शहेतुका प्रथमक्षणविज्ञानहेतुका [तिब्. 297ब्] वेदनोत्पद्यते. तत्स्पर्शपूर्विकाप्य् अन्यस्मिन्न् इत्य् एवं सर्वत्र विज्ञाने वेदना प्राप्नोति. सर्वं च विज्ञानं स्पर्श इति. ते च स्पर्शाः सवेदनका इति भिन्नालम्बनयोर् इति विस्तरः. भिन्नम् आलम्बनम् अनयोः. तौ भिन्नालम्बनौ. पूर्वस्य रूपम् आलम्बनम् उत्तरस्य शब्दः तयोर् भिन्नालम्बनयोः पूर्वस्पर्शहेतुका रूपालम्बनस्पर्शहेतुका उत्तरत्र स्पर्शे शब्दालम्बने यद् वेदनोत्पद्यते. इत्य् एतद् अयुक्तं. कथं हि नामेति दोषम् आविष्करोति. अन्यजातीयालम्बनस्पर्शसंभूता रूपप्रकारालम्बनात् स्पर्शात् संभूता वेदना अन्यालम्बना भविष्यति. शब्दालंबना भविष्यति. विधुरकारणत्वात् कार्यस्यासंभावना. यदा हि रूपालम्बनात् स्पर्शात् संभूता वेदना रूपालम्बनैव वेदना भविष्यति. तदा पूर्वस्पर्शहेतुकोत्तरत्र स्पर्शे वेदनेति युक्तं. यदा तु रूपालम्बनात् (अभिध्-क्-व्य् 308) स्पर्शाच् छब्दालम्बना वेदनोत्पद्यते. तदा कथम् एतद् योक्ष्यते. कारणानुरूपं हि लोके कार्यं दृश्यते. अथ मतं रूपालम्बनात् स्पर्शात् संभूता

वेदना शब्दालम्बनस्पर्शसंप्रयुक्तापि रूपालम्बना भवतीति. अत इदम् आह. येन वा चित्तेन संप्रयुक्ता. ततो भिन्नालम्बनेति. ततः शब्दालम्बनाच् चित्ताद् भिन्नालम्बना. [तिब्. 298अ] यत उत्पन्ना रूपालम्बना. तेन समालम्बनेत्य् अर्थः. कथं चासौ तेन संप्रयुक्तेत्य् उच्यते. समं प्रयुक्ता हि संप्रयुक्ता. यद्य् अभिन्नाश्रयत्वात् कथं श्रोत्राश्रयोत्पन्ना सती रूपालम्बना भविष्यति. कथं न भविष्यति. चित्तचैत्तानाम् आश्रयेणैकविषयप्रवृत्तत्वात्. तस्माद् अन्यतरालम्बनत्वे ऽपि वेदनाया दोषः. स दोषः प्रदर्श्यते. यदि तावद् रूपालम्बनात् स्पर्शाद् उत्पन्ना वेदना शब्दाद्यालम्बनान्तरम् आलम्बते. स रूपालम्बनः स्पर्शः सुखवेदनीयो यावद् अदुःखासुखवेदनीय इति न प्राप्नोति. एकालम्बनया तु वेदनया तथा निर्देशो युक्त इति. अस्तु तर्हीति विस्तरः. यद्य् एवं दोषो ऽस्तु तर्हि. तस्मिं काले. कस्मिं काले. शब्दालंबनकाले. स्पर्शभूतं विज्ञानम् अवेदनकं. तस्माच् च शब्दालम्बनाद् यत् पूर्वं विज्ञानं सवेदनकं तन् न स्पर्शः. एवं हि निर्दोषं भवतीति. अन्यथा हि यदि पूर्वोत्पन्नं सवेदनकं विज्ञानं स्पर्शः स्यात्. तदैवं स्पर्शप्रत्यया वेदनेति यथोक्तो दोषः स्यात्. पुनः कारणं. किंचिद् विज्ञानम् अवेदनकं. किंचिच् च न स्पर्शः प्रत्ययवैधुर्यात्. विधुरा हि प्रत्यता विप्रतिभन्धेनावस्थिताः. न हि सर्वः समनन्तरप्रत्ययो वेदनाप्रत्ययं स्पर्शभूतं विज्ञानं [तिब्. 298ब्] जनयितुं समर्थ इति. तद् एवं तस्य भिन्नालम्बनं विज्ञानम् एकान्तेनावेदनकं. तदुत्पादकं चास्पर्शभूतं. यदि तु रूपालम्बनाच् चक्षुर्विज्ञानाद् अनन्तरं रूपालम्बनम् एव चक्षुर्विज्ञानम् उत्पद्यते.

