Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
स्फुटार्था अभिधर्मकोशव्याख्या
- Tác giả
- यशोमित्र
- Thông tin
- GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अपर आहेति. अयम् एव शास्त्रकारः. न हि यो यस्माद् इति विस्तरः. यः पुद्गलः यस्माद् रूपादेर् वीतरागः. न स तद् रूपाद्य् आलम्बनम् उपविचरति. कथम् उपविचरति. तत्रानुनीयते वा. प्रतिहन्यते वा. अप्रतिसंख्याय वोपेक्षत इत्य् एवं. यदाप्रतिसंख्यायोपेक्षते नाभुजति. तदा ऽकुशलत्वम्. अतो ऽप्रतिसंख्यायेति विशेषणम्. अतः सास्रवा अपि न सर्वे. किं तर्हि. सांक्लेशिकाः. संक्लेशे भवाः सांक्लेशिकाः. संक्लेशानुकूलाः. यैः सौमनस्यादिभिर् मनो विषयान् उपविचरति. येषां प्रतिपक्षेण षट् सातता विहारा इति. येषां सांक्लेशिकानां प्रतिव्यूहेन. सततंभवाः सातताः. विहारा योगविशेषा भवंति. ते च षट्. कथम् इत्य् आह. चक्षुषा रूपाणि दृष्ट्वा नैव सुमना [तिब्. 305अ] भवति. नानुनीयते. न दुर्मना न प्रतिहन्यते. उपेक्षको भवति (अभिध्-क्-व्य् 315) नाभुजति. कथं नाभुजति. किम् अप्रतिसंख्यायाहो स्वित् प्रतिसंख्यायेति. विशेषयन्न् आह. स्मृतिमान् संप्रजानन्न् इति. स्मृतिसंप्रयुक्तया प्रज्ञया प्रतिसमीक्षमाण इत्य् अर्थः. एवं यावन् मनसा धर्मान् विज्ञायेति. विषयषट्कभेदात् षट् सातता इति. न ह्य् अर्हत इति विस्तरः. अर्हतो लौकिकं कुशलं सास्रवं धर्मालम्बनं धर्मायतनालम्बनम् अधिगमधर्मालंबनं वा सौमनस्यम् अस्ति. तस्य हि बुद्धसांतानिकां गुणान् संमुखीकुर्वतः कुशलम् सौमनस्यम् उत्पद्यते. न तस्यैष प्रतिषेधो युज्यते. कस्य तर्हि. यत् तु तत्सांक्लेशिकं मनस उपविचारभूतं. तस्यैष प्रतिषेधो लक्ष्यते. तस्मात् सास्रवा अपि न सर्वे सौमनस्यादय उपविचारा इति. अत्र भदन्तानंतवर्मा आह. अयुक्तम् एतत्. कस्मात्. सूत्रे ऽन्यथानिर्देशात्. सूत्रे हि भगवता न
सांक्लेशिका एवोपविचारा उक्ताः. एवं ह्य् आह. तत्र भिक्षवो य इमे षट् सौमनस्योपविचाराः. तान् आश्रित्य तान् प्रतिष्ठाय. य इमे षट् सौमनस्योपविचाराः. तान् प्रजहीत. तत्र भिक्षवो य इमे षड् उपेक्षोपविचाराः. तान् आश्रित्य तान् प्रतिष्ठाय. य इमे षड् उपेक्षोपविचाराः. तान् प्रजहीत. द्वे भिक्षवो उपेक्षे. नानात्वसंनिश्रिता एकत्वसंनिश्रिता च. तत्र भिक्षवो येयम् एकत्वसंनिश्रिता उपेक्षा. ताम् आश्रित्य ताम् अधिष्ठाय. येयं नानात्वसंनिश्रिता उपेक्षा. तां [तिब्. 305ब्] प्रजहीतेति. एतस्मात् सूत्राज् ज्ञायते. न सांक्लेशिका एव सौमनस्यादय उपविचारा इति. तद् एतद् अज्ञापकं. प्रहाणवचने ऽपि सांक्लेशिकत्वविनिवृत्तेः. न हीतरेणेतरस्य संनिश्रयप्रहाणवचने ऽपि सत्य् एषां मनोपविचाराणां सांक्लेशिकत्वं विनिवर्तते. अन्यथासंभवात्. एवं आह. मानं निश्रित्य मान एव प्रहातव्य इति. न तु जातु क्वचिन् मानो व्यवदानिकः संभवति. तस्मात् क्लेशानां परस्परविरोधेन वृत्तेर् वृत्त्यन्तरस्य चापेक्षया गुणवत्त्वात्. गुरुलाघवं अभिसंधाय सूत्रे वचनाद् अदोषः. नन्दादयो ऽत्र निदर्शनं. अतश् चैतद् एवं. यद् उपेक्षोपविचाराणाम् उपेक्षोपविचारान् एव प्रहाणाय संनिश्रयत्वेन दिदेश भगवान्. द्वे भिक्षव उपेक्षे इत्यादिवचनात्. ननु च गर्धाश्रितनैष्क्रम्याश्रितभेदेन षट्त्रिंशच् छास्तृपदानीति वचनात् सिद्धम् एषां सांक्लेशिकव्यवदानिकत्वं वैभाषिकमतानुसारात्. अदोषः. आचार्यस्यापि मनोपविचारव्यतिरिक्तास् तत्र सौमनस्यादयस् संति. पुनस् त एवेति विस्तरः. त एवाष्टादशोपविचाराः केचिद् भवाश्रिता अधिष्वंगाश्रिताः. केचिन् नैष्क्रम्याश्रिताः. नैष्क्रम्यं निष्क्रमभावः संक्लेशात् संसारदुःखाद् वा.
गर्धनैष्क्रम्याश्रितभेदेन. द्वाव् अष्टादशकौ षट्त्रिंषच् छास्तृपदानि. तद्भेदस्य तेषां मनोपविचारानां द्विधाभेदस्य (अभिध्-क्-व्य् 316) शास्त्रा बुद्धेन गमितत्वाद् देशितत्वाद् यथासूत्रं.
[तिब्. 306अ] (36, 37) क्लेशकर्मवस्तूनीति प्रज्ञापितम् इति.
क्लेशास् त्रीणि द्वयं कर्म सप्त वस्त्व्
इति वचनात्.
एवं कर्माणि विपाकोत्पत्ताव् इति. आसन्नं कारणम् इत्य् अधिकृतं. क्लेशो ऽपि हि कारणं विपाकस्य. तत् तु विप्रकृष्टं.
(iii.38) ते च व्याख्याता इति.
मृत्यूपपत्तिभवयोर् अन्तराभवतीह यः. स पुनर्मरणात् पूर्वम् उपपत्तिक्षणात् पर
इति. वचनात् व्याख्याताः. न पर्यवस्थानैः स्वतंत्रैर् इति. ईर्ष्यामात्सर्यक्रोधम्रक्षैः. स्वातन्त्र्यम् एषाम्. अविद्यानिर्मुक्तैर् अन्यक्लेशैर् असंप्रयोगात्. अविद्या हि सर्वत्रैव विद्यत इति. न तत्संप्रयोगेनास्वातन्त्र्यं. आह्रीक्यादिभिस् त्व् अन्यक्लेशसंप्रयुक्तैः प्रतिसंधिबंधो न प्रतिषिध्यते. यद्य् अपि सावस्था मन्दिकेति विस्तरः. यद्य् अपि सा मरणावस्था चित्तचैत्तसमुदाचारस्यापटुत्वात्.
उपेक्षायां च्युतोद्भवाव्
इति वेदनामान्द्यात्. यस् तु पुद्गलो यत्र क्लेशे ऽभीक्ष्णं सततं चरितः प्रवृत्तः आसन्नश् च मरणकालस्य पुद्गलस्य. तदानीं मरणकाले स एव क्लेशः समुदाचरति समुत्थाय मिथ्याड्र्ष्ट्यादिर् अपि. पूर्वावेधात् पूर्वाक्षेपात्. पूर्वाभ्यासाद् इत्य् अर्थः. अथ वा यो ऽसौ तदानीं क्लेश उपतिष्ठते. तस्य पूर्वं फलभावेन परिग्रहावेधात् आक्षेपात्. स तदानीम् उपतिष्ठत इति. कामरूपधात्वोर् [तिब्. 306ब्] अपरिसंख्यानात्. सर्व एव चत्वारो भवाः सन्तीति. त्रय एवारूप्येषु
आरूप्येष्व् एव च त्रय
इति अवधारणात्. अनयोर् इतरयोर् धात्वोर् भवचतुष्टयं तु ज्ञातं भवति.
(iii.39-41) निष्यन्दाभावाद् इति. मूत्रपुरीषाभावाद् इत्य् अर्थः. सूक्ष्माणां वा सूक्ष्मा इति. सूक्ष्माणां स सूक्ष्म आहारः. बालका जातमात्राः. स्वेदजन्तुकादयो यूकादयः. आदिशब्देन गर्भस्थाः. कवडीकाराहाराः
काम
इति. कामधाताव् एव कवडीकाराहार इत्य् अवधारणं. कस्माद् इत्य् आह. तद्वीतरागाणां कवडीकाराहारवीतरागाणां तत्र रूपारूप्यधात्वोर् उपपत्तेः. कवडीकृट्याभ्यवहरणात् पिण्डीकृत्य गिलनात् कवडीकारः.
कवडीकृत्याभ्यवहरणं पुनर् मुखेन नासिकया ग्रासव्यवच्छेदाद् इति गन्धरसस्प्रष्टव्यायतनानि सर्वाण्य् एव कवडीकार इत्य् उक्ते पृच्छति छायातपज्वालाप्रभासु (अभिध्-क्-व्य् 317) तेषां गन्धादीनां कथम् आहारत्वं. न हि तत्रत्यानां गंधादीनां कवडीकृत्याभ्यवहरणम् अस्तीति. बाहुल्येन किल एष निर्देश इति. न तत्रत्यानां गन्धादीनां कवडीकारत्वम् इति प्रतिपद्यते. बाहुलिकस् तु निर्देशः
कामे त्र्यायतनात्मक
इति. किलशब्दः परमतेन स्वाभिप्रायो ऽधिक्रियते. यान्य् अपि त्व् इति विस्तरः. यान्य् अपि तु नाभ्यवह्रियंते छायादिषु स्थितिं चाहरंति यापनां चाहरंती. तान्य् अपि सूक्ष्म आहारः. स्नानाभ्यंगवत्. यथा स्नानं चाभ्यंगश् च न कवडीकृत्याभ्यवह्रियते. आहारश् च. तद्वद् इति.
स्वाक्षमुक्ताननुग्रहाद् [तिब्. 307अ]
इति. स्वाक्षस्य स्वेन्द्रियस्य तेनाननुग्रहात्. मुक्तानां च. कामधातोर् अनागाम्यर्हताम् अननुग्रहात्. न रूपायतनम् आहारः. रूपायतनं चाभ्यवहारकाल इति. यस्मिन् काले अन्तर्मुखप्रविष्ट आहारो भुज्यते चक्षुर्विषयातीतः. तस्मिं काले स्वम् इन्द्रियं चक्षुरिन्द्रियं तन्महाभूतानि च तस्येन्द्रियस्य. यानि महाभूतानि आश्रयः. तानि नानुगृह्णाति तद् रूपायतनं. कुत एवान्यानीन्द्रियाणि श्रोत्रादीन्य् अनुग्रहीष्यति. अविषयत्वात्. अविषयो हि श्रोत्रादीनां रूपायतनं. दृश्यमानं तर्हि भोजनकाले ऽनुग्रहीष्यतीत्य् अत आह. यदापि च दृश्यमान इति विस्तरः. अथ कथम् इदं गम्यते. तदापि तदालम्बनः सुखवेदनीयः स्पर्श आहारो न रूपम् इति. अत आह. मुक्तानाम् इति विस्तरः. यदि तद् दृष्यमानम् आहारकृत्यं कुर्यात्. मुक्तानाम् अनागाम्यर्हतां कवडीकाराहारवीतरागाणां सुमनोज्ञम् अप्य् आहारं पश्यतां अनुग्रहं कुर्यात्. यथा गन्धरसस्प्रष्टव्यायतनानि इन्द्रियमहाभूतानाम् अनुग्रहं कुर्वन्त्य् अभ्यवहारकाले. तस्मात् तदालम्बनः सुखवेदनीयः स्पर्श आहारो भवतीति सिद्धं.
स्पर्शसंचेतनाविज्ञा
इति विज्ञेत्य् आदन्तम् एतत्. प्रज्ञेति यथा. विज्ञानम् इत्य् अर्थः. कवडीकाराहारस् त्र्यायतनात्मकत्वात् सास्रव इति सिद्धः.
त्रयस् तु
स्पर्शादयः सास्रवा अनास्रवाश् च संभवन्तीति अतस् त एव विशेषिताः
सास्रवा
इति.
न चैवम् अनास्रवा धर्मा इति. न चैवं ते भूतानां स्थितये यापनायै [तिब्. 307ब्] सम्भवैषिणां चानुग्रहायेति. मनोनिर्जातत्वाद् इति. निर्वृत्तेर् इति न तूपपत्तेः. मन इत्य् अवधारणं. अत एव ब्रवीति. शुक्लशोणितादिकं किंचिद् बाह्यम् अनुपादाय भावाद् इति. आदिशब्देन कर्दमपुष्पादीनां ग्रहणं. (अभिध्-क्-व्य् 318) उपपत्त्यभिमुखत्वात् अभिनिर्वृत्तिर् इति. उपपत्त्यभिमुखी निर्वृत्तिर् जन्मास्येति अभिनिर्वृत्तिः. सव्याबाधम् इति सदुःखं. सव्याबाधम् अभिनिर्वर्त्येति. इदम् अत्र ज्ञापकं. अन्तराभवो ऽभिनिर्वृत्तिर् इति. तथास्ति पुद्गल इति विस्तरः. अस्मात् सूत्राच् चतुष्कोटिकाद् अभिनिर्वृत्तिर् अन्तराभव इति. अस्ति पुद्गलो यस्याभिनिर्वृत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनं. अस्ति यस्योपपत्तिसंयोजनं प्रहीणं नाभिनिर्वृत्तिसंयोजनं. अस्ति यस्याभिनिर्वृत्तिसंयोजनं च प्रहीणं उपपत्तिसंयोजनं च. अस्ति यस्य नैवाभिनिर्वृत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनं. द्विधातुवीतरागस्येति. कामरूपधातुवीतरागस्येति. अनागामिन इति विशेषणं. पृथग्जनानां अन्तराभवसंयोजनस्यात्यन्ताप्रहाणात्. तद् धि भिक्षवः प्रहीणं यद् आर्यया प्रज्ञया प्रहीणम् इति वचनात्. तस्य च पुनर्भावित्वात्. तत्र प्रथमा कोटिर् द्विधातुवीतरागस्यानागामिनः. द्वितीयान्तरापरिनिर्वायिणः. तृतीयार्हतः. चतुर्थी तदन्येषाम् अस्मदादेः. [तिब्. 308अ] पृथग्जनस्य आर्यस्य चावीतरागस्य कामधातुवीतरागस्य रूपधाताव् उपपद्यमानस्य चेति. भूता वार्हन्त इति. पूर्वम् एवोक्तः पर्यायः. भूता उत्पन्नाः संभवैषिणो ऽन्तराभविका इति. इदानीम् अयम् अपरः पर्यायः. भूता अर्हन्तस् त्रैधातुकवीतरागत्वात्. संभवैषिणः सतृष्णाः. त्रैधातुके संभवैषित्वात्.
स्थितय इति. अवस्थापनाय. अनुग्रहायेति. पुनर्भवाय संभवायेत्य् अर्थः.
सर्वे ऽप्य् उभयथेति. सर्वे ऽपि चत्वार आहाराः. भूतानां सत्त्वानां स्थितये ऽनुग्रहाय च. तथा संभवैषिणाम् इति. युक्तं तावन् मनःसंचेतना कर्मस्वभावत्वात्. तत्प्रभावितं च विज्ञानं बीजं. स्पर्शो ऽपि तत्संप्रयुक्तो भवत्य् अनुग्रहायेति. कवडीकारस् तु कथं संभवैषिनाम् अनुग्रहायेति. अत उच्यते. कवडीकारो ऽपि हीति विस्तरः. तद्रागिणाम् इति. कवडीकाररागिणां. पुनर्भवाय संवर्तत इति अस्य ज्ञापनार्थम् इदं सूत्रपदम् उपन्यस्यते. उक्तं हि भगवतेति विस्तरः. तत्र रोगादिभिः पंच उपादानस्कंधा उक्ताः. तस्य रोगस्य चत्वार आहारा मूलं. मूलं च हेतुर् इति अनेन कवडीकारो ऽपि तद्रागिणां पुनर्भवाय संवर्तत इति सिद्धं. अन्ये पुनर् जरामरणस्य प्रत्यय इत्य् एतद् एवोदाहरणं ब्रुवते. अस्माज् जन्मनः परेण जरामरणं व्यवस्थापितम् इत्य् अभिप्रायः. कवडीकारो ऽपि भूतानां सत्त्वानाम् इहस्थितय इति युक्तं प्रत्यक्षत्वात्. [तिब्. 308ब्] तथा सुखवेदनीयः स्पर्शो विज्ञानं चानुग्राहकम् इत्य् उक्तं. अथ मनःसंचेतना कथम् इति. अत इदम् उच्यते. मनःसंचेतनापि चेति विस्तरः. अत एव मनःसंचेतनाग्रहणेन स्पर्शविज्ञाने अपि गृहीते भवतः. तत्संप्रयोगित्वात्. प्रद्रुता इति प्रसृताः. संगीतिपर्याय इत्य् अभिधर्मशास्त्रे.
तेषां पुष्टये स्पर्श इति. सुखवेदनीयेनानुग्रहात्. यः कश्चिद् वेदनास्कंधः संज्ञास्कंधः. सर्वः स स्पर्शं प्रतीत्येति वचनात्. मनःसंचेतनायाः पुनर्भवस्याक्षेप इति. तस्याः कर्मस्वभावत्वात्. कथं च पुनस् तया पुनर्भव आक्षिप्यते. तदुत्पत्तिप्रत्ययपरस्परानुकूल्यावस्थानात्. कर्मपरिभाविताद् विज्ञानबीजाद् अभिनिर्वृत्तिर् इति. बीजाद् इवांकुरस्य पुनर्भवस्योत्पाद इत्य् अर्थः.
यः कवडीकारः स आहार इति प्रश्ने आह. स्यात् कवडीकारो नाहारः. स्याद् आहारो न कवडीकारः. स्याद् उभयं. स्यान् नोभयम् इति चतुष्कोटिकं. द्वितीया कोटिस् त्रय आहारा इति. मनःसंचेतनास्पर्शविज्ञानानि. चतुर्थी एतान् आकारान् स्थापयित्वेति. शब्दो दुःखवेदनासंप्रयुक्ताश् च सर्वे चित्तचैत्ताः. एवं स्पर्शादिभिर् अपि यथायोगं चतुष्कोटिकानि कर्तव्यानीति. यः कश्चित् स्पर्शः. सर्वः स आहारः. स्यात् स्पर्शो नाहार इति चतुष्कोटिकं. एवं या काचिन् मनःसंचेतना. सर्वा सा आहारः. स्यात् मनःसंचेतना नाहार इति चतुष्कोटिकं. तथा [तिब्. 309अ] यत् किंचिद् विज्ञानं. सर्वं तद् आहारः. स्याद् विज्ञानं नाहार इति चतुष्कोटिकम्. स्पर्शस्य तावत् प्रथमा कोटिः. यं स्पर्शं प्रतीत्येन्द्रियाणाम् अपचयो भवति. महाभूतानां च परिभेदः. द्वितीया त्रय आहाराः. तृतीया यं स्पर्शं प्रतीत्य इन्द्रियाणाम् उपचयो भवति. महाभूतानां च वृद्धिः. चतुर्थी एतान् आकारान् स्थापयित्वेति. एवं यावद् विज्ञानं चतुष्कोटिकं. प्रथमा कोटिः यद् विज्ञानं प्रतीत्येन्द्रियाणाम् अपचयो भवति महाभूतानां परिभेदः. द्वितीया कोटिस् त्रय आहाराः विज्ञानवर्ज्याः. तृतीया यद् विज्ञानं प्रतीत्य इन्द्रियाणाम् उपचयो भवति. महाभूतानां च वृद्धिः. चतुर्थ्य् एतान् अकारान् स्थापयित्वा.
स्यात् स्पर्शादीन् प्रतीत्येति विस्तरेण अपरः प्रश्नः. स्पर्शादीन् इति स्पर्शचेतनाविज्ञानधर्मान् इति एवं नेतव्यं. एवं च ग्रन्थः कर्तव्यः. स्यात् स्पर्शादीन् प्रतीत्येन्द्रीयाणाम् उपचयो भवति. महाभूतानां च वृद्धिः. न च ते आहाराः. स्यात्. अन्यभूमिकान् अनास्रवांश् च. प्रतीत्येत्य् अभिसंबंधात् द्वितीयाप्रयोगः. यो ऽपि परिभुक्त इति विस्तरः. केन संबन्धेनेदम् उक्तं. अन्यभूमिकान् अनास्रवांश् च प्रतीत्यानाहार इत्य् उक्ते ऽर्थाद् एतद् उक्तं भवति. स्वभूमिकान् सास्रवां प्रतीत्य आहार इति. यं चेह परिभुक्त इति. कवडीकारो भोक्तुर् बाधाम् आदधाति. स किम् आहारः. सो ऽप्य् आहारः. आपाते भोजनवेलायाम् अनुग्रहात्.
सर्वासु सर्वः. एवं योनिष्व् इति. कामधातौ [तिब्. 309ब्] पंचानां गतीनां चतसृणां च योनीनां सद्भावात्. चतुःकोटिकं बाध्यते. प्रकरणग्रन्थश् चेति. प्रथमे चतुष्कोटिके येयं तृतीया कोटिः. यं कवडीकारं प्रतीत्येन्द्रियाणाम् उपचयो भवति. महाभूतानां च वृद्धिर् इति अस्या बाधाच् चतुष्कोटिकं बाध्यते. न केवलम् उपचयकरः. किं तर्हि. अपचयकरो ऽपि कवडीकाराहार (अभिध्-क्-व्य् 320) इति. प्रकरणग्रन्थश् च किं बाध्यते. कीदृशः प्रकरणग्रन्थ इति. तद् दर्शयन्न् आह. कवडीइकाराहारः कतमः यम् कवडीकारं प्रतीत्येन्द्रियाणाम् उपचयो भवति विस्तरेण यावद् विज्ञानम् इति. उपचयाहाराभिसंधिवचनाद् अविरोध इति. उपचयाहाराभिप्रायेण चतुष्कोटिकवचनं प्रकरणग्रन्थवचनं च. तस्मात्. तयोर् अविरोधः. यो ह्य् उपचयाय. स मुख्यः. आहारलक्षणप्राप्तत्वाद् इति. कवडीकाराहारलक्षणप्राप्तत्वात्. कथम् इत्य् आह. सो ऽपि हि जिघत्सां पिपासां च प्रतिहन्तुं समर्थ इति. प्रदीप्तायसगुडलक्षण आहारो जिघत्साप्रतिघाते समर्थः. क्वथितताम्रलक्षणः पिपासाप्रतिघाते इति योज्यं.
कवडीकाराहारप्रसंगेनेदम् उच्यते. उक्तं भगवता यश् च बाह्यकानाम् इति विस्तरः. जंबुद्वीपो जम्बुषण्डः. तथा ह्य् उक्तं भगवता. याः काश्चिज् जम्बुषण्डात् स्रवंत्यः. सर्वाः समुद्रनिम्नाः समुद्रप्रवणाः समुद्रप्राग्भारा इति. तन्निवासिनो जम्बुषण्डगताः. कुक्षिमन्तो भोजनशक्त्युपेता अकललाद्यवस्था इत्य् अभिप्रायः. तद् एतद् अयुक्तम्. एकम् इति वचनाद् इति. यदि जंबूद्वीपनिवासिनः कुक्षिमन्तो जंबुषण्डगता [तिब्. 310अ] इश्येरन्. यश् च जम्बुषण्डगतान् पृथग्जनान् इति वक्तव्यं स्यात्. उक्तं च यश् चैकं जंबुषण्डगतम् इति. तस्माद् अयम् अर्थो न घटते. कश् चात्र विशेष इति. किम् अत्राश्चर्यं यद् बहूं भोजयित्वा बहु पुण्यं स्यात्. न त्व् अल्पीयसः शतमात्रान् वीतरागान् इत्य् अर्थः. संनिकृष्तो बोधिसत्त्व इति. आसन्नाभिसम्बोधिः.
बोधिसत्त्वः कुतो यावत्. यतो लक्षणकर्मकृद्
इत्य् अभिप्रायः. न त्व् इयम् अन्वर्था संज्ञेति. नार्थानुगता. नार्थवाचकं पदम् इत्य् अर्थः. नापि परिभाषिता अर्थम् अनपेक्ष्य. बोधिसत्त्व एव त्व् एष जंबुषण्डगत इति. कृषिग्रामकं व्यवलोकनाय निर्गतः सर्वार्थसिद्धो बोधिसत्त्वो जंबूवृक्षमूले निषण्णः प्रथमं ध्यानम् उत्पादितवान्. अत आह. स हि पृथग्जनः कामवैराग्यसम्बन्धेनेति. स चापि हि बोधिसत्त्वः पृथग्जनः कामवीतरागश् च. बाह्यकाश् च तथैव कामवीतरागाः पृथग्जनाश् च. अनेन सम्बन्धेन तेभ्यो बाह्यकेभ्यो बहुतरेण दानफलेन विशिष्यमाण इत्य् एवम् उक्तः. स तेभ्यो बाह्यकेभ्यो ऽनन्तेभ्यो विशिष्यमाणो
बोधिसत्त्वाय चामेया अनार्येभ्यो ऽपि दक्षिणा
इति वचनात्. शतग्रहणं तु पूर्वाधिकाराद् इति. तत्रैव सूत्रे शताधिकारो ऽधिकृतः. यश् च तिर्यग्योनिगतानां शताय दानं दद्यात्. यश् चैकस्मै दुःशीलाय मनुष्यभूताय [तिब्. 310ब्] दानं दद्यात्. ततः शतगुणो विपाकः (अभिध्-क्-व्य् 321) प्रतिकांक्षितव्यः. यावद् यश् च बाह्यकानाम् इति विस्तरः. इत्थं चैतद् एवम् इति. इत्थं चैतद् एवं बोधिसत्त्व एव त्व् एष जम्बुषण्डे निषण्णो युज्यत इति. यद् एनं बोधिसत्त्वम् अपास्य. बाह्यकेभ्य एव स्रोतआपत्तिफलप्रतिपन्नकं विशेषयां बभूवेति. बाह्यकेभ्यो वीतरागेभ्यः स्रोतआपत्तिफलप्रतिपन्नकाय दानम् अप्रमेयतरं. स्रोतआपन्नाय ततो ऽप्रमेयतरं. सकृदागामिफलप्रतिपन्नकायेति विस्तरः. यदि निर्वेधभागी जंबुषण्डगतो ऽभविष्यत्. जंबुषण्डगताद् एव व्यशेषयिष्यत्. कथं. यश् च जंबुषण्डगतानां शतं भोजयेत्. यश् चैकं स्रोतआपत्तिफलसाक्षात्क्रियायै प्रतिपन्नकं. अतो दानाद् इदं महाफलतरम् इति. न त्व् एवं. स्रोतआपत्तिफलप्रतिपन्नकादिभ्यो विशिष्टतरत्वाद् अतो बोधिसत्त्व एव त्व् एष जंबुषण्डगतो युज्यते.
(iii.42-44अब्) आयुःक्षयादिभिर् इति. अस्त्य् आयुःक्षयान् मरणं न पुण्यक्षयात्. अस्ति पुण्यक्षयान् नायुःक्षयाद् इत्यादि.
छेदसंधानवैराग्य
इति विस्तरः. कुशलमूलसमुच्छेदो मिथ्यादृष्ट्या. सा च मानस्य् एव. संतीरकत्वात्. कुशलमूलप्रतिसंधानं सम्यग्दृष्ट्या विचिकित्सया वा. ते च मानस्यौ. धातुभूमिवैराग्यं धातुतो भूमितो वा [तिब्. 311अ] वैराग्यं मनोविज्ञान एव. समाहित एव चित्ते लभ्यत्वात्. परिहाणिर् अयोनिशोमनसिकारप्रवर्तिता. मनोविज्ञानेन चायोनिशोमनसिकारो विकल्प इति. च्युतिः संक्षिप्तपंचेन्द्रियप्रचारस्य प्रवाहच्छेदानुकूले विज्ञाने भवति. उपपत्तिर् अपि विपर्यस्तमतेर् भवतीति मनोविज्ञान एव युज्यते. अन्तराभवप्रतिसंधिर् अप्य् उक्तरूप इति. प्रतिसंधिसामान्याद् अनुक्तो ऽप्य् उक्तकल्प इति नोच्यत इत्य् अभिप्रायः. च्युतिर् एव
च्युतं.
एकार्थतां दर्शयति. भावे क्तोत्पन्नत्वात्. इतरे हि वदने पट्व्याव् इति सुखदुःखे.