मनोविज्ञानं वा. तत् सवेदनकं पूर्वोत्पन्नं स्पर्श इति. एवं सतीति. महाभूमिकनियमो भिद्यत इति. स्पर्शवेदनयोः पर्यायेण नियमात्. तिस्रा भूमय इति. सवितर्का सविचारा कामधातुः प्रथमं च ध्यानम्. अवितर्का विचारमात्रा ध्यानान्तरम्. अवितर्का अविचारा द्वितीयाद् ध्यानात् प्रभृति यावद् भवाग्रं. कुशला भूमिः कुशला धर्माः. एवम् अकुशला अव्याकृताः. शैक्षी भूमिः शैक्षस्यानास्रवा धर्माः. अशैक्षी अशैक्षस्यानास्रवा धर्माः. नैव शैक्षीनाशैक्षी भूमिः सास्रवा धर्माः. असंस्कृता इह नोच्यन्ते. चैत्तसम्बन्धात्. तद् य एतस्याम् इति विस्तरः. तद् इति वाक्योपन्यासे. य इति ये चैतसिकाः. एतस्यां सर्वस्यां भूमाव् इति. सवितर्कसविचारायां भूमौ. यावन् नैवशैक्षीनाशैक्ष्यां भूमौ. ते महाभूमिकाः वेदनाचेतनादयो यथोक्ताः. (अभिध्-क्-व्य् 309) ये कुशलायाम् एव भूमौ. [तिब्. 299अ] ते कुशलमहाभूमिकाः श्रद्धादयः. ये क्लिष्तायाम् एव. ते क्लेशमहाभूमिकाः. अविद्यादयो यथोक्ता एव. ते पुनर् यथासंभवम् इति विस्तरः. ते पुनर् महाभूमिकादयः. ये यस्यां संभवन्ति. ते तस्यां पर्यायेण. न तु सर्वे युगपत्. इत्य् अपरे. तद्यथा वेदना सर्वासु भूमिषु भवत्य् अपि न युगपत् संज्ञाचेतनास्पर्शमनस्कारादिभिर् भवति. तथा स्पर्शो वेदनादिभिः. तथा कुशलायां वितर्कादय इत्येवमादिकं. अपरे पुनर् एवं व्याचक्षते. यथा पंचस्कंधके लिखितं. तथेदं ग्रहीतव्यम् इति. तद्यथा छन्दः कतमः. अभिप्रेतवस्तुन्य् अभिलाषः. अनभिप्रेते नास्ति छन्द इत्य् अभिप्रायः. अधिमोक्षः कतमः. निश्चिते वस्तुनि तथैवावधारणं. स्मृतिः कतमा. संस्तुते वस्तुन्य् असंप्रमोषः. चेतसो