विसभागभूमिकत्वाद् इति. समाहितं चित्तं समाहितभूमिकत्वात् विसभागं कामधातोः. अतश् च्युतिचित्तम् उपपत्तिचित्तम् वा न युज्यते. यदा तर्हि रूपधाताव् एव म्रियते उपपद्यते वा. तदा समाहितभूमिकं चित्तं तद् भविष्यतीत्य् अत आह. आभिसंस्कारिकत्वाद् इति. अभिसंस्कारो यत्नः. अभिसंस्कारेण निर्वृत्तम् आभिसंस्कारिकं. तद्भावः. तस्मात्. न तद् आभिसंस्कारिकं च्युतिचित्तम् उपपत्तिचित्तं वा युज्यते. मरणावस्थाया अपटुत्वात्. अनुग्राहकत्वाच् च. यस्माच् च समाहितं चित्तम् औउग्राहकं. न च्छेदानुकूलं. अतो ऽपि समाहितचित्तस्य च्युतिर् नास्ति. नाप्य् अचित्तकस्येति विस्तरः. नाप्य् अचित्तकस्य. [तिब्. 311ब्] किं. च्युतिः. उपपत्तिर् वेति प्रकृतं. अचित्तको निरोधसमापत्तिसमापन्नो (अभिध्-क्-व्य् 322) ऽसंज्ञिसमापत्तिसमापन्नः तद्विपाके वावस्थितः. सो ऽचित्तक उपक्रन्तुं मारयितुं न शक्यते शस्त्रादिभिः. अतो नाचित्तकस्यास्ति च्युतिः. यदा चास्याश्रयो विपरिणन्तुम् आरभेतेति. शस्त्रेणाग्निना वोपक्रमान् निरोधसमापत्तिं असंज्ञिसमापत्तिं वा समापन्नस्य असंज्ञिसमापत्तेर् विपाके स्थितस्य विपाकावेधपरिसमाप्तेर् अवश्यम् अस्य तदानीम् आश्रयप्रतिबद्धं चित्तं आश्रये बीजभावेनास्ति. तत् सम्मुखीभूय पश्चात् प्रच्यवेत. कः प्रच्यवेत. पुद्गलः. यदि पुद्गलो ऽधिक्रियेत्. असमानकर्तृकत्वात् क्त्वाविधिर् न प्राप्नोति. चित्तं तर्हि प्रच्यवेत. अथ वैवम् अभिसंबन्धः. यदा चाश्रयो विपरिणंतुम् अन्यथात्वम् आपत्तुम् आरभेत. अवश्यम् अस्य पुद्गलस्य तदाश्रयप्रतिबद्धं बीजभावेनावस्थितं चित्तं सम्मुखीभूय समुदाचर्य परिणन्तुम् आरभेत. पश्चात् प्रच्यवेत पुद्गल इति. अथ वा संमुखीभूयेति संमुखीभाव्येत्य् अर्थे णिलोपात्.
अस्ति पर्णरुहो वातो अस्ति पर्णशुषो ऽपर
इति यथा. उपपत्तौ चायुक्तं अचित्तकत्वं. कस्मात्. चित्तच्छेदहेत्वभावात्. अवश्यं क्लिष्टतया प्रतिसंधिचित्तस्य निरोधसमापत्त्याद्यसंभवात्. विना च क्लेशेनानुपपत्तेः. सर्वक्लेशैर् हि तद्भूमिकैर् उपपत्तिप्रतिसंधिबन्धो भवति. न च चित्तम् अन्तरेण क्लेशाः कदाचिद् अपि भवन्तीति. अतो ऽपि नास्ति अचित्तकस्योपत्तिह्.
मरणभवस् त्रिप्रकार इत्य् उक्तम् इति.
उपपत्तिभवः क्लिष्टः सर्वक्लेशैः स्वभूमिकैर्
इति. उपपत्तिभव एव [तिब्. 312अ] क्लिष्ट इत्य् अवधारणात्. मरणपूर्वांतकालान्तराभवास् त्रिप्रकाराः कुशलाकुशलाव्याकृता उक्ताः. अथ वा
निरोधयत्य् उपरमन्न् आरूप्ये जीवितं मनः उपेक्षां चेति
विस्तरेण यावच्
छुभो सर्वत्र पंच चेत्य्
उक्तं. अतो मरणभवस् त्रिप्रकार इत्य् उत्सर्गः. अर्हंस् तु
निर्वात्य् अव्याकृतद्वये
इत्य् एवम् अपवादः. अस्ति चेत् कामधातौ विपाक उपेक्षेति.
अधो ऽपि मध्यम् अस्त्य् एके
इति एकीयमतेन. नास्ति चेद् इति.
अतः परम् अदुःखासुखं वेद्यम्
इत्य् अपरमतेन. ऐर्यापथिक एवेति. ऐर्यापथिकजातीयं तद् यत्र निर्वाति.
विपाकजैर्यापथिकशैल्पस्थानिकनिर्मितं चतुर्धाव्याकृतं काम
इति. न एतावद् एवाव्याकृतम् इष्यत इति व्याख्यातम् एतत्. तद् धि चित्तच्छेदानुकूलम् इति. अप्रतिसंधिकचित्तच्छेदानुकूलं. दुर्बलत्वात्. परमापटुत्वाद् इत्य् अर्थः. सप्रतिसंधिकचित्तच्छेदे कुशलाकुशलम् अपि चित्तं संभवति.
तेषां यथासंख्यम् इति. पादयोर् अपायगामिनां विज्ञानं संनिरुध्यते. नाभ्यां मनुष्यगामिनां. हृदये देवगामिनां. अरूपित्वाद् अदेशस्थं विज्ञानं कथं तेषु निरुध्यत इति. अत आह. कायेन्द्रियस्य तेषु निरोधाद् इति. तेषु पादादिषु कायेन्द्रियप्रतिबद्धवृत्ति हि कामधातौ रूपधातौ च विज्ञानम् इति. [तिब्. 312ब्] तेषाम् अपि हृदये विज्ञानं निरुध्यत इति. यथासंख्यनिर्देशाद् एवायम् अर्थो लभ्यते. कथं. हृदयं च हृदयं च हृदये. पादश् च नाभिश् च हृदये चेति
पादनाभिहृदयानीति
चत्वारो ऽर्थाः. अधोगश् च नृगश् च सुरगश् च अजगश् चेत्य् एतो ऽपि चत्वारो ऽर्थाः. तेन यथासंख्यसिद्धिः.
प्रायेणेति ग्रहणम् देवादीनां सुखमृत्युत्वात्. न तु पुनस् तानि काष्ठानीव च्छिद्यन्ते. किं तर्हीति. तीव्राभिर् वेदनाभिश् छिद्यन्त इवेति. छिन्नवद् वा न पुनश् चेष्टन्त इति छिन्नानीत्य् उच्यंते इति. छिन्नांगप्रत्यंगवत् न पुनश् चेष्टंत इति छिन्नानीत्य् उच्यन्ते. सैषा काल्पनिकी छेदवृत्तिः. मर्मणां द्विधाभावकरणात्. अप्तेजोवायुनां अन्यतमेनेत्य् उक्ते पृच्छति. कस्मात् न पृथिवीधातुनेति. अप्तेजोवायुधातुप्रधाना यथायोगम् इति. यथासंभवं अब्धातुप्रधानः श्लेष्मा. तेजोधातुप्रधानं पित्तं. वायुधातुप्रधानो वायुशेष इति. भाजनलोकसंव्रतनीसाधर्म्येणेत्य् अपर इति. तिस्रो भाजनसंवर्तन्यः तेजःसंवर्तनी अप्संवर्तनी वायुसंवर्तनी च. तासां च साधर्म्येण अप्तेजोवायुधातूनाम् अन्यतमेनेति विस्तरेणोक्तम् इति.
(iii.44च्द्) कथम् आराद् याता. आत्यन्तिकविसंयोगप्राप्तिलाभात्. पृथग्जनानां त्व् अस्ति विसंयोगप्राप्तिलाभः. न त्व् आत्यंतिक इति ते न आराद् याता एवेति. ते हि मिथ्यात्वे ऽपि नियता भवेयुर् इति. यद्य् आनन्तर्याणि कुर्युर् इत्य् अर्थः. न च त इति विस्तरः. [तिब्. 313अ] न च ते मोक्षभागीयलाभिनः कालनियमेन सम्यक्त्वे नियताः. यथा सप्तकृत्वःपरमादयः. आदिशब्देन कुलंकुलैकवीचिकादयो गृह्यन्ते. कालनियमश् चैषां पुद्गलनिर्देशे वक्ष्यते. नियतेभ्यो द्वयेभ्य एभ्यो ऽन्ये ऽनियताः. प्रत्ययापेक्षं हीति विस्तरः. यदि सम्यक्त्वे प्रत्ययं लभन्ते. सम्यक्त्वे नियताः. अथ मिथ्यात्वे. मिथ्यात्वे नियताः. अथोभयस्मिं न प्रत्ययं लभन्ते. अनुभयभाक्त्वे ऽपि.
(iii.45-47) उक्तः सत्त्वलोकः अविद्यादिक्रमनिर्देशेन.
उशंतीति
इच्छन्तीत्य् अर्थः.
लक्षषोडशकोद्वेधम् असंख्यं वायुमण्डलं
लक्षषोडशकं वेधनभावन. परिणाहेनासंख्यम् इति. समन्तपरिक्षेपेणासंख्यम् इत्य् अर्थः. कर्माधिपत्येन कर्मसामर्थ्येन. तत्र निदर्शनं. यथा भुक्तं पीतं चान्नं च यथासंख्येन नापक्वं पक्वाशयं पतति. पक्वम् एव पक्वस्थानं गच्छतीत्य् अर्थः. कुसूलन्यायेन कोष्ठन्यायेन. समन्तात् प्राकारवद् आस्थितम् इत्य् अर्थः. पक्वक्षीरशरीभावयोगेन पक्वक्षीरशरीभावन्यायेन. यथा पक्वस्य क्षीरस्य शरी. स्त्रीलिंगनिर्देशः शर इत्य् अर्थः. अथ वा शरस्य भावः शरीभावः स्त्रीप्रयोगः. यथासौ शरो घनीभावेन भवति. एवं जलस्योपरिष्ठात् कांचनमयी भूमिर् इति. शेषं त्रयो लक्षाः सहस्राणि च विंशतिर् इति. विंशतिसहस्रोत्तराणाम् एकादशानां लक्षाणाम् अष्टाव् अपनीय एतावच् छेषं भवति.
तिर्यक् त्रीणि सहस्राणीति.
विस्तरः. चतुर्द्वीपकस्य एतत् परिमाणम् उच्यते. न त्रिसाहस्रमहासाहस्रस्य. समानं ह्य् एतद् उभयम्. एतद् इति. जलकांचनमण्डलं.
[तिब्. 313ब्] समन्ततस् तु त्रिगुणम्
इति. समन्तपरिक्षेपेण त्रिगुणम् एतद् उभयं. सर्वस्य परिमण्डलस्येयं स्थितिः. यद् अस्य तिर्यक्प्रमाणस्य त्रिगुणम् एव समन्तपरिक्षिप्तस्य प्रमाणम् इति.
(48-51) तेन चतुर्द्वीपकश् चक्रीकृत इति. चक्रं कृतश् चक्रीकृतः. चक्राकारतां गमितः. अत एव चक्रवाड इत्य् उच्यते.
शस्त्रकम्
इति अयोमयोः. यथासंख्यं चतुर्षु पार्श्वेष्व् इति. उत्तरकुरुपार्श्वसुवर्णमयं पूर्वविदेहपार्श्वं रूप्यमयं. जंबूद्विपपार्श्वं वैडूर्य मयं. अवरगोदानीपार्श्वं स्फटिकमयं.
नानाविधबीजगर्भाः. नानाप्रकारसामर्थ्ययुक्ताः. बहुविधप्रभावभिन्नैर् वायुभिर् इति. तदुत्पादने ऽनेकप्रकारसामर्थ्यभिन्नैर् वायुभिर् इत्य् अर्थः. असमाधानेनेति. अयुगपद्भावेनेत्य् अर्थः. न हि यदा कार्यं. तदा कारणं तिष्ठति. न हि अवस्थितस्य द्रव्यस्येति. रूपरसाद्यात्मकस्य. धर्मान्तरनिवृत्ताव् इति. क्षीरनिवृत्तौ. धर्मान्तरप्रादुर्भाव इति. दधिजन्म. स एव धर्मी. नेति. रूपाद्यात्मकक्षीरादिधर्मेभ्यो ऽन्यो धर्म उत्पादव्यये ऽप्य् अनुत्पन्नो ऽविनष्टः. परिणाम इति. क्षीरनिवृत्तौ दधिभावः. तद् एव चेदम् इति. क्षीरम् एव दधि. न चेदं तथेति. न (अभिध्-क्-व्य् 325) चेदं दधि क्षीरम्. तद् एवेदम् इति. यत् परिणामेनेत्य् उक्तं. न चेदं तथेति. तस्यैव द्रव्यस्यान्यथीभावमात्रं परिणाम इति वचनात्. अपूर्वैषा वाचो युक्तिर् इति. स्ववचनविरुद्धेत्य् अभिप्रायः. पूर्वोत्तरयोर् हि क्षणयोर् अन्यथात्वम् इष्यते. ययोश् चान्यथात्वं तयोर् अन्यत्वं दृष्टं. तद्यथा देवदत्तयज्ञदत्तयोः. तस्मात् कार्यकारणयोर् अन्यत्वेन भवितव्यं.
सुवर्णादय इति. सुवर्णरूप्यमणिमृदादयः. षष्टियोजनशतसहस्रसमुच्छ्राय इति. षष्ट्यधिको योजनलक्ष उच्छ्राय इत्य् अर्थः.
(52, 53) अष्टांगोपेतस्येति.
शीतलाच्छलघुस्वादुमृदुनिःपूतिगंधिकं [तिब्. 314अ] पीतं न बाधते कुक्षिं न कण्ठं क्षिणोति तज् जलम्
इति अष्टांगसंग्रहश्लोकः. पार्श्वतस् तु त्रिगुणो भवति युगंधरतीरेण गण्यमान इति. स आभ्यंतरः समुद्रो युगंधरपार्श्वेनायांअतः संख्यायमानस् त्रिगुण इति कृत्वा. चत्वारिंशद्योजनसहस्राधिकलक्षद्वयम् आयामो भवति युगंधरपार्श्वे. अशीतिर् एका तदुभयतश् चेतरयोर् दिशोस् तत्सीमानदीवैपुल्ययोगेन अपरे द्वे अशीतीति तिस्रो ऽशीतयः. चत्वारिंशदधिकं लक्षद्वयं भवतीति.
लक्षत्रयं सहस्राणि विंशतिर् द्वे चेति.
निमिन्धरगिरिचक्रवाडयोर् अंतरे एकस्यां दिशि बाह्यस्य समुद्रस्य तत्परिमाणम् उक्तं. अत्र सहस्रम् एकं द्वे शते चान्ये अर्धाष्टाशीतिर् एवेति वक्तव्यं. न्यूनत्वात्. एवम् अपरस्याम् दिशि वक्तव्यम्. एवं द्वयोः सहस्रयोः पंचसु शतेषु पंचसप्ततौ च योजनानां प्रक्षिप्तेषु स आधारः पूरितो भवति. य उक्तः
तिर्यक् त्रीणि सहस्राणि सार्धं शतचतुष्टयं लक्षद्वादशकं चैव जलकांचनमण्डलम्
इति. अनया चतुर्द्वीपसंख्यया यथाविन्यासम् अतिरिच्यमानत्वात्. तद् इदं परिह्रियते. नैष दोषः. चक्रवाडबहिर्जलकांचनमण्डलस्य एतावतातिरिच्यमानत्वात्. न तर्हि चतुर्द्वीपकः तेन चक्रवाडेन चक्रीकृतः. उपरिभूमिर् अनेन चक्रीकृता. न जलमण्डलम् इत्य् अवगन्तव्यं. अपर आह. न सुमेर्वादयः पर्वता अत्यन्तच्छिन्नतटीसमुच्छ्रायघना भवंति. किं तर्हि. पर्वताकारन्यायेन किंचिदतिरिच्यमानाधरभागा दुर्लक्षविशेषत्वात्.
समोच्छ्रायघनाश् च त
इत्य् उक्त्वा. अतस् [तिब्. 314ब्] तैस्तैः किंचिदतिरिच्यमानैर् अधोभागैस् तद् आधेयं (अभिध्-क्-व्य् 326) सुमेर्वादिकं आधारं जलकांचनमण्डलात्मकम् व्याप्नोतीत्य् अविरोध एष इति.
(iii.54-57) अन्य इति विस्तरः. न बोधिसत्त्वाश्रयाद् अन्य आश्रयो वज्रासनप्रदेशाद् वान्यः प्रदेशस् तं वज्रोपमं समाधिं सोढुं समर्थ इति. यश् च द्वीपो यदाकृतिर् इति. प्रत्यक्षम् एतत्. भूमिवशात् सत्त्वानां वैचित्र्यं. हिमवद्विन्ध्यवासिनां किरातशबराणां गौरश्यामते दृश्यते.
देहा विदेहाः कुरव
इति. स्थानिनां बहुत्वात् स्थानस्यापि बहुवचननिर्देशः. एको राक्षसैर् इति. चामरावरचामरयोर् अन्यतरः.
(iii.58) कीटाद्रिनवकाद्
इति. कीटाकृतीनां पर्वतानां नवकात्. तदधिकारेणायं जंबूद्वीप इति. जंबूवृक्षाधिकारेण. जम्बुवृक्षचिह्नो द्वीपो जम्बुद्वीपः. फलाधिकारेण वेति. जंब्वा वा. लुप् चेति फलम् अपि जम्बूः. तत्फलचिह्नो जम्बूद्वीप इत्य् अर्थः.
(iii.59, 60) चतुस्कन्धा
इति. चतुःप्राकारा इत्य् अर्थः. चतुःसंनिवेशा इत्य् अपरे.
अयःप्राकारपर्यन्ता
इति. अयःप्राकारपरिक्षिप्ता इत्य् अर्थः.
अयसा प्रतिवर्जिता
इति. अयसोपरिष्ठाच् छादिताः. अयसापिथितद्वारा इत्य् अपरे.
स्फुटा
इति व्याप्ताः. पूर्ववद् इति. उत्क्षिप्ते पादे पुनर् अपि संजायते त्वङ्मान्सशोणितम् इत्य् अर्थः.
[तिब्. 315अ] क्षुरमार्गादिकं त्रयम्
इति. क्षुरमार्गासिपत्त्रवनशाल्मलीवनं चेति त्रयः. श्यामलशबलाश् च श्वानो भक्षयन्तीति. असिपत्त्रवनान्तर्भूताः. अयस्तुण्डाश् च वायसा इति. शाल्मलीवनान्तर्भूताः. प्रासा भिन्दिपालादयः. अधिकयातनास्थानत्वाद् उत्सदा इति. उच्छब्दो ऽधिकार्थः. अधिकं सीद्यन्ते ऽत्रेति उत्सदाः. कथं पुनर् यातनाधिक्यम् इत्य् आह. नरकेष्व् इति विस्तरः. अपर इति. स्थविरमनोरथः. स ऊर्ध्वार्थं उच्छब्दम् इति. तेनाहा नरकावरोधाद् अवीच्यादिनरकावरोधात् ऊर्ध्वम् एषु कुकूलादिषु सीदन्ति. अतस् तदुत्सदा इति.
प्रश्नात् प्रश्नान्तरम् इति. षोडशोत्सदाः कतम इत्य् उक्त्वा. चतुर्थ उत्सदो (अभिध्-क्-व्य् 327) वैतरणी. यस्यां ते सत्त्वाः असिशक्तिप्रासहस्तैः पुरुषैर् उभाभ्यां तीराभ्यां प्रतिवार्यमाणाद् ऊर्ध्वम् अपि गच्छन्तः स्विद्यन्ते पच्यन्त इति. तस्माद् इदं प्रश्नान्तरं उपजायते. किं ते नरकपाला इति विस्तरः. विवर्तनीवायुवद् इति यथा विवर्तन्यां वायवो भाजनलोकाभिनिर्वृत्तये चेष्टन्ते. तद्लत् ते भूतभौतिकमात्रा नरकपाला इति.
यमराक्षसा
इति. पापकर्माणः सत्त्वा नरकपाला जायंत इत्य् अर्थः. ये ते यमेनेति. ये ते यमेन देवदूतीयसूत्रोक्तेनानुशासनेनानुशिष्टाः. तां सत्त्वान् नरकस्थानेषु प्रक्षिपन्ति यमराजधानीनिवासिनः. त एते यमराक्षसा उक्ताः. न तु ये कारणा यातनाः कारयंति असिशक्तिप्रासहस्तादयः [तिब्. 315ब्]. तस्येदानीं कर्मणः क्व विपाक इति. नरकपालानां नरककृतस्य कर्मणः क्व विपाकः. तेष्व् एवेति विस्तरः. येष्व् आनंतर्यकारिणां विपाकावकाशः. तेषु नरकेषु तेषां नरकपालानां को विप्रतिबन्धः. एतद् उक्तं भवति. तेषाम् अपि तावद् आनन्तर्यकारिणां महदानन्तर्यकर्मणो विपाकस्यातिमहतो नरकेष्व् अवकाशो ऽस्ति. किम् अंग पुनर् नरकपालानां यत् कर्म तत्कारणाः कारयताम् इति. कृतावधित्वात् कृतमर्यादत्वात् नरकपालान् प्रति. एते न दग्धव्या इति. भूतविशेषनिर्वृत्तेर् वा. भूतविशेषास् तादृशास् तेषां कर्मभिर् अभिनिर्वृत्ताः. यत् तेनाग्निना न दह्यन्ते.
कायशब्दविकारानुरूपाणीति. कायविकारानुरूपाणि अर्बुदो निर्बुद उत्पलः पद्मो महापद्मश् चेति नामानि. अर्बुदाद्याकारकायत्वात् तत्रत्यानां सत्त्वानां. शब्दविकारानुरूपाणि अठठः हहवः हुहुव इत्य् एतानि नामानि.
अत एवेति. धान्यराशिवद् अधोविशालत्वात्. बहिर् इति नान्तर्गतः.
(iii.61-63) तैजसं सूर्यकान्तात्मकं आप्यं चन्द्रकान्तात्मकं. यथासंभवम् इति. तदुभयमण्डलं दृष्ट्यादीनां देशकालावस्थान्तरानुरूप्येण अनुग्रहार्थम् उपघातार्थं च. एवम् अन्येष्व् अपि योज्यम् इति. कथं. यदा पूर्वविदेहे रात्रः. तदा जंबूद्वीपे [तिब्. 316अ] सूर्यास्तंगमनम् अवरगोदानीये मध्याह्नः उत्तरकुराव् उदय इत्य् एवम् अन्यत्रापि योज्यं.
प्रावृण्मासे द्वितीये ऽन्त्यनवम्याम्
इति. प्रावृण्मासाश् चत्वारः श्रावणो यावत् कार्त्तिकः. सर्वे च मासाः कृष्णपक्षाद्याः. तत्र भाद्रपदशुक्लपक्षनवम्यां रात्रिर् वर्धते.
हेमन्तकानां चतुर्थे हीयते.
हेमन्तीमासाश् चत्वारो मार्गशीर्षाद्याः फाल्गुनान्ताः. तत्र फाल्गुनशुक्लपक्षनवम्यां हीयते निलवंलवंल. कालध्वनोर् अत्यन्तसंयोगे द्वितीया.
(अभिध्-क्-व्य् 328) अपरपार्श्वे छाया पतन्ती विकलं मण्डलं दर्शयतीति. तद्यथा स्तंभे प्रदीपच्छाया पतन्ती. यथायथा स्तंभ आसन्नो भवति. तथातथा स्तंभः स्वछायया छाद्यते. दूरे हि वर्तमाने प्रदीपे परिपूर्णस्तंभो दृश्यते. किंचिद् आसन्ने किंचित् क्षीयते यावद् आसन्ने स्तंभो नष्टरूपो वर्तते. तद्वद् एतत्. वाहयोगः स तादृश इति. पुनस् तिर्यग् अवनामोन्नामयोगेनाधोभागश् चन्द्रमण्डलस्य क्षीयते. ऊर्ध्वं वर्धते चेति योगाचाराः. चातुर्महाराजकायिका इति चतुर्महाराजानां कायः. तत्र भवाश् चातुर्महाराजकायिकाः. सुमेरुपरिषण्डादीनीति. आदिशब्देन युगंधरादीनि.
(iii.64, 65) दशसाहस्रिकान्तरा
इति. योजनदशसहस्रप्रमाणान्तरा इत्य् अर्थः. अर्धम् आक्षिप्तम् इति. अर्धम् अवष्टब्धं.
सदामदा
इति. सदामत्ता इति वक्तव्ये श्लोकबन्धानुगुण्येन सदामदा इत्य् उक्तम् अर्थैकत्वात्. चतुर्थ्यां चत्वारो महाराजानः स्वयं प्रतिवसन्तीति. धृतराष्ट्रः पूर्वदिग्भागे. [तिब्. 316ब्] विरूढको दक्षिणे. विरूपक्षः पश्चिमे. वैश्रमण उत्तरस्मिन्न् इत्य् अनुक्रमो ऽवगन्तव्यः. चातुर्महाराजिका देवा इत्य् उक्तम् इति. यस्माच् चतुर्थ्यां परिषण्डायां चत्वारो महाराजानः स्वयं प्रतिवसंति. अत एवम् उक्तं महाराजिका देवा इति. महाराजेषु भवा इति कृत्वा महिष्ठो महत्तमः.
(iii.66-69) स विंशतिसहस्रदिग्
इति. यद्य् एवं कथम् इदम् उक्तं
समोच्छ्रायघनाश् च त.
इति. मध्यभागम् एवाभिसमीक्ष्यैवम् उक्तम् इति तेषाम् अभिप्रायः.
अध्यर्धम्
इति. अधिकम् अर्धम् अस्मिन्न् इति अध्यर्धं. अध्यर्धं योजनम् अस्येत्य्
अध्यर्धयोजनं.
समुच्छ्रायेणेति अध्याहार्यं. धातुशतेन रंगशतेन. नानारत्नस्थानविधानसंपदेति. नानारत्नविधानसम्पदा नानास्थानविधानसम्पदा च. सर्वान्यभवनानां श्रियस् तासां महिमानो महत्त्वानि. ह्रेपणो लज्जनो लज्जाजनक इत्य् अर्थः. दैर्घ्येणार्धतृतीयं योजनशतं पार्श्वम् इति. एकं पार्श्वम् एतत्प्रमाणं. यावच् चतुर्थम् अप्य् एतत्प्रमाणम् इति.
सुभूमीनीति.
शोभना भूमय एषाम् इति
सुभूमीनि क्रीडास्थानानि.
चतुर्दिशम्
इति. चतस्रो दिशो ऽस्येति
चतुर्दिशं
क्रियाविशेषणं. भागुरिमतेन दिक्छब्दो ऽकारन्तो भवति. विंशतियोजनान्य् अतिक्रम्य कृईडास्थानानि भवन्तीति. विंशतियोजनान्य् अन्तरितानीत्य् उच्यते. त्रायस्त्रिंशानाम् इति. त्रयस्त्रिंशास् तेषु भवास् त्रायस्त्रिंशाः. तेषां. कामरतिप्रकर्षालयः कामरतिविशेषस्थानं. वृक्षानतिक्रमं [तिब्. 317अ] संधायोक्तम् इति. तं कोविदारवृक्षम् अनतिक्रम्य स गन्धो वर्तते. तस्य पंचाशद्योजनानि शाखापत्त्रपलाशम् इति एवं वृक्षानतिक्रमं संधायोक्तं पंचाशद्योजनानि प्रतिवातं गन्धो वातीति. अत्रोत्तरम् आहुः. न हि नाम प्रतिवातं वातो भवति. यत्रैवोत्पद्यते. तत्रैव ध्वन्स्यते. न देशान्तरे संतानं संतनोति. उक्तं च पंचाशद्योजनानि प्रतिवातम् इति. तस्माद् असमाधिर् एषः. तस्मात् समाध्यन्तरम् इदम् आह. तस्यैव त्व् इति विस्तरः. किं पुनः कारणं योजनशतम् अत्र वातं गंधो वाति प्रतिवातं तु पंचाशत्. न ततः परेणेति अत आह. मन्दतरतमसमारंभात् त्व् इति विस्तरः. मृदुमारुतप्रतिबध्यमानतया मन्दतरतमसमारंभः. ततश् च स गन्धसंतान आश्व् एव समुच्छिद्यते. अतः कारणात् न तथा विप्रकृष्टम् अध्वानं योजनशतप्रमाणं प्रसर्पतीति.
उताहो वायुर् अधिवासितो जायत इति. यथा तिलेषु पुष्पगंधाद् गन्धान्तरम् उत्पद्यते ऽन्यद् एव न स पौष्पो गन्ध इत्य् आह. यदि पंचाशद्योजनं प्रतिवातगन्धो वाति. यत् तर्हि भगवतोक्तं
न पुष्पगन्धः प्रतिवातम् एतीति.
विस्तरः.
मौलिको गन्धो
मुस्तादिः.
कृत्याकृत्यं समर्थयन्त इति. कार्याकार्यं संप्रतीच्छन्ति संप्रधारयन्तीत्य् अर्थः.
(iii.70अब्) समासेन येषां भाजनं प्रज्ञायत इति. भाजनं स्थानं. विस्तरेणान्ये ऽपि देवाः क्रीडाप्रमोषकप्रहासकादयः सन्तीति. अतः समासेनोक्तं.
(iii.70च्द्) द्वंद्वेन [तिब्. 317ब्] यावद् ईक्षितेन मैथुनम् एषाम् इति
द्वंद्वालिंगनपाण्याप्तिहसितेक्षितमैथुनाः.