ऽभिलपनता. समाधिः कतमः. उपपरीक्ष्ये वस्तुनि चित्तस्यैकाग्रता. प्रज्ञा कतमा. तत्रैव प्रविचयो योगायोगविहितो ऽन्यथा चेत्य् एवमादिः पंचस्कंधकग्रन्थो द्रष्टव्यः. तत्र ह्य् उक्तं पंच सर्वत्रगाः. वेदनासंज्ञास्पर्शमनस्कारचेतनाः. पंच प्रतिनियतविषयाः. छन्दाधिमोक्षस्मृतिसमाधिप्रज्ञा [तिब्. 299ब्] इत्य् एवमादि. अकुशलमहाभूमिकास् तु पाठप्रसंगेनासंहिता इति. सूत्रादिषु पाठात्. कुशलम् अकुशलम् अव्याकृतम् इत्य् एवं पाठप्रसंगेनासंहिताः. अध्यारोपिताः पश्चाद् इत्य् अर्थः. पूर्वं न पठ्यंते स्म. प्रकरणपादे महाभूमिकाः कुशलमहाभूमिकाः क्लेशमहाभूमिकाः परीत्तक्लेशमहाभूमिकाश् चेति चतुर्विधा पठ्यन्ते. सहजाता इत्य् उच्यन्ते. न स्पर्शसहजाता इति. अविशेषितत्वाद् एते वेदनादयः परस्परसहजाताः. न तु स्पर्शेनेत्य् अर्थपरिग्रहेण परिहर्तव्यं सूत्रम् इत्य् अर्थः. मैत्रीसहगतम् इति. अयं सहशब्दो नावश्यं युगपद्भावे समनंतरे ऽपि दृष्टः. न हि मैत्र्याः स्मृतिसंबोध्यंगस्य च समवधानम् अस्ति. नैत्र्या एकान्तसास्रवत्वात्. स्मृतिसंबोध्यंगस्य चैकान्तानास्रवत्वात्. तस्माद् अज्ञापकम् एतत्. संदृष्टा इति. सहोत्पन्ना इत्य् अभिप्रायः. तत्र हि सूत्र इति. यत्रैवोक्तं. या वेदना या चेतना या च संज्ञेति विस्तरेण. तत्र सूत्र इत्य् अर्थः. तन् न विज्ञायत इति विस्तरः. किं तावद् अयम् एषां वेदनादीनां आलम्बननियमः आलम्बने नियमः. यद् एवालम्बनं वेदयते. तद् एव चेतयते यावद् विज्ञानं विजानातीति. [तिब्. 300अ] उताहो क्षणनियमः यस्मिन्न् एव क्षणे वेदयते. तस्मिन्न् एव यावद् विजानातीति. वयं ब्रूमः. आलम्बननियमो ऽयम् इति. तस्मान् न सूत्रविरोध इत्य्

अभिप्रायः. आचार्य आह. तत्रैव सूत्रे आयुरुष्मणोः साहभाव्ये संसृष्टवचनात् सिद्धः क्षणनियम इति. आयुर् उष्मा च संसृष्टौ. इमौ धर्मौ न विसंसृष्टाव् इति. आयुरुष्मणोः (अभिध्-क्-व्य् 310) सहोत्पन्नतोक्ता भवति. तयोर् अनालम्बनत्वात्. तद् एवं साधितं भवति. अवश्यं सहोत्पन्नानि वेदनासंज्ञाचेतनाविज्ञानानि. तत्र सूत्रे संसृष्टवचनेनोक्तत्वात्. आयुरुष्मवद् इति. तद् कथम् इति विस्तरः. तत् कथं विज्ञानं चास्ति. न च त्रयाणाम् इन्द्रियविषयविज्ञानानां संनिपातः. तस्माद् अवश्यं विज्ञानास्तित्वे संनिपातो ऽभ्युपगन्तव्यः. संनिपातश् च ते स्पर्श इति. तेनेदं ते विरुध्यते. न सर्वविज्ञानं स्पर्श इति. संनिपातो वा न स्पर्श इति. पुनःसंधिकरणं चात्र द्रष्टव्यम् इति. पूर्वत्रासिद्धम् इति सकारलोपस्यासिद्धत्वाद् गुणो न प्राप्नोति. परिहारस् तु. ईषदर्थे ऽयं नञ् द्रष्टव्यः. ईषत्सिद्धम् असिद्धम् इत्य् अतः सिद्धत्वात् सकारलोपस्य गुणो भवति. सैष दाशरथी राम इति यथा.