सऋवेषां समापत्त्येति. षण्णाम् अपि कामभुजां द्वंद्वसमापत्त्या परिदाहविगमः. कालपरिमाणं तु प्रज्ञप्ताव् उक्तम् इति. यावता कालेन द्वंद्वालिंगनपाण्याप्तिहसितेक्षितानि भवंति. तावता कालेन एषां भूमिसम्बन्धवासिनां यामतुषितनिर्माणरतिपरनिर्मितवशवर्तिनां यथाक्रमं द्वंद्वसमापत्तिर् (अभिध्-क्-व्य् 330) इति वैभाषिकाः. यावद्यावद् इति विस्तरः. यावद्यावत् परेण परतरेण विषयाणां तीव्रतरत्वात् रागो ऽपि तीव्रतरः. तावत्तावन् मैथुनकार इत्य् अभिप्रायः.
(iii.71च्द्) ते पुनश् चत्वारो देवनिकाया इति. चातुर्महाराजकायिका यावत् तुषिताः. यथोत्पन्नपरिभोगः स एषाम् अस्तीति यथोत्पन्नपरिभोगिनः. तद्भावः. तस्मात्. यथेच्छयात्मनिर्मितं. तस्य परिभोगः. पूर्ववत्. यथेच्छात्मपरनिर्मितपरिभोगित्वाद् इति. आत्मना परेण च निर्मिते. यथेच्छयात्मपरनिर्मिते. तयोः परिभोगः पूर्ववत्. यथेच्छपरनिर्मितपरिभोगित्वाद् इति केचित् पठन्ति. तत्र पाठे एवं विग्रहः. परनिर्मितं यथेच्छं परनिर्मितं. तस्य परिभोग इति. पूर्ववत्. निर्माणरतीनां परनिर्मितां कामान् परिभोक्तुं न समृध्यति. तद् एवं परनिर्मितवशवर्तिनां निर्माणरतिभ्यो [तिब्. 318अ] विशेषः प्रदर्शितो भवति. बाह्यरूपादिविषयनिर्माणं चात्र वेदितव्यं. विवेकजेन प्रथमध्यानभूमिकेन. अकुशलविविक्तत्वात्. समाधिजेन च द्वितीयध्यानभूमिकेन. वितर्कविचारविगमात्. प्रीतिसुखेनेति. प्रीतिलक्षणेन सुखेन. निःप्रीतिकेन च सुखेन. सौमनस्यविगमात्. सुखं विहरन्त इति. सुखम् इति क्रियाविशेषणं. सुखोपपत्तित्वं विचार्यम् इति. सुखाभावान् न ध्यानान्तरं सुखोपपत्तिर् इति शक्यं वक्तुं. कुशलविपाकत्वेन सुखकल्पत्वात् सुखोपपत्तिर् इति न शक्यं व्यवस्थापयितुं. चतुर्थे ऽपि ध्याने सुखोपपत्तिप्रसंग इति चेत्. न. तस्यां भूमौ सुखाभावात्. तस्माद् विचार्यं संप्रधार्यम् एतद् इति भावः.
(iii.72च्द्) एवं शेषा इति. ऋद्ध्या वा यामास् तुषितां गच्छेयुः. यदि ऋद्धिमता नीयेरन्. देवेन वा तत्रत्येन. समानभूमिकास् तु चातुर्महाराजकायिकाः त्रयस्त्रिंशां गच्छन्ति. आगतं तूर्ध्वोपपन्नं पश्येद् इति. समानभूमिकं नोर्ध्वभूमिकम् इति. प्रथमध्यानोपपन्नो न द्वितीयध्यानोपपन्नम् इत्यादि. तदिच्छयेति. ऊर्ध्वोपपनेच्छया. इहत्यम् इवेति. इहभव इहत्यः. अधोभूमिक इत्य् अर्थः. इहत्यम् इव पश्येद् इति निकायान्तरीयाः. यथा स्प्रष्टव्यम् इत्य् उदाहरणमात्रम् एतत्. [तिब्. 318ब्] यथा शब्द इत्य् एतद् अपि गम्येत.
चतुर्णां कामावचराणां यामादिस्थानानां. द्विगुणोत्तरम् इति. यामस्थानाद् द्विगुणं तुषितस्थानम् इत्यादि. चतुर्थं त्व् अपरिमाणम् इति. तारकावत् अतलवाटकप्रतिबद्धविमानत्वात् अपरिमाणत्वसंभव इत्य् अभिप्रायः.
(iii.73, 74) सहस्रं ब्रह्मलोकानाम् इति. ब्रह्मकायिकब्रह्मपुरोहितमहाब्रह्मणाम् इत्य् अर्थः. लोके तथा प्रतीतत्वात्.
चूलिक
इति. महतो लोकधातोश् चूडाभूतत्वात् चूलिक इत्य् उच्यते. संभवो हि विवर्त इति. विविधवर्तनं विवर्तः. विविधा वा वर्तन्ते ऽस्मिन्न् इति विवर्तः. संवर्तनं संवर्तः. सम्वर्तन्ते वास्मिन्न् इति संवर्तः. तस्मिं हि काले सत्त्वा एकस्मिन् ध्याने द्वितीये तृतीये चतुर्थे वा संवर्तन्ते संगच्छन्त इति.
विवर्तते च संवृत्त आस्ते संवर्तते समम्
इति उत्तरत्र व्याख्यास्यामः.
(iii.75-77अब्) जाम्बूद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तका
इति. सार्धत्रिहस्तप्रमाणशरीराः. केचित् तु चतुर्हस्तप्रमाणशरीराः.
पूर्वगोदोत्तराह्वया
इति. पूर्वो गोद उत्तर इति चाह्वय एषां. ते
पूर्वगोदोत्तराह्वयाः.
तेषां यथासंख्यं अष्टहस्तप्रमाणाः पूर्वविदेहकाः षोडशहस्तप्रमाणाः गोदानीयाः द्वात्रिंशद्धस्तप्रमाणका औत्तरकौरवा इति.
पादवृद्ध्येति
विस्तरः.
यावत् सार्धक्रोश
इति वक्ष्यमाणत्वात् पाद इति क्रोशस्येति गम्यते. क्रोशचतुर्थभागमात्रं च शरीरं [तिब्. 319अ] चातुर्महाराजकायिकानां. द्विपादमात्रं त्रायस्त्रिंशानां यावद् अध्यर्धक्रोशमात्रं परनिर्मितवशवर्तिनां. योजनत्रयेण हीनं द्विगुणम् इति. द्विगुणं कृत्वा तृईणि योजनान्य् अपनेयानि. पंचविंशयोजनशतम् अनभ्रकाणां शरीरप्रंआणम् इति. पुण्यप्रसवानाम् इति. पुण्यप्रसवानाम् अर्धतृतीयं योजनशतं शरीरप्रमाणं. बृहत्फलानां पंचयोजनशतानीति गणयितव्यं.
(iii.77च्द्-80) कुमुदपद्मवद् इति. यथेह कुमुदानि अहनि संकुचन्ति रात्रौ विकसन्ति. पद्मानि तु विपर्ययेण. तथा तत्र केषांचिद् एव पुष्पाणां संकोचाद् अहनि च विकासाद् अहोरात्रव्यवस्थानं. शकुनीनां च कूजनाकूजनात्. अकूजनाद् रात्रिः कूजनात् प्रभातं. विपर्ययेण वा यथाशकुनिजाति. मिद्धापगमोपगमाच् च. मिद्धोपगमाद् रात्रिः प्रज्ञायते. मिद्धापगमात् प्रभातम् इति.
अधिकाधिकम्
इति. विंशतिर् अधिकं. अधिकं भवतीत्य् अर्थः. तेनाह. एवम् तेषां यथाक्रमं चत्वारिंशत् षष्टिर् अशीतिः कल्पसहस्राण्य् आयुःप्रमाणम् इति. विज्ञानानंत्यायतने (अभिध्-क्-व्य् 332) चत्वारिंशत्. आकिंचन्यायतने षष्टिः. भवग्रे ऽशीतिर् इति. तस्माद् अधो महाकल्पस्यार्धम् इति विस्तरः. अशीतिर् अन्तरकल्पा महाकल्पः. तस्यार्धं चत्वारिंशद् अन्तरकल्पाः. तस्य महाकल्पार्धस्य कल्पीकृतस्य यद् अर्धं विंशतिर् अन्तरकल्पाः. तद् ब्रह्मकायिकानां आयुःप्रमाणं. [तिब्. 319ब्] यत् तदर्धकल्पीकृतं चत्वारिंशद् अन्तरकल्पाः. तद् ब्रह्मपुरोहितानाम् आयुःप्रमाणं. तद् एवम् आत्मीयार्धं महाब्रह्मण आयुःप्रमाणं. स ह्य् अध्यर्धः कल्प इत्य् उच्यते षष्ट्यन्तरकल्पसंख्या. महाब्रह्मादीनाम् इति. आदिशब्देन ब्रह्मपुरोहितानां ब्रह्मकायिकानां च प्रातिलोम्येन ग्रहणं.
अर्धम् अधस् तत
इति परीत्ताभाद् देवनिकायाद् इति निर्देशापेक्षणात्.
(iii.81-83) तेषाम् आयुःप्रमाणम् उक्तम् इति. तेषां महाब्रह्मणां ब्रह्मपुरोहितानां ब्रह्मकायिकानां.
कामदेवायुषा तुल्या
इति विस्तरः. चातुर्महाराजकायिकानां यद् आयुःप्रमाणम् उक्तं. स संजीवे अहोरात्रः. एवं यावद् यत् परनिर्मितवशवर्तिनाम् आयुःप्रमाणम् उक्तं. स तपने अहोरात्रः.
कामदेववद्
इति. कामदेवानाम् इव
कामदेववत्.
तत्र तस्येवेति वतिः. तेन यावत् द्वादशमासकेनेति तेन तत्रत्येनाहोरात्रेण तेषां त्रिंशद्रात्रकेण मासेन द्वाद्शमासकेन सम्वत्सरेण तत्रत्यानि दिव्यानि पंच वर्षशतान्य् आयुर् इत्यादि. एवम् अन्येष्व् अपि यथायोगं योज्यम् इति. यद् यामानाम् आयुःप्रमाणं. तत् संघाते महानरके एकं रात्रिंदिवम्. तेन रात्रिदिवेन तस्मिन् वर्षसहस्रद्वयम् आयुःप्रमाणं. एवम् अन्येष्व् अपि यथायोगं योज्यं. अष्टाव् इमे भिक्षव इति. अष्टाव् इमे भिक्षवः नागा महानागाः कल्पस्था धरणिंधराः अप्रत्युद्धार्याः सुपर्णिनः पक्षिराजस्य देवासुरम् अपि [तिब्. 320अ] संग्रामम् अनुभवन्त्य् अपि प्रत्यनुभवन्त्य् अपि. ते पुनः कतमे. तद्यथा नन्दो नागराजः उपनन्दो नागराजः अश्वतरी नागराजः मुचिलिन्दो नागराजः मनस्वी नागराजः धृतराष्ट्रो नागराजो महाकालो नागराज एलपत्त्रो नागराज इति. चूलिकाबद्ध इति शिखाबद्धः.
(iii.84अब्) एकजातिप्रतिबद्धस्येति. एकजन्मप्रतिबधबुद्धत्वस्य. चरमभविकस्येति अन्त्यजन्मनः, येन तस्मिन्न् एव जन्मनि अर्हत्त्वं साक्षात् (अभिध्-क्-व्य् 333) कर्तव्यम्. तस्य नास्त्य् अन्तरेण कालक्रिया यावद् अर्हत्त्वं न प्राप्नोति. श्रद्धानुसारिधर्मानुसारिणोः नास्त्य् अन्तरेण कालक्रिया यावच् छ्रद्धाधिमुक्तदृष्टिप्राप्तौ न भवतः. तद्गर्भयोर् इति. बोधिसत्त्वचक्रवर्तिगर्भयोः. तन्मात्रोर् नास्त्य् अन्तरेण कालक्रिया यावन् न तौ जायेते. एवमादीनाम् इति. आदिशब्देन निरोधासंज्ञिसमापत्तिसमापन्नानां मैत्र्यादिसमापन्नानां च नास्त्य् अन्तरेण कालक्रिया यावत् तस्मात् समाधेर् न व्युत्तिष्ठन्ते.
(iii.85, 86) चतुर्विंशतिर् अंगुल्यो हस्त
इति. अभिधर्मवचनकाले यः पुरुषहस्तः. स ग्रहीतव्यः. येन चातुर्द्वीपकादिपरिमाणव्यवस्थानं.
(iii.87, 88) हेमन्तानाम् इति. यथा वर्षा इत्य् एकस्मिन्न् अप्य् अर्थे बहुवचनं प्रसिद्धं. एवं हेमन्ता ग्रीष्मा इति द्रष्टव्यं. प्रवचने त्रय एव र्तवो न यथा लोके षड् इति. शिशिरो हि शीतसामान्याद् धेमन्त इत्य् उक्तः. वसन्तो ऽप्य् उष्णसामान्याद् ग्रीष्म इत्य् उक्तः. शरद् अपि वृष्टिसामान्याद् [तिब्. 320ब्] वर्षा इत्य् उक्तेति.
हेमन्तग्रीष्मवर्षाणाम्
इति. सर्वबौद्धानां हेमन्ताः प्रथम ऋतुः. ग्रीष्मा द्वितीयः. वर्षास् तृतीयः. तत्राधिकम् अर्धम् अस्येति अध्यर्धो मासः. तस्मिन्न्
अध्यर्धमासि निर्गते.
मार्गशीर्षे सपौषर्धे ऽतिक्रान्ते.
शेषे ऽर्धमासे.
पौषस्यर्धे ऽवशिष्टे कृष्णचतुर्दश्याम्.
ऊनरात्रो विद्वद्भिर्
बौद्धैर्
निपात्यते
त्यज्यते इत्य् अर्थः. चातुर्दशिको ऽत्र भिक्षुभिः पोषधः क्रियते. एवं माघे फाल्गुनार्धे ऽतिक्रान्ते शेषे ऽर्धमासे फाल्गुनावशिष्टे पुनर् अपर ऊनरात्रो निपात्यते. तथा ग्रीष्मेषु वैशाखकृष्णचतुर्दश्यां आषाढचतुर्दश्यां चापराव् ऊनरात्रौ निपात्येते. वर्षेष्व् अपि भाद्रपदकृष्णचतुर्दश्यां कार्त्तिककृष्णचतुर्दश्यां चापराव् ऊनरात्रौ निपात्येते.