(iii.32च्द्) षट् सौमनस्योपविचारा इति विस्तरः. चक्षुषा रूपाणि दृष्ट्वा सौननस्यस्थानीयानि रूपाणि उपविचरति. श्रोत्रेण शब्दान् श्रुत्वा सौम्ननस्यस्थानीयां शब्दान् उपविचरति. एवं यावन् मनसा धर्मान् विज्ञाय सौमनस्यस्थानीयान् [तिब्. 300ब्] धर्मान् उपविचरति. एवं चक्षुषा रूपाणि दृष्ट्वा दौर्मनस्यस्थानीयान्य् उपेक्षास्थानीयानि चेति विस्तरेण योज्यं. त्रयो भविष्यन्तीति. सौमनस्यदौर्मनस्योपेक्षास्वभावत्रैविध्यात्. एक इति. मनोविज्ञानमात्रसंप्रयोगात्. षड् इति. रूपादिविशयषट्कभेदात्. त्रिभिर् अपि स्थापनेति. यद् वेदनाद्रव्यं मनोविज्ञानमात्रसंप्रयुक्तम् एकं. तत् सौमनस्यादिस्वभावत्रयभेदात् त्रिधा भिद्यते. तत् पुनः प्रत्येकं विषयषट्कभेदात् षोढा भिद्यते. इत्य् अष्टादश भवंति. स्वभावव्यवस्थापनायाम् असत्यां सौमनस्यदौर्मनस्योपेक्षोपविचारा न स्यात्. संप्रयोगव्यवस्थापनायाम् असत्यां मनोपविचारा इत्य् एव न स्यात्. अष्टादशव्यतिरिक्ताश् च स्युः. रूपादिविषयषट्कालम्बनव्यवस्थापनायाम् असत्यां प्रत्येकं सौमनस्यादिषोधाभेदेनाष्टादश मनोपविचारा इति न स्यात्. तस्मात् त्रिभिर् अपि व्यवस्थापनेति सिद्धं. असंभिन्नालम्बना इति. असंमिश्रालम्बनाः. त्रयो धर्मोपविचारा उभयथेति. ये रूपादिविषयपंचकव्यतिरिक्तधर्मालम्बनाः. ते धर्मोपविचारा असंभिन्नालम्बनाः. ये तु रूपादीनां षण्णां विषयाणां द्वौ तृईन् [तिब्. 301अ] यावत् षड् अपि विषयान् आलम्बन्ते. ते संभिन्नालम्बनाः.

मनः किलेति. किलशब्दः परमतद्योतकः. मनः किल प्रतीत्याश्रित्य विषयान् उपविचरन्त्य् आलम्बन्त इत्य् अर्थः. उपविचारयन्तीति प्रवर्तयन्ति. कथम् इत्य् आह. वेदनावशेन मनसो विषयेषु पुनःपुनर् विचारणाद् इति पुनःपुनर् इत्य् उपशब्दस्यार्थः.

नाप्य् उपविचारिकेति. असन्तीरिकेत्य् अर्थः. अयोग इत्य् असंभवः. यदि मन एवाश्रिता वेदना मनोपविचारः. तृईये ध्याने यत् सुखं. तन् मन एवाश्रितं. (अभिध्-क्-व्य् 311) न चक्षुरिन्द्रियाद्याश्रितम् इति. तस्य कस्मान् मनोपविचारेष्व् अग्रहणं. आदितः किलेति विष्तरः. आदाव् आदितः. किलेति परमते. कामधातौ मनोभूमिकं सुक्ःअं नास्ति. तस्मान् न तन् मनोपविचारः. अतः पश्चाद् अपि तृतीये ध्याने सुखेन्द्रियस्य मनआश्रितत्वे ऽपि मनोपविचारेष्व् अग्रहणं. यथा सौमनस्योपविचारस्य प्रतिद्वंद्वेन दौर्मनस्योपविचारः. नैवं. सुखोपविचारस्य प्रतिद्वंद्वेन दुःखोपविचारो ऽस्ति. मनोविज्ञाननाश्रितत्वाद् दुःखस्य. अतः सर्वत्र तत् सुखं न मनोपविचार इति.

सौमनस्यस्थानीयानीति. सौमनस्यजनकानि. पंचेति विस्तरः. [तिब्. 301ब्] पंचभिर् विज्ञानकायैर् अभिनिर्हृतत्वम् उत्पादितत्वम् अभिसंधाय चेतसिकृत्वा एतद् उक्तं चक्षुषा रूपाणीति विस्तरेण. मनोभूमिकास् त्व् एते. तद्यथा अशुभा. चक्षुर्विज्ञानाभिनिर्हृता च पूर्वं विनीलकादिदर्शनात्. मनोभूमिका च समाहितत्वात्. अपि त्व् इति. चक्षुषा रूपाणि दृष्ट्वा यावत् कायेन स्प्रष्टव्यानि स्पृष्ट्वेति वचनाद् अचोद्यम् एतत्. यदि चक्षुषा रूपाणि पश्यन् सौमनस्यस्थानीयानि रूपाण्य् उपविचरतीत्य् उक्तं स्यात्. यावत् कायेन स्प्रष्टव्यानि स्पृशन्न् इति. स्याच् चोद्यं. न त्व् एवम् उक्तम् इत्य् अचोद्यम् एवैतत्. यो ऽप्य् अदृष्ट्वेति विस्तरः. यो ऽपि श्रुत्वा परतो मनसोपविचरत्य् आलम्बते. ते ऽपि तस्य मनोपविचाराः. इतरथा हीति विस्तरः. रूपधात्वालम्बना रूपाद्युपविचारा न स्युः. कामधातूपपन्नेन रूपावचराणां रूपादीनाम् अप्रत्यक्षीकृतत्वात्. कामधात्वालम्बनाश् च गन्धरसस्प्रष्टव्योपविचारा रूपधातूपन्नस्य न स्युः. तस्य गंधादीनाम् अविषयत्वात्. यथा तु व्यक्ततरं. तथोक्तम् इति. प्रत्यक्षीकृतरूपाद्यालम्बनानां मनोपविचाराणां व्यक्ततरत्वात्. यो ऽपि रूपाणि दृष्ट्वा तत्सहचरां छन्दान् उपविचरति. सो ऽपि तस्य मनोपविचारः. यथा त्व् अनाकुलं. तथोक्तं. कथं चानाकुलम् इत्य् आह. इन्द्रियार्थव्यवच्छेदत [तिब्. 302अ] इति. चक्षुरादीन्द्रियव्यवच्छेदेन. रूपाद्यर्थव्यवच्छेदेन चोक्तम् इति. अन्यथा ह्य् आकुलं स्यात्. एअक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयां छन्दान् उपविचरतीत्य् एवमादि.