(iii.89-92) गतिसंवर्तनीति. नरकाद्याः पंच गतयो गत्येकदेशे देवगतौ संवर्तन्ते. एकस्थीभवन्तीत्य् अर्थः. धातुसंवर्तनी चेति. कामधातुः रूपधातौ संवर्तत इति. सत्त्वसंवर्तनीति. यदा सत्त्वा एव सम्वर्तन्ते ध्यानेष्व् एकस्थीभवन्ति. न तु तावद् भाजनानि संवर्तन्ते. विनश्यन्तीत्य् अर्थः. भाजनसम्वर्तनीति. यदा भाजनान्य् एव सम्वर्तन्ते न तु सत्त्वाः. एकस्यापि सत्त्वस्य तत्राभावात्. यद् अयं लोक इति विस्तरः. यद् अयं (अभिध्-क्-व्य् 334) लोको विंशतिम् अन्तरकल्पान् विवृत्तो जातः. यावन् नरकोत्पत्तिप्रभृति निर्यातं. [तिब्. 321अ] तन् निष्ठितं वक्तव्यम् इत्य् अर्थः. तत् प्रतिपन्नं वक्तव्यम् इति तत् संवर्तनम् आरब्धं वक्तव्यम् इत्य् अर्थः. एवं तिर्यक्संवर्तनी प्रेतसंवर्तनी च वक्तव्येति. यदा तिर्यक्ष्व् एकसत्त्वो ऽपि नावशिष्टो भवति. इयता ऽयं लोकः सम्वृत्तो भवति तिर्यक्सम्वर्तन्या. यस्य तदानीं नियतं तिर्यग्वेदनीयं कर्म ध्रियते. स लोकधात्वन्तरतिर्यक्षु क्षिप्यते. एवं प्रेतसंवर्तनी योज्या यदा प्रेतेष्व् इति विस्तरेण. मनुष्यसहचरिष्णव इति. मनुष्यसहचरणशीलाः. गोमहिषादयः. धर्मताप्रतिलंभिकम् इति. धर्मता नाम कुशलानां धर्माणां तदानीं परिणामविशेषः. तया प्रतिलंभो ऽस्यास्तीति धर्मताप्रतिलंभिकं. यन् मनुष्येष्व् इति. जम्बूद्वीपमनुष्येष्व् इत्य् अभिप्रायः. एवं पूर्वविदेहगोदानीयसम्वर्तन्यौ योज्यौ. उत्तरकुरुसंवर्तनी त्व् एवं वक्तव्या भवेति. स कालो यद् उत्तरकुरौ मनुष्याश् च्यवन्त एव नोपपद्यन्ते. यदा तत्रैकसत्त्वो पि नावशिष्टो भवति. इयतायं लोकः संवृत्तो भवति उत्तरकुरुसम्वर्तन्येति. कस्माद् एवं वक्तव्या. न तु
जंबुद्वीपसम्वर्तन्यादिवद् इत्य् आह. तत्र वैराग्याभावात्. तत्रोत्तरकुरौ वैराग्याभावात्. इत एव सामन्तकाद् इति. चातुर्द्वीपकसामन्तकाद् इत्य् अर्थः. तदाक्षेपके कर्मणि परिक्षीण इति. भाजनाक्षेपके भाजनोत्पादके परिक्षीण इत्य् अर्थः. ब्राह्मं विमानं निर्दहद् अर्चिः परैति [तिब्. 321ब्] गच्छतीत्य् अर्थः. तच् च तद्भूमिकम् एवार्चिर् इति. प्रथमध्यानभूमिकं. कस्माद् इत्य् आह. न हि विसभागा विसदृशाः अपक्षाला उपद्रवाः अग्न्यादयः क्रमन्ते तापयन्त इत्य् अर्थः. आह. यद्य् एवं किम् इदम् उच्यते. तस्माद् एव चेति विस्तरेणेत्य् अत उच्यते. तद्सम्बद्धसंभूतत्वाद् इति विस्तरः. तेन कामावचरेणार्चिषा सम्बद्धं संभूतं रूपावचरम् अर्चिः. तद्भावः. तस्माद् इति. एवम् अन्यस्याम् इति. यथा तेजःसम्वर्तन्याम् उक्तम् एवम् अन्यस्याम् अप्य् अप्संवर्तन्यां वायुषंवर्तन्यां च यथासंभवं वेदितव्यं. कथं कृत्वा. नरकादिसंवर्तनीं पूर्ववद् उक्त्वा यावद् इयतायं लोकः सम्वृत्तो भवति सत्त्वसम्वर्तन्या. ततः शून्ये भाजने सहजो ऽब्धातुः संभवति. यस् तं भाजनलोकं लवणम् इव विलोपयति. स कामावचरो ऽब्धातुः प्रथमध्यानभूमिकं अब्धातुं संबध्नाति. स च द्वितीयध्यानभूमिकं सम्बध्नाति. स चाब्धातुस् त्रिभूमिको ऽपि स्वेनस्वेन भाजनेन सहान्तर्धीयते. एवं वायुसंवर्तन्यां सहजो वायुः संभवतीति वक्तव्यं. कथम् इति. पूर्ववद् उक्त्वा यावत् सहजो वायुधातुः संभवतीति. यस् तं भाजनलोकं कामावचरं यावत् तृतीयध्यानभूमिकं क्रमेण पांसुराशिम् इव (अभिध्-क्-व्य् 335) विकरति विध्वंसयति. यावत् तेनैव सार्धम् अन्तर्धीयते.
विवर्तकल्पं विस्तरेण वक्तुकाम आह. तथा हि सम्वृत्तो लोक इति विस्तरः. तथेति यथा वर्णितं. तदेति विस्तरः. [तिब्. 322अ] यदाकाशे मन्दमन्दा वायवः स्पन्दन्ते. तदा प्रभृति यद् अयं लोको विंशतिम् अन्तरकल्पान् संवृत्तो ऽस्थात्. तन् निर्यातं परिसमाप्तं वक्तव्यं. तद् उपयातं वक्तव्यम् इति. तद् आरब्धं वक्तव्यम् इत्य् अर्थः. यथोक्तक्रमविधानम् इति. यथोक्तेन क्रमेण विधानेन च सर्वं जायते. यथोक्तः क्रमो वायुमण्डलं अप्मण्डलम् ततः कांचनमयी पृथिवी ततः सुमेर्वादयश् चेति. यथोक्तं विधानं यस्य यद् विधानम् उक्तं आयामोद्वेधपरिणाहसंस्थानलक्षणं. तत् तथा सर्वं जायते. प्रथमं तु ब्राह्मम् इति विस्तरः. यत् पश्चात् संवर्तते. तत् पूर्वं विवर्तत इति स्थितिः. तेनाह. प्रथमं तु ब्राह्मं विमानम् उत्पद्यते. ततो यावद् यामीयम् इति. यावच्छब्देन ब्रह्मविमानानन्तरं परनिर्मितवशवर्तिविमानं तदनंतरं निर्माणरतिविमानं ततो ऽनन्तरं यावद् यामीयं विमानम् उत्पद्यते. ततो यामीयविमानोत्पत्त्यनन्तरं वायुमण्डलादीनीति. यद् उत भाजनविवर्तन्येति न सत्त्वविवर्तन्येति दर्शयति. शून्ये ब्राह्मे विमाने उत्पद्यत इति महाब्रह्मा. अन्ये ऽपि च सत्त्वा इति तद्परिवाराः. ततश् च्युत्वा ब्रह्मपुरोहितेष्व् इति. तत आभास्वरेभ्यः. तन् निर्यातं भवतीति. तद् विवर्तनं लोकस्य परिसमाप्तं भवतीत्य् अर्थः.
तद् उपयातं भवतीति. आरब्धं विवृत्तावस्थानम् इत्य् अर्थः. एकान्नविंशतिर् अन्तरकल्पा अपरिमितायुषाम् [तिब्. 322ब्] इति. एको ऽन्तरकल्पो ब्रह्मलोकविमानादिभाजननिर्वृत्त्यातिक्रान्त इति एकोनविंशतिर् अवशिष्टा अन्तरकल्पा अपरिमितायुषां मानुष्याणां अतिक्रामन्ति आ नरकसत्त्वप्रादुर्भावात्. सा च विवर्तमानावस्थातिक्रान्ता एवावगन्तव्या. प्रादुर्भूते नारके सत्त्वे विवृत्तावस्था प्रारब्धा. सेयम् उच्यते. अपरिमितायुषाम् एव ह्रसतां यावद् दशवर्षायुषाम् एको विवृत्तवस्थान्तरकल्पः. तेनाह. सो ऽसौ विवृत्तानां तिष्ठतां प्रहमान्तरकल्प इति. ततो ऽष्टादश
उत्कर्षा अपकर्षाश् च.
ततस् तु
उत्कर्ष एक
इति. विंशत्यन्तरकल्पपरिमाणा विवृत्तवस्थावगन्तव्या.
पंचस्कंधस्वभावः कल्पः
त एवाध्वा कथावस्त्व्
इति. मुक्तकम् इति. न चतुरागमान्तर्गतम् इत्य् अर्थः. अष्ट्कं मध्याद् (अभिध्-क्-व्य् 336) विस्मृतम् इति. अष्टौ स्थानानि क्वापि प्रदेशे प्रमुषितत्वात् न पठितानि. तेनात्र द्वापंचाशात् स्थानानि भवंति. षष्ट्या च संख्यास्थानैर् भवितव्यं. तान्य् अष्टकानि स्वयं कानिचिन् नामानि कृत्वा पठितव्यानि. येन षष्टिसंख्यास्थानानि परिपूर्णानि भवेयुः. असंख्या इति. असंख्येयाः. संख्यानेनासंख्येयाः असंख्या इति. बहुवचननिर्देशाद् अनुक्ता अपि तद्धिता भवंति. यद्य् एवं
तदसंख्यत्रयोद्भवम्
इति कथम् उक्तं. नैष दोषः. नास्ति संख्यापरेणैष्व् इति असंख्याः असंख्येयाः कल्पाः. असंख्याश् चासंख्याश् च असंख्याश् चेति असंख्याः. तेषां त्रयं. तेषां कल्पानां असंख्यत्रयोद्भवतीति
तदसंख्यत्रयोद्भवं
बुद्धत्वम्
इति एवं तद् व्याख्यातव्यं.
तस्याभिमतत्वाद् इति. तस्य परार्थस्याभिमतत्वात्. यो ह्य् अभिमतः. स स्वार्थो दृष्ट इति. [तिब्. 323अ] तद्धेतोर् इति. आत्मस्नेहहेतोः. आत्मस्नेहं तेभ्य इति विस्तरः. आत्मस्नेहं तेभ्यः स्वासांतानिकेभ्यः संस्कारेभ्यो निवर्त्य अपेक्षां करुणालक्षणां वर्धयित्वा तद्धेतोर् अपेक्षाहेतोर् दुःखान्य् उद्वहन्तीति संभाव्यं प्रतिपत्तव्यं.
मध्यो दुःखनिवृत्तिम् एवेति.
प्रत्येकबुद्धः श्रावको दुःखनिवृत्तिम् एव मोक्षम् एव प्रार्थयते.
न सुखं.
सांसारिकं. कुतः.
दुःखास्पदं तद् यतः.
यस्मात् तत् सांसारिकं सुखं दुःखस्थानं भवति.
श्रेष्टो
बोधिसत्त्वः
स्वसंततिगतैर् दुःखैः परेषां सुखम्
आभ्युदयिकं.
दुःखात्यन्तनिवृत्तिम् एव च
निःश्रेयसस्वभावां परेषां प्रार्थयते. अथ वा
परेषां सुखम्
आभ्युदयिकनैःश्रेयसिकं प्रार्थयते.
दुःखात्यन्तनिवृत्तिम् एव च
बुद्धलक्षणाम् आत्मीयां परहितक्रियोपायभूतां प्रार्थयते. कस्माद् इत्य् आह.
यतस् तद्दुःखदुःख्य् एव स
इति. यस्मात् परदुःखैः. स बोधिसत्त्वो दुःखी भवति. अत एव सुखं द्विप्रकारं प्रार्थयत इति.
(iii.93) अपकर्षस्याधस्ताद् इति विस्तरः. वर्षशतस्याधस्तात् पंच कषाया अभ्युत्सदा भवन्ति. अभ्यधिको भवन्तीत्य् अर्थः. वर्षशते ऽप्य् उत्सदा न त्व् अभ्युत्सदा यथाधस्तात्. आयुःकषाय इति. किट्टभूतं प्रत्यवरं कषायः. आयुर् एव कषाय आयुःकषायः. एवं कल्पकषायादयः. यथाक्रमम् इति. जीवितविपत्तिर् आयुःकषायेण. उपकरणविपत्तिः कल्पकषायेण. धान्यपुष्पफलौषधादीन्य् उपकरणानि अल्परसवीर्यविपाकप्रभावानि. हि तानि भवंति. नैव वा भवंति. द्वाभ्यां कुशलपक्षविपत्तिर् [तिब्. 323ब्] इति. क्लेशकषायेण दृष्टिकषायेण च कुशलपक्षस्य विपत्तिः. कथम् इत्य् आह. कामसुखल्लिकात्मक्लमथानुयोगाधिकाराद् इति. कामसुखम् एव कामसुखल्लिका. कामसुखलीनतेति वा कामतृष्णा वा कामसुखल्लिका यया कामसुखे सज्यते. आत्मक्लमथ आत्मोपतापः आत्मपीडेत्य् अर्थः. कामसुखल्लिकात्मक्लमथयोर् अनुयोगो ऽनुसेवनं. तस्याधिकारः. तस्मात्. तद् उक्तं. कामसुखल्लिकानुयोगम् आत्मक्लमथानुयोगं वाधिकृत्यारभ्य क्लेशदृष्टिकषायाभ्यां कुशलपक्षविपत्तिर् भवतीति. एवं तावद् अविशेषेण. गृहिप्रव्रजितपक्षयोर् वा. गृहिपक्षस्य क्लेशकषायेण कुशलपक्षविपत्तिः. प्रव्रजितपक्षस्य दृष्टिकषायेण. यथाक्रमं कामप्रधाना गृहिणः दृष्टिप्रधानाः प्रव्रजिता इति. एकेनेति सत्त्वकषायेण.
द्विविधा हि प्रत्येकबुद्धा इति. यस्माद् वर्गचारिणो ऽपि प्रत्येकबुद्धाः श्रावकपूर्विणो भवंति. न केवलं खड्गविषाणकल्पाः. तस्माद् उत्कर्षे ऽपि तेषाम् उत्पत्तिर् न विरुध्यते. ये हि उत्पादितस्रोतआपत्तिफलसकृदागामिफलाः अंतर्हिते बुद्धशासने स्वयम् अर्हत्त्वम् अधिगच्छंति. ते वर्गचारिणः. ते च पूर्वबुद्धोत्पादकाल एव प्राकृतसम्वेगत्वान् न पुनः सम्वेजनीया इति. तदीर्यापथसंदर्शनाद् इति. प्रत्येकबुद्धेर्यापथसंदर्शनात् पर्यंकबन्धसमाधिरूपसंदर्शनात्. न चार्यास् सन्तः कष्टानि तपांसि तप्येरन्न् [तिब्. 324अ] इति. सत्यदर्शनकाल एव शीलव्रतपरामर्शदृष्टेः प्रहीणत्वात्. शीलव्रतपरामर्शपूर्वकत्वाच् च कष्टतपःक्रियायाः. खड्गविषाणकल्पा इति. यथा खड्गविषाणा अद्वितीया भवंति. एवं ते गृहस्थप्रव्रजितैः अन्यैश् च प्रत्येकबुद्धैर् असंसृष्टविहारिण इति. खड्गविषाणकल्पा इत्य् उच्यन्ते.
कल्पशतान्वय
इति. कल्पशतकृतबोधिहेतुर् इत्य् अर्थः. अत एव व्याचष्टे. महाकल्पानां (अभिध्-क्-व्य् 338) शतं बोधिसंभारेषु शीलसमाधिप्रज्ञालक्षणेषु चरितः कृतप्रयोग इति. शक्यं च तैर् इति विस्तरः. अथापि ते प्रतिसंवित्प्राप्ता न भवेयुः. तथापि तैः प्रणिधिज्ञानेन पूर्वबुद्धानाम् अनुशासनम् अनुस्मृत्य धर्मो देशयितुं शक्यते. ऋद्धेर् आविःकरणाद् इति. आकाशगमनादिकायाः सत्त्वानुग्रहार्थं प्रकाशनात्. नापि सत्त्वानाम् अभव्यत्वात्. धर्मं न देशयन्तीति वाक्यशेषः. कस्माद् इत्य् आह. तथा हीति विस्तरः. यस्माद् धि लौकिकवीतरागास् तदानीं संविद्यंते. तस्माल् लोकोत्तरवीतरागा अपि संभवेयुर् इत्य् अभिप्रायः. यद्य् एते न हेतवो धर्मदेशनाया अकरणे. कस् तर्हि हेतुर् इत्य् आह. किं तर्हीति विस्तरः. पूर्वाभ्यासवशेन असंसर्गाभ्यासवशेनाल्पोत्सुखताधिमुक्तत्वात्. तत्कृतरुचित्वाद् इत्य् अर्थः. गणपरिकर्षणप्रसंगपरिहारार्थं च नोत्सहन्ते गंभीरधर्मग्रहणाय परेषां व्यापर्तुं. तथा व्यापारे हि सति गणः परिक्रष्टव्यः स्यात्. गणपरिकर्षणप्रसंगं पुनः [तिब्. 324ब्] कस्मात् परिहरन्ति. व्याक्षेपसंसर्गभीरुत्वात्. व्याक्षेपसंसर्गाभ्यां भीरुत्वात्. व्याक्षेपो ऽभिप्रेतसमाध्यादिकर्मण्य् अप्रवृत्तिः. संसर्गो ऽन्यसंपर्कः. व्याक्षेपसंसर्गभीरुत्वं पुनः पूर्वाभ्यासवशात्.
(iii.94, 95) एष प्राज्ञप्तिक इति प्रज्ञप्तिशास्त्रनिर्देशः. चतुर्विधास् चक्रवर्तिन इति. सूत्रे तु सुवर्णचक्रवर्त्य् एवोक्तः प्राधान्यात्. अस्थानं वर्तमानकालापेक्षया. अनवकाशः अनागतापेक्षया. अनागते ऽप्य् अध्वनि संभवात् युगपद् द्वयोर् इति. अपूर्वाचरमाव् इति.नैकः पूर्वो नापरः पश्चात्. किं तर्हि. सहेत्य् अर्थः. समसम इति वीप्सा. अथ वा समैः सर्वसत्त्वेषु बुद्धैर् भगवद्भिः सम इति समसमः. तावतो ऽनभिसंस्कारेणेति. तावतो लोकधातोर् अनाभोगेन दर्शनात्. निकायान्तरीया इति महासांघिकप्रभृतयः. न चैकत्रेति लोकधातौ. पुरुषायुषम् इति. पुरुषस्यायुः पुरुषायुषं. तद् बिभ्रतेति वर्तते. इदम् इन्द्रियम् इति श्रद्धादि. अस्यांगस्येति. अस्य प्रत्ययस्य. किम् इदम् एकं लोकधातुम् अधिकृत्येति. एकचातुर्द्वीपकं त्रिसाहस्रमहासाहस्रं वा लोकधातुम् अधिकृत्यैतद् उक्तम् इत्य् अभिप्रायः. चक्रवर्तिनो ऽपि चेति विस्तरः. अस्थानम् अनवकाशो यद् अपूर्वचरमौ द्वौ तथागतौ लोक उत्पद्येयाताम् इति नानेन वचनेन लोकधात्वन्तरोत्पादप्रतिषेधः. तथागतानां तथोक्तत्वात्. [तिब्. 325अ] तद्यथा चक्रवर्तिनां. चक्रवर्तिनो ऽपि हि तथोक्ताः. अस्थानम् अनवकाशो यद् अपूर्वचरमौ द्वौ चक्रवर्तिनौ लोक उत्पद्येयाताम् इति. जनाः प्राकृतमनुष्याः. मनुष्याश् तु मतिमन्तः. शस्त्राण्य् आवहन्ति उत्क्षिपन्ति. गृहपतिरत्नं कोशाध्यक्षजातीयः. परिणायकरत्नं बलाध्यक्षजातीयः. तद्सम्बन्धजातीयम् इति. तेन (अभिध्-क्-व्य् 339) चक्रवर्तिना सम्बद्धः. तत्संबद्धस्य तत्संबन्धेन वा सम्वर्तनं तस्मै हितं तदनुकूलं तत्सम्बद्धसम्वर्तनीयम् इति. येन सत्त्वेन कर्मोपचितं. तस्मिन्न् उत्पन्ने चक्रवर्तिनि. स्वान्य् एवैनं सत्त्वं कर्माण्य् उत्पादयन्ति. न तु सत्त्वश् चक्रवर्तिकुशलविपाकोत्पत्तिप्रत्ययभावम् आपद्यते. स च कुशलविपाकश् चक्रवर्तिन एवेत्य् अवगन्तव्यं. देशस्थतराणीति अभ्रष्टस्थानानि. उत्तप्ततराणि प्रभास्वराणि. संपूर्णतराणि अखण्डरूपाणि. चक्रवर्तिराजप्रस्तावेनेदं विचार्यते.
(iii.96) किं खलु यावत् सराजका इति. रूपावचरा इवासन्न् इत्य् अस्यार्थस्य प्रतिपादनाय सूत्रम् आनयति. सूत्र उक्तम् इति विस्तरः. दृश्यरूपत्वाद् रूपिणः. उपपादुकत्वान् मनोमयाः. हस्तपादतदंगुल्याद्युपेतत्वात् सर्वंगप्रत्यंयोपेतः. समग्रेन्द्रियत्वात् अविकलाः. काणविब्रान्ताद्यभावाद् अहीनेन्द्रियाः. दर्शनीयसंस्थानत्वात् शुभाः. रमणीयवर्णत्वात् वर्णस्थायिनः. आदित्यादिप्रभानपेक्षत्वात् स्वयंप्रभाः. कर्मर्द्धिसंयोगेनाकाशचरत्वात् विहायसंगमाः. कवडीकाराहारानपेक्षत्वात् [तिब्. 325ब्] प्रीतिभक्षाः. प्रीत्याहारा इति पर्यायौ. तथा दीघायुषो दीर्घम् अध्वानं तिष्ठन्तीति. मधुस्वादुरस इति. मधुन इव स्वादुरसो ऽस्य रस इति. अयोनिशोमनस्कारस्य ग्राहभूतस्य ग्रासतां गतानां सत्त्वानां काम एव ग्रहः. तेनावेशस् तस्यारंभ इति. सायमाशार्थम् इति. अपरह्णभोजनार्थं. प्रातराशार्थम् इति. प्रातर्भोजनार्थम्. संनिधिकारः संग्रहः. क्षेत्राणि विभज्य अकृष्टोप्तेन शालिना तद्वृत्तिकल्पनात्. क्षत्रियादिसंज्ञानां नैरुक्तेन विधिना सिद्धिः.
(iii.97) निर्याणम्
इति परिसमाप्तिः. अधर्मरागरक्ता इति. काममिथ्याचाररागाध्यवसिताः. विषमलोभाभिभूता इति. विषमलोभः परकीयस्वीकरणेच्छा चौर्याद् बलाद् वा. तेनाभिभूताः. मिथ्याधर्मपरीता इति विपरीतधर्मपरिदीपकाः. अमातृज्ञा अपितृज्ञा इति विस्तरः. पुनः कल्पस्य निर्याणकाल इति. कल्पस्य निर्याणानि त्रीण्य् उच्यन्ते. शस्त्ररोगदुर्भिक्षाणि. किम् एकस्य दशवर्षायुःकल्पस्य त्रीणि निर्याणानि क्रमेण भवंति. आहोस्विद् एकैकस्य एकैकं क्रमेणेति. एक तावद् आहुः. एकैकम् इति. अपरे पुनर् आहुः. एकस्य क्रमेण त्रीणि भवंति. पूर्वं दुर्भिक्षं तदनन्तरो रोगः तदनंतरं शस्त्रम् इति. पूर्वकस् तु पक्ष इष्ट इति पश्यामः. तैर् एव दोषैर् इति अधर्मादिरागादिभिः. अमनुष्याः पिशाचादय ईतिं व्याध्यादिकाम् उत्सृजंति. ओजो वा हरंति. प्रभावतो वा पुष्पफलौषधिप्रभृतीनां महाभूतानि दूषयंति. [तिब्. 326अ] यतस् तेषाम् असाध्या व्याधयः प्रादुर्भवन्ति. यतो म्रियन्ते. तदा चेति विस्तरः. यदेह. जम्बूद्वीपे (अभिध्-क्-व्य् 340) शस्त्रकः प्राणातिपातः. तदा द्वयोर् द्वीपयोः पूर्वविदेहावरगोदानीययोर् व्यापाद उद्रेकप्राप्तो भवति. यदेह रोगः. तदा तयोर् दौर्बल्यं. यदेह दुर्भिक्षं. तदा तयोर् जिघत्सापिपासे.
(iii.98, 99) तीर्थकाराः. कणभुक्प्रभृतयः. वायुर् बीजम् उक्तम् इति. बहुविधप्रभावभिन्नैर् वायुभिर् अभिमथ्यमाना इति वचनात्. तस्य निमित्तम् इति. रूपावचरो वायुर् अविनष्टः कामावचरस्य विवर्तकाले प्रथमक्षणोत्पन्नस्य वायोर् निमित्तं. बीजान्य् आह्रियंते इति. पंच बीजजातानि मूलबीजादीनि. मूलबीजं फलुबीजं बीजबीजं अग्रबीजं स्कंधबीजं. एवम् अपीति. यद्य् अप्य् आह्रियन्ते बीजानि न ते स्थूलभावानां बीजादिभ्यो बीजांकुरगण्डादिभ्यो ऽंकुरादीनाम् अंकुरकाण्डादीनाम् उत्पत्तिम् इच्छन्ति. बीजादीनि हि तेषां निमित्तकारणानि न समवायिकारणानि. समवायिकारणैश् च भवितव्यं. अत आह. किं तर्हि. स्वेभ्य एवावयवेभ्य इति विस्तरः. तद्यथांकुराद्यवयवी अंकुराद्यवयवेभ्यः. तेषाम् अपि अंकुराद्यवयवानां स्वेभ्य एवावयवेभ्यः. तेषाम् अपि स्वेभ्य एवेति एवं यावत् परमाणुभ्यः. अन्यत्र परमाणूपसर्पणाद् इति. न जनने बीजादीनां सामर्थ्यं किंचिद् अस्ति. अंकुरादिपरमाणूपसर्पणात् तु तेषां सामर्थ्यम् इष्यत इत्य् अभिप्रायः. अनियमो [तिब्. 326ब्] हि स्याद् इति. तन्त्वादिभ्यो ऽपि कटाद्युत्पत्तिः स्याद् इत्य् अर्थः. शक्तिनियमाद् इति. यथा बीजादीनां सामर्थ्यनियमान् न अनियमो भविष्यति. शब्दपाकजोत्पत्तिवत्. यथा शब्दो ऽभिघातादिभ्यो विजातीयेभ्य उत्पद्यते. अथ च न यतः कुतश्चिद् गन्धरसादेर् विजातीयाद् उत्पद्यते. अभिघातादीनाम् एव विजातीयानां तदुत्पादने सामर्थ्यात्. तथा पाकजा रूपादयो विजातीयाद् अग्न्यादेर् उत्पद्यंते. अथ च न यतः कुतश्चिद् विजातीयाच् चक्षुरादेर् उत्पद्यंते. अग्न्यादेर् एव तदुत्पादने सामर्थ्यात्. वैशेषिक आह. चित्रो वै गुणधर्मः स्वजातीयेभ्यो विजातीयेभ्यश्
चोत्पद्यते. स्वजातीयेभ्यस् तावत्. रूपरसगन्धस्पर्शादयः कारणपूर्वाः रूपरसगन्धस्पर्शादिभ्य एवोत्पद्यंते. विजातीयेभ्यो ऽपि संयोगविभागपाकजादयः कर्मादिभ्यः. तद् एवं गुणधर्मो द्रव्यधर्मं प्रति अनुदाहरणं. त एव हि ते तथेति विस्तरः. वीरणादय एव हि ते तथा तेन प्रकारेण कटादिरूपेण संनिविष्टा व्यवस्थिताः. तां कटसंज्ञां लभन्ते. पिपीलिकादिपंक्तिवत्. यथा पिपीलिकाः. तथा संनिविष्टाः पंक्तिर् इति संज्ञां लभन्ते. न च ताभ्यो ऽन्यत् पंक्तिद्रव्यम् अस्ति भवताम् अपि सिद्धान्ते. कथं गम्यते तानि वीरणादीनि तथासंनिविष्टानि कटादिसंज्ञां लभन्ते. न पुनस् तेभ्यो द्रव्यान्तराणीति. अत आह. एकतन्तुसंयोगे पटस्यानुपलंभात्. आरब्धकार्ये ह्य् एकस्मिं तंतौ चक्षुःसंस्पर्शाभ्यां (अभिध्-क्-व्य् 341) [तिब्. 327अ] संयुक्ते भवन्मतेन पटो ऽपि च ताभ्यां संनिकृष्ट इति असाव् अपि तथैवोपलभ्येत. यदि ब्रूयात्. प्रतिबन्धात् तस्यानुपलब्धिर् इति. अत आह. को हि तदा सतो विद्यमानस्य पटस्योपलब्धौ प्रतिबन्ध इति. नास्ति प्रतिबन्ध इत्य् अभिप्रायः. तस्मान् न पटो नाम द्रव्यान्तरम् अस्तीति. स्यान् मतं. एकैकस्मिन् तन्तौ प्रदेशेन पटो वर्तते न सर्वात्मना वर्तत इति. अत उच्यते. अकृत्स्नवृत्तव् इति विस्तरः. अकृत्स्नवृत्तौ पटस्य कल्पमानायां पटभागो ऽत्रैकैकस्मिन् तन्तौ स्यान् न पटस् ततः. किम् इति चेत्. अत आह. समूहमात्रं च पटः स्याद् इति वर्तते. एकस्मिन् तन्ताव् एको भागो अपरस्मिन्न् अपर इति तन्तुवर्तिनां बहूनां भागानां समुदायः पट इति च प्राप्नोति. न चेष्यते. कश् च तन्तुभ्यो ऽन्यः पटभाग इति. कणभुग्भक्ताः प्रष्टव्याः येन भागेनायम्