अस्ति संतानं नियम्येति. कस्यचित् सत्त्वस्य संतानम् अवेक्ष्य. यद् अस्य किंचित्सौमनस्यस्थानीयम् एव. यावद् उपेक्षास्थानीयम् एव. न त्व् आलम्बनं. किं. नियम्य. किंकारणं. तद् एव ह्य् आलम्बनं कस्यचित् सौमनस्यस्थानीयं. कस्यचिन् नेति.

(iii.33-35अब्) एवं यावद् आरूपप्रतिसंयुक्ता इति कति रूपप्रतिसंयुक्ताः. तेषां च कति किमालम्बनाः. कत्य् आरूप्यप्रतिसंयुक्ताः. तेषां च कति किमालम्बना इति.

कामे स्वालम्बनाः सर्व

इति. कामे कामावचराणां मनोपविचाराः सर्वे ऽष्टादश सन्ति. स एव च कामधातुः तेषां सर्वेषाम् आलम्बनं. स्वो धातुर् आलम्बनम् एषाम् इति स्वालम्बना इति कारिकापदविग्रहः

रूपी द्वादशगोचर इति. रूपी धातुः कामावचराणां द्वादशानां मनोपविचाराणां गोचरः. षड् गन्धरसोपविचारान् अपास्येति. द्वौ गन्धरसाव् आलम्बनौ सौमनस्योपविचारौ हित्वा द्वौ गन्धरसालम्बनौ दौर्मनस्योपविचारौ हित्वा द्वौ तदालम्बनाव् एव चोपेक्षोपविचारौ हित्वेति. [तिब्. 302ब्] कस्मात्. तत्र रूपधातौ तयोर् गन्धरसयोर् अभावात्.

विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिर्

इति वचनात्.

त्रयाणाम् उत्तर

इति. त्रयाणां सौमनस्यदौर्मनस्योपेक्षाधर्मोपविचाराणां कामावचराणाम् उत्तरो धातुर् आरूप्यधातुर् आलम्बनं. तत्र रूपाद्यभावात्.

ध्यानद्वये द्वादशेति.

दौर्मनस्योपविचाराणां षण्णां अभावात्.

स्वो ऽष्टालम्बनम्

इति. अष्टानाम् आलम्बनम् अष्टालम्बनं. गन्धरसोपविचारांश् चतुरो हित्वेति. सौमनस्योपेक्षोपविचारौ गन्धालम्बनौ द्वौ रसालम्बनौ च द्वौ हित्वेत्य् अर्थः. तत्र तयोर् अभावात्.

आरूप्या द्वयोर्

इति. सौमनस्योपेक्षाधर्मोपविचारयोः प्रथमद्वितीयध्यानभूमिकयोर् आरूप्यधातुर् आलम्बनं. रूपाद्यभावात्. षड् उपेक्षोपविचारा एव सन्ति नान्य इति. रूपशब्दगन्धरसस्प्रष्टव्यधर्मालम्बना उपेक्षोपविचारा एव सन्ति. सौमनस्योपविचाराणाम् अपि तृतीये चतुर्थे चाभावात्. गन्धरसालम्बनौ तु तत्र कामावचरगन्धरसालम्बनाव् इत्य् अवगन्तव्यं.

तत्र चत्वारा इति. आकाशानंत्यायतनसामन्तकानन्तर्यमार्गस्य चतुर्थध्यानालम्बनत्वात्. तत्र च रूपशब्दस्प्रष्टव्यधर्मसद्भावात्. येषां तद् व्यवच्छिन्नालम्बनम् अस्तीति. येषाम् आचार्याणां मतेन तद् आकाशानंत्यायतनसामंतकं [तिब्. 303अ] व्यवच्छिन्नालम्बनं पृथक्पृथग् रूपाद्यालम्बनम् असमस्तालम्बनम् इत्य् अर्थः. औदारिकादिभिर् आकारैस् तच् चतुर्थध्यानम् आलम्बत इति एकेषाम् आचार्याणां मतम्. येषाम् आचार्याणां मतेन परिपिण्डितालम्बनम् एव तद् आकाशानंत्यायतनसामन्तकं चतुर्थध्यानभूमिकस्कन्धपंचकालम्बनम् इति मतं. तेषाम् आचार्याणां. तत्रैक एव (अभिध्-क्-व्य् 313) संमिश्रालम्बनो धर्मोपविचार इति.

एक ऊर्ध्वग

इति. केषां पक्षे. येषां

चत्वारो ऽरूपिसामन्त

इति पक्षः. न हि मौलानाम् इति विस्तरः. मौलानाम् आरूप्याणाम् अधरो धातुर् नालम्बनम् अधरभूमिकं सास्रवं वस्तु नालम्बनम् इत्य् अर्थः. पश्चात् प्रवेदयिष्यामीति.

न मौलाः कुशलारूप्याः सास्रवाधरगोचरा

इति.

(iii.35च्) प्रथमेति विस्तरः. प्रथमद्वितीयध्यानभूमिकैर् अष्टाभिः समन्वागतः तृतीयचतुर्थध्यानभूमिकैश् चतुर्भिः. कतमैर् इत्य् आह. क्लिष्टैः. गन्धरसालंबनान् पर्युदस्य. तत्र गन्धरसाभावात्. कथं. प्रथमद्वितीययोर् ध्यानयोर् द्वादशोपविचाराः सन्तीत्य् उक्तं. सौमनस्योपेक्षोपविचाराणां षड्विषयालम्बनव्यवस्थापनात्. तत्र स्वभूम्यालम्बना रूपशब्दस्प्रष्टव्यधर्मालम्बनाः सौमनस्योपविचाराश् चत्वारः क्लिष्टाः. ये चोपेक्षोपविचाराः क्लिष्टा एव चत्वारः. तैः कामधातूपपन्नो रूपावचरकुशललाभी [तिब्. 303]ब् समन्वागतः. अधरभूम्युपपन्नो ह्य् ऊर्ध्वभूमिकैः क्लिष्टैः समन्वागतो भवति. न तु विशिष्टैश् चतुर्भिर् गन्धरसालम्बनैः. तेषाम् अक्लिष्टत्वात्. रूपावचरकुशलालाभित्वात्. च. नास्त्य् अक्लिष्टरूपावचरधर्मलाभ इति. न तैः समन्वागतः. तृतीयचतुर्थध्यानभूमिका अपि षड् एवोपेक्षोपविचारा उक्ताः. तेषां ये स्वभूम्यालम्बनाः क्लिष्टाः. तैः समन्वागतस् तथा. यौ तु गंधरसालम्बनौ. न तौ क्लिष्टौ. अतः पूर्वोक्तेनैव न्यायेन न ताभ्यां समन्वागतः. क्लिष्टेनैवेति. नाक्लिष्टेन कुशलस्याभावात्. लाभी रूपावचरस्येति विस्तरः. कामधातूपपन्न एव लाभी रूपावचरस्य कुशलस्य चित्तस्यानागम्यसंगृहीतस्यावीतरागः कामधातोः सर्वैः कामावचरैर् अष्टादशभिर् अपि समन्वागतः. प्रथमध्यानभूमिकैर् दशभिर् इति. कथं दशभिर् इत्य् आह. सौमनस्योपविचारैः क्लिष्टैर् गंधरसालम्बनाव् अपास्येति. सौमनस्योपविचाराः सामंतकेषु न भवंति. सामन्तकानाम् उपेक्षेन्द्रियसंप्रयोगित्वात्. अतो मौलसंगृहीतैर् एव सौमनस्योपविचारैः क्लिष्टैः स्वभूम्यालम्बनैश्