इन्द्रियसंनिकृष्टे तन्तौ वर्तेत. तस्माद् एताम् अपि कल्पनां कल्पयित्वा नातो ऽन्यः पटः सिध्यति. स्यान् मतम्. एकैकस्मिन्न् अपि तन्तौ पटो वर्तते. पटोपलब्धेस् तु पटेन्द्रियसंनिकर्षः. पटस्यानेकाश्रयसंयोगापेक्षो निमित्तम् इति. अतो ऽनेकाश्रयसंयोगापेक्षायाम् उपलब्धौ कल्प्यमानायां दशामात्रसंघाते गृह्यमाणे पट उपलभ्येत. न तूपलभ्यते. पटमध्यभागाद्यदर्शनात्. अथ मतं. नैव तदानीम् अपीन्द्रियेण मध्यादिभागाः संप्रयुज्यन्त इति. अतो दशामात्रसंहाते पटोपलब्धिर् न भवतीति. तत इदम् अभिधीयते. न वा कदाचिद् इति विस्तरः. न वा कदाचित् पटोपलब्धिः स्यात्. मध्यपरभागानाम् इन्द्रियेणासंनिकर्षात्. [तिब्. 327ब्] नैव हि संभवो ऽस्ति यत् तदारंभकाः मध्यपरभागाः सर्व एवेन्द्रियेण संनिकृष्येरन्. तथा च सति तन्त्वादिष्व् अप्य् एष प्रसंग इति न च किंचिद् अपि कार्यम् उपलभ्येत. किं च क्रमसंनिकर्षे चेति विस्तरः. यदा क्रमेण चक्षुः संस्पर्शनेन्द्रियं वा पटं गृह्णीयात्. तदा पटग्रहणं न स्यात्. युगपद् अनेकाश्र्यसंयोगभावाच् चक्षुःस्पर्शनेन्द्रिययोः. एवम् अन्येषाम् अपि अवयवानां ग्रहणं न स्यात्. तस्माद् इति विस्तरः. यस्मात् क्रमेण पटबुद्धिः कटबुद्धिर् वा. तस्माद् अवयवेष्व् एव पटावयवेषु कटावयवेषु वा तद्बुद्धिः पटबुद्धिः कटबुद्धिर् वा विकल्पवशाद् भवति. अलातचक्रवत्. यथालाते शीघ्रसंचारात् तत्रतत्रोत्पद्यमाने अलातचक्रबुद्धिर् भवति. तद्वत्. साधनं चात्र. न द्रव्यसत् पटः. अवयवग्रहणसॄआपेक्षग्रहणत्वात्. अलातचक्रवत्. भिन्नरूपजातिक्रियास्व् इति विस्तरः. भिन्नरूपेषु तन्तुषु नीलपीतादिभेदात्. भिन्नजातिषु
दुकूलकर्पासादिभेदात्. भिन्नक्रियेषूर्ध्वधोगमभेदात्. पटस्य रूपाद्यसंभवात्. कीदृशं तत्र रूपं भवतु (अभिध्-क्-व्य् 342) जातिः क्रिया वा. स्याद् एषा बुद्धिः चित्रम् अस्य रूपादीति. तद् एवं चित्ररूपादित्वे कल्प्यमाने विजातीयारंभो ऽपि स्यात्. तन्तुवीरणयोर् अपि कटारंभः स्यात्. तथा सति धर्मविशेषविपर्ययः प्राप्नोति. अत्यन्तविजातीयारंभकत्वं द्रव्याणां [तिब्. 328अ] प्राप्नोतीत्य् अर्थः. अविचित्रे च पार्श्वान्तरे एकपार्श्वविचित्रस्य पटस्यादर्शनं स्यात्. तस्य चित्ररूपाभिमतत्वात्. रूपदर्शने हि तदाश्रयद्रव्योपलब्धिर् इष्यते वैशेषिकैः. महत्य् अनेकद्रव्यवत्त्वाद् रूपाच् चोपलब्धिः. रूपसंस्काराभावात् वायोर् अनुपलब्धिर् इति वचनात्. चित्त्ररूपदर्शनं वा अचित्रे पार्श्वे स्यात् यदि पटो दृश्येत. चित्रं हि तस्य रूपम् इष्यते. क्रियापि चित्रेत्य् अतिचित्रम् इति. एकं तद् द्रव्यं विचित्रक्रियम् इति न युज्यते. क्रियावैचित्र्ये हि क्रियावद् अभिमतानां द्रव्याणाम् अन्यत्वम् इष्यते.
तापप्रकाशभेदे चेति विस्तरः. अग्निप्रभालक्षणस्य अवयविन आदिमध्यान्तेषु आरंभकेषु तापप्रकाशभेदे स्पर्शनभेदो दृष्टः. स च तद्भेदस् तत्र यथाक्रमं तीव्रमध्यमन्दता. तस्यावयविनः प्रभाद्रव्यस्य तौ रूपस्पर्शौ नोपपद्येते. न ह्य् एकस्यावयविन अनेकं रूपं स्पर्शो वा युज्यते. तेन नावयवेभ्यो ऽवयवि द्रव्यम् अन्यद् अस्तीति. अथ मतं. यदि तन्त्वादिभ्यो ऽवयवेभ्यो न पटाद्यवयवी व्यतिरिक्तो ऽस्ति. परमाणूनाम् अतीन्द्रियत्वात्. न च तैर् अवयवैः ऐन्द्रियक आरब्ध इति. कृत्स्नं जगद् अप्रत्यक्षं स्यात्. प्रत्यक्षं च गवादि दृश्यते. तस्माद् अतीन्द्रियैः परमाणुभिर् अर्थान्तरम् अन्यद् ऐन्द्रियकम् आरब्धम् इति सिद्धम् इत्य् अत्रोच्यते. परमाण्वतीन्द्रियत्वे ऽपीति [तिब्. 328ब्] विस्तरः. यथा भवतां वैशेषिकाणाम् अतीन्द्रियत्वे ऽपि समस्तानां कार्यारंभकत्वं न व्यस्तानाम्. एवम् अस्माकम् अपि समस्तानाम् एव प्रत्यक्षत्वं न व्यस्तानां असत्य् अप्य् अवयविनि अर्थान्तरभूते. यथा चक्षुरादीनां चक्षूरूपालोकमनस्काराणां समस्तानां चक्षुर्विज्ञानोत्पत्तौ कारणत्वं नैकैकस्य. एवं परमाणूनाम् अतीन्द्रियत्वे ऽपि समस्तानां प्रत्यक्षत्वं नैकैकस्य. तैमिरिकाणां च पुरुषाणां विकीर्णानाम् असंयुक्तानां केशानां समूह उपलभ्यते अनारब्धे ऽप्य् अवयविनि. न त्व् एकैकः केशः. तेषां तैमिरिकाणां परमाणुवद् एकः केशो ऽतीन्द्रियः. इत्य् अतो नास्ति ते ऽन्यद् द्रव्यं.
तद् एवम् अवयविनं प्रतिषिध्य रूपादिभ्यो गुंएभ्यः अर्थान्तरं गुणिनां प्रतिषेद्धुकाम आह. रूपादिष्व् एव चेति विस्तरः. रूपादिष्व् एव परमाणुर् इति संज्ञाविनिवेशः. तद्विनाशे रूपादिविनाशे सिद्धः परमाणुविनाश इति. वैशेषिका आहुः. द्रव्यं हि परमाणुः. अन्यच् च रूपादिभ्यो द्रव्यं. रूपगन्धरसस्पर्शवती पृथिवी इत्य् एवमादिसिद्धान्तवचनात्. अप्रयुक्तम् (अभिध्-क्-व्य् 343) अस्यान्यत्वं यस्मान् न केनचित् परिच्छिद्यन्ते इमानि पृथिव्यप्तेजांसि. इमे एषां पृथिव्यादीनां रूपादयो रूपरसगन्धस्पर्शा गुणा इति. ब्रूयात् अतीन्द्रियाणि तान्य् अतो न निर्धार्यन्त [तिब्. 329अ] इत्य् अत आह. चक्षुःस्पर्शनग्राह्याणि च तानि पृथ्य्व्यादीनि प्रतिज्ञायन्त इति. दग्धेषु चेति विष्तरः. ऊर्णादीन्य् अवयविद्रव्याणि न दह्यन्त इति पैलुकाः. तद् उक्तं भवति. प्राक्तनगुणनिवृत्तौ पाकजगुणोत्पत्तौ तदाश्रयास् तु द्रव्याणि तदवस्थानान्य् एव भवन्तीति. तथैवोर्णादिबुद्धिः स्यात्. न च भवति. तस्मात् तद्द्रव्यबुद्ध्यभावात्. रूपादिष्व् एव तद्भुद्धिर् न द्रव्ये अर्थान्तरभूत इति. यदि हि ऊर्णादिद्रव्यं रूपादिभ्यो ऽन्यत् स्यात् तत् तदवस्थानं भवतीति रूपादीन्य् एवाग्निसंबन्धाद् उष्णेन निरुद्धानीत्य् ऊर्णादिबुद्धिः स्यात्. न च भवति. तस्माद् रूपादिष्व् एवोर्णादिबुद्धिः. वैशेषिका आहुः. यदि रूपादिमात्रं घटः स्याद् अग्निसंबन्धाद् रूपादीनि पाकजादीन्य् अन्यान्य् उत्पद्यन्त इति स एवायं घट इति न परिज्ञायेत. यस्य तु पाकाद् रूपादीन्य् एवोत्पद्यन्ते निरुध्यन्ते चेति स एव घटस् तदवस्थानो भवतीति तस्य तत्परिज्ञानं युज्यत इत्य् अत इदम् उच्यते. पाकजोत्पत्तौ घटपरिज्ञानं. संस्थानसामान्याद् इति. रूपाद्याकृतिसामान्याद् इत्य् अर्थः. पंक्तिवत्. यथा न वस् तत् पिपीलिकानां तद्व्यतिरिक्तं पंक्तिद्रव्यं नामास्ति. अथ च पूर्वपंक्तिसंस्थानसामान्याद् अन्यस्याम् इति तत्परिज्ञानं भवति. सैवेयं पिपीलिकानां पंक्तिर् इति. [तिब्. 329ब्] आह. कथम् एतद् गम्यते. संस्थानसामान्यात् परिज्ञानं न तु तादवस्थ्याद् इति. अत्रोच्यते. चिह्नम् अपश्यतो ऽपरिज्ञानाद् इति. यस्मात् खण्डनिम्नोन्नतादिचिह्नम् अपश्यतस् तत्परिज्ञानं न भवति. अतः संस्थानसामान्याद् इति सिद्धं.
सा चेति विस्तरः. सा च प्रीतिः प्रस्रब्धियोगेन. प्रीतेर् मनसः प्रस्रब्धिर् जायत. इति प्रस्रब्धियोगेनाश्रयमृदुकरणात् अप्कल्पा. अत एव चेति विस्तरः. आश्रयमृदुकरणात्. तस्मिन् द्वितीये समापत्तिध्याने कृत्स्नस्य कायस्थैर्यस्यापगमात्. दुःखेन्द्रियनिरोध उक्तः. सुखस्य च प्रहाणात्. दुःखस्य च प्रहाणात्. पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य (अभिध्-क्-व्य् 344) विहरतीति वचनात्. आध्यात्मिकापक्षालरहितत्वाद् इति. ये वितर्कविचारादयो ऽष्टाव् आध्यात्मिकापक्षालाः. वितर्कविचारौ चासू च सुखादि च चतुष्टयम् इति. तद्रहितत्वाद् इत्य् अर्थः. आनेज्यम् इति. एजृ कम्पन इत्य् अस्य धातोर् एतद् रूपम् आनेज्यम् इति. यदा त्व् आनिंज्यम् इति पाठः. तदा इगेः प्रकृत्यन्तरस्यैतद् रूपम् द्रष्टव्यं. न तैः शुद्धावासकायिकैः शक्यम् आरूप्यान् प्रवेष्टुं. विपश्यनाचरितत्वात्. शमथचरिताश् चारूप्याः. नाप्य् अन्यत्र गन्तुम् अधरां भूमिं. विशेषगामित्वात्. एतेन क्रमेणेति. यथोक्तेन सप्तानां तेजःसंवर्तनीनां अनन्तरम् अद्भिः संवर्तनी भवत्य् एका. पुनः सप्तानां तेजःसंवर्तनीनाम् अनंतरम् अद्भिः [तिब्. 330अ] संवर्तनी भवति द्वितीया. एवं यावत् सप्तम्य् अद्भिः संवर्तनी.
एवं गते ऽद्भिः सप्तके पुनः तेजसा सप्तकः.
ततः पश्चाद् एका वायुसंवर्तनी भवति. किंकारणं यथावर्णितं बहुना कालप्रकर्षणेनाप्संवर्तनी भवति. ततो ऽपि बहुतरेण वायुसंवर्तनीत्य् अत इदम् उच्यते. यथैव हि तेषाम् इति विस्तरः. यथा प्रथमध्यानात् द्वितीयध्यानसमापत्तिविशेषात् आत्मभावानां द्वितीयध्यानभूमिकानां स्थितिविशेषः. अर्धमहाकल्पार्धं प्रथमध्यानोपपन्नानाम् आयुःप्रमाणं. कल्पद्वयं द्वितीयध्यानोपपन्नानाम् इति. तथा भाजनानाम् अपि. किं. स्थितिविशेष इति. एवं द्वितीयाद् अपि तृतीयध्यानस्य विशेषो वक्तव्यः. एवं च कृत्वेति. यस्माद् अष्टकृत्वस् तेजःसंवर्तनीसप्तका इति षट्पंचाशत् तेजःसंवर्तन्यो भवन्ति सप्ताप्संवर्तन्यः एका वायुसंवर्तनीति चतुःषष्टिसंवर्तन्यो भवन्ति. तस्माद् यद् उक्तं प्रज्ञप्तिभाष्ये चतुःषष्टिः कल्पाः शुभकृत्स्नानाम् आयुह्प्रमाणम् इति. तत् सूक्तं भवति. यथा
ऊर्ध्वं तु परीत्ताभेध्यः आश्रयः द्विगुणद्विगुणः
इत्य् अत्रोक्तं शुभकृत्स्नानां चतुःषष्टियोजनानां शरीरप्रमाणं. शरीरप्रमाणेन च तेषाम् आयुःप्रमाणम् उक्तं.
आयुस् तु कल्पैः स्वाश्रयं
इति वचनात्. एकैका संवर्तनी महाकल्प इति कृत्वा. इयता हि कालेन तेषाम् आयुषह् परिसमाप्तिर् इति.
आचार्ययशोमित्रकृतायां स्फुटर्थायाम् अभिधर्मकोशे व्याख्यायां तृतीयं कोशस्थानं. 3.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