चतुर्भिः. समन्वागतः. न तु गन्धरसालम्बनाभ्यां. मौलकुशलालाभेनाक्लिष्टलाभाभावात्. न हि क्लिष्टं ध्यानम् अधरालम्बनम् अस्ति. षड्भिर् उपेक्षोपविचारैर् अनागम्यभूमिकैर् इति. अत्राविशेषाभिधानाद् उपेक्षोपविचारैः [तिब्. 304अ] क्लिष्टैर् अपि चतुर्भिः समन्वागतः सामन्तकसंगृहीतैः. षड्भिश् चोपेक्षोपविचारैः कुशलैः (अभिध्-क्-व्य् 314) कामधात्वालम्बनैः स्वभूम्यालम्बनैर् अपि. द्वितीयतृतीयचतुर्थध्यानारूप्यजैः पूर्ववद् इति. कथं. स एव कामधाताव् उपपन्नो लाभी रूपावचरस्य कुशलस्य चित्तस्यावीतरागो द्वितीयध्यानभूमिकैर् अष्टाभिः. यैर् एव. अलाभी गन्धरसालम्बनान् अपास्य. त्र्तीयचतुर्थध्यानभूमिकैश् चतुर्भिः क्लिष्टैर् एव. गन्धरसालम्बनौ पर्युदस्य. आरूप्यावचरेणैकेन क्लिष्टेनैव. अनया वर्तन्या मार्गेण शेषम् अनुगन्तव्यं. कथं. प्रथमध्यानोपपन्नो द्वितीयध्यानभूमिकस्य कुशलस्य चित्तस्यालाभी प्रथमध्यानभूमिकैः सर्वैः समन्वागतः. द्वितीयध्यानभूमिकैः क्लिष्टैर् अष्टाभिः. तृतीयचतुर्थध्यानारूप्यजैः पूर्ववत्. लाभी द्वितीयध्यानभूमिकस्य कुशलचित्तस्य तद्भूम्यवीतरागः सर्वैः प्रथमध्यानभूमिकैः. द्वितीयध्यानभूमिकैऋ अष्टाभिः. चतुर्भिः सौमनस्योपविचारैः क्लिष्टैः. गन्धरसालम्ब्नाव् अपास्य. चतुर्भिश् चोपेक्षोपविचारैर् द्वितीयध्यानसामन्तकसंगृहीतैः. तृतीयध्यानभूमिकैस् चतुर्भिः क्लिष्टैः. गन्धरसालम्बनौ पर्युदस्य. एवं चतुर्थध्यानभूमिकैः. आरूप्यावचरेणैकेन क्लिष्टेनैव. द्वितीयध्यानोपपन्नस् तृतीयध्यानभूमिकस्य कुशलस्य चित्तस्यालाभी [तिब्. 304अ] द्वितीयध्यानभूमिकैः सर्वैः समन्वागतः.

तृतीयध्यानभूमिकैश् चतुर्भिः क्लिष्टैः. चतुर्थध्यानारूप्यजैः पूर्ववत्. लाभी तृतीयध्यानभूमिकस्य कुशलचित्तस्य तद्भूम्यवीतरागः सर्वैर् द्वितीयध्यानभूमिकैः. तृतीयध्यानभूमिकैश् चतुर्भिर् उपेक्षोपविचारैः क्लिष्टैर् गन्धरसालम्बनाव् अपास्य. चतुर्भिश् चोपेक्षोपविचारैस् तृतीयध्यानसामन्तकसंगृहीतैः. चतुर्थध्यानारूप्यजैः पूर्ववत्. एषा दिक्. अनया दिशा तृतीयादिष्व् अपि ध्यानेषूपपन्नस्य स्वभूम्यूर्ध्वभूमिकैर् उपेक्षोपविचारैर् एव क्लिष्टैः कुशलैश् च समन्वागमो यथासंभवं योज्यः. उपेक्षाधर्मोपविचारेनेति. कामावचरस्य निर्माणचित्तस्योपेक्षासंप्रयोगित्वात्.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.